पूर्वाह्णापराह्णभेदः

Veda-s and sUtra-s speak of aprAhNa in two contexts:

  • Two fold division of day
    • “वसन्तो ग्रीष्मो वर्षा - ते देवा ऋतवः। शरद्+हेमन्तः शिशिरस् - ते पितरः। य एवापूर्यते ऽर्धमासः - स देवा, योऽपक्षीयते स पितरो, ऽहर् एव देवा, रात्रिः पितरः, पुनरह्नः पूर्वाह्णो देवा, अपराह्णः पितरः। …… स यत्र उदगावर्तते देवेषु तर्हि भवति। देवांस् तर्ह्य् अभिगोपायस्य्, अथ यत्र दक्षिणावर्तते पितृषु तर्हि भवति, पितॄंस् तर्हि गोपायति ।” śatapatha Brāhmaṇa (ii. 1. 3, 1-3)
    • अन्यत्र श्रुतौ - “पृर्वं दिनं मनुष्याणाम् अपराह्णः पितॄणाम्”, “पूर्वाह्णो वै देवानां मध्यन्दिनं मनुष्याणाम् अपराह्णः पितॄणाम्" इति।
    • “तथा श्राद्धस्य पूवाह्णाद् अपराह्णो विशिष्यते” इति मनुः । “ययास्तं सविता याति पितरस्तामुपासते । तिथिं तेभ्योऽपराह्णो हि स्वयं दत्तः स्वयंभुवेति” स्मृतिः ।
    • द्विधा विभक्तदिनस्य शेषभागः ॥ इति कल्पद्रुमः। “लौकिके तु मध्याह्नात्परतः, सूर्य्यास्तात् प्राक्कालोऽपराह्णत्वेन व्यवह्रियते।” इति वाचस्पत्यम्।
  • 3 fold division of the day
    • प्रभातं च दिनान्ते तु सायं सन्ध्या पितृप्रसूः। प्राह्णापराह्णमध्याह्नास्त्रिसन्ध्यमथ शर्वरी॥ इत्यमरः।
    • “त्रिधा विभक्तदिनस्य तृतीयभागः ॥ स तु त्रिंशद्दण्डदिनमाने विंशतिदण्डात् परं दशदण्डं यावत् ।” इति कल्पद्रुमः।
  • 5 fold division of the day - “दे॒वस्य॑ सवि॒तुᳶ प्रा॒तᳶ प्र॑स॒वᳶ प्रा॒णः । ….मि॒त्रस्य॑ सङ्ग॒वः । … बृह॒स्पते॑र्म॒ध्यन्दि॑नः । … भग॑स्यापरा॒ह्णः ।”
    • “प्रातःकालो महूर्त्तांस्त्रीन् सङ्गवस्तावदेव तु । मध्याह्नस्त्रिमुहूर्त्तः स्यादपराह्णस्ततः परम् ॥ सायाह्नस्त्रिमहूर्त्तः स्यात् श्राद्धं तत्र न कारयेत् । राक्षसी नाम सा वेला गर्हिता सर्व्वकर्म्मसु ॥” इति तिथ्यादितत्त्वधृतवचनम् ॥
    • “पञ्चधा विभक्तदिनस्य चतुर्थभागः । स तु अष्टादशदण्डात् परं षड्दण्डं यावत् ।” इति कल्पद्रुमः।

Proper disambiguation

  • In the context of muhUrta-s, the 5 fold division is to be taken.
  • In the context of pitRkArya-s (used in contrast with pUrvAhNa rather than sAngava etc.., and in juxtaposition with other two fold divisions like ayana, day-night etc.. ), the 2-fold division is to be taken.
    • But sAyAhNa should be omitted, (wrongly) leading to preference of the 5-fold division context: अन्तिमत्रिमुहूर्त्तस्य तु राक्षसवेलात्वेन कर्म्मानर्हत्वात् कर्म्मयोग्य- शेषभागत्वाभावान् नापराह्णत्वम् ।
    • mAdhvas of vyAsarAjamaTha reckon vyApti of the kutupa-muhUrta (8th from sunrise out of 15).

At times the 5-fold division is assumed indiscriminately; whereas generally 2-fold division makes more sense (shrAddha, pitRkarma, sannyAsi-ArAdhanas etc..). This messes up vyApti decisions (besides making the logic complicated), besides giving ridiculous times for regions with very long/short day lengths.