[[Mohan K.V 2014-11-09, 22:05:53 Source]]
Sadāsvāda
७०
**
**
“Both expressed their opinion that a more independent, a more enlightened, a more public-spirited, a more noble-minded, a more disinterested set of men than those who had promised to vote for him, never existed on earth.”
**
**
अर्थः
**
**
“उभाव् अपि स्व-संकल्पौ निवेदयाम्-आसतुः यद् आत्मावल्म्बने वा, प्रबुद्धत्वे वा, लोक-कल्याण-निरतत्वे वा, उदात्त-मनःसञ्चारणे वा, स्थित-प्रज्ञत्वे वा स्व-पक्ष-जनान् लेशम् अपि अतिक्रान्तवन्तः को ऽपि त्रिभुवनेषु वेधसा ऽपि न मृग्य इति ।”
**
**
अहह कोऽयं महाकविर् यो निरुच्छ्वास-वाक्य-वैभवे अस्मद्-बाणभट्टं प्रतिवादयति? यश्च प्रकृत्या अज-गत्यां बहु-वेग-वत्याम् आङ्ग्ल-भाषायां देववाण्याः गजगामित्वम् अध्यारोपयति? के च अमी महापुरुषाः ?
**
**
महतीयं खलु कथा । यदि कौतुकम् आकर्ण्यताम् …
**
**
निगम-परिचयः
**
**
अध्यायो ऽयं आङ्ग्ल-गद्यकाव्य-सार्वभौमस्य Charles Dickens महोदयस्य Pickwick Papers नाम्न्यै हास्य-कथायै सादर-नमस्कारः । अस्मत्-कवि-गौरव-परिभाषायां Dickens-वर्यस्य नाम न केवलं महाकवित्वं परम् आर्ष-पट्टं जिगीषति । प्रायो द्वि-शत-वर्ष-पूर्वम् आङ्ग्ल-देशे Portsmouth नाम्न्यां नौका-निर्माण-प्रमुखायां नगर्यां जातो ऽयं बाल्ये एव बहु-कष्ट-कालान् अन्वभूत् । तथा ऽपि Factory-कार्मिकत्वे अवशं नियुक्तो ऽपि तस्य प्रतिभा-स्फुलिङ्गो किञ्चिदपि न कज्जलितः । एवं गच्छता कालेन स्व-ध्वनौ स्थैर्यम् आपन्ने स्व-मषिपथे च जित-जन-मनसि Dickens-वर्यः अदृष्ट-सूर्यास्तस्य आङ्ग्लदेशस्य अग्रगण्यो लेखक इति, सहस्र-मरीचि-मालिनस् तैक्ष्ण्येन तत् कालीन-समाजस्य रन्ध्रांश्च शिखराणि च स्वकथासु प्रतिभासमानो महतीं ख्यातिम् अवाप ।
**
**
Pickwick Papers इति हास्यकथा तस्य प्रथमेषु कृतिषु गण्यते । चत्वारिंशत्-वर्षीयो कविः “Pickwick” इति सुगृहीत-नामानं कंचित् श्रीमन्तं महाजनम् कल्पयित्वा, तस्य दैनन्दिन-व्यवहार-पत्त्रिकाः अधीयतश् छद्मना कथां निरूपयति । महा-प्रयाण-प्रियः Pickwick-वर्यः तत्-प्रिय-सहचराश्च आङ्ग्ल-देशस्य नैकेषु स्थलेषु विहरन्ति । सर्वेष्वपि तेषु स्थलेषु एका वान्या वा रस-संभृत-घटना संभवति । अध्याये ऽस्मिन् आङ्ल-देशस्यैव आत्म-लक्षण-भूतौ द्वौ विषयौ विराजेते – निर्वाचन-महोत्सवः, वार्ता-पत्त्रिका-विलासश्च । कोकिल-सङ्गीतके सिद्धे किम् अत्र अस्माकं काक-क्रन्दनं ? छन्दतो रमन्ताम् :-
**
**
“We will frankly acknowledge that, up to the period of our being first immersed in the voluminous papers of the Pickwick Club, we had never heard of Eatanswill.”
