०१ गद्यसाहित्यम्

लोकोत्तर-वर्णना-निपुण-कवि-कर्म-काव्यम् दृश्य’ श्रव्यत्व-भेदेन द्विविधम् प्रकारान्तरेण गद्य-पद्य-मिश्र-भेदेन त्रिविधम् । तत्र गद्यम् गद्यते सुव्यक्तं प्रतिपाद्यते यदिति व्युत्पत्त्या अनुपसर्गात् ‘गद व्यक्तायांवाचि’ इतिधातोः कर्मणि यत् प्रत्यये निष्पन्नं रचना-विशेषरूपमर्थम भिधत्ते । एतदेव गद्यम् आचार्यदण्डिमते ‘अपादः पद सन्तानो गद्यम्’ इति पाद रहित-पदसमूह रूपम्, आचार्य विश्वनाथोऽनुसारञ्च वृत्तबन्धोज्झितरूपम्’ भवति। आचार्य वामनः वृत्तगन्धि, चूर्णम्, उत्कलिकाप्रायञ्चेति त्रिविधं गद्यं स्वीकुर्वाणः गद्ये वृत्तस्य गन्धे सत्यपि गद्यत्वं मनुते। विश्वनाथोऽपि तथा स्वीकुरुते । (१) तत्र ‘पद्य-भागवद्वृत्तगन्धि’ इति लक्षणेन छन्दोगन्धसमन्वितं गद्यं ‘वृत्तगन्धि’ भवति। यथा पातालतालुतलवासिषु दानवेषु इति गद्यांशे वसन्ततिलकावृत्तस्य भागः प्रत्यभिज्ञायते। (२) अनाविद्ध-ललितपदं गद्यं चूर्णं भवति। अर्थात् यस्मिन् गद्ये अदीर्घसमासानि ललितानि पदानि भवन्ति तद् गद्यं चूर्णम् । यथा-‘अभ्यासो हि कर्मणां कौशलमावहति इत्यादि। (३) उत्कलिकाप्रायं गद्यं तद् यस्मिन् दीर्घसमासानि उद्धतानि पदानि भवन्ति। (४) चतुर्थं प्रभेदम् ‘मुक्तक’रूपमपि मन्यते। तदनुसारं समास-रहितं गद्यं मुक्तकम्। यथा ‘गुरुर्वचसि पृथु रुरसि’ इत्यादि। एतस्यैव गद्यस्य आर्चायेदण्डिमते कथा आख्यायिका चेति प्रमुखं भेदद्वयं भवति, यदस्मिन् अध्याये साङ्गोपाङ्गं प्रतिपाद्यते। १. दृश्यं तत्राभिनेयम्-तद्पारोपात्तुरूपकम्। साहित्यदर्पणे ६।। २. श्रव्यं तत् काव्यमाहुः यन्नेक्ष्यते नाभिनीयते। श्रोत्रयोरेव सुखदं भवेत् तदपि षड्विधम् ।। सरस्वतीकण्ठाभरणे २।१४०। ३. दृश्य-श्रव्यत्व-भेदेन पुनः काव्यं द्विधा मतम्। सा.द. ६१॥ ४. गद्यं पद्यं च मिश्रं च तत् त्रिधैव व्यवस्थितम्। काव्यादर्श १।११। गद्यं पद्यं च मिश्रं च काव्यं तत् त्रिविधं स्मृतम्। अग्निपुराणे ३३७।८ । गद्यं पद्यं च मिश्रं च काव्यं यत् सा गतिः स्मृता। सर. कण्ठा. २१८ । ५. गद मद चर यमश्चानुपसर्गे (पा. मू. ३।।१००) इति यत्। ६. काव्यादर्श १।२३।। ७. वृत्तबन्धोज्झितं गद्यं मुक्तकं वृत्तगन्धि च। भवेदुत्कलिकप्रायं चूर्णकञ्च चतुर्विधम्।। सा.द. ८. आद्यं समास-रहितं वृत्तभागयुतं परम्। अन्यद् दीर्घ-समासाढ्यं तुर्य चाल्पसमासकम् ।। तत्रैव ६३१०।३८ गद्य-खण्ड हिना

