ज्योतिर्निबन्धः

[[ज्योतिर्निबन्धः Source: EB]]

[

आनन्दाश्रमसंस्कृतग्रन्थावलिः

ग्रन्थाङ्कः ८५

ज्योतिर्निबन्धः।

शूरमहाठश्रीशिवराजविनिर्मितः।

एतत्पुस्तकं वैद्योपनामकसदाशिवसूनुरङ्गनाथशास्त्रिभिः संशोधितम्।

तच्च

वी. ए.इत्युपपदधारिणा

विनायक गणेश आपटे

इत्यनेन

पुण्याख्यपत्तने

आनन्दाश्रममुद्रणालये

आयसाक्षरैर्मुद्रयित्वा

प्रकाशितम्।
___

शालिवाहनशकाब्दाः १८४१
______

ख्रिस्ताब्दाः १९१९
______

(अस्य सर्वेऽधिकारा राजशासनानुसारेण स्वायत्तीकृताः )

मूल्यम् एकाणकन्यूनं रूपकचतुष्टयम्। (३८१५)

आदर्शपुस्तकोल्लेखपत्रिका।

ज्योतिर्निबन्धस्यास्य शोधनार्थमादर्शपुस्तकानि यैः परहितेच्छुभिः प्रहितानि तन्नामानि पुस्तकसंज्ञाश्च मदर्श्यन्ते—

(क.) इति संज्ञितं पुस्तकं–खेडग्रामनिवासि कै० रा. रा. नागुभाऊ वकील इत्येतेषाम्।अस्य लेखनकालः

श०१७०१.

(ख.) इति संज्ञितं पुस्तकं—पुण्यपत्तनस्थ-करवेलकरोपाड रा. रा. गोपालमहादेव इत्येतेषाम्।

(ग.) इति संज्ञितं पुस्तकं—पुण्यपत्तनस्थ वे० शा० सं० रा. रा. राघवाचार्यरामानुज इत्येतेषाम्। त्रुटितमेतत्।

(घ.) इति संज्ञितं पुस्तकं—पुण्यपत्तननिवासिनां वे. शा. सं. रा. रा. विनायकशास्त्री शेवगांवकर इत्येतेषाम्।

काश्यां शिलामुद्रितमेतदस्य मुद्रणकालः संवत् १८३४.

समाप्तेयमादर्शपुस्तकोल्लेखपत्रिका।

श्रीशिवराजविनिर्मितज्योतिर्निबन्धस्य विषयानुक्रमः।

विषयाः विषयाः
शास्त्रोपनयः प्रकारान्तरम्
ज्योतिःशास्त्रप्रशंसा आयव्ययानयनम्
देवज्ञप्रशंसा मासप्रकरणम्
रविचारः तिथिप्रकरणम्
चन्द्रचारः वारप्रकरणम्
कुजचारः योगप्रकरणम्
बुधचारः करणप्रकरणम्
गुरुचारः नक्षत्रप्रकरणम्
शुक्रचारः शुद्धनक्षत्रविचारः
शनिचारः वेधविचारः
राहुचारः पीडितनक्षत्रापवादः
केतुचारः मुहूर्तप्रकरणम्
अगस्त्यचारः उपग्रहप्रकरणम्
सप्तर्षिचारः उपग्रहदोषापवादः
ग्रहयुद्धः चन्द्रतारावलप्रकरणम्
चन्द्रग्रहसमागमः दुष्टतारापवादः
ग्रहशृङ्गाटकम् गोचरप्रकणम्
मानप्रकरणम् पृथक्फलानि
संवत्सरप्रकरणम् गोचरापवादः
प्रभवादिसंवत्सरफलानि ग्रहदानानि
राजादीनां निर्णयः अनिष्टचन्द्रापवादः
राजफलम् सौम्यक्रूरादिविचारः
मन्त्रिफलम् सूर्ये कथं क्रूरत्वादीति प्रश्नोत्तरम्
अग्रधान्येशफलम् लग्नप्रकरणम्
मेघेशफलम् षड्वर्गकरणम्
रसाधिपफलम् अनिष्टवर्गापवादः
पश्चिमधान्येशफलम् तिथ्यादीनां बलविचारः
विश्वानयनम् लग्नबलप्रसंसा
विषयाः विषयाः
चन्द्रबलप्रशंसा भद्रापवादः
चन्द्रलग्नयोर्वलनिर्णयः कालहोरापवादः
लग्नस्थार्कप्राशस्त्यम् पञ्चकदोषः
लग्नस्थचन्द्रनिषेधप्रश्नोत्तरम् पञ्चकापवादः
तात्कालिकविचारः संधिविचारः
सूक्ष्मर्क्षानयनम् उक्तानुक्तदोषापवादः
तिथ्यादिगुणप्रशंसा दोषापवादभङ्गः
त्याज्यप्रकरणम् मौढ्यादिविचारः
दोषफलप्रकरणम् अस्तापवादः.
अपवादप्रशंसा अस्ते तीर्थयात्रानिषेधः
महादोषनिरूपणम् अस्यापवादः
एषा लक्षणानि चन्द्रास्तदोषः
गण्डान्तापवादः मलमासनिर्णयः
कर्तरीविचारः मलमासे कार्याकार्याणि
कर्तर्यपवादः क्षममासनिर्णयः
षडष्टरिष्फचन्द्रदोषः ग्रहणनिर्णयः
षडष्टरिष्फचन्द्रापवादः ग्रहणविधिः
संग्रहदोषः पर्वेशासाधनम्
संग्रहापवादः पर्वेशादिफलानि
अष्टमलग्नदोषः निजराशौ ग्रहणफलम्
अष्टमलग्नापवादः ग्रहणे दानम्
विपनाडीदोषः ग्रहणमाहात्म्यम्
विपनाड्यपवादः ग्रहणे वर्ज्यम्
दुर्मुहूर्तदोषः सिंहस्थगुरुनिर्णयः
वारदोषः संकटेप्रवृत्तिः
कुलिकाघ्रापवादः संक्रान्तिनिर्णयः
एकार्गलादिदोषः संक्रान्तिवाहनादिविचारः
कुनवासः संक्रान्तेः पुण्यकालः
नवांशापवादः पुण्यकालविशेषः
पातदोषनिर्णयः पुण्यकालानयनम्
विषयाः विषयाः
संक्रान्तिस्नानम् कर्णवेधः
संक्रान्तिफलम् निष्क्रमणम्
संक्रान्तिदानानि भूम्युपवेशनम्
जन्मराशिनिर्णयः जीविकापरीक्षणम्
नामराशिनिर्णयः अन्नप्राशनम्
जन्ममासादीनां निर्णयः चूडाकरणम्
व्यवस्थाविकल्पः चौलनिषेधः
जन्ममासप्रवृत्तिः क्षौरनिषेधः
जन्मनक्षत्रविचारः अक्षरारम्भविधिः
सिद्धान्तमीमांसाध्यायः अङ्कुरार्पणम्
अस्य निर्णयः उपनयनम्
आधुनिकमतम् उपाकरणम्
संदेहे विचारः केशान्तकर्म
जातकलग्नयोः प्राधान्यविचारः विद्यारम्भः
अनध्यायाः
शास्त्रार्थशिष्टाचारप्रामाण्यविचारः छुरिकाबन्धनम्
विवाहप्रकरणम्
प्रथमार्तवप्रकरणम् फुलविचारः
तत्र पृथक्फलानि गोत्रप्रवरनिर्णयः
रजस्वलाशान्तिः वरगुणाः
गर्भाधानम् कन्यागुणाः
पुंसषनम् सामुद्रिकलक्षणानि
सीमन्तोन्नयनम् स्वस्थारिष्टानि
जातकर्म दैवज्ञं प्रति पृच्छा
नामकर्म विवाहप्रश्नः
खट्वारोष्टविधिः शुभाशुभज्ञानम्
दुग्धपानविधिः राशिकूटविचारः
चरयोगिनी घटितभेदाः
राहुलक्षणम् वर्णविचारः
रुद्रलक्षणम् वश्यम्
विषयाः विषयाः
ताराः गान्धर्वविवाहशुद्धिः
योनिः विवाहाङ्गादीनां शुद्धिः
ग्रहसख्यम् विवाहभेदाः
गणशुद्धिः दातृनिर्णयः
भमेलः विषकन्याज्ञानम्
नाडीविचारः मूलजादीनां फलम्
नाट्यपवादः वैधव्यादियोगे विवाहः
पुञ्जी समानक्रियाविचारः
वर्गः यमलविशेषः
दूरविचारः प्रत्युद्वाहनिषेधः
धिष्ण्यदूरम् प्रतिकूलविचारः
दुष्टफलपरिहारः तत्र सूतकादौ शान्तिः
गुणविचारः नववधूप्रवेशः
विवाहनिश्चयः अग्न्याधानम्
कन्यावरणम् गृहारम्भप्रकरणम्
विवाहकालविचारः दिक्साधनम्
गुरुशुक्रास्तापवादः शङ्कुन्यासः
रविगुर्वोर्बलविचारः दुर्निमित्तानि
वृहस्पतिशान्तिः स्तम्भः
आदित्यशान्तिः आयः
मासनिर्णयः निषिद्धग्राह्यकाष्ठानि
तिथ्यादिशुद्धिः द्वारनिर्णयः
जामित्रशुद्धिः गृहनियमः
अंशशुद्धिः ग्रामदिङ्नियमः
लग्नशुद्धिः वास्तुनिवेशमुहूर्तविचारः
लग्नगोचरम् गृहायुर्दाययोगाः
भावशुद्धिः गृहप्रवेशः
गोरजःशुद्धिः वास्तुपूजाविधिः
घटीलक्षणं प्रतिष्ठा च सूतिकागृहनिर्माणविधिः
वेदिकालक्षणम् शय्यालक्षणम्
विषयाः विषयाः
राज्याभिषेकप्रकरणम् प्रयाणे कर्तव्यानि
यात्राप्रकरणम् नियमाः
पात्रानिवृत्तिकालः यात्रायां प्रस्थानविधिः
यात्रायां पञ्चाङ्गशुद्धिः यात्रायां शकुनाः
पन्था राहुः अपशकुनाः
यात्रायां दोहदप्रकरणम् अपशकुनविधानम्
लग्नबलविचारः क्षतम्
पृथग्भावफलं-तत्र रविफलम् अश्वेङ्गितम्
चन्द्रफलम् गजेङ्गितम्
भौमफलम् स्वस्थानकृत्यम्
बुधफलम् नानाविधमुहूर्तप्रकरणम्
गुरुफलम् तत्र सुरप्रतिष्ठा
शुक्रफलम् वस्त्रधारणम्
शनिफलम् पृथकफलानि
राहुकेतुफलम् वस्त्रक्षालनम्
यात्रायां समुदायेन पृथक्फलानि दग्धस्फुटितवस्त्रफलम्
वस्त्रारम्भणम्
यात्रायां लग्नांशफलम् तूलिका
यात्रायां प्रतिशुक्रविचारः अलंकृतिः
प्रतिशुक्रापवादः धननिक्षेपः
शुक्रस्तोत्रम् विपणिः
प्रतिशुक्रपूजाविधानम् सेवा
प्रतिशुक्रदानम् व्यभिचारः
योगप्रसंशा आयुष्पुटिकर्म
यात्रायां योगाः रससंग्रहादि
राजयोगभङ्गः संन्यासः
यात्रायामनिष्ठयोगाः ब्रह्मज्ञानोपदेशः
यात्रायां मनोविशुद्धिः दीक्षा
आवश्यके यात्रा श्रुतिस्मृतिप्रारम्भः
यात्रोपयोगि मिश्रकम् नाट्यम्
विषयाः विषयाः
ताराः गान्धर्वविवाहशुद्धिः
योनिः विवाहाङ्गादीनां शुद्धिः
ग्रहसख्यम् विवाहभेदाः
गणशुद्धिः दातृनिर्णयः
भमेलः विषकन्याज्ञानम्
नाडीविचारः मूलजादीनां फलम्
नाड्यपवादः वैधव्यादियोगे विवाहः
पुञ्जी समानक्रियाविचारः
वर्गः यमलविशेषः
दूरविचारः प्रत्युद्वाहनिषेध
धिष्ण्यदूरम् प्रतिकूलविचारः
दुष्टफलपरिहारः तत्र सूतकादौ शान्तिः
गुणविचारः नववधूप्रवेशः
विवाहनिश्चयः अग्न्याधानम्
कन्यावरणम् गृहारम्भप्रकरणम्
विवाहकालविचारः दिक्साधनम्
गुरुशुक्रास्तापवादः शङ्कुन्यासः
रविगुर्वोर्बलविचारः दुर्निमित्तानि
बृहस्पतिशान्तिः स्तम्भः

भूषणनिर्माणम् पल्लीशब्दफलम्
मणिधारणम् पल्लीसरटयोः शान्तिः
शान्त्यध्यायः -तत्र गण्डजातफलम् काकमैथुनशान्तिः
कपोतशान्तिः
गण्डदोषशान्तिः उलूकादिशान्तिः
अभुक्तमूलविचारः मधुजालशान्तिः
मूलसार्पजातफलम् अन्नशान्तिः
मूलसार्पजातस्यापवादः अग्निशान्तिः
शिशुमुखदर्शनादर्शने उल्कालक्षणम्
मूलशान्तिः परिवेषलणक्षम्
आश्लेषाशान्तिः इन्द्रचापलक्षणम्
ज्येष्ठाशान्तिः गन्धर्वनगरलक्षणम्
एकनक्षत्रजननशान्तिः प्रतिसूर्यलक्षणम्
कृष्णचतुर्दशीशान्तिः निर्घातलक्षणम्
सिनीवालीशान्तिः दिग्दाहलक्षणम्
गोप्रसवविधिः रजोलक्षणम्
व्यतीपातादिशान्तिः भूकम्पलक्षणम्
सदन्तोत्पन्नशान्तिः कदलीदुष्टप्रसवशान्तिः
धनिष्ठापञ्चकविचारः अङ्गस्फुरणफलम्
पञ्चकशान्तिः सद्योवृष्टिलक्षणम्
त्रिपुष्करयोगः सप्तनाडीचक्रम्
त्रिपुष्करशान्तिः सस्योत्पत्तिविचारः
भावकाष्टकम् जातकाध्यायः - तत्र राशिभेदाः
पल्लीपतनफलम् ग्रहस्वरूपभेदाध्यायः
देहाङ्गफलानि आधानचिन्ता
तिथिफलम् जन्माध्यायः
वारफलम् सूतिकाध्यायः
नक्षत्रफलम् व्रणादिज्ञानम्
लग्नफलम् अनिष्टाध्यायः
सरटपतन फलम् अरिष्टाध्यायः
विषयाः विषयाः
राज्योपकरणादीनि प्रथमस्त्रीभोगः
पण्यविक्रयः मद्यारम्भः
धर्मारम्भोऽभिचारश्च व्यालग्रहणम्
संधिः गजकर्म
वेतालसिद्धिः बलकर्म
वापीकूपाद्यारम्भः नृपदर्शनम्
वृक्षाधिरोपः शान्तिः
कृषिः दीपिकाशय्यादि
बीजोप्तिः सूची
धान्यच्छेदनम् दिव्यम्
धान्यसंग्रहः नौका
बीजसंग्रहः क्रूरम्
मेथी शस्त्रनिर्माणम्
धान्यस्थापनम् शस्त्रधारणम्
धान्यनिष्क्रमणम् अभ्यासः
चौर्यम् धनुरभ्यासः
द्रव्यार्पणम् वैदिको बाणमन्त्रः
गोविक्रयादि स्मार्तो बाणमन्त्रः
अश्वविक्रयादि खड्गादिलक्षणम्
नूतनाश्वपल्याणम् ताम्बूलम्
पक्षिकर्म दीपविधिः
स्पलाम्बुवनचारिकर्म स्त्रीसंभोगः
शत्रुवन्धनम् नवान्नभोजनम्
पुष्पफलोचारणम् पात्रम्
औषधनिष्पादन् मैत्री
औषधग्रहणम् दासी
रोगमुक्तिस्नानम् सेतुः
सूतिफास्नानम् सर्वकर्म
शतभिपरस्नानफलम् रोगमुक्तिदिवसाः
तैलाभ्यङ्गः दुर्गादीनां यजनम्

