षट्पंचाशिका

[[षट्पंचाशिका Source: EB]]

[

॥श्रीगणेशायनमः॥ केशाजार्कनिशाकरान् क्षितिजविज्जीवास्फुजित्सूर्यजान्विघ्नेशंस्वगुरुंप्रणम्यशिरसा देवींचवागीश्वरीम् ॥ प्रश्नज्ञानव-तोवराहमिहिरापत्यस्यसद्वस्तुनोलोकानांहितकाम्ययाद्विजवरष्टीकांकरोत्यू त्पलः ॥१॥ कानीहशास्त्रेसंबंधाभिधेयप्रयोजनानि भवंतीत्युच्यते आब्रह्मादिविनिश्चितमिदंवेदांगमिति सं बंधः ॥ लग्नहोराद्रेष्काणनवांशकादिनाग्रहसंस्थानदर्शनेनचगमागमजयपराजय-लाभालाभहृतनष्टादिपरि ज्ञानमभिधेयम्॥ सत्पात्रेशुभाशुभकथनादिहलोकपरलोकसिद्धिरितिप्रयोजनं ॥ किमेभिरुक्तैरित्युच्यते ॥ सि द्धिःश्रोतृप्रवृत्तीनांसंबंधकथनाद्यतः ॥ तस्मात्सर्वेषुशास्त्रेषुसंबंधःपूर्वमुच्यते ॥ सर्वस्यैवहिशास्त्रस्यकर्मणोवापिकस्यचित्॥ यावत्प्रयोजनं-नोक्तंतावत्केननगृह्यते ॥ कस्यास्मिन्शास्त्रेऽधिकारः॥उच्यते ॥ द्विजस्यैव यतस्तेन षड्गोवेदोऽध्येतव्योज्ञातव्यश्चेति कान्यंगानीत्युच्यते शिक्षाकल्पोव्याकरणंनिरुक्तंज्योतिषांगतिः ॥ छंदसांल क्षणंचैव षडंगोवेदउच्यते इति ॥ सतामयमाचारोयच्छास्त्रस्यांरेभेष्वभिम-तेदवतानमस्कारंकुर्वेति तदायमपि आवंतिकाचार्योद्विजोवराहमिहिरात्मजःपृथुयशाः संक्षिप्तांप्रश्नविद्यां स्वसूत्रैः कर्तुकामः आदावेवभगवतः श्रीसूर्यस्यनमस्कारंस्वनामाख्यापनंचप्राह प्रणिपत्येति वराहमिहिराख्यस्याचार्यस्य आत्मजेनपुत्रेणपृथुय

शसापृथुयशाइत्यभिधानंयस्यतेनरविंसूर्यंमूर्ध्नाशिरसाप्रणिपत्यनमस्कृत्यप्राश्नेप्रश्नविषये इयंप्रश्नविद्याकृतारचिता कीदृशीअर्थगहना अर्थोभिधेयंगहनोगुह्योयस्याःसाअर्थगहना किमर्थम् परार्थमुद्दिश्य परेषांलो कानांअर्थः प्रयोजनम् परार्थंउद्दिश्याऽनुसंधाय कीदृशेन पृथुयशसा सद्यशसा सत्शोभनं यशःकीर्तिर्यस्य

प्रणिपत्यरविंमूर्ध्नावराहमिहिरात्मजेनपृथुयशसा ॥
प्राश्नेकृतार्थगहनापरार्थमुद्दिश्यसद्यशसा ॥ १ ॥
च्युतिर्विलग्नाद्धिबुकाच्चवृद्धिर्मध्यात्प्रवासोस्तमयान्निवृत्तिः ॥

तथाभूतेनविद्याशौर्यादिगुणयुक्तेनेत्यर्थः ॥ १ ॥ अधुनालग्नचतुर्थसप्तमदशमानांचतुर्णांस्थानानांविचारप्रविभागमाह च्युतिर्विलग्नेति च्युतिःच्यवनंस्थानपरिभ्रंशः विलग्नात्तात्कालिकात्पृच्छालग्नात् च्युतिर्ज्ञेया प्रष्टापृच्छति अमुकस्थानान्मेच्युतिर्भविष्यतिवानेत्येतत्-विलग्नात् ज्ञेयम् एवंहिबुकाच्चतुर्थस्थानात् गृहसुहृ

त्सुखानांवृद्धिर्ज्ञेया मध्यंदशमस्थानंतस्मात् प्रवासाज्ञेयः प्रवसनंप्रवासः अन्यदेशगमनं अस्तमयात्सप्तम स्थानान्निवृत्तिः प्रवासान्निवर्तनम् कथमेवमुच्यते चरस्थिरद्विस्वभात्मकत्वेन यतउक्तम् प्रश्नविलग्नका लात्प्रश्नः पृच्छा प्रश्नेविलग्नंप्रश्नविलग्नं तस्यकालः समयस्तस्मात् तेनचरराशौलग्नगतेस्वामिनायुते दृष्टे वाशुभग्रहाणामन्यतमेनवायुतेदृष्टेपरिशिष्टग्रहसंयोगसंदर्शनरहितेच्युतिर्भवति अन्यथानभवत्येव यतउ क्तं वाच्यंग्रहैः कारणभूतैः सर्वमेवैतत् वाच्यंवक्तव्यं एवंस्थिरराशौपापग्रहदर्शनयोगरहितेपिनभवत्येव यतो वक्ष्यति । वृषसिंहवृश्चिकघटैर्विद्धिस्थानंगमागमौनस्तइति। तथा द्विस्वभावेभवतिवानवास्वामिशुभग्रहद र्शनाधिक्यात्पापानामल्पत्वाच्चभवति अन्यथानभवत्येव एवंचतुर्थस्थानस्य सामान्यतयैवशुभग्रहस्वामि दर्शनयोगात्ग्रहादीनांवृद्धिः अन्यथापचयः अथोप्रवासः दशमस्थानस्यचरराश्यात्मकत्वात् पापग्रहदर्शनयोगात्प्रवासः अन्यथास्वामिशुभग्रहदर्शनयोगाच्चनप्रवासः सप्तमस्थानस्यचरराश्यात्म-कत्वात् पापग्रहदर्शनान्नप्रवासान्निवृत्तिः अन्यथास्वामिसौम्यग्रहदर्शनयोगाच्चनिवृत्तिः गृहंप्रविष्टोहिबुकेप्रवासी हिबुकेचतुर्थस्थानेप्रवासी-विदेशस्थोनरोगृहंवेश्मप्रविष्टोनवेतिवक्तव्यं चतुर्थस्थानेस्वस्वामिदृष्टेयुक्तेवागृ

हंप्रविष्टोन्यथानप्रविष्टइति हिबुकेगृहंप्रविष्टंगृहप्रविष्टप्रवासिनंविद्धि हिबुकास्तमयांतरगेग्रहेचपथिवर्त्ततेपुरुषइति तस्यप्रविष्टस्यग्रहस्ययावं

तिदिनानिव्यतीतानितावंत्येवगृहंप्रविष्टस्यप्रवासिनोगतानि अथवायावद्भिर्दिनैः स ग्रहः चतुर्थस्थाने यास्यति तावद्भिरेवप्रवासीगृहंप्र-विशतीति एतद्दूरगतस्यागम नंचेत् अस्मिन्वक्ष्यमाणेयोगेसतिवक्तव्यम् नान्यथेति एतच्चपुरस्ताद्विस्तरेणाभिधीयतइति ॥ २ ॥

वाच्यंग्रहैःप्रश्नविलग्नकालात् गृहंप्रविष्टोहिबुकेप्रवासी ॥ २ ॥

योयोभावः स्वामिदृष्टोयुतोवासौम्यैर्वास्यात्तस्यतस्यास्तिवृद्विः ॥

अधुनातन्वादीनांद्वादशभावानांशुभाशुभज्ञानमाह योयोभावइति तनुधनसहजसुहृत्सुतरिपुजायामृत्यु धर्मकर्मायव्ययाइति लग्नात्द्वादशभा-वाउक्ताः तथाकुजशुक्रज्ञेंद्वर्कज्ञशुक्रकुजजीवसौरियमगुरवः इतिरा श्यधिपाउक्ताः नवांशकानामजमकरतुलाकुलीराद्याः तथाक्षीणें-द्वर्कयमाराः पापास्तैः संयुतः सौम्य इतिग्रहाणांपापसौम्यत्वमुक्तम् तथा दशमतृतीयेनवपंचमेचतुर्थाष्टमेकलत्रंच पश्यंतिपादेवृद्ध्याफलानि

चैवंप्रयच्छंति सर्वमेतत्दृष्टिफलमुक्तंतेनपृच्छासमयेयः कश्चिद्भावस्तन्वादिकः स्वामिनात्मीयनाथेनदृष्टोऽवलोकितः तस्यभावस्यवृ-द्धिरुपचयोस्तिविद्यते अथवातेनैवस्वामिनायुतः संयुक्तः तस्यापिवृद्धिरस्ति सौम्यैर्वास्यात् सौम्यग्रहाणां बुधगुरुशुक्रपूर्णचं-द्राणांअन्यतमेनवायुतोदृष्टोवाभावः स्यात्भवेत् तस्यापि वृद्धिरस्तिवर्द्धनंवक्तव्यं पापैरेवमिति एवमनेनप्रकारेणपापैः पापग्रहैर-पिरविक्रूरयुतबुधभौम सौरिक्षीणचं

पापैरेवंतस्यभावस्य हानिर्निर्देष्टव्यापृच्छतांजन्मतोवा ॥ ३ ॥

द्राणामन्यतमेनयोयोभावोयुक्तोदृष्टोवा तस्यभावस्यहानिरपचयोनिर्देष्टव्यावक्तव्या कस्मादितितदेवाह पृच्छतां जन्मतोवेति पृच्छतां- पृच्छासमये नराणांजन्मतोवाजायमानानां तथाचोक्तंजातके पुष्णंतिशु भाभावांस्तन्वादीन्घ्नंतिसंस्थिताःपापाः सौम्याःषष्ठेरिघ्नाः-सर्वेनेष्टाव्ययाष्टमगाःइति जन्मन्याधानका लेप्रश्नकालेवेति ॥ ३ ॥

अधुनाप्रश्नसमयेलाभादौशुभाशुभज्ञानमाह सौम्यइति सौम्यानांशुभानांग्रहाणांबुधगुरुशुक्रपूर्णचंद्राणा . मन्यतमेविलग्नेस्थितेयदिवास्य-सौम्यग्रहस्यवर्गेतत्कालंविलग्नेप्राप्तेगृहहोराद्रेष्काणनवमभागद्वादशांशकत्रिंशांशाः वर्गः प्रत्येतव्योग्रहस्ययो-यस्यविनिर्दिष्टइतिवर्गलक्ष-णमुक्तम् अथशीर्षोदयेपृच्छालग्ने मेषाद्याश्चत्वारःसधन्विमकराः क्षपाबलाज्ञेयाः पृष्ठोदयाविमिथुनाः शिरसान्येद्युभयतोमीनः इतिराशि-पृष्ठोदयत्वंशी र्षोदयत्वंचोक्तं एतेषामन्यतमेयदिविलग्नेपृच्छतोभवतितत्कार्यंसिद्धिंसाध्यतामुपैतिगच्छति अतोविपर्यस्त