कथाख्यायिका-साहित्यम्

स्फुरत् कलालाप-विलास-कोमला करोति रागं हृदि कौतुकाधिकम्। रसेन शय्यां स्वयमभ्युपागता कथा जनस्याभिनवा वधूरिव’ ।। वाक्यप्रबन्धरूपेयं रमणीया रसमन्दाकिनी कथा प्राचीन कालादेव सहृदय- हृदय रसायनता-मादधाना निरन्तरं प्रवहन्ती काव्य-जगति विभिन्नानि रूपाणि समाश्रयन्ती सचेतसां चित्तेषु कमप्यपूर्वं चमत्कारमादधाति। वैदिक-वाङ्मय-निहित-बीजात् प्ररोहन्ती आख्यानोपाख्यानादि-विभिन्नानि रूपाणि धारयन्ती अनेकान् प्रभेदान् प्रदर्शयन्ती क्रमशो विकसन्ती कथा कथा-साहित्यप्रसङ्गे विस्तरेण प्रतिपादिता। तस्याः कथासरितः प्रवाहश्च प्रदर्शितः । वाक्यप्रबन्धरूपायाः कथाया अपरं यत् कथाख्यायिकात्मकं स्वरूपम् विलक्षणो यश्च प्रवाहः तत्प्रतिपादनं प्रकृते अभीष्टं वर्तते। .. तत्र कोशानुसारं कथा-प्रबन्ध कल्पना तथा आख्यायिका-उपलब्धार्था। आख्यायिका शब्दस्य व्युत्पत्तिलभ्यार्थेनापि अयमर्थः समर्थ्यते। तदनुसारेण ‘वासवदत्ता’" ‘कादम्बरी’, ‘अवन्तिसुन्दरी’ प्रभृति रचना कथा तथा हर्षचरितादि रचना आख्यायिकेति आख्यायते। किन्तु कथाख्यायिकयोः स्वरूपार्थ-रचनाशैलीविषयक-पारस्परिकभेदे आलंकारिकाचार्या भिन्नमता अवलोक्यन्ते। तत्र-आचार्य भामहः एतयोः स्वरूपगर्भ भेदं मन्वानः प्रतिपादयति “संस्कतानाकुलश्रव्य-शब्दार्थ-पद-वृत्तिना। गद्येन युक्तो दत्तार्था सोच्छ्वासाख्यायिका मता।। वृत्तमाख्यायते तस्यां नायकेन स्वचेष्टितम्। वक्त्रं चापरवक्तं च काले भाव्यर्थ-शंसि च॥ कवेरभिप्रायकृतैः कथनैः कैश्चिदङ्किता। । १. कादम्बरी श्लोक संख्या-८ २. अमरकोश : १-६-६। एवमेव - प्रबन्धकल्पनां स्तोक सत्यां प्राज्ञाः कथां विदुः। यानी परम्पराश्रया या स्यात् सा मताख्यायिका क्वचित्।। इति कोलाहलाचार्यः। द्र. हलायुधकोशः। ३. आसमन्तात् ख्याति प्रकटयतीति आख्यातेः ‘ण्वुल तृचौ’ (पा.सू. ३।४।१३३) इति कर्तरि ण्वुलि, टापि आख्यायिकेति रूपम्। ३६ सम्पादकीयम्-गद्यसाहित्यम् कन्याहरण-संग्राम-विप्रलम्भोदयान्विता।। न वक्त्रापरवक्त्राभ्यां युक्ता नोच्छ्वासवत्यपि। संस्कृता संस्कृता चेष्टा कथापभ्रंशभाक् तथा।। अन्यैः स्वचरितं तस्यां नायकेन तु नोच्यते। स्वगुणाविष्कृतिं कुर्यादभिजातः कथं जनः ।।” इति अर्थात् संस्कृतभाषा-निबद्धन सरल-मधुर-शब्दार्थ-मय-गद्येन गुम्फिता रचना आख्यायिका, यस्याम् १. उच्छ्वासेन कथांशानां विभागः, २. नायकद्वारा स्वघटित-वृत्तान्त-कथनम्, ३. वक्त्रापरवक्त्राभ्यां भावि-कथा-सूचनम्, ४. कवेः साभिप्राय-कथनेन चिह्नितत्वम्, कन्याहरणसंग्रामविप्रलम्भादिवर्णनञ्च भवन्ति। कथा तु १. वक्त्रापरवक्त्राभ्यां रहिता, २. उच्छ्वासशून्या, ३. संस्कृत-प्राकृतापभ्रंशान्यतम-भाषा निबद्धा, ४. नायकेतर-जन-प्रतिपादित- चरिता च गद्यमयी रचना भवति। भामहमतमाक्षिपन् आचार्य दण्डी प्रतिपादयति - “अपादः पद-सन्तानो गद्यमाख्यायिका-कथे। इति तस्य प्रभेदौ द्वौ तयोराख्यायिका किल।। नायकेनैव वाच्यान्या नायकेनेतरेण वा। स्वगुणाविष्क्रियादोषो नात्र भूतार्थशंसिनः।। अपित्वनियमो दृष्टस्तत्राप्यन्यैरुदीरणात्। अन्यो वक्ता स्वयं वेति कीदृगु वा भेदकारणम् ।। वक्त्रं चापरवक्त्रं च सोच्छ्वासं चापि भेदकम्। चिबमाख्यायिकायाश्चेत् प्रसङ्गेन कथास्वपि।। आर्यादिवत् प्रवेशः किं न वक्त्रापरवक्त्रयोः। भेदश्चदृष्टो लम्भादिरुच्छ्वासो वास्तु किं ततः।। तत् कथाख्यायिकत्येका जातिः संज्ञा द्वयाङ्किता। अत्रैवान्तर्भविष्यन्ति शेषाश्चाख्यानजातयः ।।" इति। १. भामहालंकारः, १।२५।