०३ नीत्युपदेशः

(क) नीतिः-नीयन्ते प्राप्यन्ते संलभ्यन्ते उपायादयः लौकिकाः पारलौकिका वा अर्था अनया अस्यां वा इति नीतिः। प्रापणार्थकान्नी धातोः करणे अधिकरणे चार्थे क्तिन्-प्रत्यये नीतिशब्दो निष्पद्यते। अतो नीति शब्दस्य व्यापकेऽर्थे ऐहिकानामामुष्मिकाणाञ्च समेषामुपायानां समस्तानि साधनानि समायान्ति। अत एव नीतिशब्दस्य विविधेष्वर्थेषु प्रयोगः प्राप्यते। मुख्यतः नीतेः वर्गद्वयं स्वीक्रियते-१. राजनीतिः, २. धर्मनीतिश्च। राजनीतेरेव अपर नाम दण्डनीतिः, यत्र साम-दाम-भेद-दण्ड रूपाणामुपायानाम् अन्येषाञ्च लौकिक-व्यवहाराणां विधानस्य वचनानि निर्दिश्यन्ते। अर्थ-कामरूपस्य पुरुषार्थद्वयस्य विधिरत्र प्रदर्श्यते। धर्म-मोक्षरूपस्य पुरुषार्थद्वयस्य च विषये वचनानि धर्मनीतौ निर्दिश्यन्ते।। (ख) उपदेशः-उपपूर्वकात् अतिसर्जनार्थक दिश धातोः भावे घञि निष्पन्नस्य उपदेश शब्दस्य शिक्षणम्,’ मन्त्रकथनम्,२ हितकथनम्, परामर्शदानम्, , व्यावहारिक शिक्षेत्यादि, विविधा अर्था भवन्ति। काव्यस्य विविधेषु प्रयोजनेषु कान्तासम्मितोपदेशः एव मुख्यं प्रयोजनं विद्यते। संस्कृत-कवय आदि कालादेव मनोरञ्जनेन सह शिक्षणस्य, हृदयावर्जनेन सह तत्त्वबोधस्य च अद्वितीयं साधनं काव्यं मन्यमानाः उपदेशात्मकं काव्यं विरचयन्तो दरीदृश्यन्ते। ते च क्वस्चित् स्वभावोक्त्या क्वचिच्च वक्रोक्त्या हितवचनं समुपदिशन्ति। क्वचित् प्रत्यक्षरूपेण क्वचिच्च परोक्षरूपेण शिक्षयन्ति। अस्मिन् उपदेशात्मके काव्ये नीतेरपि प्रतिपादनं भवत्येव। तत्र नीतेः प्रत्यक्षतः प्रतिपादनं यत्र भवति तत् उपदेशात्मकं नीतकाव्यं प्रथम नीतिवर्गे आगच्छति। यत्र परोक्षरूपेण कर्तव्याकर्तव्य-विषयकं हितम् कमनीयकाव्यद्वारा निर्दिश्यते तत् उपदेशात्मकं काव्यं द्वितीये उपदेशवर्गे आगच्छति। यद्यपि अनेकत्र एवं विधाया विभाजक-रेखाया अङ्कनं कठिनं भवति तथापि साधारणतया वर्गद्वये पूर्वोक्तरीत्या विभाजनं क्रियते। (क) नीतिकाव्यम्-यत्र काव्ये स्वच्छाचरणस्य, आदर्शचरित्रस्य, जीवन-समाजोपयोगि कर्तव्याकर्तव्य-निर्देशकस्य च हितवचनं प्रतिपाद्यते तन्नीति-काव्यम्। भारतीया मनीषिणः स्वानुभवमाधारीकृत्य जनानां कृते शान्तिमयं सुखमयं भव्यं जीवनं यापयितुं समुचितमार्ग १. उपदेशेन मन्त्रान् संप्रादुः। उपदेशाय ग्लायन्तः…… निरुक्तम् । २. चन्द्रसूर्यग्रहे तीर्थे सिद्धक्षेत्रे शिवालये।मन्त्रमात्रप्रकथनममुपदेशः स उच्यते।। शब्दकल्पद्रुमः । ३. उपदेशो हि मूर्खाणां-प्रकोपाय न शान्तये।।हितोपदेशे विग्रहे उपदेशो न दातव्यो यादृशे तादृशेजने । तत्रैव। ४. सुशिक्षितोऽपि सर्व उपदेशेन निपुणो भवति।मालविकाग्निमित्रम्। ५. अथोपदिश्यते मधुरेण श्लेष्माभिवर्धते । शब्दकल्पद्रुमः। ८१ सम्पादकीयम्-नीत्युपदेशः निरदिशन् अद्यापि च निर्दिशन्ति । ते मानव-प्रकृते र्दुलबतां विज्ञाय तां दुर्बलतां विजेतुं जीवनस्य जटिल-परिस्थितौ धैर्यपूर्वकं सदाचार-परिपालनाय महत्त्वपूर्ण सत्यं शिवं सुन्दरञ्च निर्देशमकुर्वन्। भारतीय-चिन्तकानां दृढोऽयं विश्वासः यत् मानवस्य वर्तमानजीवनं तस्य पूर्वार्जित शुभाशुभ कर्मणः