[[निधिप्रदीपः Source: EB]]
[
[TABLE]
TRIVANDRUM: PRINTED BY THE SUPERINTENDENT, GOVERNMENT PRESS, 1930.
[TABLE]
[TABLE]
**“कृष्णाजपित्तंच मयूरपित्त-
मशोकमूलं गतमुत्तराशाम्। **
शशाङ्कगोरोचनमाक्षिकं च
सर्वाञ्जनंनाम शिवोपदिष्टम्॥
पुष्यनक्षत्रयोगेन पिण्डीतगरमूलिकाम्।
षडङ्गुलमितं कार्यं शलाकां रक्षयेत् ततः॥” (p. 29).
occur in the 15th UpadeŚa of the Mantrakhaṇḍa of the Rasaratnākara by ŚrīDevīputra Nityanātha, while the introductory verse of the latter work,
“यद्यदुक्तं हि शास्त्रेषु तत्तत्सर्वं विलोकितम्।
शाम्भवे यामिले शाक्ते कुलकौले च डामरे॥
says that it is an abridgment from “Śāmbhava” (the Śāstra of Śambhu). If Śambhureferred to in the word Śāmbhava in the Rasaratnākara was the same as Siddha Śrīkaṇṭha Śambhu, then Nidhipradīpa may be taken as the source from which Rasaratnākara quoted the above verses. This work dealing as it does with various means of finding out hidden treasures may be considered as a valuable addition to the Trivandrum Sanskrit Series. The poet says that ’the earth is vast and time is unlimited’ and it is not certain that an Adhikāri of this work may not turn up. I have therefore thought it advisable to preserve the work by publishing it in this Sanskrit Series, in accordance with the practice of protecting the work dealing with Dīrghasatra,
The edition of the work is based on the following three manuscripts.
(1) Belonging to the Palace Library, Trivandrum.
(2) Do. Brahmasri Rama Vadhyar Kasi Vadhyar, Mahadanapuram.
(3) Do. Brahmastri Devan Narayanan Namburipad, Kartigapalli, Haripad.
These manuscripts are complete and are respectively marked as, क, खand ग. The first manuscript appears to be about 4 centuries old. The second looks less old than the first and the third, more modern than the second.
K. SĀMBAŚIVA ŚĀSTRĪ
निवेदना।
––––––––––
निधिप्रदीपनामायं प्रतिपाद्यमहिम्ना कोऽप्यपूर्व एव ग्रन्थः। इह सन्ति चत्वारः परिच्छेदाः, येष्वादिमः प्रतिज्ञाकीर्तनेन, द्वितीयः प्रतिमालक्षणेन, तृतीयः परीक्षादर्शनेन, अन्तिमोनिधिसङ्ग्रहणेन च यथावत् कृतविभागः।
अस्य कर्ता -
“निधिप्रदीपनामायं सिद्धश्राकण्ठशम्भुना।
क्रियते सारमादाय सिद्धानां हितकारणम्॥”
इति ग्रन्थोपक्रमकारिकया सिद्धश्रीकण्ठशम्भुनामा कोऽपि सिद्ध इति ज्ञायते। क्रतुनिर्वहणकृते निर्धनेभ्य ऋषिभ्यः शम्भुना भगवता समुद्दीपितोऽयं प्रदीप आम्नायवत् प्रभुसम्मितः प्रवृत्तिमात्रप्रतीक्षो भवत्यप्रतर्क्यंकिमपि प्रमाणप्रकाण्डम्। इदं च ऋषिशम्भुसंवादप्रस्तावनया
“यष्टव्याः कथमस्माभिः क्रतवो निर्धनैरिव।”
(पु० १. श्लो०५)
“प्रवक्ष्यामि मुनिश्रेष्ठा।दारिद्र्यार्णवतारणम्।”
** ( पु० २. श्लो० १०)**
हत्याभिः कारिकाभिः कविरास्फोरयति। ग्रन्थावसितौ -
“यज्ञार्थमर्थसापेक्षा ऋषयो धर्मतत्पराः !।
निधिसङ्ग्रहणं सर्वंमया प्रोक्तं यथाक्रमम्॥
**सर्वसम्पत्करंश्रेष्ठं सर्वदारिद्र्यनाशनम्। **
सर्वसौख्यमिदं शास्त्रं शबरेणैव भाषितम्॥”
इति दर्शनाद्
“यष्टव्याः कथमस्माभिः क्रतवो निर्धनैरिव।”
इत्यादिनोपक्रान्तस्य समुचित उपसंहारः समर्थितः। शबरभाषितस्यानुवादकर्ता परमात्मनः प्रतिजानानेन साममत्वमस्य प्रदीपस्य साधितम्। सोऽयं शबरः साक्षान्महेश्वरश्चेत् किरातवेषधारी, तदा पूर्वोपक्रान्तस्य ऋषिशम्भुसंवादस्यास्ति सामरस्यम्।
“इति शबरभाषिते मालिनीशास्त्रे निधिप्रदीपे चतुर्थः परिच्छेदः।”
इति परिसमाप्तिगतं वाक्यं शबरीयं किमप्यन्यद् मालिनीशास्त्रमाकरग्रन्थं स्पष्टमाचष्टेयत्रायं निधिप्रदीपनमार्गः किमप्यङ्गं सङ्गच्छते।
अन्यच्च — श्रीदेवीपुत्रनित्यनाथविरचिते रसरत्नाकरे मन्त्रखण्डे पञ्चदश उपदेशे दृश्यमानाभिः -
**१.1 “नकुलस्य च भेकस्य लोचनानि समाहरेत्। **
**स्रोतोञ्जनसभायुक्तं मेषीतैलेन पेषयेत्। **
अञ्जिताक्षो नरस्तेन निधिं पश्यति निश्चयम्॥”
इति,
२.2 “कुङ्कुमं रोचनं श्वेतकाञ्चनस्य तु पल्लवम्।
**सुश्वेतांच जपापुष्पंनन्द्यावर्तं समं मधु। **
सर्वाञ्जनमिदं ख्यातंपातालनिधिदर्शनम्॥”
इति,
३.3 “कृष्णाजपेित्तंच मयूरपित्तमशोकमूलं गतमुत्तराशाम्।
**शशाङ्कगोरोचनमाक्षिकं च सर्वाञ्जनं नाम शिवोपदिष्टम्॥ " **
“पुष्यनक्षत्रयोगेन पिण्डीतगरमूलिकाम्।
षडङ्गुलमितं कार्यं शलाकां रक्षयेत् ततः॥ “
इति च निधिप्रदीपकारिकाभिः, तदानुगुण्यात् कस्यचन शम्भोः कृतिं सप्रमाणं द्योतयता तत्रैव रसरत्नाकर उपक्रमे
“यद्यदुक्तं हि शास्त्रेषु तत्तत् सर्वं विलोकितम्।
शाम्भवे यामले शाक्ते कुलकौले च सामरे।”
इत्यादिना सारसमुद्धरणाधारतया ‘शाम्भवे’ इति वचनेन च यद्ययं शम्भुरस्मत्सिद्धश्रीकण्ठशम्भुरेव सम्भवेत् तदा रसरत्नाकरकारस्यापि प्रमाणभूतो निधिप्रदीपकारस्ततोऽपेि प्राचीनः शक्यमभ्यूहितुम्, इति।
इतोऽधिकमदसीयं जीवितसमयादिकं प्रति न किमप्यवगम्यते।
सर्वथा रत्नगर्भाया भुवो गर्भे निभृतनिहितानां निधीनां स्थितिं सिद्धिबलाद्बहिरुदित्वरीभिस्तत्तन्मूलिकाभिरभि-व्यञ्जिकाभिः सूक्ष्मेक्षिकयावगत्य निरूपितमिदं निधिशास्त्रमवश्यप्रकाश्यमस्मद्ग्रन्थावलेरपूर्वः कोऽपि निधिरेव।
“कालो ह्ययं निरवधिर्विपुला च पृथ्वी’
इति महाकविवचनानुसारेण तत्तदधिकारिसम्पत्तेरसम्भाव्यतानिश्चयाभावाद् दीर्धसत्रलक्षणवद् मन्य एवमादीनि शास्त्राणि संरक्षणीयानि प्रसाधने प्रमुखानि।
अस्य निधिप्रदीपस्य प्रसाधनप्रकाशनयोः परिशोधनोपयोगिन्यः समग्रा भातृकास्तिस्र उपलब्धाः। आसु —
प्रथमा — अस्मन्महाराजग्रन्थशालीया।
द्वितीया — महादानपुरं ब्रह्मश्री रामवाध्यार् काशिवाध्यार्खामकी।
तृतीया — कार्त्तिकप्पाल्लिहरिप्पाडु पडिञ्ञारे पुल्लांवलिमठंब्रह्मश्री देवन् नारायणन्नम्पूरिप्पाडुस्वामिका। ताश्च यथाक्रमं क-ख-ग- चिह्निताः।
आसु पूर्वपूर्वा जरती। विशिष्य च प्रथमा माकीं चतुश्शतबत्सरीज्यायसी।
अनन्तशयनम्,
१०-१२-१०५.
के. साम्बशिवशास्त्री
––––––––––
॥ श्रीः॥
निधिप्रदीपः।
प्रथमः परिच्छेदः।
––––––––––
निधिप्रदीपनामायं4सिद्धश्रीकण्ठशम्भुना।
क्रियते सारमादाय5 सिद्धानां6 हितकारणम्॥ १॥
ग्रन्थैश्चतुष्परिच्छेदैः पद्यैराहुष्टुभैरिह।
शतानि पञ्च पद्यानि7विना मन्त्रपदैर्बुध !॥ २॥
दारिद्र्यानलतप्तानामगतीनांशरीरिणाम्।
यायावरा महात्मान ऋषयो वेदपारगाः॥ ३॥
अग्निष्टोमादिकान् यष्टुं कर्मयज्ञा8 यथेप्सितम्।
समेत्य नैमिशारण्यं मन्त्रयामासुरादृताः॥ ४॥
यष्टव्याः कथमस्माभिः क्रतवो निर्धनैरिव।
उपायः को भवेदत्रयेन स्मो धनिनो वयम्॥ ५॥
देवतानाम् ऋषीणां च ऋणमेतद्भविष्यति।
इत्येवं चिन्तितानां च ऋषीणां भगवान् हरः॥ ६॥
आजगाम महायोगी ऋषीणां धर्महेतुकम्।
ऋषय ऊचुः —
देवदेव ! महादेव ! नीलग्रीव9 ! महेश्वर !॥ ७॥
केनोपायेन मुच्यन्ते ब्राह्मणाः क्लेशसागरात्10।
दारिद्र्यस्यैव हान्यै यत् तद् वाक्यं वक्तुमर्हसि॥ ८॥
शम्भुः —
तदिदानीं प्रवक्ष्यामि शृणुध्वं मुनिपुङ्गवाः!।
निधिशास्त्रमिदं गुह्यं त्रिदशैरपि दुर्लभम्॥ ९॥
प्रवक्ष्यामि मुनिश्रेष्ठा !दारिद्र्यार्णवतारणम्11।
यत्12 कृत्वा तु नरः कश्चिद् दारिद्र्यान्मुच्यते तथा॥ १०॥
पञ्चपातकयुक्तोऽपि13कुबेरसदृशो भवेत्।
सहायलक्षणं वक्ष्ये निमित्तं च शुभाशुभम्॥ ११॥
