०४ संस्कृत-कवयित्री-रचना

संस्कृतकवयित्रीणां रचना

संस्कृतवाङ्मय-परिशीलन-परायणा विपश्चितो विजानते यत् यथादिकालादेव कवयो विविधाभिः काव्य-रचनाभिः संस्कृत-काव्यं समृद्धमकार्षुः तथैव कवयित्र्योऽपि वैदिक कालादेव विभिन्नैः काव्य-प्रणयनैः संस्कृत-काव्य-समृद्धिं व्यदधुः। तत्र वैदिक कालीनानां तदुत्तर कालीनानाञ्च कवयित्रीणां रचनानां क्रमशो विवेचनं समपेक्ष्यते।

(क) वैदिक कालीनाः कवयित्र्यः

साक्षात्कृतधर्माण ऋषयो बभूवुः । ते यदा तपस्तप्यमाना आसन् तदा स्वयम्भु ब्रह्म मन्त्रात्मको वेदः तान् प्राप। ते च ऋषयो मन्त्रान् ददृशुः। यश्च यस्य सूक्तस्य द्रष्टाभूत् स एव तस्य सूक्तस्य ऋषिरभवत् । एवमेव या ऋषिका यत् सूक्तं ददर्श सा तस्य सूक्तस्य ऋषिका अभूत्। ऋषीणामपेक्षया ऋषिकाणां संख्यायाः स्वल्पत्वेऽपि महत्त्वे नास्ति अल्पता। इमा एव ऋषिका वैदिक कालीनाः कवयित्र्यः, यासां योगदानं संस्कृत-साहित्यस्य विकासे अतीव महत्त्वमादधाति। एताभि ब्रह्मवादिनीभिः ऋषिकाभिदृष्टेषु तासां भावोद्गारः, सुखमय दाम्पत्य जीवनम्, पारिवारिक सुव्यवस्था, जीवनस्य चरमलक्ष्यमवाप्तुम् उपायः एवं विधाश्च अन्ये जीवनोपयोगिनो भावाः अभिव्यक्ताः सन्ति। वैदिक-काव्य-संवर्धिनीनामासाम् ऋषिकाणां नामानि महर्षिशौनकस्य बृहद्देवतायां समुपलभ्यन्ते। तदनुसारेण नव संख्याका ऋषिकाः स्वदृष्टेषु सूक्तेषु स्वेष्टदेवतां स्तुवन्ति। नव संख्याका ऋषिकाः स्वदृष्टसूक्तेषु ऋषिणा, तत्सूक्तस्य देवता-विशेषेण च साकं वार्तालापं विदधति। नव-संख्याकाश्च ऋषिकाः स्वकीय सूक्तेषु देवतास्वरूपमात्मानं स्तुवन्ति। एवं हि वर्गत्रये विभक्तानां तासां संख्या सप्तविंशति विद्यते। एताभि दृष्टेषु सूक्तेषु दाम्पत्य-जीवनस्य महत्त्वम्, पति-पत्न्योः पारस्परिक प्रणयस्य सर्वातिशायित्वम्, भौतिक सुख-प्राप्तये अभिरूपपते निश्छलं प्रेम, दम्पत्योः सदाचरणम्, स्त्रीणां सौभाग्यम्, सौन्दर्य-सम्वर्धनाभिलाषः एवं विधाः जीवनसम्बद्धा विषयाः सभिलाषं, प्रार्थिताः सन्ति। एकस्मिन् सूक्ते नवोढ़ा विश्ववारा ऋषिका दाम्पत्य-सुखार्थम्, जीवनसुखार्थञ्च अग्निदेवतां प्रार्थयते। ऋषि-कक्षीवतस्तनूजा ऋषिका घोषा स्वसूक्ते अश्विनीकुमारौ प्रसाद्य नैरुज्यं, तारुण्यम्, अभिरूपपतिञ्च प्राप्नोति । १. निरुक्ते १ सम्पादकीयम्-संस्कृत-कवयित्री-रचना ६१ अत्रिमहर्षेः पुत्री अपाला चर्मरोगाक्रान्ता सती स्वपतिना परित्यक्ता तपस्तप्यमाना ऋषिका भूत्वा स्वसाक्षात्कृते सूक्ते इन्द्रदेवं संस्तुत्य तं प्रसाद्य तद्वर-प्रभावेण नैरुज्यं, कमनीयां कान्तिं, पति-प्रेम सौख्यञ्च प्राप्नोत् । एतस्मिन् सूक्ते पत्या परित्यक्तायाः स्त्रियाः हृदय-वेदनाया मार्मिकं वर्णनं हृदयं दुनोति।। । सुदीर्घकालपर्यन्तं तपोमग्नस्य महर्षेरगस्त्यस्य धर्मपत्नी लोपामुद्रा वार्धक्याक्रमणेन तनुशोभां शीर्यमाणामभिलक्ष्य खिन्ना सती दाम्पत्यसुखावाप्तये रतिदैवते स्वसूक्ते पतिं सम्बोधयति । अत्र विरहातुराया ललनाया हृदयाभिलाषः साकारो जायतेतराम्। बृहस्पतेस्तनूजा रोमशा ऋषिका, या अल्पवयस्कतया स्वपतिना उपेक्षितासीत्, स्वदृष्टमन्त्रप्रभावेण कमनीय तारुण्यमवाप्य दाम्पत्य सौख्यार्थं स्वपतिमामन्त्रयति। अत्र प्रौढाया रोमशाया उद्दाम-यौवनम्, कमनीय कलेवर-कान्तिश्च सम्यग् वर्णिते स्तः। एकस्मिन् सूक्ते ऋषिका इन्द्राणी स्वपतिं वशीकर्तुं स्वसौन्दर्य कामकला-कौशलञ्च स्पष्टं वर्णयति। अपरस्मिन् सूक्ते सा स्वपतिं स्वाधीनीकर्तुकामा सपत्नी प्रति द्वेषभावनया ओषधि-प्रयोगं करोति, समस्त बन्धु-बान्धवेभ्यः पतिं विमुखीकृत्य स्वायत्तीकर्तुं यौवनं काम कला-वैदग्ध्यञ्च प्रदर्शयति। महर्षेराङ्गिरसस्तनया शरवती ऋषिका आदर्शपत्नीरूपा सती स्त्रीत्वाभिग्रस्तपतेः पुंस्त्व प्राप्तये तपस्यन्ती अभीष्टं फलमवाप्नोति। पत्युः पुंस्त्वप्राप्त्यनन्तरं तस्या हार्दिकोल्लास आनन्दातिरेकश्च तत् सूक्ते स्पष्टं परिदृश्यते। सवितुस्तनूजा सूर्या-ऋषिका यत् सूक्तं साक्षात्करोति तत्र विवाह-संस्कारस्य माङ्गलिक विधि-विधानं वर्णितं विद्यते। रूपयौवनसम्पन्नां वस्त्रालंकारभूषिताम् लावण्यमयीं तनयां सूर्यां सविता वैवाहिक विधिना अश्वनीकुमाराभ्यां सम्प्रददाति। परिणयानन्तरम् पिता समवेत परिजनश्च वधू-वरौ शुभाशीर्वचोभिः सभाजयतः-इहैव स्तं मा वियौष्टं विश्वमायुर्व्यश्नुतम् । क्रीडन्तौ पुत्रै नप्तृभिर्मोदमानौ स्वेगृहे।।’ पतिसदने वधूः साम्राज्ञी भवतु। वधू-वरयोः सर्वदा सौमनस्यं सामञ्जस्यञ्च जायतामिति मङ्गलकामनया सूक्तं समाप्तिं गच्छति। अत्र वैवाहिक सम्बन्धस्य आदर्शरूपं प्रदर्शितं वर्तते। यमयमी-सम्वादसूक्ते यमीद्वारा साक्षात्कृतेषु मन्त्रेषु यमी भ्रातरं यमं पाणि-ग्रहणाय अनुरुणद्धि । सामाजिकादर्श-विरुद्धं प्रस्तावमिममस्वीकृत्य यमः अन्यं परिणेतारमगीकर्तुमादिशति। भविष्यत् काले ईद्दशं धर्म-विरुद्धं पाणिग्रहणं शक्य संभवम् नैदानीमिति संकेतयति “आद्याताऽ गच्छानुत्तरायुग्वानि यत्र जामयः कृणवन्न जामि। १. ऋ. सं. ૬ ૨ गद्य-खण्ड उपबहि वृषभायबाहुमन्यमिच्छस्व सुभगे पतिं मत्। अत्र यम्या अनियन्त्रितकाम वासनाया यमस्य नैतिकादर्शस्य च दर्शनं भवति। इन्द्रस्य मात्रा अगस्त्यस्य स्वस्रा दृष्टे सूक्ते पुत्रं प्रति वात्सल्यम्, पुत्रस्य शौर्यातिशय गुणोत्कर्षश्च अवलोक्येते। उर्वशी-पुरूरवसोः सम्वादसूक्ते उर्वश्या दृष्टेषु मन्त्रेणु वामाया एकं भिन्नरूपमपि वर्णितं दृश्यते। अप्सरा उर्वशी अप्सरसां सख्यं पुरुषैः सह काल्पनिकं मनुते। यथार्थजीवने तत् सख्यस्य वास्तविकता नास्ति। अतो यदि कठोरा उर्वशी पुरूरवसं परित्यज्य स्वर्वेश्यात्वं स्वीकरोति तर्हि पुरूरवसा तदङ्गीकर्तव्यमेव। अत्र कामिनीनां चित्तचाञ्चल्यं प्रदर्शितं विद्यते। महर्षेः अम्भृणस्य तनया-ऋषिका वाक् यत् सूक्तं साक्षाप्करोति तस्मिन् अमुष्या ऐश्वर्य माहात्म्यञ्च सुप्रकटिते स्तः। राष्ट्रस्य अधिष्ठात्री वागाम्भृणी प्रोच्चैरुद्धोषयति-“अहं राष्ट्री सङ्गमनी वसूनाञ्चिकितुषो प्रथमा यज्ञियानाम्। ताम्मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रा म्भू-वेशयन्तीम् ।। मया सो अन्नमत्ति यो विपश्यति यः प्राणिति य ईं शृणोत्युक्तम् । अमन्तवो मान्त उपक्षियन्ति श्रुधि श्रुत ऋद्धिवन्ते वदामि। अहमेव स्वयमिदंवदामि जुष्टन्देवेभिरुत मानुषेभिः। यङ्कामये तन्तमुग्रकृणोमि तम् ब्रह्माणं तमृषितं सुमेधाम् ।। अहं रुद्राय धनु रातनोमि ब्रह्मद्विषे शरवे हन्तवाउ। अहञ्जनाय समदं कृणोम्यहं धावापृथिवी आविवेश।” अर्थात् इयमेव आम्भृणी वाग्देवी समस्तजगताम् अधीश्वरी, उपासकान् धनानि प्रापयित्री, स्वात्मतया परंब्रह्म ज्ञातवती अतएव एषा मुख्यास्ति । सैव प्रपञ्चरूपेण अनेक भावेषु स्थिता समस्त-भूतेषु प्रविष्टा वर्तते। विभिन्न स्थानेषु अवतिष्ठमाना देवा यत् किमपि कुत्रापि विदधति तत् सर्वं वागर्थमेव कुर्वन्ति । यः अन्नं भुङ्क्ते, यः पश्यति, यः श्वासोच्छ्वासादिव्यापारं करोति, यश्च शृणोति स सर्वोऽपि शक्तिमत्या वाग्देव्याः सामर्थ्येनैव तथा करोति। तादृशी मन्तर्यामितया स्थितां वाग्देवीं ये अमन्यमानाः सन्ति ते संसारक्लेशमनुभवन्तो दीनदशां प्राप्नुवन्ति अतो वाग्देवी स्वयमेव श्रद्धया प्राप्तुं ब्रह्मतत्त्वं, यच्च देवैर्मनीषिभि मनुष्यैः सेवितं वर्तते तत् बहुश्रुतं जनं समुपदिशति। वाग्देवी यम् यम् त्रातुमिच्छति तन्तम् पूर्ण शक्तिमन्तं करोति, तमेव ब्रह्माणं विदधाति, तमेव त्रिकालज्ञम् ऋषिम् तथा मेधाशक्तिसम्पन्नं करोति। सैव ब्रह्मद्वेषिणं हिंसकमसुरं हन्तुं धनुः अधिज्यं कृत्वा रुद्राय ददाति, शरणापन्नं त्रातुं शत्रुभि युद्ध करोति। अन्तर्यामितया दिवं पृथिवीं च प्रविशति। देवीमाहात्म्यसूचकं सूक्तमिदमति प्रसिद्धं वर्तते। १. ऋ. सं. ७/६/७ २. ऋग्वेदे दशममण्डले दशमाध्याये १२५ संख्याके देवीसूक्ते एवं विधा अष्टौ मन्त्राः सन्ति। ६३ सम्पादकीयम्-संस्कृत-कवयित्री-रचना । उपर्युक्ताभ्यः विश्ववारा, अपाला, लोपामुद्रा, रोमशा, इन्द्राणी, शश्वती, सूर्या, यमी, अगस्त्यस्वसा, उर्वशी, आभ्भृणीवाक् इत्येताभ्य एकादशभ्यः अतिरिक्ता घोषा, गोधा, उपनिषत्, निषत्, ब्रह्मजाया जूहूः, अदितिः, इन्द्रमाता, सरमा, नदी, श्रीः, लाक्षा,सार्पराज्ञी, मेधा, श्रद्धा, दक्षिणा, रात्री, इत्येताः षोडश ऋषिकाः सन्ति याभि दृष्टेषु सूक्तेषु तद्युगीनानां ब्रह्मवादिनीनां भास्वरकाव्यात्मकं सारस्वतं वैभवं परिदृश्यते। एतासां दिव्ये अलौकिके महिमान्विते मन्त्रजाते यत् शिवं सुन्दरञ्च भावात्मकं तत्त्वं वर्तते तत् लौकिक संस्कृत-साहित्य-कवयित्रीणां काव्यसम्पदां नितरां प्रेरणाप्रदं निदानभूतं वरीवर्ति।