सौम्येविलग्नेयदिवास्यवर्गेशीर्षोदयेसिद्धिमुपैतिकार्यम् ॥

मितिअतोस्मात्पूर्वोक्ताद्विपर्यस्तंविपरीतमस्ति असिद्धिहेनुरसाध्यतायाःकारणम् एतदुक्तंभवति पापग्रहेण विलग्नस्थेनपापवर्गेवावि-लग्नगतेपृष्ठोदयेवालग्नगते प्रष्टुःकार्यंनसिद्ध्यति कृच्छ्रेणसंसिद्धिकरंविमिश्रं तत्पूर्वोक्तंविमिश्रितंसंकीर्णंयदिभवेत्तदाप्रष्टुःकृच्छ्रेणक्ले-शेनसंसिद्धिकरं- कार्यसाधकंभवति एतदुक्तंभवतिपा पसौम्योद्वावपिलग्नस्थौभवतः पापसौम्यौवर्गस्थौवाउभयोदयोमीनोवाशीर्षोदयः पापयुक्तः पापवर्ग

स्थोवापृष्ठोदयः सौम्ययुक्तः सौम्यवर्गस्थोवाउभयोदयोवा तदाक्लेशेनसिद्धिकृद्भवति तत्रचबलाधिक्यान्नि श्चयइति ॥ ४ ॥ अधुनानष्टलाभज्ञानमाह होरास्थितइति शशांकश्चंद्रःपूर्णतनुः परिपूर्णमंडलः दशमीमारभ्यकृष्णपंचमीयावत् पूर्णतनुर्भवति तथाचय-वनेश्वरः मासेचशुक्लप्रतिपत्प्रवृत्तेःपूर्ण.शशीमध्यबलोद शाहे श्रेष्ठोद्वितीयेल्पबलस्तृतीयेसौम्यैस्तुदृष्टोबलवान्सदैव एवंपूर्णतनुःशशांकः होरायांलग्नेस्थितः होरेति

अतोविपर्यस्तमसिद्धिहेतुःकृच्छ्रेणसंसिद्धिकरंविमिश्रम् ॥ ४ ॥

होरास्थितःपूर्णतनुःशशांकोजीवेनदृष्टोयदिवासितेन ॥
क्षिप्रंप्रणष्टस्यकरोतिलब्धिंलाभोपयातोबलवान्शुभश्च ॥५॥

लग्नंभवनस्यचार्द्धमिति लग्नस्यहोराव्यपदेशः तत्रस्थः शशीजीवेनगुरुणादृष्टोऽवलोकितः यदिवा सितेनशु क्रेणदृष्टो भवति यदिवेत्ययं निपातोविकल्पे क्षिप्रमाश्वेवप्रणष्टस्यापहृतस्यद्रव्यादेर्लब्धिंलाभंकरोति लाभो पयातइति अथवा शुभः सौम्यग्रहः बलवान्वीर्ययुतोला- भेएकादशस्थानेउपयातः प्राप्तोभवति तथापि

चशब्दात्क्षिप्रमेवनष्टस्यलब्धिंकरोतीति ग्रहाणांस्थानदिक्चेष्टाकालबलंजातकेप्रोक्तम् बलवान्मित्रःस्व गृहोच्चैरित्यारभ्यस्व-दिनादिष्वशुभ-शुभाइत्येतदंतम् ॥ ५ ॥ अधुनाहृतनष्टमुष्टिगतचिंतितानांधातुमूलजी वानांपरिज्ञानमाह स्वांशेति यःकश्चिद्ग्रहः तत्कालंस्वांशेआत्मीय-नवांशकेस्थितः विलग्नेप्रश्नलग्नेतत्कालो दितंस्वांशंतस्यैवग्रहस्यात्मीयंनवांशकंतच्चपश्यत्यवलोकयतितदाप्रष्टुः धातुचिंतांवदेत् सुवर्णादिमृत्तिकांतं धातुद्रव्यं एतदुक्तंभवति स्वांशकस्थोग्रहःस्वांशकयुक्तंलग्नंपश्यति तदाधातुचिंतांप्रवदेत् अथवालग्नगतं

स्वांशेविलग्नेयदिवात्रिकोणेस्वांशेस्थितः पश्यतिधातुचिंताम् ॥

स्वांशंनपश्यति तदात्रिकोणेनवमस्थानेस्थितंतमेवस्वांशंपश्यति पंचमेस्थितंतमेवस्वांशंपश्यति नवमस्था नंपंचमस्थानंवास्वांशकसमेतं-पश्यतीत्यर्थः यतोलग्नपंचमनवमानामेकएवांशः तुल्यकालमुदेति एतदुक्तं भवति स्वनवांशकस्थोग्रहोलग्न पंचमनवमानामन्यतमस्वांश-कयुतंपश्यति तदाधातुचिंतांवदेत् तत्रापिध म्याधाम्यप्रविभागोग्रहांशकवशाद्वाच्यः पापग्रहांशकमवस्थितस्यधाम्यंसौम्यग्रहांश-कसमवस्थितस्याधाम्यमिति परांशकस्थस्तुकरोतिजीवमिति यःकश्चित्ग्रहः परनवांशकस्थोन्यग्रहंनवभागावस्थितोविलग्नगतं

स्वांशंपश्यति त्रिकोणयोरन्यतमगतंवा तदाजीवचिंतांवदेत् पुरुषादिसरीसृपांतो जीवः तत्रापि ग्रहयुक्तनवांशकवशात् द्विपदचतुष्पदसरीसृपादिविभागोज्ञेयः मिथुनकन्यातुलाधनुःपूर्वार्द्धकुंभाद्विपदा\। देवानराः पक्षिणश्चद्विपदाज्ञेयाः मेषवृषसिंहधन्विपरार्द्धा-श्चतुष्पदाः कर्कवृश्चिकमकरमीनाः सरिसृपाः तत्रमीनोह्यपदः अन्येतुबहुपदाः मूलंपरांशोपगतःपरांशमिति यः कश्चिद्ग्रहः परांशोपगतोन्यग्रहनवांशकेसमवस्थितोविलग्नगतंपरनवांशकं त्रिकोणयोरन्यतमगतंवापश्यति तदामूलंकरोतिमूलचिंतांप्रवदेत्

परांशकस्थश्चकरोतिजीवंमूलंपरांशोपगतःपरांशम् ॥ ६ ॥

एतद्यतः प्रायः संभवति तच्चापि ग्रहबलदर्शनात्ज्ञेयम् वृक्षादितॄणांतंमूलं तत्रापिग्रहयुक्तनवांशकवशात्स्थलजलत्वंज्ञेयं कर्कमकरमीनाः जलजाः अन्येतुसर्वेस्थलजाइति तथाच चिंतासिद्धिप्रश्नज्ञानेउक्तं स्वांशेस्थितोविलग्नेयदाग्रहःस्वांशकंनिरीक्षेत धातोस्तदातुचितांकरोति- परसंस्थितोजीवं परभागसन्निविष्टः परांशकंप्राग्विलग्नमायातम् पश्यतिमूलंप्रवदेदेवंनवपंचमेज्ञेयम् ॥ ६ ॥ एतदेवपुनरपिप्रकारांतरेणाह-

धातुमिति मेषमिथुनसिंहतुलाधनुःकुंभाओजराशयः वृषकर्ककन्यावृश्चिकमकरमीनायुग्मराशयःतत्र ओजेविषमेराशौलग्नगते प्रथमनवांशकोदयेधातुंप्रवदेत् द्वितीयेमूलं तृतीयेजीवं पुनःसप्तमेधातुं अष्टमे मूलं नवमेजीवमिति युग्मेविद्यादेतदेवप्रतीपम् युग्मेयुग्मरा-शौलग्नगतेनवांशकक्रमेणैतदेवपूर्वोक्तंप्रतीपं विपर्ययेणाविद्यात्जानीयात् तेनप्रथमनवांशकोदयेजीवं द्वितीयेमूलं तृतीयेधातुं पुनश्चतुर्थेजीवं पंचमेमूलं

धातुंमूलंजीवमित्योजराशौयुग्मेविद्यादेतदेवप्रतीपम् ॥
लग्नेयोंशस्तक्रमाद्गण्यएवसंक्षेपोयंविस्तरात्तत्प्रभेदः ॥ ७ ॥

षष्ठेधातुं पुनः सप्तमेजीवं अष्टमेमूलं नवमेधातुमिति एवमनेनप्रकारेण क्रमात्परिपाट्यालग्नेविलग्नेयोंशो योनवमभागः तत्कालमुदितः सयावद्गुण्योगणनीयः अत्रचलग्ननवांशकवशात्प्राग्वद्योनिविभागः केचित्द्रेष्काणत्रितयेयथासंख्यंधातुंमूलंजीवमित्योजराशौयुग्मे-विद्यादेतदेवप्रतीपमितिवर्णयंति तच्चायुक्तम् य स्मात्पुरस्तादाचार्यएववक्ष्यति अंशकात्ज्ञायतेद्रव्यमिति अयंसंक्षेपःसमासउक्तः विस्तरात्-व्यासेना

स्यैवार्थस्यप्रभेदः स्पष्टताअभिधीयतइति ॥ ७ ॥ इतिश्रीभट्टोत्पलविरचितायांषट्पंचाशिकायांहोरावि वृतौसंक्षेपात्होराध्यायः प्रथमः ॥ १ ॥ ॥ ६ ॥ अथातोगमागमाध्यायोव्याख्यायते तत्रादावेवस्थान गमागमजीवितमरणरोगशांतिपराभिभवज्ञानमाह वृषसिंहेति वृषसिंहवृश्चिकाः प्रसिद्धाः घटःकुंभः एते स्थिरराशयएतैर्वृषसिंहवृश्चिकघटैः एतेषामन्यतमेलग्नंप्राप्तेस्थानंविद्धिजानीहि प्रष्टुःस्थानलाभोभवति गमा

इतिवराहमिहिरात्मजपृथुयशोविरचितायांषट्पंचाशिकायांहोराध्यायः प्रथ
मः ॥ १ ॥ ॥ ६ ॥वृषसिंहवृश्चिक घटैर्विद्धिस्थानंगमागमौनस्तः ॥

