बाणप्रशस्तयः

[[बाणप्रशस्तयः Source: EB]]

[

बाणप्रशस्तयः

श्लेषे केचन शब्दगुम्फविषये केचिद्रसे चापरे
ऽलङ्कारे कतिचित्सदर्थविषये चान्ये कथावर्णने ।
आः सर्वत्र गभीरधीरकविताविन्द्याटवीचातुरी-
सञ्चारी कविकुम्भिकुम्भभिदुरो बाणस्तु पञ्चाननः ॥ १ ॥
(श्रीचन्द्रदेवस्य)

हेम्नो भारशतानि वा मदमुचां वृन्दानि वा दन्तिनां
श्रीहर्षेण समर्पितानि कवये बाणाय कुत्राद्य तत् ।
या बाणेन तु तस्य सूक्तिनिकरैरुट्टङ्किताः कीर्तयस्
ताः कल्पप्रलयेऽपि यान्ति न मनाङ्मन्ये परिम्लानताम् ॥ २ ॥
(रुय्यककृतव्यक्तिविवेकव्याख्याने)

अर्थेश्वरं हन्त भजेऽभिनन्दं वागीश्वरं वाक्पतिराजमीडे ।
रसेश्वरं नौमि च कालिदासं बाणं तु सर्वश्वरमानतोऽस्मि ॥ ३ ॥
(उदयसुन्दर्यां सोढ्वलस्य)

परिशीलितैव सरसं कविराजैर्बहुभिरत्र वाग्देवी ।
बाणेन तु वैजात्यात्कथयति नामैव वाणीति ॥ ४ ॥
(विश्वेश्वरस्य)

कादम्बरीसहोदर्या सुधये वै बुधे हृदि ।
हर्षाख्यायिकया ख्यातिं बाणोऽब्धिरिव लब्दवान् ॥ ५ ॥

शश्वद्बाणद्वितीयेन नमदाकारधारिणा ।
धनुषेव गुणाढ्येन निःशेषो रञ्जितो जनः ॥ ६ ॥
(त्रिविक्रमस्य)

जाता शिखण्डिनी प्राग्यथा शिखण्डी तथावगच्छामि ।
प्रागल्भ्यमधिकमाप्तुं वाणी बाणो बभूवेति ॥ ७ ॥
(गोवर्धनस्य)

हृदि लग्नेन बाणेन यन्मन्दोऽपि पदक्रमः ।
भवेत्कविकुरङ्गाणां चापलं तत्र कारणम् ॥ ८ ॥

सुबन्धुर्बाणभट्टश्च कविराज इति त्रयः ।
वक्रोक्तिमार्गनिपुणाश्चतुर्थो विद्यते न वा ॥ ९ ॥

सचित्रवर्णविच्छित्तिहारिणोरवनीपतिः ।
श्रीहर्ष इव संघट्टं चक्रे बाणमयूरयोः ॥ १० ॥
(नवसाहसाङ्के)

प्रतिकविभेदनबाणः कवितातरुगहनविहरणमयूरः ।
सहृदयलोकसुबन्धुर्जयति श्रीभट्टबाणकविराजः ॥ ११ ॥
(वीरनारायणचरिते)

युक्तं कादम्बरीं श्रुत्वा कवयो मौनमाश्रिताः ।
बाणध्वनावनध्यायो भवतीति स्मृतिर्यतः ॥ १२ ॥

रुचिरस्वरवर्णपदा रसभाववती जगन्मनो हरति ।
तत्किं तरुणी नहि नहि, वाणी बाणस्य मधुरशीलस्य ॥ १३ ॥

सहर्षचरिता शश्वत्कृतकादम्बरीकथा ।
बाणस्य वाण्यनार्तेव स्वच्छन्दं भ्रमति क्षितौ ॥ १४ ॥

बाणं सत्कविगीर्वाणमनुबध्नाति कः कविः ।
सिन्धुमन्धुः किमन्वेति द्युमणिः कतमो मणिः ॥ १५ ॥
(रघुनाथचरिते)

शब्दार्थयोः समो गुम्फः पाञ्चाली रीतिरिष्यते ।
शिलाभट्टारिकावाचि बाणोक्तिषु च सा यदि ॥ १६ ॥

केवलोऽपि स्फुरन् बाणः करोति विमदान् कवीन् ।
कि पुनः कॢप्तसन्धानपुलिन्दकृतसन्निधिः ॥ १७ ॥
(धनपालस्य)

दण्डीत्युपस्थिते सद्यः कवीनां कम्पतां मनः ।
प्रविष्ठेत्वन्तरं बाणे कण्ठे वागेव रुध्यते ॥ १८ ॥

]