१ आर्तवमाघमासाद् वत्सरारम्भः

एतस्यां लेखशृङ्खलायां वैदिककालगणनाया मूलभूतानां सिद्धान्तानां विषये, आधुनिके काले प्रयुज्यमानः सिद्धान्तो वैदिकसिद्धान्तात् कथं तिथिमासाऽधिमासवर्षारम्भादिषु च भिन्नोऽस्तीति विषये संक्षेपेण परिचयो दास्यते । वैदिकी गणनापद्धतिः कथं ऋतुबद्धा, सुप्रयोज्या, वैदिकानां कृते पालयितुमनिवार्या चास्तीति च दर्शयिष्यते ।

वेदस्य षट्स्वङ्गेषु षष्ठमङ्गं ज्योतिषम् । एतस्याङ्गस्य महत्त्वञ्च वेदाङ्गज्योतिषे लगधमुनिना स्फुटमुक्तम् –

वेदा हि यज्ञार्थमभिप्रवृत्ताःकालानुपूर्व्या विहिताश्च यज्ञाः।
तस्मादिदं कालविधानशास्त्रं यो ज्योतिषं वेद स वेद यज्ञान् ।। ३।।

यद्यपि ऋतोर् तज्जनकस्य सौरस्याऽयनस्य च महत्त्वं कृषिकर्मणि वस्त्रधारणभोजनादिषु च सर्वैरनुभूयत एव परं तिथिनक्षत्रादीनां तु शास्त्रीयेषु कर्मसु शास्त्रविधानात् महत्त्वं ज्ञायते वैदिकधर्मावलम्बिभिः।

१. किं नाम उत्तरायणम् ?

यदा सूर्यः पृथ्व्या दृष्ट्या दक्षिणे भागे अन्तिमे स्थाने प्राप्तो भूत्वा पुनर् उत्तरां दिशां प्रत्यावर्तितुम् आरभते तस्मिन् दिने एव शुद्धसौरोत्तरायणस्य शुद्धस्य सौरशिशिरस्य ऋतोश्च प्रारम्भो भवति। पृथिव्या उत्तरे गोलार्धे दिनमानस्य वृद्धी रात्रेः क्षयश्च तस्माद् दिनाद् प्रारभ्यते। एतच्च

घर्मवृद्धिरपां प्रस्थः क्षपाह्रास उदग्गतौ ।
दक्षिणेतौ विपर्यासः षण्मुहूर्त्ययनेन तु ।। ८।। इति वेदाङ्गज्योतिषे

स्पष्टतया प्रतिपादितम्। पूर्वतनयोः द्वयोः श्लोकयोर्यद्यपि नक्षत्रविशेषस्योत्तरायणदक्षिणायनकालज्ञाने उपयोगः प्रतिपादितः परं तद् तात्कालिकमेवेति एतस्मात् सार्वकालिकात् प्रतिपादनात् ज्ञायते। अयनचलनस्य ज्ञानं वैदिकपरम्परायामासीदित्यन्यस्मिन् भागे प्रतिपादयिष्यते।

२. शुद्धानां सौरमानानां प्रयोगः वेदेषु दृश्यते न वा ?

वर्तमानकाले मकरमासकुम्भमासादीनां राशिमूलकानां, नक्षत्रसम्बद्धमूलकानां माघफाल्गुनादिकानां मासनाम्नां च ( एते अपि वास्तविकरूपेण ऋतुसम्बद्धा एवेति अधः प्रदर्शयिष्यते) प्रयोगः क्रियमाणः । कतिचित्सु स्थानेषु तु चान्द्रमासानां नामान्येव तादृशानां सौरमासानां कृतेऽपि सौरमाघादिकनाम्ना भ्रामकरूपेण प्रयुज्यमानानि सन्ति। वेदसंहितासु स्थितानां मधुमाधवादिकानां सौरमासत्वञ्च कतिपये मन्यन्ते। वैदिकः वर्षारम्भोऽपि वेदे प्रथमं निर्दिष्टत्वात् मधुमासाद् एव, वसन्तश्च प्रथमः ऋतुरिति च भ्रमो दृश्यते।

वेदे मन्त्रभागे उल्लिखितानां मधुमाधवादीनां मासानां चान्द्रमासत्वं तेषां मासानां सहैव अंहसस्पतिरिति नाम्ना त्रयोदशस्य अधिमासस्य गणनया, अपि च वत्सरः द्वादश मासात्मकस् त्रयोदशमासात्मको वा भवतीति वर्णनेन, मासस्य पक्षद्वयात्मकत्वस्य अर्धमास इति नाम्नोल्लेखाच्च सुस्पष्टमेव।