फलम् तथा वर्तमानमपि कर्म तस्य भावि जन्मनो निर्माणे असाधारणं कारणं भविष्यति। अतश्च भावि-जीवने शुभफलमवाप्तुं वर्तमानजीवने नीतिपूर्वकं सदाचरणं परमावश्यकम् यथामधुरफलमास्वादयितुं तत्फलदायकतरोरेव रोपणमावश्यकं भवति। एतदर्थमेव सदाचरणाय नीतिशास्त्रं प्रादुरभूत्। तत्र क्वचित् प्रभुसम्मितवाक्येन क्वचिच्च कान्तासम्मितवाक्येन नीतिवचनानि निर्दिष्टानि, समुपदिष्टानि च सन्ति। तान्येव वचनानि सूक्ति-सदुक्ति’ लोकोक्ति-छन्दोबद्धनीति-वाक्यानि विविधानि रूपाणि परिगृह्य विकसितानि। एतेषु कानिचन नीति-वाक्यानि व्यवहार-कोविदानां कण्ठेषु सुरक्षितानि आसन्, यानि मानव-जीवनस्य उत्कर्षापकर्षप्रसङेषु प्रकटितानि अभूवन् । कानिचित् रामायण-महाभारत-पुराण मन्वादि स्मृतिग्रन्येषु महर्षिभिः प्रतिपादितानि । कतिपयानि नीति- वचनानि कविभिः स्वतन्त्ररूपेण विरचितानि। दशम शताब्दी यावत् नीति-वचनानां विकासस्य इयमेव स्थितिरासीत्। पश्चात् पूर्वस्मिन् काले प्रतिपादितानां नीति-वाक्यानां संकलनं विधाय तेषां विविधाः संग्रहा विद्वद्रि विहिताः। संग्रहात्मकमिदं कार्यमतीव महत्त्वपूर्णमभूत्, यतः अनेकेषाम् नीति वचनानामध्ययन-पूर्वकं यतस्ततः संकलनमतीव दुष्करमासीत्। महता परिश्रमेण साध्यमिदं संकलनात्मकं कार्यं यत् तदानीं प्रादुरभवत् तदग्रेऽपि प्रवर्धमानमभूत् । दशम शताब्धाः परं संग्रहात्मककार्येण सह एतस्मिन् क्षेत्रे स्वतन्त्रग्रन्थलेखन कार्यमपि न कदापि अवरुद्धमभूत्। अनेके नीत्युपदेशात्मकग्रन्थाः कवि-कोविदैर्नीति निपुणैर्विरचिताः। नीत्युपदेशद्वारा समाजे सदाचार-शिक्षणमित्येव एतद्रचनाया मुख्यं प्रयोजन मासीत्। __ नीत्युपदेशात्मक-ग्रन्थानां रचनासु कविभिः विविधाः शैल्यः अनुसृताः। क्वचिद् दम्पत्योः परस्परसम्वादे नीत्युपदेशा वर्णिताः सन्ति, यथा रामचन्द्रागामिनः सिद्धान्तसुधातटिन्याम्, क्वचिद् द्वयोः प्रेमासक्तयोः परस्परालापे, यथा, चोरकवेः विद्यासुन्दरे, रम्भाशुकसम्वादे च, क्वचिद् युवत्या सह परिव्राजकस्य वार्तालापे, यथा मदनमुखचपेटिकायाम्, कुत्रचित् द्वयोः पश्वोः सम्वादे, यथा घटखर्परस्य नीतिसारे सिंहशूकरयोः सम्वादे,’ क्वचिच्च पार्वती परमेश्वरयोः परिसम्वादे नीत्युपदेशात्मिका रचना विलसन्ति। उपर्युक्ताभ्यः शैलीभ्यो भिन्नायामपि अन्योक्तिरूपायां प्रहेलिकास्पायाञ्च पद्धत्याम् नीत्युपदेशात्मकं वर्णनं समुपलभ्यते।। अतिप्राचीनकालादेव इयमुक्तिः प्रचलितास्ति यत् “परोक्षप्रियाहि देवाः प्रत्यक्षद्विषः” । परोक्षरूपेण वर्णनं देवानामपि प्रियङ्करं भवति। कस्यापि विषयस्य प्रत्यक्षतः अभिधया १. पञ्चतन्त्र-हितोपदेशादौ तु एतत् सुप्रसिद्धमेव। गद्य-खण्ड प्रतिपादनात् तस्य परोक्षरूपेण व्यञ्जनया प्रतिपादनं कमपि अपूर्वं विशिष्टं चमत्कारमादधतीति अनुभवन्ति भावुका विपश्चितः। अतएव आनन्दवर्धनाभिनवगुप्त-मम्मटादयः काव्ये-प्रतीयमानमर्थ सर्वातिशयिरूपं मन्यन्ते। सहृदयाश्च तथैवानुमोदन्ते। एवमेव नीत्युपदेशो यत्रान्योक्तिसरण्या, प्रहेलिका-पद्धत्या वा प्रतिपाद्यते तत्र नीत्युपदेशात्मकः सोऽर्थः स्वप्रयोजनसिद्धौ अधिकं साफल्यं भजते। अतएव