चन्द्रारिष्टभङ्गः प्रश्नप्रकरणम्
नियतायुः तत्रादौ शुभाशुभज्ञानम्
अमितायुः लग्नादिभावविचारः
आयुर्दायविवरणम् ग्रहवलावलम्
आयुर्दायानयनम् धात्वादिचिन्ता
दशाविभागः बहुप्रश्नेः विशेषः
दशाफलपाकनिर्देशः लाभालाभविचारः
अन्तर्दशाफलम् नष्टलाभविचारः
भावविचारः गर्भपृच्छा
धनचिन्ता विवाहपृच्छा
सहजचिन्ता विवाहे शुभाशुभम्
सुहच्चिन्ता संभोगः
सुतचिन्ता गमनम्
अरिचिन्ता आगमनम्
कलत्रचिन्ता परचक्रागमः
मृत्युचिन्ता युद्धपृच्छा
गतिज्ञानम् जयपराजयौ
भाग्यचिन्ता संधिविग्रहौ
कर्मचिन्ता दुर्गभङ्गः
आयचिन्ता वेष्टितदुर्गभङ्गपृच्छा
व्ययचिन्ता परदुर्गाप्तिपृच्छा
ग्रहभावफलम् आत्मदुर्गपृच्छा
स्त्रीजातकाध्यायः अन्यदुर्गभङ्गपृच्छा
राजयोगाध्यायः मन्त्रभेदपृच्छा
राजयोगभङ्गः विवादः
राजयोगनिर्णयः सेवापृच्छा
चन्द्रयोगः आश्रयः
म्लेच्छयोगः नृपदर्शनम्
राशिलग्नयोः फलम् गौरवम्
प्रव्रज्ययोगः पदलाभपृच्छा
विषयाः विषयाः
अधिकारः सादिः
पदनिर्वाहपृच्छा अनयोः कः सत्यः
स्थानप्राप्तिः दिनचर्या
धातुवादः धान्यनिष्पत्तिः
चौर्यपृच्छा सुभिक्षपृच्छा
सौख्यपृच्छा दुर्भिक्षम्
भयपृच्छा वृष्टिपृच्छा
अग्निभयम् कूपपृच्छा
नदीपूरणपृच्छा नौका
कालवृष्टिपृच्छा रोगपृच्छा
स्त्रीविग्रहः रोगनाशकयोगः
धृताविवाहितापृच्छा स्वस्थो रोगी वा
बन्धनपृच्छा क्व मृत्युः
मृत्युयोगः मुक्तिर्भविष्यति न वा
मृत्युभङ्गः कस्माल्लोकादागतोऽयम्
गतप्राप्तिपृच्छा रोगज्ञानम्
मृताप्तिपृच्छा दोषपृच्छा
हृतादिवस्तुपृच्छा निधिपृच्छा
चोरोऽयं न वेति पृच्छा मृगया
कोऽयं नर इति पृच्छा बन्धमोक्षौ
अस्य को देश इति पृच्छा लिखितपृच्छा
मित्रप्रीतिपृच्छा वार्तापृच्छा
कोऽश्वो विजयीति पृच्छा हन्तुं गमनम्
मेलकः अभिचारः
वस्तुग्रहणम् योगसिद्धिः
वस्तुविक्रयः विद्याभ्यासः
क्रयविक्रयमध्ये कस्माल्लाभः काव्यम्
वस्तुसंग्रहणाल्लाभोऽस्ति न वा दीक्षा
कृतसंग्रहस्य वस्तुनः कदा विक्रयः स्वप्नः
वर्षेऽस्मिन्कथं भविष्यति भोजनम्
विषयाः विषयाः
भुक्तियानम् क्षेत्रपाली
वाटिका पक्षभूमिः
अर्धपृच्छा कालभूमिः
देशभङ्गपृच्छा विम्वभूमिः
आयुष्पृच्छा लग्नभूमिः
नष्टजन्म राहुभूमिः
दुर्दिने लग्नज्ञानम् कुलिकराहुचक्रम्
चिन्तामुष्टिकज्ञानम् योगिनी
फलकालनिर्णयः वारकालः
स्वरशास्त्रप्रशंसा वारयोगिनीचक्रम्
स्वरोदयः तिथिकालः
तत्कालस्वरचिन्ता तिथियोगिनीचक्रम्
वर्णस्वरचक्रम् वायुभूमिः
राशिस्वरचक्रम् भूबलम्
नक्षत्रस्वरचक्रम् घातचक्रम्
मासस्वरचक्रम् द्वितीया घातवटी
द्वादशवार्षिकस्वरचक्रम् तृतीया घातवटी
ऋतुस्वरचक्रम् घातचक्रम्
वारस्वरचक्रम् जाग्रत्सुपुप्तचक्रम्
दिक्स्वरचक्रम् सेनाचक्रम्
राहुकालानलम् द्वन्द्वयुद्धम्
चन्द्रार्ककालानलम् छुरिकायुद्धम्
रिक्तपूर्णचक्रम् छुरिकोपास्तिः
कुलाकुलचक्रम् मन्त्रः
लोहज्ञानम् व्यूहरचना
कविचक्रम् सूक्ष्मस्वरप्रकरणम्
कोटचक्रम् तत्त्वगुणाः
लग्नबलम् प्रश्नोत्तराध्यायः
कालबलम् अष्टकवर्गप्रश्नोत्तरम्
वडवानली भूमिः प्रलयप्रश्नोत्तरम्

[TABLE]

समाप्तेयंज्योतिर्निबन्धस्य विषयानुक्रमणिका।

ज्योतिर्निबन्धः।

वेदाद्यं यातमर्धेन्दुभालयुग्विन्दुतत्पुनः भायनत्यन्तमङ्गार्णं1मनुर्यस्य नमामि नम् ॥१॥ अभीष्टफलदो देवः सर्वज्ञः परमेश्वरः। आदधातुगणाध्यक्षः स्थितिं मनसि नः सदा ॥२॥ तिथ्यादिकालावयवस्वरूपां जगत्प्रसूत्यादिकहेतुभूताम्। कालत्रयज्ञाना-वधायिनीं तां वन्देऽहमाद्यामिह शास्त्रदेवीम् ॥३॥ नारदः–ब्रह्माऽऽचार्यो2 वसिष्ठोऽत्रिर्मनुः पौलस्त्यरोमशौ। मरीचिरड्गिरा व्यासोनारदः शौनकोभृगुः ॥४॥ च्यवन3ोयवनोगर्गःकश्यपश्च पराशरः।अष्टादशैते गम्भीरा ज्योतिःशास्त्रप्रयोजकाः ॥५॥ वराहमिहिराचार्यः श्रीपतिः सत्यभास्करौ। लल्लःसूरिर्ब्रह्मगुप्तो वैद्यनाथश्च रेणुकः ॥६॥एषांशास्त्राणि सेवीक्ष्य सारमादाय4 यत्नतः। तदुक्तवचनैः कुर्वे फलग्रन्थं मनोरमम् ॥७॥ यथैवारोपयत्येकं श्रेयोर्थी सद्द्रुमं पथि। सत्स्वारामेषु शास्त्रेषु तथैनां विद्धि मत्कृतिम्*5 मदीयम् (यः) ग्रन्थो यस्माव्द्याप्तार्गादिशास्त्रयोक्तं तत्त्वनूनमत्रास्ति नान्यत् ॥९॥") ॥८॥गर्गः– धूर्तदुर्जनविद्वेषिकृतघ्नानां कदाचन। न प्रकाश्यमिदं शास्त्रं रहस्यं केवलं यतः ॥९॥ तथा च भास्करः–दिव्यं ज्ञानमतीन्द्रियं यद्यपिभिर्ब्राह्मं वसिष्ठादिभिः पारन्पर्यवशाद्रहस्यमवनीं नीतं प्रकाशं यतः। नैतद्द्वेषिदुरुक्त-दुर्जनदुराचाराचिरावासिनां स्यादायुःसुकृतक्षयो मुनिकृतां सीमामिमामुज्झताम् ॥१०॥

इति श्रीज्योतिर्निबन्धे शास्त्रोपनयनाध्यायः॥

अथ ज्योतिःशास्त्रप्रशंसा॥

आर्ष्टिपणिः–वेदेषु विद्यासु च ये प्रदिष्टा धर्मादयः कालविशेषतोऽर्थाः। ते सिद्धिमायान्त्यखिलाश्चयेन तद्वेदनेत्रंजयतीह लोके ॥१॥ मूलसूत्रे– वेदेषु6विद्यासु च ये प्रदिष्टा कालानुपूर्वा विहिताश्चयज्ञाः। तस्मादिदं कालविधानशास्त्रं यो ज्योतिषंवेद स वेद यज्ञम् ॥२॥ नारदः–विनैतदखिलंश्रौतस्मार्तकर्म न सिध्यति। तस्माज्जगद्वितायेदं ब्रह्मणा रचितं पुरा ॥३॥ याज्ञवल्क्यः-पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः। वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥४॥ वृद्धमनुः– वेदोपवेदवेदाङ्गमीमांसावेदसंहिताः। पुराणानि च धर्मस्य स्थानान्याहुः षडेव हि ॥५॥वसिष्ठः–क्रतुक्रियार्थंश्रुतयः प्रवृत्ताः कालाश्रयास्ते क्रतवो निरुक्ताः। शास्त्रादमुष्मात्किल कालवोधो वेदाङ्गता मुख्यतरा7 प्रसिद्धा ॥६॥ छन्दः पादौशब्दशास्त्रं च वक्त्रं कल्पः पाणी ज्योतिषंचक्षुषीच। शिक्षा घ्राणं श्रोत्रमुक्तं निरुक्तं वेदस्याङ्गान्याहुरेतानि षट् च ॥७॥भास्करः—वेदचक्षुः किलेदं स्मृतं ज्योतिषं मुख्यता चाङ्गमध्येऽस्य तेनोच्यते। संयुतोऽपीतरैःकर्णनासादिभिश्चक्षुषाऽङ्गेनहीनो न किंचित्करः ॥८॥तस्माद्द्विजैरध्ययनीयमेतत्पुण्यं रहस्यं परमं च तत्त्वम्। यो ज्योतिषं वेद नरः स सम्यग्धर्मार्थमोक्षं लभते यशश्च ॥९॥वसिष्ठः–अध्येतव्यं ब्राह्मणैरेव तस्माज्ज्योतिःशास्त्रं पुण्यमेतद्रहस्यम्। एतद्वुद्धा सम्यगाप्नोति यस्मादर्थं धर्मंमोक्षमग्र्यंयशश्च॥१०॥ चतुर्विंशतिमते– गणितात्सिध्यते कालः काले तिष्ठन्ति देवताः। वरमेकाहुतिः काले नाकाले कोटिसंमिताः ॥११॥ अतातानागते काले दानहोमजपादिकम्।ऊपरे वापितं वीजं तद्वद्भवति निष्फलम् ॥१२॥ मनुः–यज्ञाध्ययनसंक्रान्तिश्राद्धषोडशकर्मणाम्। प्रयोजनं च विज्ञेयं तत्तत्कालविनिर्णयम् ॥१३॥वेदाः8 प्रमाणं9 स्मृतयोऽपराणि तर्कादिशास्त्राणि तथेतिहासाः। सत्याभिधं ज्योतिषशास्त्रमेतज्ज्ञानं समस्तानि समाश्रयन्ति ॥१४॥ वराहः–मुनिविरचितमिदमिति यश्चिरन्तनं साधुनाऽऽधुनिककृतम्।तुल्येऽर्थेऽक्षरभेदादमन्त्रके का विशेषोक्तिः ॥१५॥ धरणिसुतदिवसवारो न शुभकृदिति पितामहेनोक्तम्। कुजदिनमनिष्टमिति वा कोऽत्र विशेषो नृदेवकृते ॥१६॥ आर्ष्टिषेणिः–यथा क्षारादिसंतापैर्हेन्नोऽधिकतरा द्युतिः। तथैव नूतनोपायैः शास्त्रं निर्मलतां व्रजेत् ॥१७॥बराहः–यदुपचितमन्यजन्मनि शुभाशुभं तस्य कर्मणः प्राप्तिम्। व्यञ्जयति शास्त्रमेतत्तमसि द्रव्याणि दीप इव ॥१८॥ मूलसूत्रे–यथा शिखां मयूराणां नागानां मणयो यथा। तद्वद्वेदाङ्गशास्त्राणां गणितं मूर्धनि स्थितम् ॥१९॥ व्यासः–यथा काष्टमयः सिंहो यथा चित्रमयो नृपः। तथा वेदाद्यधीतोऽपि ज्योतिशास्त्रं विना द्विजाः ॥२०॥ अप्रत्यक्षाणि शास्राणि विवादस्तेषु केवलम्। प्रत्यक्षं ज्योतिषं शास्त्रं चन्द्रार्कौयत्र साक्षिणौ ॥२१॥ चूडामणौ–गारुडे भूतवादे च ज्योतिषे वैद्यके तथा। कारणं प्रत्ययस्तत्र न तु शद्बविचारणा ॥२२॥ज्योतिषे ग्रहणं सारं गारुडे विषभक्षणम्। शैवेघटवती दीक्षा कौलिके10 ग्रहनिग्रहौ॥२३॥पितामहः–पुराणं मानवो धर्मः साङ्गोवेदचिकित्सितम्। आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः ॥२४॥ ज्योतिर्विवरणे—इदमागमसिद्धत्वात्प्रत्यक्ष-फलदर्शनात्। मन्त्रवत्संप्रयोक्तव्यं न मीमांस्यं कथंचन ॥२५॥ अष्टिर्षेणिः–भो बुधाऽऽधुनिकविप्रनिर्मितं शास्त्रमेतदिति मा न जीगणः। केवलं तु यत एवसूरिभिर्भाषितस्य मथितार्थसंग्रहः ॥२६॥मन्त्रर्थमुक्तावल्याम्–चातुर्वर्ण्यं त्रयो लोकाश्चत्वाारश्चाऽऽश्रमाः पृथक्।भूतं भव्यं भविष्यं च सर्वे वेदाच्च सिध्यति ॥२७॥पितृदेवमनुष्याणां वेदचक्षुः सनातनम्। तच्चक्षुर्ज्योतिषंशास्त्रं दिव्यं ज्ञानमतीन्द्रियम् ॥२८॥ दिव्यं ज्ञानमिदं विप्रैःश्रौर्तस्मार्तक्रियापरैः।वेदवत्पठितव्यं हि कर्मकालप्रकाशकम् ॥२९॥

इति श्रीज्योतिर्निबन्धे ज्योतिषप्रशंसाध्यायः॥

अथ दैवज्ञप्रशंसा॥

नारदः–त्रिस्कन्धज्ञो दर्शनीयः श्रौतस्मार्तक्रियापरः। निर्दाम्भिकःसत्यवादी देवज्ञो दैववित्स्थिरः ॥१॥ कौमुद्याम्–व्यक्ताङ्कःफलकालवित्सुकृतिमान्पूर्वापरस्मारकः पाटीकुट्टकवीजशास्त्रकुशलः सिद्धान्तवित्प्राञ्चलः। भिन्नाभिन्नसवर्णनादि-गुणनेभूयो महानुद्यमी क्षुत्तृष्णादिसहः स एव गणकः श्लाघ्यो विदां संसदि ॥२॥ अन्यच्च–*सत्सिद्धान्त11विचारजातकफल-ग्रन्थादिशुद्धार्थवित्प्रश्नज्ञो गुणवान्स्थिरःपटुमतिः संशुद्धचित्तः सदा। पार्टीकुट्टकवीाजशास्त्रकुशलः सङ्ग्रामशास्त्रान्तगो धर्मिष्ठो गणकः स भूमिषसभायोग्यः कलाज्ञो मतः ॥३॥ वराहः–अप्रदीपा यथा राविरनादित्यं यथा नभः। तथाऽसवित्सरो लोको भ्रमत्यन्ध इवाध्वनि ॥४॥ नासांवत्सरिके देशे वस्तव्यं भूतिमिच्छता। चक्षुर्भूतो हि यत्रैषस्तत्र पापं न विद्यते ॥५॥ ग्रन्थतश्चार्थतश्चैनं कृत्स्नं जानाति यो द्विजः। अग्रभुक् स भवेच्छ्राद्धे पूजितः पङ्क्तिपावनः ॥६॥ कृत्स्नाङ्गोपाङ्गकुशलं होरागतिनैष्टिकम्।यो न पूजयते राजा स नाशमुपगच्छति ॥७॥वनं समाश्रिता ये च निर्ममा निष्परिग्रहाः।अपिते परिपृच्छन्ति ज्योतिषांगतिकोविदम् ॥८॥ म्लेच्छा हि यवनास्तेषु सभ्यक्शास्त्रमिदं स्थितम्। ऋषिवत्तेऽपि पूज्यन्ते किं पुन—

दैवविद्द्विजः ॥९॥ चतुर्विंशतिमते–अविदित्यैव यः शास्त्रं देवत्वं प्रपद्यते। स पङ्क्तिदूषकः पापो ज्ञेयो नक्षत्रसूचकः ॥१०॥ कालनिर्णये–नक्षत्रसूचकोद्दिष्टमुपवासं करोति यः। स व्रजत्यन्धतामिस्रं सार्धमृक्षविडन्विना ॥११॥ पृथुयशाः–नगरद्वारि लोष्टस्य यद्वत्स्यादुपयाचितम्। आदेशस्तद्वदवानामज्ञैःसत्यं स मन्यते ॥१२॥श्रीधरः–न वेत्ति यो जातककर्मपद्धतिं न ब्रह्मसिद्धान्तभवानपि ग्रहान्।यात्राविवाहादिषु कालसूचको ज्ञेयोऽत्र मृत्युः खलु तत्स्वरूपधृक्॥१३॥ वराहः–न प्रतिषिद्धं गमयति वक्ति न च प्रश्नमपि पृष्टः। निगदति न च शिष्येभ्यः स कथं शास्त्रार्थविज्ज्ञेयः ॥१४॥ न तत्सहस्रं करिणां वाजिनां या चतुर्गुणम्।करोति देशकालज्ञो यदेको दैवचिन्तकः ॥१५॥ भुपालः–तथा न माता हितकृन्न पिता न सुहृद्गुरुः। यद्वत्सांवत्सरो राज्ञां स्वयशोधर्मवृद्धये ॥१६॥लल्लः–दुःस्वप्नदुर्विचिन्तितदुष्प्रेक्षितदुष्कृतानि कर्माणि।क्षिप्रंप्रयान्ति नाशं दृष्ट्वास्पृष्ट्वा च दैवज्ञम् ॥१७॥वराहः–श्रुत्वा तिथिंभग्रहवासरं च प्राप्नोति धर्मार्थयशांसि सौख्यम्।आरोग्यमायुर्विजयं सुतांश्च दुःस्वप्ननाशं प्रियतां च लोके ॥१८॥

