०२ चम्पू-काव्यम्

शब्दार्थ-संयोजनरूपं लोकोत्तर-वर्णनानिपुण-कविकर्म काव्यम् दृश्यश्रव्य-भेदेन प्रथमतो द्विविधम्। तत्र श्रव्यम्-गद्यं पद्यं मिश्रञ्चेति त्रिविधरूपम्। एतेषु वृत्तबन्धोज्झितं गद्यम्, छन्दोबद्धपदं पद्यम्, गद्य-पद्यमयं मिश्रञ्चेति श्रव्यकाव्य-प्रभेदानां त्रीणि रूपाणि काव्य-शास्त्रे निर्दिष्टानि, यानि पूर्वाध्याये विस्तेरण प्रतिपादितानि सन्ति। गद्य-पद्योभयात्मकस्य मिश्रकाव्यस्य चम्पू:, करम्भकम्, विरुदम्’ जयघोषणाचेति अनेक-प्रभेदाः सन्ति, यत्र सर्वत्र गद्य-पद्ययोर्मिश्रणं प्राप्यते। एतेषु “करम्भकं तु विविधाभि भाषाभिर्विनिर्मितम्” इतिलक्षणात् ‘विश्वनाथप्रशस्तिरत्नावली’ करम्भकम् विद्यते। “गद्यपद्यमयी राजस्तुतिविरुदमुच्यते” इत्येत विरुद-स्वरूप-निरुपणात् तदुदाहरणतया रघुदेवकृता-‘विरुदावली’, कल्याण-रचिता ‘विरुदावली’ च प्रसिद्धा। अन्वर्थनामिकायां जयघोषणायामपि गद्यपद्यात्मकं वर्णनं भवति । यथा ‘सुमतीन्द्र जयघोषणा’ इत्यादि। ताम्रपत्र-शिलापट्टादौ उत्कीर्णं गद्यपद्यमयं दानपत्रम्, आज्ञापत्रञ्च मिश्रकाव्य रूपात्मकं विद्यते। अतो मिश्रकाव्यम् द्विविधम्-(१) ख्यातम्-प्रबन्धात्मकं चम्पूरूपम्’ (२) प्रकीर्णम्-विरुद-करम्भकादिरूपम् । यथाहि प्रतिपाद्यते अग्निपुराणे “मिश्रं वपुरिति ख्यातं प्रकीर्णमिति च द्विधा।" (क) चम्पूकाव्य-निर्माण-निदानम् छन्दोबद्धं रागलयात्मकं पद्यं रसगुण-रीत्यलंकारातिरिक्तया गेयधर्मितयापि सहृदय हृदयमाकर्षति। गद्यकाव्यञ्च स्वकीयेन अर्थगौरवेण रस-गुणालंकारसहितेन पाठकान् समाह्लादयति। गेयधर्मस्य अर्थगौरवस्य च उभयोरेकत्र समावेशाय चमत्कृतचम्पूकाव्यस्य सृष्टिः प्रादुरभवत्। यथाहि संकेतयति भोजदेवः स्वीये ‘चम्पूरामायणे’ १. गद्यं पद्यं च मिश्रं च तत् त्रिथैव व्यवस्थितम् । काव्यादर्श १/११ अग्नि पु. ३३७/८/ तच्च गद्य-पद्य-मिश्र भेदैस्त्रिधा/वाग्भटालंकारे। श्रव्यं तु त्रिविधं ज्ञेयं गद्य-पद्योभयात्मना। मन्दारमरन्द. २. साहित्यदर्पणे ६/३३७४८ गद्य-खण्ड f गद्यानुबन्ध-रस मिश्रित-पद्य-सूक्ति हृद्याहि वाद्यकलया कलितेव गीतिः। तस्माद् दधातु कविमार्गजुषां सुखाय चम्पू-प्रबन्ध-रचनां रसना मदीया।।३।। यथा वीणा-वाद्येन सहितं गानं श्रोतॄणामधिक-प्रमोदाय जायते तथैव गद्य-सम्बन्धेन मनोहरं पद्यम् अतीव हृदयाहादकं भवति। अतएव कविमार्गानुगामिनां जनानां परम-प्रमोदाय चम्पू-प्रबन्ध-काव्य-रचना-प्रयासो विधीयते कविना। तत्र भावात्मक-विषयाणां वर्णनं पौः, वर्णनात्मक-वस्तूनाञ्च विवरणम् गद्येन सामान्यतो विधीयते चम्पूकारेण। यदि कुत्रापि एतस्यानुपालनं नावलोक्यते तत्र चम्पूकारस्य अनवधानमेव तन्निदानम्। (ख) चम्पूशब्दार्थः गत्यर्थकात् चौरादिक चपि धातोः औणादिके ऊ प्रत्यये सति निष्पन्नः चम्पूशब्द: गतेः अनेकार्थकत्वात् तादृशं रचना-विशेषं बोधयति, येन परमानन्दसहोदरः आनदोऽनुभूयते। हरिदास भट्टाचार्यस्तु चम्पूशब्दम् “चमत्कृत्य पुनाति सहृदयान् विस्मितीकृत्य प्रसादयतीति चम्पूः” इत्येवंरूपेण व्युत्पादयति। चमत्पूर्वकात् पूज् पवने इत्यस्मात् पृषोदरादित्वात् निष्पन्नः चम्पूशब्दः चमत्कार-प्रधानं स्वनिहितमर्थं प्रतिपादयति। उभयथापि योगरूढोऽयं चम्पूशब्दः काव्यविशेष लक्षयति। (ग) चम्पू-लक्षणम् सप्तशतकोत्तरार्द्ध विद्यमान आचार्यदण्डी “गद्यपद्यमयी वाणी (काचित्) चम्पूरित्यभिधीयते” इत्येवं चम्बूं परिभाषमाणः चम्पूकाव्ये गद्य-पद्ययोः मिश्रणमेव अपेक्षते। एतल्लक्षणेन निश्चीयते यद्दण्डिनः समये चम्पूकाव्यं लक्ष्यतया अस्तित्वे आसीत्। हेमचन्द्राचार्यः (१०८८-११७२) स्वकीये ‘काव्यानुशासने’ __ “गद्यपद्यमयी साङ्का सोच्छ्वासा चम्पू:२” इत्येवं लक्षयन् चम्पूकाव्ये साङ्कत्वं सोच्थ्वासत्वं चापि तत् स्वरूपाधायकं तत्त्वं मनुते। __ डा. सूर्यकान्तेन सम्पादितस्य ‘नृसिंहचम्पू’-काव्यस्य भूमिकायाम् अज्ञात कर्तृकमेकं-चम्पू-काव्य-लक्षणमुपलभ्यते, यत्र गद्यपद्य-मिश्रणम्, साङ्कत्वम्, सोच्छ्वासत्वमित्येतैः सह उक्ति-प्रत्युक्ति-विष्कम्भशून्यत्वमपि समपेक्षितम्, यच्च “गद्य-पद्यमयी साङ्का सोच्छ्वासा कवि-गुम्फिता। उक्ति-प्रत्युक्ति-विष्कम्भ-शून्या चम्पूरुदाहृता” १. काव्यादर्श १/३१ २. काव्यानुशासने ८/E सम्पादकीयम्-चम्पू-काव्यम् ४६ इत्येतल्लक्षणेन विज्ञायते। एतल्लक्षणोदाहरणन्तु त्रिविक्रमभट्टविरचिता ‘नलचम्पू:’, या हि गद्यपद्यमयी, साङ्का, सोच्छ्वासा, उक्ति-प्रत्युक्ति-विष्कम्मकरहिता चे विद्यते। किन्तु लक्षणमिदम् अव्याप्ति-दोष-ग्रस्तम्, यतोहि बहुषु चम्पूकाव्येषु लक्षणमिदं न घटते। भागवत चम्पू:, भारतचम्पू:, पुरुदेवचम्पू:, आनन्दवृन्दावनचम्पू:, रामानुजचम्पूः एवंविधा अन्याश्च स्तवकेषु विभक्ता नोच्छ्वासेषु यशस्तिलकचम्पूः, वसुचरितचम्पूः, नीलकण्ठविजयचम्पू, यात्राप्रबन्धचम्पूश्च आश्वासेषु विभक्ता नोच्छ्वासेषु। आनन्दकन्दचम्पू-यतिराजविजयचम्पू-नाथमुनि विजयचम्पू-कुवलयाश्वविलासचम्पूप्रभृतयः उल्लासेषु विभक्ताः। रामायणचम्पू-विरूपाक्ष वसन्तोत्सवचम्पू-प्रभृतयः काण्डेषु विभक्ताः शंकरमन्दार-सौरभचम्पू-विद्वन्मोदतरणिी चम्पू प्रभूतयः तरङ्गेषु विभक्ताः। बालभागवतचम्पू-भरतेश्वराभ्युदयचम्पू-प्रभूतयः सर्गेषु विभक्ताः रघुनाथविजयचम्पू-वरदाभ्युदयचम्पू-प्रभृतयः विलासेषु. विभक्ताः। जीवन्धरचम्पू: लम्भकेषु विभक्ता। __ आचार्यदिग्विजयचम्पू: कल्लोलेषु विभक्ता। मन्दारमन्दचम्पू: मनोरथेषु विभक्ता। रामचन्द्रचम्पू: परिच्छेदेषु विभक्ता। __एवं हि चम्पूकाव्ये सोच्छ्वासत्वस्य नियामकत्वं नास्ति। एवमेव उक्ति-प्रत्युक्ति-शून्यत्वं चम्पूकाव्ये अनिवार्यं नास्ति, विश्वगुणादर्शचम्पू-वीरभद्रविजयचम्पू-तत्त्वगुणादर्शचम्पू विद्वन्मोदतरणिीचम्पू-प्रभृतयः उक्ति-प्रत्युक्ति-सहिताः सन्ति। एवमेव विस्कम्भकशून्यत्वमपि चम्पूलक्षणे निरर्थकम्, चम्पूकात्यस्य श्रव्यकाव्यत्वात्। विष्कम्भकस्य विधानं दृश्यकाव्ये एव भवति। अतः उपर्युक्तेषु चम्पू-लक्षणेषु किमपि लक्षणं निर्दष्टं नास्ति। . यथा हि महाकाव्ये सर्गबन्धत्वमनिवार्यम् तथा चम्पूकाव्ये उच्छ्वासादि- बन्धत्वमनिवार्य नास्ति । चम्पूकाराः स्वेच्छया तद्विभाजनं कुर्वते। गद्य-पद्यमयत्वमेव सर्वत्र एकरूपतया प्राप्यते। किन्तु गद्य-पद्यमयत्वं जातकमालायाम्, पञ्चतन्त्रादौ चापि अवाप्यते। अतः एतादृशेन चम्पू-लक्षणेन भाव्यं येन अन्यस्मिन् मिश्रकाव्ये विरुद-करम्भक-पञ्चतन्त्रादौ एतल्लक्षणं नातिव्याप्तं भवेत्। एतत् प्रसङ्गे डा. कैलासपति त्रिपाठिना व्याख्यातस्य नलचम्पूकाव्यस्य भूमिकायाम्, निर्दिष्टं निम्नोक्तं लक्षणं समुपयुक्तं प्रतिभाति-“गद्यपद्यमयं श्रव्यं सम्बद्धं बहुवर्णितम्। __ सालंकृतं रसैः सिक्तं चम्पूकाव्यमुदाहृतम् ।।” अत्र श्रव्यकथनेन गद्य-पद्य-मिश्रित नाटकादे यावर्तनम्। सम्बद्धप्रबन्ध-कथनात् गद्यपद्यमिश्रितस्य पञ्चतन्त्रादेः, मुक्तकरूपस्य विरुद-दानपत्रादेश्च व्यावृत्तिः, यतो हि एतेषु सम्बद्धप्रबन्धकता नास्ति। एवं हि उपर्युक्त लक्षणेन चम्पूकाव्यम्-गद्य-पद्य-मिश्रितं भवति, श्रव्यं भवति, प्रबन्धरूपं भवति, वर्णन-प्रधानं भवति, सालंकारं रसाभिव्यञ्जकञ्च भवति। एतत् सर्व प्रख्यातचम्पूकाव्ये एव एकत्र प्राप्यते नान्यत्र मिश्रकाव्येषु । ५० गद्य-खण्ड सश्च-पद्यात्मक काव्यस्य गद्यात्मक काव्यस्य च प्रणयनं यथा आदि कालदेव दृश्यते तथैव गद्य-पद्योभयात्मक मिश्रकाव्यस्यापि रचनारम्भः आदि काले एवाभूत्। ऐतरेयब्राह्मणस्य हरिश्चन्द्रोपाख्याने मिश्रकाव्यस्य मूलरूपं प्राप्यते यत्र वर्णनात्मकविषयस्य गद्येन भावनात्मकविषयस्य च पद्येन प्रतिपादनं दृश्यते-“हरिश्चन्द्रोह वैधस ऐक्ष्वाको राजाऽपुत्र आस । तस्यह शतं जाया बभूवुः । तासु पुत्रं न लेभे। तस्यह पर्वत नारदौ गृह ऊषतुः। सह नारदं पप्रच्छेति। यंन्विदं पुत्रमिच्छन्ति ये विजानन्ति ये चन। किंस्वित् पुत्रेण विन्दते तन्म आचक्ष्व नारद ।। इति।। इयंहि मिश्रशैली प्रश्न-मुण्डक-कठ केनाद्युपनिषत्सु चापि प्राप्यते। ब्राह्मणानामुपनिषदाञ्च मिश्रशैली सर्वथा स्वाभाविकी अकृत्रिमा वर्तते। चम्पूकाव्यस्य कृत्रिमताया मूलरूपं समुद्रगुप्तस्य दिग्विजय-प्रशस्ति-वर्णने (३५० ख्रिष्टाब्दे) स्पष्टमवलोक्यते, यत्र कविवर हरिषेणः गद्य-पद्यमयस्वकीये प्रशस्तिकाव्ये रस-भाव-गुणालंकार कला-चातुरी सञ्चारयन् सहृदयान् चमत्करोति। नूनमियं प्रशस्तिः चम्पूकाव्यस्य पूर्वपीठिका। एतत् परम् कविता-कामिनीपञ्चबाणेन, महादण्डधारिणा दण्डिना वा, न जाने किमर्थम्, चम्पूलतां तिरस्कृत्य कल्पतरुरिव गद्यतरुरेव समादृतः। उपलब्धासु चम्पूरचनासु महाकवि त्रिविक्रमभट्टस्य नलचम्पूरेव प्रथमा कृतिरिति मन्यते ऐतिहासिकैः । त्रिविक्रमभट्टः-विदर्भाभिजनः शाण्डिल्यगोत्रीयः श्रीधर-पौत्रः देवादित्य-तनूजः कविचक्रवर्ती त्रिविक्रमभट्टः खिस्टीयदशमशतक पूर्वार्द्ध प्रायः, ६१५ खिष्टाब्दे, जायमानः गद्यपद्यमयीं सरसां सालंकारां महाभारतीय नल-दमयन्ती-कथाश्रितां हरचरणसरोजाकां सप्तोच्छ्वासां मनोहरां नलचम्पूं व्यरचयाञ्चकार । __यथा छत्रस्य विशिष्टवर्णनेन भारविः ‘छत्रभारविः’, घण्टायाश्चमत्कृतवर्णनया माघः ‘घण्टामाघः’, दण्डस्य’ वर्णनाद् ‘दण्डी’, तालस्य अपूर्ववर्णनात् तालरत्नाकरः, तथैव यमुनाया विशिष्टवर्णनात् त्रिविक्रमः ‘यमुनात्रिविक्रम’ इति नाम्ना प्रसिद्धि प्राप। यथाहि उदयगिरिगतायां प्राक्प्रभा पाण्डुराया मनुसरति निशीथे शृङ्गमस्ताचलस्य। जयति किमपि तेजः साम्प्रतं व्योम-मध्ये सलिलमिव विभिन्न जाहवं यामुनञ्च ।। ६/१/ दमयन्त्या वयोवचनयोर्वर्णन-प्रसड़े त्रिविक्रमेण स्वाभिप्रेतं काव्यस्वरूपं यथा व्यञ्जनया प्रकाशितं तत् तस्य रचना-चमत्कृतिं जनयति। तथाहि-‘प्रसन्नम् उदारं सत्कान्ति श्लिष्टं सुकुमारम् अनेकालङ्कार-भाजनं वयोवचनंच। ६/२१/। अयमाशयः-यथाहि दमयन्त्या सम्पादकीयम्-चम्पू-काव्यम् वयः वचनञ्च प्रसन्नम्, उदारम्, कान्तम्, सुश्लिष्टम्, सुकुमारम् अनेकालङ्कारभाजनं सत् मनोहरं विद्यते, तथैव कवेरेतत्काव्यमपि एभि गुणालङ्कारैः समन्वितं मनोहरं वर्तते। नलचम्पूकाव्यस्य कथाया अवसानम् अकाण्डे एव जायते। लोकपालानां दूत्यं कुर्वन् नलः तेषां सम्वादेन दमयन्तीम् अवगतां विदधदेव विरमति। श्वोभावि-स्वयम्वरस्य दमयन्ती-परिणयस्य च मुख्य-विषयस्य वर्णनात् पूर्वमेव अपूर्ण काव्यं समाप्तिमवाप्नोति। एतत् कारणन्तु किमपि निश्चितं न विज्ञायते। त्रिविक्रम भट्टस्य काव्य-विषयक-धारणा-गद्य-पद्यमय-रचना-चातुरीचणः त्रिविक्रमभट्टः मनुते यत् कुशलधानुष्कस्य धनुष्काण्डं परस्य हृदये लग्नं सत् यथा तस्य वेदनया शिरोधूर्णयति, तथैव कवेस्तदेव काव्यं वस्तुतः काव्यं यत् परस्य हृदये लग्नं सत् आनन्दानुभूत्या तस्य शिरो घूर्णयति। तथाहि किं कवेस्तस्य काव्येन किं काण्डेन धनुष्मता। परस्य हृदये लग्नं न घूर्णयति यच्छिरः।।