अथ यस् त्रयोदशं मासं सम्पादयति त्रयोदशं मासमभिजायते । – मैत्रायणीयकृष्णयजुर्वेदसंहितायाम् (१।१०।८)

द्वादश वा त्रयोदश वा संवत्सरस्य मासाः । – माध्यन्दिनीय-वाजसनेयिशुक्लयजुर्वेदशतपथब्राह्मणे (२।२।३।२७)

ब्राह्मणभागे श्रौतसूत्रादिषु च चैत्रादीनामेवोल्लेखादपि मध्वादयः चैत्रादीनां पर्यायवाचका इति ज्ञायते। यद्यपि वेदाङ्गज्योतिषे सौरमानानां प्रसङ्गे मासाः “द्वादश सौराः(सूर्याः) स्यु”रित्युल्लेखः ( २८ तमे श्लोके) कृतः परं सौरमासानां नामानि तु वेदेषु गुरुपरम्परया प्राप्तेषु वेदाङ्गज्योतिषादिषु वेदाङ्गेषु च न कुत्राऽपि सन्तीति सौरमासमानस्य उपयोगो गणितार्थ एव न तु व्यवहारार्थ इति अवगम्यते । सुश्रुतसंहितायां ( सूत्रस्थाने ६/१०) अन्येष्वप्यायुर्वेदग्रन्थेषु मासा ऋतवश्च चान्द्रा एवेति चात्रावधेयम्। ऋतुचर्या ऋतुसन्धिश्चापि चान्द्रमासानुसारिण्येवेति सौरमासस्य शुद्धस्य सौरर्तोश्चोपयोग आयुर्वेदेऽपि न कृत इति व्यवहारे चान्द्रमानानामेवोपयोगस्य परम्परा सुस्पष्टा ।

३. सौरचान्द्रमुत्तरायणं नाम किम् ?

शुद्धस्य सौरोत्तरायणस्य उपयोगः मासारम्भार्थं वर्षारम्भार्थञ्च कर्तुमशक्य इति मासानां चान्द्रत्वात् सुस्पष्टमेव। तेन वेदाङ्गज्योतिषे-

माघशुक्लप्रपन्नस्य पौषकृष्णसमापिनः।
युगस्य पञ्चवर्षस्य कालज्ञानं प्रचक्षते।। ५।।

इति स्फुटेन वचनेन (सौरोत्तरायणारम्भसापेक्षे) माघमासे वर्षारम्भ उत्तरायणारम्भश्चेति उदीरितम्।

पुराणेष्वपि एष सिद्धान्तः वर्णित एव । यथा –

वर्षाणामपि पञ्चानामाद्यः संवत्सरः स्मृतः।

ऋतूनां शिशिरश्चाऽपि मासानां माघ एव च ।। ब्रह्माण्डपुराणे (पूर्वभागे २४।१४१) वायुपुराणे(१।१५३।११३) लिङ्गपुराणे (१।६१।५२) च।

अधिकमासस्य गणना सौरेण ऋतुना सह व्यवहारे प्रयोज्यस्य चान्द्रस्य ऋतोः नैकट्यस्य स्थापनार्थं क्रियते येन तयोः सामञ्जस्यं वरीवर्ति । अधिकमासस्य विषये एतस्य लेखस्यान्यस्मिन् भागे वर्णयिष्यते । वर्षस्य मासस्यापि प्रवृत्तिः शुक्लप्रतिपदात एव भवतीति व्यवहारे शुद्धस्य उत्तरायणदिनस्यापेक्षया तन्निकटवर्तिनः चान्द्रस्य ( सौरचान्द्रोत्तरायणस्य) महत्त्वमेव अधिकम् । तस्मिन्नेव दिने वत्सरस्यारम्भोऽपि भवतीति यद्यपि एनेनैव श्लोकेनाऽपि ज्ञायते अधो देवदिनस्य सिद्धान्तेन एतत् सुस्पष्टं क्रियते । अधुना प्रचलने निरयणगणनायां वर्तमानायामपि वसन्तपञ्चमी तु बहुधा सौरचान्द्रे वसन्तर्तौ वैदिके मधुमासे (चैत्रे) यदा निरयणगणनया शिशिरो माघमासश्च भवति तदा परिपाल्यते (कदाचित् तु वैदिके शिशिरेऽपि)। माघशुक्लपञ्चमी तु वसन्तपञ्चमी भवितुं नार्हतीति वैदिकस्य ऋतुबद्धस्य मधुमासस्य( चैत्रमासस्य) एव पञ्चमी इयमिति कारणमत्र । कुसुमाकरेति प्रसिद्धस्य वसन्तर्तोरनुभवश्च वृक्षेषु पुष्पाणां पल्लवानां दर्शनाद् सुखेन बोद्धुं शक्यते। वेदे मासा मध्वादयः केन कारणेन पठिता इति चेत् वसन्तर्तोः ब्राह्मणानां कृते अग्न्याधानोपनयनादिषु निर्दिष्टत्वादेव प्रथमं निर्देशः, न तु मधुमासात् वसन्तर्तोः वा वैदिकवत्सरारम्भ इति कारणादिति कल्पसूत्रादिप्रमाणात् सोमाकरस्य वेदाङ्गज्योतिषव्याख्यानादपि सुस्पष्टम् ।