इति श्रीज्योतिर्निबन्धे दैवज्ञप्रशंसाध्यायः॥

*अथ12 चाराध्यायः॥

अथ रविचारः।

तत्राऽऽदौ रविचारः।कश्यपः–अथातः संप्रवक्ष्यामि रविचारमनुत्तमम्। सूर्यचारवशादेव निखिलः कालनिर्णयः ॥१ बराहः– आश्लेपषार्धाद्दक्षिणमुत्तरमयनं रवेर्धनिष्ठाद्यम्। नूनं कदाचिदासीद्येनोक्तं पूर्वशास्त्रेषु ॥२॥ सांप्रतमयनं सवितुः कर्कटा (टका) द्यं मृगादितश्चैतत्। उक्ताभावो विकृतिः प्रत्यक्षपरीक्षणैर्व्यक्तिः ॥३॥सतमस्को (स्कं) पर्व विना त्वष्टा नामार्कमण्डलं कुरुते। स निहन्ति सप्त भूपाञ्जनांश्चशस्त्राग्निदुर्भिक्षैः ॥४॥ कश्यपः–त्रयस्त्रिंशद्राहुसुतास्तामसाख्याः प्रकीर्तिताः। तानर्कमण्डले दृष्ट्वा वर्णाकारैः फलं वदेत् ॥५॥ सूर्यमण्डलगाः पापाश्चन्द्रमण्डलगाः शुभाः। चन्द्रेऽप्यनिष्टदाः खड्गकवन्धध्वाङ्क्षसंनिभाः ॥६॥बराहः–तेषामुदये रूपाण्यम्भः कलुषं रजोवृतं व्योम। नगतरुशिखरावमर्दी सशर्करो मारुतश्चण्डः ॥७॥ ऋतुविपरीतास्तरवो दीप्ता मृगपक्षिणोदिशां दाहः। निर्घातभूमिकम्पादयो भवन्त्यत्र

चोत्पाताः ॥८॥ न पृथक्फलानि तेषां शिखिकीलकराहुदर्शनं यदि चेत्। तदुदयकारणमेषांकेत्वादीनां फलं ब्रूयात् ॥९॥ यस्मिन्यस्मिन्देशे दर्शनमायान्ति सूर्यविम्बस्थाः। तस्मिंस्तस्मिन्व्यसनं महीपतीनां परिज्ञेयम् ॥१०॥ क्षुतृप्लानशरीरा मुनयोऽप्युत्सृष्टधर्मसच्चरिताः। निर्मांसवालहस्ताः कृच्छ्रेण यान्ति परदेशम् ॥११॥ तस्करविलुप्तचित्ताः प्रदीर्घनिःश्वासमुकुलिताक्षिपुटाः। सन्तश्छन्नशरीराः13 शोकोद्भववाष्परुद्धदृशः ॥१२॥ क्षामा जुगुप्समानाः स्वपतिपरचक्र-पीडिता मनुजाः।स्वपतिचरितं कर्म च पुरा कृतं प्रव्रुवन्त्यन्ये ॥१३॥ गर्भेष्वपि निष्पन्ना वारिमुचो न प्रभूतवारिमुचः। सरितो यान्ति तनुत्वं क्वचित्क्कचिज्जायते सस्यम् ॥१४॥नारदः–दण्डाकारे कवन्धे वा ध्याङ्क्षाकारेऽथकीलके। दृप्टेऽर्कमण्डले व्याधियतिर्श्चीरार्ध (र्थ) नाशनम् ॥१५॥ वराहः–दण्डे नरेन्द्रमृत्यर्व्याधिभयं स्यात्कवन्धसंस्थाने। ध्वाङ्क्षे च तस्करभयं दुर्भिक्षं कीलकर्कस्थे ॥१६॥ नारदः–छत्रध्वजपताकाद्यैराकारैस्तिमिरैर्घनैः।रविमण्डलगैर्धुमस्फुलिङ्गैर्जननाशनम् ॥१७॥सितरक्तपीतकृष्णैर्विप्रादीनामनिष्टदम्।हन्ति द्वित्रिचतुर्भिर्वा राजान्यत्वं जनक्षयम् ॥१८॥ ऊर्ध्वैर्भानुकरैस्ताम्रैर्नाशयन्ति (शं याति) चमूपतिम् (तिः)। पीतैर्नृपसुतं (तः) श्चेतैः पुरोधाश्चित्रितैर्जनैः(नाः) ॥१९॥ धूम्रैर्नृपं पिशङ्गैश्चजलदोऽधोमुखैः सदा। उदयास्तमये काले स्वास्थ्यं तैः पाण्डुसंनिभैः ॥२०॥ भास्करस्ताम्रसंकाशः शिशिरे कपिलोऽपि वा। कुङ्कुमाभो चसन्तर्तोकपिलो वाऽपिशस्यते ॥२१॥ आपाण्डुरःस्वर्णवर्णो ग्रीष्मे चित्रो जलागमे। पद्मोदराभः शरदि हेमन्ते लोहितच्छविः ॥२२॥ हेमन्ते प्रावृषि ग्रीष्मे रोगानावृष्टिभीतिकृत्। पीताभः कृष्णवर्णोऽर्कोलोहितस्तु यथाक्रमात् ॥२३॥ इन्द्रचापार्धमूर्तिश्चेद्भानुर्भूपविरोधकृत्। मयूरपत्रसंकाशो द्वादशाब्दंन वर्षति ॥२४॥ शशरक्तनिभे भानौ सङ्ग्रामो न चिराद्भवेत्।चन्द्रस्य सदृशो यत्र चान्यं राजानमादिशेत् ॥२५॥ वराह–ग्रीष्मेरक्तो भयकृद्वर्षास्वसितः करोत्यनावृष्टिम्। हेमन्ते पीतोऽर्कःकरोति नचिरेण रोगभयम् ॥२६॥ प्रावृट्काले सद्यः करोति विमलद्युतिर्वृष्टिम्। वर्षाकाले वृष्टिं करोति सद्यः शिरीषपुष्पाभः ॥२७॥ नारदः–अर्के श्यामे कीटभयं भस्माभे शास्त्रतोभयम्।छिद्रेऽर्कमण्डले दृष्टेतदा चौरार्धनाशनम् ॥२८॥ घटाकृतिः क्षुद्भयकृत्पुरहा तोरणाकृतिः। छत्राकृतिर्देशभयं खण्डभानुर्नृपान्तकृत् ॥२९॥ उदयास्तमये भानोर्विद्युदुल्काशानिर्यदि। तदा

नृपवधो ज्ञेयस्त्वथ वा राजविग्रहः ॥३०॥ पक्षं पक्षार्धमर्केन्दुपरिवेष्टात्व (पाव) हर्निशम्।राजानमन्यं कुरुतो लोहितावुदयास्तगौ॥३१॥ उदयास्तसमये भानुः स्थगितः शस्त्रसंनिभैः। घनैर्युद्धं खरोष्ट्राद्यैर्देष्ट्रिरूपैर्भयप्रदः॥३२॥ वराहः–कृष्णा रेखा सवितरि यदि हन्ति ततो नृपं सचिवः। दिवसकृतः प्रतिसूर्यो जलकृदुदग्दक्षिणे स्थितोऽनिलकृत् ॥३३॥ उभयस्थः सलिलभयं नृपमुपरि हन्त्यधो जनहा ॥३४॥ वसिष्ठः–यद्युपसूर्यकमस्यां संध्यायामर्घनाशनं प्रचुरम्। क्षितिपतिकलहः शीघ्रं सलिलभयं वा भवेन्नूनम् ॥३५॥ वराहः–अमलबपुरवक्रमण्डलः स्फुटविपुलामलदीर्घदीधितिः।अधिकृततनुवर्णचिह्नभुज्जगति करोति शिवं दिवाकरः ॥३५॥

इति रविचारः।

अथ चन्द्रचारः।

** **अमृतकिरणचारं खेटचारेषु सारं विपुलनिखिललोकानन्दर्दंसुन्दरीयम्। सदसदखिललोकाभोगदं यत्फलं तत्कथितविषमकालज्ञानदीपं प्रवच्मि॥१॥ नित्यमधस्थस्येन्दोर्भाभिर्मानोः सितं भवत्यर्धम्।स्वच्छाययाऽन्यदसितं कुम्भस्येचाऽऽतपस्थस्य ॥२॥सलिलमये शशिनि स्वेर्दीधितयो मूर्च्छितांस्तमो नैशम्। क्षपयन्ति दर्पणोदरविहिता इव मन्दिरस्यान्तः ॥३॥ त्यजतोऽर्कतलं शशिनः पश्चादवलम्वते यथा शौक्ल्यम्। दिनकरवशात्तथेन्दोः प्रकाशतेऽधः प्रभृत्युदयः ॥४॥ प्रतिदिवसमेवमर्कात्स्थानविशेषेण शौकल्यपरिवृद्धिः। भवति शशिनोऽपराह्नेपश्चाद्भागे घटस्येव ॥५॥ नारदः–याम्यशृङ्गोन्नतश्चन्द्रः शुभदो मीनमेषयोः। सौम्योन्नतोदितः श्रेष्ठो नृयुङ्मकरयोस्तथा ॥६॥ समोऽक्षघटयोः कर्किचापयोः शरसंनिभः।चापवत्कीटहर्योस्तु शुलवत्तौलिकन्ययोः ॥७॥ षिपरीतोदितश्चेन्दुर्दुभिक्षकलहप्रदः। यथोक्तोऽभ्युदितश्चन्द्रः प्रतिमासं सुभिक्षकृत् ॥८॥ वराहः–उन्नतमीषच्छृङ्गं नौसंस्थाने विशालता चोक्ता।नाविकपीडा तस्मिन्भवति शिवं सर्वलोकस्य ॥९॥ अर्धोन्नते च लाङ्गलमिति पीडा तदुपजीविनां तस्मिन्।प्रीतिश्च निर्निमित्तं मनुजपतीनां सुभिक्षं च ॥१०॥ दक्षिणविपाणमर्धोन्नतं यदा दुष्टलाङ्गलाख्यं तत्। पाण्ड्यनरेशनिधनकुदुद्योगकरं बलानां च ॥११॥ समशशिनि सुभिक्षक्षेमवृष्टयः प्रथमदिवससदृशाः

स्युः॥दण्डवदुदिते पीडा गवां नृपश्चोग्रदण्डोऽत्र ॥१२॥ कार्मुकरूपे युद्धानि भूभृतां ज्यायतो14 (सो) जयस्तेषाम्। स्थानं युगमिति याम्योत्तरायतं भूमिकन्याय॥१३॥युगमेव यान्यकोट्यां किंचित्तुङ्गं सपार्श्वशायीति।विनिहन्ति सार्थवाहान्वृष्टेश्चविनिग्रहं कुर्यात् ॥१४॥ अत्युच्छ्रायादेकं यदि शशिनोऽवाङ्मुखं भवेच्छृङ्गम्। आवर्जितमित्यसुभिक्षकारि तद्गोधनस्यापि ॥१५॥ अव्युच्छिन्नारेखा समं ततो मण्डले च कुण्डाख्ये। तस्मिन्माण्डलिकानां स्थानत्यागो नरपतीनाम् ॥१६॥शृङ्गेणैफेनेन्दुं विलीनमथ वाऽप्यवाङ्मुखम् शृङ्गम्।संपूर्णशृङ्गं चाभिनवं दृष्ट्वको जीविताद्धश्येत् ॥१७॥संस्थानविधिः कथितो रूपाण्यस्माद्भवन्ति चन्द्रमसः।स्वल्पो दुर्भिक्षकरो महान्सुभिक्षावहः मोक्तः ॥१८॥ नारदः–आषाढद्वयमूलेन्द्रधिष्ण्यानां याम्यगः शशी। अग्निप्रदस्तोयचरवनसर्पविनाशकृत् ॥१९॥ विशाखामिप्रयोर्याम्यपार्श्वयोः पापकृच्छशी।15मध्यगः पितृदैवत्ये द्विदैवत्ये शुभोत्तरे ॥२०॥ कश्यपः–घातृपैतृकयोर्याम्यवर्ती दुर्भिक्षकृच्छशी। शुभद्रोऽनिलधिष्ण्यस्य सोन्यगो याम्यगोऽशुभः16 ॥२१॥ वसिष्ठः–प्रजापतेर्भ यदि पैतृभं वा भिनत्ति चन्द्रोऽन्तकरः प्रजानाम्। भानां यदा सौम्यगतस्तदानीजनानुरागं सततं करोति ॥२२॥ सदाऽऽमयाप्रीतिर(म)तीव दुःखं करोति याम्योपगतश्चभानाम्। षट् पौष्णतो द्वादश रौद्रधिष्ण्यात्सुराधिपाद्भानि नव क्रमेण ॥२३॥पूर्वापरार्धापर-भागगेदुर्भुङ्क्ते-ऽखिला व्योमचरास्तथैव। पूर्वार्धभुग्मेषु पतेः प्रिया स्याद्विवाहिता मध्यमभागगेषु ॥२४॥ परस्परं प्रेम तयोर्नृनार्योः परेषु भर्ता वनिताप्रियःस्यात्। जघन्यविष्यानि जलेशसार्परौद्रेन्द्रयाम्यानिलदैवतानि ॥२५॥ अध्यर्धधिष्ण्यान्यादतिद्विदैवस्थिराणि शेषाणि समाह्वयााने। अध्यर्धधिष्ण्येऽभ्युदितः शशाङ्कःकरोति धान्यं महदर्घनाशम् ॥२६॥ जघन्यभेत्यर्धमसंशयेन समार्घमन्येषु च मासि मासि।ज्ञात्यैवमेवं मणिजीवधातुमूलोर्णकर्पूररसादिकानाम् ॥२७॥ अर्घ वदेज्ज्यौतिपिकः प्रजानां समस्तवस्तूत्तमसंग्रहार्थे। एतानि जायन्यसमाधिकर्क्षाण्यत्रार्धकाण्डे विनियोजितानि ॥२८॥ नोद्वाहजन्मादिषु यतचोक्तं तत्राभिजिद्भं विनियोजनीयम् ॥२९॥नारदः–शुक्लेपिपीलिकाकारे हानिर्वृद्धिर्यवाकृतौ। सुभिक्षकृद्विशालेन्दुर-विशालोऽर्घनाशनः। अवाङ्मुखे शस्त्रभयं कलहो दण्डसंनिभे ॥३०॥

वराहः–प्रत्यन्तान्कुनृपान्निहन्त्युडुपतेः शृङ्गं कुजेनाऽऽहते शस्त्रशुद्भयकृद्यमेन शशिजे नावृष्टिदुर्भिक्षकृत्। श्रेष्ठान्हन्ति नृपान्महेन्द्रगुरुणा शुक्रेण चाल्पान्नृपाच्छुक्लेयाप्यमिदं फलं ग्रहकृतं कृष्णे यथोक्तागमः ॥३१॥ भिन्नः सितेन मगधान्यवना-न्पुलिन्दान्नेपालवङ्गमरुकच्छसुराष्ट्रमद्वान्।पाञ्चालकैकयकुलूतकपौरुपादान्हन्यादुशीनरजनानपि17सप्तमासान् ॥३२॥गान्धारसौवीरकसिन्धुवीराधान्यान शैलान्द्रविडाधिपांश्च। द्विजांश्चमासान्दशशीतररश्मिःसंतापयेद्वाक्पतिना विभिन्नः ॥३३॥ उद्युक्तान्सह वाहनैर्नरपतीस्त्रैगर्तकान्मालवान्कोलिन्दान्माणपुङ्गवानथ शिवीनायोध्यकान्पार्थिवान। हन्यात्कौरव-शुक्तिमत्स्यनृपतीन्सजन्यमुख्यानपि प्रालेयांशुरसद्ग्रहे18 तनुगते षण्मासमर्यादया ॥३४॥ यौधेयान्सचिवान्सकौरवान्प्रागीशानथ चार्जुनायनान्। हन्यादर्कजभिन्नमण्डलः शीतांगुर्दशमासपोडया ॥३५॥ मगधान्मथुरांश्चपीडयेद्वेणायाश्चतटं शशाङ्कजः।अपरत्र कृतं युगं वदेद्यदि भित्त्वा शशिनं विनिर्गतः ॥३६॥ क्षेमारोग्यसुभिक्षविनाशी शीतांशुः शिखिना यदि भिन्नः। कुर्यादायुधजीविविनाशं चौराणामधिकेन च पीडाम् ॥३७॥ उल्कया यदा शशी ग्रस्त एव हन्यते। हन्यते तदा नृपो यस्य जन्मनिस्थितः ॥३८॥ भस्मनिभः परुषोऽरुणमूर्तिः शीतकरः किरणैः परिहीनः। श्यामतनुः स्फटिकस्फुरणो वा क्षुत्तूडमराय (?) च चौरभयाय ॥३९॥शुक्ले पक्षे संप्रवृद्धे विवृद्धिं ब्रह्म क्षत्रं याति वृद्धिंप्रजाश्च।होने हानिस्तुल्यता तुल्यतायामुक्तं कृष्णे तत्फलं व्यत्ययेन ॥४०॥ यदि कुमुदमृणालहारगौरस्तिथिनियमात्क्षयमेति वर्धते वा। अविकृतगतिमण्डलांशुयोगी भवति नृणां विजयाय शीतरस्मिः ॥४१॥