२६ | २. काव्यादर्शः, ११२३-२८ । ४० गद्य-खण्ड एवञ्चासौ न केवलं कथाख्यायिकयोरेव वास्तविकभेदमस्वीकरोति, अपितु कथायामेव आख्यानोपाख्यानानि सर्वाणि अन्तर्भावयति। आचार्यविश्वनाथेन एतद्विषयकं प्राचीनमतं हृदि निधाय आख्यायिकाया आदर्श-निदर्शनं ‘हर्षचरितं’ कथायाश्च ‘कादम्बरी’ रूपं मन्वानेन प्रतिपादितम् कथायां सरसं वस्तु गद्यैरेव विनिर्मितम्। क्वचिदत्रभवेदार्या क्वचिद् वक्त्रापवक्त्रके।। आदौ पद्यै नमस्कारः खलादेवृत्त-कीर्तनम् ।। यथा कादम्बर्यादिः। आख्यायिका कथावत् स्यात् कवेवंशानुकीर्तनम्। अस्यामन्यकवीनां च वृत्तं पद्यं क्वचित् क्वचित्। कथांशानां व्यवच्छेद आश्वास इति बध्यते। आर्यावक्त्रापवक्त्रानां छन्दसा येन केन चित्।। अन्यापदेशेनाश्वासमुखे भाव्यर्थ-सूचनम् ।। यथा हर्षचरितादिरिति। एवञ्च विषय-वस्तु दृष्ट्या भेदेऽपि रचनाविधान-शैली-दृष्ट्या कथाख्यायिकयो स्तिविकभेदो न तथा प्रतीयते। काव्य-प्रभेदान् प्रदर्शयता आनन्दवर्धनेन मुक्तक-कुलकादि-प्रभेदैः सह परिकथा, सकलकथा, खण्डकथा, आख्यायिका, कथारूपाः प्रभेदा अपि प्रतिपादयाञ्चक्रिरे। तत्र ‘एकं धर्मादिपुरुषार्थमुद्दिश्य प्रकार-वैचित्र्येण अनन्त-वृत्तान्त-वर्णन-प्रकारा परिकथा’, ‘एकदेश-वर्णना खण्डकथा’ ‘समस्त फलान्तेतिवृत्त-वर्णना सकलकथा’ ‘उच्छ्वासादिना वक्त्रापर वक्त्रादिना च युक्ता’ आख्याथिका ‘तद्रहिता कथा’ इति अभिनवगुप्ताचार्येण व्याख्यातम् । वाक्य-प्रबन्धरूपाया रचनाया उपर्युक्त-प्रभेदेम्यो व्यतिरिक्तः ‘संकथा’-रूप प्रभेदोऽपि विद्यते। सम्यक् कथा संकथेत्यत्र अन्योन्यकथनस्य प्राधान्यं भवति । __ एवं हि कथा-काव्ये कथा-वर्णने रसानुकूल समुचित-सुललित-विविधालंकार समन्वितशब्दार्थ-गुम्फनं सुकवेः काम्यं भवति । अतएव कविता-कामिनी-पञ्चवाणो महाकवि र्बाणः नूतनार्थस्य, अग्राम्याया जातेः, अक्लिष्ट-श्लेषस्य, स्फुटरसस्य, विकटाक्षर-बन्धस्य च एकत्र विधानेनैव कवेः किमप्यपूर्व महत्त्वं मनुते। १. साहित्यदर्पणे ६।३११, ३१२। २. विषयाश्रयमप्यन्यदित्यादिकारिकायांवृत्तिः। ध्वन्यालोके ३७। तत्रैव ध्वन्यालोकलोचने। ४. उल्लापः काकुवागन्योन्योक्तिः संलाप-संकथे। इति हेमचन्द्रः। ५. नवोऽर्यो जातिरग्राम्या श्लेषोऽक्लिष्टः स्फुटो रसः। विकटाक्षर-बन्धश्य कृत्स्नमेकत्र दुर्लभम् (दुष्करम्)।। हर्षचरिते १। सम्पादकीयम्-गद्यसाहित्यम् उपर्युक्त-काव्यशास्त्रीय लक्षणानुसारेण वासवदत्ता, कादम्बरी, अवन्तिसुन्दरी, तिलकमञ्जरीत्यादयः कथाः सन्ति, हर्षचरितादिश्च आख्यायिका विद्यते। __ सुबन्धु-विरचित-वासवदत्तातः पूर्वमपि कथा-ख्यायिका-ग्रन्था आसन्निति तेषां नाम्नां निर्देशाद् विज्ञायते। पाणिनेः ‘अधिकृत्य कृतेग्रन्थे’ (४।३।८७) इतिसूत्र प्रकरणे ‘लुबाख्यायिकाभ्यो बहुलम्’ इतिवार्तिकोदाहरणे वासवदत्तामधिकृत्य कृता आख्यायिका ‘वासवदत्ता’ इति प्रयोगात्, ‘क्रतूक्यादिसूत्रान्ताट्ठक्’ (४।२।६०) इति सूत्रस्थ वार्तिके ‘आख्यानाख्यायिकोतिहासपुराणेभ्यश्च’ पातञ्जलमहाभाष्ये (४।३।८) ‘अधिकृत्यकृते ग्रन्थे’ बहुलं लुग् वक्तव्यः । वासवदत्ता, सुमनोत्तरा, नच भवति भैमरथी इति तिसृणाम् आख्यायिकानाम् निर्देशात्, दण्डिना ‘धवल प्रभवा रागं सा वितनोति मनोवती’ इति मनोवती नामोल्लेखात् तथैव भोजेन ‘शृंगार-प्रकाशे’ मनोवती-शात कर्णीहरण’ कथानामनिर्देशात्, वररुचिना ‘चारुमती’ कथा तथा हालस्य राजकविना श्रीपालितेन ‘तरङ्गवती’ कथा लिखिता’ इति प्रसिध्या, रामिल-सोमिलाभ्याम् रचितायाः, शूद्रक कथायाः२ उल्लेखात्, भट्टार हरिश्चन्द्रेण विरचितस्य विशिष्ट गद्य-ग्रन्थस्य बाणभट्टकृत गुण-कीर्तनात् एतेषां कथाख्यायिकारूपगद्य-ग्रन्थानां पूर्वमस्तित्वं निश्चीयते। कालान्धकारे विलीना इमे कदाचित् कुत्रचित् प्रकाशमेष्यन्तीति कामये। अलंकृतगद्यस्य प्राचीनोपलब्ध रचना रुद्रदाम्नः (१५०) गिरिनार-शिलालेखे, समुद्रगुप्तस्य (३५०) प्रयागस्तम्भलेखे च दृश्यते। एतस्य सोदाहरणं विवरणम् शिलालेखीयसाहित्य प्रसङ्गेऽवलोकनीयम्। उपर्युक्त विवरणेन कथाख्यायिकारूपगद्यबन्धस्य पूर्वपरम्परावगति र्जायते।