तिथिनक्षत्रवाराणां मुहूर्तनियमं तथा।
जलस्थलदिविष्ठानां14 निधीनां च विभेदतः॥ १२॥
स्थानेषु च निधानानां परीक्षां च यथाक्रमम्15।
परीक्षा बहुधा वृक्षलतागुल्मादिभेदतः॥ १३॥
गोमृगाः कृमयश्चापि भूतयोगं तथैव च।
विपरीतफलं पुष्पकण्टभेदं तथैव च॥ १४॥
महासत्त्वस्य16 संयोग प्रतिशङ्कां17तथैव च।
गुल्मागुल्मविभेदं18 च सहस्राक्षधनुस्तथा॥ १५॥
एवमादीनि चान्यानि लक्षणानि19 परीक्षयेत।
बिम्बलक्षणभेदं च वर्तीनां च यथाक्रमम्॥ १६
औषधं च परीक्षाणां कृमिपुष्पादिभेदतः।
कुमारकन्यकापादजातानां चैव सर्वशः॥ १७॥
सर्वाञ्जनं च कथ्यन्ते खननग्रहणं तथा।
निधिरक्षाविभेदं च तद्विरोधफलं तथा॥ १८॥
एवमादीनि चान्यानि शृणुध्वं मुनिसत्तमाः20 !।
अतःपरं प्रवक्ष्यामि सहायानां च लक्षणम्॥ १९॥
सहायाः शोभनाः कार्याः सप्त पञ्च त्रयोऽथवा।
वित्ताधिकं यथा तत् तु सहायानां समासतः॥ २०॥
नासहायेन कर्तव्यं मन्त्रिणां निधिसाधनम्।
तत्रापि लक्षणं वक्ष्ये सहायानां समासतः॥ २१॥
ग्राह्याग्राह्यविभेदेन21 श्रीमच्छङ्करभाषितम्।
सर्वसत्त्वहिताः शान्ता मदमात्सर्यवर्जिताः॥ २२॥
धार्मिकाः शीलसम्पन्ना हिंसाडम्भविवर्जिताः22।
बलवन्तः सदाचारा ब्राह्मणाः क्षत्रिया विशः॥ २३॥
शूद्रा अपि सदाचारा मद्यमांसविवर्जिताः।
सहायाः शोभना ह्येते23 कथ्यन्ते येऽप्यनिन्दिता24ः॥२४॥
सत्त्वहीना दुराचारा नास्तिकाः साधुदूषकाः।
देवद्विजगुरुस्त्रीणांनिन्दितानृतवाचकाः॥ २५॥
मूकं हीनं शस्त्रपाणिं वक्रात्मानं च वर्जयेत्।
सुनिमित्तान्यथोवक्ष्ये येषु लाभो भवेन्निधेः॥ २६॥
गौः सवत्सा सुरा मांसं25 रोचना दधि चन्दनम्।
पूर्ववस्त्रज्वलद्वह्निर्ऋषभाः पाशसंयुताः26॥ २७॥
स्वस्तिकं वर्धमानेषु सालङ्कारा वराङ्गनाः।
शुक्लवस्त्राणि पुष्पाणि पल्लवं दुग्धसर्पिषी॥ २८॥
कुमारो गोमयं राजा गजाश्वध्वजचामराः27।
वेणुवीणामृदङ्गानां शब्दो वा दर्शनं28 शुभम्॥ २९॥
चकोरश्चक्र29भृज्जीवाचक्रवाकसुरारिकाः30।
मयूरचातकादीनां शब्दो नूपुरशिञ्जितम्॥ ३०॥
पुष्पमूलफलं31 पूज्या32 र(क्ता ? त्ना) द्याभरणानि च।
पूर्णकुम्भोत्तमा33 नारी सपुत्रा34 चसभर्तृका॥ ३१॥
शुभं35 दर्शनमित्यादि गच्छतां लाभसूचकम्।
मुण्डिकास्तैलिका नग्नाः कृशाङ्गाः क्षतपाणयः॥ ३२॥
शशमार्जारकाकारिभुजङ्गा (वाग्मवीरुहाः36?)।
व्याधिता दुःखिता भीता एतेषां दर्शनेऽशुभम्॥ ३३॥
तिथिनक्षत्रवाराणां मुहूर्तं न यथोदितम्।
हिताहितविभागेन कथ्यते निधिकर्मणि॥ ३४॥
सोमार्के37 निधिलाभः स्यादार्द्रायांनच लभ्यते।
पुष्ये तृप्ते च विद्वांसो ! ध्रुवं सिद्धिः पुनर्वसौ॥ ३५॥
आश्लेषायां भवेद् वस्तुविग्रहोऽप्यथ बन्धनम्।
फल्गुन्यां धनलाभः स्यान्मखायां38 मरणं ध्रुवम्॥ ३६॥
चित्रायां कलहोद्वेग उत्तरा सिद्धिदा39 स्मृता।
विवादो जायते स्वात्यां विशाखा मृत्युदायिनी॥ ३७॥
अनूराधा वरा प्रोक्ता ज्येष्ठायां सिद्धिरुत्तमा।
पूर्वाषाढे भवेदत्र मूले शोणितदर्शनम्॥ ३८॥
धनिष्ठायां भवेत् क्लेशः श्रवणे सिद्धिरुत्तमा।
पूर्वभाद्रपदे क्षेमोभरण्यां मरणं ध्रुवम्॥ ३९॥
अश्विनी रेवती पुण्या कृत्तिका कार्यनाशिनी।
रोहिण्यां सिद्धिरित्युक्तं नक्षत्रफलमेव च॥ ४०॥
क्रूरवारास्त्रयो वर्ज्या भौमार्कशनिवासराः40।
व्यतीपाते त्र्यहं वर्ज्यं वैधृतौ च दिनत्रयम्॥ ४१॥
दिनक्षये त्र्यहं वर्जं दिनादौ प्रहरद्वयम्।
आषाढे मित्रनक्षत्रे यावत् स्वपिति नो हरिः॥ ४२॥
एतदन्तरमासाद्य खन्यं कुर्वीत मन्त्रधीः41।
मार्गशीर्षे शुभे भासि नक्षत्रे चन्द्रदैवते॥ ४३॥
खन्यं कुर्वीत सद्वारे यावदाषाढकं हितम्।
न कुर्यात् परतः खन्यं यदि कुर्यादसिद्धिदम्॥ ४४॥
उभे ते मैत्रनक्षत्रे अनूराधा विशेषतः।
मृगशीर्षं42 पुनश्चात्र प्रशस्तं खन्यकर्मणि॥ ४५॥
शतसङ्ख्याधनं ग्राह्यं सहायत्रितयं शुभम्।
तुषस्तृष्णाभिहस्ता43 च जराजर्जरसन्धयः॥ ४६॥
निषादा रक्तवस्त्राश्च काषायाम्बरधारिणः।
लाक्षाङ्गारकधूमाग्निनियमस्थो44 नरोत्तमः॥ ४७॥
द्विगुणस्तु45 वयोज्ञेयो अष्टपञ्चशतेषु च।
चत्वारिंशत्सहस्रेषु षोडशद्विगुणा मताः॥ ४८॥
कोटिवित्तं भवेद् यत्र सहायानां शतं च वै।
कोट्यर्धंच तदर्धेन तदर्धे द्विशतं46 तथा॥ ४९॥
तदेतद् द्वित्रिचत्वारिपञ्चषट्सप्तधा मताः।
सप्तविंशतिसङ्ख्यानि कोटिवित्ते यथामतम्॥ ५०॥
इति शाम्भव (सिद्धे) न निधिकर्म प्रकीर्तितम्॥ ५१॥
इति निधिप्रदीपे[^47] प्रथमः परिच्छेदः॥
––––––––––
अथ द्वितीयः परिच्छेदः।
निधिस्थानानि कथ्यन्ते जलस्थलदिवस्तथा।
नदीतटाककूपेषु वापीपुष्करणीषु च॥ १॥
समुद्रस्थानमित्याहुः स्थलस्थं चोच्यतेऽधुना।
विष्णुस्थाने शिवस्थाने मातृस्थाने तथैव च॥ २॥
अन्येषु देवतास्थानेष्वथो ग्रामस्य मध्यमे
ग्रामसीमासु चान्यस्मिन् सीमास्थाने तथैव च॥ ३॥
गृहे विप्रनृपाद्यानामन्येषां विभवान्विते।
चत्वरे द्वारि पृष्ठे च तोरणे मण्डपे तथा॥ ४॥
गजवाजिगृहे47 चापि महावृक्षस्य मूलके।
एकशीर्षेषु वृक्षेषु वनेषूच्चस्थलेषु च॥ ५॥
नीचस्थाने श्मशाने च वने चोद्यानकेऽपिच।
गोपालभवने गुह्ये सोपाने धान्यशालके॥ ६॥
शून्यागारे खर्वटे च समे विषमभूमिषु।
नदी समुद्रयोगेषु प्राकाराणां च सन्धिषु48॥ ७॥
कोष्ठद्वारे गृहद्वारे स्रोतसां च तथैव च।
आन्तरिक्षाणि कथ्यन्ते गिरिसानुगुहादिषु॥ ८॥
प्रासादे49 गोपुरे चैव विमाने कुड्यकेषु50 च।
एवमादीनि चान्यानि अन्तरिक्षगतं धनम्॥ ९॥
ततःपरं प्रवक्ष्यामि जलस्थानस्य51 लक्षणम्।
प्रावृट्काले प्रसन्ने च यत्र निष्कलुषं जलम्॥ १०॥
येषु स्थानेषु सर्वत्र तेषु विद्याद् धनं ध्रुवम्।
यदुष्णं शीतकाले तु ग्रीष्मे यच्छीतलं जलम्॥ ११॥
तस्मात् प्रतिकृतिं भित्त्वा तत्र विद्याद् धनं ध्रुवम्।
धूम्रमुत्पलपत्रं तु यत्र पुष्पं प्रसूयते॥ १२॥
जले तत्र ध्रुवं विद्यान्निधानमिति बुद्धिमान्।
अतः परं प्रवक्ष्यामि भौमस्यापि52 च लक्षणम्॥ १३॥
व्याप्ता भूमिरियं कृत्स्ना द्रव्येणापि यथा जलैः।
तत्रादितो हविष्यं53 स्यात् पुंसां दुष्कर्मसञ्चये54॥ १४॥
वहन्निधानं55 होमाय सोऽयं वै दर्शयन्ति हि (?)।
स्थानानि विधिनान्यत्र निधीनां कल्पयन्ति च॥ १५
यत्र धूमायते भूमिर्या च भूमिश्चनिस्तृणा।
यत्र विज्वलिता भूमिर्भौमोऽयमिति निर्दिशेत्॥ १६॥
रात्रौ विज्वलिता भूमिर्दिवा नैव च दृश्यते।
हर्षं वा जायते भूमौ भौमोऽयमिति निर्दिशेत्॥ १७॥
यत्र पूर्वसुगन्धः स्यादाज्यधूमाकृतिश्च यः।
वसन्तवगन्धो वा भौमेयं तत्र निर्दिशेत्॥ १८॥
वृक्षगुल्मलतादीनां लक्षणं तु विधीयते।
अपुष्पाश्चसपुष्पाश्च अफलाः सफलाश्च ये॥ १९॥
अकण्टकाश्च ये वृक्षा भौमेयं तत्र निर्दिशेत्।
पुष्पोपरिष्टात् पुष्पं च भौमेयं तत्र निर्दिशेत्॥ २०॥
स्वभावाद् विपरीतैश्चपत्रपुष्पफलाङ्कुरैः56।
द्रुमाः पर्णप्रमाणैश्च भौमेयं तत्र निर्दिशेत्॥ २१॥
स्वभावादपि वृक्षस्य स्रवन्तो रक्तबिन्दवः।
विश्रुतः प्रतिशब्दश्च तत्र वित्तं विनिर्दिशेत्॥ २२॥
द्रुमप्रमाणैरावृक्षात् प्ररोहं यत्र मुञ्चति।
प्ररोहेदृष्टमात्रे तु वसु विद्यादसंशयम्॥ २३॥
एकाङ्गुलपरीणाहे प्ररोहे लभते धनम्।
द्वात्रिंशदिति57 वा पृष्ठे पञ्चपञ्चाशतेऽपि वा॥ २४॥
षष्ठ्यर्थेङ्गुपरीणाहेविद्यात् पञ्चशतं धनम्।
षोडशाङ्गुलिके ज्ञेयं सहस्रं नात्र संशयः॥ २५॥
विंशत्यङ्गुलिके विद्यात् सहस्राणि बहूनि च।
त्रिंशदङ्गुलिके ज्ञेयं सहस्राणां शतं वसु॥ २६॥
अतः परं प्रवृद्धे तु कोटिं58 तत्र विनिर्दिशेत्।
मृगपक्षिकृमीणां च लक्षणं तु विधीयते॥ २७॥
अधोमुखोऽपि यस्तिष्ठेद् वृषो दृष्टश्चतुष्पथे।
रमते गर्जते वापि तत्र वित्तं विनिर्दिशेत्॥ २८॥