नमृतंनचा पिनष्टंन रोगशांतिर्नचाभिभवः ॥ १॥

गमौनस्तः गमश्च आगमश्चगमागमौतौनस्तः नभवतः नमृतंमृतंमरणंनभवतिजीवत्येव नचापिनष्टं धात्वादिद्रव्यंधनं अदर्शनपथिस्थितं ननष्टंननाशंप्राप्तम् अथवाविदेशस्थोनरस्तस्मात् स्थानात्ननष्टः अन्य देशंनगतः नरोगशांतिः रोगोज्वरादिः तस्यशांतिः शमनंव्याध्यभिभूतस्यनभवति नचाभिभवः अभिभव

पराजयः सः शत्रोः सकाशात्न भवति ॥ १ ॥ तद्विपरीतंतुचरैरिति चराः मेषकर्कटतुलामकराः तदित्य नेनानंतरोक्तंविद्धि स्थानमित्यादिकंसर्वंप्रत्यवमृश्यते चरैःचराभिधानैः पृच्छालग्नस्थैः तत्फलमनंतरोक्तं विपरीतंविपर्ययाद्भवति पूर्वमुक्तंविद्धि स्थानमिति तत्रचरैः स्थानप्राप्तिर्नास्तीतिवाच्या गमागमौनस्तइति पूर्वमुक्तं चरैर्गमागमौविद्येते पूर्वमुक्तंनमृतः चरैर्मृतइतिवक्तव्यं पूर्वमुक्तंनचापिनष्टं चरैर्नष्टमितिवाच्यं पूर्वमुक्तंनरोगशांतिः चरैः रोगशांतिर्भवतीतिवाच्यं पूर्वमुक्तंनचाभिभवः चरैरभिभवोभवतीतिवक्तव्यम्

तद्विपरीतंतुचरैर्द्विशरीरैर्मिश्रितंफलंभवति ॥

द्विशरीरैर्मिश्रितंफलंभवति इति द्विशरीराः द्विस्वभावाः मिथुनकन्याधन्विमीनाः तैः पृच्छालग्नेमिश्रितं \। फलंभवति यत्स्थिरैरुक्तम् यच्चरैरुक्तं तन्मिश्रितमुभयंफलंभवति भवतिनभवतीतिवासर्वमेतद्यथोद्दिष्टम् तत्र अयंनिश्चयः द्विस्वभावलग्ने प्रथमेर्द्धेस्थिरवत्फलंसर्वंवदेत् द्वितीयेर्द्धेचरवत् यतस्तस्यप्रथमार्द्धंस्थिरसमीपवर्त्ति द्वितीयंचरसमीपवर्त्तीति तथाचास्मदीयेप्रश्नज्ञाने स्थिरराशौ लग्नगतेस्थानप्रा-प्तिंवदेन्न-चागमनम्

रोगोपशमोनाशोद्रव्याणांस्यात्पराभवोनात्र चरराशौविपरीतंमिश्रंवाच्यंद्विमूर्त्युदये स्थिरवत्प्रथमे र्द्धेस्यादपरेचरराशिवत्सर्वमिति लग्नेहोर्व-क्तव्यमिति लग्नंप्रश्नलग्नं इदुश्चंद्रः तयोर्लग्नेंद्वोर्द्वयोरपिशुभदृष्ट्या सौम्यग्रहदर्शनेनशोभनंफलंवक्तव्यम् देहमनोरूपत्वात् लग्नें- दूसौम्यदृष्टौसंपत्करौभवतः अतोन्यदिति अतोस्मादुक्ताद्विपरीतेन्यदशुभं वक्तव्यं तेनलग्नेंदूपापदृष्टौयदिभवतस्तदासर्वपृच्छास्वशोभनं-फलंवक्तव्यम्

लग्नेंद्वोर्वक्तव्यंशुभदृष्ट्याशोभनमतोन्यत् ॥ २ ॥ सुतशत्रुगतैः पापैः
शत्रुर्मार्गान्निवर्तते ॥ चतुर्थगैरपिप्राप्तःशत्रुर्भग्नोनिवर्तते ॥ ३ ॥

अर्थादेकैकस्मिन्नुभयदृष्टेमध्यमंफलंभवति ॥ २ ॥ अधुनाशत्रोर्मार्गनिवृत्तिज्ञानमाह सुतशत्रुगतैरिति सु तश्चशत्रुश्चसुतशत्रू अनयोर्गतैः सुतस्थानंपंचमंरिपुस्थानंषष्ठं अनयोर्द्वयोरपिस्थानयोः एकस्मिन्वापापैः सूर्यभौमशनिक्षीणचंद्रैः प्रश्नलग्नाद्गतैः समवस्थितैः प्रष्टुःशत्रुः- रिपुर्मार्गात्पथः निवर्ततेगच्छतितैरेवपा पःलग्नाच्चातुर्थस्थानेसमवस्थितैः अपिशब्दः संभावनायां प्राप्तोपिशत्रुर्निकटस्थोभग्नः पराजितोनिवर्त्तते।

प्रतीपंगच्छतीत्यर्थः ॥ ३ ॥ अथान्यद्योगांतरमाह झषेति झषोमीनःअलिर्वृश्चिकःकुंभकर्कटौप्रसिद्धौ एतेरसातलेलग्नाच्चतुर्थ-स्थानेस्थि-ताएतेषामन्यतमःप्रश्नलग्नाच्चतुर्थस्थानेयदासमवस्थितोभवति तदारिपोः शत्रोःपराजयोऽभिभवोभवति चतुष्पदैःपलायनमिति मेषवृषसिंहधन्विपरार्द्धाश्चतुष्पदाः एतेषामन्यतमे लग्नाच्चतुर्थस्थे शत्रोः पलायनमपसर्पणंभवतीत्यर्थः ॥४॥ अथयायिनांप्रति-शुभाशुभफलमाह चरोदयइति

झषालिकुंभकर्कटारसातलेयदास्थिताः ॥ रिपोःपराजयस्तदा चतु
ष्पदैः पलायनम् ॥ ४ ॥ चरोदयेशुभःस्थितः शुभंकरोतियायिनाम् ॥

चरोदयेचरराश्युद्गमेतस्मिंश्चशुभग्रहणांबुधजीवशुक्राणां अन्यतमःस्थितश्चेत् यायिनांगच्छतां शुभंश्रेयः करोतिविदधाति तस्मिन्नेवचरोदये अशोभनैःस्थितैःपापग्रहाणां रविभौमार्कजानामन्यतमेस्थितेते षामेवयायिनामशोभनमश्रेयःकरोति स्थिरोदयेपिवाशुभम् स्थिराणामन्यत-मस्योदयेपापसंयुक्तेविकल्पे नशुभंभवति तत्स्थानंपापग्रहस्यस्वक्षेत्रम् उच्चंमूलत्रिकोणंमित्रक्षेत्रंवाभवति तदाशुभमन्यथानशुभमि

त्यर्थः केचित्स्थिरेष्टमेपिवाशुभमितिपठंति स्थिरराशौलग्नादष्टमेपापसंयुक्तेवाशुभंप्राग्वदिति ॥ ५ ॥ अथशत्रोर्गमागमज्ञानमाह स्थिरेशशीति स्थिरेस्थिरराशौशशीचंद्रोभवति चरोदयेचरराशौलग्नगते प्र श्नलग्नगते प्रश्नकालेयदारिपोःशत्रोर्नचागमः आगमोनविद्यते तदातस्मिन्नेवप्रश्नेरिपोरागममागमनंव देत्ब्रूयात् विपर्ययेविपर्ययमिति अस्मादेवपूर्वोक्ताद्विपर्यये अन्यथात्वेविपर्ययंविपरीतमेववक्तव्यं एतदु

अशोभनैरशोभनंस्थिरोदयेपिवाशुभं ॥ ५॥ स्थिरेशशीचरोदयेनचागमोरि

पोर्यंदा ॥ तदागमंरिपोर्वदेद्विपर्ययेविपर्ययम् ॥६॥ स्थिरेतुलग्नमागतेद्विरात्म

केतुचंद्रमाः ॥ निवर्त्ततेरिपुस्तदासुदूरमागतोपिसन् ॥ ७ ॥

क्तंभवति चरेशशिनिस्थिरराशौलग्नगतेयदिरिपोरागमनंश्रूयते तदातस्मिन्प्रश्नेनागच्छतीतिवदेत् ॥ ६ ॥ अथशत्रुनिवृत्तिज्ञानमाह स्थिरेत्विति स्थिरराशौलग्नमागते तत्काललग्नंप्राप्तेद्विरात्मकेद्विस्वभावेराशौय दाचंद्रमाःशशीभवति तदारिपुःशत्रुःसुदूरमागतोपिसनू-स्वस्थानात् सुतरांदूरमागतोपिनिवर्तते प्रतीपं

गच्छतीति अपिशब्दःसंभावनायाम् ॥७॥ अथान्यद्योगांरतमाह चरेशशीति चरेचरराशौशशीचंद्रमाभव ति तथालग्नगतःप्राग्लग्नस्थोद्विदेहो द्विःस्वभावोराशिर्यदातस्मिन्कालेपथोमार्गस्यार्द्धमागत्यनिवर्त्ततेप्रती पंगच्छति तुशब्दोवधारणे विपर्ययइति विपरीतेशत्रोरागमनं द्विधाद्विप्रकारेणस्याद्भवेत् एतदुक्तंभवति \। द्विस्वभावराशिस्थेशशिनिचरराशौलग्नगतेशत्रोरागमनंबलवन्नभवेत् पराजयःस्यादशुभेक्षिते-त्वितितस्मि

चरेशशीलग्नगतोद्विदेहः पथोर्द्धमागत्यनिवर्त्ततेरिपुः ॥

विपर्ययेचागमनंद्विधास्यात्पराजयः स्यादशुभेक्षितेतु ॥ ८ ॥

न्नेवविपरीतेयोगेविपरीते चंद्रलग्नेवाशुभेक्षितेपापग्रहसंदृष्टे शत्रोःसकाशात् प्रष्टुः पराजयोऽभिभवः स्याद्भवेत् एतदुक्तंभवति द्विस्वभावराशिस्थितेशशिनिचरराशौलग्नगतेद्वयोरपिपापदृष्टयोःशत्रोरागमनं द्विधाभवति समागमश्चपराजयंकरोतीत्यर्थः ॥ ८ ॥ अन्यदपिगमागममाह अर्केति अर्कःआदित्यः

आर्किःसौरिः ज्ञःबुधः सितः शुक्रः एषांमध्येएकोपिग्रहोयदाचरोदयेचरराशौलग्नगतेस्थितोभवति तदा आशुक्षिप्रमेवयियासोर्गमनं वदेत्ब्रूयात् रविवर्ज्यमन्येषामेकतमोपियदाचरराशौलग्नगतोभवति स चवक्रगतैःप्रतीपगतिमाश्रितोभवति तदायियासोर्गमनंनेतिवक्तव्यम् यातानगच्छतीत्यर्थः ॥ ९ ॥ अन्यद्योगान्तरमाह स्थिरोदयइति स्थिरराशौलग्नगतेयस्मिंश्चजीवशनैश्चरेक्षितेबृहस्पतिसौरिभ्यांदृष्टेपृच्छ