(१) सुबन्धु-निबद्धा वासवदत्ता

वक्रोक्तिमार्ग-निपुणेषु प्राथम्येन निर्दिष्ट: कथाकारः सुबन्धुः एकां ‘वासवदत्ता’ कथां विरच्यअमरकीर्तिः विद्वज्जनबन्धुरभवत्। सुबन्धुः व्याकरण न्यायमीमांसा-बौद्धादिदर्शनशास्त्रमर्मज्ञः, रामायण-महाभारत-पुराण-परिशीलन-पटुः, काव्यशास्त्र सिद्धान्तनिष्णातः, प्रत्यक्षर-श्लेषमय-प्रपञ्च-विन्यास-वैदग्ध्यनिधिः महायशस्वी कथाकार आसीत्। एतादश-विशिष्ट-रचनाकारस्यापि स्थान-स्थिति-कालादि प्रतिपादनं निश्चयेन कर्त न प्रभवन्ति इतिहासकारा इति परमाश्चर्याय कल्पते। वासवदत्ताया अन्तःसाक्ष्येण न्यायस्थितिमिवो द्योतकर-स्वरूपाम्’ इति निर्देशात् उद्योतकरात् षष्ठ शतककालीनात् परवर्तित्वं सिद्धयति। “कवीनामगलदो नूनं वासवदत्तया। १. पुण्या पुनीता गङ्गेव सा तरङ्गवती कथा। तिलकमञ्जरी। २. तौ शूद्रक-कथाकारौ वन्द्यौ रामिल-सौमिलौ। काव्यं ययोर्द्वयोरासीदर्द्धनारीश्वरोपमम् ।। जल्हणः। ३. पदबन्धोज्ज्वलो हारी कृतवर्ण-क्रम-स्थितिः। भट्टारहरिचन्द्रस्य गद्य-बन्धो नृपायते।। हर्षचरिते प्रारम्भे श्लोक. सं. १२ । ४. सुबन्धुर्बाणभट्टश्च कविराज इति त्रयः। वक्रोक्तिमार्गनिपुणाश्चतुर्थो विद्यते न वा।। राघवपाण्डवीये १, ४१। में x गद्य-खण्ड शक्त्येन पाणुपुत्राणां गतया कर्णगोचरम्” इति बाणभट्टेन कृतात् वासवदत्तायाः संकेतात् बाणभट्टात्पूर्ववर्तित्वमनुमीयते। एतेन षष्ठशतकान्ते सुबन्धुना वासवदत्ता रचितेति प्रतिपादयितुं शक्यते। __ वासवदत्तायां पदे पदे सभङ्गाभङ्ग-श्लेष-विच्छित्तिः, उपमोत्प्रेक्षाद्यलंकार-चमत्कारः, वक्रोति-वैचित्र्यञ्च परिलक्ष्यन्ते। वस्तुतः सुबन्धुमते तदेव सत्काव्यम्, यस्मिन् श्लेष वक्रोक्त्यलंकाराणां साम्राज्यं वरीवर्ति। सुश्लेष-वक्र घटना पटु सत्काव्यविरचनमिवेति स्पष्ट प्रतिपादनात्। एतद् विषयकाणि उदाहरणानि मूलभागे प्रदर्शितानि सन्तीति तानि तत्र द्रष्टव्यानि।