कृकलासाः शुनश्चैव गर्दभाश्चैव सूकराः।
दृश्यन्ते यत्र क्रीडन्ति तत्र विद्यान्न संशयः॥ २९॥
वराहोऽप्यथवा नित्यं ज्वलते च महीतले।
तत्र वित्तं विजानीयान्महाकालवचो यथा॥ ३०॥
यत्र चेन्द्रधनुर्नित्यं वल्मीकेषु च तिष्ठति।
न चेत् तु वर्षाकाले तु तत्र वित्तं विनिर्दिशेत्॥ ३१॥
यत्र गत्वा सदाकालं शिवा रावं विमुञ्चति।
अधोमुखं विलिखिते तत्र वित्तं विनिर्दिशेत्॥ ३२॥
पक्षिणां लक्षणं चैव विधानं शृणु साम्प्रतम्।
श्येनाः59काका बकाः श्वीना अन्येषां बहुपक्षिणाम्॥ ३३॥
सततं यत्र तिष्ठन्ति निधिस्तत्र न संशयः।
यत्र गत्वा सदाकालं रमते सेवते60 द्विजः॥ ३४॥
खनते61 चैव पादेन तत्र विद्यान्महानिधिम्।
गृध्रोवल्मीकमारुह्य पादेनैकेन तिष्ठति॥ ३५॥
खनते वान्यपादेन तत्र वित्तं विनिर्दिशेत्।
कृमिकीटादिभेदानां लक्षणं तु विधीयते॥ ३६॥
पाण्डुश्वेतसिताद्युक्तं हेमपीतोऽरुणो भवेत्।
कर्तारुणं तथा ताम्रं62 कृष्णा63 श्यामं च नीलता॥ ३७॥
अन्योन्यं शत्रवो यत्र कृमिकीटसरीसृपाः।
क्रीडन्ति सहिता यत्र भौमेयं64तत्र निर्दिशेत्॥ ३८॥
अन्येषां चैव भौमानां लक्षणं तु विधीयते।
चतुरश्रं त्रिकोणं वा भूतलं65 यत्र दृश्यते॥ ३९॥
तत्र कल्लूरिका नाम निधिर्देवविनिर्मिता।
भिन्नमस्तकसङ्काशः प्ररोहो66 दृश्यते वटे67॥ ४०॥
तस्याधः संस्थितं द्रव्यं जानीयादुक्तलक्षणम्।
स्थलजाश्च जले वृक्षा जलजाः स्थलभूमिषु॥ ४१॥
अक्षीराः क्षीरवृक्षाश्च68 सक्षीराः क्षीरवर्जिताः।
विपरीतफलोद्भेदा दृश्यन्ते यत्र भूरुहाः॥ ४२॥
अवश्यं तत्र वित्तं स्यात् साधयेद् विधिना बुधः69।
करिहस्तसमाकारः प्ररोहो दृश्यते व(देत् ? टे)॥ ४३॥
रक्तं स्रवति भिन्ने च तत्र वित्तं न संशयः।
कूर्माकृतिप्ररोहः स्यात् सहस्रं शिवचोदितम्॥ ४४॥
अव्यक्तकलशाकारे गोधाकारप्रकारके।
पद्मपुष्पे शुभे शुक्लेतदधोनिधि निर्दिशेत्॥ ४५॥
ध्वजमीनसमाकारः प्ररोहो दृश्यते व (देत् ? टे)।
शतसाहस्रकं वित्तं तदधो लभ्यते ध्रुवम्॥ ४६॥
ग्रीष्मे सूर्यांशुभिर्दग्धा शोषं नायाति या मही।
दावानलेन दग्धा वा तोयसम्पर्कवर्जिता॥ ४७॥
प्रदेशे कुत्रचित् तत् स्यात् पतङ्गैः सेवितो यदि।
कोमलः शाड्वलो रम्यो दृश्यते पांसुसञ्चयः॥ ४८॥
गोकुलैर्बहुभिः स्निग्धैः खाद्यमानोऽपि नित्यशः।
पुनश्च तादृशो भूयान्निधानं तत्र लक्षयेत्॥ ४९॥
अनारोहेषु वृक्षेषु यद्यारोहः प्रदृश्यते।
निधानं लक्षयेत् तत्र लभ्यं भाग्यवतां नृणाम्॥ ५०॥
बहूनां यत्र वृक्षाणामेक एव तरौ खगाः।
वसन्ति सकलं कालं निधानं तत्र लक्षयेत्॥ ५१॥
जीर्णोद्यानतटाकेषु शून्यग्रामवनेषु च।
मातरो यत्र तिष्ठन्ति निधिस्तत्र न संशयः॥ ५२॥
गोधू+++मै+र्य निखनेच्छङ्कितस्थले।
सप्तरात्रे व्यतिक्रान्ते यदि जीर्यन्ति तेषु ते॥ ५३॥
तथा तत्र धनं ज्ञेयं कुलिशेन च भाषितम्।
अधोमुखेषु वृक्षेषु प्रान्ते तत्र धनं भवेत्70॥ ५४॥
सोदके प्रावृषः काले तृणं यत्र न जायते।
दृश्यतेशाङ्वलंग्रीष्मे तत्र वित्तं विनिर्दिशेत्॥ ५५॥
ज्वालां वै वर्षकाले तु71 प्रसूयेत वसुन्धरा।
अपत्राः72 पत्रिणश्चैव सपत्राः पत्रवर्जिताः॥ ५६॥
अत्युष्णाः शीतकाले तु तत्र विद्यान्निधिं स्थितम्।
उष्णे षष्टिसहस्राणि अशीतिर्धूमदर्शने॥ ५७॥
कोटिस्तु ज्वलिते ज्ञेयमित्याह भगवाञ्छिवः।
श्वेता रक्ता च पीता च गोधा चैव तु मूषिका॥ ५८॥
चित्तिर्वा73 स्वपते यत्र तत्र वित्तं विनिर्दिशेत्।
एकत्र सर्पनकुलौ रमेते वसतौ74 यदि॥ ५९॥
तत्र वित्तं विजानीयान्महाकालवचो यथा।
यत्र यत्र च सन्दृष्टो यक्षो वा राक्षसोऽपि वा॥ ६०॥
तत्र वित्तं विजानीयान्महाकालवचो यथा।
गिरिगह्वरदेशेतु प्रतिशब्दं विमुञ्चति॥ ६१॥
गृहगह्वरदेशे75 वा तत्र वित्तं विनिर्दिशेत्।
चतुष्पथे कृते वृक्षे वल्मीको यदि मुञ्चति॥ ६२॥
विवर्णफलपुष्पं वा तत्र वित्तं विनिर्दिशेत्।
धूमायते यथा वृक्ष ऊष्माणं च तथा ध्रुवम्॥ ६३॥
प्रतिशब्दं विमुञ्चेत धनं तत्र शिवोऽब्रवीत्।
वल्ली गृहप्रदेशे तु रात्रौ प्रज्वलिता यदि॥ ६४॥
क्षते तु स्रवते क्षीरं तत्र वित्तं विनिर्दिशेत्।
अर्चितस्य तु लिङ्गस्य विपरीतं तु दृश्यते॥ ६५॥
पत्रं पुष्पं फलं वापि निधिं तत्रेश्वरोऽब्रवीत्।
क्रमुकं नालिकेरं वा तालं खर्जूरमेव वा॥ ६६॥
द्विशिरास्त्रिशिरा वापि तत्र वित्तं विनिर्दिशेत्।
श्मशाने यत्र दृश्यन्ते बुद्धस्य प्रतिमा यदि॥ ६७॥
निर्जलं पङ्कजं वापि तत्र वित्तं विनिर्दिशेत्।
वृक्षगुल्मलतालक्ष्मीर्जलजाः स्थलजा अपि॥ ६८॥
प्रकृतेर्विकृतं प्राप्ते तत्र वित्तं न संशयः।
लिखिता यत्र पाषाणे दृष्टा येऽन्योन्यशत्रवः॥ ६९॥
तस्मिन् परीक्षयेद् धीमाञ् शिलापट्टे तु निर्दिशेत्।
पञ्चसप्तशिरस्का वा त्रिशिरस्काश्च पन्नगाः॥ ७०॥
पाषाणे लिखिता यत्र एकान्तं भौमलक्षणम्।
लक्षणं भूमिजं भौमं मया प्रोक्तं समासतः॥ ७१॥
अन्तरिक्षस्थभौमानां लक्षणं साम्प्रतं शृणु।
नवाकृतियुता76यत्र प्रतिभायत्र तिष्ठति॥ ७२॥
मुखवाग + रे वापि तत्र वित्तं विनिर्दिशेत्।
नाभौ तु नाभिमात्रं तु स्तने तु स्तनमादिशेत्॥ ७३॥
कपोले कर्णदेशे तु कर्णमात्रं तु तद् भवेत्।
अन्योन्यदर्शने वापि प्रतिमासु परस्परम्॥ ७४॥
तत्र वित्तं विजानीयान्महाकालवचो यथा।
प्रतिमादेवता यत्र प्रतिमा यत्र तिष्ठति॥ ७५॥
मुखेवजजले77 वापि तत्र वित्तं विनिर्दिशेत्।
प्रतिमा देवता ( का ? गा ) रे प्रतिशब्दं विमुञ्चति॥ ७६॥
मुखे तु तिष्ठते वित्तं महाकालवचो यथा।
विहारे प्रतिमा यत्र यत्र रूपं सुशोभनम्॥ ७७॥
अनिन्दितं हि विद्येत78 धनं तत्र विनिर्दिशेत्।
विनायकस्य प्रतिमा स्थापिता चोत्तरामुखम्॥ ७८॥
कुम्भमस्तकमध्यान्ते तत्र वित्तं विनिर्दिशेत्।
प्रस्तरोहे प्ररोहे वा निधिं तत्र विनिर्दिशेत्॥ ७९॥
आत्मानं प्रतिमा यत्र परस्मै79दर्शयेद् यदि।
“अङ्गुल्यग्रेण वा सम्यक् पतते वा यथाक्रमम्॥ ८०॥
एतत्स्थानमतो नीतासंशयं निर्भयं धनम्।
यस्माद् बिलेशयाः केचित् संहिता नगरादिषु॥ ८१॥
क्रीडन्ति प्रतिमा80यत्र निधानं तद्गतं विदुः।
क्रीडन्ति बाहवो यस्य दर्शने च सकृत् सकृत्॥ ८२॥
महोदरा या प्रतिमा निधानं तद्गतं विदुः।
बिलेशया द्विपुच्छास्तु81 तत्र चास्ति ध्रुवं धनम्॥ ८३॥
यावत्ससहितो यत्र शैल तद्82 दृश्यते यदि।
बहु चैकस्थितं वापि तदन्तर्गतमामिषम्83॥ ८४॥
ऊर्ध्ववक्राप्यधोदृष्टिरेकस्थाधिकरोदिनी।
जलं स्रवति वा यत्र तत्र वित्तं विनिर्दिशेत्॥ ८५॥
अश्रुपूर्णमुखी देवमातृका84 यत्र दृश्यते।
निधानं तत्र विज्ञेयं शीघ्रसाध्यं न संशयः॥ ८६॥
एकैव प्रतिमा यत्र माता भवति तत्तले85।
तत्र वित्तं विजानीयान्मन्त्रविघ्नविवर्जितम्॥ ८७॥
विकृतप्रतिमा यत्र सप्ताश्रं पद्मपाणिका।
तस्याः पादतले86 विद्यात् कोटिसङ्ख्यधनं बृहत्॥ ८८॥
एकनेत्रा भवेद् यत्र देवी मातापराजिता।
तत्र पञ्चसहस्राणि साधयेद् बलिदानतः87॥ ८९॥
ऊर्ध्ववक्राभवेद् यत्र देवी तत्र धनं तयोः।
मातृमण्डलमध्यस्थं यत्रान्यद् रूपकं भवेत्॥ ९०॥
सहस्रैकं मतं वित्तमुद्धरेद्88 विघ्नवर्जितम्।
ध्वजं मीनसभाकारः लम्बयद् यत्र दृश्यते॥ ९१॥
घटस्थं तत्र जानीयाद् वित्तमीश्वरभाषितम्।
मुसलोलूखलाकारः प्ररोहो यत्र दृश्यते॥ ९२॥
दशसाहस्रकं वित्तं तदधो लभ्यते ध्रुवम्।
कुम्भीलमकरे89 कोष्ठमवगच्छ वृषाकृति॥ ९३॥
खर्जूरफलसङ्काशा तथा तालफलोपमा।
वा90हमिश्रफलाकारै91र्जम्बूकफलसन्निभैः॥ ९४॥
भाषाकृतिः प्ररोहः स्यात् तदधः संस्थितो92 निधिः।
भौमानामन्तरिक्षे तु लक्षणं समुदाहृतम्॥ ९५॥
हेमवर्णगता ज्वाला छत्राकारेण दृश्यते।
निधिर्ज्वालागले ज्ञेयः साधयेत् तं विधानतः॥ ९६॥