अनेके कवयः एतया पद्धत्या स्वाभीष्टं प्रतिपादयन्ति। पण्डितराज जगन्नाथस्य अन्योक्तेः प्रभावो विद्वरिभनुभूयते एव। अन्योक्तिसरण्या नीत्युपदेशात्मकवर्णने-एकनाथ-काश्यपि-गणपतिशास्त्रि-गीर्वाणेन्द्र धनश्याम-जगन्नाथ प्रभृतीनाम् अन्यापदेश शतकानि, आच्चान दीक्षित लक्ष्मीनृसिंहादीनाम् अन्योक्तिमाला, हरिकृष्ण-प्रणीतः अन्योक्तिसहाध्यायः, भट्टवीर दर्शन विजयमणिसोमनानाथादि विरचितानि अनादि अन्योक्तिशतकानि, अज्ञात नामक कविकृता अन्यायदेशपद्धतिः एवं विधा अनेका अन्याश्च रचना नीत्युपदेशं विदधति। इतो भिन्नानामपि कृतीनां सूचना लुडविक स्टर्नबारव महोदयेन महासुभाषितसंग्रहग्रन्थस्य भूमिकायां प्रदत्ता, यत्र कविमयूरकृतं मयूराष्टकम्, पुरुषोत्तमविरचिता विष्णुभक्तिकल्पलता, उत्प्रेक्षावल्लभ-शिवदास प्रणीतम् चत्वारिंशत् पद्धत्यात्मकम् भिक्षाटनकाव्यञ्चात्र उल्लेखनीयतां भजन्ते। प्रहेलिकारुपायां पद्धत्यामपि नीत्युपदेशात्मककृतीनां संख्या अनल्पा विद्यते। यद्यपि संस्कृत-काव्यशास्त्रे प्रहेलिकारूपं काव्यं रसानुभूतौ बाधकं सत् अधमायते, प्रहेलिकारूपोऽलंकारश्चापि रसस्य परिपन्थित्वान्नालंकारकोटौ परिगण्यते,’ तथापि विवेचन-विचक्षणैः समालाचकैः नीत्युपदेशात्मक-काव्यकोटौ प्रहेलिका सादरं स्वीक्रियते, यतोहि एतया सरण्या प्रतिपादितो नीत्युपदेशः कमपि चमत्कारमादधाति। अतएव चतुष्पष्टि-रूपासु कलासु प्रहेलिकापि अन्यतमत्वेन परिगृह्यते। __ धर्मदासः स्वकीये “विदग्ध मुखमण्डने” निम्नलिखितप्रकारेण प्रहेलिकां परिभाषते “व्यक्तीकृत्य कमप्यर्थ स्वरूपार्थस्य गोपनात्। यत्र बाह्यान्तरावौँ कथ्येते सा प्रहेलिका।।” अत्र प्रतिपाद्यमानमर्थ विधाय कोऽप्यन्योऽर्थः प्रतिपाद्यते। आर्थीशाब्दीति भेदेन एषा द्विविधा। दण्डिनां काव्याद” एतस्या अनेके भेद-प्रभेदाः प्रदर्शिताः। वस्तुतो वैदिक वाङ्मयेऽपि ब्रह्मविषये अध्यात्मविषये च रहस्यात्मकं कूटात्मकञ्च वर्णनं, बलोद्याः कथाश्च प्राचुर्येण उपलभ्यन्ते। ऋग्वेदे, यजुर्वेद, अथर्ववेदे, ऐतरेय १. रसस्य परिपन्थित्वान्नालंकारः प्रहेलिका। ८३ सम्पादकीयम्-नीत्युपदेशः कौषितकि-तैत्तिरीय-शतपथ- ब्राह्मणेषु, बृहदारण्यकोपनिषदि, आपस्तम्बाश्वलायन-कात्यायन लाट्यायन-सांख्यायन-वैतानसूत्रेषु च रहस्यात्मकः कूटात्मकश्च उपदेशः उपलभ्यते। रामायण महाभारतादौ, बौद्ध-जैन-साहित्ये च उपदेशात्मकानि वचनानि प्राप्यन्ते। सुभाषितसंग्रहेषु अनेके कूटात्मका उपदेशाः संगृहीताः सन्ति। प्रहेलिकानामनेकानि संकलनानि मिलन्ति येषु धर्मदासस्य विदग्धमुखमण्डनम् अतीव प्रसिद्धम् । एतस्य अनेकानि पद्यानि शाङ्गधरपद्धतौ जल्हणस्य सूक्तिमुक्तावल्याञ्च संगृहीतानि सन्ति । आलापान्तरालापरूपेण विरचिता प्रहेलिका विदग्धमुखमण्डनकारस्य धर्मदासस्य कवि-कर्म-कौशलं निर्दिशति। चतुर्षु अध्यायेषु विभक्तं विंशत्यधिक-शतद्वय-श्लोकात्मकं विदग्धमुखमण्डनम् वस्तुतः अन्वर्थनामकं विद्यते। प्रहेलिकात्मकरचनासु नागराजस्य भावशतकम् अज्ञातकर्तृकम् समस्यादीपकम्, अज्ञात कर्तृकमेव सीताविनोद काव्यम्, कविकाशीनाथ विरचितः “दृष्टकूटाणवः”, हिमकर शर्मणा