अर्कार्किज्ञसितानामेकोपिचरोदयेयदाभवति ॥ प्रवदेत्तदाशुगमनंवक्रगतैर्ने

तिवक्तव्यम् ॥ ९ ॥ स्थिरोदयेजीवशनैश्चरेक्षितेगमागमौनैववदेत्तुपृच्छतः ॥

त्रिपंचषष्ठारिपुसंगमायपापाश्चतुर्थाविनिवर्त्तनाय ॥ १० ॥

तः प्रष्टुः गमागमौनैववदेत्नब्रूयात् शत्रुगमागमौनैवभवतइत्यर्थः तस्मिन्नेवजीवशनैश्चरेक्षिते पापाः पा पग्रहाः त्रिपंचषष्ठास्तृतीय-पंचमषष्ठस्थानस्थाभवंति तदारिपोः शत्रोः संगमायभवंति प्रष्टुः शत्रुणासह संयोगो भवतीत्यर्थः अस्मिन्नेवपूर्वोक्तयोगेपापाअशुभग्रहाः चतुर्थाश्चतुर्थस्थानस्थास्तस्यैवशत्रोर्विनिवर्त्त

नायप्रतीपगमनायभवंति शत्रुर्विनिवर्त्ततइत्यर्थः ॥ १० ॥ अथान्यद्गमनागमनाययोगांतरमाह नागच्छती तिअर्कः आदित्यः चंद्रःशशी तौलग्नाद्यदाचतुर्थभवनस्थौचतुर्थस्थानगतौभवतः तदापरचक्रंनागच्छ तिनायाति शत्रुसमूहोनायातीत्यर्थः बुधगुरुशुक्राः हिबुकेचतुर्थस्थानेयदास्थिताभवंति तदापरचक्रंशी

नागच्छतिपरचक्रंयदार्कचंद्रौचतुर्थभवनस्थौ ॥

बुधगुरुशुक्राहिबुकेयदातदाशीघ्रमायाति ॥ ११ ॥

मेषधनुः सिंहवृषायद्युदयस्थाभवंतिहिबुकेवा ॥

शत्रुर्निवर्त्ततितदाग्रहसहितावावियुक्तावा ॥ १२ ॥

घ्रमाशु आयातीत्यर्थः ॥ ११ ॥ अथान्ययोगांतरमाह मेषधनुरिति एषांमेषधनुः सिंहवृषाणांमध्येयद्ये कतमउदयस्थस्तत्काललग्नगतोभवति वाइत्यथवा तात्कालिकात् प्रश्नलग्नाद्धिबुकेचतुर्थस्थानेएषांम ध्यादन्यतमोभवति तेचग्रहैःसहिताःसमेतारहितावा तदातस्मिन्नेमकाले-शत्रुर्निवर्ततेप्रतीपंगच्छतीत्यर्थः ॥ १२ ॥

अन्यच्छत्रोरनागमनप्रकारमाह स्थिरराशाविति उदयेतत्काललग्नेस्थिरराशौ तत्रैवशनिःसौ रिः गुरुः जीवोवाभवति तदाशत्रुः रिपुः स्वस्थानात्चलितः तत्रैवतिष्ठति अथवाचरराशौलग्नगतेतत्रचरविः गुरुर्वाभवति तदाशत्रोरागमनं आगमःस्याद्भवेत् ॥ १३ ॥ अथयातुर्निवृत्तिज्ञानार्थंयोगंश्लोकद्वयेनाह ग्रहे

स्थिरराशौयद्युदयेशनिर्गुरुर्वास्थितस्तदाशत्रुः॥ उदयेरविर्गुरुवचरराशौस्या

त्तदागमनं ॥१३॥ ग्रहःसर्वोत्तमबलोलग्नाद्यस्मिन्गृहेस्थितः॥मासैस्तत्तुल्य

संख्याकैर्निवृत्तिंयांतुरादिशेत्॥ १४ ॥ चरांशस्थेग्रहेतस्मिन्कालमेवंविनिर्दिशेत्

ति सर्वोत्तमबलोग्रहः लग्नाद्यस्मिन्गृहेयावत्तमेस्थानेस्थितः सर्वेषामुत्तमबलः प्रधानबलोपेतः तत्तुल्यसंख्या कैः तत्तुल्यातत्समासंख्याप्रमाणं येषांमासानांतैः यातुः जिगमिषोः निवृत्तिंनिवर्तनंप्रवासान्निर्दिशेत्॥ १४ ॥ चरांशस्थइति तस्मिन्सर्वोत्तमबलेग्रहे चरांशस्थेचरशशिनवभाग-स्थेपूर्वोक्तकालमेवंविनिर्दिशेत्तत्तुल्यसंख्याकैर्मासैः स्थिरभागांशकस्थेस्थिरनवांशस्थेतमेवकालं द्विगुणंद्व्यात्मकांशके द्विस्वभावनवांश के तमेवकालंत्रिगुणंवदेत् ॥ १५ ॥ अत्रैवमतांतरमाह यातुरिति विलग्नंपृच्छालग्नंतस्माज्जामित्रभनंसप्तम स्थानंतस्याधिपतिःस्वामी-सयदायस्मिन् कालेवक्रंविपरीतंगमनंकरोतितंकालं यातुर्जिगमिषोरावृत्तेरा वर्तनस्यप्रवासान्निवृत्तिःभवति अपरे आचार्याःकृष्णाद-योब्रुवतेकथयंति वक्रंचग्रहाणांयथासंभवंयोज्यं

द्विगुणंस्थिरभागस्थेत्रिगुणंद्व्यात्मकांशके ॥ १५ ॥ यातुर्विलग्नाज्जा

मित्रभवनाधिपतेर्यदा ॥ करोतिवक्रमावृत्तेः कालंतंब्रुवतेऽपरे ॥ १६॥

उदयर्क्षाच्चंद्रर्क्षंभवतिचयावद्दिनानितावद्भिः ॥

तथाचयातुःपृच्छालग्नात्सप्तमभवनाधिपोयदावक्रीभवति तदावक्तव्यःप्रवासनिवृत्तयेकालः ॥ १६ ॥ अथशत्रोरागमने दिनप्रमाणमाह उदयेति उदयर्क्षमुदयलग्नं चंद्रर्क्षंचंद्रराशिःपृच्छाकालेयत्रचंद्रमाःस्थितस्तस्मादुदयर्क्षाच्चंद्रर्क्षंयावत्संख्यंभवति तावत्संख्यैर्दिनैः शत्रोः आगमनंस्यात् यदिमध्यइतिययोर्लग्नचंद्रयोर्मर्ध्येंतरेयदिकश्चिद्ग्रहोनभवति तदैवंग्रहसंभवे शत्रुरवश्यमेवनायातीत्यर्थः ॥ १७॥ इतिश्रीभट्टोत्पल विरचितायांषट्पंचाशिकाविवृतौगमागमाध्यायोद्वितीयः ॥ २ ॥ अथजयपराजयाध्यायोव्याख्यायते तत्रादावेव जयपराज-यज्ञानमाह दशमोदयेति उदयेलग्नेदशमसप्तमेप्रसिद्धे एतेषुस्थानेषुलग्नात्सौम्याः

आगमनंस्याच्छत्रोर्यदिमध्येनग्रहःकश्चित् ॥ १७॥
इतिश्रीव• पृथु० र्विर० षट्पं० गमागमाध्यायोद्वितीयः ॥ २ ॥

दशमोदय सप्तमगाः सौम्यानगराधिपस्यविजयकराः ॥

आरार्किज्ञगुरुसिताः प्रभंगदौविजयदानवमे ॥ १ ॥

शुभग्रहाःगताः समवस्थिताःपृच्छालग्नेनगराधिपस्यपुरस्वामिनोराज्ञोविजयकाराः विशेषेणजयंकुर्वंति आरोभौमःआर्किःसौरिःएतौ प्रश्नलग्नात्नवमेस्थानेस्थितौ प्रष्टुःप्रभंगदौप्रकर्षेणभंगंपलायनंददतः तथा ज्ञोबुधःगुरुःजीवः सितःशुक्रः एतेलग्नान्नवमेस्थानेस्थिताः विजयदाः विशेषेणजयदाभवंति प्रष्टुःसंग्रा

मे विजयोभवतीत्यर्थः ॥ १ ॥ अथनगरयायिनःकस्यविजयोभवतीत्येतत्परिज्ञानमाह पौरास्तृतीयेति पुरेभवाः पौराःनागराः पृच्छालग्नात्तृती-यभवनप्रभृतियद्राशिषट्कंअष्टमंस्थानंयावत् तावन्नागराज्ञेयाः एतद्राशिषट्कंपौराणांशुभाशुभत्वेज्ञेयमित्यर्थः धर्माद्वायायिनः धर्मान्नवमस्थानात्प्रभृतिराशिषट्कंद्वितीयं स्थानंयावत् तावत्स्थिताज्ञेयाः एतद्राशिषट्कंयायिनांशुभाशुभत्वेज्ञेयमित्यर्थः येनादौयात्रायामुद्यो गःकृतःसयायी यःपश्चात्कृतः सनागरः वाशब्दोत्रचार्थेज्ञेयः शुभैःशुभदाःएतेयथाविभागकल्पिताराशयो

पौरास्तृतीयभवनाद्धर्माद्वायायिनः शुभैः शुभदाः ॥

यस्यशुभैःसौम्यग्रहैः संयुक्ताभवंति तस्यशुभदाभवंतीत्यर्थः अर्थाद्यस्यपापैः संयुक्ताः तस्यपराजयदाः तथाचप्रश्ने धर्माद्यैश्चक्रदलैर्यायिनो-नागरास्तृतीयादौ विजयः सौम्ययुतेस्यात्पुरभागेक्रूरसंयुतेभंगः ॥ तथा चास्मदीयेप्रश्नज्ञाने नवमाद्येचक्रदले- विज्ञेयायायिनस्तृतीयादौ पौराःशुभसंयुक्तेभागेविजयःपुरेभंगइति अर्थादेवभागद्वयेपिपापसौम्यैर्युक्तेव्यामिश्रंफलंभवति नजयोनपराजजइति व्ययदशमायेपापाइति व्ययंद्वादशंदशमंप्रसिद्धं आयमेकादशंसमाहारे एकवद्भावः तत्रपापाःपापग्रहाःपृच्छालग्नात्समवस्थिताभवंति