इति चन्द्रचारः॥

अथ कुजचारः।

कश्यपः–अथातः संप्रवक्ष्यामि कुजचारमनुत्तमम्। यतः शुभाशुभं तेन चारेणाखिलदेहिनाम् ॥१॥ नारदः–सप्ताप्टनवमर्क्षेषु स्वोदयाद्वक्रिते कुजे। तद्वक्रमुष्णंतस्मिन्स्यात्प्रजापीडाऽग्निसंभवः ॥२॥ दशमैकादशे ऋक्षे द्वादशे या प्रतीपगे।वक्रमश्रुमुखं तस्मिन्सस्यवृद्धिविनाशनम् ॥३॥ कुजे त्रयोदशे ऋक्षेवक्रिते वा चतुर्दशै।व्यालाख्यवक्रं तस्मिन्स्यात्सस्यवृद्धिरहेर्भयम् ॥४॥पञ्चदशे षोडशर्क्षे तद्वक्रंरुधिराननम्। सुभिक्षकृद्भयं रोगान्करोति

यदि भूमिजः ॥५॥ अष्टादशे सप्तदशे तदाऽसिमुशलं स्मृतम्।दस्युभिर्धनध्यान्यादि नश्येद्भौमेप्रतीपगे॥६॥फल्गुन्योरुदितो भौमो वैश्वदैवप्रतीपगः19। अस्तगश्चतुरास्यर्क्षेलोकत्रयविनाशकृत् ॥७॥ उदितः श्रवणे पुष्ये वक्रगो नृपहानिदः। यदिग्भेऽभ्युदितो भौमस्तद्दिग्भूपविनाशनम् ॥८॥ मघामध्यगतो भौमस्तस्यामेव प्रतीपगः। अवृष्टिशस्त्रभयदः पाण्ड्यदेशाधिपान्तकृत् ॥९॥ वसिष्ठः–अभ्युदितः पितृधिष्ण्ये तस्मिन्नेव प्रतीपगः क्षितिजः। पाण्ड्यक्षितिपतिमरणं करोति कलहंक्षितीशानाम् ॥१०॥ यस्मिन्दिग्द्वारनक्षत्रे क्षितिजोऽभ्युदयं गतः। तद्विगीशस्य भयदो यदि तस्मिन्प्रतीपगः ॥११॥ नारदः–पितृद्विदैवधातॄणां भिद्येच्चेद्योगतारकाः। दुर्भिक्षं मरणं घोरं करोति यदि भूमिजः ॥१२॥ त्रिपूत्तरेषु रोहिण्यां नैर्ऋते श्रवणेन्दुभे। अवृष्टिदश्चरन्भौमो रोहिणीदक्षिणे स्थितः ॥१३॥ वसिष्ठः–विशाखाविश्वधिष्ण्यान्तषण्णांयाम्यचरः कुजः। दुर्भिक्षवृष्टिंभयकृदाहवोभुवि भूभुजाम् ॥१४॥ वराहः–दक्षिणतो रोहिण्याश्चरन्महीजोऽर्धनिग्रहकृत्। धूमायन्सशिखो वा विनिहन्यात्पारियावस्थान् ॥१५॥ नारदः–भूमिजः सर्वधिष्ण्यानामुदग्गामी शुभावहः। याम्यगोऽनिष्टफलदो भेदे भेदकरो नृणाम् ॥१६॥ वसिष्ठः–मेषसिंहवृषचापसंस्थिते वक्रितेक्षितिसुतेऽथ वा शनौ। गोनराश्वगजपक्षिसमूहो नाशमेति निखिलं च दलं वा ॥१७॥ वराहः–विपुलविमलमूर्तिः किंशुकाशोकवर्णः स्फुटरुचिरमयूग्वस्तप्तताम्रप्रभाभः। विचरति यदि मार्गंचोत्तरं मेदिनीजः शुभकृदवनिपानां हार्दिदश्चप्रजानाम् ॥१८॥

इति कुजचारः॥

अथ बुधचारः।

कश्यपः–अथातः संप्रवक्ष्यामि बुधचारं समासतः। उदयं न व्रजेत्सौम्यो विनोत्पातेन सर्वदा ॥१॥ आतङ्कवृष्टि-सङ्ग्रामदुर्भिक्षानलतो भयम् ॥ नारदः–वसुवैष्णवविश्वेन्दुधातृभेषु चरन्बुधः। भिमत्ति यदि तत्तारामवृष्टिव्याधिभीतिकृत् ॥२॥ आर्द्रादिपितृभान्तेषु दृश्यते यदि चन्द्रजः। तदा दुर्भिक्षफलहरोगानावृष्टिभीतिकृत्॥३॥ हस्तादिषट्सु तारासु विचरन्निन्दु-नन्दनः। क्षेमं सुभक्षमारोग्यं कुरुते पशुनन्दनम् ॥४॥अहिर्बुध्न्यार्यमाग्रेययाम्यभेषु चरन्यदि। धातुक्षोभं च जन्तूनां करोति शशिनन्दनः ॥५॥ दस्रवारुणनैर्ऋत्यरेवतीषु

चरन्बुधः। भिषक्तुरगवाणिज्यवृत्तीनां नाशदस्तदा ॥६॥ पूर्वात्रये चरन्सौम्यो योगतारांभिनत्ति चेत्। क्षुच्छस्त्रामयतोये भ्यो भयदः प्राणिनां तदा ॥७॥ याम्याग्निधातृवायव्यधिष्ण्येषु प्राकृता गतिः। ऐशेन्दुसार्पपित्र्येषु ज्ञेया मिश्राकया गतिः ॥८॥ संक्षिप्तां दितिभाग्यार्यमेज्यधिष्ण्येषुया गतिः। गतिस्तीक्ष्णाजचरणाहिर्बुध्न्येन्द्राश्विभेषु या ॥९॥ योगान्तिकान्त्यविश्वाम्बु-मूलगस्येन्दुजस्य च।घोरा गतिर्हरित्याष्ट्रवसुवारणभेषु च ॥१०॥ इन्द्राग्निमित्रमार्तण्डभेषु पापाद्धया गतिः। प्राकृताद्यासु गतिपूदितो वास्तमितोऽपि वा ॥११॥ एतावन्ति दिनान्येव दृश्यस्तावन्त्यदृश्यगः। चत्वारिंशत्क्रमास्त्रिंशद्द्वाविंशविंशतिर्नव ॥१२॥ पञ्चादशैकादशेतिदिवसैः शशिनन्दनः। प्राकृतायां गतौ सस्यक्षेमारोग्यसुभिक्षकृत् ॥१३॥ मिश्रसंक्षिप्तयोर्मध्य-फलदोऽन्यास्त्रनिदः ॥१४॥ वसिष्ठः–विकला ऋज्व्यनुवक्रावक्रा स्युर्वोधनस्य गतिभेदाः। विविधफलं तासु करोत्यविकलमेवं वलीयांश्चेत् ॥१५॥ शस्त्रभयाभयजननी विकला ऋज्वी च देहिनां शुभदा।अर्धविनाशनकरी त्वनुवक्राभूषयुद्धदा वक्रा ॥१६॥ नारदः–वैशाखे श्रावणे पौपेऽप्याषाढेऽभ्युदितो बुधः। जनानां पापफलदस्त्वितरेषुशुभप्रदः ॥१७॥ वराहः–पौषेकरोति डमरं माघे वातं तथा च चन्द्रसुतः।आषाढे रोगभयं वैशाखे श्रावणे च दुर्भिक्षम् ॥१८॥आषाढमासे यदि शुक्लपक्षे सोमस्य पुत्रोऽभ्युदयं करोति। देशस्य भङ्गं त्वथ राष्ट्रभङ्गं जलस्य शोषंप्रवदन्ति तज्ज्ञाः ॥१९॥ नारदः–इषोर्जमासयोः शस्त्रदुर्भिक्षाग्निभयप्रदः। वसिष्ठः–रुद्धानि सौम्येऽस्तमिते पुराणि यान्युद्गमे तान्युपयान्ति मोक्षम्। अन्ये तु पश्चादुदिते वदन्तिलाभं पुराणां भवतीह तज्ज्ञाः ॥२०॥हेमकान्तिरथ वा शुकवर्णः स्फाटिकेन मणिना सदृशो वा। स्निग्धमूर्तिलघुश्चहिताय व्यत्यये न शुभकृच्छशिपुत्रः ॥२१॥

इति बुधचारः ॥

अथ गुरुचारः।

कश्यपः–अथातः संप्रवक्ष्यामि गुरुचारमनुत्तमम्। अनेन गुरुचारेण प्रभवाद्यब्दलक्षणम् ॥१॥यराहः–नक्षत्रेण महोदयमुपगच्छति येन देवपतिमन्त्री।तत्संज्ञंवक्तव्यं वर्षे मासक्रमेणैव ॥२॥ वर्षाणि कार्तिकादीन्याग्नेयाद्भद्वयानुयोगीनि। क्रमशस्त्रिभं तु पञ्चममुपान्त्यमन्त्यं च यद्वर्षम् ॥३॥ नारदः– पीडा

स्यात्कार्तिके वर्षे रथगोग्न्युपजीविनाम्। क्षुच्छस्त्राग्निभयं वृद्धिः पुष्पकौसुम्भजीविनाम् ॥४॥ अनावृष्टिः सौम्यवर्षे मृगाखुशलभाण्डजैः। सर्वसस्यन्नधो व्याधिर्वैरंराज्ञां परस्परम् ॥५॥ निवृत्तवैराः क्षितिषाजगदानन्दकारकारः। पुष्टिकर्मरताः सर्वे पौषेऽब्देऽध्वरतत्पराः ॥६॥ माघेऽब्देसततं सर्वे पितृपूजनतत्पराः। सुभिक्षं क्षेममारोग्यं वृष्टिः कर्षकसंमता ॥७॥ चोराश्चप्रवलाः स्त्रीणां दौर्भाग्यं सुजनः खलः। क्वचिद्वृष्टिः क्वचित्सस्यं क्वचिद्वृद्धिश्च फाल्गुने ॥८॥ चैत्रेऽब्दे मध्यमा वृष्टिरुत्तमान्नंसुदुर्लभम्।सस्यार्धवृष्टयः स्वल्पा राजानः क्षेमकारिणः ॥९॥ वैशाखे धर्मनिरता राजानः सप्रजा भृशम्।निष्पत्तिः सर्वसस्यानामध्वरोद्युक्तचेतसः ॥१०॥ वृक्षगुल्मलतादीनां क्षेमं सस्यविनाशनम्।ज्यष्ठेऽब्दे धर्मतत्त्वज्ञाः सनृपाः पीडिताः परैः ॥११॥ क्वचिद्वृष्टिः क्वचिवृद्धिः। क्वचित्सस्यं न च क्वचित्। आषाढेऽब्देक्षितीशाः स्युरन्योन्यजयकाङ्क्षिणः ॥१२॥ अनेकसस्यसंपूर्णा सुरस्पर्धिजनाकुला।पापपाखण्डिहन्त्री भूः श्रावणेऽब्देविराजिता ॥१३॥ पूर्वसस्यस्य संपूर्तिर्नाशं यात्यपरं तु यत्। मध्यवृष्टिर्महत्सस्यं नृपाणां समरं महत् ॥१४॥ अब्दे भाद्रपदे लोके क्षेमाक्षेमं क्वचित्कचित्। धनधान्यसुवृद्धिश्च सुभिक्षमतिवृष्टयः ॥१५॥ भवन्त्याश्वयुजे वर्षे संतुष्टाः सर्वजन्तवः।सुवृष्टिः सर्वसस्यानि फलितानि भवन्ति च ॥१६॥ सौम्यभागे चरन्मानांक्षेमारोग्यसुभिक्षकृत्। विपरीतं गुरुर्यान्ये मध्ये चरति मध्यमम् ॥१७॥ पीताग्निश्यामहरितरक्तवर्णोऽङ्गिराः क्रमात्। व्याध्यग्निरणचोरास्त्रभयकृत्प्राणिनां तदा ॥१८॥ अनावृष्टिं धूमनिभः करोति सुरपूजितः। दिवा दृष्टो नृपवधं त्वथवा राष्ट्रनाशनम् ॥१९॥ संवत्सरः शरीरं स्यात्कृत्तिकारोहिणीत्युभे। नाभिस्त्वाषाढद्वितयमार्द्रा हृत्कुसुमं मघा ॥२०॥ दुर्भिक्षाग्निमरुद्धीतिः शरीरे क्रूरपीदिते। नाभ्यां तु क्षुद्भयं पुष्पे सम्यग्ज्ञानफलक्षयः ॥२१॥ हृदये सस्यनिधनं शुभं स्यात्पीडिते शुभैः। मेषराशिगते जीवे स्वीतिर्मेषविनाशनम् ॥२२॥ सस्यवृद्धिः प्राजारोग्यं वृष्टिः कर्षकसंमिता।वृषराशिगते जीवे शिशुस्त्रीपशुनाशनम् ॥२३॥ मध्यवृष्टिः सस्पहानिर्नृपाणां समरं महत्। जनानां भीतिरीतिश्च नृपाणां दारुणं भयम् ॥२४॥ विप्रपीडा मध्यवृष्टिः सस्पवृद्धिस्तृतीयभे ॥२५॥ प्रभूतपयसो गावः सुजनाः सुखिनः त्रियः। मदोद्धताः फर्किणीज्ये सस्यवृष्टियुता घरा ॥२६॥ सिंहराशिगते जीवे निःस्वा भूसुरसजनाः। अतिवृष्टिर्वालभयं नृपा युद्धे लयं ययुः ॥२७॥ जीवे कन्यागते पुष्टा वृष्टिः स्वस्याः क्षितीश्वराः। महोत्सुपाः क्षितिसुराः स्वस्याः स्युनिखिला जनाः ॥२८॥ जीवे तुलागते

सर्वंधातुमूलाकुलं जगत्। तथाऽपि धात्री संकीर्णा धनधान्यसुवृष्टिभिः ॥२९॥ महोद्धतानां भूषानां युद्धैजनपदक्षयः। अनुला वृष्टिरत्युग्रं डामरं कीटगे गुरौ ॥३०॥ जीवे चापगते भीतिरीतिर्भूषावहंमहत्। अतुला वृष्टिरत्युग्रा पीडा निःस्याः क्षितीश्वराः ॥३१॥ अशन्नवोजना धात्री पूर्णा सस्यार्धवृष्टिभिः।वीतरोगभयाः सर्वे मकरस्थे सुरार्चिते ॥३२॥ सुरस्पर्धिजनर्धात्री फलपुष्पार्घवृष्टिभिः।संपूर्णा कुम्भगेजीवे त्वीतिरोगयुता धरा ॥३३॥ धान्यार्धवृष्टिः संपूर्णा क्वचित्क्षेमं क्वचिद्भयम्। न्यायमार्गरता भूषाःसर्वे मीनस्थिते गुरौ ॥३४॥ वसिष्ठः–कुन्देन्दुशङ्खस्फटिकप्रवालनीहारमुक्ताफलसंनिभाभः। एवंविधो देवगुरुर्जनानां शुभप्रदः क्लेशनिवारकश्च॥३५॥

इति गुरुचारः॥

अथ शुक्रचारः।

नारदः–सौम्यमध्यमयान्येषु मार्गेषु त्रिविवीथयः। शुक्रस्य दस्रभाज्ज्ञेयाः पर्यायैश्च त्रिभिस्त्रिभिः ॥१॥ नागेभैरावताश्चैववृषभगोजरद्गवाः। मृगाजदहनाः स्युस्ता याम्यान्ता वीथयो नव ॥९॥ वसिष्ठः–अथ कथयामि नवानां वीथीनां फलानि यानि तान्यधुना ॥३॥ नागवीथिविचरन्मृगोः सुतः पश्चिमे दिशि च वृष्टिनाशकृत्॥ क्षेमकृत्सुखकरो गजवीथ्यामर्घवृद्धिमतुलां करोति सः ॥४॥ शालीक्षुगोधूमयवादिसस्यसंपूर्णधात्री नितरां विभाति। ऐरावतोक्षाह्वययोश्चवीथ्योः स्थिते सिते संयति राजनाशः ॥४॥ गोवीथिगे दैत्यपुरोहिते भूर्विभाति नानाविधसस्यदृष्ट्या (इष्टा)। जरद्गवायां मृगसंज्ञितायां मध्याऽर्धवृष्टिर्महदावहश्च ॥५॥क्षितीशसङ्ग्रामक्षितिस्तिरी (मतिस्तथे) तिर्वह्नेर्भयं वारिभयं जनानाम्। अजाग्निवीथ्योतुलाग्निभीतिः किंचित्क्वचिद्वर्षति वासवोऽपि॥६॥ उदग्वीथ्यांस दैत्येज्यश्चास्तगश्चोदितोऽपि वा। सुभिक्षकृन्मध्यवीथ्यां समः स्याद्याम्यगोऽशुभः ॥७॥ वराहः–भरणीपूर्वविमण्डलमृक्षचतुष्कं सुभिक्षकरमाद्यम्। वड्ङ्गाङ्गमहिषवाह्लिककलिङ्गदेशेषु भयजनकम्॥८॥ अन्नोदितमारोहेद्ग्रहोऽपरो यदि सितं ततो हन्यात्। भद्राश्वशूरसेनकयोधेयककोटिवर्षनृपान् ॥९॥ भचतुष्टयमार्द्राद्यं द्वितीयमपि चाम्बुसस्यसंपत्त्यैः। विप्राणामशुभकरं विशेषतः क्रूरचेष्टानाम् ॥१०॥ अत्येनात्राऽऽक्रान्ते म्लेच्छाटविकांश्चजीवगोमन्तान्। गोनर्द्रनीचशूद्रान्वैदेहांश्चानयः स्पृशति ॥११॥ विचरन्मघादिपञ्चकमुदितः सस्यप्रणाशकृच्छुक्रः। क्षुत्तस्करभगजननो नीचोन्नतिसंक-