**
**
“सार्जवम् इदं प्रपद्यामहे यद् यावद् वयं Pickwick-सभायाः बृहद्-व्यवहार-पत्त्रिकासु न निमग्नास् तावत् Eatanswill नामापि न श्रुतवन्तः ।”
**
**
इत Eatanswill आङ्ग्लदेशे काऽपि अल्पविश्रुता ह्रस्वतरा पुरीति ज्ञायते । सुख-प्रयाण-प्रियाणां Pickwick-आनाम् विहारेषु कथञ्चिद् उपगता स्यात् । परं तस्याम् अपि लघु-नगर्याम्…
**
**
“It appears, then, that the Eatanswill people, like the people of many other small towns, considered themselves of the utmost and most mighty importance, and that every man in Eatanswill, conscious of the weight that attached to his example, felt himself bound to unite, heart and soul, with one of the two great parties that divided the town—the Blues and the Buffs.
**
**
“ज्ञायते च Eatanswill वासिन इतर-लघु-पुर-निवासिन इव स्वान् बहु मन्यन्ते स्म । ते सर्वे स्व-गौरव-विदः कायेन-वाचा-मनसा पक्ष-द्वयोर् एकस्मिन् न्यस्त-सर्वस्वा आसन् — Blue इत्येकः पक्षः, Buff इति चेतरः ।”
**
**
सर्वे तत्-पुरवासिनो लोक-लोचनानि तेषु एव रमन्ते इति दृढं अमन्यन्त, “यद्यदाचरति श्रेष्ठस् तत्तदेवेतरो जनः” इति स्मृति-वाक्यम् परिपालयन्तः इव ! अहो आश्चर्यं कूप-मण्डूकत्वस्य, यावत् लघुतरो कूपः तावन् महत्तरो मानः ! तत्कूपे निर्वाचन-मथनम् अपि यदि स्यात्, का वा कथा मान-महोत्स्वस्य!!
**
**
“Of course it was essentially and indispensably necessary that each of these powerful parties should have its chosen organ and representative: and, accordingly, there were two newspapers in the town–the Eatanswill GAZETTE and the Eatanswill INDEPENDENT; the former advocating Blue principles, and the latter conducted on grounds decidedly Buff. Fine newspapers they were. Such leading articles, and such spirited attacks!–‘Our worthless contemporary, the GAZETTE’–‘That disgraceful and dastardly journal, the INDEPENDENT’–‘That false and scurrilous print, the INDEPENDENT’– ‘That vile and slanderous calumniator, the GAZETTE;’ these, and other spirit-stirring denunciations, were strewn plentifully over the columns of each, in every number, and excited feelings of the most intense delight and indignation in the bosoms of the townspeople.”
**
**
“उचितं खलु उभयोर् अपि महापक्षयोर् दूत-वैभवं ? तथैव तत्पुर्यां द्वे वार्ता-पत्त्रिके आस्तां – Blue-पक्षपातिनी Eatanswill Gazette, Buff-परमाभिमानिनी च Eatanswill Independent । क्व तयोस् सौष्ठवं, युद्धोत्साहः, जिगीषा, क्व च वयं तनु-वाग्-विभवाः ? – “अस्मन्-निरर्थका सहचरी Gazette!” – “सा निर्लज्जा निःसत्त्वा Independent!” – “सा मिथ्याब्दि-निमग्ना ग्राम्या Independent!” – “सा महापापा दुष्टचेष्टा Gazette!” – इत्येतैश् च अन्यैश् च अतिलोक-भयङ्करैर् उभयोभयापवादैर् भूषिते पत्त्रिके पुरजनानां मनस्सु ब्रह्मानन्द-कालन्तकरोष-जनयन्त्यौ व्यराजन्ताम् ।”
**
**
अग्रे निर्चावन-महाहवस्य प्रधान-मल्लौ उल्लिखितौ – Blue पक्षस्य Slumkey महोदयः, Buff पक्षस्य Fizkin महोदयश्च ।
**
**
“The GAZETTE warned the electors of Eatanswill that the eyes not only of England, but of the whole civilised world, were upon them; and the INDEPENDENT imperatively demanded to know, whether the constituency of Eatanswill were the grand fellows they had always taken them for, or base and servile tools, undeserving alike of the name of Englishmen and the blessings of freedom.”