तदापुरस्यनगरस्यनेष्टाःनशुभाभवंति यातुः यत्पुरंतस्यनशुभाः यातुःपुनःशुभकराः उपचयकराइत्यर्थः २ ॥ अथसंधिविरोध-ज्ञानार्थंयोगांतरमाह नृराशीतिं नृराशयः पुरुषराशयः पुरुषाकृतयोराशयः नृराशयः मिथुन कुंभतुलाकन्याः तथाचायमेवज्ञापकः तुलाथकन्यामिथुनोघटश्चनृराशयइति शुभाः सौम्यग्रहाः बुधशुक बृहस्पतयः एतेउदयेपृच्छालग्नेस्थिताः स्युः भवेयुः अथवातएव- सौम्यग्रहानृराशिसंस्थाव्ययायसंस्थाश्रभवं

व्ययदशमायेपापाः पुरस्यनेष्टाः शुभायातुः ॥ २ ॥ नृराशिसंस्थात्द्युदयेशु
भाः स्युर्व्ययाय संस्थाश्चयदाभवंति ॥ तदाशुसंविंप्रवदेन्नृपाणांपापैर्द्विदे होपगतैर्विरोधम् ॥ ३ ॥

ति व्ययंद्वादशंआयमेकादशं चशब्दःसमुच्चये अनयोरपि संस्थाः समवस्थितायदाभवंतितदाआशुक्षिप्रमे वनृपाणां संधिः संधानंप्रवदेत्ब्रूयात् पापैरिति पापारविभौमशनिक्षीणचंद्राः द्विदेहाः द्विस्वभावराशयः पा पैरशुभग्रहैर्द्विदेहोपगतैर्द्विस्वभावराशिषु-समवस्थितैर्नृपाणांएवंविरोधंविग्रहंप्रवदेत् ॥ ३ ॥ अन्यत् योगां

तरमाह केंद्रोपगताइति केंद्राणिलग्नचतुर्थसप्तमदशमानि तेषूपगताः समवस्थिताः सौम्यैःशुभग्रहैः अथवातएवसौम्याः नृलग्नगाः नृराशि-षुप्रागुक्तेषुस्थिताः सौम्यैः शुभग्रहैश्वदृष्टाः परस्परमवलोकयंतीत्यर्थः एवंविधाः प्रीतिसंधिंकुर्वेतिनिवृत्तिंप्रापयंति तेषुकेंद्रेषुसमवस्थिताः पापाः तेचपापदृष्टाः परस्परंपापै रवलोकिताः विपरीतंविपर्ययं अप्रीतिंविग्रहं कुर्वेति ॥ ४ ॥ अथसेनागमनज्ञानमाह द्वितीयेति प्रश्नल

केंद्रापगताःसौम्याःसौम्यैर्दृष्टानृलग्नगाःप्रीतिं ॥ कुर्वंतिपापदृष्टाःपापास्ते

ष्वेवविपरीतम् ॥ ४ ॥ द्वितीयेवातृतीयेवागुरुशुक्रौयदातदा ॥ आश्वेवाग

च्छतेसेनाप्रवासीवानसंशयः ॥ ५ ॥ इति षट्० तृतीयोऽध्यायः ॥ ३ ॥

ग्नाद्यदाद्वितीयेवायथातथागुरुशुक्रौजीवसितौभवतः तदाचमूः सेनाआश्वेवागच्छति क्षिप्रमेवायाति प्रवासीअन्यदेशस्थः आश्वेवागच्छाति न संशयः निर्विकल्पंयथास्यात्तथाग्रहाणांक्रमविवक्षार्थम् कदा चिद्द्वावेवद्वितीयेवाद्वावेवतृतीयेवा एकोद्वितीयेवातृतीयेप्येकएवेति ॥ ५ ॥ इति टी० तृतीयोऽध्यायः ॥ ३ ॥

अधुनाशुभाशुभलक्षणाध्यायोव्याख्यायते तत्रादावेवप्रष्टुः शुभाशुभज्ञानमाह केंद्रेति केंद्राणिलग्न १ च तुर्थ ४ सप्तम ७ दशमानि १० त्रिकोणसंज्ञेनवपंचमेशुभाःसौम्यग्रहाःकेंद्रेषुत्रिकोणेषुशुभस्थितेषुशुभाः स्थितायेषुसौम्यग्रहयुक्तेष्वित्यर्थःशुभान्वितेष्वितिपाठः तथापापेषु-पापग्रहेषुकेंद्राष्टमस्थानंवर्जयित्वा अ

केंद्रत्रिकोणेषुशुभस्थितेषुपापेषुकेंद्राष्टमवर्जितेषु ॥

सर्वार्थसिद्धिंप्रवदेन्नराणांविपर्ययस्थेषुविपर्ययः स्यात् ॥ १ ॥

न्यत्रसमवस्थितेषुसत्सुनराणांमनुष्याणांसर्वार्थसिद्धिंप्रवदेत् सर्वेषांनिःशेषाणामर्थानांसिद्धिंसाधनंप्रवदेत् ब्रूयात् विपर्ययइति एषुपापसौम्ये-षुविपर्ययेविपरीते अन्यथास्थितेषुविपर्ययोवैपरीत्यमेवस्याद्भवेत् एतदुक्तंभवति यदापापाःकेंद्रत्रिकोणाष्टमेषुभवंति सौम्याः केंद्रत्रिकोणाष्टमवर्ण्यमन्यत्रभवंति तदासर्वार्थाना

मसिद्धिंप्रवदेत् ॥ १ ॥ अधुनालाभालाभज्ञानमाह त्रिपंचेति तृतीयपंचमेस्थानेप्रसिद्धेलाभएकादशंअ स्तमयंसप्तमंएतेषुसौम्याःशुभग्रहाः प्रष्टुर्लाभप्रदाःएष्वेवत्रिपंचलाभास्तमयेषुपापा अशुभग्रहाः नेष्टफलाः अनिष्टमशोभनंफलंकुर्वेति अर्थनाशंसमारभंतीत्यर्थः तुलेति तुलाक-न्यामिथुनराशयःप्रसिद्धाःघटःकुंभः एतेनरराशयःपुंराशयः एतेषुलग्नेषुसौम्यग्रहाधिष्ठितेषुशुभंभद्रंमुनयोवदंतिकथयंतीत्यर्थः ॥ २ ॥ अन्यद्यो

त्रिपंचलाभास्तमयेषुसौम्यालाभप्रदानेष्टफलाश्चपापाः ॥

तुलाथकन्यामिथुनंघटश्चनृराशयस्तेषुशुभंवदंति ॥ २ ॥
स्थानप्रदादशमसप्तमगाश्चसौम्यामानार्थदाः स्वसुत लग्नगताभवति ॥

गांतरमाह स्थानप्रदाइति सौम्याःशुभग्रहाः लग्नाद्दशमेसप्तमेचस्थानेगताःसमवस्थिताः प्रष्टुःस्थानप्रदाः स्युः स्वशब्देनधनस्थानमुच्यते सुतस्थानंपंचमं लग्नंप्रसिद्धं एतेषुस्थिताःसौम्याःमानार्थदाःस्युर्भवेयुः पा पाव्ययेति पापाअशुभग्रहाः व्ययोद्वादशं आयएकादशंतयोर्द्वयोः सहिताःस्थिताः नशुभप्रदाःस्युःभवेयुः

नशुभफलंप्रयच्छंति लग्नइति पापाइत्यनुवर्त्तते शशीचंद्रःपापोलग्नेस्थितोनशुभइतिशुभंफलंददाति द शमेस्थानेसमवस्थितः पापरूपोपिशुभफलोभवतिश्रेयस्करोभवतीत्यर्थः ॥ ३ ॥ अन्यच्चशुभाशुभज्ञान माह इंद्विति द्विशब्देनद्वितीयंस्थानमुच्यतेसप्तमदशमे-प्रसिद्धेआयएकादशंरिपुस्थानंषष्ठंत्रिशब्देनतृतीयं स्थानमुच्यते एतेषुद्वितीयतृतीयसप्तमदशमायरिपुत्रिषुसंस्थितमिदुचंद्रंगुरुर्जीवः पश्येत्तदाप्रष्टुःशुभफलंला

पापाव्ययायसहितानशुभप्रदाःस्युर्लग्नेशशीनशुभदोदशमेशुभश्च ॥ ३ ॥

इंदुंद्विसप्तदशमायरिपुत्रिसंस्थंपश्येद्गुरुःशुभफलंप्रमदाकृतंस्यात् ॥
लग्नत्रिधर्मसुतनैधनगाश्चपापाःकार्यार्थनाशभयदाःशुभदाःशुभाश्च ॥ ४ ॥

भादिकंप्रमदाकृतंस्त्रीहेतुकंस्याद्भवेत् लग्नत्रिधर्मेति लग्नंपृच्छालग्नंत्रिशब्देनतृतीयस्थानंधर्मस्थानंनवमं सुतस्थानंपंचमं नैधनमष्टमंएतेषु-स्थानेषुपापाःपापग्रहागताः समवस्थिताःप्रष्टुःकार्यार्थनाशभयदाः का र्यस्यकृतस्य अर्थस्यधनस्यनाशविघातंभयंभीतिं- ददतीत्यर्थः शुभदाःशुभाश्चेतिएष्वेवलग्नादिषुस्थानेषुशु

भाः समवस्थिताः शुभदाः शुभफलप्रदाइत्यर्थः ॥ ४ ॥ अधुनारोगार्त्तस्यशुभाशुभज्ञानमाह शुभेति शुभग्रहाबुधगुरुशुक्राः विलग्नंपृच्छालग्नंसप्तमाष्टमपंचमस्थानानिप्रसिद्धानि एतेषुयथासंभवंशुभग्रहाःसमव स्थितास्तेचनिरीक्षिताःसौम्यैःशुभग्रहैरेवदृष्टाः एतदुक्तंभवति शुभग्रहदृष्टस्थानस्थाःपरस्परंपश्यंतियदात दाएषयोगोनकेवलंयावन्निशाकरश्चंद्रमास्त्रिषट्दशायेचस्याद्भवेत् तृतीयषष्टदशमानिप्रसिद्धानि आयमे

शुभग्रहाः सौम्यनिरीक्षिताश्चविलग्नसप्ताष्टमपंचमस्थाः ॥ त्रिषट्दशायेच

निशाकरः स्याच्छुभंवदेद्रोगनिपीडितानाम् ॥५॥ ॥ ६ ॥ ॥ इतिश्रीव

राहमिहिरात्मजपृथुयशोविर० षट्पंचाशिकायांचतुर्थोध्यायः ॥ ४ ॥

कादशमेतेषामन्यतमेचंद्रमाभवति तदारोगनिपीडितानांव्याधिगृहीतानांशुभमारोग्यंवदेद्ब्रूयात् अर्थादेवं योगासंभवेसत्यशुभंवदेदिति योगेसतिशुभंबूयात् ॥ ५ ॥ ॥ इतिश्रीभट्टोत्पलविरचितायांषट्पंचाशि काविवृतौशुभाशुभाध्यायश्चतुर्थः ॥ ४ ॥॥ ६॥॥ ६॥