लिखितम् “संसार-विहारकाव्यम्”, “प्रहेलिकापट्नुति कूटाख्यानञ्च,” लक्ष्मीनारायणेन प्रणीता समस्या पूर्तिः एवं विधानि अन्यानि च उपदेशात्मकप्रहेलिकारूपाणि काव्यानि कवि-कर्म-कौशल-निदर्शनानि विद्यन्तेतराम्। सूचीकटाहन्यायेन अन्योक्ति- प्रहेलिकारूपस्य नीत्युपदेशात्मक काव्यस्य उपर्युक्तमेतद् विवरणम्। नीत्युपदेशात्मकानि काव्यानि यानि मुख्यधारायां विलसन्ति तेषां विवरणमितः परं प्रस्तूयते। “धर्मे चार्यै च कामे च मोक्षे च भरतर्षभ। यदिहास्ति तदन्यत्र यन्नेहास्ति न तत् क्वचित् ।।” इति महाभारतीय वचनेन विज्ञायते यत् धर्मार्थकाममोक्षविषयानधिकृत्य यत् किमपि निरूपणीयं तत् सर्वं महाभारते निरूपितं वर्तते। अतः च मानव- जीवनोपयोगि नीत्युपदेशात्मकं वचनमपि तत्र प्राचुर्येण समुल्लिखितं वर्तते। नीतिवचनानां खनि-स्वरूपादस्मादेव महाभारतात् समुद्भूता अतिप्रसिद्धा विदुरनीतिः, या प्रज्ञावादान् प्रभाषते, लोकप्रियतां जीवनोपयोगिताञ्च समादधाति। __षडेव तु गुणाः पुंसा न हातव्याः कदाचन। सत्यं दानमनालस्यमनसूया क्षमा घृतिः।। इत्यस्मिन्नुपदेशात्मके वचने निहिता नीतिरपि सम्यक् प्रकाशते। एवमेव रामायण-पुराणादौ, स्मृति-ग्रन्थेषु, बौद्ध-जैन-साहित्ये च नीत्युपदेशात्मकानि वचनानि प्रतिपादितानि सन्ति, यानि पूर्वमेव चर्चितानि। __परस्तात् चन्द्रगुप्तमौर्य-राज्य-संस्थापकस्य कौटिल्यापरनामधेयस्य चाणक्यस्य सारगर्भिताति कालजयीनि सूत्ररूपाणि पद्यरूपाणि च नीत्युपदेशवचनानि समाजस्य सम्मुखमागतानि । यद्यपि ६४ गद्य-खण्ड चाणक्यनीति-दर्पणे महाभारत-पुराण-मन्वादिस्मृति-ग्रन्थानामपि कतिपयानि वचनानि दृश्यन्ते, तथापि बाहुल्येन चाणक्येन प्रणीतत्वात् प्रधानव्यपदेशन्यायेन चाणक्यनीतेरेव तानि वचनानि व्यपदिश्यन्ते। यानि नीत्युपदेशवाक्यानि तेन सूत्ररूपेण प्रतिपादितानि तानि चाणक्य-सूत्राणि निगद्यन्ते। __ महतः कालस्यान्तराले विशालेऽस्मिन् देशे चाणक्य-नीतिवचनानि कानिचित् प्रकाशितानि, कानिचित् पाण्डुलिपिषु सुरक्षितानि। यानि च जन-कण्ठेषु रक्षितानि तानि समये समये लिपिबद्धानि भवन्त्यपि विभिन्नरूपतां गतानि। वर्तमानशताब्दयाः प्रारम्भे क्रेस्लरमहाशयः चाणक्यनीति-वचनेषु गवेषणं विधाय शोध-निबन्धं च प्रस्तूय विपश्चितां ध्यानमाकर्षत् । अयं हि सप्तदश हस्तलेखान् समधीत्य तदाधारेण प्रामाणिकं संस्करणमपि प्रस्तोतुं प्रयासमकरोत् । शताब्द्याश्चतुर्थचरणे लुडविक स्टर्नबारव-महोदयः शतत्रय-मितां मातृकां संगृह्य सम्यक् परीक्ष्य च क्रेस्लर महाशय-संस्करण-साहाय्येन षट्सु भागेषु विभज्य चाणक्यनीति संग्रहस्य प्रामाणिक-संस्करणम् होशियारपुरस्थ-विश्वेश्वरानन्दवैदिक शोधसंस्थान द्वारा प्रकाशितमकार्षीत्। प्रो. स्टर्नबारव महोदयस्य श्लाघनीयोऽयं प्रयासः चिरस्मरणीयतां समधिगच्छति। एतस्य षट्सु पाठेषु प्रथमे पाठे चाणक्यनीतिदर्पणः प्रकाशते। सप्तदशसु अध्यायेषु विभक्तेऽस्मिन् ३४२ श्लोकाः संकलिताः सन्ति। _द्वितीयपाठे, प्रथम पाठस्य संक्षिप्ररूपे, अष्टौ अध्यायाः (१०६ तः १७३) चतुष्षष्टिमितानि पद्यानि च सन्ति। अस्य तृतीयः पाठः