ज्वालामात्रं हिरण्याभं यत्र स्यात् तत्र निश्चितम्।
सहस्रद्वितयं विद्वानादिशेदविचारतः॥ ९७॥
हेमाभा छत्ररूपेण यत्र ज्वाला भवेद् भुवि।
पुरुषस्य प्रमाणेन तत्र वित्तं न संशयः॥ ९८॥
यत्र व्यक्ता भवेज्ज्वाला विविधा तत्र लक्षयेत्।
कोट्यर्धं रत्नसंमिश्रं वित्तं विद्यान्न संशयः॥ ९९॥
प्रदिशेन्निधिमानीय पर्वतं93वा तिरोहति।
धूम्राभा कृष्णवर्णाभा ज्वाला सूक्ष्मा तटित्प्रभा॥ १००॥
अतसीपुष्पसङ्काशा सिन्दूरसदृशापि वा।
नवज्वाला तु सा ज्ञेया वर्जनीयातिदूरतः॥ १०१॥
नक्रमण्डूकनकुलकूर्माकारास्थिभस्मनाम्94।
वल्मीतरुपुलेऽखानि यत्र तत्र तथा निधिः॥ १०२॥
निर्णयेन शिलोत्पन्ना मुसली95 स्थूलमूर्ध्वजा96।
ऊर्ध्वसीमाथवा यत्र दृश्यते प्रतिमा क्वचित्॥ १०३॥
षट्सहस्राणि तत्कुक्षौ सञ्चितानेन उच्यते।
रेणुका नार्दिका97 चण्डा चण्डोत्पलसमन्विता॥ १०४॥
पिष्ट्वा तक्रेण तत्कुक्षितल्लेपात्तत्र भेदकः।
यत्र दृष्टिर्भवेल्लीना प्रतिमायां98 विनिर्दिशेत्॥ १०५॥
निधानं तत्र घोरेण बलिनान्नेन साधयेत्।
शिरःकीलसमायुक्तं प्रतिमायां भवेत् क्वचित्॥ १०६॥
तस्याः शिरसि जानीयात् पूर्वयोगेन चोद्धरेत्।
एकाङ्गा व्यङ्गता सा चेत् तस्याः पादगतं धनम्॥१०७॥
छत्रं प्रदृश्यते यत्र विकृतं यस्य कस्यचित्।
तत्तले संस्थितं वित्तं जानीयादविचारतः॥ १०८॥
बिन्दुयुक्ता99 प्रशोणा च प्रतिमा संस्थिता भवेत्।
तत्कुक्षिसंस्थितं वित्तमवश्यं शबरोऽब्रवीत्॥ १०९॥
स्वबाहुमीक्षमाणा तु100 प्रतिमा यत्र दृश्यते।
तस्या बाहुगतं वित्तं सहस्रैकं न संशयः॥ ११०॥
त्रिशूलं पट्टसं101वापि यस्या उरसि दृश्यते।
तत्कुक्षिसंस्थितं वित्तं शतद्वयमुदाहृतम्॥ १११॥
दर्दुरो102 मस्तके यस्याः103 प्रतिमायाः104 प्रदृश्यते।
शतानि पञ्च वित्तस्य105 तत्र स्थाने शिवोदितम्॥ ११२॥
एकोन्नतं भवेद् यत्र प्रतिमा चारुहासिनी।
तस्याः106 स्तनगतं वित्तं विघ्नं न स्याच्छतद्वयम्॥ ११३॥
शिरोद्वयं भवेद् यस्य तस्य मस्तकसंस्थितम्।
सहस्रैकं धनं विद्धि तद्दृष्टं तत् प्रसाधयेत्॥ ११४॥
काणा कुब्जा भवेत् तस्याः काणाया लोचने शतम्।
कुब्जापादतले वित्तं ग्राह्यं मन्त्रौषधे विना॥ ११५॥
पाशहस्ता नराकारा प्रतिमा यत्र दृश्यते।
तत्र पञ्च सहस्राणि साधयेद् विघ्नवर्जितम्॥ ११६॥
नाभिहीनं च यद्107 रूपं दृश्यते नाभिदेशतः।
निर्विघ्नं वित्तमुद्दिष्टं बलिमन्त्रविवर्जितम्॥ ११७॥
पादमाक्रम्य पादेन जङ्घिका108 चाथ जङ्घयोः।
शतानि पञ्च तिष्ठन्ति शङ्खपद्मे109 न संशयः॥ ११८॥
निगलं बध्यते दृष्ट्वा स्त्रियो वा110 पुरुषोऽथवा111।
प्रतिमा कोटिसङ्ख्याकं धनं तत्र विनिर्दिशेत्॥ ११९॥
कुञ्चितौचरणौ यस्य प्रतिमा यत्र दृश्यते।
सहस्रपञ्चकं तस्य पादाधस्तिष्ठति ध्रुवम्॥ १२०॥
श्मशाने यदिवा रथ्ये बालवृक्षे चतुष्पथे।
अलिङ्गप्रतिमाः सत्त्वं स्थितेंऽशं तद्गतं धनम् ?॥ १२१॥
ऊर्ध्वबाहुरतिक्रूरा प्रतिमा यत्र दृश्यते।
अनिर्दिष्टं भवेद् वित्तमविघ्नं तत्तले स्थितम्॥ १२२॥
अजस्य प्रतिमा यत्र खड्गहस्ता प्रदृश्यते।
तस्याः स्कन्धे स्थितं द्रव्यं सहस्रं विघ्नवर्जितम्॥ १२३॥
ऊर्ध्वकेशा भवेद् यत्र गणेशप्रतिमा यदि।
सहस्रपञ्चकं तस्याः शिरोधो निर्दिशेद् बुधः॥ १२४॥
अजरूपा त्रिनेत्रस्य112 प्रतिमा यत्र दृश्यते।
चत्वारिंशत्सहस्राणि तत्तले फलमादिशेत्॥ १२५॥
प्रासादे प्रतिमा यत्र जल्पति श्रूयते यदि।
निधानं तत्र विज्ञेयं बलिमन्त्रेण साधयेत्॥ २२६॥
त्रिपादप्रतिमा यत्र चक्रहस्ता प्रदृश्यते।
हस्तमात्रोदये वित्तं निर्विघ्नं साधयेद् बुधः॥ १२७॥
एकपादा भवेद् यत्र प्रतिमा दृश्यते वदेत्।
सहस्रं तत्र निर्दिष्टं जपात् स्पृष्टावशीर्यते॥ १२८॥
नागस्य प्रतिमा यत्र दृश्यते नरवाहना।
अफणा सर्पशीर्षा वा निधिं तत्र समादिशेत्॥ १२९॥
इति निधिप्रदीपे शिलादिप्रतिमालक्षणे
द्वितीयः परिच्छेदः॥
——————
अथ तृतीयः परिच्छेदः।
परीक्षालक्षणं वक्ष्ये कृमिपुष्पौषधादयः।
परीक्षया विना यत्र न्यासस्थानं न दृश्यते॥ १॥
परीक्षाया विधानेन भौमेयं कर्तुमर्हथ113।
ऋषयो वाञ्छिताः114सन्ति सहायाश्चात्र नासहाः॥ २॥
वृथा श्रमो भवेदेषा तत्परीक्षा न कारयेत्।
सुपरीक्षा तु कर्तव्या सम्यक् तु फलमिच्छता॥ ३॥
प्ररोहप्रतिमायाश्चेत् परीक्षा यत्र दृश्यते।
प्ररोहमात्रे दृष्टे तु निस्सन्देहः परीक्षयेत्115॥ ४॥
भौमेयं सुपरीक्ष्यं तु संशयच्छेदनाय तु।
प्रशस्तेऽहनि नक्षत्रे सौम्ये संवत्सरे गुणे॥ ५॥
मातृवाहाः कर्कटश्च बहवो यत्र सङ्गिनः116।
यस्मिन् सम्पिण्डिताः सर्वे तत्राप्येव न संशयः॥ ६॥
निधिं तत्र विजानीयान्नात्र कार्या विचारणा।
आत्मनां तु विपक्षास्तु117 मल्लिका दधिलेपिताः॥ ७॥
अधोमुखाः प्रतिष्ठाप्य सन्ध्यायां पञ्च सप्त वा।
मन्त्रेणानेन संस्पृश्य स्थाप्यन्ते मल्लिकास्तदा॥ ८॥
वसु यद्यस्ति तत्रस्थं118 दधिवर्णं विमुञ्चति।
पीतं वा रक्तकृष्णं वा अन्यद्वात्र भवेद् यदि॥ ९॥
ततो निस्संशयो भूत्वा तत्र तन्मल्लिका भवेत्।
तत्रारम्भं ततः कुर्यात् तद् दृष्ट्वोपस्थिता जनाः॥ १०॥
कार्पासास्थिमयान् मूलान् गोमूत्रेण प्रलेपयेत्।
आमं शरावं सन्दीप्य दत्त्वा भूमौ निधापयेत्॥ ११॥
प्रभाते यदि सम्पश्येदग्निदग्धसमप्रभम्।
व्यक्तं तत्र विजानीयात् कर्म तत्र समारभेत्॥ १२॥
शिखिपित्तं द्वे हरिद्रे मरिचोदुम्बरं तथा।
कार्पासास्थितुषाश्चैव समभागं विलेपयेत्॥ १३॥
शिरःकण्ठकपालाना प्रलेपोऽयं विवर्णकः।
निधिं तत्र विजानीयाद् विशेषेणोपलक्षितः॥ १४॥
हरिद्राकल्कसंस्पृष्टं क्षीरं भूमौ निषेचयेत्।
प्रभाते भस्मसङ्काशा भूमिः स्यात् तत्र निश्चितम्॥ १५॥
पद्मपत्राणि चालोक्य शङ्कास्थाने निधापयेत्।
यस्यैरण्डस्य पत्राणि पूर्णानि निशितानि च॥ १६॥
श्वेता भूमिर्यथान्यानि लक्षणेन च लक्षयेत्।
गन्धपाषाणभागेन हरितालं मनश्शिला॥ १७॥
तच्चूर्णं पद्मपत्रेण वर्त्तिकां पूजयेद् बुधः।
औदुम्बरफलं गृह्य सुरया सह पेषयेत्॥ १८॥
स्वभावाद् विपरीतश्चेत् तत्र वित्तं विनिर्दिशेत्119।
शालिपिष्टमयीं वर्तिं तैलमिश्रां विचक्षणः॥ १९॥
सुरया सह सम्मिश्रं शङ्कास्थाने निधापयेत्।
रात्रौवाऽस्तमिते काले दपिवत् सम्प्रकाशते॥ २०॥
भौमं तत्र विजानीयाद् भगवानीश्वरोऽब्रवीत्।
स्थाप्य नीवारपिष्टं तु दधिमिश्रं विचक्षणः॥ २१॥
स्वभावाद् विपरीतश्चेत् तत्र वित्तं विनिर्दिशेत्।
जातीमुकुलकं वापि कदम्बमुकुलोऽथवा120॥ २२॥
सुरायाः121क्षीरसम्पृक्तो परीक्षां तत्र कारयेत्।
पायसं तैलसम्मिश्रं स्थापयेद् रविवासरे॥ २३॥
धनं तत्र विजानीयाद् विवर्णंतु यदा भवेत्।
जम्बूकत्वक्कषाये तु तिलतैलं विभावयेत्॥ २४॥
दधिम (र्ध ? न्थ) समायुक्तं विपरीतं धनं भवेत्।
प्रातःकाले तु विप्रेन्द्राः ! परीक्षा कथिता मया॥ २५॥
सर्षपं तिलपिष्टं तु सुरया सह पेषयेत्।
स्वभावाद् विपरीतश्चेत् तत्र वित्तं विनिर्दिशेत्॥ २६॥
सर्पनिर्मोचनं ग्राह्यं हरितालं मनश्शिला।
गन्धपाषाणचूर्णेन क्षौद्रेण सह पेषयेत्॥ २७॥
उपवासी शुचिर्भूत्वा काले वर्तिं प्रदापयेत्।
गोधूमैर्घटमापूर्य निखनेच्छङ्कितस्थले॥ २८॥
गोक्षीरेणाभिसम्पेष्य राजिकान् कोद्रवांस्तिलान्।
शणबीजानि मृत्स्थाने शङ्किते तैर्निषेचयेत्॥ २९॥
सुदर्शनसमायुक्तं नृहरिं तत्र पूजयेत्।
तस्मिन् हेमप्रभे दृष्टे प्रभाते निधिमादिशेत्॥ ३०॥
अर्जुनस्य कदम्बस्य लोध्रस्य122 खदिरस्य च।
ब्रह्मवृक्षस्य पत्राणि काञ्चिकेनातिपेषयेत्॥ ३१॥
निशायां लेपयेत् तेन भूमिके मन्त्रवित् ततः।
प्रभाते दृश्यते भूमिरतत्र वित्तं विनिर्दिशेत्॥ ३२॥
कुङ्कुमस्यकरञ्जस्य नालिकेरस्य पल्लवान्।