अधुनाप्रवासचिंताध्यायोव्याख्यायते तत्रादावेवागमनार्थंयोगमाह दूरगतस्येति सुतस्थानंपंचमं धन स्थानं द्वितीयं सहजस्थानं तृतीयं एतेषुस्थानेषुलग्नात्तात्कालिकात्ग्रहैरादित्यादिभिः सर्वैः समवस्थितैः दूरगतस्यविप्रकृष्टस्थितस्य आगमनं संप्राप्तिंवदेत् सौम्यैर्नष्टप्राप्तिमिति सौम्यैः सौम्यग्रहैः बुधगुरुसिता क्षीणचंद्रैः तेष्वेवस्थानेषुव्यवस्थितैः नष्टस्यापहृतस्यवस्तुनः प्राप्तिंलाभं वदेत् तस्यैवप्रवासोनष्टआसीत्

॥ अथप्रवासचिंताध्यायः ॥ ॥ दूरगतस्यामनंसुतधनस

हजस्थितैर्ग्रहैर्लग्नात् ॥ सौम्यैर्नष्टप्राप्तिंलध्वागमनंगुरुसि

ताभ्याम् ॥ १ ॥ जामित्रेत्वथवाषष्ठेग्रहःकेंद्रेथवाक्पतिः ॥

स एववाप्रवासीनष्टोऽदर्शनंगतः तद्दर्शनं भवतीत्यर्थः लघ्वागमनं गुरुसिताभ्यामिति गुरुर्बृहस्पतिः सि तः शुक्रः आभ्यामेष्वेवस्थानेषुसमवस्थिताभ्यां लघ्वागमनं लघुनाल्पेनैवकालेन प्रवासिनामागमनं प्र वदेत् ॥ १ ॥ अथयोगांतरमाह जामित्रइति जामित्रं सप्तमं सप्तमस्थाने अथवाषष्ठेवा पृच्छालग्नाद्यः स

मवस्थितः तथाचतुर्णांकेंद्राणांच मध्यादन्यतमेकेंद्रेवाक्पतिर्भवति तदाप्रोषितस्यप्रवासितस्यागमनं प्राप्तिंविद्याज्जानीयात् त्रिकोणइति त्रिकोणेनवपंचमेज्ञोबुधः सितः शुक्रः बुधेशुक्रेवात्रिकोणयोर्नवमपंचम स्थानयोरेवान्यतमस्थेद्वयोर्वात्रिकोणस्थयोः प्रोषितागमनं विद्यादिति ॥ २ ॥ अथयोगांतरमाहअष्टम स्थइति निशानाथश्चंद्रमास्तस्मिन्प्रश्नलग्नादष्टमस्थे अष्टमस्थानं समवस्थितेकंटकानिकेंद्राणिलग्नचतु

प्रोषितागमनंविद्यात्रिकोणेज्ञेसितेपिवा ॥ २ ॥ अष्टमस्थेनिशानाथे

कंटकैः पापवर्जितैः ॥ प्रवासीसुखमायातिसौम्यैलीभसमन्वितः ॥

॥ ३ ॥ पृष्ठोदयेपापनिरीक्षितेवापापास्तृतीये रिपुकेंद्रगेवा ॥

र्थसप्तमदशमानितैः पापवर्जितैः प्रवासी पथिकः सुखेनाक्लेशेनायातिआगच्छति सौम्यैः शुभग्रहैः केंद्र स्थैः प्रवासी लाभसमन्वितः लाभयुतः सुखमायाति ॥ ३॥ अन्यद्योगांतरमाह पृष्टोदयेतिपृष्ठोदयाः मेष कर्कटधन्विमकरमीनाः पृष्टोदयेपृच्छालग्ने एतेषामन्यतमे तस्मिंश्चपापनिरीक्षितेअशुभग्रहावलोकितेवा

शब्दोत्रचार्थे एवं विधेयोगेप्रवासिनोवधस्ताडनं बंधोबंधनंभवेत् अथवापापाअशुभग्रहाः लग्नात्तृतीयस्था नेस्थिताः सर्वएतेच सौम्यैः शुभग्रहैरदृष्टा अनवलोकितास्तदा प्रवासिनोनष्टास्तस्मात्स्थानादन्यदेशंगताः अथवापापालग्नाद्रिपुस्थानेवागतास्तेच सौम्यैरदृष्टास्तदाप्रवासिनो मुषिताश्चौरैर्वापहृताः स्युर्भवेयुः वाशब्दोयोगानां विकल्पार्थः वधबंधदाः स्युरिति पापानां विशेषणम् ॥ ४ ॥ अधुनाप्रवासिनामागमनका

सौम्यैरदृष्टावधबंधदाः स्युर्नष्टाविनष्टामुषिताश्चवाच्याः ॥ ४ ॥ ग्रहोविल

ग्नाद्यतमेगृहेतुतेनाहताद्वादशराशयःस्युः ॥ तावद्दिनान्यागमनस्यविद्यान्नि

लज्ञानमाह ग्रहोविलग्नादिति विलग्नात्पृच्छालग्नाद्यतमेयावत्संख्ये राशौयःकश्चिद्रहः स्थितः सचस्पष्टगति स्तिष्ठेत्तेनतत्प्रमाणेनद्वादशराशयः आहतागुणिताः कार्याः एतदुक्तं भवति द्वादशसंख्यमंकंस्थाप्यलग्नात्प्रभृतिग्रहांतरं राशिसंख्ययागुणयेत् तत्रयावत्संख्याभवंति तावत्संख्यानिदिनानिप्रवासिनः आगमनस्यविद्या ज्जानीयात् तावद्भिः दिनैः पथिक आगच्छतीर्थः निवर्त्तनं वक्रगतैरिति अथसग्रहोवक्रगतिः प्रतीपगतिस्त

दातावत्संख्यैर्दिनैः प्रवासिनः प्रवासान्निवर्त्तनंभवति ॥ ५ ॥ इतिश्रीभट्टोत्पलविरचितायांषट्पंचाशिकाविवृत्तौप्रवासचिंताध्यायः पंचमः ॥ ५ ॥ ॥६॥ ॥६॥ अथनष्टप्राप्यध्यायोव्याख्यायते तत्रादावेवचौरज्ञानमाह स्थिरोदयइति स्थिरावृषसिंहवृश्चिककुंभाः एषा मन्यतमस्थोदयेतत्काललग्नतांप्राप्ते अथवायस्थकस्यचिद्राशेरुदयेतत्कालंस्थिरनवांशकेवर्त्तमाने अथवा

विर्त्तनंवक्रगतैर्ग्रहैस्तु ॥ ५ ॥ ॥ इतिश्रीवरा• पृथु० पट्पं० पंचमोऽध्यायः ५

॥ अथनष्टप्राप्त्यध्यायः ॥ ॥ स्थिरोदयेस्थिरांशेवावर्गोत्तमगतेपिवा ॥

स्थितंतंत्रैवतद्द्रव्यंस्वकीयेनैवचोरितम् ॥ १ ॥

यस्यकस्यचिद्राशेर्वर्गोत्तमनवांशकोदयेवर्गोत्तमववांशाश्चरादिषु प्रथममध्यमपर्यंतगा इतिवर्गोत्तमनवांश कानांलक्षणंप्रोक्तम् एवंलग्नस्य-वर्गोत्तमगतेनवांशकेवायदपहृतंद्रव्यंनूनंतत्स्वकीयेनात्मीयेनैवकेनचिच्चोरि तमपहृतंतञ्चतत्रैवतस्मिन्नेवस्थानेस्थितं अन्यथा- अपरेणापहृतं तस्मात्तत्तत्स्थानाच्चलितमिति ॥ १ ॥

तैर्दृष्टः अवलोकितः कीदृशः त्रिसुतमदायारिगः त्रिशब्देनतृतीयस्थानंसुतस्थानंपंचमं मदस्थानसप्तमं आ यएकादशंअरिस्थानंषष्ठंलग्ना-दित्येषांस्थानानामन्यतमस्थानेगतः समवस्थितः शशी चंद्रो गुरुरवि सौम्यैर्दृष्टो यदिभवतितदाप्रष्टुः विवाहस्यपाणि-ग्रहणस्यकर्त्ताविधाताभवति त्रिकोणकेंद्रेष्विति अथवासौम्याः शुभय हाःत्रिकोणकेंद्रेषुनवमपंचमलग्न चतुर्थसप्तमदशमेषुयथासंभवंभवंति तदाप्रष्टुः विवाहोभवतीत्यर्थः वाश

भवतिचविवाहकर्त्तात्रिकोणकेंद्रेषुवासौम्याः ॥ २ ॥
चंद्रार्कयोः सप्तमगौसितार्कीसुखेष्टमेवापितथाविलग्नात् ॥

द्वितीयदुश्चिक्यगतौतथाचवर्षासुवृष्टिंप्रवदेन्नराणाम् ॥ ३ ॥

व्दोन्ययोगव्यवच्छेदार्थः ॥ २ ॥ अधुनावर्षासमयेवृष्टिज्ञानमाह चंद्रार्कयोरिति चंद्रःशशी अर्कः आदित्यः अनयोः सप्तम गौसितार्कीशुक्रशनीयथासंभवंयदिभवतः अथवाविलग्नादेवतेनैवप्रकारेणतावेवसितार्कीद्वितीयस्थाने दुश्चिक्येवाभवतस्तयोर्वास्थानयोस्तदा वर्षासुवृष्टिंवर्षणंवदेत् ॥ ३ ॥ अधुनाप्रष्टुःप्रश्नका

लेवृष्टिज्ञानमाह सौम्याइति कर्कमीनमकरकुंभाः जलराशयः सौम्याः शुभग्रहाः जलराशिषुस्थिताः सितेपक्षे शुक्लेमासार्धे पुनरयंविशेषः तृतीयधनकेंद्रगायदिभवंति तृतीयद्वितीयचतुर्थसप्तमदशमानि एतेषु यथा संभवंगताः वाशब्दोन्ययोगापेक्षायां अथवाउदयगतेचंद्रेतत्र- जलराशिस्थेपृच्छायांचवर्षासुवृष्टिंप्रवदेत् ॥ ॥ ४ ॥ अथगर्भिणीनांकिंजायतइत्येतज्ज्ञानमाह पुंवर्गेति पुंस्त्रीक्रूरावितिराशीनांपुंस्त्रीसंज्ञा जातकेउक्ताः