(२) हर्षचरितम्

सकलशास्त्र-पारङ्गतेन गद्यरचनाकलाकुशलेन वक्रोक्त्मिार्ग-निपुणेन कविताकामिनी पञ्चबाणेन बाणभट्टेन हषचरितरूपामाख्यायिकां समाख्याय जगति महती ख्याति लब्धेति विदन्ति विपश्चितो विश्वस्मिन् । सप्तमशतकपूवाः राज्यशासनं कुर्वाणस्य महाराज-हर्षवर्धनस्य सभा-रत्न-प्रमुखस्य कवीश्वर-बाणभट्टस्य सप्तमशतककालिकत्वं निर्विवादम्। हर्षचरित-प्रारिम्भक-कथा-प्रामाण्येन वत्सगोत्रीय वात्स्यायनसवंशमूक्तामणिः महाकविर्बाणः महाराजहर्षवर्धन-सम्मानःभाजनः सन् हर्षचरिताभिधानां परमोत्कृष्टामाख्यायिकामरीरचत् । यत्र महाराजहर्षवर्धनजीवनसम्बद्धां सकलां महत्त्वपूर्णां घटनां कविकर्मकौशलेन समवर्णयत्। अत्र श्लेषोपमा-रूपक-दीपक-परिसंख्या न्तरन्यास-विरोधाभासादयः सर्वेऽपि चमत्कृतिजनका अलंकाराः, माधुर्योजः प्रसादाख्यागुणाः, शृंङ्गारवीरादयो रसाः परमौचित्येन वर्णिताः महाकवेः साक्षाद् वाणीस्वरूपतां प्रकाशयन्ति।’ किं बहुना अधोनिर्दिष्टा एकैवेयं प्रशस्तिः बाणस्य वैशिष्ट्यं सामस्त्येन अभिव्यनक्ति का श्लेषे केचन शब्दगुम्फ-विषये केचिद् रसे चापरेऽलंकारे कतिचित् सदर्थ-विषये चान्ये कथावर्णने। आ सर्वत्र गभीर-धीर-कविता-विन्ध्याटवी-चातुरी-संचारी कवि-कुम्भि-कुम्भ-भिदुरो बाणस्तु पञ्चाननः। चन्द्रदेवः। _ अष्टसु उच्ध्वासेषु विभक्तस्य हर्षचरितस्य कथायाः सारः, वैशिष्ट्यम्, वर्णने बाणस्य चमत्कारः इत्यादयो विषया विस्तरेण मूलभागे प्रदर्शिताः सन्ति।