रकरश्च॥१२॥ पित्राद्येऽवष्टब्धोहन्त्यश्मकनाविकाञ्शवरशूद्रान्।पुण्ड्रापरान्त्यमौलिकवनवासिद्रविडसामुद्रान् ॥१३॥ स्वात्याद्यं भत्रितयं मण्डलमेतच्चतुर्थमभयकरम्।ब्रह्मक्षत्रसुभिक्षाभिवृद्धये मित्रलाभाय ॥१४॥ अत्राऽऽक्रान्ते मृत्युः किरातभर्तुः पिनष्टि चेक्ष्वाकून्। प्रत्यन्तावन्त्यपुलिन्दटङ्कणान्सौरसेनांश्च ॥१५॥ ज्येष्ठाद्यं पञ्चर्क्षं क्षुत्तस्करोगदं प्रवाधयते। काश्मीराश्मकमत्स्यान्सचारुदेवीमवन्तीं च ॥१६॥आरोहेऽत्राऽऽभीरद्रविडान्वष्ठत्रिगर्तसौराष्ट्रान्।नाशयति सिन्धुसौवीरकांश्चकाशीश्वरस्य वधः ॥१७॥ षष्ठं पण्नक्षत्रं शुभमेतत्मण्डलं धनिष्ठाद्यम्। भूरिधनगोकुलाकुलमनल्पधान्यं कचित्सभयम् ॥१८॥ अत्राऽऽरोहे चूलिकगान्धारावन्तयः प्रपीड्यन्ते। वैदेहवधःप्रत्यन्तयवनेशकदासपरिवृद्धिः ॥१९॥ अपरस्यां स्वात्याद्यं ज्येष्ठाद्यं चापि मण्डलं शुभदम्। पित्राद्यं पूर्वस्यां शेषाणि यथोक्तफलदानि ॥२०॥ ज्योतिष्फलोदये– यान्याष्टकेऽम्बुदद्वारं तत्रास्तं गमिते सिते। भूरिवृष्टियुता पात्री सस्यवृद्धिः प्रजायते ॥२१॥ मेघाद्यं पञ्चकं वायुद्वारं शुक्रेऽस्तमागते। तत्र मेघोन्नतियुता द्यौः पयोनैव मुञ्चति ॥२२॥ स्वातित्रयेऽस्तमायाते धर्मद्वारं भृगोः सुते। तत्राऽऽरोग्यसुखक्षेमयुताः स्युर्धर्मिणो जनाः ॥२३॥ ज्येष्ठाद्यं पञ्चकं धूलिद्वारं तत्रास्तमागते। अग्निक्षुद्भीतिरत्यन्तं विग्रहो दारुणः सिते॥२४॥ वासवाश्वीभपर्यन्तं काञ्चनद्वारमीरितम्। तत्रास्तमागते शुक्रे सस्यवृद्धिः प्रजायते ॥२५॥ भिन्दन्गतोऽनलर्क्षं कूलांतिक्रान्तवारिवाहाभिः। अव्यक्ततुङ्गनिम्ना समा सरिद्भिर्भववि धरित्री ॥२६॥ वसिष्ठः–भिनत्ति रोहिणीचक्रं शुक्रः पैतृभतारकम्। यदा तदा भवत्येव कपालास्थिमयी धरा ॥२७॥दृष्टः समस्तदिवसं भयदश्चाऽऽमयः सदा। दिनार्ध प्रति दृष्टश्चेत्परेषां चलभेदकृत् ॥२८॥ नारदः–पूर्वस्यां दिशि जलदःशुभकृत्पितृपञ्चके।स्वातीत्रये पश्चिमायां सम्यक् शुक्रस्तथाविधः ॥२९॥विपरीते त्वनावृष्टिर्वृष्टिकृद्बुधसंयुतः। कृष्णाष्टम्यां चतुर्दश्याममायां वा यदा सितः ॥३०॥ उदयास्तमयं याति तदा जलमयी क्षितिः। मिथः सप्तमराशिस्थौ पश्चात्प्राग्वीसिंस्थितौ॥३१॥ गुरुशुक्रावनावृष्टि-दुर्भिक्षमरणप्रदौ। कुजज्ञजीवरविजाः शुक्रस्याग्रेसदा यदि। युद्धातिवायुदुर्भिक्षजलनाशकरास्तदा ॥३२॥ पृथक्फलानि वराहेणोक्तानि–निहन्ति शुक्रः क्षितिजेऽग्रतः प्रजा हुताशशस्त्रक्षुदवृष्टितस्करैः। चराचरं व्यक्त– मथोत्तरापथं दिशो रजोल्कादहनैश्च पीडयेत् ॥३३॥ सौम्योऽस्तोदययोः पुरो भृगुसुतस्यावस्थितस्तोयकृद्रोगात्कामलपित्तजांश्चकुरुते पुष्णाति च ग्रैष्मिकान्।

हन्यात्प्रव्रजिताग्निहोत्रिकभिषग्रङ्गोपजीव्यान्हयान्वैश्यान्गाः सह वाहनैर्नरपतीन्मृद्नाति पश्चाद्दिशम् ॥३४॥बृहस्पतौ हन्ति पुरस्थिते20 भृगोः सितं समस्तं द्विजगोसुरालयम्। दिशं च पूर्वीं करकासृजोऽम्बुदा गले गदो भूरि भवेच्च शारदम् ॥३६॥शनैश्वरे म्लेच्छविडालकुञ्जराः स्वरा महिष्योऽसितधान्यसूकराः।पुलिन्दशूद्राश्च सदक्षिणापथाः क्षयं व्रजन्त्यक्षिगदो मरुद्भवः ॥३६॥ प्रातृपि शुक्रः प्राच्यां दिशि स्थितोऽल्पं जलं सृजति। धान्यं च भूरि कुरुते तृणं च बहु जायते तत्र ॥३७ ॥ अपरां निषेवमाणः काष्ठां शुक्रो जलं सृजति भूरि। धान्यं कुरुते चाल्पं तृणं च बहु जायते तत्र ॥३८॥ उदक्स्थोदक्षिणस्थो वा चलवान्भार्गवः सदा। विवला याम्यगाश्चान्ये सौम्यगा वलिनो ग्रहाः ॥३९॥ शिखिभयमनलाभे शस्त्रकोपश्च रक्ते कनकनिकपगौरे व्याधयो दैत्यपूज्ये।हरितकपिलरूपे श्वासकासप्रकोपाः पतति न सलिलं स्वाद्भस्मरूक्षासिताभे ॥४०॥ दधिकुसुमशशाङ्ककान्तिभृत्स्फुटविकसत्किरणो वृहत्तनुः। सुगतिरविकृतो जयान्वितः कृतयुगरूपधरः सिताह्वयः ॥४१॥

इति शुक्रचारः॥

अथ शनिचारः॥

नारदः–श्रवणानिलहस्तार्द्राभरणीभाग्यभेषु च। चरञ्शनैश्चरो नृृणां सुभिक्षारोग्यसस्यकृत्॥१॥ जलेशसार्पमाहेन्द्रनक्षत्रेषु सुभिक्षकृत्। क्षुच्छस्त्रावृष्टिदो मूलेऽहिर्वुध्न्यान्त्यभयोर्भयम् ॥२॥वराहः–यदा विशाखासु महेन्द्रमन्त्री सुतश्च भानोर्दहनर्क्षयातः। तदा प्रजानामनयोऽतिघोरः पुरप्रदोभे (प्रभेदो) गतयोर्भमेकम् ॥३॥ वसिष्टः–अनुक्तभेष्वर्कसुतः प्रजानां चरंस्तदा मध्यमवृष्टिदः स्यात्। कीटाजपञ्चाननकर्कटेषु चरञ्छनिः क्षुद्भयदः प्रजानाम् ॥४॥वृष्टेर्भयं कुत्रचिदामयश्च तथाऽपि जीवन्ति जनाः कथंचित्। कन्यानृयुग्मे घटचापसंस्थितः स्वक्षेत्रसंस्थोऽपि शुभप्रदः स्यात् ॥५॥ वङ्गाङ्ककाश्मीरकलिङ्गगौडसौराष्ट्रदेशेष्वशुभप्रदः स्यात् ॥६॥ प्रक्षुभ्यन्ति क्षितीशाःप्रचलति वसुधा मोदते दस्युवर्गो धीभ्रंशो बुद्धिभाजां जनपदहरणं चित्रवर्षी पयोदः। चन्द्रार्कौ मन्दरश्मी ग्रहगणसहितौ वान्ति वाताः प्रचण्डाश्चक्राकारं समस्तं भ्रमति जगदिदं मीनगे सूर्यसूनौ ॥७॥ पृथक्फलानि वराहेणोक्तानि–तुरगतुरङ्गोपचा-

रककविवैद्यामात्यहाऽर्कजोऽश्विगतः। याम्ये नर्तकवादकगेयज्ञक्षुद्रनैकृ(ष्कृ)तिहा ॥८॥बहुलास्ये पीड्यन्ते सौरेऽग्न्यु-पजीविनश्चभूपाश्च। रोहिण्यां कोशलमद्रकाशिपाञ्चालशाकटिकाः ॥९॥ मृगशिरसि वत्सयाजकयजमानार्यजनमध्यदेशाश्च। रौद्रस्थे पारतरमठतैलका [र] रजकचौराश्च॥१०॥ आदित्ये पाञ्चनदप्रत्यन्तसुराष्ट्रसिन्धुसौवीरान्। पुष्ये घाण्टिकघौपिक-यवनवणिक्कितवकुसुमानि ॥११॥ सार्पे जलरुहसर्पाः पित्र्ये वाह्लीकचीनगान्धाराः। चूलिकपारतवैश्याःकोष्ठागाराणि वणिजश्च॥१२॥ भाग्ये रसविक्रयिणः पण्यस्त्रीकन्यका महाराष्ट्राः। आर्यम्णे (मणे) नृपगुडलवणभैक्षकाम्बूनि तक्षशिलाः ॥१३॥ हस्ते नापितचाक्रिकचौरभिपक्सूचिकद्विपग्राहाः। वन्धवयः कोशलका मालाकाराश्चपीड्यन्ते ॥१४॥ चित्रास्थे प्रमदाजनलेखकचित्रज्ञचित्रभाण्डानि। स्वातौ मागधचरदूतसूतपोतप्लवनदाद्याः ॥१५॥ ऐन्द्राग्न्याख्ये त्रैगर्तचीन-कौलूतकुङ्कुमं लाक्षा। सस्यान्यथ मञ्जिष्ठा कौसुम्भं च क्षयं याति ॥१६॥ मैत्रे कुलूतटङ्कणखपकाश्मीराः समन्त्रिचक्रचराः। उपतापं यान्ति जना भवति विभेदश्च मित्राणाम् ॥१७॥ ज्येष्ठासु नृपपुरोहितनृपपूज्यज्येष्ठकुलश्रेण्यः। मूले तु काशिकोशलपाञ्चालफलौपधियोधाः ॥१८॥ आप्येऽङ्गवङ्गकोशलगिरिव्रजान्मागधपुण्ड्रमिथिलांश्च। उपतापं यान्ति जना वसन्ति ये ताम्रलिप्यां च ॥१९॥ वैश्वे चरग्नर्कपुत्रश्चरन्दशार्णान्निहन्ति यवनांश्च। उज्जयनीशवरान्पारियात्रकान्कुन्तिभोजांश्च॥२०॥ श्रवणे राज्याधिकृतान्विप्राग्र्यान्भिपक् पुरोहितकलिङ्गान्। वसुभे मगधेशजयो वृद्धिश्चजनेष्वधिकृतानाम् ॥२१॥ साजे शतभिपजिभिपक्वविशौण्डिकपद्यनीतिवार्तानाम्। आहिर्बुध्न्ये नद्यो यानकराः स्त्रीहिरण्यं च ॥२२॥ रेवत्यांराजभृतः क्रौञ्चद्वीपाश्रिताः शरत्सस्यम्। शवराश्चनिपीड्यन्ते यवनाश्चशनैश्वरे चरति ॥२३॥ अण्डजहा रविजो यदि चित्रः क्षुद्भयकृद्यदि पीतमयूखः। शस्त्रभयाय च रक्तसवर्णो भस्मनिभो बहुवैरकरश्च॥२४॥ वैडूर्यकान्तिरमलः शुभदः प्रजानां वाणातसीकुसुमवर्णनिभश्चशस्तः। यं चातिवर्णमुपगच्छति तत्सवर्णं सूर्यात्मजः क्षपयतीति मुनिप्रवादः ॥२५॥ मूर्ध्न्येकंच मुखे त्रीणि गुह्ये द्वे नयने तथा। हृदये पञ्च ऋक्षाणि वामहस्ते चतुर्थकम् ॥२६॥ वामपादतले त्रीणि दक्षिणे त्रीणि वै तथा। चत्वारि दक्षिणे हस्ते जन्मभाद्रविजः स्थितः ॥२७॥ रोगो लाभस्तथाहानिर्लाभःसौख्यं च बन्धनम्।आयासश्चेष्टायात्रा च अर्थलाभः क्रमात्फलम्

१. ख. शेष। २. क. तैत्तिकार।

॥२८॥ वक्रकृद्रविजस्येहतद्वक्रफलमीदृशम्। करोत्येव समः साम्यं शीघ्रगो व्युत्क्रमात्फलम्॥२९॥

इति शनिचारः॥

अथ राहुचारः॥

चराहः– अमृतस्वादविशेषाच्छिन्नशिरः किलासुरस्येदम्। प्राणैरपरित्यक्तं ग्रहतां यातं वदन्त्येके॥१॥ इन्द्वर्कमण्डला-कृतिरसितत्वात्किल न दृश्यते गगने। अन्यत्र पर्वकालाद्वरप्रदानात्कमलयोनेः ॥२॥ मुखपुच्छविभक्ताङ्गं भुजङ्गमाकारमुपदिशन्त्यन्ये। कथयन्त्यमूर्तमपरे तमोमयं सैहिकेयाख्यम् ॥३॥ यदि मूर्तौभविचारी शिरोऽथवामण्डली भवति राहुः।भगणार्धेनान्तरितो गृह्णाति कथं नियतचारः ॥४॥ अनियतचारः स तु चेदुपलब्धिः संख्यया कथं तस्य। पुच्छाननाभिधानोऽन्तरेण कस्मान्न गृह्णाति ॥६॥ अथवा भुजगेन्द्ररूपः पुच्छेन मुखेन वा संगृह्णाति।मुखपुच्छान्तरसंस्थं स्थगयति कस्मान्न भगणार्धम् ॥६॥ राहुद्वयं यदि स्याद्ग्रस्तेऽस्तमितेऽथवोदिते चन्द्रे।तत्समगतिनाऽन्येन ग्रस्तः सूर्योऽपि दृश्येत ॥७॥ भूछायां स्वग्रहणे भास्करमर्कग्रहे प्रविशन्तीन्दुः। प्रग्रहणमतः पञ्चान्नेन्दोर्भानोश्च पूर्वार्धे ॥८॥ वृक्षस्य स्वच्छाया यथैकपार्श्वे भवति दीर्घा च। निशिंनिशि तद्वद्भूमेरावरणवशाद्दिनेशस्य ॥९॥ सूर्यात्सप्तमराशौ यदि चोदग्दक्षिणेन नातिगतः। चन्द्रः पूर्वाभिमुखश्छायामौर्वींतदा विशति ॥१०॥चन्द्रोऽधस्थःस्थगयति रविमम्बुदवत्समागतः पश्चात्। प्रतिदेशमतश्चित्रंदृग्विपयाद्भास्करग्रहणम् ॥११॥ आवरणं महदिन्दोःकुण्ठविपाणस्ततोऽर्धसंछन्नः। स्वल्पं रवेर्यऽतोतस्तीक्ष्णविपाणो रविर्भवति ॥१२॥ एवमुपरागकारणमुक्तमिदं दिव्यदृग्भिराचार्यैः।राहुरकारणमस्मिन्नित्युक्तः शास्त्रसद्भावः ॥१३॥ योऽसावसुरो राहुस्तस्य वरो ब्रह्मणाऽयमाज्ञप्तः। आप्यायनमुपरागेदत्तहुतांशेन ते भविता ॥१४॥ तस्मिन्काले सांनिध्यमस्य तेनौपचर्यते राहुः। याम्योत्तरा शशिगतिर्गणितेऽप्युपचर्यतेऽर्थेन ॥१५॥ न कथंचिदपि निमित्तैर्ग्रहणं विज्ञायते निमित्तानि। अन्यस्मिन्नपि काले भवन्त्यथोत्पातरूपाणि ॥१६॥पञ्चग्रहसंयोगान्नकिल ग्रहणस्य संभवो भवति। तैलं च जलेऽष्टम्यां न विचिन्त्यमिदं विपश्चिद्भिः ॥१७॥ अवनत्याऽर्केग्रासो दिग्ज्ञेया बलनयाऽवनत्या च।तिथ्यवसानाद्वेलाकरणे कथितानि तानि मया ॥१८॥ शेषोराहुचारो ग्रहणोपयोगित्वात्तत्र लिखितोऽस्ति।