चाणक्यनीतिशास्त्रम् चाणक्यशतकम् इति नामान्तरेण परिचितं वर्तते। एतस्य प्रारम्भिकं पद्यद्वयम् सूचयति यदिदं नानाशास्त्रोद्भवं राजनीति-समुच्चय- रूपं समग्रशास्त्रबीजरूपञ्च वर्तते। एतज्ज्ञानेन मूर्खापि पण्डितो भवति। तथाहि नानाशास्त्रोद्धृतं वक्ष्ये राजनीति-समुच्चयम्। सर्वबीजमिदं शास्त्रं चाणक्यं सार-संग्रहम् ।। मूलसूत्रं प्रवक्ष्यामि चाणक्येन यथोदितम्। यस्य विज्ञानमात्रेण मूर्यो भवति पण्डितः।। अनुष्टुप् छन्दसि निबद्धः अष्टोत्तरशतमिताः श्लोकाः अत्र विद्यन्ते। अयमेव पाठः प्रायः चाणक्यनीतिमूलपाठः। __ चतुर्थपाठः चाणक्यसार-संग्रह-नाम्ना प्रसिद्धः । अत्र अनुष्टुभि निबद्धाः शतत्रय-श्लोकाः विलसन्ति। अस्मिन् लोकनीत्या सह राजनीतेरपि विस्तरेण उपदेशाः वर्तन्ते। अत्र शुभाशुभ ८५ सम्पादकीयम्-नीत्युपदेशः कर्मणोः, कर्तव्याकर्तव्ययोः, धर्माधर्मयोः, विनयाविनययो निरूपकाः सदुपदेशा-विलसन्ति। असारे ऽस्मिन् संसारे सारचतुष्टय-निर्देशकम् अदसीयं निम्नोक्तं हितवचनं नितरां समीचीनम् “असारे खलु संसारे सारमेतच्चतुष्टयम्। काश्यां वासः सतां सङ्गःगङ्गाम्भः शम्भु-पूजनम्।।" पञ्चमपाठस्तु लघुचाणक्य-नाम्ना ख्यातिं भजते। अयं पाठः न केवलं भारते, अपितु युरोपादि-देशेष्वपि-प्रसिद्धिं गतोऽस्ति। गेलेनोस नामा युनान देशीयः संस्कृत-विज्ञः स्वभाषायामेतस्यानुवादं विधाय गत शताब्दी-प्रारम्भे एव तत् प्रकाशनं व्यधात् । लघुचाणक्यास्यास्य संग्रहः परमोपयोगितामादधाति। चाणक्यराजनीतिशास्त्रनामकः एतस्य षष्ठः पाठः सर्वाधिकविशाल-संग्रहोऽस्ति। अष्टसु अध्यायेषु विभक्तेऽस्मिन् संग्रहे ५३४ श्लोकाः सन्ति। एतेषु ३६७ पद्यानि अस्मिन्नेव संग्रहे उपलब्धानि सन्ति नान्यत्र । एतस्य चतुर्थपञ्चमाध्याययोर्वर्णिता विषया मुख्यतो राजनीत्या सम्बद्धाः सन्ति, अतः एतस्य राजनीतिशास्त्रमिति नामकरणं सर्वथा समीचीनम् । चतुर्थाध्याये राज्ञस्तद्व्यवहारस्य च उपदेशोऽस्ति । पञ्चमाध्याये राज्ञः सेवकस्य, मन्त्रिणः, पुरोहितस्य, सेनापतेश्च कर्तव्यानां समुपदेशा विद्यन्ते। खिष्टीय नवमे एव शतके एतस्यानुवादः तिब्बतदेशीयतञ्जूरभाषायामभूत्। सुभाषितसंग्रहेषु एतस्मादेव पाठात् बाहुल्येन पद्यानि संकलितानि सन्ति, अतश्च एतत् पाठस्य महत्त्वमतिशेते। लुडविक स्टर्नबारव महोदयानुसारेण चाणक्यनीते मूलग्रन्थे साकल्येन १११६ श्लोकाः सन्ति। किन्तु सुभाषितसंग्रहेषु चाणक्य नाम्ना संकलितानां विकीर्ण-पद्यानां संख्या सहस्रद्वयादप्यधिका वरीवर्तीति मनुते पद्मभूषण आचार्य बलदेवोपाध्यायः। द्वीपान्तरेषु भारतीय-संस्कृतेः प्रचार-प्रसार-समयादेव नीत्युपदेश-वचनानां, सुभाषितानाञ्च तत्र प्रचारोऽभवत्। बृहत्तरभारतदेशेषु इमानि नीति-वचनानि, सुभाषितानि च अतीव लोक-प्रियाणि अभूवन्। जीवनं सुखमयं विधातुं तत्रत्या जना एतानि आत्मसात् अकुर्वन्। तिब्वत-मङ्गोल-मञ्चूरिया-नेपाल-सिंहल-वर्म-श्याम-जाबा-वालीसुमात्रादि देशेषु एतेषां नीत्युपदेश-वचनानां व्यापकप्रचारोऽभूत् । तत्रत्यासु भाषासु एषां विभिन्ना अनुवादा अभूवन्। मयूराक्षस्य नीतिशास्त्रम् चाणक्यराजनीतिशास्त्रस्यैव रूपान्तरम् विद्यते। एवंहि