(३) कादम्बरी

महाकवि बाणभट्टस्य परमोत्कृष्टा कृतिः कादम्बरी कथा अतिद्वयी बृहत्कथां वासवदत्तां चातिक्रान्तेति निम्नपद्येन विजानते विद्वांसः १. जाता शिखण्डिनी प्राक यथा शिरवण्डी तथाऽवगच्छामि। प्रागल्भ्यमधिकमाप्तुं वाणी बाणो बभूवह ।। गोवर्धनाचार्यः m सम्पादकीयम्-गद्यसाहित्यम् द्विजेन तेनाक्षतकण्ठ-कौण्ठ्यया महामनोमोहमलीयसान्धया। अलब्ध-वैदग्ध्य-विलासमुग्धया धिया निबद्धेयमतिद्वयीकथा।’ अतएव कादम्बरीरसं पायं पायं विदग्धा मत्ता भवन्ति। बाणेन कादम्बरी-पूर्वभाग एव प्रणीतः। कथायाः परिपूरणार्थं तत्तनूजेन पुलिन्द भट्टेन उत्तरभागो विरचित इति उत्तरभागस्य आरम्भे तेनैवं निवेदितम् “याते दिवं पितरि तद्वचसैव सार्द्ध विच्देदमाप भुवि यस्तु कथा-प्रबन्धः। दुःखं सतां तदसमाप्तिकृतं विलोक्य न प्रारब्ध एष च मया न कवित्वदात्” ।। पुनश्च सविनय-पितृ-भक्तिं प्रदर्शयतातेन तत्रैव निवेदितम्-सिक “कादम्बरी-रस-भरेण समस्त एव मत्तो न किञ्चिदपि चेतयते जनोऽयम्। भीतोऽस्मि यन्न रस-वर्ण-विवर्जितेन तच्छेषमात्मवचसाऽयनुसन्दधानः” ।।७।। कादम्बरी कथा-साहित्यस्य चूडान्तनिदर्शनीभूता, यत्र नूतनार्थस्य, अग्राम्याया जातेः, स्पष्टश्लेषस्य स्फुटरसस्य, विकटाक्षर-बन्धस्य च एकत्र दुर्लभसमावेशात् कापि अपूर्वा विच्छित्ति विलसति। अत्र कलापक्ष-भावपक्षयोर्यादृश मनोरमसंगमो वरीवर्ति सोऽन्यत्र दुर्लभायते। एतच्च वैशिष्ट्यं यथा स्वयं महाकविना “हरन्ति कं नोज्जवलदीपकोपमै नवैः पदार्थैरुपादिताः कथाः। निरन्तर-श्लेषघनाः सुजातयो महास्रजश्चम्पक - कुड्मलैरिव ।।“३ इत्यादिना निर्दिष्टं तत् सर्वथा तथ्यम्। अलंकाराणां रसानुकूलं संयोजनम, गुणानां रसाभिव्यञ्जनम् च कथायां सहृदयहृदि कौतुकाधिकं रागं जनयतः। आस्वाद्यताम् रसनोपमाया अत्र चारुता-क्रमेण च कृतं मे वपुषि वसन्त इव मधुमासेन, मधुमास इव नवपल्लवेन, नवपल्लव इव कुसुमेन, कुसुम इव मधुकरेण, मधुकर इव मदेन नवयौवनेन पदम्। का मान १. पूर्वभागे श्लो. सं. २०१ २. उत्तरभागे श्लो. सं. ४। ३. पूर्वभागे श्लो. सं. ६। गद्य-खण्ड जाबालिमुनेराश्रमं वर्णयतो बाणस्यायं परिसंख्यालंकारमनोहर-विन्यासः कस्य विद्ग्धस्य मानसं नाकर्षति ? “यत्र च महाभारते शकुनिवधः, पुराणे वायु-प्रलपितम्, वयः परिणामे द्विजपतनम्, उपवन-चन्दनेषु जाड्यम् अग्नीनां भूतिमत्त्वम्, एणकानां गीतव्यसनम्, शिखण्डिनां नृत्यपक्षपातः, भुजङ्गानां भोगः, कपीनां श्रीफलाभिलाषः, मूलानामधोगतिः”। अस्याम् शुकनासोपदेशः, अच्छोदसरोवर-वर्णनम्, विन्ध्याटवीचित्रणम्, पात्राणां निरूपणम्, इत्यादीनि यथा बाणेन कृतानि तानि कथासाहित्यस्य निदर्शनानि सन्ति। अतः कादम्बरी वस्तुतः अतिद्वयी कथा वरीवर्ति।

(४) अवन्तिसुन्दरीकथा

(५) दशकुमारचरितम्

काव्यादर्शच्छन्दोविचिति ग्रन्थप्रणेत्रा कविवर दण्डिना विरचितं ‘दशकुमारचरितम्’ संस्कृतकथासाहित्ये महिमानं प्रथिमानं च आदधाति। काञ्चीपुर निवासिना दाक्षिणात्येन एनेन सप्तमशतकान्तभागे दशकुमारचरितं विरचितमिति ऐतिहासिका मन्यन्ते। एतस्य पूर्वपीठिकायाः पञ्चसु उच्छ्वासेषु अवन्तिसुन्दरीकथा, मध्यपीठिकायाअष्टसु उच्छ्वासेषु अष्टानां कुमाराणां कथाः वर्णिताः सन्ति। प्रायः दशकुमारचरितमिति नामार्थस्य सिद्धौ पूर्वभागे कथाद्वयसंयोजने उत्तरपीठिकया च विषयवस्तु प्रपूरणेन सामस्त्येन दशकुमारचरितमिति नाम प्रसिद्ध्यति। पृथगूपेण प्राप्ताया अवन्तिसुन्दरीकथा या, अत्रैव समाहरणात् दशकुमारचरितमेवाद्य प्रसिद्धिमेति। महाकाव्येषु बृहत्रयीव कथासाहित्ये या कथात्रयी विद्यते तत्र तृतीयस्थानं भजमाना दशकुमारचरितकथा गौरवेणातिशेते। अस्याः कथावस्तु-विन्यासः कथावर्णनवैचित्र्यं पात्र चरित-चित्रणं च तथामनोहराणि सन्ति येन दण्डी वाल्मीकिव्यासाभ्यामनन्तरं कविषु तृतीयं स्थानं लभते इति निगदन्ति दण्डिप्रशंसकाः। तथाहि “जाते जगति वाल्मीको कविरित्यभिधाऽभवत्। कवी इति ततो व्यासे कवयस्त्वयि दण्डिनि”।। दशकुमारचरितस्य वैशिष्ट्यं मूलभागे द्रष्टव्यम्।