इति राहुचारः॥

अथ केतुचारः।

वराहः –गार्गीयं शिखिचारं पाराशरमसितदैवलकृतं च। अन्याश्चबहून्दृष्ट्वा क्रियतेऽयमनाकुलश्चारः ॥१॥ दर्शनमस्तमयो वा न गणितविधिनाऽस्य शक्यते ज्ञातुम्। दिव्यान्तरिक्षभौगास्त्रिविधाः स्युः केतवोयस्मात् ॥२॥ अहुतांशेऽनलरूपं यस्मिंस्तत्केतुरूपमेवोक्तम्। खद्योतपिशाचालयमणिरत्नादीन्परित्यज्य ॥३॥ध्वजशस्त्रभवनतरुतुरगकुञ्जराद्येष्वथाऽऽन्त-रिक्षास्ते।दिव्या नक्षत्रस्था भौमाः स्युरतोऽन्यथा शिखिनः ॥४॥ शतमेकाधिकमेके सहस्रमेकेवदन्ति केतूनाम्। बहुरूपमेकमेव प्राहमुनिर्नारदः केतुम् ॥५॥ यद्येको यदि बहवः किमनेन21बलं तु सर्वथा वाच्यम्।उदयास्तमनैः स्थानैःस्पर्शैराधूमितैर्वर्णैः ॥६॥ यावन्त्यहानि दृश्यो मासास्तावन्त एवफलपाकः। मासैरब्दानि वदेत्प्रथमात्पक्षत्रयात्परतः ॥७॥हस्वतनुः22 प्रसन्नः स्निग्धस्त्वृजुरचिरसंस्थितः शुक्लः। उदितो वाऽप्यभिदृष्टः सुभिक्षसौख्यावहः केतुः ॥८॥ उक्तविपरीतरूपो न शुभकरो धूमकेतुरुत्पन्नः। इन्द्रायुधानुकारी विशेषतो द्वित्रिशूलो वा ॥९॥ हारमणिहेमरूपाः किरणाख्याः पञ्चविंशतिः सशिखाः। प्रागपरदिशोर्दृश्या नृपतिविरोधावहा रविजाः ॥१०॥ शुक्रवदनबन्धुजीव-कलाक्षाक्षतजोपमा हुताशसुताः।आग्नेत्र्यांदृश्यन्ते तावन्तस्तेऽपि शिखिभयदाः ॥११॥ वक्रशिखा मृत्युसुतारूक्षाः कृष्णाश्चतेऽपि तावन्तः।दृश्यन्ते याम्यायां जनमरकावेदिनस्ते च ॥१२॥दर्पणवृत्ताकारा विशिखाः किरणान्विता धरातनयाः। क्षुद्भयदा द्वाविंशतिरैशान्यामम्बुतैलनिभाः ॥१३॥ शशिकिरणहिमकुन्दकुमुदकुसुमोपमाः सुताःशशिनः। उत्तरतो दृश्यन्ते त्रयः सुभिक्षावहाः शिखिनः ॥१४॥ब्रह्मसुत एक एव त्रिशिखो वर्णैस्त्रिभिर्युगान्तकरः। अनियतदिक्संप्रभवो विज्ञेयो ब्रह्मदण्डाख्यः ॥१५॥ शतप्रभिहितमेकसमेतमेकेन विरहिताऽन्यस्मात्। कथयिष्ये केतूनां शतानि नव लक्षणैः स्पष्टैः ॥१६॥ सौम्येशान्योरुदयं शुक्रसुता यान्ति चतुरशीत्याख्याः। विपुलसिततारकास्ते स्निग्धात्रभवन्ति तीव्रफलाः ॥१७॥ स्निग्धा प्रभासमेता विशिखाः षष्टिः शनैश्चराङ्गरुहाः। आतिकष्टफला दृश्याः सर्वत्रैतेकनकसंज्ञाः ॥१८॥ विकचा नाम गुरुसुताः सितैकताराःशिसापरित्यक्ताः। षष्टि पञ्चभिराधिकास्निग्धा यान्याश्रिताः पापाः ॥१९॥ नातिव्यक्ताःसूक्ष्मा दीर्घाःशुक्लायथेष्टदिक्प्रभवाः। वुधज्ञान (स्त) स्करसंज्ञाःपापफलास्त्येकपञ्चाशात् ॥२०॥ क्षतजा—

नलानुरूपास्त्रिशूलताराः कुजात्मजाः षष्टिः। नाम्ना च कौङ्कुमास्ते सौम्याशासंस्थिताः पापाः ॥२१॥ त्रिंशत्र्यधिकाराहोस्ते तामसकीलका इति ख्याताः। रविशशिगा दृश्यन्ते तेषांफलमर्कचारोक्तम् ॥२२॥ विंशत्यधिकमन्यच्छतमग्नेर्विश्वरूप-संज्ञानाम्। तीव्रानलभयदानां ज्वालामालाकुलतनूनाम् ॥२३॥ श्यामारुणा विताराश्चामररूपा विकीर्णदीधितयः।अरुणाख्या वायोः सप्तसप्ततिः पापदाः पुरुषाः॥२४॥ पुञ्जनिकाशागणका नाम प्रजापतेरष्टौ। द्वे च शते चतुरधिके चतुरस्रा ब्रह्मसन्तानाः ॥२५॥ कङ्का नाम वरुणजा द्वात्रिंशद्गुल्मसंस्थानाः।शशिवत्प्रभासमेतास्तीव्रफलाः केतवः प्रोक्ताः ॥२६॥ षण्णवतिः कालसुताः कवन्धसंज्ञाः कवन्धसंस्थानाः। चण्डाभयप्रदाः स्युर्विरूपताराश्चते शिखिनः ॥२७॥ शुक्लविमलैकतारा नव विदिशां केतवः समुत्पन्नाः। एवं केतुसहस्रं विशेषमेषामतो वक्ष्ये ॥२८॥ उदगायतो महान् स्निग्धमूर्तिरपरोदयी वसाकेतुः। सद्यः करोति मरकं सुभिक्षमप्युत्तमं कुरुते ॥२९॥ तल्लक्षणोऽस्थिकेतुः स तु रूक्षः क्षुद्भयावहः।कथितः स्निग्धस्तादृक्प्राच्या शस्त्राख्यो डमरभरकाय ॥३०॥ दृश्योऽमावास्यायां कपालकेतुः सधूम्ररश्मिशिखः। प्राङ्नभसोर्ध्वविचारी क्षुन्मरकारोगवृष्टिकरः ॥३१॥ प्राग्वैश्वानरमार्गे शूलाग्रः शावरूक्षताम्रार्चिः। नभसस्त्रिभागगामी रौद्र इति कपालतुल्यफलः॥३२॥ अपरस्यां चलकेतुः शिखया याम्याग्रयाऽङ्गुलोच्छ्रितया।गच्छेद्यथायथोदक्त तथातथा दैर्घ्यमायाति ॥३३॥सप्त मुनीन्संस्पृश्य ध्रुवमभिजितमेव च प्रति निवृत्तः। नमसोऽर्धमात्रमित्वा यान्येनास्तं समुपयाति ॥३४॥ हन्यात्प्रयागकूलाद्यावदवन्तीति पुष्करारण्यम्।उदगपि च देविकामपि भूयिष्ठं मध्यदेशाख्यम् ॥३५॥अन्यानपि च स देशान्कचित्कचिद्धन्ति दुर्भिक्षैः। दशमासात्फलपाकोऽस्य कैश्चिदष्टादशे प्रोक्तः ॥३६॥ प्रागर्धरात्रदृश्यो याम्याग्रः श्वेतकेतुरन्यश्च।क इति युगाकृतिरपरे युगपत्तौसप्तदिनदृश्यौ॥३७॥स्निग्धौसुभिक्षभयदावथाधिकं दृश्यते कनकमयः। दश वर्षाप्युपतापं जनयति शस्त्रप्रकोपकृतम् ॥३८॥ श्वेत इति जटाकारो रूक्षः श्यामो विभागगति।विनिवर्ततेऽपसव्यं त्रिभागशेषाःप्रजाः कुरुते ॥३९॥ आधूम्रया तु शिखया दर्शनमायाति कृतिकासंस्थः। ज्ञेयः स रश्मिकेतुः श्वेतसमानं फलं धत्ते ॥४०॥ ध्रुवकेतुरनियतगतिः प्रमाणवर्णाकृतिर्भवति विष्वक्।दिव्यान्तरिक्षभौगो भवत्ययं स्निग्ध इष्टफलः ॥४१॥ सेनाङ्गेषु नृपाणां गृहतरुदेशेषु वाऽपि देशानाम्।गृहिणामुपस्करेषु च विनाशिनां दर्शनं याति ॥४२॥ कुमुद इति कुमुदकान्तिर्वारुण्यां प्राकशिखामेकाम्। दृष्टः सुभिक्षमतुलं दश किल वर्षाणि स करोति ॥४३॥ सकृदेकयाम-

दृश्यः सुसूक्ष्मतारोऽपरेण मणिकेतुः। ऋज्वी शिखाऽस्य लक्षणा स्तनोद्गता क्षीरधारेव ॥४४॥ उदयन्नेव सुभिक्षं चतुरो मासान्करोत्यसौ सार्धान्। प्रादुर्भावं प्रायः करोति च क्षुद्रजन्तूनाम् ॥४५॥ जलकेतुरपि च पश्चात्स्निग्धशिखया परेण चोन्नतया। नवमासं स सुभिक्षं करोति शान्ति च लोकस्य ॥४६॥ जलकेतुरेकरात्रं23 हृदयः प्राक्सूक्ष्मतारकः स्निग्धः।हरिलाङ्गुलोपमया प्रदक्षिणावर्तया शिखया ॥४७॥ यावन्तः (तः) सुमुहूर्तान्दर्शनमायाति निर्दिशेन्मासान्। तावदतुलं सुभिक्षं रूक्षः प्राणान्तिकान्रोगान् ॥४८॥ अपरेण पद्मकेतुर्मृणालगौरो भवेन्निशामेकाम्। सप्त करोति सुभिक्षं वर्षाव्यतिहर्पयुक्तानि ॥४९॥ आवर्त इति निशार्धे सत्यशिखोरुणनिभोऽपरोऽस्निग्धः। यावत्क्षणान्स दृश्यस्तावन्मासान्सुभिक्षफरः ॥५०॥पश्चात्संध्याकाले संवर्तोनाम ताम्रशिखः। आक्रम्य वियत्र्यंशं शूलाग्रावस्थितो रौद्रः ॥५१॥ यावत एव मुहूर्तान्दृश्यो वर्षाणि हन्ति तावन्ति। भूपाञ्छनिपातैरुदर्क्षंचापि पीडयति ॥५२॥ये शस्तास्तान्हित्वा केतुभिराधूमितेऽथवा स्पृष्टे। नक्षत्रे भवति वधो येषां राज्ञां प्रवक्ष्ये तान् ॥५३॥ गगनार्धचारी (चरः) सद्यः प्रधानदेशान्विनाशयत्यचिरात्। सकलगगनानुचारी त्रैलोक्यविनाशनः केतुः ॥५४॥ अश्विन्यामश्वपतिं भरणीषुकिरातपार्थिवं हन्यात्। बहुलासु कलिङ्गेश रोहिण्यां सूरसेनपतिम् ॥५५॥ औशीनरमपि सौम्ये जलजाञ्जीवाधिपं तथाऽऽर्द्रासु।आदित्येऽश्मकनाथं पुण्येमगधाधिपं हन्ति ॥५६॥ असिकेशं भौजङ्गे पित्र्येऽङ्गंपाण्ड्यनाथमपि भाग्ये। औज्जयिनीकमार्यम्णे सावित्रे दण्डकाधिपतिम् ॥५७॥ चित्रासु कुरुक्षेत्राधिपस्य मरणं समादिशेत्प्राज्ञः।काश्मीरककान्योजौनृपती प्राभञ्जनेन स्तः ॥५८॥ इक्ष्वाकुरलकनाथश्चहन्यते यदि भवेद्विशाखासु। मैत्रे पौण्ड्राधिपतिर्ज्येष्टास्वथ सार्वभौमवघः ॥५९॥ मूलेतु मद्रकपतिर्जलदैवे काशिको मरणमेति। यौधेयकार्जुनायनशिविचैद्या वैश्वदेवे च ॥६०॥ हन्यात्कैकयनाथं पाञ्चमदं न सिंहलाधिपं वङ्गम्।नैमिषनृपं किरातं श्रवणादिषु पट्सुच क्रमशः ॥६१॥उल्काभिताडितशिखः शुभः शिखी शिवतराभिदृष्टो24 यः। अशुभः स एव चौलाध्रकाणसिंहहूणचीनानाम् ॥६२॥ नम्रायतः शिखिशिखाभिसृतो युनो वा ऋक्षं च यत्म्पृशति तत्कथितांश्चदेशान्। दिव्यप्रभावानिहतान्स यथा गरुन्माम्भुह्यते गतो नरपतिः परभोगिभोगान् ॥६३॥ दृष्टःपोटश वासगनशुभदः कैश्चिन्प्रदिष्टः शिखीसर्वारम्भफलप्रदोहि नियतं चैत्राऽथवा

माधवे। ऋक्षे यत्परिभुक्तभूमितहतं दग्धं शिखाभेदितं तत्सर्वं परिवर्ज्य शुद्धमपरं पाणिग्रहे वास्तुषु॥६४॥

इति केतुचारः॥

——————

अथागस्त्यचारः

वराहः–भानोर्वर्त्मविघातवृद्धशिखरो बिन्ध्याचलः स्तम्भितो वातापीमुनिकुक्षिभित्सुररिपुर्जीर्णश्च येनासुरः।पीत्वा चाम्बुनिधेः पयांसि विपुला याम्या च दिग्भूषिता तस्यागस्त्यमुनेः पयोद्युतिकृतश्चारः समारभ्यते ॥१॥ स्मरणादपिपापमपाकुरुते किमुत स्तुतिभिर्वरुणाङ्गरुहः। मुनिभिः कथितोऽस्य यथाऽर्घविधिः कथयामि तथैव नरेन्द्रहितम् ॥२॥ संख्याविधानात्प्रतिदेशमस्य विज्ञाय संदर्शनमादिशेज्ज्ञः। तच्चोज्जयिन्यामगतस्य कन्यां भागैः स्वराख्यैःस्फुटभास्करस्य ॥३॥ ईषत्प्रभिन्नेऽरुणरश्मिजाले नैशेऽन्धकारे दिशि दक्षिणस्याम्। सांवत्सरावेदितदिग्विभागे भूषोऽर्धमुर्व्यां प्रयतः प्रयच्छेत् ॥४॥ कालोद्भवैः सुरभिभिः कुसुमैः फलैश्चरत्नैश्च सागरभवैःकनकाम्बरैश्च।धेन्वा वृषेण परमान्नयुतैश्च भक्ष्यैर्दध्यक्षतैः सुरभिधूषविलेपनैश्च॥५॥ नरपतिरिदमर्धंश्रद्दधानो ददानः प्रविगतगददोषो निर्जितारातिपक्षः। भवति च यदि दद्यात्सप्तवर्षाणि सम्यग्जलनिधिरशनायाः स्वामितां याति भूमेः ॥६॥ द्विजो यथालाभमुपाहृतार्थःप्राप्नोतिपुत्रान्प्रमदाश्चपौत्रान्।वैश्यश्चगा भूरि धनं च शूद्रो रोगक्षयं धर्मफलं च सर्वे ॥७॥ रोगान्करोति पुरुषःकपिलस्त्ववृष्टिं धूम्रोगवामशुभकृत्स्फुरणो भयाय। माञ्जिष्टरागसदृशः क्षुधमाहवं च कुर्यादणुश्चपुररोधमगस्त्यनामा ॥८॥ शातकुम्भसदृशः स्फटिकाभस्तर्पयन्निव महीं किरणायैः। दृश्यते यदि ततः प्रचुरान्नाभूर्भवत्यभयरोगजनाढ्या ॥९॥ उल्कया विनिहतः शिखिना वा क्षुद्धयं मकरमेव स धत्ते।दृश्यते किल स भाग्यगतेऽर्के रोहिणीमुपगतेऽस्तमुपैति ॥१०॥

इत्यगस्त्यचारः।

——————

अथ सप्तर्षिचारः।

वराहः–सैकावली विराजति ससितोत्पलमालिनी सहासेव।नाथवतीति च दिक्पैःकाौबेरी सप्तभिर्मुनिभिः ॥१॥ध्रुवनायकोपदेशान्नरिनर्तीवोत्तरा भ्रमद्भिश्च। यैश्चारमहं तेषां कथयिष्ये वृद्धगर्गमतात् ॥२॥ आसन्मघासु मुनयः