शुण्ठ्याश्च123 काञ्चिकेनाथ पिष्ट्वा भूमिं प्रलेपयेत्॥ ३३॥
प्रभाते दृश्यते भूमिस्तत्र वित्तं विनिर्दिशेत्।
बिल्वं कदम्बमादाय काञ्चिकेनाथ पेषयेत्॥ ३४॥
प्रदेश लेपयेत् तेन विवर्णंधनमादिशेत्।
सिंहपादाङ्कितं पट्टंप्रलेपाद् यत्र दृश्यते॥ ३५॥
सिंहिकाव्याघ्रपादाश्चतत्र वित्तं124 न संशयः।
मुखे मुखे125सहस्राणि ज्ञातव्यानि चतुर्दश॥ ३६॥
अतसीपुष्पसङ्कल्के लिप्तमात्रे विशीर्यते।
नक्रमण्डूकयोर्मेदोयुक्तास्तक्रेण लेपिताः॥ ३७॥
शिलाः स्फुटन्ति मन्त्रेण पुण्डरीकेण मन्त्रिणा
अनेन मनुना ग्राह्य निधानं मन्त्रिणा सदा॥ ३८॥
दारुसङ्घट्टपट्टानां शिलानां च विभेदतः।
विघ्नशान्तिश्च कर्तव्या पुण्डरीकेण मन्त्रिणा॥ ३९॥
कृष्णायां तु चतुर्दश्यां तत्र नारायणं स्मरन्।
मनुना ग्राह्यकं देवं निदानं मन्त्रिणा सह॥ ४०॥
दारुसङ्घट्टपट्टानां शिलानां च विभेदतः।
विघ्नशान्तिश्च कर्तव्या पुण्डरीकेण मन्त्रिणा॥ ४१॥
कृष्णायां तु चतुर्दश्यामहोरात्रोषितो नरः।
नीलोत्पलैर्महेशानं पूजयेत् स शुचिर्भवेत्॥ ४२॥
मन्त्रायुतं126 जपो127 होमं दशांशेन128 विधीयते।
तिलैर्गव्याज्यसंयुक्त129स्तत्र130 सिद्धो भवेन्मनुः॥४३॥
पञ्चहस्तो यदा पट्टो दृश्यते यत्र कुत्रचित्।
हरिताङ्गारवर्णाभा त्रिशूलं131 वृषभाकृतिः॥ ४४॥
सहस्राणां च पञ्चाशद् वित्तं कोणेषु संस्थितम्।
लिप्ताङ्गकमथासीनः132 पुण्डरीकेण जापिना॥ ४५॥
सफला जायते शीघ्रं निधिर्वज्रहता यथा।
तत्र वातायने देवीं शिखरं योजयेद् बुधः॥ ४६॥
अष्टहस्ता133 यदा पट्टा कोकाकारा मनोहरा।
जालिनी ब्रह्मदण्डा च निर्यासं कमलोद्भवः॥ ४७॥
एभिर्विलिखितः134 पट्टो रङ्गिणां मन्त्रयोगतः।
शीर्यते योगतो वज्रसाधितः पर्वतो यथा॥ ४८॥
धुर्धूरैःकल्कहं देहलशुनं सुरदारु च।
विलङ्कं हस्तिमूत्रेण पिष्ट्वा मन्त्री विलेपितः॥ ४९॥
द्विधा सञ्जायते पट्टं ब्रह्मशापहतो यथा।
उद्धृते मालिनीमन्त्रं सर्वपट्टाविभेदनम्135॥ ५०॥
कृष्णे136 श्वेतधिवःपट्टो रेखान्तो यदि दृश्यते।
सहस्रपञ्चसङ्ख्या च तस्य मध्ये स्थितं धनम्॥ ५१॥
आरनालेन सम्पिष्टं मुनिवृक्षस्य पल्लवम्137।
मालिनीमन्त्रजप्तेन तल्लेपेन धनोदयम्॥ ५२॥
आरग्वधस्य मूलानि मुनिवृक्षस्य पल्लवम्।
वटवल्कललोध्रं च मञ्जिष्ठा च समासतः॥ ५३॥
अरसारजसम्मिश्रं कुलत्थं तत्र लेपयेत्।
पिष्ट्वा महिषमूत्रेण पश्चात्138 तत्र प्रलेपयेत्॥ ५४॥
एवं भववचो योगि सर्वपट्टप्रभेदनम्।
दत्तं त्रिदशभूदेवनक्षत्रं मन्त्रसमन्वितम्॥ ५५॥
यया जयन्ति धीमन्तो वसुधाधरितं धनम्।
तां वदामि महावर्तिमञ्जनान्यखिलान्यपि॥ ५६॥
जीवजातिसमं किञ्चिद् यत्र यत्रोपयुज्यते।
जीवस्वरिक्षितं139 ग्राह्यमथवा कालयोगतः॥५७॥
अर्कतूलमयी वर्तिः श्यामातैलेन भाविता।
वेष्टिता नागवल्लीभिर्ज्वलन्ती दर्शयेन्निधिम्॥ ५८॥
गोधा चुचुन्दरी वचसधा140 बहुभाविता।
अर्कतूलमयी वर्तिर्भूमिगां141 दर्शयेन्निधिम्॥ ५९॥
अर्कतूलमयी वर्तिर्भेकतैलेन भाविता।
गोशृङ्गस्थापिता दीप्ता पाताले दर्शयेन्निधिम्॥ ६०॥
विभीतैरण्डतैलेन142वसा नकुलकर्कटे।
अर्कतूलमयी वर्तिर्नष्टद्रव्यं प्रदर्शयेत्॥ ६१॥
अर्कतूलाहिनिर्मोकतूलमेरण्डजं वसा।
अर्के तस्यार्जतन्तुश्च तत्कृता वर्तिरुत्तमा॥ ६२॥
सवर्गस्य143 वसा प्रच्छे अर्कतूलेन वेष्टयेत् (?)।
तत्र तावत् पथी कूलः कार्पासेन पुनस्तथा (?)॥६३॥
वेष्टयेद् वर्मसूत्रेण पुष्यार्केस तु मन्त्रवित्।
गोशृङ्गे स्थापयेत् पश्चात् तत् तु कालेन तापयेत्144॥ ६४॥
नक्रमण्डूकयोर्भेदो मूलिका145 वेतसोद्भवा146।
वेष्टिता चार्कतूलेन147 वर्तिरेकार्थदर्शिनी॥ ६५॥
मूलिका वेतसोद्भूता तथा कदलिकोद्भवा148।
महामूले यो वर्तिरुत्तमा शङ्करोदिता149 (?)॥ ६६॥
माघमासे चतुर्दश्यां कृष्णपक्षे नदीतटे।
शाकोटिसिंहयोर्मूले गृह्णीयात् सकदलाश्चिते (?)॥ ६७॥
कटुतैलेन तूलेन तेन वर्तितयो भवेत् (?)।
महातैलेन संयुक्तं वर्तिं कुर्यात् सदा बुधः॥ ६८॥
माषमात्रे पतन्त्याशु एष साध्यं न संशयः।
कटुतैलेन तद् विद्वान् बोधिता निपतेद् यदि॥ ६९॥
ज्योतिर्यत्र धनं तत्र निश्चयं निर्दिशेद् धनम्।
ज्योतिर्विन्यस्ततैलेन सहस्राणामथापि वा॥ ७०॥
वर्तेः प्रज्वल्यमानायाः शिखा तस्मिन्नधोमुखा।
प्रहतैर्महितैः150 कुर्याच्चूर्णैरेतैः सुपूजितैः॥ ७१॥
अर्कतूलमयी वर्तिर्भौमेयं तत्र दृश्यते।
लोहगन्धकगन्धेन151 चूर्ण्यन्ते त्वर्कतूलकैः(१)॥ ७२॥
वेष्टयित्वा च सूत्रेण वर्तिं कुर्यात् तथा भवेत्152।
नागस्य च वसा वापि वातां वर्तिं निबोधकः॥ ७३॥
सहाभिमन्त्रिता वर्तिः कर्तव्याविघ्नसिद्धये।
परिभाषं भवेत्तस्यात्तावद्वर्तिनिबोधके(१)॥ ७४॥
सुवर्णे पीतवर्णाभा रजते रजतप्रभा।
ताम्रे भवेद् वा ताम्राभा नीलके नीलका भवेत्॥ ७५॥
विमिश्रां तु यदा पश्येद् विद्यात् तेषां सुवर्णकम्।
मनश्शिलां हिङ्गुलादितिलतैलेन योजयेत्॥ ७६॥
अर्कतूलमयी वर्तिः सर्षपाणामथापि वा।
ऊर्णासूत्रमयीं वर्तिं भौमेयं तु परीक्षयेत्॥ ७७॥
गन्धपाषाणभागेन हरितालं मनश्शिला।
पूर्णेन पद्मसूत्रेण वर्तिं कुर्याद् विचक्षणः॥ ७८॥
ज्योतिष्मत्यास्तु तैलेन सर्षपेणैव वा पुनः।
प्रज्वाल्य क्षरिता यत्र योऽभिगच्छेद् ध्रुवं धनम्॥ ७९॥
कपिलाज्यं सुरान्यानि गोधामेदो मनश्शिला।
अर्कतूलमयीं वर्तिं महातैलेन भावयेत्॥ ८०॥
सूचयन्ति च तद्भौममित्याह भगवान् शिवः।
चच्छुन्दरीवसा गोधा नागवल्ल्या प्रभावयेत्॥ ८१॥
प्रसूचयन्ति तद्द्रव्यमित्याह भगवान् शिवः।
अर्कतूलमयीं वर्तिंमहातैलेन भावयेत्॥ ८२॥
गोधावसाहिसंयुक्तं गोशृङ्गे स्याप्य दर्शयेत्।
अर्धरात्रे प्रदोषे वा नष्टमन्वेषयेद्153 ध्रुवम्॥ ८३॥
झषमण्डूकगोधानांवसा चैव मनश्शिला।
पद्मसूत्रमयीं वर्तिं प्रधानं धनसूचकम्॥ ८४॥
मनश्शिला पद्मसूत्रं फेनं पारावतस्य च।
उलूकस्य वसायुक्तां वर्तिं तां परिभावयेत्॥ ८५॥
कपिलाज्येन संयुक्ता प्रसिद्धा वर्तिरुत्तमा।
गन्धपाषाणभागेन पद्मसूत्रं मनश्शिला॥ ८६॥
वसा चैव तु गोधानांनष्टमन्वेषयेद् ध्रुवम्।
मूषिकस्य वसायुक्ता वर्तिः सन्देहतारका॥ ८७॥
आद्यन्तं सूचयेद् वर्तिः कापिलेन तु दीषिता।
दीपे प्रज्वाल्यमाने तु लक्षणं तु निगद्यते॥ ८८॥
विस्फुलिङ्गो154 भवेत् पूर्वं शब्दं वा कुरुते धनम्।
प्रज्वाल्यमाने कुरुते शब्देन मधुरस्वरान्॥ ८९॥
पीता वर्तिर्भवेत् स्वर्णे रजते पाण्डरा सिता।
लोहे ताम्रे च रक्ता155 स्यादतिनीला प्रजायते॥ ९०॥
भुक्तापीताथवा156 सुप्तासिता कृष्णा च वर्तिनाम्।
एतच्चिह्नकरोज्ञात्वा आदिशेत् तद् धनं बुधः॥ ९१
अतःपरं प्रवक्ष्यामि अञ्जनानां विधिं परम्।
समासात् सम्प्रवक्ष्यामि यथाशास्त्रमुदीरितम्॥ ९२॥
तेनाञ्जितं तु नयनं छिद्रां पश्यति मेदिनीम्।
स्त्रोतोञ्जनस्य157 भागेन हरितालं मनश्शिला॥ ९३॥
मण्डूकहृदि संयुक्तमञ्जनं निधिदर्शनम्।
स्त्रोतोञ्जनमुलूकस्य158 भावयेदात्मवारिणा159॥ ९४॥
तस्यैव160 मान्धः(?) निक्षिप्य सप्ताहं भावयेद् बुधः।
अञ्जिताक्षो नरोऽनेन निधिं पश्यति निश्चितम्॥ ९५॥
काषायपूरितां कृत्वा रवितूलेन वेष्टयेत्।
(शरत्काले तु संगृह्य भूतालं रक्तवर्तिकाम्।)
वर्तिं कृष्णतिलानां तु तैलेनैवोत्तरायणे॥ ९६॥
प्रज्वाल्य वारयेद् भूमिं कज्जलं सुसमाहितः।
अनेनाञ्जितनेत्रस्तु निधिं पश्यति मानवः॥ ९७॥
परिमाणं161 च जानाति गृह्णाति च यथासुखम्।
गिरिसारं162 वचा लोध्रं रेणुका चाञ्जनं तथा॥ ९८॥
कृष्णपक्षे चतुर्दश्यां मेलयित्वा समासतः।
अनेन163 स्थापयेत् पश्चात् सम्पुटे ताम्रपत्रके॥ ९९॥
पूजां कृत्वा महेशस्य सोपवासो जितेन्द्रियः।
चक्रराजं समाश्रित्य जपेदष्टसहस्रकम्॥ १००॥
