[[दैवज्ञवल्लभा Source: EB]]
[
दैवज्ञ वल्लभा वराहमिहिररचिता
॥ ॐ॥
॥ १ प्रश्नावताराध्यायः॥
नत्वोद्गिरन्तमनलं भैरवमद्वैतमीश्वरं नृहरिम् ।
वराहेणैषा क्रियते प्रश्ने दैवज्ञवल्लभारचना॥ १॥
दीप्ताद्यं दशभेदं व्योमचराणां निरूप्य भावफलम् ।
पृष्टो यद्यत्कथयति शुभाशुभं तत्तदन्यथा नोक्तम॥ २॥
दीप्तो दीनः स्वस्थो मुदितः सुप्तः प्रपीडितो मुषितः ।
परिहीयमानवीर्यः प्रवृद्धवीर्योऽधिवीर्यश्च॥ ३॥
स्वोच्चे दीप्तो नीचे दीनः स्वगृहे व्यवस्थितः स्वस्थः ।
मुदितो मित्रगृहस्थो रिपुगेहस्थो भवेत्सुप्तः॥ ४॥
अन्यैर्विजितो युद्धे निपीडितोऽस्तंगतो मुषितः ।
परिहीयमानवीर्यो नीचाभिमुखं प्रसर्पश्च॥ ५॥
गच्छन् स्वोच्चाभिमुखं प्रवृधवीर्यः समाख्यातः ।
शुभवर्गस्थः खेटोऽधिकवीर्यो विपुलरश्मिश्च॥ ६॥
दीप्ते सिद्धिरनुत्तमा नरपतेर्दीने च दैन्यागमः
स्वस्थे स्वे मनसि स्थितं च भवति श्रीकीर्तिसौख्यादिकम् ।
आमोदो मुदिते यथेप्सितफलप्राप्तिः प्रसुप्ते विप
त्पीडाशत्रुकृता प्रपीडिततनौ मोषं गतेऽर्थक्षयः॥ ७॥
भवति प्रवृद्धवीर्ये गजतुरंगसुवर्णभूलाभः ।
तद्वदधिवीर्ययुक्ते शक्तित्रयसंपदादिबाहुल्यम॥ ८॥
पुष्पैः फलैः कनकरत्नयुतैः स्वभूमौ
नक्षत्रजातिसहितं ग्रहराशिचक्रम् ।
श्रद्धां अभ्यर्च्यं भक्तिभरबंधुकंधराग्रः
विधाय निजचेतसि निर्विकल्पे॥ ९॥
प्रातः पुमान्विहितदेवगुरुप्रणामः पाणौ
वहन् कुसुमरत्नफलाक्षताश्च ।
सत्कृत्य दैवविदमादरमादधानः
पृच्छेत्सकृच्छुभमनाः शुभदिङ्मुखस्थः॥ १०॥
प्रश्नाक्षरैरुदयहेतुभिरुल्लसद्भिर्बाह्यस्थितैश्च
शकुनैरधिगम्य सम्यक ।
प्रष्टुः शुभं च यदि वाप्यशुभं प्रयत्नात्तत्कालजं
तदिह दैवविदाऽभिधेयम॥ ११॥
फलभरकुसुमाभिरामभूमिरुहभुवि गोमयपुष्पतोयवत्याम् ।
चरणसुखकृति प्रपृच्छतां स्यादभिमतसिद्धिरसंशयेन पुंसाम॥ १२॥
दृक्चेतसोः सुखकरी यदि भूमिरस्ति
मांगल्यवस्तुविषये शुभदर्शने चेत् ।
प्रच्छाविधौ शुभमुपस्थितमादरेण
तत्रापि वाच्यमिति वक्ति मयो मणित्थः॥ १३॥
।स्मल्ल्स्किप्
॥ २ शुभाऽशुभाध्यायः॥
प्रष्टुः शुभैः पन्चभिरिष्टलाभोऽनिष्टप्रदैः पन्चभिरप्यनिष्टम् ।
तुल्यैर्बलाबलवशात्फलमूहनीयं ज्ञेयं चतुर्भिरथ वापिफलं बलाच्च॥ १॥
भावः स्वेशेनेक्षितो वा युतः स्यात्पापादन्यैर्वापि तस्यास्ति वृद्धिः ।
सौम्या यस्यान्त्यास्तखस्वांबुगा वा पापैरेवं हानिरादेशनीया॥ २॥
पर्यायसंज्ञा चैतेषां कथ्यते मुनिसंमता ।
कार्यसंज्ञा च तस्योक्ता तस्मात्प्रश्नविचारणा॥ ३॥
आरोग्यपूजागुणकल्पवृत्तमायुर्वयोजातिरदोषसौख्यम् ।
क्लेशाकृती लक्षणरूपवर्णास्तद्भागिनेयस्य वधूस्तनौ स्यात॥ ४॥
माणिक्यमुक्ताफलरत्नधातुद्रव्याम्बरस्वर्णहयादिकार्यम् ।