सौम्याजलराशिस्थास्तृतीयधनकेंद्रगाः सितेपक्षे ॥ चंद्रेवाप्युदयगतेज

लराशिस्थेवदेद्वर्षम् ॥ ४ ॥ पुंवर्गेलग्नगते पुंग्रहदृष्टेबलान्वितेपुरुषः ॥

मेषमिथुनसिंहतुलाधन्विकुंभाःपुंराशयः शेषाः स्त्रीराशयः वर्गलक्षणंप्रागुक्तम् पुंवर्गेपुरुषराशिवर्गेलग्नगते तत्काललग्नतांप्राप्तेतस्मिन्- पुंग्रहदृष्टेनरग्रहावलोकिते क्लीबपतीबुधसौरौचंद्रसितौयोषितां नृणांशेषाःइतिग्र हाणांपुंस्त्रीनपुंसकत्वमभिहितं तेनपुंग्रहारविभौमजीवाः- एतेषामन्यतमेन लग्नगतेदृष्टेतस्मिंश्चतथाभूतेलग्ने बलान्वितेवीर्ययुक्तेचपुरुषोजायते अधिपयुतोदृष्टोवाबुधजीवनिरीक्षितश्चयोराशिःसभवति- बलवान्यदाह

ष्टोपिवाशेषैरितिलग्नबलमुक्तं युग्मेस्त्रीग्रहदृष्टेइति युग्मेयुग्मराशौस्त्रीसंज्ञकेवृषादौगतेस्त्रीग्रहदृष्टेस्त्रीग्रहौचं द्रसितौताभ्यामन्यतरेणावलो-कितेबलयुक्तेचस्त्रीकन्याजायते सामान्यप्रश्नलग्नेबुधयुक्तेबुधेनसंयुक्तेस्त्रीगर्भ युतासगर्भावर्तते अद्यापिनप्रसूयतइत्यर्थः ॥ ५ ॥ अथप्रष्टुः- कीदृशीस्त्रीपुरुषोवाचेतसिवर्त्ततइत्येतत्परिज्ञानमाह कुमारिकामिति शुक्लप्रतिपत्प्रभृतिदशम्यंतंयावच्छशीबांलः एकादशीप्रभृतिकृष्ण-पंचमीयाव

युग्मेस्त्रीग्रहदृष्टेत्रीबुधयुक्तेतुगर्भयुता ॥ ५ ॥
कुमारिकांबालशशीबुधश्ववृद्वांशनिः सूर्यगुरूप्रसूताम्॥

द्युवा षष्ट्याद्यमावास्यांतंयावत्वृद्धः तत्रपृच्छालग्नंयदिसबालशशीबालश्चंद्रःपश्यतिलग्नेवातथाभूतः स्थितः तदाप्रष्टुः कुमारिकांवदेत् एवमेवबुधःपश्यति तत्रावस्थितस्तथापिकुमारिकां अर्थादेवयौवनस्थेचंद्रेयौ वनोपेतांवृद्धेवृद्धामिति केचिद्बालांकुमारींचशशीबुधश्चेतिपठंति शशीबालांकरोति आपुष्यंयावत्पुष्यदर्श नंयावदित्यर्थः बालांस्त्रियंबुधःकुमारिकामनूढांकरोतिएवंशनिःसौरोविगतयौवनांजराभिभूतां- करोति सूर्यो

ऽर्कःगुरुर्बृहस्पतिःएतौप्रसूतांप्रसवयुतस्त्रियंविधत्तः कुरुतः भौमोंऽगारकः सितः शुक्रः एतौकर्कशामतिदारुणांस्त्रियंकुरुतः एवमनेनप्रकारेणवयःशरीरावस्थास्याद्भवेत् पुरुषेषुचैवमिति पुरुषेष्वपिपृच्छासमयेप्रष्टुःवयोज्ञानमेवमनेनप्रकारेणवदेत् ॥ ६ ॥ अथपृच्छांपृच्छति कस्यसंबंधिनीचिंतामेमनसिवर्त्ततेइत्येतत्प

स्त्रींकर्कशांभौमसितौविधत्तएवंवयः स्यात्पुरुषेषुचैवम् ॥ ६ ॥

आत्मसमंलग्नगतैर्भ्रातासहजस्थितैःसुतःसुतगैः ॥

मातावाभगिनीवाचतुर्थगैःशत्रुगैः शत्रुः ॥ ७ ॥

रिज्ञानमाहश्लोकद्वयेन आत्मसममिति ग्रहैरादित्यादिभिःसबलैर्लग्नगतैर्लग्नस्थैः प्रष्टुः आत्मसमंस्वशरीर तुल्यःकश्चिन्मनसिवर्त्ततइति-तत्कार्यंवक्तव्यमितिएवंलग्नात्सहजस्थितैस्तृतीयगैः भ्रातासुतगैःपंचमस्थान स्थैः सुतः पुत्रः चतुर्थगैश्चतुर्थ-स्थानस्थैर्माता-जननीभमिनीचेतिवाच्यं शत्रुगैःषष्ठस्थानस्थैः रिपुचिंता ॥७॥

भार्येति लग्नात्सप्तमस्थानाश्रितैः सबलैर्ग्रहैः पत्नीवाच्या नवमेनवमस्थानस्यैर्धर्माश्रितोधर्मयुक्त इति चिंतावाच्या दशमेगुरुराचार्यइति स्वांशपतिरित्यादि स्वश्चासावंशश्चस्वांशः आत्मीयोनवमभागस्तस्यप तिः स्वामीपृच्छालग्नेतत्कालंयोनवांशकउदितः तत्पतिर्यदा- लग्नस्थोभवतितदाप्रष्टुः आत्मचिंतेतिवाच्यम् अथस्वांशपतिर्मित्रंतत्काललग्नेस्थितंतदामित्रंचिंतितमितिवाच्यम् अथस्वांशपतिः शत्रुः रिपुः

तत्काललग्ने

भार्यासप्तमसंस्थैर्नवमेधर्माश्रितोगुरुर्दशमे ॥
स्वांशपतिर्वित्रशत्रुषुतथैववाच्यंबलयुतेषु ॥ ८ ॥

स्थितःतदाशत्रुचिंतागतेतिवाच्यम् अथनिर्दिष्टस्थानेषुद्वौग्रहौबहवोवाभवंति तदातेषांमध्याद्योबलयुतःस यत्रस्थितः तंप्रष्टुः चित्तेगतंस्थित-मितिवाच्यम् तथैवएतेनैवप्रकारेणयथाभिहितेषुबलयुकेषुवीर्यवत्सुमध्या त्कार्यंवाच्यम् शत्रूमंदसितौसमश्चशशि जोमित्राणिशे-षारवेरित्यादिनाग्रंथेचजातकेमित्रशत्रुविभागः प्रद

र्शितइति॥८॥ अधुनाप्रवासर्चिंताज्ञानमाहचरलग्नेतिचराणांमेषकर्कटतुलामकराणामन्यतमेलग्नतत्रतत्का लंचरभागेचरनवांशके उदितस्तस्मिंश्चरलग्ने मध्यात्पंचमनवांशकात्भ्रष्टेच्युतेषष्ठादिकमंशंतत्रवर्त्ततइत्यर्थः प्रष्टुः प्रवासचिंतास्याद्धवेत्प्रवासनिमित्तंचिंताभवेदित्यर्थः अत्रैवनिश्चयमाह भ्रष्टइति सप्तमभवनंपृच्छा लग्नात्सप्तमोराशिस्तस्मात्तत्कालंयदिकश्चिद्ग्रहोभ्रष्टःप्रच्युतः चलितः सचभौमादिकस्तदा-प्रवासीपुनर्निवृ

चरलग्नेचरभागेमध्याद्भ्रष्टेप्रवासचिंतास्यात् ॥ भ्रष्टः सप्तमभवनात्पुनर्निवृ

त्तोयदिनवक्री॥ ९ ॥ अस्तेरविसितवक्रैःपरजायांस्वांगुरौबुधेवेश्याम् ॥

त्तोनिवर्त्ततइत्यर्थः प्रवासचिंतातेनकिंतुनयास्यति यदिनवक्रीति योसौसप्तमभवनाद्भ्रष्टः ग्रहः सयदिवक्री प्रतीपगतिर्नभवतितदा-निवृत्तएववाच्यः अथवक्रीतदावृत्तोयास्यतीतिवाच्यम् ॥ ९ ॥ अथकीदृश्यास्त्रिया सहमेसंयोगआसीदित्येतज्ज्ञानमाह अस्तेरविसितव-क्रैरिति रविरादित्यः सितःशुक्रः वक्रोंऽगारकः एते षामन्यतमेपृच्छालग्नादस्तेसप्तमेस्थानेपरजायांपरपत्नींपरभार्ययासह-संयोगआसीत् एवंगुरौजीवेस्थिते

स्वामात्मीयांस्त्रियंइतिप्रवदेत् बुधेवेश्यांसाधारणस्त्रियंचंद्रेचैवंसाधारणस्त्रियमेववदेत् तथातेनैवप्रकोरणसौ रेशनैश्चरेसप्तमेंऽत्य-जातीनांनिकृष्टजातीनांस्त्रियंअगम्यामितिप्रवदेत् वयः शशिवदिति तासांसर्वासांस्त्रीणां शशिवच्चंद्रवद्वयः शरीरावस्थांप्रवदेदिति बालचंद्रेबालांयौवनस्थेयौवनोपेतांवृद्धेवृद्धांचंद्रप्रविभागः प्रागेवद र्शितइति ॥ १० ॥ अथरोगार्तस्यपरदेशस्थितिज्ञानमाह मंदइति मंदः सौरः सचपापसमेतारविभौम

चंद्रेचवयः शशिवत्प्रवदेत्सौरेंत्यजातीनाम् ॥ १० ॥ मंदःपापसमेतलग्ना

न्नवमे शुभैरयुतदृष्टः ॥ रोगार्त्तः परदेशे चाष्टमगोमृत्युकरएव ॥ ११॥

क्षीणचंद्राणामन्यतमेनयुक्तस्तथाभूतोलग्नात्पृच्छालग्नान्नवमेस्थानेस्थितस्तत्रचशुभैरयुतदृष्टः तत्रचशुभ ग्रहाणामन्यतमेननयुक्तो-नाप्यवलोकितस्तदारोगार्त्तः रोगोज्वरादिस्तेनार्त्तः पीडितः परदेशेऽन्यस्मिन्ग्रामा दौस्थितः तथातथातेनैवलक्षणेनयुक्तः सौरोलग्नादष्टमेस्थानेगतः समवस्थितस्तदातस्यैवरोगार्त्तस्यमरणं करोति ॥११॥ अथकश्चित्पृच्छति मदीयः पितान्यदेशस्थस्तत्र-किमद्यापितिष्ठति अथवान्यदेशगतइतिएत