अष्टादशाक्षरींविद्यामञ्जयेल्लोचनद्व164(योः ? ये )।
ततः पश्यति मेदिन्यां निधानानि नरो ध्रुवम्॥ १०१॥
मूलं छिन्द्यादपामार्गात् कौबेर्यां दिशि संस्थितम्।
कन्योत्पन्नस्तनक्षीरं दिव्याञ्जनमिति ध्रुवम्॥ १०२॥
पुष्यनक्षत्रयोगेन पिण्डीतगरमूलिकाम्।
षडङ्गुलप्रमाणेन शलाकां कारयेद् बुधः॥ १०३॥
कुमारीं वा कुमारं वा शिलायां स्नापयेद् बुधः।
तच्छिलास्नानतोयेन रोचनं हेम गैरिकम्॥ १०४॥
शिलायां पूजयेत् तस्य मौनी मन्त्रं सदा जपेत्165।
अञ्जिताक्षो नरः पश्येत् कुमारैर्निहितं धनम्॥ १०५॥
मधुद्वयमथो पुष्पी रक्तागस्तिः सुलक्षिता।
कुशा च तिलपर्णी च166मधुना सह पुष्यके॥ १०६॥
पुष्यार्के छागवृक्षस्य मूलमुद्धृत्य वारिणा।
सुपेष्यमधुना सार्धमञ्जयेल्लोचनद्वये॥ १०७॥
स पश्यति निधिं तेन भूतलस्थं न संशयः।
कृष्णाजपित्तं च मयूरपित्त-
मशोकमूलं गतमुत्तराशाम्।
शशाङ्कगोरोचनमाक्षिकं च
सर्वाञ्जनं नाम शिवोपदिष्टम्॥ १०८॥
पारदो मधु कर्पूरं काकमाचीफलं तथा॥ १०९॥
सर्वाञ्जनमिदं ज्ञेयं सूर्यावर्तसमन्वितम्।
प्रस्तरी तुलसी कृष्णा बीजं कार्पासनिम्बयोः ११०॥
कर्पूरेण समायुक्तं सर्वाञ्जनमिदं भवेत्167।
वज्रिणा मधु कर्पूररक्तस्नुहिसुमूलिका॥ १११॥
सर्वाञ्जनमिदं ज्ञेयं दिवावृत्तं समन्वितम्।
पुण्यार्के श्वेतपर्णा च विधिना मूलमुद्धरेत्॥ ११२॥
वकुलाक्षेण पिष्ट्वाथ हविषा तु समञ्जनम्।
श्रोत्रोजनस्य सप्ताहं मधु क्रेद्धवताडके(?)॥ ११३॥
हित्वा तज्ज्योतितद्युक्ते पातालं मधुनाञ्जनम्।
दिवापि तत्र वित्तानि करस्थानीव पश्यति॥ ११४॥
नरादिषु समुद्भूततैलं भागे जलान्वितम्।
अवश्यमञ्जनादेव कुरुते पुरुषं सदा॥ ११५॥
हरिद्रोलूकनेत्राणि168 पाटल्या169 मूलसंयुतम्।
सुधाश्वेतजपातोयपृष्ठायां मधुमिश्रितम्॥ ११६॥
अञ्जिताक्षो नरस्तेन निधिं पश्यति भूगतम्।
तिलपर्ण्यद्भवं मूलं हस्तार्के विधिनोद्धृतम्॥ ११७॥
जलपिष्टं च पातालमधुना युतमञ्जयेत्।
निधिं पश्यत्यसौ तूर्णमाचार्ये सन्निधौ स्थिते॥ ११८॥
अञ्जयेत् कन्यकांवापि कुमारं पादयोर्निधिम्।
पातालं वा तारिकं वा पश्यत्येव न संशयः॥ ११९॥
शुभवन्नीरवा (?) कृष्णचतुर्दश्यां रवेर्दिने।
गृहीत्वा वारिणा पिष्ट्वामधुना सह रञ्जयेत्॥ १२०॥
कुङ्कुमं रोचनं श्वेता170 काञ्चकस्य च पल्लवम्।
सुश्वेतं च जपापुष्पं नन्द्यावर्तं समं171 मधु॥ १२१॥
सर्वाञ्जनमिति ख्यातं पाताले172 निधिदर्शनम्।
उलूकचक्षुः173 क्षौद्रं च सर्वाञ्जनमतः परम्॥ १२२॥
समभागं तु संघृष्य रोचनं कुङ्कुमं शशि।
रोचनं मधुकर्पूररक्तचन्दनमूलिका॥ १२३॥
सर्वाञ्जनमिदं ज्ञेयं राजावर्तसमन्वितम्।
पुष्यार्के श्वेतगुञ्जीं वा विधिना उद्धरेद् बुधः॥ १२४॥
उलूकाक्षि समं पिष्ट्वा मधुना स्वयमञ्जनम्।
स्रोतोञ्जनं सखद्योतमुलूकाण्डे विनिक्षिपेत्॥ १२५॥
सप्ताहान्ते समुद्धृत्य प्रभाते अञ्जयेद् दिवा।
-
- नक्षत्रवित्तानि करस्थानीव पश्यति॥ १२६॥
हरितालं वचा लोध्रं रेणुका चाञ्जनं तथा।
कृष्णपक्षे चतुर्दश्यां चूर्णीकृत्य विनिक्षिपेत्॥ १२७॥
सम्पुटे ताम्रजे तच्च अघोरेणाभिमन्त्रयेत्।
अञ्जिताक्षो नरः पश्येन्निधिं नानाविधं भुवि॥ १२८॥
हंसपादी जटामांसीदारुव्योममणिः शशी।
सूतं मनश्शिला चैव समांशमपि पेषयेत्॥ १२९॥
दिव्याञ्जनमिति ख्यातं सर्वभूतवशीकरम्।
नकुलस्य च भेकस्य लोचनानि समाहरेत्॥ १३०॥
स्रोतोञ्जनसमायुक्तं मेषतैलेन पेषयेत्।
अञ्जिताक्षो नरस्तेन निधिं पश्यति निश्चयम्॥ १३१॥
हेम्नाशलाकया पूर्वमञ्जयित्वाक्षिणी यतः174।
उपधानं जपेत् पश्चात् ततः पश्यति भूनिधिम्॥ १३२॥
परितिथिः पूर्णायाः प्रतिखाग्रे तु कज्जलम्।
अञ्जिताक्षो नरस्तेन निधिं पश्यति भूगतम्॥ १३३॥
रक्तेन कृकलासस्य भावयित्वा मनश्शिलाः।
अञ्जिताक्षो नरस्तेन निधिं पश्यति पूर्ववत्॥ १३४॥
सृगालस्याक्षिचूर्णेनाभ्यञ्जयेल्लोचनद्वयम्।
भूतं पश्यत्यसौ क्षिप्रं संप्राप्नोति महानिधिम्॥ १३५॥
नानामन्त्रगणाधीते यथा भागं तथा शृणु।
औषधग्रहणकाले ओषधिप्रतिष्ठामन्त्रः—
येन त्वां विदधे ब्रह्मा येनेन्द्रो दैवतैः सह।
तेन त्वा मा हरिष्यामि तिष्ठ तिष्ठ महौषधे !॥ १३६॥
त्रिवर्णसूत्रबन्धनमन्त्रः—
सत्यं दर्शय भौमेयं दिव्यं सत्येन दर्शय।
यदि भूमिगतं द्रव्यमात्मानं दर्शय स्वयम्॥ १३७॥
जङ्गमं सत्यभाषाय भौम्ने सत्यमंशेन नमोऽस्तुते सत्यं विरिक्तद्व्यत्र्यद्व्यस्थितात्मानं निधि दर्शय पट्टभेदेन175 मन्त्राण मन्त्रणि पुण्डरीकमन्त्रकम्—
ओं नमो भगवते रुद्राय हर हंज स्फुटि स्फुटि नि स्रवे।
मालिनिमन्त्रः—
तं त्रिगुणे त्रिगुणे मालिनि स्फुटम्।
त्रक्षमन्त्रः—
ओं स्फुट स्फुट।नय हुं फट् त्रियत्र्य यदीयपवित्रमन्त्राणि।
ज्वालिनीमन्त्रः—
ज्वलन्त ज्योतिर्दशायां वै।
बन्धनमन्त्रः—
ओं नमो भगवते वासुदेवाय शर बन्ध श्रीनकुल मतिसदर्पत्रिबन्धं दिशाबन्ध पातालं बन्ध मण्डलं बन्ध।
ओं नमो भगवते भूरिभूच्यवते नमः स्वाहा।
अञ्जनमन्त्राणि—
ओं ओं गं क्षं अं लोकिनिनिधिनिलोकिनि स्वाहा।
खननोद्योगे अर्चनमन्त्रः—
वराहम्। ओं हूं ओम्।
भूमिमन्त्रः—
ओं भूं भूमिं ओं रं अग्नये नमः। ओं धं धनाध्यक्षाय वैश्रवणाय नमः। ओंनमोऽस्तु देवदेवाय शूलपाणये अत्रागच्छतु ठम्।
ओं गौरी महागौरी गा रक्त गच्छ आगच्छ निधिं बन्धय बन्धय स्वाहा।
ओं घृणि सूर्य आदित्यम्।
इन्द्रमन्त्रः—
ओं नमो भगवते सहस्रा(क्षा )य परिरक्ष मां सहायैः सार्धं कालि कालि महाकालि स्वाहा।
यममन्त्रः—
ओं नमो भगवते वैवस्वताय परिरक्ष मां सहायैः सहितं स्वाहा।
वरुणमन्त्रः—
ओं नमो भगवते श्वेताय महाबलपराक्रमाय रुद्राय परिरक्ष मां सहायैः सार्धं हरि स्वाहा।
कुबेरमन्त्रः—
ओं नमो भगवते वैश्रवणाय परिरक्ष मां सहायैः सार्धं कुरु कुरु ठम्।
आग्नेयादिकोणमन्त्रः—
ओं नमो भगवते रुद्राय किटि किटि भिटि भिटि हरि हरि मरि मरि चिरि चिरि हन हन पच पच रक्ष रक्ष ग्रह ग्रह बन्ध बन्ध तर तर हर हर वसि वसि सत्त्वपरिघाति घोरे चण्डरौद्रे महारौद्रेस्सन्तु यस्सल्लोमते भञ्ज भञ्ज मारय मारय सर्वसत्त्वान् सर्वविघ्नान् स्तम्भय स्तम्भय विमले अस्मत्सहायांश्च रक्ष रक्ष मां च दिशां बन्ध पुरुषमण्डलं बन्धय बन्धय ठम्। कुमुदाय नमः। कुमुदाक्षाय नमः। पुण्डरीकाक्षाय नमः। वामनाय नमः। शङ्कुकर्णाय नमः। सर्वनेत्राय नमः। सुमुखाय नमः। सुप्रतिष्ठाय नमः। इति पार्षदमन्त्रः।
सूर्यसोमाग्निप्रकारमन्त्रः—
ओं नमश्चक्राय हुं फट् ठम्।
सुदर्शननरसिंहमन्त्रः—
ओं सहस्राय ज्वालावर्तिने सौं हन हन हुं फट् ठम्। इति सर्वरक्षा।
खन्यकारणाभिमन्त्रः—
ओं नमो भगवते रुद्राय दुन्दुभिषः।
कीलाभिमन्त्रः—
ओं दुं दुर्गाया हुं फट् ठम्।
स्थानरक्षाबलिमन्त्रः—
ओं नमो योगीश्वराय नमो मातृभ्यो नमो विश्वरूपिणीभ्यः प्रतिगृह्णन्तु सिद्धये। इमं बलिं गृह्ण गृह्ण ठम्।
वैश्रवणबलिमन्त्रः।
ओं नमो वैश्रवणाय नमो वा यक्षेभ्यो नमो वा यक्षिणीभ्यो नमो बलिः कृत्ये तायं ठम्।
पिशाचबलिमन्त्रः—
ओं नमः पिशाचेभ्यः पिशाचाः प्रतिगृह्णन्तु सिद्धये मम बलिं गृह्ण गृह्ण।
सेनाङ्गबलिमन्त्रः—
ओं नमो रुद्राय योगीश्वराय नमोऽनन्तवासुकितक्षकनागादिभ्यो नमो नागगणेभ्यो नागगणाः प्रतिगृह्णन्तु सिद्धये इमं बलिं गृह्ण176 गृह्ण स्वाहा।
राक्षसबलिमन्त्रः—
ओं नमो विश्वरूपाय त्रिनेत्राय नमो रुद्राय नमो भीमाय नमो रक्षोगणेभ्यः प्रतिगृह्णन्तु सिद्धये इमं बलिं गृह्ण177 गृह्णस्वाहा।
मृगबलिमन्त्रः—
ओं नमः पशुपतये सिंहाननाय व्याघ्रचर्मवसनाय मृगेश्वराय नमो मृगगणेभ्यो नमो मृगगणाः प्रतिगृह्णन्तु सिद्धये इमं बलिं गृह्णन्तु178 स्वाहा।