१/५ __एतस्मिन्नेव प्रसङ्गे स स्पष्टं निर्दिशति यत् पद-विन्यास-कौशलेनैव कश्चित् कविः कवि-पुङ्गवत्वं लभते अन्यथा स निरर्थकालापमेव कुरुते : अप्रगल्भा पदन्यासे जननी-राग-हेतवः। सन्त्येके बहुलालापाः कवयो बालका इव।। १/६ विविधालंकार-योजनायां विख्यात-विक्रमस्य त्रिविक्रमभट्टस्य श्लेष-परिसंख्यालंकार-प्रयोगे विशिष्टमेव कौशलं दृश्यते ।अवलोक्यताम् श्लेष-प्रयोग-कौशलम् नास्ति सा नगरी यत्र न वापी न पयोधरा। दृश्यते न च यत्र स्त्री नवा पीनपयोधरा १/२६ नमिताः फल-भारेण न मिताः शालमञ्जरीः। केदारेषु हि पश्यन्तः के दारेषु विनिःस्पृहाः।। २/२ एवमेव परिसंख्यालंकारचमत्कारो दर्शनीयो निम्नस्थले अव्ययीभावो व्याकरणोपसर्गेषु न धनिनां कुलेषु, दान-विच्छित्तिरुन्माद्यत् करिकपोलमण्डलेषु, न त्यागि-गृहेषु, भोग-भङ्गो भुजङ्गेषु, न विलासिलोकेषु’। प्रथमोच्वासे। १. अन्ये अनेके विशिष्टप्रयोगा मूलभागे समुद्धृतास्तत्रैव द्रष्टव्याः। - साइनानी गद्य-खण्ड त्रिविक्रमस्य अपूर्वकल्पनाचमत्कारोऽपि परां कोटिमालम्बते। अस्तं गच्छतः सूर्यस्य अर्द्ध रक्ताभमण्डलं सागरान्तर्गतं विलोकयतः कवेःसमुत्प्रेक्षात्र प्रेक्षणीयाः रक्तेनाक्तं विनिहितमधोवस्त्रमेतत् कपालं तारामुद्राः किमु कलयता काल-कापालिकेन। सन्ध्या-वध्वाः किमु विलुठिता कौङ्कमीशुक्तिरेवं शङ्कां कुर्वञ्जयति जलधावर्द्धमग्नार्कबिम्बम् ।। ५/७६ २. मदालसाचम्पू:’-अस्यैव कविवरस्य द्वितीया विशिष्टा रचना विद्यते- ‘मदालसाचम्पू:’ इयंहि मार्कण्डेयपुराणान्तर्गतेषु अष्टादशात् एकविंशपर्यन्तेषु अध्यायेषु वर्णितम् मदालसा कुवलयाश्वोपाख्यानमवलम्ब्य रचितास्ति, याहि ‘मुदितमदालसा’-मुदित कुवलयाश्वादि’ नाट्यकृतीनामुपजीव्यरूपा विद्यते। अत्रहि नायक-कुवलयाश्वस्य, नायिका मदालसायाश्च मनोरम चरित्रचित्रणेन सह पातालकेतोर्वधः, मदालसाया विवाहः, तस्या-वियोगः, नागराज सदने कुवलयाश्व-गमनम्, मदालसा-कुवलयाश्वयोः पुनर्मिलनञ्च सम्यग् वर्णितानि सन्ति। __यशस्तिलकचम्पू:२ सुप्रसिद्ध जैन कवेः सोमप्रभसूरेः ‘यशस्तिलकचम्पू:’ चम्पूकाव्य-क्षेत्रे विशिष्टं स्थानमादधाति । चालुक्यराजद्वितीयस्य अरिकेसरिणो ज्येष्ठतनयस्य वाग्राजस्य (कूट-राज) आश्रितोऽयम् सोमप्रभसूरिः राष्ट्रकूटराजस्थ कृष्णराजदेवतृतीयस्य समकालिक आसीत्। अतः एत्च्चम्पूकाव्यस्य रचनाकालः ६५६ इति ख्रिष्टीय-वर्षस्य पार्श्वे स्वीक्रियते। __गुणभद्ररचितं जैनानामुत्तरपुराणमुपजीव्य रचितेऽस्मिन् चम्पूकाव्ये अवन्तिराज यशोधरस्य जीवनलीलामवलम्ब्य जैनधर्मस्य सिद्धान्ता वर्णिताः सन्ति। अष्टसु आश्वासेषु विभक्तस्य प्रकृतचम्पूकाव्यस्य प्रारम्भिकेषु पञ्चसु आश्वासेषु यशोधरस्य अष्टानां जन्मनां कथा वर्णिताः सन्ति। ततः त्रिषुआश्वासेषु जैनधर्म-सिद्धान्तस्य वर्णनं वरीवर्ति, यत्र यशोधरस्य समुज्ज्वलचरित्रम्, तत्पत्न्या धूर्तत्वम्, यशोधरस्य जैनधर्म-दीक्षा-ग्रहणम्, तस्य-शरीरावसानञ्च सम्यग् वर्णितानि सन्ति। जैन धर्म-सिद्धान्तनिरूपणमेतत् काव्यस्य मुख्यं प्रयोजनं विद्यते। एतच्चम्पूकाव्यस्य सरसा सालंकारा शैली बाणभट्टस्य ‘कादम्बरी’मनुकरोति। अत्र चम्पूकारस्य प्रतिभा, विविधशास्त्राध्ययनजन्य-निपुणता च पदे पदे परिलक्ष्येते। जैनधर्म दीक्षितस्याप्यस्य अनेकानि सरसानि पद्यानि रमणीयतामुद्वमन्ति। दम्पत्योः परस्परानुरागं वर्णयतो निम्नपद्यस्य विच्छित्तिरवलोकनीया एषा हिमांशु-मणि-निर्मित-देहयष्टिः त्वं चन्द्रचूर्ण-रचितावयवश्च साक्षात्। एवं न चेत् कथमियं तव सङ्गमेन प्रत्यङ्गनिर्गतजला सुतनुश्चकास्ति ।। २/२१६ १. जे. वी. मोदकेन सम्पादिता ४४२ खिष्टी वर्षे पूनातः प्रकाशिता। २. शिवदत्त-वासुदेवशास्त्रिभ्यां सम्पादिता निर्णयसागरात् १६१६ वर्षे प्रकाशिता। ghi सम्पादकीयम्-चम्पू-काव्यम् प्रकृत चम्पूकाव्ये गुम्फिता विविधाः सूक्तयः अस्य महिमानं मण्डयन्ति। ३. जीवन्धरचम्पू:’- हरिश्चन्द्रेण विरचिते ‘जीवन्धरचम्पू’ काव्ये जैनधर्मोत्तरपुराणे वर्णितयोः विजया-सत्यन्धरयोः तनूजस्य राजकुमारजीवन्धरस्य जीवन-चरितं काव्य- कौशलेन वर्णितमस्ति । पञ्चदश-तीर्थड्करस्य धर्मनाथस्य एव चरितमाधारीकृत्य विरचितस्य ‘धर्मराजाभ्युदय’ काव्यस्य प्रणेत्रा हरिश्चन्द्रेण सह जीवन्धरचम्पूप्रणेतु हरिश्चन्द्रस्य तादात्म्यं मनुते कीथमहाभागः। अनयोरेकत्वेऽीकृते हरिश्चन्द्रः नोमक-वंशसमुद्भवः कायस्थ आसीत्, यस्य पितुर्नाम आसीत् आर्द्रदेवः मातुश्च रथ्यादवी। समयश्चास्य ख्रिस्टीय दशमैकादश शतकयोरन्तराले स्वीक्रियते ऐतिहासिकैः। ‘हर्षचरिते’ निर्दिष्टः भट्टार-हरिचन्द्रः एतस्माद् भिन्न इति निश्चितम् । बाणभट्ट-रचनां निदर्शनीयकृत्य एकादशसु लम्भकेषु विभक्ते प्रकृत-चम्पूकाव्ये जीवन्धरस्य चरितचित्रणमाधिकारिकं वस्तु विद्यते। प्रासङ्कितया जैनधर्मोपदेशः कौशलेन समाविष्टोऽस्ति। चम्पूकाव्ये गद्य-पद्ययोर्मञ्जुलसमन्वयेन कोऽप्यपूर्वश्चमत्कारः समुदेतीति मनुतेऽयं चम्पूकारः। (५) रामायणचम्पू:- परमारवंशोद्भवेन धाराधीशेन सरस्वतीकण्ठाभरण-शृङ्गार प्रकाशादिग्रन्थ-प्रणेत्रा भोजराजेन विरचिता ‘रामायण-चम्पू:’ चम्पूकाव्ये विशिष्टं स्थानं दधाति। वाल्मीकि रामायणमाधारीकृत्य विरचितास्य चम्पूकाव्यस्य प्रारम्भिकाणि पञ्चकाण्डानि भोजकृतानि सन्ति। __ अन्तिमञ्च षष्ठं युद्धकाण्डं लक्ष्मणसूरिणा प्रणीतमिति अन्तिमश्लोकेन ज्ञायते। लघु-दीर्घ-समासाञ्चितपदजातरचितकलेवरा, श्लेषोपमादिविविधालंकारविभूषिता, सूर्योदयास्त हेमन्तवर्षर्तुवर्णन-मनोहरा रामायण-चम्पू: विषयवस्तुवैभव-वैशिष्ट्येन अपूर्व चमत्कृति जनयति। (६) उदयसुन्दरीकथाचम्पू: - कोकणाधिपति मम्मुणिराजाश्रितः दक्षिण-गुर्जर लाटदेश-वास्तव्यः शैव कायस्थः कविवर सोड्ढलः एकादशशतके उदयसुन्दरीकथा-चम्पूं रचयाञ्चकार। प्रतिष्ठानपुराधिपति-मलयवाहनस्य नागलोकाधिराज-शिखण्डतिलक-कन्यया उदयसुन्दरी नामिकया सह विवाहवर्णने चम्पूकारः चमत्कारजनकं रचनाकौशलम् अत्र अष्टसु उच्छ्वासेषु प्रदर्शयामास। १. टी.एस. कुप्पूस्वामिशास्त्रिणा सम्पादिता, तञ्जौरस्थ सरस्वती विलास-ग्रन्थमालायां १६०५ वर्षे-प्रकाशिता। २. चौखम्बा विद्याभवन-वाराणसीतः १६५६ वर्षे १६७६ वर्षे प्रकाशिता ३. साहित्यादिकलावता सनगर-ग्रामावतंसान्वित श्रीगङ्गाधरधीर-सिन्धु-बिधुना गाम्बिका सूनुना। प्रागभोजोदित पञ्चकाण्ड-विहितानन्दे प्रबन्धे पुनः काण्डे लक्ष्मणसूरिणा विरचितः षष्ठोऽपि जीयाच्चिरम्।। ४. गायकवाड ओरियण्टल सीरीज सं. ११/१६२० वर्षे प्रकाशिता गद्य-खण्ड (७) भागवतचम्पू:’ -कृष्णकथात्मकचम्पूकाव्येषु प्रायः प्राचीनतमेयं भागवतचम्पू: याश्रीमद्भागवतीय दशमस्कन्ध-कथाश्रिता विद्यते। अभिनवकालिदासोपाधि-धारिणा अज्ञात जन्मनाम्ना एकादशशतके भागवतचम्पू विरचितेति मन्यते कृष्णामाचार्यः। षट्सु स्तवकेषु विभक्तेऽस्मिन् चम्पूकाव्ये राधाकृष्णयोर्मिलनम् शृङ्गाररसाभिव्यञ्जनेन मुख्यतया वर्णितम् चम्पूकारेण। __(८) अभिनवभारतचम्पू:’-उपर्युक्तस्यैव अभिनव कालिदासस्य महाभारतकथायाः संक्षिप्तरूपा अप्रकाशिता अभिनवभारतचम्पू:, यस्या उल्लेखः डा. छविनाथत्रिपठिना स्व. शोधप्रबन्धे कृतः (E) भारतचम्पू:-अनन्तभट्टेन एकादश-द्वादश-शतकमध्ये महाभारतकथा माधृत्य विरचिता भारतचम्पू: चम्पूकाव्ये विशिष्टं स्थानं दद्याति। अत्र द्वादश स्तवकानि ‘सन्ति, येषु पद्यानामेवाधिक्यम् वर्तते। साकल्येन १०४१ पद्यानां तथा शतद्वयमित गद्य-खण्डनां संख्या विद्यते। वीररस-प्रधानेऽस्मिन् चम्पूकाव्ये ओजोगुण विशिष्टा रीतिः कवे रचना कौशलं प्रकाशयति। (१०) भरतेश्वराभ्युदयचम्पूः - जिनसेनविरचिते आदिपुराणे वर्णितम् ऋषभतनय भरतस्य चरितमाधारीकृत्य दिगम्बरजैनेन आशाधरण त्रयोदशशतके भरतेश्वराभ्युदयचम्पू: विरचिता। जैनपुराणेषु जैनप्रमुख पुरुदेवस्य चरितं विस्तरेण चित्रितं वर्तते। तदेव पुरुदेव चरितमाघृत्य आशापरशिष्येण अर्हता अर्हदासेन प्राञ्जलभाषायां विशिष्टशैल्याम् (११) पुरुदेवचम्पू: त्रयोदशशतकान्ते विरचिता। उपर्युक्त चम्पूकाव्य-ग्रन्थेभ्यो भिन्ना (१२) अमोघराधवचम्पू: (१३) यतिराजविजयचम्पूः, (१४) विरूपाक्षवसन्तोत्सववचम्पू:, (१५) रुक्मिणी-परिणयचम्पू:, (१६) आचार्यविजयचम्पू:, इति पञ्च चम्पू-ग्रन्थाः मूलभागे विवरण-सहिताः प्रदर्शिताः सन्ति। नैते किमपि तादृशं वैशिष्ट्यं दधति। (१७) आनन्दवृन्दावनचम्पूः । १. गोपाल नारायण कम्पनी, कालका देवी, मुम्बई १६२१ वर्षे प्रकाशिता २. द्र. लेविसराइस कैटलौग सं. २४६ द्र. चम्पूकाव्य का आलोचनात्मक इतिहास लाचनात्मक इतिहास ३. चौखम्बा विद्याभवन वाराणसीतः १६५७ वर्षे प्रकाशिता। ४. वृन्दावनाद् वङ्गलिप्याम् वाराणसीतः देवाक्षरे च प्रकाशिता सम्पादकीयम्-चम्पू-काव्यम् महाप्रभु श्रीचैतन्यदेवप्रसादाधिगतचेतनेन विविधशास्त्रपारङ्गतेन अलंकारकौस्तुभ चैतन्य- चन्द्रोदयाद्यनेक-वैदुष्यपूर्णग्रन्थ-विरचन-विश्रुतेन कविकर्णपूरेण षोडशशतके प्रणीतं श्रीमद्-भागवत-दशमस्कन्धीय श्रीकृष्णलीलाश्रितम् द्वाविंशतिस्तवकात्मकविशालकलेवरं गुणालंकार-विभूषितम् मधुररस-पेशलम् ‘आनन्दवृन्दावनचम्पू’काव्यम् चम्पूकाव्ये विशिष्टं स्थानमाश्रयति। कविकर्म-कौशलविजृम्भिताश्चमत्कारजनकप्रसङ्गा