एतेभ्यो देशेभ्यः युरोपादि देशेषु एतेषां भ्रमणमभूत्। एतेन भारतीयानामेतासां कृतीनां लोकप्रियता, उपादेयता, व्यावहारिकता च विदेशेष्वपि परिज्ञायन्ते। पञ्चतन्त्रस्येव चाणक्यनीतिशास्त्रस्य विश्वस्मिन् भ्रमणमेतस्य महत्त्वं संसूचयतितमाम्। नीत्युपदेशात्मक-रचना-कारेषु चाणक्यात् परं द्वितीयं स्थानं भजते भर्तृहरिः, यस्य नीति-श्रृङ्गार-वैराग्यात्मकं शतकत्रयम् अतीव जन-प्रियमभूत्। एतस्मिन् शतकत्रये नीत्या ६६ गद्य-खण्ड सह सदुपदेशस्य मनोहर-समन्वयः एतस्य महत्त्वं प्रवर्धयति। शतद्वयादप्यधिक-संस्करणानि एतस्य लोकप्रियतां महत्ताञ्च प्रमाणयन्ति। प्रो. डी.डी. कोशाम्बि महोदयेन ३६६ मातृका आधारीकृत्य शतकत्रयस्य सामीक्षिकं संस्करणं महता परिश्रमेण विहितम्। एतच्च विद्वत्सु अतीव समादृतं वर्तते। ऐतिहासिक-प्रामाण्येन परिज्ञायते यन्महावैयाकरण-पद्यनाभमिश्रः अब्राहमरोजरमहोदयम् शतकत्रयस्य नीति-वचनानि शिक्षयाञ्चकार। एतत् शतकत्रयमपि युरोपादिदेशेषु सप्तदशशतके एव प्रसिद्धिमगात्, विद्वद्भिश्च समादृतमभूत्।। भर्तृहरि नाम्ना निर्दिष्टानि विटवृत्त-विज्ञानशतक-राहतकाव्य-रामायणरूपाणि नीत्युपदेशात्मकानि काव्यानि मिलन्ति, किन्तु एषां भर्तृहरेः कर्तृत्वे विवेचकाः संशेरते। भर्तृहरेः शतकत्रयस्य आदर्शे पश्चात् अनेकानि नीत्युपदेशात्मकानि काव्यानि कविभि विरचितानि, येषु महाकवि शिल्हणस्य शान्तिशतकम्, भर्तृहरे-वैर्राग्यशतकमनुहरति। एवमेव धनदराजस्य शृङ्गार-नीति-वैराग्यात्मकं शतकत्रयम् भर्तृहरेः शतकत्रयमनुसरति। जनार्दनभट्टस्य शृङ्गारशतकम, वैराग्यशतकञ्च’, कविनरहरेः शृङ्गारशतकम्, अप्पयदीक्षितस्य वैराग्यशतकम् एवंविधानि अन्यान्यपि शत-कानि भर्तृहरेः शतकत्रयस्यैव प्रतिरूपाणि सन्ति। पण्डितराज जगन्नाथस्य “भामिनीविलासः” भर्तृहरि-शतकत्रयस्य छायायामेव विश्रान्तिं लभते। सुभाषितसंग्रहाणां तालिकायामेका शतकावली विद्यते, यस्याम्-अमरुशतक-शान्तिशतक सूर्यशतक-भर्तृहरि-शतकत्रयादीनां श्लोकाः संकलिताः सन्ति। नीत्युपदेशात्मक-पद्य-प्रसङ्गे अमरुशतकस्यापि पद्यानि संगृहीतानि विद्यन्ते, एतावता शृङ्गारप्रधानमपि अमरुशतकम् नीत्युपदेशात्मक-काव्येषु परिगणितं वर्तते, यच्च समीचीनमेवेति मन्यन्ते विवेकिनः। __ जयापीडस्य (७७६-८१३खि.) प्रधानामात्य-कविवरदामोदरगुप्तस्य कुट्टनीमतम् तदानीन्तनीं सामाजिकी दुरवस्थां प्रदर्शयत् समाजम्, विशेषतः राजपरिवारं, सामन्तं, विलासिनं परिष्कर्तुं, परिमार्जयितुम्, तेषां जीवनं सफलयितुञ्च अतीव सरसवर्णनेन विविधानुपदेशान् निर्दिशति। २०५६ मितासु मनोहरासु आर्यासु निबद्धं काव्यामिदं संस्कृत-जगति अतीव प्रसिद्धिमवाप। एतेन विरचितानामार्याणां सम्बन्धे समालोचक-विचक्षणः समुद्गिरति “मसृण-पद-रीति-गतयः सज्जन-हृदयाभिसारिकाः सुरसाः। मदनाद्वयोपनिषदो विशदा दामोदरस्यार्याः ।।” कुट्टनीमतस्य सरसानि पद्यानि काव्यशास्त्रीयग्रन्थेषु उदाहरणरूपेण, सुभाषितसंग्रहेषु च विशिष्टोपदेशरूपेण च परिगृहीतानि, यानि एतस्य साहित्यिकम् औपदेशिकञ्च महत्त्वं संसूचयन्ति। __ औचित्यविचारचर्चाचुञ्चुः व्यङ्ग्यात्मक