४. दिव्यं दिनं किम् ?

मानुषवत्सरः अयनद्वयात्मको भवति तयोश्च उत्तरायणं देवानामहः दक्षिणायनञ्च देवानां रात्रिः । यथा अहोरात्रात्मकस्य दिनस्य प्रारम्भः वैदिकपरम्परायां दिवसस्यारम्भात् भवति तथैव वत्सरस्य प्रारम्भः उत्तरायणरूपात् देवदिनादेव भवतीति वैदिकः सनातनः सिद्धान्तः। एष सिद्धान्तः श्रुतिस्मृतिपुराणादिषु सर्वेषु शास्त्रेषु स्फुटं प्रतिपादित एव । यथा-

एकं वा एतद् देवानामहर् यत् संवत्सरः । – (आत्रेय)तैत्तिरीयकृष्णयजुर्वेदब्राह्मणे। (३/९/२२/१)

यत्रोदङ्ङावर्तते देवेषु तर्हि भवति देवाँस् तर्ह्यभिगोपायति ।
माध्यन्दिनीय-वाजसनेयिशुक्लयजुर्वेदशतपथ ब्राह्मणे ।( २/१/३/३)

दैवे रात्र्यहनी वर्षम् प्रविभागस् तयोः पुनः।
अहस् तत्रोदगयनं रात्रिः स्याद्दक्षिणायनम् ।। मनुस्मृतौ (१/६७)

ब्रह्माणपुराणादिषु पुराणेष्वप्येष श्लोकः पठितोऽस्ति।

पुनरपि शुक्लप्रतिपदात एव अयनस्य मासस्य ऋतोश्च व्यवहारो भवतीति कारणात् सूर्यस्य दृक्सिद्धादुत्तरायणकालात् निर्धार्यमाणस्य तपोमासस्य (माघमासस्य)शुक्लप्रतिपदाया आरभ्य सहस्यामावास्यायां समाप्तिं गच्छन् वत्सर एव देवानामप्यहोरात्रत्वेन गृह्यते न तु शुद्धात् सौरोत्तरायणादिति शम् ।

(लेखेऽस्मिन् वेदाङ्गज्योतिषस्य श्लोकसङ्ख्याः याजुषवेदाङ्गज्योतिषग्रन्थस्थाः)

(द्वितीये लेखे वास्तविकसौरोत्तरायणदिनस्य ज्ञानार्थं प्रयोज्यमानाः परम्पराप्राप्ता विधयः, वेदाङ्गसम्मतस्याधिकमासस्य च विषये विस्तरेण चर्चा भविता)

प्रमुखाः आधारग्रन्थाः

१. माध्यन्दिनीयवाजसनेयिशुक्लयजुर्वेदः (संहिता शतपथब्राह्मणं च)

२. तैत्तिरीयकृष्णयजुर्वेदसंहिता ब्राह्मणं च

३. मैत्रायणीयकृष्णयजुर्वेदसंहिता

५. पारस्करगृह्यसूत्रम्

६. वेदाङ्गज्योतिषम् – सोमाकरभाष्येण कौण्डिन्न्यायनव्याख्यानेन युतम् । शिवराज आचार्यः कौण्डिन्न्यायनः । चौखम्बाविद्याभवनेन प्रकाशितम् (२००५)

७. मनुस्मृतिः

८. ब्रह्माण्डपुराणम्

९. वायुपुराणम्

१०.सुश्रुतसंहिता