मूलभागे प्रदर्शिताः सहृदयैरास्वाद्याः। (१८) गोपालचम्पू:’ - महाराष्ट्र-प्रदेश-जातेन भारद्वाज गोत्रीयेण व्रजराज-कविराज तनूजेन श्रीचैतन्य महाप्रभु समसामयिकेन जीवराजेन भागवतीय कथामाधृत्य विरचिता गोपालचम्पूः विषयमाधुर्येणं स्वमहिमान् प्रकटयति। (१६) वल्लीसयायकविना विरचिता शङ्कराचार्य विजययात्राकथाश्रिता ‘आचार्य दिग्विजयचम्पूः’। (२०) तेनैव प्रणीता ‘काकुत्स्थ विजय-चम्पू’श्च विशेष परिचयार्थं मूलभागे द्रष्टव्ये। (२१) वरदाम्बिकापरिणयचम्पू: विजयनगर-महाराजाच्युतराय राजमहिषी तिरुमलाम्बा षोडशशतकमध्यभागे वरदाम्बिका परिणयं चम्पूं प्रणीय महतीं ख्यातिमलभत। शृङ्गार-वीर-रसप्रधानस्यास्य चम्पूकाव्यस्य विषय-वस्तु-वर्णन-कौशलम् काव्यजगति अति विशिष्टं स्थानं भजते। (२२) कुमारभार्गवीयचम्पू:-मैथिल श्रोत्रियवंश-प्रसिद्ध-सोदरपुर-सरिसब मूलकेन महामहोपाध्याय-गणपति मिश्र तनूजेन रसमञ्जरी-रसतरङ्गिणी-गीतगौरीपति-रस पारिजातालंकारतिलक चित्रचन्द्रिकाधनेक ग्रन्थानां प्रणेत्रा कविवर भानुदत्त-मिश्रेण षोडश-शतक-पूर्वभागे रसगुणालंकार-विशिष्ट द्वादशोच्छ्वासात्मिका कुमारभार्गवीयचम्पू विरचिता। पार्वती-परमेश्वर-परिणयादारभ्य तारकासुरवधपर्यन्तं शिवपुराण-कुमारखण्डे स्कन्दपुराण माहेश्वर खण्डे च वर्णितवृत्तमाधारीकृत्य निर्मितमिदं चम्पूकाव्यं कविकर्मकौशलमहिम्ना कामपि विशिष्टा विच्छित्तिमभिव्यनक्ति। निदर्शनीभूताः प्रसङ्गाः सौदाहरणा मूलभागे प्रदर्शिताः सन्ति। मूलभागे २३ क्रमसंख्यातः ८३ क्रमाकं यावत् निर्दिष्टानां प्रकाशितानाम् अप्रकाशितानाम्, सामान्य-विशेष-कोटिकानां, चम्पूकाव्य-ग्रन्थनां सामान्य-विशेषरूपेण परिचयः उल्लिखितोऽस्ति, योहि जिज्ञासुभिस्तत्रैव द्रष्टव्यः। (२३) जानराजचम्पू १. वृन्दावनाद् वङ्गलिप्याम् प्रकाशिता। २. लक्ष्मणस्वरूपेण सम्पादिता लाहौरतः प्रकाशिता ३. कविराज-भानुदत्तग्रन्थावली, मिथिला संस्कृत विद्यापीठ १६८८ वर्ष प्रकाशिता। ४. डा. जगन्नाथ पाठकेन सम्पादिता गङ्गानाथ झा केन्द्रीय संस्कृत विद्यापीठात् प्रकाशिता ५६ गद्य-खण्ड मिथिलामहीमध्य-दरभङ्गा-प्रमण्डलान्तर्गत प्रसिद्ध उजान ग्रामे श्रोत्रिय- सोदरपुर-कन्हौली मूलकं सवंशे जायमानः भगवती-भवेश-तनूजः कृष्णदत्त उपाध्यायः ‘जानराजचम्पूं’ प्रणीय काव्यजगति महतीं ख्यातिमलभत। बाल्ये एव वयसि काव्य-कर्म- कौशलेन ख्यातोऽयं बालकविकृष्णदत्तनाम्ना प्रथिमानमवाप। एतस्यान्यरचनासु (१) पुरञ्जनचरितनाटकम् (२) कुवलयाश्वीयनाटकम् (३) गीतगोपीपतिकाव्यम् (४) लक्ष्मीगुणमणिमाला, (५) चण्डिकाचरितचन्द्रिका, (६) कृष्णलीला (७) गीतगोविन्द-व्याख्यादयः प्रसिद्धि प्राप्नुवन्ति। अस्य भव्य-गद्य-पद्यमये चम्पूकाव्ये __ पद्यानां संख्या ३०५ तथा गद्यखण्डानि ३७ मितानि। अत्र साहित्यिक-कला-सौन्दर्येण ऐतिहासिक कथामहत्त्वमादधति। _नागपुरस्थ भोसल वंशीय राजानां विशेषतः रघुजीमहाराजस्य तत्तनय जानूजी महाराजस्य जीवन-वृत्तमाघृत्य कविकर्मकौशलेन निर्मितमिदे जानराजचम्पूकाव्यं स्ववैशिष्ट्येन कवेर्यशः पल्लवयति, मूलभागे समुद्धृतानि गद्यपद्यानि अदसीयं वैशिष्ट्यं प्रकाशयन्ति। इतो भिन्नानामतिसंक्षिप्रपरिचयानाम् डा.वर्णेकर डा. छविनाथ त्रिपाठिम्यां निर्दिष्टानाम् १७५ मित चम्पूग्रन्थानां नामानि प्राप्तपरिचयसहितानि मूलभागे उल्लिखितानि सन्ति। एतेन संस्कृतवाङ्मये चम्पूकाव्य-साम्राज्यं विज्ञातुं शक्यते। (२४) सुलोचनामाधवचम्पू:’ जानकीजननभूमि-मिथिलामध्य-मधुबनी मण्डलान्तर्गत नवानीग्रामवास्तव्यः ललितमणिदेवी-बाबूलालझा तनुजन्मा सर्वतन्त्रस्वतंत्रः धर्मदत्त झा प्रसिद्ध बच्चा झा (१८६०-१६१८) व्याप्तिपञ्चक-विवृति-व्युत्पत्तिवादगूढार्थतत्त्वालोक-सिद्धान्त लक्षण-विवृति रवण्डनखाद्य-टिप्पण शक्तिवादटिप्पणाद्यनेक दर्शनग्रन्थविरचनविख्यात वैदुषीकः विशाल-कलेवरां सुलोचनामाधवचम्पू निरमात्। एतेन स न केवलं न्यायादि दर्शन कान्तार-पञ्चाननः, अपितु सुकुमारविषयककाव्य-रचना-चतुरोऽपि।। __पद्मपुराणस्य क्रियायोगसारखण्डे पञ्चमे षष्ठे च अध्याये सुलोचनामाधवकथा वर्णितास्ति। तामेव कथामाधृत्य विरचिता षट्त्रिंशति उच्छ्वासेषु विभक्ता चम्पूरियं स्वकीय-काव्य-सौन्दर्येण चम्पूक्षेत्रे विशिष्टं स्थानं धत्ते। बाणभट्टस्य विशिष्टां शैलीमनुसरतोऽस्य चम्पूकारस्य गद्यांशे शब्दार्थालङ्काराणां प्राचुर्य विद्यते। पद्यभागे विशेषतः अन्त्यानुप्रास-छेकानुप्रासोपमोत्प्रेक्षा-प्रतीपार्थान्तरन्यास-दीपका पह्नुति, समासोक्तिप्रभृतयोविविधालंकारा अपरिमितानि पद्यनि विभूषयन्ति। कवेः श्रृङ्गारसाभिव्यञ्जन-कौशलंजगद्रसमयं करोति। १. दरभंगास्थ मिथिलाविद्यापीठात प्रकाशित। सम्पादकीयम्-चम्पू-काव्यम् ५७ चमत्कारजनकानि गद्य-पद्यानि मूले उद्धृतानि काव्यवैशिष्ट्यं प्रकाशयन्ति। (२५) गुणेश्वरचरितचम्पू:’-मिथिलामध्य-मधुबनी-मणलान्तर्गत ग्रामरत्न सरिसब वास्तव्यः श्रोत्रिय-खौआल-वंशावतंसः, १८६३ खिष्टीय जनवरीमासीय द्वादशे दिवसे लब्धजन्मा-राधापरिणयमहाकाव्य-,साहित्यमीमांसान्योक्तिसाहस्री-काव्यकल्लोलिनी भागवतप्रदीप-शोकश्लोकशतकादि-ग्रन्थ प्रणेता, रसमञ्जरीसुरभि-ध्वन्यालोकदीघिति-रसगङ्गा धरचन्द्रिकादि-विशिष्ट टीकाकारः कविशेखर-वदरीनाथ झा ‘गुणेश्वरचरितचम्पूं’ निर्माय विशिष्टचम्पूकाव्य-विरचन-कलाकौशलमपि प्रदर्शयत्। मिथिलेश-नरेश-रुद्रसिंहस्य द्वितीय तनुज-महाराज कुमार गुणेश्वर सिंहस्य चरितमाधृत्य विरचिते चतुर्यु उच्छ्वासेषु विभक्तेऽस्मिन् चम्पूकाव्ये मिथिलास्थः विशिष्ट नदी तीर्थस्थान-देवालयाश्रम प्रसिद्ध-सत्-प्रकाण्ड पण्डितानां पुराणेतिहास-विख्यातविशिष्ट कथानाञ्च विशिष्टकाव्य-कौशलेन चारु चमत्कृत-वर्णनं राराजते। रस-रीति-गुणालंकार-निदर्शकानि अनेकानि मनोहराणि उद्धरणनि मूलभागे-चकासति। स्वातन्त्रयोत्तरकाले विरचितानाम् किशोरचन्द्राननचम्पू-श्रीशरन्नवरात्रचम्पू-प्रभृतीनाम् काव्यानाम् संक्षितप्तपरिचयसहित-समुल्लेखो मूलभागान्ते द्रष्टव्यः । मूलभागे यानि २६७ मितानि चम्पूकाव्यानि सामान्य-विशिष्ट परिचयसहितानि डा. त्रिलोकनाथ झा महोदयेन समुल्लिखितानि ततोभिन्नान्यपि विशालेऽस्मिन् देशे विरचितानि प्रकाशितानि अप्रकाशितानि च भवेयुरिति निश्चिनोमि। कालक्रमेण तान्यपि विद्वद् दृष्टिगोचरतां प्रयास्यन्तीति मन्ये। या राका शशिशोभना गतघना सा यामिनी यामिनी, या सौन्दर्य-गुणान्विता पतिरता सा कामिनी कामिनी। या गोविन्द-रसप्रमोदमधुरा सा माधुरी माधुरी, या लोकद्वय-साधनी चतुरता सा चातुरी चातुरी। विवेकिजन-स्वीकृता, लोक-प्रसिद्धा, मानवजीवनसाफल्याय कल्पिता येयं चातुरी तामेवाधारीकृत्य मत्कृता ‘महामानवचम्पू:’, या स्वप्रकाशनं कामयमाना कालं प्रतीक्षते। अत्र प्रेयोनिःश्रेयसयोः सन्तुलनात्मकेन समन्वयात्मकेन च सदाचरणेन मानवो जीवनसाफल्यं लभते ऐहिकमामुष्मिकं च समभीष्टं समश्नुते इत्याधिकारिक-विषयवस्तु आनुषङ्कि-विषय संयोजितंसत्काव्य-कलाकौशलेन वर्णितं विद्यते। जडभरत-दौष्यन्ति-भरतद्वय-नाम व्यपदिष्टे विख्यातेऽस्मिन् भारते वर्षे जायन्तां विश्वकल्याण-भाजो महामानवाः, कल्पतां सर्वत्र योग-क्षेमः इति कवेः मंगल्य-मनोहरा कामना चम्पूकाव्येऽस्मिन् विजृभते इति शम् । १. राजप्रेसदरभङ्गातः १६५२ ख्रिष्टाब्दे-प्रकाशिता।तृतीयोऽध्यायः कथा-साहित्यम् कथाच्छलेन बालानां नीतिस्तदिह कथ्यते।।’ कथाहि खलु वाक्य-विन्यासरूपा रमणीया रस-मन्दाकिनी।। या हि आदिकालादेव आपामर-नर-चित्तेषु कमपि अपूर्वं चमत्कारमादधाना निरन्तरं प्रवहमाना विविधानि रूपाणि स्वीकुर्वाणा सहृदय-हृदय-रसायनतामादधाति। ‘कथ वाक्य प्रबन्धे’ इति चौरादिक कथ धातोरङि’ प्रत्यये टापि कथा शब्दो निष्पद्यते, यश्च वार्ता गणना’/३ विवरणम्, कल्पितकथा, प्रबन्धकल्पना, वृत्तान्तवर्णनम्, समाचारवाक्यसन्दर्भ इत्याद्यनेकान् अर्थान् प्रतिपादयति। पुराकिल कथाशब्देन आख्यानस्य उपाख्यानस्य चापि आकलनं भवतिस्म। तत्र स्वयं दृष्ट-वृतान्तस्य कथनमाख्यानम्, श्रुतस्य च वृत्तान्तस्य वर्णनमुपाख्यानमिति न्यरूपयत् श्रीधराचार्यः। महर्षिपाणिनि-मते तु प्रश्नस्योत्तरमाख्यानम् । १. हितोपदेशः १/८ २. चिति पूजि कथि कुम्बि चर्चिश्च। उणादि, ३/३/१०५ ३. अभिमतसमयोऽपि मार्दवं भजते कैव कथा शरीरिषु। रधुवंशम्, कथापि खलु पापानामलमश्रयसे यतः। ८/४३ शिशुपालवधम् २/४० का कथा बाण-सन्धाने ज्याशब्देनैव दूरतः। हुंकारेणैव धनुषः स हि विघ्नानपोहति ।। अ. शकुन्तलम्, ३/१ कथा-प्रसङ्गेन जनैरुदाहता किरातार्जुनीयम्, १/२४ ४. सनत्कुमारो भगवान् पुरा कथितवान् कथाम्। भविष्यं विदुषां मध्ये तव पुत्र समुद्भवम् ।। रामायणे १/८/६ . ५. प्रबन्धेन कल्पना प्रबन्धस्य अमिधेयस्य कल्पना स्वयं रचना इति सारसुन्दरी-शब्दकल्पद्रुमे। ६. प्रबन्ध-कल्पना कथा-इति अमरकोशः, १/६/६ प्रबन्ध कल्पनां स्तोक-सत्यां प्राज्ञा कथां विदुः। कोलाहलाचार्यः शब्दकल्पद्रुमे। यद्यद्रोचेत विप्रेभ्यस्तत् तद् दद्यादमत्सरः। ब्रह्मोद्याश्च कथाः कुर्यात् पितृणामेतदीप्सितम्।। मनुः ३/२३१ ८. आख्यानैश्चाप्युपाख्यानैर्गाथाभिः कल्पशुद्धिभिः। पुराण-संहितां चक्रे पुराणार्थ-विशारदः ।। विष्णु पु. ३/६/१५ ६. स्वयं दृष्टार्थकथनं प्राहुराख्यानकं बुधाः। श्रुतस्यार्थस्य कथनमुपाख्यानं प्रचक्षते।। तत्रैव श्रीधरी। १०. अनन्त्यस्यापि प्रश्नाख्यानयोः पा.