काव्य-रचनापटुः आचार्य क्षेमेन्द्रः नीत्युपदेशात्मक काव्यप्रणयन-क्षेत्रेऽपि अविस्मरणीयं योगदानं विदघाति। काव्यकलामुपदेष्टुं, कविकण्ठं भूषयितुञ्च क्षेमेन्द्रः ‘कविकण्ठाभरणं’ विवरचयाञ्चकार। एतच्च स्वप्रयोजनसिद्धौ सर्वथा ८७ सम्पादकीयम्-नीत्युपदेशः सफलमभूत् । समाजे प्रसृत्वरं दुराचारम्, विभिन्न वर्गीयं दोषजातञ्च दूरीकर्तुं कान्तासंमितोपदेशद्वारा समुपदेशात्मकं व्यङ्ग्यनिष्ठोपदेशात्मकञ्च अनेक काव्यं विरचय्य वस्तुतः स समाजस्य कृते क्षेमेन्द्रोऽजायत। एतस्य रचनासु ‘चारुचर्याशतकम्’ ‘चतुर्वर्गसंग्रहः’, आंशिकरूपेण ‘कविकण्ठाभरणञ्च’ उपदेशत्मकान्येव वर्तन्ते। ‘कलाविलासः’, ‘दर्पदलनम्’, ‘देशोपदेशः’, ‘नर्ममाला’, ‘सेव्यसेवकोपदेशः’, ‘समयमातृका’ च व्यङ्ग्यात्मना उपदेशं कुर्वन्ति। एतासु कृतिषु दर्पणायमानासु तत्कालीना सामाजिक-परिस्थितिः स्पष्टमवलोक्यते। तत्र कवेः हास्य-प्रयोगः व्यङ्ग्य-बाण-प्रहारश्च अतीव कौशलेन विहितः परिलक्ष्यते। __“कूटलेख-प्रयोगे कुशलः कायस्थः सर्वकार्य-सिद्धिप्रदां भगवतीं मसीम् कमलाश्रय प्रबलं कलमञ्च प्रणमति’ इत्यत्र हृदयस्पर्शी व्यङ्ग्यार्थः कमपि अपूर्वमेव चमत्कारं जनयति। स्वोद्देश्यं सफलयितुं कविर्यत् निगदति तत् सर्वथा समीचीनम् “अपि सृजन-विनोदायो स्मिताहास्य सिद्धौ। कथयति फलभूतं सर्वलोकोपदेशम्।।” पञ्चत्रिंशदधिकशत-मित-मुक्तक श्लोकात्मिकायाम् भोजराजस्य ‘चारुचर्यायाम्’ दैनिकाचार-सदाचाराहिककृत्यानां सम्यनिर्देशः, तदाचरितुं, समुपदेशश्च वर्तेते। __ विभिन्नच्छन्दस्सु निबद्धासु षट्सु पद्धतिषु विभक्ता दक्षिणामूर्तेः ‘लोकोक्तिमुक्तावली’ नीत्युपदेशात्मिका सफला कृतिर्विद्यते। एवमेव घटकर्परस्य ‘नीतिसारः’, लक्ष्मणसेनसभासदः वङ्गीयकवेः गोवर्धनाचार्यस्य ‘आर्यासप्तशती’ च शृङ्गाररसप्रधानापि मार्मिकोपदेशे महत् साफल्यं भजतः। हलायुधस्य ‘धर्मविवेकः’, जल्हणस्य ‘मुग्धोपदेशः’, कल्यलक्ष्मीनृसिंहस्य ‘कविकौमुदी’, कृष्णकान्तवल्लभस्य ‘काव्यभूषणशतकम्’, कुसुमदेवस्य ‘दृष्टान्तशतकम्’, पद्यमनाभ-सुभद्रा तनूजन्मनो मिथिलाभिजनस्य मधुसूदनमिश्रस्य ‘अन्यापदेशशतकम्’, शंकराचार्यस्य विश्वविश्रुतः ‘मोहमुद्गरः’, अज्ञातकर्तृकम् ‘मूर्खशतकम्’, नीलकण्ठदीक्षितस्य ‘अन्यापदेशशतकम्’, ‘कलिविडम्बनम्’, ‘सभारञ्जनशतकम्’, ‘शान्तिविलासः’, “वैराग्यशतक"ञ्च नीत्युपदेशात्मक काव्येषु महती प्रसिद्धिं स्वाभीष्टसिद्धौ सफलताञ्च आदधति। __ काव्यशास्त्रे कविकर्म-कौशले च परम विश्रुतः रससिद्धकविः पण्डितराजजगन्नाथः नीत्युपदेशक्षेत्रेऽपि ‘अश्वघाटी’ रचनया परां-प्रसिद्धि प्राप। एतस्य मत्तेभच्छन्दसि निबद्धानि मुक्तकपद्यानि नीति-भक्त्योः संगम-स्थानानि सन्ति। __अज्ञातकर्तृकानि पञ्चरत्न-षड्रत्न-सप्तरत्नाष्टरत्न-नवरत्नानि नामानुरूप-संख्याक पद्यात्मकानि सम्यग्रुपेण नीत्युपदेशौ वर्णयन्ति। अज्ञातकर्तृकमेव ‘पूर्वचातकाष्टकम्’ ‘उत्तरचातकाष्टकञ्च’ उपदेशात्मकं लघुकाव्यं वर्तते। एतस्य आङ्गल-जर्मनादि-भाषासु विहितोऽनुवादः अस्य महत्त्वमभिव्यनक्ति।