शासति पृथ्वीं युधिष्ठिरे नृपतौ। षङ्द्विकपञ्चद्वि २५२६ युतः शककालस्तस्य राज्यस्य ॥३॥ वर्षसहस्रत्रितयं शतमेकं सप्ततिर्नवाग्रा च।सककालयुतं25मिश्र कलेर्गतं धर्मपुत्रात्तु ॥४॥ एकैकस्मिन्नृक्षे शतं शतं ते चरन्ति वर्षाणाम्। प्रागुदयतोऽस्तविवरादृजूदयं तत्र संयुक्ताः ॥५॥ पूर्वे भागे भगवान्मरीचिरपरे स्थितो वसिष्ठोऽस्मात्। तस्याङ्गिरास्ततोऽत्रिस्तस्याऽऽसन्नः पुलस्त्यश्च ॥६॥ पुलहःक्रेतुरिति भगवान्नासन्नानुक्रमेण पूर्वाद्याः। तत्र वसिष्ठं मुनिवरमुपाश्रिताऽरुन्धती साध्वी ॥७॥ उल्काशनिघूमाद्यैर्हता विवर्णा विरश्ययोह्रस्वाः। हन्युः स्वं स्वं वर्गं विपुलाः स्निग्धाश्चतद्वृद्ध्यै ॥८॥ गन्धर्वदेवदानवमन्त्रौपधिसिद्धयक्षनागानाम्। पीडाकरो मरीचिर्ज्ञेयो विद्याधराणां च ॥९॥ शकयवनदरदपारतकाम्बोजांस्तामसान्धनोपेतान्।हन्ति वसिष्ठोऽभिहतो विवृद्धिदो रश्मिसंपन्नः ॥१०॥ अङ्गिरसो ज्ञानयुता धीमन्तो ब्राह्मणाश्चनिर्दिष्टाः। अत्रेःकान्तारभवा जलजान्यन्मोनिधिः सरितः ॥११॥रक्षःपिशाचदैत्या दानवभुजङ्गाःस्मृताः पुलस्त्यस्य। पुलहस्य तु मूलफलं क्रतोस्तु यज्ञाः सयज्ञकृतः ॥१२॥

इति सप्तर्षिचारः।

अथ ग्रहयुद्धम्।

बराहः–युद्धं यथा यदा वा भविष्यमादिश्यते त्रिकालज्ञैः। तद्विज्ञानं करणे मया कृतं सूर्यसिद्धान्ते ॥१॥ वियति चरतां ग्रहाणामुपर्युपर्यात्मसंस्थानाम्। अतिदूरा दृग्विषये समतामित्र संप्रयातानाम् ॥२॥ आसन्नक्रमयोगाद्भेदोल्लेखांशुमर्दनासव्यैः।युद्धं चतुष्प्रकारं पराशराद्यैर्मुनिभिरुक्तम् ॥३॥केचित्–हस्तमात्रे भवेद्युद्धं वाहुमात्रे समागमः।वितस्तिमात्रमुल्लेखो भेदश्चैव निरङ्गुलः ॥४॥ भेदे वृष्टिविनाशो भेदः सुहृदां महाकुलानां च।उल्लेखे शस्त्रभयं मन्त्रिविरोधः प्रियान्नत्वम् ॥५॥ अंशुविमर्दे युद्धानि भूभुजां शस्त्ररुक्क्षुदपमर्दाः। युद्धे चाप्यपसव्ये भवन्ति युद्धानि भूषानाम् ॥६॥ रविराक्रन्दो मध्ये पौरः पूर्वे परे स्थितो यापी।पौरावृधगुरूरविजा नित्यं शीतशुराक्रन्दः ॥७॥ केतुकुजराहुशुक्रा यायिन एतेग्रहा हता हृन्युः। आक्रन्दयायिपौरा जयिनो जयदाः स्ववर्गस्य ॥८॥ पौरे पौरेण हते पौराःपौगन्नृपान्विनिघ्नन्ति। एवं याय्याक्रन्दौनागरपायिग्रहाश्चैव॥९॥ दक्षिणदिक्स्थःपुरुषो वैपयुरप्राप्य

संनिवृत्तोऽणुः। अधिरूढो विकृतो निष्प्रभो विवर्णश्च यः स जितः ॥१०॥ उक्तविपरीतलक्षणसंपन्नो जयगतो विनिर्दिष्टः। विपुलः स्निग्धो द्युतिमान्दक्षिणदिक्स्थोऽपि जययुक्तः ॥११॥ द्वावपि मयूखयुक्तौविपुलौस्निग्धौ समागमे भवतः। अत्रान्योन्यप्रीतिर्विपरीतावात्मपक्षघ्नौ॥१२॥ युद्धं समागमो वायद्यव्यक्तौ तु लक्षणैर्भवतः।भुवि भूभृतामपि तथा फलमव्यक्तं विनिर्देश्यम् ॥१३॥ गुरुणा जितेऽवनिसुते बाह्लिका यायिनोऽग्निवार्ताश्च। शशिजेन सूरसेनककलिङ्गशाल्वाश्च पीड्यन्ते ॥१४॥ सौरेणाऽऽरे विजिते जयन्ति पौराःप्रजाश्च सीदन्ति। कोष्ठागारभ्लेच्छक्षत्रियतापश्च शुक्रजिते ॥१५॥ भौमेन हते शशिजे वृक्षसरित्तापसाश्मकनरेन्द्राः। उत्तरदिक्स्थाःक्रतुदीक्षिताश्चसंतापमायान्ति ॥१६॥ गुरुणा वृधे जिते म्लेच्छशूद्रचौरार्थयुक्तपौरजनाः। त्रैगर्तपार्वतीयाः पीड्यन्ते कम्पते च मही ॥ १७॥ रविजेन बुधे ध्वस्ते नाविकयोधाब्जधेनुगर्भिण्यः। भृगुणाऽग्निशस्त्रकोपाः सस्याम्बुदयायिविद्धंसः ॥१८॥ जीवे शुक्राभिहते कुलूतगान्धारकैकया मद्राः। शाल्वा वत्सा वङ्गा गावः सस्यानि नश्यन्ति ॥१९॥ भौमेन जिते जीवे मध्यो देशो नरेश्वराः गावः। रविजेनचार्जुनाय नवसातियौधेयशिविविमाः ॥२०॥ शशितनयेनापि जिते वृहस्पतौ म्लेच्छसत्यशत्रभृतः। उपयान्ति मध्यदेशश्च संक्षयं यच्च भक्तिफलम् ॥२१॥ शुक्रे बृहस्पतिहते यायी श्रेष्ठो विनाशमुपयाति। ब्रह्मक्षविरोधः सलिलं च न वासवस्त्यजति ॥२२॥ कोशलककलिङ्गबङ्गन वत्सा मत्स्याश्चमध्यदेशयुताः। महतीं व्रजन्ति पीडां नपुंसकाःसूरसेनाश्च॥३॥ रविजेन सिते विजिते गणमुख्याःशस्त्रजीविनः क्षत्रम्। जलदाश्चनिपीड्यन्ते सामान्यं भक्तिफलमन्यत् ॥२४॥ असिते हते सिते वाऽर्धवृद्धिरहिविहगमानिनां पीडा। क्षितिजेन टङ्कणान्ध्रोण्ड्रकाशिवाह्लीकदेशानाम् ॥२५॥ सौम्येन पराभूते मन्देऽङ्गवणिग्विहङ्गपशुनाशः। संताप्यन्ते गुरुणा स्त्रीबहुला महिषकर्षकाश्चापि ॥२६॥ अयं विशेषोऽभिहितो हतानां कुजज्ञवागीशसितासितानाम्। फलं हि वाच्यं ग्रहभक्तितोऽन्यद्यथा यथा घ्नन्ति हताः स्वभक्तिः ॥२७॥

इति ग्रहयुद्धम्॥

अथ चन्द्रग्रहसमागमः॥

बराहः–भानां यथासंभवमुत्तरेण यातो ग्रहाणां यदि वा शशाङ्कः। प्रदक्षिणं तच्छुभदंनृपाणां याम्येन याने न शुभं शशाङ्के ॥१॥ चन्द्रमा यदि कुजस्य

यात्युदक् पार्वतीयबलगालिनां जयः। क्षत्रियाः प्रमुदिताः समायिनो भूरिधान्यमुदिता बसुन्धरा ॥२॥ उत्तरतः स्वसुतस्य शशाङ्कःपौरजयाय सुभिक्षकरश्च। सस्यचयं कुरुते जनहार्दीकोशचयं च नराधिपतीनाम् ॥३॥ बृहस्पतेरुत्तरगे शशाङ्के पौरद्विजक्षत्रियपण्डितानाम्। घर्मस्य देशस्य च मध्यमस्य वृद्धिः सुभिक्षं मुदिताः प्रजाश्च ॥४॥ भार्गवस्य यदि यात्युदक् शशी कोशयुक्तगजवाजिवृद्धिदः। यायिनां च विजयो धनुष्मतां सस्यसंपदपि चोत्तमा तदा ॥५॥ रविजस्य शशी प्रदक्षिणं यदि कुर्यात्पुरभूभृतां जयः। शकबाह्लिकसिन्धुपल्हवाः सुखभाजो यवनः समन्विताः ॥६॥ येषामुद्गगच्छति भग्रहाणां प्रालेयरश्मिर्निरुपद्रवश्च। तदद्रव्यपौरेतरभक्तिदेशान्पुष्णाति याम्येन निहन्ति तांश्च ॥७॥ शशिनि फलमुदक्स्थे यद्ग्रहस्योपदिष्टं भवति तद्पसव्ये सर्वमेतत्प्रतीपम्॥ इति शशिसमवायः कीर्तितोऽयं ग्रहाणां न खलु भवति युद्धं साकमिन्दोर्ग्रहर्क्षैः ॥८॥

इति चन्द्रग्रहसमागमः॥

————————

अथ ग्रहशृङ्गाटकम् ॥

यस्यां दिशि दृश्यन्ते विशन्ति तारा ग्रहा रविं सर्वे। भवति भयं दिशि तस्यामायुधकोपक्षुधातङ्कैः॥१॥ चक्रधनुःशृङ्गाटकदण्डपुरप्रासादवज्रसंस्थानाः। क्षुदवृष्टिकरा लोके समराय च मानवेन्द्राणाम् ॥२॥ दृश्यते यत्र खांशे ग्रहमाला दिनकरे दिनान्तगते। तत्रान्यो भवति नृपः परचक्रोपद्रवश्च महान् ॥३॥ यस्मिन्नृक्षे कुर्युः समागमं तज्जनान्ग्रहा हन्युः। अविभेदिनः परस्परममलमयूखाः शिवास्तेषाम् ॥४॥ ग्रहसंवर्तसमागमसंमोहसमाजसंनिपाताख्याः। कोशश्चेत्येतेषामभिधास्ये लक्षणं सफलम् ॥५॥ एकर्क्षे चत्वारः सह पौरैर्यायिनोऽथवापञ्च। संवर्तोनाम भवेच्छिखिराहुपुतः स संमोहः ॥६॥ पौरः पौरसमेतो यायी सह यायिना समाजाख्यः। यमजीवसमाजेऽन्यो यद्यागच्छेत्तदाकोशः ॥७॥ उदितः पश्चादेकः प्राक्चान्यो यदि स संनिपाताख्यः। अविकृततनवः स्निग्धा विपुलाक्ष समागमे धन्याः ॥८॥ समौतु संवर्तसमागमाख्यौसंमोहकोशौ भयदौप्रजानाम्। समाजसंज्ञे सुसमाः प्रदिष्टा वैरप्रकोपः खलु संनिपाते ॥९॥ वसिष्ठः– चत्वारः पञ्च वा खेटा बलिनस्त्वेकराशिगाः। राजाध्यभयं दधुरर्चमामयभीतिदाः ॥ १० ॥ यदा प्रतीषर्गोखेटौनृपसंक्षांभदौतदा \। प्रतीपगास्रयो यत्र युद्धवृष्टिभयप्रदाः ॥११॥ राजान्यन्यंच कुर्वन्ति चत्वारी यदि

चक्रिताः। प्रतीपगाः पञ्च खेटा राजराष्ट्रविनाशदाः ॥१२॥ *26अर्कः26 सौरिः कुजः सौरिस्तमः सौरिः कुजो गुरुः। गुरुः सौरिः समायोगो महीनाशाय जायते ॥१३॥ पञ्च ग्रहा घ्नन्ति चतुष्पदान्वै षट् च ग्रहा घ्नन्ति समस्तभूपान्। सप्त ग्रहा घ्नन्ति समस्तदेशान्निहन्ति चाष्ट्रग्रहकूटयोगः ॥१४॥ त्रिभिः क्रूरैश्चतुःसौम्यैरेकराशिस्थितैर्यदा। ग्रहसंकलितं नाम मेदिन्यां रुधिरं भवेत् ॥१५॥ एकराशौ यदा यान्ति चत्वारः पञ्च खेचराः। प्लावयन्ति महीं सर्वां रुधिरेण जलेन चा ॥१६॥

इति ग्रहशृङ्गाटकम्।

इति श्रीज्योतिर्निबन्धे चाराध्यायः समाप्तः।

————————

अथ मानप्रकरणम्।

वसिष्ठः–फलानिसंहितोक्तानि मानायत्तानि यत्नतः। सिद्धान्तोक्तानि तान्यादौ ब्राह्मादीनि प्रचक्ष्महे ॥१॥ पौलिशः–ब्राह्मं देवं मनोर्मानं पैत्रं सौरं च सावनम्। नाक्षत्रं च तथा चान्द्रं जैवं मानानि वै नव ॥२॥ एषु सावनसौरर्क्षचान्द्रैः स्यात्सर्वकर्मणाम्। सिद्धिरत्राथ वर्षस्य फलं जैवेन गृह्यते ॥३॥ वसिष्ठः–मानं विधातुः खलु नित्यमायुःप्रमाणविज्ञानविधौ च कार्यम्। गीर्वाणमन्वोरपि मानमेवं पैत्रं च मानं शशिनः प्रवृत्तम् ॥४॥शिरोमणौ–खखाभ्रदन्तसागरै४३२००० र्युगा ४ ग्नि ३ युग्म २ भू १ गुणैः। क्रमेण सूर्यवत्सरैः कृतादयो युगाङ्घ्रयः ॥५॥ सिद्धान्तसार–जलधिभि ४ श्चयुगै ४ श्च चतुर्युगं शशिनगै ७१ श्चतुर्युगकैर्मनुः। कृतकुभि १४ र्मनुभिश्च दिनं विधेरिति निशाऽब्दशतायुरथाऽऽत्मभूः ॥६॥ आर्ष्टिषेणिः–पैतामहमहो दैवं युगं खाभ्राभ्रभू १००० गुणम्। स कल्पः कथ्यते प्राज्ञैस्तत्रेन्द्राः स्युश्चतुर्दश ॥७॥ शिरोमणो–संधयः स्युर्मनूनां कृताब्दैःसमा आदिमध्यावसानेषु तैर्मिश्रितैः। स्याद्युगानां सहस्रं दिनं वेधसः सोऽपि कल्पो द्युरात्रं तु कल्पद्वयम् ॥८॥ शतायुः शतानन्द एवं प्रदिष्टस्तदायुर्महाकल्प इत्युक्तमाद्यैः। यतोऽनादिमानेप कालस्ततोऽहं न वेन्यत्र पद्मोद्भवा ये गतास्तान् ॥९॥ तथा वर्तमानस्य कस्याऽऽयुषोऽर्थंकथं सार्धवर्षाष्टकं केचिदूचुः। भवत्यागमः कोऽपि नास्योपयोगो ग्रहावर्तमानद्युपाता27त्प्रसाध्याः ॥१०॥ यतः सृष्टिरेषां दिनादौ दिनान्ते लयस्तेषु

सत्स्वेव तच्चारचिन्ता। अतो युज्यते कुर्वते तान्पुनर्येऽप्यसत्स्वेषु तेभ्यो महद्भ्यो नमोऽस्तु ॥११॥ याताः षण्मनवो युगानि भ २७ मितान्यन्यद्युगाङ्घित्रयं नन्दाद्रीन्दुगुणास्तथा शकनृपस्यान्ते कलेर्वत्सराः। गोद्रीन्द्वद्रिकृताङ्कन्दस्रनगगोचन्द्राः शकाब्दान्विताः सर्वे संकलिताः पितामहदिने स्युर्वर्तमाने गताः ॥१२॥ सिद्धान्तसारे–स्वयंभूः स्वरोचिर्मनुश्चोत्तमाख्यस्ततस्तामसो रैवतश्चाक्षुपश्च। स वैवस्वतः पञ्च सार्वाणिरेत्रं रुचिर्भूतिरुक्ताविमौ दैवविद्भिः ॥१३॥ मार्कण्डेयः–शतं हि तस्य वर्षाणां परमित्यभिधीयते। पञ्चाशद्भिस्तथावर्षैःपरार्धमिति कीर्त्यते ॥१४॥ प्रथमं तत्परार्धं तु यातं तन्मुनिसत्तम। यस्यान्तेऽभून्महाकल्पः पाद्मइत्यभिधीयते ॥१५॥ द्वितीयस्य परार्धस्य वर्तमानस्य वै द्विज। वाराह इति कल्पोऽयं प्रथमः परिकल्पितः ॥१६॥ +नारदः28–ग्रहाणांनिखिलश्चारोगृह्यते सौरमानतः। वृद्धेर्विधानं स्त्रीगर्भंसावनेनैवगृह्यते ॥१७॥ प्रवर्षणं मेघगर्भं नाक्षत्रेण च गृह्यते। यान्नोद्वाहत्रक्षौरतिवर्षेशनिर्णयः ॥१८॥ पर्ववास्तूपवासादि कृत्स्नं चान्द्रेण गृह्यते। गृह्यते गुरुमानेन प्रभवाद्यब्दलक्षणम् ॥१९॥