स. ८/२/१०५ ताकि सम्पादकीयम्-कथा-साहित्यम् ५६ _ ‘आख्यानं पूर्ववृत्तोक्तिः” इति साहित्यदर्पणानुसारम् दृष्टस्य श्रुतस्य वा पूर्ववृत्तान्तस्य कथनमाख्यानम्। एतेन आख्यानोपाख्यानयो नास्ति कोऽपिभेदः। ब्रह्मवैवर्तपुराणानुसोरणापि एतयो मेंदो नास्तीति निम्नवचनेन विज्ञायते कथितं षष्प्युपाख्यानं ब्रह्मपुत्रः यथागमम्। देवी मङ्गलचण्डी या तदाख्यानं निशामय।। सर्वाख्यानं श्रुतं ब्रह्मन्! अतीव परमाद्भुतम्। अधुना श्रोतुमिच्छमि दुर्गोपख्यानमुत्तमम् ।। महाभारते तु न केवलम् आख्यानोपाख्यानयोरेकस्मिन्नर्थे प्रयोगो दृश्यते, अपितु आख्यानार्थे इतिहासस्य इतिहासार्थे आख्यानशब्दस्य च व्यवहारोऽवलोक्यते। तथाहि चतुर्विंशति साहस्री चक्रे भारतसंहिताम्। उपाख्यानैर्विना तावद् भारतं प्रोच्यते बुधैः।। जयनामेतिहासोऽयं श्रोतव्यो विजिगीषुणा।। इदं कविवरैः सर्वैराख्यानमुपजीव्यते।। स्कन्दपुराणानुसारम् पुराणस्य यानि सर्ग-प्रतिसर्ग-वंश-मन्नन्तर-वंशानुचरितानि पञ्चाङ्गानि विद्यन्ते तेम्यो भिन्नं यत् किञ्चदपि वर्तते तत् सर्वमाख्यानमित्यभिधीयते। यथाहि पञ्चाङ्गानि पुराणस्य चाख्यानमितरत् स्मृतम्।। किन्तु महर्षिमनुः “स्वाध्यायं श्रावयेत् पित्र्ये धर्मशास्त्राणि चैव हि। आख्यानानीतिहासांश्च पुराणानि खिलानि च।।” इत्येवं प्रतिपादयन् इतिहासादेराख्यानं भिन्नमिति मनुते। एवञ्च आख्यानोपाख्यानयोः कथायाः पूर्वरूपता विद्यतेतरामिति विजानते विज्ञाः । तत्र पुराणादि-प्रतिपादितेषु आख्यानोपाख्यानेषु १) विश्वामित्र-त्रिशङ्क्वाख्यानादीनि कतिपयानि ज्योतिषविषयकाणि, २) श्रीमद्भागवतीय पुरञ्जनोपाख्यानादीनि कानिचित् प्रतीकात्मकानि, ३) उर्वशी-पुरूरवसादीनि कानिचित् वैदिकानि, १. साहित्यदर्पणे, ६/२३७ २. ब्रह्मवैवर्ते प्रकृतिखण्डे, ४१/४४ ३. महाभा. १/१/१०१ ४. तत्रैव १/६/१८ ५. तत्रैव १/२/३८६ ६० गद्य-खण्ड ४) हरिश्चन्द्र-राम-कृष्णादिसम्बन्धीनि ऐतिहासिकानि, ५) विष्णु-शिव-दुर्गा-देवी-देवतात्मकानि कानिचन इष्टदेवता-विषयकाणि, ६) मदालसा-रन्तिदेवादि-सम्बन्धीनि कानिचित् उपदेशात्मकानि, तथा ७) कतिपयानि लोक-विश्वास-मूलकानि उपाख्यानानि सन्ति । इमे एव आख्यानोपाख्यान विषयाः परवर्तिषु कथाप्रभेदेषु समुपलभ्यन्ते। __ एतेषामेव आख्यानोपाख्यानेतिहासानामजस्रप्रवाहात् एका विशिष्टा कथासरित् स्व सहोदरया आख्यायिकया सह प्रवाहिताभवत्। एनयोः स्वरूपादि-वैशिष्ट्य-निरूपणम् तत्प्रसङ्गे एव द्रष्टव्यम्। काव्य-प्रभेदान् प्रदर्शयता आनन्दवर्धनाचार्येण आख्यायिकाकथाभ्यां सह परिकथा सकल कथा, खण्डकथा रूपाः प्रभेदाअपि प्रतिपाद्याञ्चक्रिरे।’ __ तत्र ‘एक धर्मादि पुरुषार्थमुद्दिश्य प्रकार-वैचित्र्येण अनन्तवत्तान्त-वर्णन-प्रकारा परिकथा’, ‘उच्छ्वासादिना वक्त्रापरवक्त्रादिना च युक्ता आख्यायिका’ ‘तद्रहिता कथा’ इति अभिनवगुप्त पादाचार्येण व्याचचक्षे।२ वाक्य-प्रबन्धरूपाया रचनाया उपर्युक्तप्रभेदेभ्योतिरिक्तः संकथा रूप-प्रभेदोऽप्यस्ति। सम्यक् कथा सङ्कथा इत्यत्र अन्योन्य-कथनस्य प्रामुख्यं भवति। विषय-पात्र शैली-भाषाणामाधारेण कथाया वर्गीकरणं निम्नप्रकारेण क्रियते क) विषयमाधारीकृत्य कथा चतुर्धा १) धर्मकथा, २) अर्थकथा, ३) कामकथा, ४) मिश्रकथा च। धर्मकथापि आक्षेपिणी, विक्षेपिणी, संवेदिनी, निर्वेदिनीति प्रभेदेन चतुर्विधा। अर्थकथायामर्थस्य, कामकयायां कामस्य च प्रामुख्येन वर्णनं भवति। मिश्रकथायां कथानके मनोरञ्जनस्य कौनुकाधानस्य च मिश्रणं भवति। ख) पात्रमाश्रित्य कथायाः दिव्यकथा, मानुष्यकथा, मिश्रकथेति त्रयः प्रभेदा भवन्ति। ग) भाषादृष्ट्या संस्कृतभाषामयी, प्राकृतभाषामयी, मिश्रभाषामयीच कथा त्रिविधा भवति। घ) शैलीमाधारीकृत्य कथा- सकलकथा, खण्डकथा, परिकथा, परिहासकथा, उल्लापकथा, संकथा, संकीर्णकथेत्यादि-विविध रूपतामाश्रयति। विषयाश्रयमप्यन्यदौचित्यं तां नियच्छति। काव्य-प्रभेदाश्रयतः स्थिता भेदवती हि सा।। ध्वन्या. ३/७ २. तत्रैव ध्वन्यालोक-लोचने। ३. उल्लापः काकुवागन्योन्योक्तिः संलाप-संकथे।। हेमचन्द्रः। ४. संस्कृत-वाङ्मयकोशः, प्रथमखण्डे पृ. २४३। सम्पादकीयम्-कथा-साहित्यम् ङ) कथानकस्याधारेण प्राचीनकथासु पुरातनकथा, दैवतकथा, नीतिकथा, लोककथा, दृष्टान्तकथा, कल्पितकथेत्येवमादयो विविधाः कथाः सन्ति, यासां वर्णनमितिहास-पुराणादौ समुपलम्यते। कथानां विकासक्रमं समवलोकयन्तः प्रज्ञावन्तः वैदिककथानां संग्रहः पुरा महर्षिशौनकेन ‘बृहदेवता’ ग्रन्थे व्यधायि। अत्र अष्टचत्वारिंशत् कथा उपलभ्यन्ते। ततः परं कालक्रमेण रामायण-महाभारत-पुराणोपपुराणत्रिपिटकजैनपुराण-बौद्धजातक-पञ्चतन्त्र-हितोपदेश कथा-सरित्सागरादिषु सहस्रशः धर्म-नीत्पुपदेशात्मिकाः कथा निबद्धा अभूवन्, यासां प्रचारः प्रसारश्च न केवलं भारते, अपितु विश्वस्मिन् कथा-साहित्ये अभूताम्। वैदिक वाङ्मयात् समुदभूतासु नीत्यादि-कथासु जन्तुकथानां समुद्भवः महाभारत-पञ्चतन्त्रादौ समभवत्। वैष्णव-शैव-शाक्त-बौद्ध- जैन-सम्प्रदायेषु च धर्म-नीति तीर्थ-व्रतादि-कथानां विकासोऽभवत्। एताभिः कथाभिः तत्तत् सम्प्रदायस्य वैशिष्टयं प्रतिपादितमभूत्। चीन-विश्वकोशे अनेक भारतीय कथानामनुवादस्य विद्यमानतया रिव्रष्टीय षष्ठशतकात् प्रागेव भारतीय कथानां प्रचारः चीनदेशेऽभवदिति निश्चप्रचं कथयितुं शक्यते। इटली देशीय विख्यात कवेः पेत्रार्कस्य ‘डिकॅमेरान’ इतिनामके कथा-संग्रहे अनेकाः प्राचीन भारतीय-कथा उपलम्यन्ते। अरबी कथा-संग्रहेऽपि भारतीयाः कथा विलसन्ति। एतेन भारतीय कथानां विशेषता, उपादेयता, देशान्तर-यात्रा च प्रमाणिता भवन्ति। संस्कृत वाङ्मये भारतीय कथानां संग्रहात्मकाः जातकमाला-पञ्चतन्त्र-हितोपदेश बृहत्कथामञ्जरी-कथासरित्सागर-वेतालपञ्चविंशति-पञ्चाख्यानक-तन्त्रोपाख्यान सिंहासनद्वात्रिंशिकाशुकसप्तति-प्रबन्धचिन्तामणि-प्रबन्धकोश-भोजप्रबन्ध-पञ्चशती प्रबोधसम्बन्धान्तरकथा संग्रह-कथामहोदधि-कथानक-कोशकथार्णवादि ग्रन्था अनेकाः समुपलभ्यन्ते।’ __ अधुनापि पुरातनीनां नवीनानाञ्चकथानाम् अनेके संग्रहाः प्रकाशिता अभूवन् येषु त्रयोदशाधिकशतसंख्याकवैदिकोपाख्यान-संग्रहः वेदाख्यानः-कल्पद्रुमः’,२ शुनःशेपकथा वामनावतारकथा-गौतमकथा-वामदेवकथा-श्यावाश्वकथा-सप्तवधिककथा-दाशराजयुद्धकथा नमुचिवधकथा-नाभानेदिष्टकथादिसम्बद्धानां-सूक्तानां संग्रहात्मकं ‘कथासूक्तम्'३ द्वादशानां कथानां संग्रहात्मिका ‘कथावल्लरी षष्णां कथानां संकलनात्मिका ‘उपाख्यानमञ्जरी’, १. द्र. संस्कृतवाङ्मयकोशः। २. डॉ. विद्यानिवासमिश्रेण सम्पादितः, साहित्य अकादेमी, नई दिल्ली ३. सस्कृतवाङ्मयकोशः पृ. ४६ टन ४. श्रीधर भास्कर वर्णेकररचिता, संस्कृतभवनम, नागपरमा ५. श्रीवटकनाथशास्त्रि खिस्ते-सम्पादिता, चौखम्बा सं.सी. प्रकाशिता १६४६ र ६२ गद्य-खण्ड पञ्चाशतः कथानां संग्रहात्मिका ‘दिशा विदिशा’,’ एकादशानां बालकथानां संग्रहः ‘महान्’, एकादशानां कथानां संग्रहात्मिका ‘कथाकौमुदी सप्तानां कथानाम् ‘बृहत्सप्तपदी’,३ अभिराज राजेन्द्रमिश्रस्य ‘इक्षुगन्धा’, ‘रागडा’, चतुष्षष्टि लघु कथानाम् संकलनात्मकः ‘लघुकथा-संग्रहः४ त्रिंशतः नवीनानापुरातनीनाञ्च कथानां संकलनात्मिका ‘संस्कृतकथाकौमुदी" इत्येवमादयः कथा-संग्रहाः प्रकाशयन्ति आदिकालतः अद्यपर्यन्तंसंस्कृतकथासरितः अविच्छिन्न-प्रवहमानताम्, जनजीवन-सम्बद्धताम्, परमप्रमोदजनकताञ्च । आधुनिक-संस्कृतकथासु न केवलमुपरि निर्दिष्टा विषया उपलभ्यन्ते, अपितु अद्यतनी सामाजिक-सम-विषम-परिस्थितिरपि दर्पणायमाना सती सम्यगवलोक्यते। उपर्युक्त-कथा-संग्रहेभ्योऽतिरिक्ताअपि विश्वेश्वर पाण्डेयस्य ‘मन्दारमञ्जरी’, भारद्वाज ऋषीकेश शास्त्रिणः ‘पर्यटकत्रिंशत्’, हरिदाससिद्धान्तवागीशस्य ‘सरला’, राधावल्लभत्रिपाठिनः ‘महाकविकण्टकः’, पं. क्षमाराव महाशयायाः ‘कथामुक्तावली’, महालिङ्गशास्त्रिणः ‘कथानक कोशः’, ‘सङ्कथासन्दोहः’, अरिभट्टनारायणदासस्य ‘हरिकथामृतम्’, रङ्गनाथाचार्यस्य ‘कथासङ्ग्रहः’, रमेशचन्द्रशुक्लस्य ‘चारुचरितचर्चा’, शिवप्रसाद भट्टाचार्यस्य ‘उत्तराखण्डयात्रा’, विजयलक्ष्मीदेव्याः ‘उपदेशप्रसादः'६ इत्येवमादयः संग्रहाः कथासाहित्यस्य समृद्धि प्रकाशयन्ति। भाषान्तरेभ्यः संस्कृते अनूदितानां कथानामपि सङ्ग्रहा अनल्पाःसन्ति, येषु १) गोविन्दकृष्ण मोडकस्य ‘अरेबियननाइट्स’ इत्येतदनुवादरूपा ‘चोरचत्वारिंशी कथा’ २) कृष्णसोमयाजिनः ‘अ स्पार्कनेग्लेक्टेड वर्क्स द हाउस’ इत्याख्यस्य टाल्स्टायमहोदयस्य नाटकस्य अनुवादस्वरूपा ‘कणोलुप्तोगृहंदहति’ इतिकथा’, ३) हरिचरणभट्टाचार्यस्य ‘कपालकुण्डला’, ४) एस. वेङ्कटरामशास्त्रिणः भारतीय प्रादेशिक भाषानिबद्धानाम् शतमितानाम् कथानाम् अनुवादात्मकम् ‘कथाशतकम्’, ५) जगन्नाथस्य- पाण्डिचेरीस्थस्य अरविन्दाश्रमस्य श्रीमात्रा फ्रेञ्चभाषानिबद्धानां नीति कथानाम् अनुवादात्मिका ‘कथामञ्जरी’, ६) एम. अहमदस्य ‘जामे उल्लिकायान’ नामकस्य फारसीकथासंग्रहस्य रूपान्तरम् ‘दुःखोत्तरं सुखम्’, १. डॉ. केशवदाशेनविरचितः लोकभाषा प्रचारसमितिः पुरी १६६१ २. डॉ. प्रभुनाथद्विवेदिना विरचिता, देववाणीप्रेस, वाराणसी, १९८८ ३. दुर्गादत्तशास्त्रिणा प्रणीता, गुलाव प्रिंटिंग प्रेस, अम्बाला छावनी हरियाणा, १६६१ ४. आचार्य डॉ. जयमन्तमिश्रेण संकलितः सम्पादितश्च, साहित्य अकादमी, नई दिल्ली, १९६७ ५. नरोत्तमदासस्वामिना संपादिता, रामपसाद एण्ड सन्स, आगरा, १६६५ वडा ६. कथाया मूलभागे एतद्विवरणं द्रष्टव्यम्मा जीपाला ४ सम्पादकीयम्-कथा-साहित्यम् ७) श्रीधरस्य ‘यूसूफ तथा जुलेखा’ नामक फारसी कथायाः अनुवादरूपम् ‘कथाकौतुकम्’, ८) एन. गोपाल पिल्लई महाशयस्य मलयालम भाषाकथानुवादात्मिका ‘सीताविचारलहरी’ इत्यादयः ज्ञानगोचरीभूताः कथासाहित्यवैभवं सूचयन्ति एवं विधा बहवः कथा-सङ्ग्रहा विशाले ह्यस्मिन्देशे विद्यन्ते, ये प्रकाशं दिदृक्षवः पाण्डुलिपि-मुखान्तरालाद् बहिरागन्तु कामयन्ते। कथा-साहित्यस्य सुलभतया कालक्रमेण परिचयार्थं यथा मूलभागे (१) वैदिककथा, (२) रामायण-महाभारत पुराणादिप्रतिपादितकथा, (३) बौद्ध-जैनकथा, (४) नीत्युपदेशात्मककथा, (५) मनोरञ्जनकथा इति पञ्चसु वर्गेषु कथा विभज्य तद् वर्णनं-प्रस्तुतम्, तथैव सौलभ्येनात्रापि प्रदर्श्यते १) वैदिककथा-पुण्यसलिलानां सरस्वत्यादिनदीनां पावन-पुलिनेषु, पुण्यमयेषु तीर्थक्षेत्रेषु यज्ञानुष्ठानं कुर्वन्तो महर्षयस्तत्प्रसङ्गे रोचनार्थाः कथाअपि कथयन्त आसन्।’ श्रोत्र रसायनायमानास्ताआकर्णयन्तो यजमानादयोऽमन्दमानन्दमनुभवन्ति स्म। अमितासु तासु कथासु निम्नलिखिताः प्रामुख्यमादधाना आख्यानोपाख्यानशब्देन व्यवह्रियमाणा अत्र निर्दिश्यन्ते १) सरमा-पण्पुपाख्यानम्, २) शुनः शेपोपाख्यानम्, ३) कक्षीवत्स्वनयाख्यानम्, ४) दीर्घतमसआख्यानम्, ५) लोपामुद्रागस्त्योपाख्यानम्, ६) गृत्समदाख्यानम्, ७) वसिष्ठविश्वामित्राख्यानम्, ८) सोमावतरणाख्यानम्, ६) वामदेवोपाख्यानम्, १०) व्यरुणाख्यानम् ११) अग्नि-जन्मोपाख्यानम्, १२) श्यावाश्वाख्यानम्, १३) सप्तवध्युपाख्यानम्, १४) बृबु-भारद्वाजोपाख्यानम्, लाया १५) ऋजिश्वातियाजाख्यानम्, १६) सरस्वत्युपाख्यानम्, १७) विष्णु-त्रिपदक्रमोपाख्यानम्, १८) बृहस्पतिजन्माख्यानम्, १६) नृपसुदासोपाख्यानम्, २०) नहुषोपाख्यानम्, २१) आसङ्गाख्यानम्, २२) अपालाख्यानम्, २३) कुत्साख्यानम्, २४) असमाति नृपस्य चतुर्णा २५) नाभिनेदिष्टाख्यानम्, मृत्विजाञ्चोपाख्यानम्, २६) वृषाकप्युपाख्यानम्, २७) उर्वशीपुरूवसोरुपाख्यानम्, २८) देवापि-शन्तनूपाख्यानम् २६) यमनचिकेतसोरुपाख्यानम्। १. वाराणस्यां निरुक्ताध्यापनावसरे श्रीगुरुचरणाः प्रतिमन्त्रव्याख्याने एकमुपाख्यानं कथयन्त आसन् इति मयापि प्रत्यक्षीकृतम् गद्य-खण्ड एतेषु कतिपयानामतिरोचकानाम् दैवततत्त्वप्रधानानामपि लोकप्रचलितकथाबीज स्वरूपाणामाख्यानानां सरलानि मनोहराणि विवरणानि मूलभागे प्रदर्शितानि सन्ति, यानि तत्रैवावलोकनीयानि ब्राह्मण-भागेषु शतशः आख्यानोपाख्यानि सन्ति येषु प्रधानानि कानिचिदत्र निर्दिश्यन्ते १) मनोवाणीकलहाख्यानम्, २) सूर्य-स्वर्भानूपाख्यानम्, ३) अश्वरूपेण यज्ञस्य पलायनम् ४) देवासुर-संग्रामाख्यानम्, कुशप्रलोभनात् प्रत्यागमनञ्च, ५) उर्वशीपुरूरवसोराख्यानम्, ६) जलप्लावनाख्यानम्, ७) पुरुषात् चातुर्वर्योत्पच्युपाख्यानम्, ८) शुनःशेपाख्यानम्, ६) कमलनालचौरोपख्यानम् १०) कवषैलूषोपाख्यानम्, ११) सौपर्णाख्यानम्, . १२) यज्ञपशूपाख्यानम्, १३) विश्वन्तर ब्राह्मणाख्यानम् च। ब्राह्मणग्रन्थस्य अर्थवाद-भागेषु प्रवृत्ति-निवृत्त्युयदेशकानि इमान्याख्यानि विशिष्ट महत्त्वशालीनि सन्ति। __ एवमेव आध्यात्मिक चिन्तनपरे ज्ञानकाण्डे वेदान्तोपनिषद् भागे अनेकानि उपाख्यानानि सन्ति, यानि ब्रह्मविधा-रहस्यमुद्घाटयन्ति। एतेषु १. यम-नचिकेतसोराख्यानम्, २. सत्यकाम-जाबालोपाख्यानम्, ३. आरुणि-श्वेतकेतूपाख्यानम्, ४. सनत्कुमार-नारदोपाख्यानम्, ५. इन्द्रविरोचनोपाख्यानम्, ६. मैत्रेयी-याज्ञवल्क्योपाख्यानम्, ७. आरुणेय श्वेतकेतु ८. इन्द्र-प्रतर्दनाख्यानम्, प्रवाहणजैबल्खुपाख्यानम्, ६. देवासुर-संग्रामाख्यानम्, १०. जानश्रुति-मौत्रायणाख्यानम्, ११. रैक्वाख्यानम्, १२. शुनामाख्यानम्, १३. उमाहैमवत्युपाख्यानम् च प्रशस्तानि सन्ति। एतेषामाख्यान-स्वरूपाणि मूलभागे प्रदर्शितानि सन्ति तानि तत्रैव द्रष्टव्यानि। डॉ. विधानिवासमिश्रेण सम्पादिते ‘वेदाख्यानकल्पद्रुमे” त्रयोदशाधिकशत-मितान्याख्यानानि संकलितानि सन्ति, येषु कानिचिदुपर्युक्त-स्वरूपाणि कानिचिच्च तद्भिन्नानि सन्ति। अतः समस्त वैदिकवाङ्मये उपलब्धानामाख्यानानां संख्याख्यानं महता प्रयत्नेनैव साध्यम् । रामायण-महाभारत पुराणोपलब्धा कथा-हिमाचलान्निष्यन्दमाना क्रमेण विविधरूपैः प्रवर्धमाना सरिदिव मन्त्र-ब्राह्मणात्मकात् कर्मज्ञाननयाद् वेदाचलात् प्रवहमाना कथासरित् विविधरूपाणि धारयन्ती अग्रे-प्रावर्धत । अन्तर्भाव-माधुर्यदधानापि स्वकीयकलेवरपारुष्येण वेद-कथा न तथा हृद्यतामधात् यथा रामायणादि-कथा। १. साहित्य अकादेमी नूतनदेहलीतः १६६२ इतिवर्षे प्रकाशितः। सम्पादकीयम्-कथा-साहित्यम् प्राचेतसेन आदिकविना महर्षिवाल्मीकिना लौकिकसंस्कृते लौकिकच्छन्दस्सु विरचितम् मनोऽभिरामरामणीयकस्य निधानं परिधृत-हृद्यानवद्यपद्य परिधानं गुण-विभूषितमलंकार समलंकृतम् नवरसरुचिरं मनोहरमादिकाव्यं रामायणम्, यच्च सकलं सुसम्बद्धमेकलं रामकथामयमापि अमितै रमणीयैः कथानकगुम्फितं विभ्राजतेतराम्। एतस्य कथानकानि विविध-ज्ञान-विलासोल्लसितानि, पुरुषार्थ-साधन-मार्ग-प्रदर्शकानि, पथ-विपथ-विद्यमान जन-सन्मार्गोपदेशकानि, धृति-क्षमेत्यादि निखिलधर्म-निर्देशकानि, हितवचनान्यपि मनोहराणि च सन्ति । __एतस्मिहि चतुर्विंशति-सहस्र-पद्यात्मके आदिकाव्ये प्रसङ्गानुकूल-विविध पुरातन-कथानामपि समावेशो मनोहरतामादधाति। एतासु निम्नकथा- या विशेषत उल्लेखनीया, नामग्राहं निर्दिश्यन्ते १. ऋष्यशृङ्गकथा, २. नृपकुशनाभ-कन्या-कथा, ३. गाधिराजोत्पत्तिकथा, माता ४. पार्वती-गङ्गा-जन्मकथा, ५. कार्तिकेय-जन्मकथा, ६. महाराज-सगरस्य तत्पुत्राणां च कथा, ७. गङ्गावतरण-कथा, ८. समुद्रमन्थन-कथा, ६. कश्यप पत्नी-दिति-कथा, १०. अहल्योद्धार-कथा, ११. वसिष्ठ-विश्वामित्र-वैमनस्य-कथा, १२. त्रिशकु-विश्वामित्र-कथा, १३. शुनःशेप-कथा, १४. विश्वामित्रतपः कथा, १५. अन्घतापस-शाप-कथा, १६. जाबालिकथा, १७. शबरीकथा, १८. पञ्चाप्सरस्तीर्थ-वासि-माण्डुकर्णिमुनिकथा, १६. सम्पाति-जटायु-जन्मकथा, २०. स्वयम्प्रभातापसी-कथा, २१. जयन्त-कथा, २२. रावण-पूर्वजन्म-कथा, कथा, २३. महाराज नृगकथा, २४. महाराजनिमि-कथा, २५. महाराज-नुहष-कथा इत्यादयः । वाल्मीकीय रामायणस्य लोक-प्रियता काव्यानन्दसुधारस-निष्यन्दिनी, पुरुर्षाथचतुष्टय-साधनीयं मधुर-राम-कथा-मन्दाकिनी विश्व-मानव-मानसमाप्याययतिस्म। अतएवोच्यते F २२. वाल्मीकि-गिरि-संभूता राम-सागर-गामिनी। पुनाति भुवनं पुण्या रामायण-महानदी।। इति। इमाम् रामायणीं कथां समुपजीव्य अगस्त्यरामायणम्, अग्निवेषरामायणम्, अत्रिरामायणम्, अद्भुतरामायणम्, अध्यात्मरामायणम्, आनन्दरामायनम्, स्वायाम्भुवरामायणम्, गरुडरामायणम्, वसिष्ठ रामायणम्, सुब्रह्मरामायणम् इत्यादीनि अनेकानि रामायणानि; कालिदासविरचितरघुवंशम्, अद्भुतरामान ६६ गद्य-खण्ड भट्टिकृत-भट्टिकाव्यम्, कुमारदास-निर्मित-जानकीहरणम्, अभिनन्द-रचित-रामचरितम्, क्षेमेन्द्रकृत-रामायणमञ्जरीकाव्यम्, साकल्यमल्लकृतमुदारराघवम्, वामनभट्टबाण-रचित रधुनाथचरितम्, चन्द्रकविकृत-जानकीपरिणयम्, अद्वैतकविकृत-रामलिङ्गामृतम्, रामचन्द्रमिश्र विरचित-वैदेहीचरितम् इत्यादीनि विविधानि महाकाव्यानि; भासकृते प्रतिमाभिषेकनाटके भवभूति-विरचिते महावीरचरितोत्तररामचरिते, मायुराजकृतमुदात्तराघवम्, दिङ्नाग-निर्मित कुन्दमाला, मुरारिरचितमनर्घराघवम्, राजशेखरकृत- बालरामायणम्, दामोदरमिश्रकृत हनुमन्नाटकम्, शक्तिभद्रकृताशचर्यचूडामणिनाटकम्, जयदेवविरचित-प्रसन्नराधवम्, सोमेश्वरकृत मुल्लास-राधवम्, इत्यादीनि प्रभूतानि नाटकानि, भोजकृता रामायणचम्पू:, दिवाकर-विरचिताअमो घराघवचम्पूः वेङ्कटाध्वरि-रचितोत्तरराम चरितचम्पूः, इत्यादीनि चम्पूकाव्यानि च रचितानि कविपुगवैः। लोकप्रियरामकथायाः प्रचार-प्रसारौ न केवलं कविभिः संस्कृत-गिरा सोल्लासं व्यधासिषाताम्, अपितु बौद्ध-जैनादि कविभिरपि तथैवाकारिषाताम्। बौद्धसाहित्ये रामकथा-सम्बद्धकृतिषु ‘दशरथजातकम्’, ‘टव्वण्यन्तजातकम्’, ‘अनामक जातकम्’ इत्यादिषु किञ्चित् स्वधर्मसम्प्रदायानुकूल-परिवर्तनेन सह तदेव वस्तु विजृम्भते। जैनपरम्परायामपि प्राकृतभाषानिबद्धासु ‘पउम चरियं’, ‘रामलक्खण चरियं’ ‘सीया चरियं’ इत्यादिषु, संस्कृतभाषागुम्फितासु ‘रविषेण पद्मचरितम्’, जिनदासकृत-‘रामदेवपुराणम्’ पद्मदेव विजयगणिकृत ‘रामचरितम्’ इत्यादिषु च रचनासु यत्किञ्चित् परिवर्तनेन सह तदेव वस्तु विलसति। संस्कृतेतराधुनिक-प्रमुखभाषासु रामकथावर्णनस्य प्रवहमाना अजस्रधारा अद्यापि जनमानसमाप्याययति। तत्र १. असमिया-भाषायाम् माधवकन्दली-रचितं ‘माधवकन्दलीरामायणम्’, २. उड़िया भाषायाम् बलरामदास विरचितं जगमोहनरामायणम्, ३. कन्नड़ भाषायाम् नरहरि-कृतम् ‘तोरवैरामायणम्’ । ४. कश्मीर भाषायाम् ‘दिवाकरप्रसादभट्टनिर्मितम् ‘रामावतारचरितम्’ गुजराती भाषायाम् ‘गिरिधरदासप्रणीतम्’ ‘रामायणम्’ ६. तमिल भाषायाम् कम्बन-रचितम् ‘कम्बरामायणम्’ तेलगभाषायाम रङगनाथ-विरचितम ‘द्विपदरामायणम’ ८. बंगलाभाषायाम् ‘कृत्तिवासरामायणम्’, ६. मराठी भाषायाम् एकनाथनिर्मितम् ‘भावार्थरामायणम्’, १०. मलयालम भाषायां एज्युतच्चनकृतम् ‘अध्यात्मरामायणम्’,

0 १. चीनीभाषानुवादेन ज्ञातम्। द्र. मूलभागः। नामावली ६७ सम्पादकीयम्-कथा-साहित्यम् ११. मैथिली भाषायाम् ‘चन्दाझारचितम् ‘मिथिलाभाषारामायणम्’, १२. लालदासकृतम् ‘मैथिलीरामायणम्’ १३. रामलोचनशरण-रचितम् ‘मैथिलीरामचरितमानसम्’, १४. हिन्दी भाषायाम्-गोस्वामि-तुलसीदासरचितम् ‘रामचरितमानसम्’, १५. छेदीझाद्विजवर-विरचितम् ‘सीतायनम्’ इत्यादीनि __ अनेकानि भावपूर्णानि रामकाव्यानि विशालेऽस्मिन् देशे विलसन्ति। उर्दू-फारसी-वैदेशिक-भाषासु रामकथा वर्णनमेतत्कथाया लोकप्रियतां विशेषतोऽभिव्यनक्ति। तत्र निम्नलिखिताः कृतयो हृद्यतया वैशिष्ट्यमादधाना उल्लेखनीयाः सन्ति १. मुगलशासकस्य अकबरस्य आदेशात् अलबदायूनी द्वारा फारसी भाषायां कृतः वाल्मीकि रामायणस्य छन्दोबद्धानुवादः, २. जहाँगीर-शासन-कालिकेन गिरिधरदासेन प्रस्तुतः वाल्मीकिरामायणस्य संक्षिप्त-पद्यानुवादः, ३. मुल्लामसीहेन ‘मुल्लामसीहीतिनाम्ना’ तदानीमेव कृतः रामायणानुवादः, ४. शाहजहाँ कालीना ‘रामायण फैजी’, ५. खिष्टीय सप्तदशशतके एंकेन गोपालनामकेन कविना ‘तर्जुमा-इ-रामायणे’ ति नाम्ना प्रस्तुतोऽनुवादः, ६. ख्रिष्टीय एकोनविंशे शतके जगन्नाथ ‘खुश्तर’ द्वारा उर्दूभाषायाम् ‘रामायण खुश्तरे’ ति नाम्ना विहितः प्रसिद्धानुवादः, ७. ‘रामायण मंजूम’, ८. ‘रामायण बहार’, ६. ‘रामायणमेह’ इत्याद्यभिधानैरन्यैर्विद्वद्भिः कृता रामायणस्यानुवादाः रामकथाया लोकप्रियतां प्रदर्शयन्ति। आदिकाव्य रामायणस्य जनमानस-विलासिनी रामकथा भारतसीमामतिक्रम्य तिब्बत-पूर्वतुर्किस्तान-चीन-हिन्देशिया-श्याम-ब्रह्मदेश-यवद्वीपादिषु प्रविश्य तत्रत्यान् जनान् स्वमाधुर्येण, गौरवेण च मुग्धानकरोत् । ‘अनामक जातक, ‘दशरथजातकादेः तिब्बती-भाषानुवादेन सम्यग्ज्ञायते यत् खिष्टीयाष्टम-नवमशतक-समये एव राम-कथा तिब्बत- चीनादिदेशेषु लोकप्रिया प्रसिद्धाचाभवत्। हिन्देशियान्तर्गत यवद्वीपीय प्रम्बनननामके स्थाने खिष्टीय नवमे शतके निर्मितस्यैकस्य शिवालयस्य भित्तिषु समुत्कीर्णा रामकथा-विविध-प्रसङ्गास्तत्र रामकथा-प्रियतायाः