ज्ज्ञानमाह सौम्येति अर्कः सूर्यः सौम्यैः शुभग्रहैर्युतः सहितस्तेषामन्यतमेनचदृष्टोवलोकितोभवति तथा भूतोलग्नाच्चाष्टमर्क्षसंस्थितः तत्संस्थोष्टमस्थानमुपगतोभवति तस्माद्देशाद्ग्रामादिकादन्यंदेशांतरंगतः त स्यप्रष्टुः पिताजनकः प्राप्तइतिवाच्यः अन्यथातत्रैवस्थितः ॥१२॥अधुनाहृतस्यार्थस्यस्वरूपंतस्करकालदि ग्देशानांज्ञानंतस्करस्यवयोरूपज्ञानंचाह अंशकादिति अंशकालग्नस्यतात्कालिकस्य-नवमभागाद्द्रव्यमपहृ

सौम्ययुतोर्कःसौम्यैःसंदृष्टश्चाष्टमर्क्षसंस्थश्च ॥ तस्माद्देशादन्यंगतः सवा

च्यःपितातस्य ॥ १२ ॥ अंशकात्ज्ञायतेद्रव्यंदेष्काणैस्तस्कराःस्मृताः ॥

तंधातुमूलजीवाख्यंतज्ज्ञायतेएतत्पूर्वमेवाख्यातं स्वांशेविलग्नेयदिवात्रिकोणइति तस्यचराशितुल्योवर्णोव क्तव्यःतथाचलघुजातकेप्रोक्तम् अरुणसितहरितपाटलपांडुविचित्रासितेतरपिशंगाः पिंगलकर्बुरबभ्रूक मलिनाःकचयोयथासंख्यमिति तस्यचदीर्घमध्य-हस्वत्वंनवांशकवशाज्ज्ञेयम् तेनचकुंभमीनमेषवृषान्ह स्वाः मिथुनकर्कटधन्विमकरामध्याः सिंहवृश्चिककन्यतुलादीर्घाः तथाचास्मदीयेप्रश्नज्ञानेमेषवृषकुंभमी

नाहस्वायुगकर्किचापधरमकराः मध्या हरिंयुवतीतुलालयः स्मृतादीर्घाः इतिहस्वंपरिवर्तुलंमध्यमायतं दीर्घम् अंशकपतौसबलेंतः असारमल्पबलेसुखीनीचस्थितेऽस्तमितेवापिनष्टप्रायमेव एवमंशकोद्रव्यंज्ञाय तेद्रेष्काणैर्लग्नत्रिभागैस्तस्कराश्चौराःस्मृताःउक्ताःयादृशी-द्रेष्काणस्याकृतिस्तादृशीएवतस्करस्यवक्तव्या तद्य थामेषप्रथमेद्रेष्काणेपुरुषःपरशुहस्तःकृष्णोरक्कनेत्रःरौद्रः द्वितीयेद्रेष्काणेस्त्रीलोहि-तांबरास्थूलोदरादीर्घमुख

राशिभ्यः कालदिग्देशावयोज्ञातिश्चलग्नपात् ॥ १३॥
इतिवराहमिहिर पृथुयशाशोविरचिताषट्पंचाशिकासमाप्ता ॥

कपाला तृतीयेद्रेष्काणेपुमान्क्रूरःकपिलोरक्तांबरःदंडहस्तः वृषस्यप्रथमेद्रेष्काणेस्त्रीकुंचितलूनकेशास्थूलो दरीदीर्घपादा द्वितीयेनरः- कलावित्लांगलशास्त्रकर्मणिकुशलः तृतीयेनरोबृहत्कायः मिथुनस्यप्रथमेद्रेष्काणेस्त्रीरूपान्विताहीनप्रजा द्वितीयेपुरुषःउद्यानसंस्थितः-अपत्यरहितःकवचीधनुष्मान् तृतीयेपुमान् रत्नभू षितः पण्डितोधनुष्मान् कर्कटप्रथमेपुरुषःहस्तिसदृशशरीरःसूकरमुखः द्वितीयेस्त्रीयौव-नोपेताकर्कशाअर

ण्यस्था तृतीयेपुरुषःसर्पवेष्टितःनौस्थःसुवर्णाभरणान्वितः सिंहप्रथमेशाल्मलीसंस्थोगृध्रजंतुशुकाननः द्वितीयेपुरुषोधनुष्मान् नताग्रनासः तृतीयेनरःकूर्चिकुंचितकेशःदंडहस्तः कन्याप्रथमेस्त्रीपुष्पयुतापूर्णेनघटे नोपलक्षितादग्धांबरागुरुकुलंवांच्छंती द्वितीयेपुरुषोगृहीतलेखनिः श्यामोविस्तीर्णकार्मुकः तृतीयेस्त्रीगौरा कुंभकुचाघटहस्तादेवालयेप्रवृत्ता तुलाप्रथमेपुरुषः तुलाहस्तः वीथ्यापणमतः उन्नतहस्तः भांडंचितयतिद्वितीयेपुरुषः कलशवरोगृध्रमुखः क्षुधितः तृषितश्च तृतीयेपुरुषः दीर्घमुखोधनुष्पाणिः वृश्चिकप्रथमेस्त्रीन ग्नास्थानच्युतासर्पनिबद्धपादामनोरमा द्वितीयेभर्तृकृतेभुजंगावृतशरीरस्थासुखान्यमभिवांच्छन्ति तृतीयेपु रुषश्चिपिटवक्रःधनुःप्रथमेपुरु-षोधनुष्मान् द्वितीयेस्त्रीसुरूपागौरवर्णा तृतीयेपुरुषोदंडहस्तः कूर्ची मकरप्रथमे पुरुषोरोमशः स्थूलदंतोबंध- भृद्रौद्रवदनः द्वितीयेस्त्रीश्यामालंकारान्विता तृतीयेपुरुषः दीर्घमुखोधनुष्मान् कुंभप्रथमेपुरुषः गृध्रतुल्यमुखःसकंबलः द्वितीयेस्त्रीरक्तांबरा तृतीयेपुरुषः श्यामः मीनप्रथमेद्रेष्काणेपुरु षोनौस्थः द्वितीयेस्त्रीगौरानौस्था तृतीयेद्रेष्काणेपुरुषःनग्नःमांससर्पवेष्टितांगः एतद्बृहज्जातके- वराहमिहिरेणप्रोक्तं एवंद्रेष्काणे तस्कराउक्ताइति राशिभ्यः कालदिग्देशाः अथराशीनांकालविभागः मेषाद्याश्चत्वारः

सधन्विमकराःक्षपाबलाज्ञेयाद्वतिजातकेउक्तम् तेनमेषवृषमिथुनकर्कटधन्विमकराणामन्यतमेलग्नसंस्थे रात्रावपहृतम् सिंहकन्यातुला-वृश्चिककुंभमीनानामन्यतमेदिवालग्नेस्थितेदिवागतमिति एवंकालः दिक्मे षसिंहधनुषिपूर्वस्यांगतम् वृषकन्यामकरैर्दक्षिणस्यां मिथुनतुला-कुंभैःपश्चिमायांकर्कटवृश्चिकमीनैरुत्तरस्यां दिशिगतमिति अथमेषलग्नेपृच्छाकालेस्थितेमेषेचरेभूमौवृषेतुलादौ मिथुनेगीतनृत्यस्था-नेसंग्रामभूमौवा कर्कटकेजलसमीपे सिंहेआरण्यभूमौ कन्यायांनौसमीपे तुलेआपणगृहे वृश्चिकेबिलेश्वभ्रेधनुषिसंग्रामे चप्राकारभूमौमकरेजनसमीपेकुंभेशिल्पगृहेभांडोपस्करसमीपेमीनेजलसमीपइतिखचराश्चसर्वेइतिबृह ज्जातकेप्रोक्तम् वयोजातिश्चल-ग्नपादिति लग्नपात्लग्नेशात् चौरस्यवयःप्रमाणंजातिंचवदेत् तथाचसंहि तायाम् वयांसितेषांस्तनपानबाल्यव्रतस्थितायौवन-मध्यवृद्धाः अतीववृद्धारविचंद्रभौमज्ञशुक्रवागमीनिशनैश्चराणामिति एवंचंद्रेलग्नपतौशिशुः भौमेतुचतुर्थवर्षाधिकःबुधेब्रह्मचारीद्वादशाब्दः शुक्रेयौवनोपेतःद्वात्रिंशदब्दःगुरौमध्यवयाःखपंचाब्दःसूर्येसप्तत्यब्दःवृद्धःसौरेऽतीववृद्धःअशीत्यब्दः जातिःब्राह्मणादिःजीव सितौविप्राणां-क्षत्रस्यारोष्णगूविशांचंद्रःशूद्राधिपःशशिसुतः शनैश्चरःसंकर भवानामिति ॥ १३ ॥ ॥६॥

इतिश्रीभठ्ठोत्पलविरचितायांषट्पंचाशिकाविवृतौमिश्रकाध्यायः सप्तमः ७ समाप्तेयं विवृतिसमेताषट्पञ्चाशिका ॥॥ ६ ॥॥ ६ ॥॥ ६ ॥

इदं पुस्तकं मुंम्बय्यां श्रीकृष्णदासात्मज गंगाविष्णु खेमराजाभ्यां स्वकीये

श्रीवेंकटेश्वराख्यमुद्रणायंत्रालयेमुद्रितम्, संवत् १९४४ शके १८०९

गङ्गाविष्णुश्रीकृष्णदास-

“श्रीवेङ्कटेश्वरछापखाना मुम्बई. “

विदुषामभ्यर्थना।

अत्र च महाभारतादीतिहासाः श्रीमद्भागवतादिपुराणानि सहस्रनामादिस्तोत्राणि तथा च व्याकरणन्यायादिशास्त्र-नाटकाख्यायिकादिग्रंथाश्च सीसकोत्तममहल्लघ्वक्षरैश्च मनोहरं मुद्रिताः योग्यमूल्येन कय्याः संति तत्तांश्च ग्राहकायथासूचीपत्रं मूल्यप्रेषणेन प्राप्नुयुः ।

शङ्कराचार्यकृत-शारीरक “ब्रह्मसूत्रभाष्य”-गोविंदानन्दकृत रत्नप्रभाटीकासहित

यह ग्रन्थ टीप्पणी सहित परमोत्तम पुष्ट कागजमे छापकर तैयार है १६०० पृष्ट (२०० फार्म ) के अनुमान है इसमें अधिकरणमाला

और भिलाई जंविगी किंमत ९ रुपे है पिछेसे दाम अधिक लिये जावेगे डाक महासूल १। रु० है

श्रीकृष्णदासात्मजो गंगाविष्णुः खेमराजश्च.
श्रीवेङ्कटेश्वरमुद्रायन्त्रालयम् (मुंबय्यां)

॥ इति सटीकषट्पंचाशिका समाप्ता ॥
————♦————

]