८८ गद्य-खण्ड __ राक्षसकवेः , ‘कविराक्षसायः’, कविरामचन्द्रस्य व्यर्थकम् ‘रसिकरञ्जनम्’, शम्भुकवेः द्वयर्थिका ‘अन्योक्तिमुक्तालता’, शंकरकविकृता ‘शतश्लोकी’, कुरुनारायणप्रणीतम् ‘सुदर्शनशतकम्’ अज्ञातकर्तृकः रम्भाशुकसम्वादात्मकः ‘शृङ्गारज्ञाननिर्णयः’, अज्ञातकर्तृकम् ‘वानराष्टकम्’, ‘वानर्यष्टकञ्च’ वञ्चनाथस्य ‘महिषशतकम्’ ‘वञ्चेश्वरमहिषशतकञ्च’, वररुचिरचितम् ‘नीतिरत्नम्’, गर्व-सेवा-दया-शान्त्यादि-विषय-सम्बद्धा द्वादशसु पद्धतिषु विभक्ता वेदान्तदेशिकविरचिता ‘सुभाषितनीवी’, एतस्यैव पञ्चपद्यात्मकं व्यर्थकम् ‘वैराग्यपञ्चकम्’, वेतालभट्टस्य षोडशपद्यात्मकं ‘नीतिप्रदीपलघुकाव्यम्’, विश्वेश्वरस्य ‘अन्योक्तिशतकम्’, गुमानीपन्तस्य ‘गुमानीनीतिः’, ‘उपदेशशतकञ्च’ नीत्युपदेशक्षेत्रे भव्यानि काव्यानि सन्ति। __ उपर्युक्ता एता नीत्युपदेशात्मिका विशिष्टा रचना वर्तन्ते, यासां चर्चात्र कृता। एतत् क्षेत्रीया अन्या अपि अनेका रचना विद्यन्ते, याः पाण्डुलिपिष्वेव सुरक्षिता अरक्षिता वा सन्ति। एतासु चक्रकविकृतः ‘चित्ररत्नाकरः’, माधव-रचितम् ‘जडवृत्तम्’, अज्ञात कर्तृकम् ‘कुचशतकम्’, अज्ञातकर्तृक एव ‘कुशोपदेशनीतिसारः’, ‘लक्ष्मी-सरस्वती-विवादः’, अज्ञात-कर्तृका ‘मदनमुखचपेटिका’, कविकङ्कन-प्रणीतम् ‘मृगाङ्कशतकम्’, अज्ञातकर्तृका ‘नीतिदीपिका’, कृष्णमोहनस्य ‘नीतिशतकम्’ अज्ञातकर्तृकम् ‘परनारी-रति-निषेध-पञ्चकम्’, कामराजदीक्षिततनूजेन व्रजराजदीक्षितेन विरचितम् ‘रसिकजन-रञ्जनम्’, अज्ञात-कर्तृकम् ‘स्तनपञ्चकम्’, रामचन्द्रगमिकृता ‘सिद्धान्तसुधातटिनी, पेद्दिभट्ट-संगृहीतः ‘सूक्तिवारिधिः’, वीरेश्वर-विरचिता ‘विद्यामंजरी’, चोरकवि-प्रणीतम् ‘विद्यासुन्दरम्’, अज्ञातकर्तृकः ‘विबुधोपदेशः’, लक्ष्मीधरतनुजन्मना विश्वेश्वरेण विरचितम् “विश्वेश्वरार्याशतकञ्च नीत्युपदेशात्मकवर्णने सफलानि रचनानि सन्ति। उपर्युक्ताभ्यो नीत्युपदेशात्मक रचनाभ्यो भिन्नाः काश्चित् उपदेशात्मिकाः निम्नलिखिता कृतयः स्टर्नबारव महाशयेन निदिष्टाः सन्ति । यथाहि-देवराजस्य ‘आर्यामञ्जरी’, रामचन्द्र-सीताराम विश्वनाथानाम् ‘आर्याविज्ञप्ति’ नामिकाः तिस्रःकृतयः, साहिब्रामस्य ‘नीतिकलालता’, ‘कविकण्ठाभरणञ्च’, शम्भुराजस्य ‘नीतिमञ्जरी’, सदानन्दस्य ‘नीतिमाला’, ‘नीतिस्सारः’ ‘नीतिशास्त्र-समुच्चयः’, एकेन अज्ञातकर्तृक ‘नीतिशतकेन’ सह श्रीनिवासाचार्य-सुन्दराचार्य वेङ्कट रामायणम् त्रीणि ‘नीतिशतकानि’, अप्पावाजपेयिनः ‘नीतिसुमावली’, हरिदास-सुब्रह्मण्ययोः ‘शान्तिविलासो’ पद्मानन्द-शंकराचार्य-सोमनाथानाम् ‘वैराग्यशतकानि’ व्रजराज शुक्लस्य ‘नीतिविलासः’ पञ्चतन्त्रसंग्रहश्च’। सम्पादकीयम्-नीत्युपदेशः ८६ नीत्युपदेशात्मक-काव्येषु विभिन्न शैली-रचितेषु नीतिपूर्वकसदाचारद्वारा मानवजीवनं सफलीकर्तुं, सामाजिक सुव्यवस्थां विधातुं, धर्मार्थकाममोक्षरूपान् पुरुषार्थानवाप्तुञ्च विपश्चिदपश्चि मै र्मनीषिभिः सर्वजनहिताय जगन्मङ्गलाय “सर्वे च सुखिनः सन्तु सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु मा कश्चेिद् दुःखभाग् भवेदिति मङ्गलकामनया विविधाः सरसा मनोहरा नीत्युपदेशाः संस्कृतवाङ्मये सुगुम्फिता इति शम्। पञ्चमोऽध्यायः