साक्ष्यं निर्दिशन्ति। अत्रत्या ‘रामायण काकाविन’ इति नाम्ना प्रसिद्धा प्राचीना रामकथा ख्रिष्टीय दशमशतके विरचिता, या भट्टिकाव्येन प्रभाविताऽस्ति, अतीव लोकप्रियतामादधाति। __ मलयदेशीया ‘हिकायत सेरीराम’ इतिनाम्ना प्रख्याता रामकथा प्राचीनापि स्वमाधुर्येण नवीनायते। एवमेव तत्रत्या ‘रामकियेन’ इति नाम्ना प्रसिद्धा रामकथा या सप्तदशशतके। गद्य-खण्ड विरचिता, रामकथा-परम्परां प्रदर्शयति’। इमामेव कृतिमाधारीकृत्य ‘वेयुक रोंग’ इति नाम्ना अभिनेय काव्यस्य परम्परा प्रचलिताभवत् । परवर्तिनोऽनेके कवयः ‘रामकियेन’ इति काव्यं रचयाञ्चक्रुः। एतेषु योनबुरीफुत्तायोत्फा नामक-कविना रचितम् ‘रामकियेन’ इति काव्यम् स्ववैपुल्येन वैशद्येन च विशिष्टस्थानमाश्रयति । एवमेव लाओस देशे प्राप्ता रामकथा-मूलक-रचना ‘पोम्मचका’ (ब्रह्मचक्र) नामिकापि प्रकृते उल्लेख्या वर्तते। ‘यूतो’ नामकेन वर्मदेशीयेन एकेन कविना ‘रामयागन’ इति नाम्ना विरचिता रामकथा खिष्टीय-अष्टादशशतके तद्देशीयान् विशेषतः समाकृष्टा। इमामेव कृतिमाधृत्य श्यामदेशस्य ‘रामकियेन’ रामकथा वर्तते। वर्मदेशे ‘याम प्वे’ इतिनाम्ना प्रसिद्धं रामकथाश्रितं नाटकमपि अतीव लोकप्रियमस्ति। __ आधुनिक-यूरोपीय-भाषासु वाल्मीकिरामायणस्य कतिपयानि अनूदितानि संस्करणानि उपलब्धानि सन्ति। एतेषु ग्रिफिथ महोदयेन विहित आङ्गलभाषानुवादः हृद्येन पद्यबन्धेन समधिकरामणीयकः । वर्तमानसम्पूर्णानन्द संस्कृत विश्वविद्यालयस्य पूर्व कालिकस्य क्वीन्सकॉलेज इत्याख्यस्य प्रधानाचार्यपदमलंकुर्वाणेन एनेन तस्यैव परिसरे एकस्मिन् प्रशस्ते स्थाने समुपविशता एष पद्यानुवादः सश्रद्धं सकौशलं कृत इति सूचयति तत्रत्य शिलापट्टकमधस्तनेन सुललित पद्येन “तमसातटकोकिलेन यच्चरितं कूजितमूर्जितं हरेः। तदिहैव निषीदता मया ग्रिथिफेनात्मगिराप्यगीयत।” वाल्मीकिरामयणाय जर्मन भाषायाम् एफ.रुकर्ट महोदयस्य पद्यबद्धानुवादः, फ्रेन्च भाषायाम् डे. पोलिये द्वारा रचिता ‘मिथोलॉजि डेस इण्ड’ नामिका कृतिः, तथा ‘रत्नासियो डेस एरयर’ नाम्नी संक्षिप्त रचना; इतालवीभाषायाम् जी. गोरेसी द्वारा चतुर्यु खण्डेषु प्रस्तुता रामायणकथा च आदिकाव्यस्य विश्वभ्रमणं विश्वस्मिन् जनमानस-विलसनञ्च संसूचयन्ति। एवंहि आदिकाव्येन सीताया महच्चरितम्, रामभद्रस्य प्रजानुरञ्चनम्, भ्रातृ-प्रेम, दशरथस्य सत्य-पालनम्, जनन्याः स्नेहः इत्यादिरूपै औरतीय-संस्कृतेः योहि समुज्जवलसन्देशः सर्वत्र प्रसारितः स हि देश-काल-सीमा-बन्धनं परिहाय आदिकालात् अथ पर्यन्तं विश्वस्मिन् जनमानसं समाह्लादयतितराम् अतएवोच्यते “यावत् स्थास्यन्ति गिरयः सरितश्च महीतले। तावद्रामायण-कथा लोकेषु प्रचरिष्यति।।” इति। (३) महाभारतकथा संस्कृत-कथा-साहित्यस्य विकासक्रमे वाल्मीकि रामायणात् परं द्वितीय स्थानमाश्रयदपि महर्षिकृष्णद्वैपायनव्यासेन विरचितं महाभारतम् स्वविपुलकलेवरेण, पुरुषार्थ-वैभवेन, सम्पादकीयम्-कथा-साहित्यम् समस्त-रस-सम्पत्त्या च अद्वितीयं स्थानं दधाति। एतद् गौरवेण अमुष्य सम्बन्धे उद्घोष्यते धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ। यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित्।। जगतो वास्तविकताम्, कुरु-पाण्डव-महायुद्ध-परिणामम्, पाण्डवानां स्वर्गारोहणादि करुण-दृश्यं दर्श दर्शम् वैराग्यमापन्नो महर्षिव्यासः पावने नर-नारायणाश्रमे परम शान्तवातावरणे तपस्तपस्यन् शान्तरसप्रधानम्, क्षराक्षरातीत-भगवद्-वासुदेव श्रीकृष्णस्य परम-महिम-वर्णन परम्-’ “यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः। तत्र श्रीविजयो भूति धुंवानीतिर्मति मम ।।२ इति परम सत्योपदेशकरम् महाभारतं व्यरीरचत्। महाभारतस्य स्वरूप-विकासः ‘जय’-‘भारत’-‘महाभारते’ति क्रमत्रयेण सम्पन्नोऽभवदित्येतस्य साक्ष्येणैव ज्ञायते। कुरु-पाण्डव-युद्ध समाप्त्यनन्तरम् पाण्डवानां विजयपरम् ‘जय’ इति नामकं प्रथम रूपमभूत् __“जयनामेतिहासोऽयंश्रोतव्यो विजिगीषुणा।“३ इत्यादिना अवलोक्यते। एतस्य आख्यानं महर्षिव्यासेन स्वशिष्य-वैशम्पायनस्य समक्षं कृतम्। पश्चात् वैशम्पायनेन जनमेजयस्य नागयज्ञावसरे ‘भारत’स्य उपाख्यानादिरहितस्य आख्यानं कृतम्, यच्च चतुर्विशतिसाहस्त्री चक्रे भारत संहिताम्। उपाख्यानैर्विना तावत् भारतं प्रोच्यते बुधेः।। इति निर्देशनावगम्यते। ततःपरम् नैमिषारण्ये द्वादश वर्षीय महासत्रावसरे शौनकादीनामृषीणामनुरोधेन सौतिः आख्यानोपाख्यान सहितां महाभारत शत-साहस्त्री-संहितां श्रावयामास। 7 हरिवंश-सहिता विविधकथागुम्फिता पुरुषार्थ-कथा महाभारत-संहिता अष्टादशसु पर्वसु विभक्ता विश्वकोश-रूपा राजतेतराम्। महाभारतमूल-विषय-वस्तु-वर्णनक्रमे प्रासङ्गिक मूलकथाभागे च विस्तरेण कथारूप-प्रतिपादनात् अत्रातिसंक्षेपेणैव तन्निर्देशोऽपेक्ष्यते। (क) प्रेमाख्यान-मूलककथासु-सत्यवती-शान्तनुकथा, दुष्यन्त-शकुन्तलाकथा, श्रीकृष्ण-रुक्मिणी-कथा, उषानिरुद्धकथा, कच-देवयानीकथा, उर्वशी पुरूरवसोः कथेत्येवमादयः कथाः प्रसिद्धिं भजन्ते। १. भगवान् वासुदेवोऽत्र कीर्त्यतेऽत्र सनातनः । २. गीता १८/७८ ३. महाभारतम् उद्योग. १/६/१८ ४. तत्रैव १/१/१०१ गद्य-खण्ड (ख) प्राचीनाख्यानमूलककथासु- गङ्गावतरण-कथा, श्रीरामकथा, नहुषकथा, ययाति कथा, मनु-जलप्लावनकथा, सावित्रीसत्यवत्कथा, विश्वामित्रकथेत्यादयः कथाः प्रख्याताः सन्ति , (ग) नीतिमूलकजन्तुकथासु-छद्मव्रति-बिडालकथा, जम्बुक-कथा, गृध्रगोमायुकथा, अलसमत्स्यकथा, कपोत-व्याध-कथा, व्याघ-शृगालकथा, मत्स्य-धीवरकथा, शृगाल-वानरकथेत्यादयः कथाः अतीव विख्याताः सन्ति। एवंहि पुरुषार्थ-चतुष्टय-सिद्धि साधनीभूताभिः विविधाभिः कथाभिः समन्वितम् महाभारतमनारतं मानवमानसं सुधाः सन्तर्पयतितमम्। महर्षि वेदव्यासेन महाभारतीये महति चित्रपटे विविधचरितानां पुरुषाणां महिलानाञ्च विविध-रङ्गमय-विष्पस्टचित्राणि द्रष्टुम् तानि समवगन्तुञ्च वस्तुतो महाभारतरूपोऽयं ज्ञानमयः प्रदीपः प्रचालितः, येन विपथं विहाय सुपथेन जना गच्छेयुः। महाभारतरत्नाकरात् कथारत्नान्याधृत्य परवर्तिनः कवयः अनेकानि महाकाव्यानि, नाटकानि, चम्पूरूपाणि काव्यानि च विरचयाञ्च क्रिरे अद्यापिच विरचयन्ति। एतेनास्य गौरवं महत्त्वं व्यापकत्वञ्च प्रकटितानि भवन्ति। (४) पौराणिक-कथा आख्यानैश्चाप्युपाख्यानै र्गाथाभिः कल्प-शुद्धिभिः। पुराण-संहितां चक्रे पुराणार्थ-विशारदः॥ इति विष्णुपुराण-वचनात् सर्ग-प्रतिसर्ग-वंश-मन्वन्तर-वंशानुचरितरूप-पञ्चाङ्ग-पुराणस्य कलेवरम् भगवान् वेदव्यासः आख्यानोपाख्यानादिनैव निर्ममे। अतः सर्वाणि पुराणानि पुराकथानकैः समन्वितानि सन्ति । तत्र अनेकानि आख्यानानि सर्वेषु पुराणेषु वर्णितानि सन्ति। श्रीरामोपाख्यानम् श्रीकृष्णोपाख्यानम्, उर्वशीपुरूरवसोरुपाख्यानञ्च प्रायेण सर्वेषु पुराणेषु उपलभ्यन्ते। भारतीयास्तिकपरम्परानुसारम् वेदादिरिव पुराणान्यपि भगवता विश्वरूपस्य निःश्वसितरूपाणि सन्ति। अतः प्राचीनकालादेव पुराण-कथानामपि अजस्रधारा अत्र प्रवहन्ति, या विविधैरूपैर्मानवजीवनं रसयन्ति। अतएव पुराणकथा वाचन-श्रवण-परम्परा, या प्राचीन काले प्रचलिता, अद्यापि प्रचलति। सन्मामार्गोपदेशिकाः पुरुषार्थचतुष्टय-साधिकाः, या कथा अष्टादशसु पुराणेषु वर्णिताः सन्ति तासां नामग्राहं समुल्लेखो मूलभागे एतत् प्रसङ्गे कृतोऽस्ति अतस्तास्तत्रेव द्रष्टव्याः। एतासु पुराण-कथासु काश्चित् श्रीमद्भागवतीयाः त्रिपुर-कथा-पुरञ्जन-कथादयः प्रतीकात्मिकाः सन्ति, अतस्तास्तद् रूपेणैवावगन्तव्याः। १. द्र. मूलकथाभागः ७१ सम्पादकीयम्-कथा-साहित्यम् कासुचित् कथासु आधिभौतिकम्, कुत्रचिदाधिदैविकम् क्वापिचाध्यात्मिकं तत्त्वप्रतिपादितं वर्तते। विविधरत्नैर्विविधकुसुमैर्विविध-हृदय-पलाशकैर्विरचितेयं पुराण-कथामाला-मङ्गल्या मनोहरा सती जगदानन्दाय कल्पते। श्रद्धया निष्ठया भक्त्या श्रुताधीता अनुष्ठिता चेयं पुराण-कथा आधुनिकी सामाजिकीमशान्तिं निराकृत्य समाजे शान्ति स्थापयेदिति विश्वसन्ति विवेकिनः। (५) बौद्ध-साहित्य-कथा संस्कृतवाङ्मये धर्म-नीत्युपदेशात्मककथानां या परम्परा प्रचलितासीत् तामनुसृत्य बौद्ध-जैन-साहित्येऽपि स्वस्थ-सम्प्रदाय-मान्यतानुसारम् धर्म-नीत्युपदेशात्मक-कथानां विशिष्टा लेखनपद्धतिः प्रादुरभूत्। बौद्ध-साहित्ये धर्मोपदेशमूलककथानां रचना-विन्यासे जातकमालाऽवदानशतक दिव्यावदानावदानकल्पलतानाम् महत्त्वपूर्ण स्थानं वरीवर्ति । तत्रापि आर्यशूर-रचित-जातक-माला भाषासौष्ठवेन, कथा-शिल्प-सौन्दर्येण, बौद्ध-सिद्धान्त-प्रतिपादनेन च विद्धत्समाजे किमप्यपूर्व वैशिष्ट्यं दधाति। भगवतो बुद्धस्य पूर्वजन्मनां विविधाः कथा बोधिसत्त्व-जीवन-सम्बद्धा दान-दया-दाक्षिण्यादि- रूपा जातक-मालायां संग्रथिताः सन्ति। पूर्वजन्मसु प्रज्ञादि-परिमितानां निरन्तराभ्यास एव तस्य बोधिसत्त्वावस्था, यत् सुपरिणामः सिद्धार्थ-स्वरूपेण बुद्धत्व-प्राप्तिः। एवंहि जातकमालायां बौद्धधर्मस्य तत्त्वम्, महत्त्वम्, निर्वाण-प्राप्त्युपायाँश्च सम्यक् प्रकारेण आर्यशूरः प्रदर्शयामास। तथा-“बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते।” इति गीतोक्त-सिद्धान्तं बोधिसत्त्वस्य खग-मृग-मनुजदेवादियोनिषु जन्म-ग्रहणात्परं बुद्धत्व-प्राप्ति-वर्णनेन निरूपयामास। एतत् सर्वं कथोद्देश्यं जातकमालायाः निम्नलिखित प्रारम्भिक-श्लोकेन स्पष्टतां याति श्रीमन्ति सद्गुण-परिग्रह-मङ्गलानि कीर्त्यास्पदान्यनवगीत-मनोहराणि। पूर्व-प्रजन्मसु मुनेश्चरिताद्भुतानि भक्त्या स्वकाव्यकुसुमाञ्जलिनार्चयिष्ये।। जातकमालायाः भाषा-शैली-कथा शिल्पादि-विषये मूलभागे अनेकानि मनोरमाणि उदाहरणानि प्रदर्शितानि सन्ति तानि तत्रैव द्रष्टव्यानि। २ अवदान-कथा अवदानं नाम लोक-विश्रुत महनीयकृत्यम् । अवदानानां कथा-अवदान कथा। भगवतो बुद्धस्य पुरातन-वर्तमान-जीवन-सम्बद्धाः कथाः बौद्धसाहित्ये अवदान कथेति नाम्ना प्रसिद्धिं भजन्ते। एताभिः कथाभिः कर्म-फल-भोगस्य अनिवार्यत्वम्, नैतिक-नियम-पालनस्य १. गीता ७/१६ ७२ गध-खण्ड आवश्यकत्वम्, सांसारिक-वैभवानां नश्वरत्वम्, बुद्धभक्तेः श्रेष्ठत्वम्, पञ्चशील-परिपालनम्, सुचरिताचरणम्, शुभ-कर्मणः संसेव्यत्वम्, अशुभकर्मणोहेयत्वम्-इत्यादीनि अवदान कथोपदेश-सारतत्त्वानि सन्ति। __ अवदानकथासु ‘अवदानशतकम्’ प्राचीनतमम्। अत्रोपदेशस्य प्राधान्यात् कथाशिल्प सौष्ठवमप्रधानं वर्तते। पालि-प्राकृत भाषा-प्राधान्यात् संस्कृतशब्दा यत्रतत्र विकृतिमाश्रयन्ति। ‘दिव्यावदानम्’ द्वितीयस्थाने वर्तते। किन्तु कथाकाव्य-सौन्दर्यदृष्ट्या अधिक महत्त्व मादधाति। अत्र अष्टाविंशति प्रकरणेषु दानस्य महत्त्वम्, अशोकोपगुप्तयोः जीवनचरितम्, कुणालस्य नेत्रोत्पाटनम्, चाण्डालकन्याया आनन्दे आसक्तिः, ब्राह्मण-पुष्कर सारिणः मातङ्गराज शार्दूलकर्णद्वारा शास्त्रार्थे पराजयः एवंविधा विविधा आकर्षक-कथा राजन्ते। पुष्यमित्रसहितानां गुप्तवंशीयराजानां नामोल्लेरवात्, दीनार शब्द प्रयोगाच्च दिव्यावदाने संकलितानामवदानानां रचना ख्रिष्टपूर्वद्वितीयशतकादारभ्य खिष्टीय चतुर्थशतकपर्यन्त- कालान्तराले सम्पन्नाभूदिति मन्यन्ते मनीषिणः । ऊस्ते २६५ इति वर्ष शार्दूलकर्णावदानस्य चीनीभाषायामनुवादेन एतदवदानस्य विदेशेष्वपि समादरोऽभवदिति निश्चीयते। ई.