(ख) लौकिक संस्कृत-साहित्य-कवयित्र्यः

संस्कृत-साहित्येतिहास-पर्यालोचनेन परिज्ञायते यत् प्राचीनकाले मध्यकाले च श्रीसम्पन्नपरिवारे आभिजात्य-वर्गीय परिवारेच समुत्पन्नानां नारीणां कृते समुचित शास्त्राध्ययन-व्यवस्या आसीत्। नार्यः शास्त्राण्यधीयानाः काव्यकलासहित विविधासु ललित कलासु निष्णाता भवन्तिस्म। वात्स्यायन-कामसूत्रस्य राजशेखर-कृत-काव्यमीमांसायाश्च साक्ष्येण निश्चितं ज्ञायते यत् पुरुषा इव महिला अपि कवित्वशक्ति-सम्पन्नाः कवि-कर्म-निपुणा भवन्तिस्म। राजकन्यानां, महामात्य-दुहितृणां गणिकानाञ्च काव्यकौशलं सुप्रसिद्धमेवास्ति। एवंहि महिला-कवयित्रीणामपि सुदीर्घपरम्परा अत्र विद्यते। मञ्जुलकाव्य-रचनया संस्कृत साहित्यसमृद्धि-कर्बीणां कवयित्रीणां यानि नामानि काव्य-शास्त्रीय लक्षण-ग्रन्थेषु विभिन्न-सुभाषित-संग्रहेषु च समपलभ्यन्ते तानि पञ्चाशतोऽप्यधिकानि सन्ति। एतदतिरिक्तानि आधुनिक संस्कृत-कवयित्रीणामपि कतिपयानि नामानि सुप्रसिद्धानि सन्ति। प्राचीनासु अधोलिखितानि नामधेयानि विशेषतः समुल्लेख्यानि विद्यन्तेः __१. भावदेवी, २. चाण्डालविद्या, ३. चन्द्रकान्ताभिक्षुणी, ४. चिन्नम्मा, ५. गन्ध दीपिका, ६. गौरी, ७. इन्दुलेखा, ८. जघनचपला, ६. केरली, १०. कुटला, ११. लक्ष्मीः १२. लखिमादेवी, १३. मदालसा, १४. मधुरवाणी, १५. मदिरेक्षणा, १६. मारुला, १७. मोरिका, १८. नागम्मा, १६. पद्मावती २०. फल्गुहस्तिनी, २१. लखिमादेवी, २२. रसवती प्रियम्वदा, २३. सरस्वती, २४. शीला भट्टारिका २५. सीता २६. सुभद्रा, २७. त्रिभुवन सरस्वती, २८. विद्यावती, २६. विज्जा/विज्जका, ३०. विकटनितम्बा, ३१. प्रभुदेवी, ३२. वैजयन्ती, ३३. विजयाङ्का ३४. कामलीला, ३५. कनकवल्ली, ३६. ललिताङ्गी, ३७. मधुरागी, ३८.सुनन्दा, ३६.विमलागी ४०. देवकुमारिका, ४१. गङ्गादेवी ४२. लक्ष्मीराज्ञी, ४३. मधुरवाणी, ४४. रामभद्राया ४५. तिरुमलाम्बा, ४६. सुन्दरवल्ली, ४७. बालाम्बिका ४८. हनुमाम्बा, ४६. ज्ञानसुन्दरी, ५० राधाप्रिया, ५१. त्रिवेणी ५२. अनसूया ५३. वामाक्षी ५४. श्रीदेवी तथा आधुनिक संस्कृत कवयित्री ५५. सौ. क्षमाराव ५६. श्रीमती रमाबाई, ५७. श्रीमती रमा चौधरी तथा अन्याः मिथिलेश कुमारी मिश्रा, पुष्पा दीक्षितादयः । ६४ गद्य-खण्ड एतासां प्राचीन कवयित्रीणां विविधासु रचनासु वर्णयमान-विषयेषु विशेषतः देवस्तुतिः यत्र सूर्य-सरस्वती मीनाक्षी-श्रीकृष्ण-श्रीहरि-शिव-महाभैरवाणाम् हृद्यं स्तवनं विद्यते; राजस्तुतिः यस्यां राज्ञः शौर्यदीप्तस्वरूपम्, प्रतापोत्कर्षः, संग्रामः, पराजितशत्रु-दैन्यम्, विजितरिपु वनिता-विलापः विजयि-नृप धर्म परायणतेत्यादीनि वर्णितानि सन्ति । वर्ण्यमानरसेषु शृंगार वीर-बीभत्स-जुगुप्सादयः प्राधान्यमादधति। तत्र श्रृङ्गारप्रसङ्गे प्रथम समागम प्रणयकलह विप्रलम्भ-सपत्नीमानमर्दन-मान-दूती-सम्प्रेषण दूतीकर्तृक नायकानुनय-नायक नायिका सम्वाद नायिकाकृत क्षमायाचना-पुनर्मिलनादीनां मनोहरं चित्रणं राजते। नायिका प्रभेदक्रमे अभिसारिका नववधू-मानिनी-विरहिणी-गाम्य-वामादीनां साक्षात्कारो भवति। नारीसौन्दर्यवर्णने मुख-नयन नासिका-भ्रूलता-कटाक्षाधर-कम्बुग्रीव-वक्षोज भुजलता-नितम्ब-कटिभाग-त्रिवली-चरण-कर चरणनखादीनां मञ्जुलं चमत्कृतरूपमवलोक्यते। पुरुषपात्रेषु कवि-नृपति-लुब्ध-कृपण-शठादीनाम् शोभनं चित्रणं विद्यते। प्रकृति-वर्णने उषः सूर्योदय-सूर्यास्त-चन्द्रोदय-राकाविभावरी-नक्षत्रराशि वारिधि-वारिवाहादयो-विराजन्ते। ऋतूनाम्, कल्पवृक्षादिपादपानाम्, विविधकुसुमानाञ्च मनोरमं वर्णनं वर्तते। अन्योक्तिषु भ्रमर-काक-पिक-सहकार-सागर-केतकी-चम्पकादीनि एवं विधानि अन्यान्यपि चमत्कारजनकानि वस्तूनि एताभिः कवयित्रीभिर्विषयीकृतानि। आसां काव्यानि ललितानि, विविधालङ्कारभूषितानि, भावोच्छ्वाससंभृतानि, सहृदय-हृदय-संवेद्यानि, सद्यः प्रीतिकराणि च विद्यन्ते। अधोलिखित कवयित्रीणां निम्नविन्यस्तानि कानिचित् पद्यानि एतासां काव्य-कौशलं प्रकाशयन्ति।

०१. त्रिभुवन सरस्वती

राजशेखरेण कर्पूरमञ्जरी-सट्टके एतस्या नाम समुल्लिखितम् तथा सदुक्तिकर्णामृते अदसीयं पद्ययुगलं समुद्धृतं वर्तते। एतत् पद्यम् अस्याः कवयित्र्याः रचना-कौशलमभिव्यनक्ति पातु त्रिलोकी हरिरम्बुराशौ प्रमथ्यमाने कमलां समीक्ष्य। अज्ञात-हस्तच्युत-भोगिनेत्रः कुर्वन् वृथा बाहुगतागतानि।। अत्र समुद्रमन्थनादविर्भूताया महालाक्ष्म्या अपूर्व सौन्दर्य समवलोकयतो हरे भावातिरेका भिव्यञ्जनं कमपि विशिष्ट चमत्कारं जनयति।

०२. वङ्गप्रदेशवासिनी रसवतीप्रियम्वदा

अनया विरचितम् श्यामारहस्यम् स्वकीयेन सारल्येन, लालित्येन, माधुर्येण च उत्कृष्टकाव्यकोटौ गण्यते। वैष्णव-भक्ति-भावना-सम्भृत मधोलिखित पद्यम् एतस्याः कविकर्मकौशलमभिव्यनक्ति कालिन्दीपुलिनेषु केलि-कलनं कंसादिदैत्यद्विषं गोपालीभिरभिष्टुतं व्रजवधूनेत्रोत्पलैरर्चितम्। बर्हालंकृतमस्तकं सुललितैरङ्गस्त्रिभङ्गं भजे गोविन्दं व्रजसुन्दरं भवहरं वंशीधरं श्यामलम् ।। सम्पादकीयम्-संस्कृत-कवयित्री-रचना ६५ चित्रात्मकं प्रस्तुतपद्यम् विविधवैशिष्ट्य विभूषितस्य भगवतः श्रीकृष्णस्य रूपम् सद्यः सहृदय-हृदये समवतारयति।

०३. केरलवासिनी केरली

वेणीदत्तस्य सुभाषितसंग्रहात्मिकायां पद्यवेण्यां कवयित्री केरली प्रणीतं पद्यमेकं समुद्धृतमस्ति। सरस्वती स्तुतिपरकमेतत् पद्यमेतस्याः कवित्वं सूचयति-“यस्याः ‘स्वरूपमखिलं ज्ञातुं ब्रह्मादयोऽपि नहि शक्ताः। कामगवी सुकवीनां सा जयति सरस्वती देवी। ब्रह्मादिभिरपि ज्ञातुं या वाग्देवी अशक्या सैव कामधेनुरिव सुकवीनां सर्वान् मनोरथान् प्रपूरयतीति प्रसादगुणसमन्वितः वाग्देवी-विषयको भावोऽत्र समुल्लसति।

०४. मधुरा (मदुरै) वास्तव्या विद्यावती

मधुरायां सुप्रतिष्ठिताया मीनाक्षीदेव्याः अनुष्टुभि रचितं त्रयोदशश्लोकात्मकं ‘मीनाक्षीस्तोत्रम् अस्याः कवयित्र्याः मीनाक्षी-माहात्म्य-संभृतं भक्तिभावं प्रकाशयति।