रूप्यं सधान्यक्रयविक्रयादि साधारणंतद्भवति द्वितीये॥ ५॥
स्नुषानुजक्षेमसुबुद्धिलाभभृत्यादिदासीभटकर्मकर्तुः ।
भ्रात्रादिचिन्ताविषयं समग्रं पर्यायमेतत् कथितं तृतीये॥ ६॥
गृहं निधानं विवरप्रवेशो महौषधक्षेत्रखलादिवाटी ।
सुहृज्जलं वै पितृपप्रयोगो गमागमौ ग्रामसुखादिकं च॥ ७॥
स्थानच्युतिर्लाभगृहप्रवेशो वृद्धिर्जनित्री जनकश्च तद्वत् ।
देशादिकार्याण्यपि लाभमस्य पर्यायमेतत्कथयन्ति तुर्ये॥ ८॥
नानाप्रयोगो विनयप्रबन्धविनेयविद्यानयबुद्धिमंत्राः ।
संधानगर्भाङ्गभवादिकं च प्रज्ञासुतार्थस्य च पंचमे स्यात॥ ९॥
अस्वास्थ्यदौस्थित्यविपक्षदासक्रूरोग्रकर्मापरकृत्यशङ्काः ।
युद्धादितन्मातुलमाहिषाद्यं रोगोऽपि चिन्त्यो रिपुभावतुल्यः॥ १०॥
वस्तुक्रयस्वास्थ्यवणिज्यवादकामोदयो दासकलत्रचौर्यम् ।
निवृत्तिस्वस्रेयगमागमाद्यं कलत्रपर्यायमिदं निरुक्तम॥ ११॥
आयुर्विरोधो निधनं च राज्यं भेदोऽथ वा बन्धुजनस्य छिद्रम् ।
वैषम्य दुर्गादिकलत्रशत्रुवधो नदीतारणमष्टमर्क्षे॥ १२॥
स्वाध्यायदीक्षासुरगेहयात्रा नृपाभिशेको गुरुधर्मकृत्यम् ।
जलाशयश्यालकदेवरादीन् भ्रातुर्गृहिण्यो नवमस्य पूर्वैः॥ १३॥
आकाशवृत्तान्तजलप्रपातः स्थानं पितुः कार्यसुखादिमानम् ।
पुण्यं नृपत्वं च तथाऽधिकारो मुद्राच्युतिस्तद्दशमस्य तुल्यम॥ १४॥
कार्यस्य वृद्धिः क्रयवृद्धिलब्धिर्गजाश्ववस्त्रादिकयऽनशय्याः ।
स्वर्णानुवित्तापहृतादिकन्यालाभो गजादेः श्वसुराद्यमाये॥ १५॥
त्यागादिभोगेष्टिविवाहदानकृष्यादिकर्मव्ययसंक्षतिश्च ।
पितृव्ययमातृष्वसृमातुलानीयुद्धेक्षणं युद्धपराजयोऽन्त्ये॥ १६॥
यद्यद्भावेषु यद्वस्तु कथितं यवनादिभिः ।
तत्कार्यसंज्ञमाख्यातं ततः प्रश्नविचारणा॥ १७॥
यस्य भावस्य यद्वस्तु प्रश्नमात्रे प्रकाशितम् ।
तत्पृच्छायां तु तल्लग्नमेवं वा पूर्ववद् भवेत॥ १८॥
यद्यद्भावेषु यत्कर्म तस्माल्लग्नव्यवस्थितिः ।
अतीतानागते कार्ये त्वतीतानागतादपि॥ १९॥
मूर्द्धोदये सौम्यविलग्नगे वा लग्नेऽपि वा सौम्ययुते शुभं स्यात् ।
अतोऽन्यथात्वे तु तदन्यथात्वं मिश्रं विमिश्रैरधिकं बलाढ्यैः॥ २०॥
केन्द्रोपगा नवमपंचमगाश्च सौम्याः केन्द्राष्टवर्ज्यमशुभास्त्रिषडायसंस्थाः ।
सर्वार्थसाधनकराः परिपृच्छतां स्युरेभिर्विपर्ययगुणैस्तु विपर्ययः स्यात॥ २१॥
केन्द्रादिनाथो यदि लग्नगः स्यात्तन्मित्रमेतस्य च केन्द्रगं वा ।
व्ययाष्टकेन्द्राण्यपहाय पापाश्चान्यत्र याता यदि तच्छुभं स्यात॥ २२॥
नरराशिलग्नमभिवीक्षितं शुभैरुदयास्तबन्धुदशगैः शुभैस्तथा ।
त्रिकलाभषष्ठ्भगतैस्तथाशुभैः शुभलाभवित्तविषयांस्तदा वदेत॥ २३॥
कन्यातुला च मिथुनं च घटो नृराशिश्चैतेषुसौम्यसहितेषु शुभं विभाव्यम् ।