पी. कौवेलेन आर.ए. नीलेन च सम्पादितम् दिव्यावदानम् कैम्ब्रिज विश्वविद्यालयेन प्रथमतः प्रकाशितमभूत्। ततः डॉ. पी.एल. वैद्येन सम्पादितस्य दिव्यावदानस्य दरभंगास्थ मिथिलाशोध-संस्थोनन १६५८ इति क्रैस्तवर्षे द्वितीय संस्करणं प्रकाशितम्। दिव्यावदानस्य भाषा-शैली-विषय-सौष्ठव-निदर्शकाः कियन्तो मनोहराः प्रसङ्गा मूलभागे समुद्धृताः सन्ति। ते तत्र द्रष्टव्याः। (६) जैन साहित्ये कथावैभवम् जैनाचार्या जैनवाङ्मये निवृत्ति परक धार्मिकोपदेशान् समाजे प्रचारयितुं प्रसारयितुञ्च कथा-शैलीमवलम्ब्य प्राकृत भाषायां विविधाः कथाः-विरचयाञ्चक्रुः। संस्कृत-कथा साहित्येन सह एतत्कथा-साहित्यस्यापि प्रभावः समाजे समभवत्। उमयोरादान-प्रदाने उभयत्राभूतामिति विजानते एव विज्ञाः अवलोकयन्ति च संस्कृत काव्य-शास्त्रीय-ग्रन्थेषु। __अर्द्धमागधभाषायां निबद्धे आगमग्रन्थे जैनकथा-साहित्य-बीजानि उपलब्धानि भवन्ति। कालक्रमेण एतेषां विकासः नियुक्ति-भाष्य-चूर्णि-टीकाग्रन्थेषु समजायत। दशवैकालिकसूत्रे प्रस्तुत-वर्गीकरणानुसारम् जैनकथानां त्रिधा विभाजनं क्रियते-१. अकथा, २. सत्कथा, ३. विकथा। यत्र मिथ्यात्व-भावनाया उद्दीपनपूर्ण-वर्णनात् मोहात्मिका मिथ्यादृष्टिर्जायते सा कथा ‘अकथा’। यत्र ज्ञान-साधनीभूतानां तपः संयम-दान-शीलादि-सद्गुणानां प्रशस्ति-वर्णनात् सज्ञानं समुत्पद्यते सा कथा ‘सत्कथा’। सम्पादकीयम्-कथा-साहित्यम् ७३ यत्र च कथायां प्रमाद-कषाय-रागद्वेषादि-लोक-विकृति-कारकाणां विषयाणां वर्णनात्-मनोविकारः प्रजायते सा कथा ‘विकथा’ इत्युच्यते। एवंहि सत्कथाया उपादेयत्वं तदितरयोर्हेयत्वं निश्चीयते। आगम-प्रतिपादिताः कथा अतिसंक्षिप्ता अपि मनोरमैरुपमादृष्टान्तादि-प्रदर्शनैः, लौकिकोपलब्धि-व्यर्थता-प्रतिपादनपुरस्सरम् वैराग्य-प्रशस्ति-वर्णनैरति महत्त्वपूर्णाः सन्ति। एतत् कथासु सार्थवाहधन्य-तत्पुत्रवधूकथा, जिनपालित-जिनरक्षित-कथा, सरोवरस्थमण्डूक समुद्रस्थ-मण्डूककथा, वीतराग-भिक्षु-द्वारा श्वेत कमलाहरणकथादयः जैन कथा- साहित्यस्य प्राचीन विभूतयः सन्ति, यासु. शील-संयम-विवेक-शिक्षा निहिताः सन्ति। एतत् सन्दर्भ भगवतीसूत्र-विपाकसूत्र-व्यवहार-भाष्य-बृहत्कल्प भाष्य-सूत्र कृताङ्गोत्तराध्ययन सूत्राचाराङ्गसूत्रादिग्रन्था महिमशालितया समुल्लेख्यतामर्हन्ति। आगमेतरकथा-साहित्यम् वस्तु-विन्यासेन अभिव्यञ्जनसामर्थेन च मनोहरं वैविध्यपूर्णञ्च वरीवर्ति। अत्र प्रेयः श्रेयसोर्विलक्षण-समन्ययः, भव्य-भावः, वाग्विन्यास-प्रसादः, कमनीय-कल्पना-वैभवम्, संघटना-सौन्दर्यम्, हृदय-संवाद-भाजनत्वम् इत्यादि रूपाणाम् काव्योचितगुणानां समुपलब्ध्या कथासौन्दर्य समुज्जृम्भते। एतच्च कथा-चारुत्वम् १. तरङ्गवती, २. वसुदेवहिण्डी, ३. समराइच्चकहा (समरादित्यकथा), ४. धुत्ताक्खान (धूर्ताख्यानम्), ५. कुवलयमाला-कथा, ६. कुमारपाल-प्रतिबोधः,ला ७. श्रीश्रीपालकथा इत्यादि जैनकथासंग्रहेषु __ जैनधर्म-सिद्धान्त-जीवनपद्धत्यादि विविध-विषय-प्रतिपादिकाः शतशोमनोहराःकथा विलसन्ति, याः संस्कृत-कथानामपि अध्ययने, विवेचने च सहायिकाः सन्ति। जैनाचार्यैः संस्कृत भाषा-निबद्धा अपि अनेके कथा-ग्रन्थाः सन्ति, येषु निर्वाणलीलावतीकथा-कथा-कोष प्रकरण-बृहत्कथा-कोष- कथा रत्नाकर-प्रभृतीनाम् अष्टादशानां नामानि रचयितृ-नाम सहितानि मूलभागे समुल्लिखितानि सन्ति, यानि जिज्ञासुभि स्तत्रैवावलोकनीयानि। __ पूर्वनिर्दिष्ट-कथाग्रन्थेभ्योऽतिरिक्तम् मेरुतुङ्गाचार्य-विरचितम् प्रबन्धचिन्तामणि प्रबन्धकोषेतिनामकं कथा-संकलनद्वयम् अतिमहत्त्वपूर्ण वर्तते। अत्र विक्रमादित्य-मूलराज मुजदेव-भोज-सिद्धराज जयसिंह-कुमारपाल-वीर धवल-वरत्तुपाल-तेजःपाल-लक्ष्मणसेन जयचन्द्र-प्रभृतीनामैतिहासिकपुरुषाणाम् प्रख्यात-चरितानि गुम्फितानि सन्ति। ७४ गद्य-खण्ड इतो भिन्नेषु कथाग्रन्थेषु सिद्धर्षिनामकेन जैन कविना विरचिता अष्टसु प्रस्तावेषु विभक्ता उपमितिभवप्रपञ्चकथा महत्त्वपूर्णा वरीवर्ति, यत्र सम्यग्दर्शन-सम्यग्ज्ञान-सम्यक् चरित्ररूपाणि जैनधर्म-त्रिरत्नानि सम्यगाख्यातानि सन्ति।

  • जयशेखरसूरिप्रणीत प्रबन्धचिन्तामणिरपि कथाजगति ख्याति प्रसारयति, यत्र रूपकात्मकशैल्यां परमात्मतत्त्व-साक्षात्कारोपायाः सम्यग् वर्णिताः सन्ति। एवंहि कथा-साहित्य-श्रीवृद्धौ जैनाचार्याणाम् महत्त्वपूर्ण योगदानं चिरस्मरणीयतामादधाति। (७) नीत्युपदेशकथा-साहित्यम् नीत्युपदेश-कथा-ग्रन्थेषु खग-मृग-पात्रप्रधानम् पञ्चतन्त्रं विश्व-विश्रुतं वर्तते । एत्तकथा-विकास-बीजं, यथा प्रकृत-प्रकरण-प्रारम्भे निर्दिष्टम्, वैदिक वाङ्मये एव आरोपितमभूत्, यत् क्रमशो- रामायण-महाभारत-पुराणादिषु अङ्कुरितं, प्रस्फुरितं, प्रवर्द्धितं, पल्लवितञ्च सत् पञ्चतन्त्रे पूर्णतो विकसितमभूत् । पञ्चतन्त्रस्य रचयिता नीतिशास्त्रविशारदः कर्मकाण्डनिष्णातो विष्णुशर्मा महानाचार्योऽप्यासीत्, योहि अध्ययनात् पराङ्मुखान् राजकुमारान् षण्मासाभ्यन्तरे एव स्वाध्यापनकौशलेन नीतिशास्त्रनिपुणानकरोत्। मित्रभेद-मित्रसम्प्राप्ति-काकोलूकीय-लब्धप्रणाशा-परीक्षित-नामकैः पञ्चभिस्तन्त्रैः परिच्छिन्नस्य पञ्चतन्त्रस्य प्रथमतन्त्रे मित्रभेदे पिङ्गलक-सञ्जीवक-दमनककथादयः द्वाविंशतिः कथाः सन्ति। मित्रसम्प्राप्तिरूपे द्वितीये तन्त्रे कपोतराज-चित्रग्रीव-मूषिकराज-हिरणयक लघुपतन नामक काक-चित्राङ्गाभिध-हरिण-मन्थरकनाम कच्छप-कथाप्रधानाः सप्त कथा विलसन्ति । तृतीयतन्त्रे काकोलूकीये काकोलूकीयकलहकथाप्रमुखा एकोनविंशतिः कथा विद्यन्ते। लब्धप्रणाशनामके चतुर्थतन्त्रे रक्तमुखनामक वानर-करालमुख नामक-मकर- कथाप्रधाना द्वादश कथा वर्तन्ते। अन्तिमे अपरीक्षितकारके मणिभद्रनामक-श्रेष्ठिनः तथा एकनापितस्य कथया सह अन्यास्त्रयोदश कथा विलसन्ति। एतासु कथासु व्यावहारिकजीवनोपयोगिनीनां नीतीनां पुमर्थोपयोगिनां विषयाणाञ्च विशिष्टं महिमशालि निरूपणं वरीवर्ति। पञ्चतन्त्रस्य अतीव लोकप्रियतया, देश-विदेशेषु प्रचारेण, प्रसारण, विभिन्न भाषासु विभिन्नानुवादेन च एतस्य विभिन्न-वाचनानि संजातानि येषु कानिचिद् विनष्टानि अभूवन् । यानि च उपलब्धानि सन्ति तेषां मूलरूपम् तृतीयशतककालीन-गुणाढ्य-कृत-बृहत्कथायां सुरक्षितमासीत्। पैशाची-भाषा-निवद्धा बृहत्कथा विन्ध्याटवी-परिसरे भ्रमन्ती विलुप्ताभवत् । अस्या अद्भुतार्थ-बृहत्कथायाः कथानां संस्कृत रूपान्तरण-स्वरूपा क्षेमेन्द्रस्य बृहत्कथामञ्जरी विराजते, यस्या आरम्भ-श्लोक-द्वयेन एतद्रहस्यं समुद्घाटितं भवति सहकार भारत सेयं हरमुखोद्गीर्णा कथाऽनुग्रहकारिणा। सा जमानाकामा पिशाचवाचिपतिता संजाता विघ्नदायिनी॥ साई ना अतः सुख-निषेव्यासौ कृता संस्कृतया गिरा। विर व्यापारिया समां भुवमिवानीता गङ्गा श्वभ्रावलम्बिनी।। ७५ सम्पादकीयम्-कथा-साहित्यम् बृहत्कथास्थितं मूलरूपमाधारीकृत्य पञ्चतन्त्रस्य विभिन्नानि वाचनानि अद्योपलभ्यन्ते। पञ्चतन्त्रस्य विशिष्टानुसन्धाता जर्मन विद्वान डॉ. एजर्टन् महोदयः डॉ. हर्टेल महोदय सहयोगेन महता परिश्रमेण एतत् सामग्री संगृह्य अस्य निम्नलिखितानि अष्ट वाचनानि निरदिशत्। १. तन्त्राख्यायिका-कश्मीरोपलब्ध-पञ्चतन्त्र-वाचनमाधारीकृत्य जैनपण्डितेन पूर्णभद्रसूरिणा पञ्चतन्त्रस्य संशोधितरूपम्’ तन्त्राख्यायिकेतिनाम्ना प्रकाशे आनीतम्। इयमेव कृतिः पञ्चतन्त्रस्य सर्वाधिक मौलिक रूपं प्रकाशयति। __२. दक्षिण भारतीय पञ्चतन्त्रम्-तमिलभाषानिबद्धेऽस्मिन्पञ्चतन्त्रे डॉ. एजर्टन महोदयानुसारम् मूलपञ्चतन्त्रस्य गद्यस्य भागत्रयम् पद्यस्य च भागद्वयं सुरक्षितं वर्तते। ३. नेपालीयपञ्चतन्त्रम्-अस्मिन् पञ्चतन्त्रे केनापि सम्पादकेन पद्यभागः मूलग्रन्थात् पृथक् कृतः। गद्यभागश्च् नष्टप्रायः। पद्यभागे दक्षिण भारतीय-पञ्चतन्त्रेण साम्यं वर्तते। ४. पञ्चतन्त्रस्य हितोपदेशात्मक-संस्करणम्-मित्रलाभ-सुहृद्भेद-विग्रह-सन्धिरूपात्मकेषु चतुष्वेव भागेषु सरलसंस्कृतगिरा नारायणपण्डितेन संग्रथितः पञ्चतन्त्रस्य संक्षिप्तरूपः हितोपदेशः कथासाहित्ये अतीव लोकप्रियतामादधाति। ५. बृहत्कथामञ्जरीसमाविष्टं पञ्चतन्त्रम्-क्षेमेन्द्र-प्रणीतायां बृहत्कथामञ्जयाँ शक्तियशोनामकलम्बके पञ्चतन्त्रस्य संक्षिप्तरूपमुपलभ्यते। पञ्चतन्त्रस्य संक्षिप्तेऽस्मिन् क्षेमेन्द्रेण संग्रथिते स्वरूपे मूलपञ्चतन्त्रे अनुपलब्धाः तन्त्राख्यायिकायां समुपलब्धाः पञ्च कथाः प्राप्यन्ते एतेन मनीषिणोऽनुमिन्वन्ति यत् क्षेमेन्द्रस्य पञ्चतन्त्रकथास्रोतः तन्त्रााख्यायिका-रव्यानं वरीवर्ति। ६. कथासरित्सागरान्तर्गत-विन्यस्तं पञ्चतन्त्रम्-सोमदेव-विरचिते कथासरित्सागरे शक्तियशसः कथा-सम्बद्ध-लम्बके पञ्चतन्त्रस्य संक्षिप्तं पद्यात्मकं कथानकं समुपलभ्यते। ७. पश्चिम भारतीय पञ्चतन्त्रम्-निर्णयसागरमुद्रणालयात् मुम्बई