०५. दाक्षिणात्या चिन्नमा

सरस्वतीकण्ठाभरणे शागधरपद्धतौ समुद्धृतम् ओजोगुण समन्वितमधस्तनपद्यम् अस्याः पुराणपरायणतां कविकर्मकुशलताञ्च सूचयति कल्पान्ते शमितत्रिविक्रममहाकङ्काल-दण्डः स्फुर-च्छेषस्यूत-नृसिंहपाणि-नखर-प्रोतादि-कोला मिषः। विश्वैकार्णवता-नितान्तमुदितौ तौ मत्स्य-कूर्मावुभौ कर्षन् धीवरतां गतोऽस्यतु महामोहं महाभैरवः।। महाभैरवः-योहि कल्पान्तकाले शमितत्रिविक्रमविष्णोः कङ्कालरूपं दण्डं धारयति, शेषनागरूपरज्ज्वा नरसिंहपाणी आबध्य प्रखर-नख-च्छेदैः आदिवाराहस्य मांसलकायं विक्षतं विदधाति, जगतः एकार्णवतया परम-प्रमुदितौ मत्स्य-कच्छपौ आकर्षन् धीवरायमाणः (मम) महामोहं दूरीकरोतु। शार्दूलविक्रीडितवृत्ते गुम्फितम् ओजोगुणसमन्वितम् अर्थगौरवपूर्ण पद्यमिदं महाभैरव विषयकं रतिभावं प्रकाशयत् कवयित्र्याः रचनाकौशलं निर्दिशति।

०६. भिक्षुणी चन्द्रकान्त

भिक्षुणीत्युपनामिकायाः चन्द्रकान्तायाः अष्टश्लोकात्मकम् ‘अवलोकितेश्वरस्तोत्रम्’ भगवतोऽवलोकितेश्वरस्य मनोहररूपम् विविधाभूषणं परमैश्वर्यं च वर्णयति, यच्च कवयित्र्या अगाधश्रद्धा प्रकाशयति। तथाहि कुटिलामल पिङ्गल धूम्रजटं शशि-बिम्ब-समुज्ज्वलपूर्णमुखम्। कमलायतलोचनचारुकरं हिमखण्डविमण्डलपुण्डपुटम्।।

०७. इन्दुलेखा

वल्लभदेवस्य ‘सुभाषितावल्याम्’ सुरक्षितम् एकमेव शार्दूलविक्रीडित-वृत्ते निबद्धं पद्यम् अस्याः काव्यकौशलनिदर्शनं वर्तते तद्यथा गद्य-खण्ड एके वारिनिघौ प्रवेशमपरे लोकान्तरालोकनं केचित् पावकयोगितां निजगदुः क्षीणेऽह्मि चण्डार्चिषः। मिथ्या चैतदसाक्षिकं प्रियसखि ! प्रत्यक्षतीव्रतापं मन्येऽहं पुनरध्वनीनरमणीचेतोऽधिशेते रविः।। अत्र अस्तंगत-सूर्यस्य निशायामदर्शनस्य प्रसिद्धानि लौकिककारणानि निरस्य उत्प्रेक्षया स्वाभिमत-प्रकाशनं कवयित्र्याः काव्य-कौशलस्य किमपि अपूर्वं विच्छित्तिजनकं वैशिष्ट्यं सूचयति।

०८. चण्डालविद्या

‘सदुक्तिकर्णामृते’ समुद्भुतम् एतस्या एकं शार्दूलविक्रीडिते निगुम्फितं पद्यं समुपत्नभ्यते। कथ्यते, यदियं विक्रमादित्य-सभायां लब्ध-प्रतिष्ठा कवयित्री आसीत्। अधस्तनपद्यमस्याः कविकर्म प्रावीण्यं प्रकाशयति क्षीरोदाम्भसि मज्जतीव दिवस-व्यापारखिन्नं जगत् तत्क्षोभाज्जल बुद्बुदा इवभवन्त्यालोहितास्तारकाः। चन्द्रः क्षीरमिवक्षरत्यविरतं धारासहस्रोत्करै रुद्ग्रीवस्तृषितैरिवाद्य कुमुदै ज्योत्स्नापयः पीयते।। अत्र दिवस-व्यापारेण श्रान्तस्य समस्य संसारस्य क्षीरोदार्णवे निमज्जनम्, तत् क्षोभात् जलबुद्बुदायमानानां तारकाणां सान्ध्य-रागेण आलोहितीभवनम्, चन्द्रस्य स्वसहस्ररश्मि धारामिः दुग्धवर्षणम्, पिपासातुरस्य उद्ग्रीवकुमुदराशेः ज्योत्स्ना-पयः पानञ्च यथा समुत्प्रेक्षितं तत् कवयित्र्याः कल्पनाकलाकलितं प्रकृतिनिरीक्षण-कौशलं सुव्यनक्ति।

०९. फल्गुहस्तिनी

शार्ङ्गधरपद्धति-सुभाषितरत्न भाण्डागारयोः संगृहीतमेतन्निम्नलिखितं हरिणीवृत्ते विरचितम् पद्यमस्याः कल्पना-कौशलं निर्दिशति त्रिभुवनजटावल्लीपुष्पं निशावदनस्मितम् ग्रहकिसलयं सन्ध्यानारी-नितम्बक्षतम्। तिमिर-भिदुरं व्योम्नः शृङ्गं मनोभव-कार्मुकं प्रतिपदि नवस्येन्दो बिम्बं सुखोदयमस्तुनः। अत्र शुक्लपक्षीय नवोदित प्रतिपच्चद्रबिम्ब पुष्प-स्मित-किसलय-नरवक्षत-शृग-कार्मुक रूपेण निरूपितम्, येन अर्थसम्पदां समुद्भावनया प्रतिपाद्यस्य चित्रीकरणे काचिदपूर्वा शोभा विराजते।

१०. मदिरेक्षणा

सुभाषितसारसमुच्चये समुद्धृतम् अमुष्या मालभारणीच्छन्दसि निबद्धमध स्तन पद्यम् अर्थवैमल्येन सह शब्दसौष्ठवस्य निदर्शनमस्ति ६७ सम्पादकीयम्-संस्कृत-कवयित्री-रचना अनुभूतचरेषु न दीर्घिकाणामुपकण्ठेषु गतागतैकतानाः। मधुपाः कथयन्ति पद्मिनीनां सलिलैरन्तरितानि कोरकाणि।।

११. मोरिका

सूक्तिमुक्तवली-शार्ड्गधरपद्धति-सुभाषितावली प्रभृतिषु संकलितानि एतदीयानि पद्यानि अस्याः प्रसृत्वरी ख्याति प्रमाणयन्ति। धनदेवेन कवीनां प्रथमकोटौ प्रतिष्ठापिता एषा कवयित्री, यस्या रचनासु सरलपद-विन्यासः, शृङ्गरस्य विविधा अवस्थाः वैदग्ध्येन उपन्यस्ताः सन्ति। प्रवासोद्यत नायकस्य मर्मस्पर्शि चित्रम् अधस्तन पद्ये कस्य सहृदयस्य हृदयं नाकर्षति यामीत्यध्यवसाय एव हृदये बध्नातु नामास्पदं वक्तुं प्राणसमा-समक्षमघृणेनेत्थं कथं पार्यते। उक्तं नाम तथापि, निर्भरगलद् बाष्पं प्रियाया मुखं दृष्टवापि प्रवसन्त्यहो धनलवप्राप्तिस्पृहा मादृशाम् ।।