पक्षिबलिमन्त्रः—
ओं नमः शिवाय गगनचारिणे पतङ्गेश्वराय नमः पक्षिगणेभ्यो नमः पक्षिगणाः प्रतिगृह्णन्तु सिद्धये इमं बलि गृह्ण स्वाहा179।
विरोधशमनाय बलिमन्त्रः अङ्गारकप्रशमनमन्त्रः—
घ्रीम्इन्द्राय वज्रहस्ताय स्वाहा।
विषप्रशमनमन्त्रः—
कालदण्डाय वामाय स्वाहा।
जलविघ्नप्रशमनमन्त्रः—
ओं वरुणाय स्वाहा180।
इषादिविरोधशमनमन्त्रः181—
ओं महाभ्र कुरु कुरु श्रिं स्वाहा।
उष्णप्रशमनमन्त्रः—
ओं स्वाहाप्रियाय धूम्राय अग्नये स्विष्टकृते स्वाहा।
कीटादिशमनमन्त्रः —
ओं पचि सुदिरिः स्वाहा182। इति नैर्ऋते वेतालादिशमनम्। नमो वायवे गगनचारिणे स्वाहा।
सिंहादिशमनमन्त्रः—
विधिरुद्राय मुदिर स्वाहा183।
महाविश्वादिमन्त्रः—
ओं नमः शिवाय घ्रांनमः शालिपिष्टप्रकृतिं प्रतिगृह्ण इमं बलिं महापशुपतये नितम्बलिरूपिणि स्वाहा।
सर्वविघ्नप्रशमनमन्त्रः—
ओं हरि ठम्।
इति निधिप्रदीपे तृतीयः परिच्छेदः॥
—————
अथ चतुर्थः परिच्छेदः।
अथ वक्ष्यामि विप्रेन्द्रा निधिसङ्ग्रहणं परम्।
सहायसंयुतः शान्त आचार्यो मन्त्रवित्तमः॥ १॥
निधिस्थानविधानज्ञस्तलक्षणविचक्षणः।
परीक्षा बहुधा तत्र स्थावरं जङ्गमं ततः॥ २॥
खन्यलक्षणभेदज्ञो देवतामन्त्रसंयुतः।
देशकालविधानज्ञस्तमाचार्यं प्रचक्षते॥ ३॥
यथोक्तदिवसं स्नात्वा विधिवद्यजनं ततः।
वराहरूपिणं देवं यजेद् भूमिसमन्वितम्॥ ४॥
तमाश्रयं यजेत् पश्चात् बलिं दत्त्वा सुमन्त्रवित्।
उत्थाय प्रणिपत्याथ सिद्धिं विज्ञापयेद् बुधः॥ ५॥
ततोपकरणोपेतः सहायैः सह गच्छतु।
पन्नगादिविरोधानां शमनं पदलेपयेत्॥ ६॥
सुदर्शननृसिंहञ्च रक्षबन्धं शिखातले।
अर्कस्य करवीरस्य पनसस्य च मूलिका॥ ७॥
एतत्पादप्रलेपेन सर्वे नश्यन्ति पन्नगाः।
मल्लिका गिरिकर्णी च जाग्रपर्णी वचा तथा॥ ८॥
श्वेतार्कमूलिकाव्योषं पादलेपेन पन्नगाः।
यक्षरक्षोरगाः क्रूरा ये चान्ये विघ्नकारिणः॥ ९॥
पलायन्ते पलाशेशमन्त्रयुक्तप्रलेपतः।
चित्रकं जातिनीमूलं श्वेतार्कं गिरिकर्णिका॥ १०॥
तदद्भिः सिन्दुवारश्च वचापीठासमन्विता।
बककेसरबीजानि वज्रमूलसमाश्रितः॥ ११॥
एष नाराचको योगः सर्वविघ्नविनाशकृत्।
अनेन पादलेपेन विषमध्यगतं धनम्॥ १२॥
कूश्माण्डैरण्डबीजानि बीजानि पनसस्य च।
जातिडाडिममूलानि समभागानि कारयेत्॥१३॥
पाठा गोमूत्रपिष्टा184 च दर्शयत्यङ्घ्रिलेपिता।
गृह्यते नात्र सन्देहो धूर्जटीभाषितः स्वयम्॥ १४॥
अगस्त्येन विना गृह्यनार्भकोऽपि185 मन्त्रवित्।
नासौ निधिमवाप्नोति सिद्धमन्त्रो विनिश्चितम्॥ १५॥
निधिसंस्थानमासाद्य रक्षाकर्म समाचरेत्।
सप्ताङ्गुलपरीणाहैश्चतुरश्रैः समन्ततः॥ १६॥
खादिरैरष्टभिः कीलं स्थापयेन्मन्त्रसंयुतम्।
ऐन्द्रादीशानपर्यन्तं तत्तन्मन्त्रसमन्वितम्॥१७॥
अर्चयेद् गन्धपुष्पाद्यैर्गोचर्मं वेष्टयेत् ततः।
दध्योदनञ्च मांसञ्च रोचनापुष्पसर्षपाः॥ १८॥
गोधूमाश्च निधेत्यादि दापयेद् बलिकर्मणि।
प्रथमं निधिपालस्य बलिं दत्त्वा ततः परम्॥ १९॥
भृरिसूतपदातव्यमग्नेन्द्रातं तमाचरेत्(?)।
वाहनायुधसंयुक्ताः सहायैः सह गच्छतु॥२०॥
वाहनायुधसंयुक्ता रक्षेत्यक्त्वा दिगेश्वरान्।
ततः पाद्यार्ध्यापूर्वाभिर्गन्धपुष्पादिभिस्ततः॥ २१॥
कुमुदः कुमुदाक्षश्च पुण्डरीकश्च वामनः।
शङ्कुकर्णः सर्वनेत्रः सुमुखः सुप्रतिष्ठितः॥ २२॥
चतुर्भुजा महाकायाः सर्वायुधधरोद्यमः।
भीमाक्षा भीमविक्रान्ता रक्षाकर्मविचारणाः॥ २३॥
पायसं गुलमध्वाज्यनालिकेरफलान्वितम्।
कदलीफलसंयुक्तं बलिं दत्त्वा विचक्षणः॥ २४॥
पूर्वादीशानपर्यन्तं तन्मन्त्रेण नियोजयेत्।
तदन्तः परमं ब्रह्म सुदर्शननृकेसरी॥ २५॥
चक्रमध्यस्थमीशानं सृष्टिस्थित्यन्तकारणम्।
सर्वरक्षाकरं ह्येतद् भावयेन्मन्त्रवित्तमः॥ २६॥
उग्रं भीमाट्टहासं जननयनमहाभीतिहृद्घोरदंष्ट्रं
निर्दग्धाशेषदुष्टग्रहमखिलजगद्व्याप्तकालाग्निवर्णम्।
दोर्भिश्चक्रासिशार्ङ्गाङ्कुशमुसलगदाशङ्खपाशायुधाद्यै-
रष्टाभिर्विक्रमाङ्गैस्त्रिभुवनमखिलं मासयन्तं महान्तम्॥२७॥
एवं ध्यात्वा जपेन्मन्त्रं सुदर्शननृकेसरी।
तालपत्रे लिखेन्मन्त्रं साध्यपादसमन्वितम्॥ २८॥
अष्टोत्तरशतं चैव जपेदष्टाक्षरं भवेत्।
अङ्गावरणमारभ्य दिग्बन्धाय तथैव च॥ २९॥
चक्रमुद्रां ततः कुर्यात् सूर्यसोमाग्निमण्डलम्।
आत्मरक्षां ततः कृत्वा सहायानां च लक्षणम्॥ ३०॥
निधिरक्षाविधिं वक्ष्ये समाहितमनाः शृणु।
अग्निवैश्रवणो नाम धनाध्यक्षो महेश्वरः॥ ३१॥
निधिरक्षाभ्यनुज्ञाता तस्य वैश्रवणस्तथा।
यक्षभूतपिशाचाश्च नागा वा राक्षसस्तथा॥ ३२॥
व्याघ्रसिंहगजा गृध्राः पक्षिणश्च महाबलाः।
प्रेताश्च विविधाश्चैव नानारूपा बलान्विताः॥ ३३॥
मातृकाश्चैव रक्षन्ति डाकिन्यश्चैवमादयः।
तेषां बलिविधानं च ज्ञातव्यं च पृथक् पृथक्॥ ३४॥
वटवृक्ष चेष्वप्ये कलिङ्गे गुहासु च (?)।
डाकिन्यस्तत्र रक्षन्ति मातॄणां शासनेन तु॥ ३५॥
वटवृक्षसमीपे च तथारामे महालये।
गोपुरेषु च रक्षन्ति भूतनित्यो धृतायुधाः॥ ३६॥
एतेषु चैव भागेषु समशाखे द्रुमेषु च।
पिशाचास्तत्र रक्षन्ति स्थानेष्वायतनेषु च॥ ३७॥
शून्यग्रामे तु वल्मीके नागो रक्षति तत्र तु।
तथा हालाहलस्थाने चोग्रभीमे नदीतटे॥ ३८॥
सिंहव्याघ्रगजा गृध्राः पक्षिणश्च महाबलाः।
वृक्षाग्रे कोटरे चैव श्मशानान्ते तथैव च॥ ३९॥
गृध्रास्तु पक्षिणस्तत्र नियुक्ता रक्षणे चिरम्।
चतुष्पथे तु ग्रामान्तेष्वनुक्तेषु तथैव च॥ ४०॥
सर्वे रक्षन्ति सहितास्तत्तत् सर्वं बलिं हरेत्।
अथ सम्यक् परीक्षां तु कृत्वा तद्रक्षणं बुधः॥ ४१॥
तेषां पृथक् पृथक् सम्यक् बलिकर्म नियोजयेत्।
सर्ववन्यानि पुष्पाणि सर्वधूपोदयानि च॥ ४२॥
मांसं पक्कं तथैवामं तिला लाजा बलिः स्मृतः।
पायसोदकमिश्रं तु पिष्टासं तिलपिष्टकम्॥ ४३॥
(जालवा ? लाजं वा) मधुसंमिश्रं यक्षाणां बलिरिष्यते।
माषमुद्गौदनं चापि तिलपिष्टयुतं दधि॥ ४४॥
लाजं रुधिरसम्मिश्रं (पैलाशं ? पैशाचो) बलिरिष्यते।
पायसं च गुलान्नं च तथा त्रिमधुरं पुनः॥ ४५॥
नागपुष्पं च लाजं च नागानां बलिरिष्यते।
ग(ण ?ज) केसरपुष्पाणि हस्तिनां मद्यमेव च॥ ४६॥
हस्तिचर्म च मांसं च मेदं चे + न्वितं बुधः।
मांसौदनं च दातव्यं गृध्रादीनां बलिर्विधिः॥ ४७॥
प्रेतस्य चोदकं दत्त्वा एकलिङ्गे जलाञ्जलम्।
तिलमिश्रं तु संगृह्य तथा दृष्टपितान्वितः (?)॥ ४८॥
सर्वमन्त्रसमायुक्तं बलिं दत्त्वा तु बुद्धिमान्।
नानाविरोधसंप्राप्तौ बलिं दत्त्वा विचक्षणः॥ ४९॥
अङ्गारकं तुषं चैव दृश्यते यत्र कुत्रचित्।
पक्वान्नं व्यञ्जनैर्युक्तं बलिमन्त्रैस्तु शाम्यति॥ ५०॥
पैशाचं राक्षसं क्रूरं विषं चैव तु दृश्यते।
मत्स्यमांसबलिं दत्त्वा दमेनैव प्रशाम्यति॥ ५१॥
स्थलोदकं महावृष्टिः शिलावृष्टिस्तथैव च।
त्रिमधुञ्चैव पक्वान्नं बलिं पाशेन शाम्यति॥ ५२॥
उ (षा ? षः) कालं नरं दृष्ट्वा दध्योदनबलिं क्षिपेत्।
सौम्येनैव प्रशाम्यन्ति नात्र कार्या विचारणा॥ ५३॥
उष्णज्वरप्रवेशञ्च पित्तक्षोभं तथैव च।
हविराज्यं बलिं दद्यात् हव्यवाहेन शाम्यति॥ ५४॥
कीटं पिपीलिका चैव मण्डूकं मूषिकोद्भवम्।
पक्कमांसबलिं दद्यान्नैर्ऋतेनैव शाम्यति॥ ५५॥
वह्निज्वालाञ्च वेतालमहाभूतं तथैव च।
पिष्टोदकं हविर्दद्याद् वासुदेवेन शाम्यति॥ ५६॥
सिंहव्याघ्रगजञ्चैव तुरङ्गं महिषं तथा।
पक्कापक्कञ्च मांसञ्च बलिं रुद्रेण शाम्यति॥ ५७॥
विद्याधरं दानवञ्च कुमारञ्च स्त्रियं तथा।
शाणाग्रहञ्च नक्षत्रमुग्ररूपं तथैव च॥ ५८॥
पायसञ्च बलिं दद्याद्धरिदेवैः प्रशाम्यति।
ततः संमाहितो भूत्वा निधिमुद्धर्तुमाहरेत्॥ ५९॥
अथोपकरणं वित्तं निधिकर्मणि सम्मतम्।
