ज्योतिश्-चक्रं ध्रुव-कर-गतं वात-रश्मि-प्रणद्धं
छित्वा बालः प्रथित-महिमा स्वानुगानां कराग्रैः ।
दिक्ष्व् अष्टासु स्वयम् अपि दधन् धारयन् व्योम-गङ्गां
नक्रान् बध्वा व्यसृजद् अभि-सं-भाव्य-पाथः पुनस् तान् ॥
पश्चाद् ऊर्ध्वं महर् अपि जनस् तत् तपः सत्य-लोकं
गत्वा गत्वा तद् अधि वसतीन् विश्व-साध्यामरेन्द्रान् ।
लीला-लोलो नव च कलयन् वेधसो भीम-भूतान्
लोकालोकं गिरिम् अपि मुदा प्राप चिक्रीड बालः ॥