१२. मारुला

अस्याः कवयित्र्या एकं पद्यं सूक्तिमुक्तावल्याम् अपरञ्च शाङ्गधरपद्धतौ संगृहीतं वर्तते। एतत् पद्यद्वयम् अदसीयां काव्यप्रतिभा प्रख्यापयति। अत्र नारी-हृदयस्य कोमला वृत्तिः स्वाभाविकरूपेण मनोहरशैल्या वर्णिता विद्यते, या च अधस्तन पद्ययोर्माधुर्यमभिव्यनक्ति। गुरुजनसमक्षं स्वप्रियतमविरहजन्यमनोव्यथां निगृहयन्त्या नायिकाया वर्णनपरे पद्येऽस्मिन् अवलोक्यतां चमत्कारचारुता गोपायन्ती विरहजनितं दुःखमग्रे गुरूणां किंत्वं मुग्धे! नयनविसृतं बाष्पपूरं रुणत्सि। गत्सि । नक्तं नक्तं नयनसलिलैरेष आद्रीकृतस्ते शय्योपान्तः कथयति दशामातपे शोष्यमाणः।। एवमेव प्रवासादागतस्य नायकस्य तद्विरहजन्यदैन्यमसहमानाया नायिकायाश्च प्रश्नाख्यानयोवर्णितमनोभावः कस्य न हृदयं द्रवीकरोति कृशा केनासित्वं प्रकृतिरियमङ्गस्य ननु मे मला धूम्रा कस्माद् गुरुजनगृहे पाचकतया। स्मरस्यस्मान् कच्चिन् नहि नहि नहीत्येवमवदत् स्मरोत्कम्पं बाला मम हृदि निपत्य प्ररुदिता।।

१३. भावकदेवी

कवीन्द्रवचनसमुच्चये सदुक्तिकर्णामृते च एतदीयानि पद्यानि संकलितानि सन्ति। अस्याः पद्येषु मनोवैज्ञानिक भावः, मानिन्या नायकं प्रति क्षमाशीलस्वभावश्च सरलेन मधुरेण पदजातेन वैदर्भरीतौ अभिव्यक्तौ स्तः। अधस्तनपये कवयित्र्या वर्णन-कौशलं समवलोक्यताम्६८ गद्य-खण्ड तथाभूदस्माकं प्रथममविभिन्ना तनुरियं ततोऽनु त्वं प्रेयानहमपि हताशा प्रियतमा। इदानीं नाथस्त्वं वयमपि कलत्रं किमपरं मयाप्तं प्राणानां कुलिशकठिनानां फलमिदम्।। विवाहोत्तरकालिक जीवने दम्पत्योः पूर्वानुभूतप्रणयस्य क्रमशः हासोन्मुखताया मार्मिक वर्णनमत्र वरीवर्ति। प्रारम्भे उभयोस्तनुलता अभिन्नासीत् । कतिपय दिनानन्तरं पतिः प्रियतमः पत्नी च प्रियतमा इत्येवं रूपेण द्वैधमभूत्। ततो गच्छत्सु दिवसेषु पतिः भर्ता पालयिता जाया च भार्या भरणीया अभूताम् । एवंहि जाया साम्प्रतं वज्रायमाण-प्राणानां विषमं-फलमनुभवति। शिखरिणीवृत्तेनिबद्धं पद्यमिदं दैन्यविषादयोः मूर्तस्वरूपं सहृदय-हृदये कामपि अपूर्वामनुभूति जनयति।

१४. गौरी

‘सूक्तिसुन्दरे’ ‘पद्यवेण्याञ्च’ संगृहीतानि मुख्याः कवयित्र्याः सुललित पद्यानि एतदीयां कवि-कर्म-कुशलतामभिव्यञ्जन्ति। नारी-सौन्दर्य-वर्णने, वसन्तग्रीष्मदीनाम् ऋतूनां जनमानसेषु जायमान प्रभावस्य प्रदर्शने, जय-पराजयशीलयोनॅपयो यथावच्चित्रणे, विविधालंकार-संयोजने च कवयित्र्या गौरीदेव्याश्चारु चमत्कारः सम्यक् परिलक्ष्यते। अधस्तन पद्ये सद्यः स्नाताया अपूर्व सौन्दर्य -वर्णनं विदधानापि सा सद्यः स्नातां तां कमनीयां कामिनी वरुणेन वन्दनीयां जलाधिदेवीमिव पूज्यां मनुते इति तस्या नारी प्रति पूज्यत्वभावं प्रकटयति। तथाहि विनिस्सरन्ती रतिजित्वराङ्गी नीरात् सरागाम्बुजलोचनश्रीः। आलोकिलोकैः स्वरुचा स्फुरन्ती जलाधिदेवी व जलेश वन्द्या।।

१५. पद्मावती

कवयित्री पदमावती, यस्याः कतिपयानि पद्यानि ‘पद्याततरङ्गिणी’ ‘पद्यवेणी’ प्रभृतिषु सुभाषितसंग्रहेषु सुरक्षितानि सन्ति, प्रायः गुर्जरदेश-वासिनी आसीत् यतोहि अस्याः पद्यद्वय गुर्जरललनायाः स्वाभाविकं चित्रणं दृश्यते। अमुष्याः पद्यानि खग-मृग-मनुजानाम्, ग्रहनक्षत्राणाम्, प्राकृतिक वस्तूनाम्, ऋतूनाम्, श्रृङगार-वीर-रौद्र-बीभत्सादिरसानाम, विशिष्ट शब्दार्थालंकाराणाम मनोरमं वर्णनं विदधति येन एतस्या विषय-भावानुगतमनुभवं परिपश्यन्ति सचेतसः सहृदयाः। गुर्जरललनावर्णनात्मकमधस्तनयद्यमेतदीयां काव्यकलां निर्दिशति किं चारु चन्दनलताकलिता भुजङ्ग्यः ? किं फुल्लपद्ममधुसंवलितानु भृङ्ग्यः ? किं वाननेन्दुजित राहुरुचो विषाल्यः? किं भान्ति गुर्जर-वर-प्रमदा-कचाल्यः? एवमेव पद्यरत्नमदस्तस्या रचनानैपुण्यं प्रकाशयति किं श्रृङ्गार-समुद्र कल्पलतिके किं वा मृणालीलते ? किं वक्षोजमहीध्रचन्दनलते किं मारपाशीलते ? ६६ सम्पादकीयम्-संस्कृत-कवयित्री-रचना किं लावण्यसुधाब्धिविद्रुमलते पत्रामुली संयुते ? भ्रातः! किं वरगुर्जरीसुललिते बाहूलते मन्मते॥ अलंकार-विशेषस्य निदर्शनमस्या अधस्तनपद्यमवलोक्यताम् नायं गर्जः किमुत मदन-प्रौढ निस्साण शब्दो नैते मेघाः किमुत मदनस्योद्धराः सिन्धुरास्ते। नैषा विद्युत् किमुत जयिनी तत्करे कापि शक्तिः नैन्द्रश्चापः किमुत जगतां मोहनास्त्रं स्मरस्य।। मिथिलामहीममध्यवर्ति-मधुबनी मण्डलानतर्गत-सौराठग्रामवास्तव्यः वर्तमानशतक प्रथमचरणे विद्यमानः स्ववैदुष्यवैशिष्ट्येन विरव्यातः महामहोपाध्यायराजनाथ (प्रसिद्धराजे) मिश्रः मुक्तककाव्यरचनायां परम विश्रुत आसीत्। एतस्य अधस्तनपद्ये पद्मावत्या उपर्युक्त पद्येन सह भावसाम्यं परमाश्चर्यं जनयति नेयं शम्या, नहि घनघटा, नापि नीपस्य पुष्पं नायं शब्दों जलधरभवे। राजनाथो व्यनक्ति। मध्या-लज्जां, पथिकदृढतां, प्रौढकान्ताभिमानं दृष्टा क्रुद्धे मनसिजनृपे योजिताभूच्छतध्नी।। कवयित्र्याः पद्मावत्या एवं विधान्यन्यान्यपि पद्यानि विलसन्ति।

१६. सरस्वती

कवयित्री सरस्वती-विरचितानि पद्यानि सरस्वतीकण्ठाभरणे, शाङ्गधरपद्धतौ, सदुक्तिकर्णामृते च संकलितानि सन्ति। वसन्ततिलकावृत्तनिबद्धमेतदीयम् अन्योक्तिपरकमधस्तनपद्यमस्या रचना-चमत्कारं प्रकाशयति पत्राणि कंटकसहस्रदुरासदानि वार्तापि नास्ति मधुनो रजसान्धकारः। आमोदमात्ररसिकेन मधुव्रतेन आलोकितानि तव केतकि! दूषणानि।। केतकी-दलानि कण्टकाकीर्णानि सन्ति दुरासदानि भवन्ति। तत्र मधुनस्तु सर्वथा अभावः परागस्य प्राचुर्यादन्धकारः। एवंहि दलानां कण्टकाकीर्णत्वम्, मधुनः अभावत्वम्, परागप्राचुर्यादन्धकारत्वमिति केतक्या दूषणानि अनालोक्य मधुपः तदामोदमाघ्रातुं तत्र गच्छ तीति अप्रस्तुतेन महापुरुषः दोषानविगणय्य गुणमेव गृहणातीति प्रस्तुतमत्र व्यज्यते।