नाराचा मुद्गलः कीलं कुद्दालंकुरुलोद्धृताः॥ ६०॥
अभिमन्त्र्य महामन्त्रं सुदर्शननृकेसरी।
प्रवीरो वीरशूरश्च सहायाश्चरतादृशाः॥ ६१॥
एवं हस्तगतं द्रव्यं तावत् कर्म समाचरेत्।
स्थानं संशयकाले वा अञ्जनं नेत्रयोर्लिखेत्॥ ६२॥
अश्वपत्रं सप्ततन्तु नेत्रयोश्च पृथक् पृथक्।
दुकूलैर्वेष्टयेत् पश्चात् कृष्णवर्णैस्त्रिभिस्तथा॥ ६३॥
यत्र संशयभूमिश्च वीक्ष्य तत्र धनं लभेत्।
शौचं कृत्वा चतुर्भागं गुरोरेकं निवेदयेत्॥ ६४॥
शेषं वित्तं विभज्याथ सहायानां ददौ गुरुः।
अवश्यं गोपयेत् पश्चादग्निष्टोमादिकान् यजेत्॥ ६५॥
यज्ञार्थमर्थसापेक्षा ऋषयो धर्मतत्पराः।
निधिसंग्रहणं सर्वं मया प्रोक्तं यथाक्रमम्॥ ६६॥
सर्वसम्पत्करंश्रेष्ठ सर्वदारिद्र्यनाशनम्।
सर्वसौख्यमिदं शास्त्रं शबरेणैव भाषितम्॥ ६७॥
इति शबरभाषिते मालिनीशास्त्रे निधिप्रदीपे
चतुर्थः परिच्छेदः॥
शुभं भूयात्।
———————
]
-
“निधिप्रदीपे पार्श्वं ३२. श्लो० १३०, १३१.” ↩︎
-
“निधिप्रदीपे पार्श्वं३१.श्लो०१२१,१२२.” ↩︎
-
“निधिप्रदीपे पार्श्वं२९.श्लो०१०८,१०३.” ↩︎
-
“१. ‘श्च मया कृतः सर्वार्थसिद्धये। सलक्षं सा’ ख. पाठः " ↩︎
-
“२.‘तु सङ्ग्राह्यमा’ ग. पाठः.” ↩︎
-
“३. ‘द्धशब्दरतं नृप॥’ क. पाठः " ↩︎
-
“४. ‘नि तावद्वाक्यपदैर्बुधः॥’, " ↩︎
-
“५. ‘यज्ञकामान् यथेप्सितान्।’, " ↩︎
-
“६. ‘कृपालय म’ ग. पाठः.” ↩︎
-
“१. ’ शपारगाः।, " ↩︎
-
“२. ‘ब्धिप्रणाशनम्।’ ग. पठः " ↩︎
-
“३. ‘स्थानेषु च निधिस्थानं दारिद्र्यात्प्रतिमुच्यते। क. पाठः, " ↩︎
-
“४ ‘महापा’, " ↩︎
-
“५. ‘निषण्णानां’,” ↩︎
-
“६, ‘म्। स्थानानि च निधानानि निर्णयश्च यथाक्रमम्। प’ ग. पाठः.” ↩︎
-
“७. ‘शत्रुस’, " ↩︎
-
“८. ‘ब्दफलं तथा।’ क. पाठः” ↩︎
-
“९. रमायुग्मवि’ ग. पाठः " ↩︎
-
“१०. ‘णं च तथा वदेत् । क. पाठः” ↩︎
-
“१. ‘ऋषिस’, " ↩︎
-
“२. ‘दं च एतच्छबर’, " ↩︎
-
“३. ‘कुलीना विभवान्विताः।’,” ↩︎
-
“४. ‘ये’,” ↩︎
-
“५. ‘त्व’,” ↩︎
-
“६. ‘समोदनं द’, " ↩︎
-
“७. ‘मेघशब्दभाः॥ स्व’ ग. पाठः,” ↩︎
-
“१. ‘जोऽनङ्वांश्च चामर’ क. पाठः " ↩︎
-
“२. ‘ने’, " ↩︎
-
“३. ‘शुक्लगुञ्जी च’, " ↩︎
-
“४. ‘दा’, " ↩︎
-
“५. ‘ला’ ग. पाठः " ↩︎
-
“६. ‘जा’,” ↩︎
-
“७. ‘म्भधरा ना’, " ↩︎
-
“८. ‘त्रा सहभ’, " ↩︎
-
“९. ‘सुहृद्दर्श’, " ↩︎
-
“१०. ’ द्वाग्निरुरुहः’, " ↩︎
-
“११. ‘सौम्ये नि’, " ↩︎
-
“१२. धारण संज्ञितम्’ क. पाठः, " ↩︎
-
“१३. ‘द्धिकृन्मता’ ग. पाठः.” ↩︎
-
“१. ‘दित्यशनैश्चराः’, " ↩︎
-
“२. ’ वित्। मा’ ग. पाठः " ↩︎
-
“३. ’ र्षपुरश्चन्द्रः प्र’ क. पाठः. " ↩︎
-
“४. ‘शुभानूर्णनिहस्ता च मुरार्जनरसैन्धवम्। नि’ ग. पाठः. " ↩︎
-
“५. ‘रकालो वायुना तथा। गुणवस्तु वयो ज्ञेय अजपञ्चश’ क. पाठः,” ↩︎
-
“१. ‘स्तु सहो ज्ञे’, " ↩︎
-
“२. ‘द्वादशस्तथा’ " ↩︎
-
“४. ‘शालां वाजिशालां म’ ग. पाठः” ↩︎
-
“१. ‘सिद्धिपु’,” ↩︎
-
“२. ‘कारे गो’, " ↩︎
-
“३. ‘गुह्यके’, " ↩︎
-
“४. ‘निधिस्था’, " ↩︎
-
“५. ‘‘मेयस्य च’, " ↩︎
-
“६ ‘भविष्या स्या’” ↩︎
-
“७ ‘दुष्कृत्यस’, " ↩︎
-
“८. ‘हं निधानं भोगोऽयं स्वयं वै’ ग. पाठः.” ↩︎
-
“१. ‘लताङ्कु’,” ↩︎
-
“२. ‘शदति वा पृष्टौ प’ ग. पाठः.” ↩︎
-
“१. ‘टिवित्तं वि’,” ↩︎
-
“२. ‘शौनकाश्च बकाङ्घ्रीका अ’, " ↩︎
-
“३. ‘ते सदा ॥’ " ↩︎
-
“४. ‘ने’, " ↩︎
-
“५ म्रा’ " ↩︎
-
“६ ‘ष्ण’ ग. पाठः” ↩︎
-
“१. ‘यं नात्र संशयः॥’, " ↩︎
-
“२. ‘प्रभूतं य’, " ↩︎
-
“३. ‘प्रदरो दृ’, " ↩︎
-
“४. ‘देत् ॥’, " ↩︎
-
“५. ‘क्षीरिणा भूत्वा स’ ग. पाठः” ↩︎
-
“६. ‘धः।जीर्णोद्यान’ क. ग. पाठः.” ↩︎
-
“१. ‘वदेत्’, " ↩︎
-
“षु” ↩︎
-
“३ ’ शरद्धेमन्तवर्षासुस’ ग. पाठः,” ↩︎
-
“१. ‘च्छि’ " ↩︎
-
“२. ‘सेवते य’ " ↩︎
-
“३ ‘ग्रहगह्वरगेहे वा’ ग. पाठः.” ↩︎
-
“‘त्तिर्यगायत्रिज’,” ↩︎
-
“‘र्ज’” ↩︎
-
“‘दृश्येत’ ग. पाठः.” ↩︎
-
“१. ‘मं’ क. ग. पाठः. " ↩︎
-
“२. ‘मायां तु नि’, " ↩︎
-
“३. ‘हि’, " ↩︎
-
“४. ‘शैलद दृश्यते।’ ग. पाठः " ↩︎
-
“५. ‘षु’,” ↩︎
-
“६. ‘वी’ क. ग. पाठः " ↩︎
-
“७. ‘तत्र चेत्। स्थितं वि’ ग. पाठः " ↩︎
-
“८. ‘णि’ क. पाठः " ↩︎
-
“९ ‘ता ततः’ ग. पाठः” ↩︎
-
“१. ‘त्त’, " ↩︎
-
“२. ‘लं कमरक्ताष्टाम’, " ↩︎
-
“३ ‘स’ " ↩︎
-
“४ ‘रैः करजस’, " ↩︎
-
“५. ‘सु’, " ↩︎
-
“६. ‘ते’ ग. पाठः,” ↩︎
-
" ‘ताम्’, " ↩︎
-
" ‘ल’, " ↩︎
-
" ‘जाः’,” ↩︎
-
“४. ‘दि’,” ↩︎
-
“५. ’ मा वापि नि’,” ↩︎
-
" ‘क्तंप्रणाशं च’,” ↩︎
-
“७. ‘वा’ ग. पाठः.” ↩︎
-
“१. ‘ट्टिशं वा क. पाठः " ↩︎
-
“२. ‘तदुरो, " ↩︎
-
“३. ‘स्य’, " ↩︎
-
“४. ‘यां’,” ↩︎
-
“५. वेद्यानि त’ ग. पाठः " ↩︎
-
“६. ‘यः स्वापत्तौ शतं वित्तं विघ्नंयस्या शत’, " ↩︎
-
“७. ‘त’ ग. पाठः. " ↩︎
-
“८. ‘जङ्घाया चाथ जङ्घिका। क. पाठः " ↩︎
-
“९.जङ्घापद्ये न’, " ↩︎
-
“१०,’ पि’ ग. पाठः,” ↩︎
-
“११. ‘पि’ ग. पाठः.” ↩︎
-
“१. ‘दि’ ग. पाठः,” ↩︎
-
“१. ‘सि’, " ↩︎
-
“२. ‘तान् हन्ति’, " ↩︎
-
“३. ‘णम्॥’ ग. पाठः. " ↩︎
-
“४. ‘संस्थिताः।’ क. पाठः " ↩︎
-
“५. ‘तु’, " ↩︎
-
“६. ‘तत् तत्र द’ ग. पाठः.” ↩︎
-
“* इत परं लोकत्रयं ग-पुस्तके न दृश्यते।” ↩︎
-
“१. ‘बिसकामुकुलेन वा’,” ↩︎
-
“२. ‘भ’, " ↩︎
-
“३. धवलस्य’ ग. पाठः.” ↩︎
-
“१. “ गुण्ड्याश्च“” ↩︎
-
“२. ‘त्तं विनिर्दिशेत्॥’” ↩︎
-
“३ ‘ख’ ग. पाठः” ↩︎
-
“१. ‘न्त्रयुक्तं’, क. पाठः " ↩︎
-
“२. ‘पेद्धोमं’, " ↩︎
-
“३. ‘सहस्रं तु वि’.” ↩︎
-
“४. ‘संमिश्रैस्त’, " ↩︎
-
“५. ‘तः’,” ↩︎
-
“६. ‘ल’,” ↩︎
-
“७ ’ प्तगन्धकमासी’ ग. पाठः.” ↩︎
-
“८. ‘हस्तादादाय पट्टा तु कककारा’ क. ख. पाठः. " ↩︎
-
“९. ‘षु हृल्लेपिका पट्टे र’, " ↩︎
-
“१०. ‘दृ’ ग. पाठः” ↩︎
-
“१. ‘कृष्ण श्येनाधिवा पट्टो लेपते यदि’, " ↩︎
-
“२. ‘वल्कलम्’ ग. पाठः.” ↩︎
-
“३. ‘बह्वापट्टंप्र’, क. पाठः” ↩︎
-
“४. ‘नतिनं ग्रीशम’,” ↩︎
-
“५. ‘जातयासुब’ क. पाठः, " ↩︎
-
“६ ‘र्तिः केतकीतै’ ग. पाठः” ↩︎
-
“१ ‘वावसनाकु’ क. पाठः.” ↩︎
-
“२.‘सत्वगस्य वसा पुच्छे’,” ↩︎
-
“३. ‘दी’ ग. पाठः.” ↩︎
-
“४. ‘धु’क. ख. पाठः” ↩︎
-
“५. ‘दशोद्भ’,” ↩︎
-
“६. ‘मू’,” ↩︎
-
“७. ‘न्द’,” ↩︎
-
“८. ‘ब’ ग. पाठः.” ↩︎
-
“१. ‘कारैर्महतः कु’,” ↩︎
-
“२. ‘न्धानां चूर्णैश्चैत्यसमूलकैः’,” ↩︎
-
“३. ‘त्।स भूनागस्य च वसा विवान्ता बोधवर्तिं’ ग. पाठः,” ↩︎
-
“१. ‘धनम’ ग. पाठः. " ↩︎
-
“२. ‘ङ्गा’, " ↩︎
-
“३. ‘ताम्रा स्या’,” ↩︎
-
“४. ता तथा सुप्तवर्तिनां पतने स्थितम्’ क. पाठः” ↩︎
-
“१,‘सर्वाञ्ज’ क. ख. पाठः” ↩︎
-
“२. ‘सर्वाञ्ज’ क. ख. पाठः” ↩︎
-
“३. ‘दस्य वा’ ख. पाठः " ↩︎
-
“’ इतः परं श्लोकद्वयं’ ग-पुस्तके न दृश्यते।” ↩︎
-
“४.‘णामं च’ क. पाठः” ↩︎
-
“५. ‘हरितालं वा’,” ↩︎
-
“६ ‘ध’ ग. पाठः” ↩︎
-
“१. ‘द्यां दन्तोरोलो’, " ↩︎
-
“२. ‘पठेत्’,” ↩︎
-
“३. ‘पायं मधुना सह’ ग. पाठः” ↩︎
-
“* ‘इतः परं खर्वाटालूक’ इत्यवधिकोंऽशः ग-मातृकायां न दृश्यते।” ↩︎
-
“१. ‘खर्वाटा’, " ↩︎
-
“२. ‘वाराध्य’ ख. पाठः.” ↩︎
-
“१. ‘चेत्थं वारिवालस्य’, " ↩︎
-
“२. ‘सुरौलकम्’,” ↩︎
-
“३. ‘रोचना वज्रकं शशि उ’,” ↩︎
-
“४. ‘पञ्चकं क्षौद्रमन्यं स’ क. पाठः” ↩︎
-
“१. ‘त’,” ↩︎
-
“२. ‘द’ ग. पाठः” ↩︎
-
“१. ‘ह्णठम्।’ ग. पाठः” ↩︎
-
“१, ‘‘ह्ण ठम्।’’” ↩︎
-
“२. ‘ह्ण ठम् ।’,” ↩︎
-
“३, ‘ठम्।’ ग. पाठः,” ↩︎
-
“४. ‘ठम् ।’ ग. पाठः” ↩︎
-
“५. तुषाभिवि’ क. पाठः” ↩︎
-
“१.‘ठम् ।’ ग. पाठः” ↩︎
-
“२. ‘ठम् ।’ ग. पाठः” ↩︎
-
“१. ‘विष्ठा च’ ग. पाठः” ↩︎
-
“२. ‘टि’ क. पाठः” ↩︎