(५) तिलकमञ्जरी

अस्यामेव कथा-साहित्य परम्परायां तिलकमञ्जरी राराजते। उज्जयिनीस्य काश्यपगोत्रीय विप्रस्य पण्डितसर्वदेवस्य ज्येष्ठतनयः धनपालः धाराधीश-मुञ्ज-भोजराजयो राज्याश्रितः एकादशशतकपूर्वार्द्ध तिलकमञ्जरीकथां प्रणिनाय । एतस्य वैदुष्येण काव्यकौशलेन च प्रभावितो मुञ्जराजः धनपालं सरस्वतीति सम्मानोपाधिना विभूषयामासेति तिलकमञ्जरी कथाया उपोद्धाते स निर्दिशति सम्पादकीयम्-गद्यसाहित्यम् तज्जन्या जनकाघ्रि-पङ्कजरजः सेवाप्त-विद्यालवो विप्रः श्रीधनपाल इत्यविशदामेतामबध्नात् कथाम्। अक्षुण्णोऽपि विविक्त सूक्ति रचने यः सर्वविद्याब्धिना श्रीमुञ्जेन सरस्वतीति सदसि क्षोणीभृता व्याहृतः।। तिलकमञ्जरी धनपालस्य काव्य-कलायाः चरमं निदर्शनम्। सुबन्धु-बाणादिभिः प्रदर्शितां कथाकाव्यशैलीमनुसरन् शक्ति-व्युत्पत्ति-शाली धनपालः तिलकमञ्जरी-रचनया विश्रुतां ख्यातिमर्जयत्। अधस्तनं संक्षिप्तमप्येतदुदाहरणं तवैशिष्ट्य-निदर्शकम् “अस्मिन् राजनि अनुवर्तितशास्त्रमार्गे प्रशासति वसुमतीम्, धातूनां सोपसर्गत्वम्, इथूणां पीडनम्, पदानां विग्रहः, तिमीनाः गलग्रहः, कुकविकाव्येषु यतिभ्रंशदर्शनम्, उदधीनामपवृद्धिः, द्विजाति-क्रियाणां शाखोद्धरणम्, सारीणामक्ष-प्रसर-दोषेण परस्परं बन्ध-वध-मारणानि बभूवुः।” अन्यान्यपि विभिन्नप्रसङ्गसम्बद्धानि उदाहरणानि मूलभागे उद्धृतानि सन्ति यानि धनपालस्य विशिष्टं कवि-कर्म-कौशलं प्रकाशयन्ति।

(६) गद्यचिन्तामणिः

श्रीमद्वादीभसिंह सूरिणा एकादशशतके चिन्तामणिरिव अपरः गद्यचिन्तामणि विरचितः। एकादशसु लम्भेषु विभक्तस्यास्य गद्यं रोचकं प्रभावोत्पादकञ्च वरीवर्ति। गद्यचिन्तामणेः पुष्पिकावाक्यैः अस्य जन्मना नाम ओडयदेव आसीत् वादीवसिंहः उपाधिरासीत्। जिनसेनस्य महापुराणे वर्णिताम् जीवन्धरकथामाधृत्य वादीभसिंहेन अलंकृतगद्यशैल्याम् तत्कथा अत्र वर्णिता। आदौ जिनमुनीनां प्रशस्तिम् जैनसिद्धान्तनिर्देशम् च विधाय मुख्यकथा प्रवाहिता। कथासारः, कथावैशिष्ट्यम्, लेखनशैली, वादीभसिंहस्य अन्यानि रचनानि च मूलभागे प्रतिपादितानि सन्ति।

(७) मन्दारमञ्जरी .