१७. सीता

कचयित्र्याः सीताया एकं पद्यं वामनस्य काव्यालंकारसूत्रवृत्तौ, राजशेखरस्य काव्यमीमांसायाञ्च सौभाग्येन सुरक्षितं वर्तते। एकश्चन्द्र इव एकोऽयं श्लोकः तस्या यशश्चन्द्रिकां प्रकाशयति। श्रृङ्गार-वासनावासिते अधस्तनपद्ये दर्शनीयेयं चमत्कार-चन्द्रिका मा भैः शशाङ्क ! मम सीधुनि नास्ति राहुः खे रोहिणी वसति कातर ! किं बिभेषि ? गिद्य-खण्ड प्रायो विदग्धवनिता नव सङ्गमेषु मा पुंसां मनः प्रचलतीति किमत्र चित्रम्।। का

१८ लखिमादेवी

ओइनवार-वंशोद्भवस्य मिथिलाधिपतेर्महाराजाधिराजशिवसिंहस्य (१३५०-१४०६ खि.) पट्टमहिषी महारानी लखिमादेवी परम विदुषी विश्रुता कवयित्री चासीत्। अमुष्या अनेकानि मुक्तकानि विविधग्रन्थेषु समुद्धृतानि जनकण्डठेषु च सुरक्षितानि सन्ति, यानि एतस्याः कवि-कर्म-कौशलं प्रकाशयन्ति। तथाहि भङ्क्त्वा भोक्तुं न भुङ्क्ते कुटिल-बिसलता कोटिमिन्दोर्वितर्कात् ताराकारास्तृषार्त्तः पिबति न पयसां विपुषः पत्र संस्थाः। छायामम्भोरुहाणा-मलिकुलशबलां वीक्ष्य सन्ध्यामसन्ध्याम् कान्ताविश्लेषभीरुर्दिनमपि रजनीं मन्यते चक्रवाकः।। कान्ता-विश्लेषभीरुः चक्रवाकः कुटिलश्वेताभंमृणालाग्रभागं भोक्तुं भङ्गत्वापि चन्द्रकला-भ्रमात् न भुङ्क्ते, नलिनीदले विद्यमानान् जलबिन्दून् ताराकारतया तृषार्तोऽपि न पिबति, भ्रमर-शबलितां कमल-दलच्छायामवलोक्य असन्ध्यायामपि सन्ध्या-भ्रमात् दिनमपि रजनी मनुते। अत्र चक्रवाक्या वियोगभयात् विह्वलस्य चक्रवाकस्य मनोदशावर्णनं कामपि अपूर्वां विच्छित्तिं व्यनक्ति। अधस्तनपद्यम् प्रोषितपतिकाया एकस्या नवोढाया मनोदशां स्मर-वेदनाञ्च प्रकाशयत् कवयित्र्या ज्यौतिषशास्त्रपरिज्ञानं निर्दिशति सन्तप्ता दशमध्वजातिगतिभिस्संमूर्छिता निर्जले तूर्य द्वादशवद् द्वितीय मतिमन्! एकदिशाभ स्तनी। सा षष्ठी कटिपञ्चमी नवभ्रुवा सा सप्तमी वर्जिता प्राप्ता चाष्टम वेदनां प्रथम हे तूर्ण तृतीये भव।। नवोढायाः परिस्थितिं तत्सखी अनभिज्ञं तत्पतिमवगमयन्ती निगदति-सिंहकटिका कुम्भस्तनी धनुर्भूः अतुला सा कन्या साम्प्रतम् मकरध्वजस्य तापेन वृश्चिकदंशवेदनामनु भवन्ती निर्जले बालुकामये तटे मीन- कर्कटवत् मूर्छिता सती कथं कथमपि प्राणान् धारयति। अतो हे वृषमते मेष ! त्वं न चिरेण मिथुनराशिगतो भव। अत्र द्वादशानामपि राशीनां सङ्केतद्वारा नवोढाया अङ्गसौन्दर्यम्, मनोभावम्, पत्यु रनभिज्ञत्वञ्च चारुतयाभित्यक्तानि सन्ति।

१९. शीला भट्टारिका

कवयित्री शीला भट्टारिका संस्कृतजगति बहुचर्चिता वर्तते। अस्याः पद्यानि ‘कवीन्द्रवचनसमुच्चये’, ‘शागधरपद्धतौ’ ‘अलंकारसर्वस्वे’ च समुद्धृतानि काव्यशास्त्रग्रन्थेषु उदाहृतानि च सन्ति। १०१ सम्पादकीयम्-संस्कृत-कवयित्री-रचना पाञ्चालीरोत्या वर्णने शब्दार्थयोः समानरूपेणागुम्फने बाणभट्ट इव इयमपि प्रसिद्धा बभूति प्रमाणयति राजशेखरः “शब्दार्थयोः समो गुम्फः पाञ्चालीरीतिरिष्यते। शीलाभट्टारिका वाचि बाणोक्तिषु च सा यदि।।” धनददेवमते अस्यां वैदग्ध्य-वैदुष्ययोरपूर्वं समन्वयनम्, अस्याः पद्येषु प्रसादगुण-सम्भृतं सूक्ष्ममनोवृत्तिवर्णनं च विलोक्यते सहृदयैः। अधस्तनपद्ये विरहविधुराया वामाया मनोव्यथायाश्चित्रणमतीवमार्मिकमस्ति विरह-विषमो वामः कामः करोति तनुं तनुं दिवसगणनादक्षश्चायं व्यपेत घृणो यमः। त्वमपि वशगो मानव्याधे विचिन्तय नाथ हे! किसलय मृदुर्जीवेदेवं कथं प्रमदाजनः।। दूति ! त्वं तरुणी, युवा स चपलः, श्यामस्तमोभिर्दिशः, श्वासः किं त्वारेतागता, पुलकिता कस्मात् प्रसादः कृतः, “यः कौमारहरः स एवहि वरस्ता एव चैत्रक्षपाः’ इत्यादीनि अमुष्याः पद्यानि बहुचर्चितानि सन्तीति विस्तरभयान्नेह तानि वितन्यन्ते।

