अधिकमासः

अधिकमासनिवेशनम् ऋतुसामञ्जस्याय।

  • तत्र सम्मोदाचार्य-कौण्डिन्यायनः - । (वैदिकं समयमापनम् अधिकमासव्यवस्था च)
  • तस्येतिहासो ऽत्र

कौण्डिन्यायनमतम् - सायन-संयोजनम्

  • द्व्यूनं द्वि-षष्टि-भागेन दिनं सौराच् च पार्वणम् । यत्कृताव् उपजायेते मध्येऽन्ते चाऽधिमासकौ ।। इति वेदाङ्गज्योतिषे।
  • केषुचिद् एव युगेषु, यथापेक्षम् अधिमासयोजनं स्यात्। किन्तु यदायदाऽधिकमासो योज्यते तदातदाऽयनान्ते एव शुचौ मासे (आषाढे) वा सहस्ये मासे (पौषे) वा द्वितीयशुचिमासरूपेण (द्वितीयाषाढरूपेण) वा द्वितीयसहस्यमासरूपेण (द्वितीयपौषरूपेण) वैवाऽधिकमासो योज्यते।
  • “एतादृशी व्यवस्था च -
    • यदा दृक्-सिद्धसौरायनारम्भदिने (दक्षिणायनस्य वोत्तरायणस्य वापि) कृष्णपक्षस्य दशमी, ततः परा वा तिथिर् भवति तदैव तेन कृष्णपक्षेण युक्तोऽमावास्यान्तो मासोऽधिको मास इति स्वीक्रियते, -यदा तु दृक्सिद्धसौरायनारम्भदिने कृष्णपक्षस्य नवमी वा ततः पूर्वा वा तिथिर् भवति तदा तु तेन कृष्णपक्षेण युक्तोऽमावास्यान्तो मासोऽधिको मास इति न स्वीक्रियते।”

निरयण-सौरमासाधारित-संयोजनम्

  • “प्रचलितायाम् अर्वाचीनायां पद्धतौ अर्वाचीनस्य राशिविभाजने आधृतस्य सौरमासस्य सङ्क्रान्तिं स्वीकृत्य “असङ्क्रान्ति-मासो ऽधिमास” इति परिभाषया अधिकमासगणना क्रियते ।”
  • वसन्तऋतौ चैत्रमासे युगादिर् इति पर्वणा संवत्सरम् आरभन्ते लोकाः।

तत्राबद्धता

  • “अधुना प्रचलने निरयण-गणनायां वर्तमानायाम् अपि वसन्त-पञ्चमी तु बहुधा सौर-चान्द्रे वसन्तर्तौ वैदिके मधु-मासे (चैत्रे) यदा निरयण-गणनया शिशिरो माघमासश्च भवति तदा परिपाल्यते (कदाचित् तु वैदिके शिशिरेऽपि)। माघ-शुक्लपञ्चमी तु वसन्त-पञ्चमी भवितुं नार्हतीति वैदिकस्य ऋतुबद्धस्य मधुमासस्य( चैत्रमासस्य) एव पञ्चमी इयमिति कारणमत्र ।”
    • “सुमाकरेति प्रसिद्धस्य वसन्तर्तोर् अनुभवश् च वृक्षेषु पुष्पाणां पल्लवानां दर्शनाद् सुखेन बोद्धुं शक्यते।”