पापा व्ययायभगता न शुभा विलग्ने पापः शशी न शुभदो दशमे शुभश्च॥ २४॥
चतुष्पदे वा द्विपदे विलग्ने पापग्रहस्तेन तदीक्षितेश्च ।
शुभग्रहैस्त्वीक्षित एव वृद्धिं नृराशिलग्ने तु शुभं समस्तम॥ २५॥
उदयतुहिनदीधिती भवेतां यदि च शुभैरभिवीक्षितौ तदानीम् ।
शुभमशुभमतोऽन्यथेत्यभीष्टं गुणिगणमौलिमणेः शशिप्रभोस्तु॥ २६॥
।स्मल्ल्स्किप्
॥ ३ लाभाऽलाभाध्यायः॥
लाभास्तपंचसहजेषु शुभग्रहाः स्युर्लाभप्रदा ददति नेष्टफलानि पापाः ।
स्थानं शुभा दशमसप्तमगाश्च दद्युर्मानार्थदा द्वितीयपंचमलग्नगाश्च॥ १॥
चन्द्रं सप्तदशद्विषष्ठसहजायस्थानसंस्थं शुभः
पश्येद्वै प्रमदाकृतं शुभफलं लाभादिकं
स्यात्तदा ।
लग्नाष्टत्रिनवात्मजेषु च भयं कायार्थनाशोऽशुभै
रेतेष्वेव गताः शुभास्तु शुभदा
मानार्थसम्पत्तये॥ २॥
त्रिकोणकेन्द्रालयगाः शुभग्रहास्तथाऽशुभाश्च त्र्यरिलाभगा यदि ।
भवन्ति लाभाय तदाऽऽशु पृच्छतां विपर्ययस्थास्तु न लाभदा अमी॥ ३॥
चन्द्रश्चतुर्थे यदि सप्तमे शुभो विलग्नगो वा दशमे विवस्वान् ।
सद्योऽर्थलाभो मनुजस्य वाच्यस्तदेति सत्यो बलिरेवमाह॥ ४॥
वृषहर्य्यालिघटैः स्थानप्राप्तिं वदेन्न चरराशौ ।
द्वितनौ लग्नोपगते चरस्थिरोक्तं फलं दलतः॥ ५॥
।स्मल्ल्स्किप्
॥ ४ सामान्यगमाऽऽगमाध्यायः॥
स्थिरे विलग्ने न गमागमौ स्तश्चरे विलग्ने तु विनिश्चितौ तौ ।
मिश्रं फलं स्याद्वि तनौ तदर्धं द्वये चरस्थावरवत्तदूह्यम॥ १॥
सूरसौरिगुरुसौम्यसितानामेककोऽपि चरलग्नगतश्चेत् ।
आशु तर्हि गमनं स्पृहणीयं वक्रतामुपगतस्तु न हीति॥ २॥
स्थिरराशिलग्नवर्ती गुरुबुधसितभास्करेषु यद्येकः ।
गन्तुः पथो निवृत्तिं जनयति निःसंशयं प्रश्ने॥ ३॥
रविर्वा गुरुर्वा बुधो वा सितो वा भवेदायराशिस्थितः प्रश्नकाले ।
गतिः प्रच्छतः शीघ्रमेवाभिधेया निवृत्तिं पथोऽमीभिरन्त्यालयस्थैः॥ ४॥
सौरांगिरसोः पश्येदेकोऽपि वा स्थिरं समुद्यन्तं ।
प्रष्टाऽऽगमनं प्रच्छेत्तस्यागमनं न वक्तव्यम॥ ५॥
षष्ठत्रिकोणसंस्थैः पापैश्च पापसंदृष्टैः ।
गमनागमनं च वाच्यं स्थिरलग्ने चेच्चरे तु विपरीतम॥ ६॥
चन्द्रतोऽथ् यदि वा विलग्नतो द्वादशद्वितयराशिगामिनः ।
शुक्रवाक्पतिशशान्कनन्दनाः का गमाऽऽगमकथाऽस्ति पृच्छतः॥ ७॥
बलेन सर्वोत्तमतामुपागतो ग्रहो गृहे यावति लग्नतो भवेत् ।
प्रवासतस्तत्समसंख्यमासतो निवर्तनं गन्तुरसंशयं वदेत॥ ८॥
चरांशकस्थे किल काल एष स्थिरांशके तद्विगुणस्तु वाच्यः ।
द्विदेहलग्नांशगते ग्रहे तु विचिन्तितस्तत्त्रिगुणो विधेयः॥ ९॥
यातुः पृच्छालग्नतः सप्तमस्य स्वामी यायाद्यावता वक्रभावम् ।
कालेनैति प्रस्थितस्तावतेति प्राहुस्त्वेते प्रश्नतत्त्वप्रवीणाः॥ १०॥
।स्मल्ल्स्किप्
]