मन्दारमञ्जरीकथा-काव्य-रचयितापण्डितप्रवर-विश्वेश्वरः व्याकरणन्यायादिशास्त्रमर्मज्ञः काव्यशास्त्रनिष्णातः वैयाकरणसिद्धान्तसुधानिधिनव्यन्यायदीधिति-तर्क कुतूहल-दीधति प्रवेशालंकार कौस्तुभ-रसचन्द्रिकाऽलंकार-प्रदीप-काव्यतिलकालंकार-मुक्तावली-काव्यरत्नाद्यनेक ग्रन्थानां प्रणेता आसीत्। अस्य पिता भारद्वाजगोत्रीय पर्वतीय विप्रप्रवर लक्ष्मीधरः सकलशास्त्रपारङ्गतः आसीत्। अयं हि पश्चिमे वयसि वाराणसीमागत्य श्रीविश्वनानाथमाराध्यविश्वेश्वर सदृशं पुत्ररत्नमलभत। विश्वेश्वरः पितृमुखादेव सर्वशास्त्राणांश्रवणं कृत्वा मननं च विधाय तादृशः शास्त्रमर्मज्ञोऽभूत्। मन्दारमञ्जरी भागद्वये विभक्ता वर्तते। प्रस्तावनाभागे गौरी-शंकर-गणेश-लक्ष्मी सरस्वत्यादीनां वन्दनम्, वाल्मीकिव्यास-कालिदास-भवभूत्यादीनां पूर्वकवीनां प्रशस्तिः, गद्य-खण्ड सुबन्धु-बाणादीनां कथाकाराणां प्रशंसा च वर्तन्ते। एतेन ‘आदौ पद्यैर्नमस्कारः’ इति कथालक्षणानुसरणं भवति। एतस्याः मनोरम कथा-विषयः दिव्यादिव्यरूपः कौतुकाधायकः विस्तरेण मूलभागे प्रतिपादितो वर्तते। अस्यां श्लेषोपमारूपक-परिसंख्यादयोऽलंकाराः परमौचित्येन योजिता अपूर्वं चमत्कारं जनयन्ति। परिसंख्यालंकारप्रयोगसौन्दर्यमत्रावलोकनीयम् “यस्मिन् सर्वोत्तर पुण्यचरित रत्नाकरे शासति महीं गुणच्छेदो मृणालेषु, अङ्कप्रचारो गणितागमेषु, वर्णव्यत्ययः सात्त्विकभावेषु, सङ्करोऽलङ्कारेषु, वैषम्यं छन्दः प्रभेदेषु….. श्रुतिलङ्घनं वधूनां कटाक्षेषु न जनेषु समभवन्।” __ अन्यानि च मनोहराणि उदाहरणानि मूलभागेऽवलोकनीयानि। अष्टादशशतके विरचितेयं ‘मन्दारमञ्जरी’ कथासाहित्ये विशिष्टं स्थानमाश्रयति।

(८) शिवराजविजयः

कथाख्यायिका-काव्यरचनायाः या शृङ्खला प्राचीनकालात् प्रचलिता क्रमशः प्रवर्धमानासीत् सा वेदेशिकशासनकाले शैथिल्यमवाप। किन्तु संस्कृतसाहित्यरचना-प्रवाहो यथा अन्यविधासु अवरुद्धो नाभवत् तथैव एतत्कथा-विधायामपि सर्वथाऽवरुद्धो नाभूत्। अस्यामेव रचनापरम्परायां पं. अम्बिकादत्तव्यासस्य ‘शिवराज-विजयः’ विजयतेतराम्।। __व्यासमहोदयस्य पितामहः पं. राजाराममहाशयः जयपुरनिकटस्थ पूर्वज ग्रामादागत्य काशीमध्युवास। राजारामस्य ज्येष्ठतनयाद् दुर्गादत्तमहोदयात् श्रेष्टे १८५८ तमे वर्षे लब्धजन्मा अम्बिकादत्तव्यासः जन्मजातप्रतिभासम्पन्नः बाल्यादेव कविकर्मकुशलोऽभवत् । काश्यामेव व्याकरण न्याय-सांख्य-काव्यशास्त्रायुर्वेदादिविषयान् सम्यगधीत्य विविधशास्त्रनिष्णातः व्यासमहाभागः काव्यरचनाकौशलेन परां प्रसिद्धिं प्राप्नोत्। संस्कृत-हिन्दी-वङ्गभाषासु प्रवीणः कृत-विविध भाषाविशिष्ट-रचनः परममेधावी व्यासोऽम्बिकादत्तः दैवदुर्विपाकेन, “योऽसावत्यन्मेधावी चतुर्णामेकको भवेत्। स्वल्पायुर्वानपत्यो वा दरिद्रो वा रुजान्वितः।।” इति विधि-विधानेन च द्विचत्वारिंशे स्वल्पे वयसि पटनास्थ राजकीय संस्कृत महाविद्यालये प्राध्यापकपदे कार्यं कुर्वाणः १६०० तमेवर्षे इमं लोकंपरित्यज्य दिवमगमत् । भारतीय महापुरुषेषु अन्यमतस्य परमपराक्रम-शालिनः शिवाजीमहाराजस्य वीर गाथामाधृत्य विरचितः ‘शिवराजविजयः’ कथाप्रवाहेण भाषासारल्येन, शैलीवैशिष्ट्येन च लोक-प्रियतामादधानः व्यासमहोदयस्य प्रसृत्वरामनश्वरां कीर्तिं ख्यापयति। तर कथा-प्रबन्धस्य वैशिष्ट्यसूचका अनेके मनोरमाः प्रसङ्गाः मूलभागे सोदाहरणाः प्रदर्शिताः सन्ति ये नूनं सहृदयपाठकमनांसि समाकर्षयन्तः प्रमोदयन्ति। विश्वसिमि प्रकरणद्वये विस्तरेण वैशयेन प्रदर्शितानि कथा-साहित्य विवरणानि जिज्ञासूनां समाधानानि कुर्वन्ति तान् जूनमासोदयिष्यतीति शम्।