संस्कृत-सीरीज प्रकाशनाच्च प्रकाशितपञ्चतन्त्रे मूलपञ्चतन्त्रस्य स्वरूपं सुरक्षितं वर्तते इत्यामनन्ति मनीषिणः। ८. पञ्चाख्यानरूपं पञ्चतन्त्रम्-पूर्णभद्रनामकेन जैनमुनिना खिष्टीय द्वादशे शतके पञ्चाख्याननाम्ना पञ्चतन्त्रस्य संस्करणं कृतम् यच्च सरलपञ्चतन्त्रमित्यपि अभिधानं भजते। एतदेवाधारीकृत्य सप्तदशशतकोत्तरार्धे मेघविजयनामकेन जैनलेखकेन रचितः ‘पञ्चाख्यानोद्धारनामकः नीतिकथामूलको ग्रन्थः उपलभ्यते। १. प्रत्यक्षरं प्रतिपदं प्रतिवाक्यं प्रतिकथं प्रतिश्लोकम्। नाही कि काम श्रीपूर्णभद्रसूरि विशोधयामास शास्त्रमिदम्।। तन्त्राख्या २. डॉ. हर्टेल महोदयेन सम्पादितम् हारवर्ड ओरियन्टल सीरीज इत्यत्र (सं. १३) प्रकाशितम् ७६ गद्य-खण्ड ६. डॉ. एजर्टनमहोदयेन सम्पादितम् पञ्चतन्त्रम् पञ्चतन्त्रकथानां विशिष्टानुसन्धाता डॉ. एजर्टन महोदयः विभिन्नानि वाचनानि आलोच्य उपलब्धतथ्याधारेण पञ्चतन्त्रस्य पुनर्निर्मित संस्करणं व्यधात्। इदं च संस्करणम् पूर्णपरिष्कृतं सत् अतीव महत्त्वपूर्ण वर्तते इति मन्यन्ते मनीषिणः। __पञ्चतन्त्रस्य विश्वपरिभ्रमणम्-पञ्चतन्त्रस्य विश्वभ्रमण-वृत्तान्तः अतीवरोचकतामादधानः जिज्ञासु-जन-मानसे कौतूहलं जनयति। एतत् प्रसङ्गे पाश्चात्त्य-विदुषा डॉ. बेनफीमहोदयेन डॉ. हर्टेलमहोदयेन च कृतमनुसन्धानमतीवमहत्त्वपूर्ण वर्तते। एतस्मिन्नेव सन्दर्भ डॉ. एजर्टन महाशयेन कृतम् पञ्चतन्त्रस्य देशान्तर-यात्रावर्णनं किमप्यपूर्व वैशिष्ट्यं प्रदर्शयति। इदमेव विवरणमाघृत्य डॉ. काशीनाथमिश्रेण एतस्य मूलभागे विस्तरेण पञ्चतन्त्रस्य अनुवादद्वारा देशाद्-देशान्तरे गमनं निर्दिष्टम् तत् तत्रैव द्रष्टव्यम्। एतद्विवरणेन विज्ञायते यत् पञ्चतन्त्रस्य पञ्चाशतोऽप्यधिकासु भाषासु अनुवादाः अभूवन् तथा शतद्वयादप्यधिकानि संस्करणानि इदानीं यावत् समभवन्। एतेन विश्वस्मिन् समस्तनीतिकथामूलकसाहित्यस्य उद्गमस्थानम् पञ्चतन्त्रमेवेति निश्चीयते। पञ्चतन्त्रस्य भाषा-शैली-सौष्ठवम्, कथाशिल्प-सौन्दर्यम्, सदूक्तिरत्नम् इत्यादीनि स र्वाणि विस्तरेण मूलभागे प्रतिपादितानि निर्दिष्टनि च सन्ति। __ हितोपदेशः भाषासारल्येन, नीत्युपदेश-सौष्ठवेन, सुकुमार-मति-हृद्यत्वेन, लोकप्रियत्वेन, सूक्तिवैभवेन च सर्वान् नीतिकथा-ग्रन्थानतिशेते। एतच्च सम्यक्तया सविवरणं सोद्धरणं प्रतिपादनं मूलभागे द्रष्टव्यम्। . पुरुष-परीक्षा-उपदेशात्मक-नीतिकथा-शृङ्खलायाम् मैथिलकविकोकिलेन अभिनवजयदेवेन महाकविना विद्यापतिना विरचिता ‘पुरुषपरीक्षा” अन्वर्थनामिका नीतिकथाकृतिवर्तते। अत्र मानवेतर-खगमृगादि-पात्रस्थाने कलियुगीय-प्राचीन-नवीनपुरुषाः पात्रत्वं निर्वहन्ति। चतुर्दशतक-मध्यभागे महाराजशिवसिंह निदेशमासाद्य कथात्नमिदम् विद्यापतिळरीरचत्। शिशूनां सिद्धयर्थ नय-परिचितेर्नूतनधियां मुदे पौरस्त्रीणां मनसिजकला-कौतुकजुषाम्। निदेशान्निश्शङ्क सपदि शिवसिंहस्य नृपतेः । कथानां प्रस्तावं विरचयति विद्यापति-कविः।।२ १. प्रो. रमानाथ झा-सम्पादिता पटना विश्वविद्यालयात् प्रकाशिता अन्यान्यपि अनेकानि एतदीय संस्करणानि सन्ति। १६६० २. प्रारम्भे श्लोक ३ 1919 सम्पादकीयम्-कथा-साहित्यम् इति सूचयति तत्रत्यं पद्यमिदम्। वीरः सुधीः सविद्यश्च पुरुषः पुरुषार्थवान्। तदन्ये पुरुषाकाराः पशवः पुच्छवर्जिताः।।’ चतुर्पु परिच्छेदेषु विभक्तायाः पुरुष-परीक्षायाः प्रथमे परिच्छेदे-दानवीर-दयावीर-युद्धवीर सत्यवीर-चौर-भीरु-कृपणालसेति संज्ञा अष्टौ कथाः सन्ति। द्वितीयपरिच्छेदे सप्रतिभ मेधावि-सुबुद्धि-वञ्चक-पिशुन-जन्म-बर्बर-संसर्ग-बर्बर-नामिकाः सप्तकथा विद्यन्ते। तृतीये शस्त्रविद्य-शास्त्र-विद्य-वेदविद्य-लोकविद्योभयविद्य-चित्रविद्य-गीतविद्य-नृत्यविद्येन्द्रजाल विद्य-पूजितविद्यावसन्नविद्याविद्य-खण्डितविद्य-हासविद्यरूपाः चतुर्दश कथाः विलसन्ति। चतुर्थे च परिच्छेदे धर्मकथासु तिस्रः तात्त्विक-तामसानुशयि कथाः, अर्थकथासु चतस्रः-महेच्छ मूढ-बह्वाश-सावधान कथाः, कामकथासु पञ्च-अनुकूल दक्षिण-विदग्ध-धूर्त-घस्मर-कथाः, मोक्षकथासु तिस्रः निर्बन्धि-निःस्पृह-लब्धसिद्धिकथाश्च विद्यन्ते। एवंहि साकल्येन चतुश्चत्वारिंशत्कथाः दण्डनीति-राजधर्म-पुरुषार्थचतुष्टय सम्बद्धान् विषयान् प्रतिपादयन्त्यः संस्कृत-कथा-काव्य-परम्परायां कामप्यपूर्वां विच्छित्तिं समुन्मीलयन्ति। एतन्निदर्शनीभूतानि उद्धरणानि सदुक्तिवाक्यामृतानि च मूलभागे विराजन्ते तानि तत्रास्वाद्यानि। रञ्जक-कथा बृहत्कथा-महाराज हालस्य सभापतिना अन्वर्थनामकेन गुणाढ्येन पैशाच भाषायां विरचिता अद्भुतार्था बृहत्कथा मूलरूपतोऽनुपलब्धापि संस्कृत-रूपान्तरेण समुपलब्धा विस्मयावहमपूर्वं चमत्कारं जनयन्ती विश्वमानवमनोरञ्जनं विदघाति। अतएव कविताकामिनी पञ्चबाणो बाणो निगदति समुद्दीपितकन्दर्पा कृतगौरीप्रसाधना। - हरलीलेव नो कस्य विस्मयाय बृहत्कथा।। हरली पैशाच-भाषा-निबद्धं बृहत्कथा-कलेवरमद्य क्वापि दौर्भाग्याद् दृश्यमानं नास्ति। अधुना बृहत्कथायाः संस्कृतानुवादेषु १. अष्टम-नवमशतककालिकेन नेपालवासिना बुध-स्वामिना कृतः ‘बृहत्कथाश्लोक-संगहः’ प्राचीनतमः। २. कश्मीरराजस्य अनन्तस्य आश्रितेन एकादश शतक-कालीनेन पण्डितवरेण क्षेमेन्द्रेण कृता ७५०० मित-श्लोकात्मिका ‘बृहत्कथामञ्जरी’ द्वितीयस्थानं भजते। ३. तत्समकालिकेन सोमदेवेन विरचितः चतुर्विंशति-सहस्रात्मकः ‘कथासरित्सागरः’ प्रसिद्धतमः। एतेषु संस्कृतानुवादेषु मूलकथानां कियानंशः सुरक्षितो वर्तते इति निर्णेतुं १. तत्रैव प्रथम-परिच्छेदे।गद्य-खण्ड न कोपि प्रभवति। एतानेवानुवादानाधारीकृत्य ‘बहत्कथाया’ विस्मयावहं महत्त्वमधुना विजानाना विज्ञाः तत्प्राशस्त्यं समुद्गिरन्ति। अष्टादश-लम्बकावलाम्बिताया बृहत्कथा-मञ्जर्या विषय-वस्तु-सौन्दर्य-प्रदर्शन पुरस्सरं-कवि-कर्म-कौशलस्य विशदं सोदाहरणं विवरणम् एतन्मूलभागेऽवलोकनीयम्। एवमेव अष्टादशसु लम्बकेषु विभक्तस्य अन्वर्थनामकस्य ‘कथासरित्सागरस्य’ समपेक्षितविवरणं विस्तरेण यन्मूलभागे प्रदत्तमस्ति तज् जिज्ञासूनां ज्ञानपिपासाशान्तये सर्वथा पर्याप्तं वर्तते। न किमपि ततोऽधिकमत्र समपेक्षते। अस्य सकल-श्लोक-संख्या-भेदः प्रायेण संस्करण-भेदमूलक इति मन्ये। वेतालपञ्चविंशतिका-अतीव रोचकानां कुतूहलपूर्णानां ज्ञान-विवर्धकानां पञ्चविंशतेः कथानां संग्रहात्मिका वेताल-पञ्चविंशतिका गद्य-पद्यमयी कथा कृति-र्विद्यते। अत्र शव शरीराधिष्ठित एको वेतालः राजानं त्रिविक्रमसेनं, पश्चाद् विक्रमादित्येति नाग्नाख्यातमुपगम्य एकैकं गूढं प्रश्नं पृच्छति, तत्प्रश्नस्य समुचितमुत्तरंश्रुत्वा पुनस्तत्रैवाश्रयेऽवलम्बते। एवंहि प्रश्नोत्तर-सम्बद्धाः पञ्चविंशतिः कथा अत्र विलसन्ति। बृहत्कथामञ्जरी-कथासरित्सागरयोरेताः सर्वाः कथाः समुपलब्धाः सन्ति, अत आसाम् कथानां मूलरूपाणि गुणाढ्य-कृतायां बृहत्कथायामासन्निति बहवो विद्वांस आमनन्ति। बुध-स्वामि-कृते बृहत्कथासंग्रहे वेतालकथानामनुपलब्ध्या केचन मनीषिणः एतासां बृहत्कथामूलकत्वे संशेरते। एतद्वेतालकथाग्रन्थस्य अनेक संस्करणेषु शिवदासकृत संस्करणे गद्य-पद्ययोः सम्मिश्रणेन डॉ. हर्टेलमहोदयानुसारम् चतुर्दशशतकात् पूर्वमेव शिवदासेन कथाग्रन्थोऽयं प्रणीतः। __ जम्भलदत्तेन लिखिता वेतालपञ्चविंशतिका गद्यमयी विद्यते। इदानीं प्रचलिता वेतालकथा विशेषतः वल्लभदास-रचितमेत्कथाग्रन्थमनुसरति। एतद्रूपान्तरं मङ्गोल भाषायामपि समुपलभ्यते। आधुनिक भारतीय भाषासु एतदीयानुवादाः एतत्कथानां लोकप्रियतां प्रकाशयन्ति। __ प्रसङ्गनिर्देशपूर्वकम् वेतालकथानां विशदं रोचकं विवरणं मूलभागे प्रदत्तं विद्यते। जिज्ञासुभिस्तदवलोकनीयम्। शुकसप्ततिः-शृङ्गार-प्रधानानां मनोहराणां सप्ततेः कथानां संग्रहात्मकोऽयं शुकसप्तति-कथाग्रन्थः वाचनद्वये समुपलम्यते। संक्षिप्तापरिष्कृतप्रथम वाचनापक्षेया अस्य १. जर्मनविदुषा हाइनरिशऊले महोदयेन सम्पादितः प्रकाशितश्च लाइप जिंग, १८८४ २. डॉ. एमेनाड महोदयेन आङ्गलभाषानुवादसहितं रोमनाक्षरे लिखितम्, अमेरिकन ओरियण्टल सोसाइटी द्वारा प्रकाशितम्-१६३४ ३. डॉ. स्मिथ महोदयेन जर्मनभाषानुवादसहितम् लाइपजिंगनगरात् १८६३ वर्षे प्रकाशितम्। ७६ सम्पादकीयम्-कथा-साहित्यम् द्वितीयं वाचनं’ विशदं परिष्कृतं वर्तते। डॉ. स्मिथ महोदयेन जर्मन रूपान्तरेण सह उभयोः प्रकाशनं कृतम्। प्रवत्स्यत्पतिकां विरहविधुरां कामार्तामेकां युवतिम् अभिसर्तुकामामालोक्य ताम् तदाचरणान्निवर्तयितुमना एकः पालितशुकः सप्ततिं कथाः क्रमशः श्रावयित्वा ताम् असदाचारान्निवारयति इति विषयमाधृत्य एताः कथा अत्र मनोरञ्जनार्थं गुम्फिताः सन्ति। कथानां सप्रसङ्गं विशदवर्णनं मूलभागेऽवलोकनीयम्। सिंहासनद्वात्रिंशिका-महाराज विक्रमादित्यस्य परमोज्ज्वलं यशस्करम् अत्यद्भुतम् परमोत्कर्षावहं सुचरितमाधृत्य वर्णिता मनोहरा द्वात्रिवंशत् कथा अत्र संग्रहे विलसन्ति। प्रायेण सर्वासु समृद्ध भारतीय भाषासु एतत्कथासंग्रहस्य अनुवादा उपलभ्यन्ते, येनास्य लोकप्रियता प्रकाशिता भवति। विक्रमादित्यस्य दिव्यसिंहासनमिदं भूगर्भस्थितं यदा धाराधीशेन भोजराजेन एकादशशतके प्राप्तम् तदा महता संरम्भेण तदारोढुकामं भोजराजं प्रथमसोपानस्थिता पुत्तलिका विक्रमादित्य-जन्म-कृत्यादिप्रतापं श्रावयित्वा तं तथाकर्तुं न्यवारयत्। एवं क्रमेण अपरा अपि एकविंशतिः पुत्तलिका क्रमशः विक्रमादित्यस्य परमोज्जवलकृत्यानि श्रावयामासुः। एवंहि विक्रम-पराक्रम-वर्णनं कथा-ग्रन्थस्यास्य प्रयोजनम्, यच्च मनोरञ्जक-कथाव्याजेन सम्यक् कथाकारेण सम्पादितम्। भारतीय-मनोरञ्जक-कथा-परम्परा, या प्राचीन-कालादेवात्र प्रवहमाना परिदृश्यते तस्यां भारतीय कथा-वैभवस्य महत्त्वम्, सार्वभौमिकत्वम्, लोकप्रियत्वं तत्रनिहित कवि-कर्म-कुशलत्वञ्च विश्वजनमनांसि यथा पूर्वं रञ्जयन्तिस्म, तथाद्यापि रञ्जयन्ति, सचेतसां चेतांसि च चमत्कुर्वन्ति इत्येतत् प्रकरणारम्भे निदिष्टैराधुनिककथा-संग्रहैर्विज्ञायते इति शम्। १. तत्रैव १८६६ वर्षे प्रकाशितम्। चतुर्थोऽध्यायः