२० विज्जका

सुप्रसिद्धेयं कवयित्री खिष्टीयाष्टमशतके विद्यमानस्य सत्याश्रय पुलकेशि-द्वितीयस्य ज्येष्ठ तनय-चन्द्रादित्यस्य पट्टमहिषी आसीत्। एतस्याः पद्यानि न के वलम् -सदुक्तिकर्णामृत-शाई गधरपद्धति-सूक्तिमुक्तावली-सुभाषितहारावली सुभाषितरत्नभाण्डागारेषु संगृहीतानि सन्ति, अपितु काव्यशास्त्रीय ग्रन्थेष्वपि समुद्धृतानि सन्ति। अस्या गर्वोक्तिस्तु संस्कृतजगति अति प्रसिद्धति विजानते विपश्चितः।। आचार्यदण्डी स्वकीये काव्यादर्शे मङ्गलमाचरन्-“चतुर्मुखमुखाम्भोज-वनहंस वधूर्मम। मानसे रमतां नित्यं सर्वशुल्का सरस्वती।।” इत्येवं रूपेण सर्वशुक्लां सरस्वती स्तौति। नीलोत्पलदलश्यामा विज्जका तदसहमाना अधिक्षिपन्ती प्राह-“नीलोत्पलदलश्यामां विज्जकां मामजानता। वृथैव दण्डिना प्रोक्तं सर्वशुल्का सरस्वती।।” इति। ततः कश्चन कवेर्दण्डिनो भक्तः वाल्मीकिव्यासाभ्यामनन्तरं दण्डिनमेव तृतीयं कविं मन्यमानः प्रत्युवाच “जाते जगति वाल्मीकौ कविरित्यभिधाभवत्। कवी इति ततो व्यासे कवयस्त्वयि दण्डिनि” इति। इमां प्रसृत्वरीमुक्तिं समाकर्ण्य कर्णाटराजप्रिया विज्जका सगर्वं प्राह"एकोऽभून्नलिनात् ततश्च पुलिनाद् वल्मीकतश्चापरे ते सर्वे कवयो भवन्ति गुरवस्तेभ्यो नमस्कुर्महे। अर्वाञ्चो यदि गद्यपद्यरचनैश्चेतश्चमत्कुर्वते तेषां मूर्ध्नि ददामि वामचरणं कर्णाटराजप्रिया।।” १. सम्पूर्णपद्यानि मूलभागे द्रष्टव्यानि । १०२ गद्य-खण्ड र स्वकीयं कवित्वाभिमानं समुद्घोषयन्ती कवयित्री उच्चैर्गर्जतियदेषा नलिनोद्भवं ब्रह्माणम्, पुलिनोद्भवं द्वैपायनं व्यासं, वल्मीकप्रभवं वाल्मीकिं त्रीनेव कवीन् गुरून् मत्वा नमस्करोति, तदन्ये यदि केचन कविंमन्यमाना गद्यपद्यरचनया चेतश्चमत्कुर्वते तर्हि तेषां मूर्ध्नि वाम पादप्रहारं करोति। अस्या विशिष्ट रचनायाः प्रभावादेव समालोचक-विचक्षणाः समुद्घोषयन् “सरस्वतीव कार्णाटी विजयाङ्का जयत्सौ। या विदर्भगिरांवासः कालिदासादनन्तरम्।।” एतस्याः कतिपयानि हृद्यानि पद्यानि एतत् परिचयप्रसङ्गे मूलभागे उद्धृतानि सन्ति तेषां सौन्दर्य भावगाम्भीर्य, माधुर्यञ्च तत्र समास्वादनीयानि।

२१. विकटनितम्बा

कवयित्री विकटनितम्बाऽपि संस्कृतजगति अति प्रसिद्धा विद्यते । एतया विरचितानि बहूनि पद्यानि सुभाषितसंग्रहेषु अलंकारशास्त्र-ग्रन्थेषु च संगृहीतानि सन्ति। प्रायो नामानुरूपशारीरिकसंरचनात् परम विदुषी उत्कृष्ट कवयित्री अप्येषा न केनापि योग्यवरेण परिणीता। दौर्भाग्यात् सा एकस्मै महामूर्खाय दत्ता, योहि-सस्ये मासं मासे माशं वदति सकाशे तथा शकाशम् । उष्ट्रे लुम्पति रम्वाषम्वा, तस्मै दत्ता विकटनितम्बा।। अस्यां परिस्थितावपि मानस-स्थितिमनुकलयन्त्या एनया यानि-प्रसादमधुराणि विविधालंकार-भूषितानि विविधविषयकाणि रसमयानि हृयानि पद्यानि विरचितानि तानि सर्वाणि सहृदयरसिकैरास्वादनीयानि सन्ति । अस्या अन्योक्तिपरकाणि पद्यानि तु विशेषतः हृदय-स्पर्शीनि सन्ति । एतस्याः काव्यकौशल निदर्शकानि कतिपयानि पद्यानि परिचय प्रसङ्गे मूलभागे समुद्धृतानि तानि जिज्ञासुभिः तत्रैव द्रष्टव्यानि।

२२. गंङ्गादेवी

वर्तमान-वारङ्गल मण्डलान्तर्गतायाम् एकशिलानगर्याम् काकतीय वंशे समुत्पन्ना गङ्गादेवी विजयनगर-साम्राज्य-संस्थापकस्य महाराजबुक्कराजस्य प्रथम तनयस्य वीर-कम्पनरायस्य पट्टमहिषी आसीत्। खिष्टीय चतुर्दश शतक मध्यभागे वीर कम्पनरायः अस्याः पाणिमग्रहीत्। विविध-शास्त्रेषु निपुणा परम विदुषी महाकवयित्री गङ्गादेवी “मधुराविजय” महाकात्यं निर्माय चिरस्थायिनी महतीं ख्यातिमलभत। मधुरा (वर्तमान मदुरै) नगर्या अत्याचारपरायणं सुल्तानशाहं पराजित्य प्राप्तविजयश्रीकस्य पराक्रमशालिनो युवराज कम्पनरायस्य प्रजानु रञ्जनस्य विजयोत्कर्षरूपमाधिकारिक विषयवस्तु समधिकृत्य प्रणीतेऽस्मिन् नवसर्गात्मके महाकाव्ये महाकाव्योचितानि सर्वाणि तत्त्वानि सन्निहितानि सन्ति। अङ्गिनो वीररस्य परिपोषकाः श्रृङ्गार-हास्य-रौद्र-भयानकादयोऽन्येऽपि रसा अत्राङ्गरूपेण विलसन्ति। माधुयौजः प्रसादाख्यास्त्रयोऽपि तदन्तर्भूता श्लेष-प्रसाद-समता समाधि-सौकुमार्यादयो वामनोक्ताः सर्वेऽपि दशगुणास्तत्र काव्य-सौन्दर्य प्रकाशयन्ति। अपृथग्यत्न सम्पादकीयम्-संस्कृत-कवयित्री-रचना १०३ निवर्त्यश्लेषेण सह उपमारूपकोत्प्रेक्षादयो विविधालङ्काराः महाकाव्यमिदं विभूषयन्ति। अनुष्टुप्, उपजातिः, मालिनी, हरिणी, शिखरिणी, वियोगिनी, पुष्पिताग्रा, वंशस्थम्, द्रुतविलम्बितम्, शार्दूलविक्रीडितम्, औपच्छन्दसिकम् इत्यादीनां रसानुकूलच्छन्दसाम् विन्यासः काव्य-सौष्ठवं वर्धयति। एतन्महाकाव्यस्य विविध-वैशिष्ट्येषु (क) कवयित्री-जीवन कालिक-तत्साक्षात्कृत- कथावस्तुनः आधिकारिकतया प्रतिपादनम् (ख) कवयित्रीपतेरेव नायकत्वम्, (ग) कवयित्र्या नायिकात्वञ्च मुख्यवैशिष्ट्यानि सन्ति। धीरोद्धतप्रतिनायकस्य मधुरापुरी शासकस्य तुलुष्कनृपतेरत्याचार-नृशंस-शासनमुन्मूलयितुं कम्परायेण धर्म-युद्धं कृतमिति तस्य युद्धवीरत्वं धर्मवीरत्वञ्च प्रकटितं भवति। यद्यपि कवयित्र्या विशिष्टप्रतिभा-निपुणताभ्यास-हेतुकं सम्पूर्ण महाकाव्यं सामान्येन अस्याः कविकर्म-कौशलमभित्यनक्ति, तथापि सामान्य-विशेष-न्यायेन कानिचिद् विशिष्टान्युदाहरणानि अत्रोपन्यस्तानि। प्रथमसर्गे-आसीत् समस्त सामन्त-मस्तक न्यस्त-शासनः। बुक्काराज इति ख्यातो राजा हरिहरानुजः।। यश्शेष इव नागानां नगानां हिमवानिव। दैत्यारिरिव देवानां प्रथमः पृथिवीभुजाम्।। कलि-काल-महाधर्मप्लुष्टो धर्ममहीरुहः। यस्य दानाम्बुसेकेन पुनरङ्कुरितोऽभवत्। इत्यादयो बुक्क राज-प्रशस्तौ निर्मिताः श्लोकाः अपूर्व काव्य-सौष्ठवं सूचयन्ति। तत्रैव राजधानी-वर्णने तस्यासीद् विजया नाम विजयार्जितसम्पदः। राजधानी बुधैश्श्लाध्या शक्रस्येवामरावती।। सन्ध्यासु यत्र निर्यान्ति जालेभ्यो धूमराजयः। अन्तः प्रदीपिकालोक-चकित ध्वान्त- सन्निभाः।। यदङ्गनामुखाम्योज-लावण्यालाभ लज्जितः। कलङ्कच्छद्मना चन्द्रो व्यनक्ति हृदयव्यथाम् ।। युवराज कम्पनरायस्य पराक्रम-वर्णने इत्थं सङ्गरमूर्द्धिन चम्पनृपतिं नीत्वा कथाशेषतां श्रीमान् कम्पनृपेश्वरो जनयितुः सम्प्राप्तवान् शासनम्। १०४ गद्य-खण्ड काञ्चीन्यस्तजयप्रशस्तिरमिथस्सङ्कीर्णवर्णाश्रमंती नीत्या नित्य निरत्ययर्द्धिरशिषत् तुण्डीरभूमण्डलम् ।। राज्यसिंहासनासीनस्य कम्पनरायस्य चारुचर्या-वर्णने चतुर चक्रमचारु सरस्वती चरणनूपुरसिञ्जितमञ्जुलैः। भृशमरज्यत कम्पमहीपति स्सदसि सत्कविसूक्तिसुधारसैः।। शृङ्गाररस-वर्णने सरस-चन्दन-धारिषु मौक्तिक त्रिसर-निर्झर-धारिषु सुभ्रुवाम्। कुचतटेषु निदाध निपीडितो धृतिमगात् कुसुमायुधकुञ्जरः।। एवं विधानि शतशो मनोहराणि पद्यानि कवयित्रया गङ्गादेव्या रचना-चमत्कारं प्रकाशयन्ति।