**
**
“Gazette पत्त्रिका पुर-जनान् ततर्ज यन् न केवलम् आङ्ग्ल-देशस्य, परं सकलार्य-लोकस्यापि तीक्ष्ण-लोचनानि तान् एव परीक्षमाणानि इति । Independent पत्त्रिका च राजधार्ष्ट्या गम्भीर-जिज्ञासां प्रकटयांचक्रे यत् किं Eatanswill देशो यथा-कल्पितं (Independent-मनसि) सत्यं प्रतिष्ठार्हः, अथ वा किं नीच-प्रकृतिः स्यात्, अनर्हो समं स्वातन्त्र्य-विभूतेः, ‘आङ्ग्लक’ इति पुण्य-नामस्य च ।”
**
**
यदि Buff-पक्षो वृतः, ते तीक्ष्ण-लोचनानि अपवाद-वह्निना Eatanswill परिदहन्ति ; यदि वा Blue पक्षो वृतः, पुर-जनानां स्व-नाम-धारण-योग्यता अपि विनश्यति । कुतो वा धावामो दिग्गज-द्वयोः अमुष्योः मध्ये? बाढं, अग्रे यास्यामः पुर-पथिषु पर्यटन्तः –
**
**
“A crowd of idlers were assembled in the road, looking at a hoarse man in the balcony, who was apparently talking himself very red in the face in Mr. Slumkey’s behalf; but the force and point of whose arguments were somewhat impaired by the perpetual beating of four large drums which Mr. Fizkin’s committee had stationed at the street corner.”
**
**
“विरराम पथि शठ-समूहः पश्यन् उरुस्वनं वाचस्पतिं Blue-वरिष्ठ-Slumkey-गुण-गान-मुखरम् । परं किं कुर्यात्, तस्य वाक्-कोकिल-मधुर-स्वनो, गम्भीर-तर्क-घोषश् च क्वचिद् ऊनीकृताः Buff-पक्षेण चमत्कृतैः नातिदूरे चतुष्पथे संस्थापितैः सूर्य-खुरपुटैः इव निरन्तरं ताड्यमानैः चतुर्भिः महा-पटहैः ।”
**
**
अग्रे तन्-निर्वाचन-महोत्सवस्य सुविस्तृतं वर्णनम् वर्तते, यस्य कपट-नाटक-पटुत्वं आ-शकुनि-शुक्र-कौटिल्यान् अपि परितोषयति । तदुत्तरं निर्वाचन-दिनस्य परमानन्दकरं वर्णनं दृश्यते । जन-यूथानां कपि-चेष्टाः, उभय-पक्षयोर् अभिमानिनाम् उत्सवार्भटम्, तान् नियमितुं तत्राधिकारिणां व्यर्थ-श्रमाः इत्यादीनि विवरणैः संभूषितं तद् वर्णनम् । तत् सर्वं क्वचिद् उल्लङ्घ्य अन्त्ये प्रतिस्पर्धिनां भाषण-वर्णनाद् अस्याध्यायस्य प्रथम-वाक्यो उद्धृतः –
**
**
“The speeches of the two candidates, though differing in every other respect, afforded a beautiful tribute to the merit and high worth of the electors of Eatanswill. Both expressed their opinion that a more independent, a more enlightened, a more public-spirited, a more noble-minded, a more disinterested set of men than those who had promised to vote for him, never existed on earth.”
**
**
“उभयोर् नायकयोर् भाषणे सकल-रीत्या भिन्ने सताव् अपि Eatanswill पुर-जनानां महार्हत्वस्य महत्तर-गौरवस्य च विषये पुङ्खानुपुङ्खं दिव्य-प्रशंसाभिः समलङ्कृते आस्ताम् । उभाव् अपि स्व-संकल्पौ निवेदयाम्-आसतुः यद् आत्मावल्म्बने वा, प्रबुद्धत्वे वा, लोक-कल्याण-निरतत्वे वा, उदात्त-मनःसञ्चारणे वा, स्तिथ-प्रज्ञत्वे वा ऽपि स्व-पक्ष-जनान् लेशम् अपि अतिक्रान्तवन्तः को ऽपि त्रिभुवनेषु वेधसा ऽपि न मृग्यः इति ।
**
**
निर्वाचने को विजेता ? भवन्तः एव अन्विषन्तु :-)
**
**
पाथेयकम्
**
**
केनचित् अज्ञात-कविना चमत्कृतं –
**
**
“There’s metre iambic
and metre trochaic
and metre that’s tender in tone
But the metre that’s neater
and sweeter
completer
is meet her by moonlight, alone.”
**
**
कदा ऽपि एवं विधं भाषा-लालित्य-लालितं हृदयङ्गमं पद्यं अनुवक्तुं न शक्यम् इति स्पष्टम् एव । तथा ऽपि तदेव अतिमानुष-मनोहरता अस्मान् मुखरयति –
**
**
आस्ताम् अनुष्टुब् रचना विदूरे
शार्दूल-विक्रीडितम् अस्तु सुप्तम् ।
छन्दस्सु मे सुन्दर एक एव
स्वच्छन्दतो यद् रहसा मिलावः ॥
Please join the Google Group to subscribe to these (~ weekly) postings: <https://groups.google.com/group/sadaswada/subscribe?hl=en