२३ तिरुमलाम्बा

१५२१ खिष्टाब्दात् १५४२ खिष्टाब्दं यावत् विजयनगर-साम्राज्यं शासतो महाराजाच्युतरायस्य पट्टमहिषी तिरुमलाम्बा वरदाम्बिकापरिणयचम्पूकाव्यं प्रणीय चम्पूकाव्य-क्षेत्रे महतीं ख्यातिमलभत। राजकुमारेण अच्युतरायेण सह अनुपम सौन्दर्यशालिन्या वरदाम्बिकायाः परिणय रूपं कथानकमाधारीकृत्य विरचितम् श्रृङ्गार वीर-रौद्र-बीभत्स-भयानकेति रस-पञ्चकमिश्रितम् समपेक्षित सकलगुण-गणसंभृतम् सन्तुलित गद्यपद्यमयम् प्रकृत चम्पूकाव्यम्-गद्यानुबन्ध-रस-मिश्रित-पद्यसूक्ति-हृद्यं सत् कविमार्गजुषां सुखाय कल्पते इत्यत्र नास्ति संशीतिः। अधस्तन पद्ये अर्थानुकूलपदयोजनामञ्जुलरूपां कामपि विच्छित्तिं जनयति नासीरवीरतरवारि-विदारितारि थाराल-घोर-रुधिरौघ-तरङ्गिीभिः। दृप्यद् द्विपेन्द्रकर-शीकर-सान्द्रदान पाथोभरैरपि परागभरः शशाम।। __ सैनिकानां पराघातेन सघनधूलिराशिना समरभूमिः समाच्छादिता बभूव। किन्तु सेनाग्र भागस्थ-वीर-सैनिकानां शरीर-रुधिरौघतरङ्गिणीभिः करि-राज कर-शीकरैः, करिकपोल-निःसृत-मदधाराभिश्च स धूलराशिः शशामेति समरभूमि-वर्णनं कस्मै सचेतसे चमत्काराय न कथ्येत? सम्पादकीयम्-संस्कृत-कवयित्री-रचना १०५

२४. पण्डिता क्षमारावमहाशया

महाराष्ट्र प्रदेशान्तर्गत पुण्यपत्तने (पुणे नगरे) ४-७-१८६० खिष्टाब्दे क्षमा पण्डिता जनिमलभत। अस्याः जनकः शङ्करपण्डितः संस्कृतशास्त्रमर्मज्ञ मनीषी आसीत्। क्षमायाः स्वल्पे एव वयसि पितुः स्वर्गमनात् अस्याः प्रारम्भिक शिक्षा पितृव्यस्याभिभावकत्वेऽभवत्। स्नातकपरीक्षां समुत्तीर्य एषा उच्चशिक्षार्थम् आक्सफोर्ड विश्वविद्यालयमगच्छत्। तत्र अधीयानाया एव एतस्याः पाणिम् मुम्बईस्थः डा. राघवेन्द्रः अग्रहीत् एवमाजीवनममरभारत्याः समुपासनां विदघती पं. क्षमारावमहाशया २२.४. १६५४ ख्रिष्टाब्दे अमरपुरातिथिरभूत् । अमुष्या दुहिता लीलाराव महोदया, या आइ.सी.एस. हरीश्वर दयालस्य प्रेम-परिणय-सूत्रे निबद्धाऽभवत्, यदा नेपाले भारतीय राजदूतेन स्वपतिना दयालमहोदयेन सह काठमाण्डु नगरे समागता तदा मातु विभिन्नरचनानां नाटकरूपान्तरं विधाय प्रतिमासं राजदूतावासे, भारतीय सहयोगनियोगान्तर्गत् कार्यरतानामस्माकं सक्रिय सहयोगेन, तदभिनयं कुर्वती आसीत्। तदवसरेषु महाराज महेन्द्रवीरविक्रमशाहदेवः सपरिवारः तत्र अभिनयं द्रष्टुमागच्छन्नासीत्। लीलाराव दयाल महोदयाया एतेन सत्प्रयासेन तदानीं संस्कृतस्य प्रचारेण सह राजपरिवारेण साकं मधुर-सम्बन्धः प्रवर्द्धमान् आसीत्। लीलाराव महोदया मातु विविधानि रचनानि आघृत्य रङ्मञ्चोपयोगीनि नाटकानि व्यलेखीत्। उपर्युक्ताभ्योऽतिरिक्तानां कतिपयानां संस्कृत-कवयित्रीणां नामानि रचनानि च उपलभ्यन्ते। तासु देवकुमारिका-लक्ष्मीदेवी-मधुरवाणी त्रिवेणी-श्रीमती रमा चतुर्धरीणा-श्रीमती वनमाला प्रभृतीनाम् सप्तदशानां कवयित्रीणां रचनादिसहित-परिचयो मूलभागे प्रदत्तोऽस्ति। जिज्ञासुभिः तत्र द्रष्टव्यः।

  • मूलभागस्य परिशिष्टे अनेकाभि बौद्ध भिक्षुणीभि विरचितानि पालि भाषा-निबद्धानि जीवन-सार-तत्त्व-निदर्शकानि हृदय-स्पर्शीनि मधुराणि गीतानि निर्दिष्टानि सन्ति। बुद्धोपदेश प्रभावात् सांसारिक भोग-विलासाद् विरक्ताभिर्बुद्धमार्गानुगामिनीभिक्षुणीभिः विरचितेषु थेरीगाथे तिनाम्ना प्रसिद्धेषु गीतेषु मुक्तिमार्गस्यामरसन्देशा निर्दिष्टाः सन्ति । एतत् प्रसङेग मुक्ताऽम्बपाली सुमेधा प्रभृतीनाम् एकषष्टे भिक्षुणीनां नामानि, कासाञ्चित् परिचय-सहितानि, मूलभागे समुल्लिखितानि सन्ति। आधुनिक संस्कृत कवायित्रीणां कृतीनां परिचयः प्रकरणान्तरे प्रदर्शतस्तस्मात्तद्विवरणमत्र नेह वितन्यते।। भाग उपर्युक्त -विवरणेन विस्पष्टं भवति यत् वैदिक काले संस्कृत-कवयित्रीणां रचनाया या धाराप्रवाहिताऽ भवत् साऽनवरतं प्रवहमाना अद्यापि प्रवहति, संस्कृत-साहित्यं संवर्धयति तथा सहृदयहृदयानि सन्तर्पयतितरामिति शम्।

षष्ठोऽध्यायः