इति मानप्रकरणम्।

अथ संवत्सरप्रकरणम्।

ज्योतिष्प्रकाशे–शाककालं भजेत्पष्टया शेषं स्याव्द्यावहारिकः। प्रमाथिपूर्वकोऽब्दस्तुतुषारकरमानजः ॥१॥ नन्दात्षष्टिगुणैर्युक्तः ३१७९ शालिवाहनकः शकः। कलेगर्तन हीनोऽसौ तेनाङ्केन शको भवेत् ॥२॥ तथा च विक्रमः शको वेदवेदाभ्रपावकैः३०४४। बाणराममहीतुल्य १३५ मन्तरं शकयोर्मतम् ॥३॥ शाके कङ्गाग्निभूतुल्ये १३६१ माघादौप्रभवो भवेत्। क्कभ्रभूक्ष्माङ्ग ६११०१ वर्गोऽन्दभोगोऽब्दादिर्वृहस्पतेः ॥४॥ श्रीपतिः–शकेन्द्रकालः पृथगाकृतिघ्नः २२ शशाङ्कनन्दाश्वियुगः ४२९१ समेतः। शराद्रिवस्विन्दु१८७५ हृतः सलब्धः षष्ट्याऽऽप्तशेषे प्रभवादयोऽन्दाः ॥५॥ नारदः–युगं स्यात्पञ्चभिर्वर्षर्युगानि द्वादशैवते। तेषामीशाः क्रमाज्ज्ञेया विष्णुर्देवपुरोहितः॥६॥ बराहः–विष्णुः सुरेज्यो बलभिद्धुताशस्त्वष्टोत्तरामोष्ठपदाधिपश्च। क्रमाद्युगेशाःपितृविश्वसोमशक्रानलाख्याश्विभगाः प्रदिष्टाः ॥७॥ संवत्सरोऽग्निः परिवत्सरोऽर्क

इदाधिपः शीतमयूखमाली। प्रजाधिपश्चाप्यनुवत्सरः स्यादुद्वत्सरः शैलसुतापतिश्च ॥८॥ वृष्टिः समाऽऽद्ये प्रमुखा द्वितीये प्रभूततोया कथिता तृतीये। पश्चाज्जलं मुञ्चति यच्चतुर्थं स्वल्पोदकं पञ्चममब्दमुक्तम् ॥९॥ चत्वारि मुख्यानि युगानि तेषां विष्विन्द्रजीवानलदैवतानि। चत्वारिमध्यानि च मध्यमानि चत्वारि चान्त्यान्यधमानि विद्यात् ॥१०॥ आद्यं धनिष्ठांशमभिप्रवृत्तो माघे यदा यात्युदयं सुरेज्यः।षष्ठब्दपूर्वः प्रभवः स नाम्ना प्रपद्यते भूतहितस्तदाऽन्दः ॥११॥ पैतामहसिद्धान्ते—प्रमाथी प्रथमं वर्षे कल्पादौ ब्रह्मणः स्मृतम्। तदाऽपि षष्ठिहृच्छाके शेषं चान्द्रोऽत्र वत्सरः ॥१२॥ व्यावहारिकसंज्ञोऽयं कालः स्मृत्यादिकर्मसु। योज्यः सर्वत्रतत्रापि जैवोवा नर्मदोत्तरे ॥१३॥ आर्ष्टिेषेणिः—स्मरेत्सर्वत्र कर्मादौ चान्द्रं संवत्सरं सदा। नान्यं यस्माद्वत्संरादौ प्रवृत्तिस्तस्य कीर्तिता ॥१४॥ नारदः प्रभवो विभवः गुलःप्रमोदोऽथ प्रजापतिः। अङ्गिराः श्रीमुखो भावो युवा धाता तथैव च ॥१५॥ ईश्वरो वहुधाक्यश्चप्रमाथी विक्रमो वृषः। चित्रभानुः सुभानुश्चतारणःपार्थिवो च्ययः॥१६॥ सर्वजित्सर्वधारी च विरोधी विकृतिः खरः। नन्दनो विजयश्चैवजयो मन्मथदुर्मुखी ॥१७॥ हेमलम्बोविलम्बश्च विकारी शार्वरी प्लवः। शुभकृच्छोभनः क्रोधी विश्वावसुपराभवौ ॥१८॥ प्लवङ्गः कीलकः सौम्यः साधारण (णो) विरोधकृत्। परियावी प्रमादी स्यादानन्दो राक्षसोऽनलः ॥१९॥ पिङ्गलः कालयुक्तश्चसिद्धार्थो रौद्रदुर्मती। दुन्दुभी रुधिरोद्गारीरक्ताक्षी क्रोधनः क्षयः ॥२०॥

इति संवत्सरनामानि।

अथ प्रश्नवादिसंवत्सरफलानि।

क्वचिद्वृद्धिः क्वचिद्धानिः क्वचिदीतिः क्वचिद्गदः। तथाऽपि मोदते लोकः प्रभवाब्देविमत्सरः ॥१॥ आन्वीक्षिक्यां च निरताः सप्रजाःस्युः क्षितीश्वराः। कर्पकाभिमता वृष्टिर्विभवाब्देविवैरिणः ॥२॥ सफलत्रात्मजान्सम्यग्लालयन्त्यखिला जनाः। अमरस्पर्धिनः शुक्रवत्सरे बिगतारयः ॥३॥ ईतिव्याध्यदि..। लोकाः क्षितीशाः कलहोत्सुकाः। प्रमोदाब्देप्रमोदन्ते तथाऽपि निखिला जनाः ॥४॥ क्वीशाः क्वचिन्न व्रजन्तः स्वाधीना ह्यर्धवृष्टयः। एवं तैर्मोदते लोकः प्रजापतिशरद्यतः॥५॥ अतिथिस्वजनैः सार्धमन्नं वोभुज्यते मधु।

पेपीयते कामिनीभिरङ्गिरोब्दे निरन्तरम् ॥६॥ श्रीमुखाब्देदुग्यपूर्णगोकर्णबलयेव भूः। सस्यपीताम्बरा वारिगात्रोतुङ्गपयोधरा ॥७॥ स्युर्भूर्भुजो भूभुजेभ्यः प्रभञ्जनभुजः परे। भावाब्देभ्रमणाब्दौयाः शान्ता भ्रमणलोचनाः ॥८॥ युवानो निखिला लोकाः क्षितिश्चापि फलोत्कटा।यूनोऽजस्रं रमयति युवाब्देयुवतीजनः ॥९॥ धात्री धात्रीवलोकानामभया च फलप्रदा। धात्रब्देधरणीनाथाः परस्परजयोत्सुकाः ॥१०॥ ईश्वराब्दे स्थिराः क्ष्मेशा जगदानन्दनी सही।अध्वरे निरता विप्राः स्वस्वमार्गरताः परे ॥११॥ बहुधान्याब्देबहुभिर्धान्यैः पूर्णाऽखिला धरा।गावःप्रभूतपयसो राजानः स्युर्विवैरिणः ॥१२॥ बलाहका न मुञ्चन्ति कुत्रचित्प्रचुरं पयः। प्रमाथ्यब्दे वीतरागास्तथाऽपि सुखिनो जनाः ॥१३॥ स्रवन्तोऽविरतं स्वच्छं स्रवन्ति प्रचुरःपयः। विक्रमाब्देऽखिलाःक्ष्मेशाविक्रमाक्रान्तभूमयः ॥१४॥विविधैरन्नपानाद्यैर्हृष्टपुष्टाङ्गचेतसः।मदोन्मत्ताः खिला लोका वृषाब्दे वृषसंनिभाः ॥१५॥ चित्रिता वसुधा चित्रपुष्पवृष्टिफलादिभिः।चित्रभानुशरच्चैषा भाति चित्राङ्गना यथा ॥१६॥ भजन्ते भेषजं भुक्त्वा भूमिं भूरिफलान्विताम्। सुभानुवत्सरे भूमिर्भीमभूषाजिविग्रहा ॥१७॥ प्रतरन्त्युडुपोपायैःसरितोऽर्थाय संतत्तम्। तारणाब्देत्वतुलिता ह्यर्थवन्तो हि जन्तवः ॥१८॥ पतन्ति करकोषेताः पयोधारा निरन्तरम्।पापादषेतमनसः पार्थिवाब्देतु पार्थिवाः ॥१९॥ दीप्यते वसुधा वीरभदवारणवाजिभिः। व्यपेतव्याधयः सर्वे व्ययाब्देतु व्ययान्विताः ॥२०॥ गीर्वाणपूर्वगीर्वाणगर्वनिर्भरचेतसः। सर्वजि्द्वत्सरे सर्व उर्वीशा घ्नन्ति भूमिपान् ॥२१॥ सर्वधारिणि वर्षेऽस्मिञ्जगदानन्दिनी धरा। प्रशान्तवैरा राजानः प्रजापालनतत्पराः ॥२२॥ विरोधं सततं कुर्वन्त्यन्योन्यं भूमिषाःप्रजाः। विरोधिकृद्वत्सरे भूर्भूरिवारिघरैर्वृता ॥२३॥ विकृतिः प्रकृतिं याति प्रकृतिर्विकृति तथा। तथापि मोदते लोकश्चास्मिन्विकृतिवत्सरे ॥२४॥ खराब्देसततं सम्यग् वर्धन्ते पशवः प्रजाः। राजानो विलयं यान्ति परस्परविरोधिनः॥२५॥ आनन्ददा धराऽजस्रं प्रजाभ्यः फलसंचयैः। नन्दनाब्दे स्वद्दानिः स्यात्कोशधान्यविनाशतः ॥२६॥ नश्यते वारिधाराभिः पूर्वकृप्यखिलंफलम्। राजभिश्चावरंसर्वंविजयाब्दे जयेच्छुभिः॥२७॥ शैलोद्यानवनारामफलैरतुलिता मही। जेगीयते वेणुनादैर्जाब्देकर्णहार्यलम् ॥२८॥ मन्मथाब्देऽग्विला लोकास्तत्कलिरसलो-

लुपाः। शालीक्षुयवगोधूमैर्नयनाभिनवा धरा ॥२९॥ दुर्मुखाब्देऽग्निरोगाः स्युः प्रचुरान्नंतथेतयः। राजानः सप्रजास्तुष्टा निःस्वास्ते द्विजसत्तमाः ॥३०॥ हेमलम्बे नृपाः सर्वे परस्परविरोधिनः। प्रजापीडा त्वनर्घत्वं तथाऽपि सुखिनो जनाः ॥३१॥ विलम्बिवत्सरे राजविग्रहो भूरिबृष्टयः। आतङ्कपीडितो लोकः प्रभूतं चापरं फलम् ॥३२॥ विकारिणो विकार्यब्देपित्तरोगादिभिर्नराः। देवो वर्षति संपूर्णं समुद्ररसनक्षितौ ॥३३॥ शार्वरीवत्सरे सर्वसस्यवृद्धिरनुत्तमा। राजानो विलयं यान्ति परस्परजथेच्छया ॥३४॥ चलिताचलसंकाशैः पयोदैरावृतं नभः। दीप्यन्ते सततं भूषाः प्लवाब्देप्लवगा जनाः ॥३५॥ राजते पृथिवी सर्वा सततं विविधोत्सवैः। शुभकृद्वत्सरे वृद्धिःप्रजानां पशुभिः सह ॥३६॥ शोभने वत्सरे सर्वसस्यानामतिवृद्धयः। नृपाणां स्नेहमन्योन्यं प्रजानां च परस्परम् ॥३७॥ अपि सन्तीतयः क्रोधिन्यब्दे सस्यसमृद्धयः। दम्पत्योर्वैरमन्योन्यं प्रजानां च परस्परम् ॥३८॥ सम्यग्विश्वावसावब्देमध्यसस्यार्धवृष्टयः। प्रचुरा29घोररोगाश्चनृपा लोभाकुलीकृताः ॥३९॥ पराभवाब्दे राजानः प्राप्नुवन्ति पराभवम्। आमयः क्षुद्रधान्यानि प्रभूतानि सुवृष्टयः ॥४०॥ प्लवङ्गाब्दे सस्यहानिश्चिररोगार्दिता जनाः। मध्यवृष्टिः क्षितीशानां विरोधश्च परस्परम् ॥४१॥ प्रचुराःपैत्तरोगाःस्युर्मध्यवृष्टिरहेर्भयम्। कीलकाब्दे त्वीतिभयं प्रजाक्षोभः परस्परम् ॥४२॥ अतिवृष्टिररोगत्वं प्रजाः स्युः स्वस्थचेतसः। सौम्येऽब्दे सततं सर्वे शान्तवैराः क्षितीश्वराः ॥४३॥ साधारणाब्दे राजानः सुखिनो गतमत्सराः। प्रजाश्चपशवः सर्वे वृष्टिः कर्षकसंमता ॥४४॥ विरोधकृद्वत्सरे तु परस्परविरोधिनः। राजानो मध्यमा वृष्टिः प्रजाःस्वस्था निरन्तरम् ॥४५॥ अनर्थामयरोगेभ्यो भीतिरीतिर्निरन्तरम्। परिधाविनि वर्षे तु नृणां वृष्टिश्च मध्यमा ॥४६॥ नृपक्रोधोभवत्युग्रःप्रजापीडा त्वनर्धता। तथाऽपि दुःखं नाऽऽप्नोतिप्रमादिवत्सरे जनः ॥४७॥ आनन्दवत्सरे सर्व जन्तवः पशवः सदा। आनन्दयन्ति चान्योन्यमन्यथा तु क्वचित्क्वचित् ॥४८॥ अनन्ता मध्यफलदा तदधीगाहवोऽन्वहम्। निष्कृपा राक्षसाब्देतु राक्षसा इव जन्तवः ॥४९॥ अनलाब्देऽनलभयं मध्यवृष्टिरनर्घता। नृपसंक्षोभसंभूता भूरिभीकरभूमयः ॥५०॥पिङ्गलाब्दे तु सततं दिक्पूरितघनस्वनाम्। भूभुजः स्वभुजाक्रान्तां भुञ्जते भूसतीं शुभाम् ॥५१॥ अतिवृष्टिः कालयुक्तवत्सरे सुखिनो जनाः। सन्तीतयोऽपि सस्यानि संपूर्णान्यन्यथा द्रुमाः ॥५२॥ सिद्धार्थिवत्सरे

भूषा अन्योन्यस्नेहकाङ्क्षिणः। संपूर्णसस्याम्बुसुधां दुदुहुर्गां यथा तथा ॥५३॥ अन्योन्यनृपसंक्षोभचौरव्याघ्रादिभिर्भयम्। मध्यवृष्टिरर्घत्वं रौद्राब्दे नैव गौर्जरे ॥५४॥ दुर्मत्यब्दे दुर्मतयो भवन्त्यखिलभूमिपाः। तथाऽपि सुखिनो लोकाः सङ्ग्रामे निर्जितारयः ॥५५॥ सर्वसस्येन संपूर्णा धात्री दुन्दुभिवत्सरे। राजभिः पाल्यते पूर्वदेशश्चौरविनाशनम् ॥५६॥ आहवे निहताः सर्वे भूषारोगैस्तथा जनाः। तथाऽपि ते प्रजीवन्ति रुधिरोद्गारिवत्सरे ॥५७॥ रक्ताक्षिवत्सरे सस्यवृद्धिर्वृष्टिरनुत्तमा। प्रेक्षन्ते सर्वदाऽन्योन्यं राजानो रक्तलोचनाः ॥५८॥ क्रोधनाब्दे मध्यवृष्टिः पूर्वसस्यं न तु क्वचित्। संपूर्णमितरत्सर्वं सर्वे क्रोधपरां जनाः ॥५९॥ कार्पासगन्धतैलेक्षुमधुसस्यविनाशनम्। क्षीयमाणाश्चापि नरा जीवन्ति क्षयवत्सरे ॥६०॥ आनन्दादिर्भवेद्ब्रह्मा भावादिर्विष्णुरुच्यते। जयादिर्जायते रुद्रो विंशत्या च क्रमाद्भवेत् ॥६१॥

इति संवत्सरफलम्।

अथ राजादीनां निर्णयः।

रत्नावल्याम्—दर्शप्रतिपत्सन्धौ चैत्रादौ यो भवेद्वारः। सोऽब्दषउक्तस्त्वपरैः प्रतिपदि मध्याह्नकाले यः ॥१॥ बहुभिः कीर्तितो राजा रवेरुदयकालिकः। तत्र भूषद्वयं वृद्धौभूषाभावस्तिथिक्षये ॥२॥ चैत्रसितप्रतिपदि यो वारोऽर्कोदये स वर्षेशः। उदयद्वितये पूर्वो नोदययुगलेऽपि पूर्वःस्यात् ॥३॥ दर्शान्तेऽनल्येऽपि च स पूर्वराजस्तदागमविरोधः। यस्माच्चैत्रसिता-देरुदयाद्भानोः प्रवृत्तिरब्दादे ॥१४॥ ब्रह्मगुप्तः—चैत्रसितादेरुदयाद्भानोर्दिनमासयुगकल्पाः। सृष्ट्यादौलङ्कायांप्रवृत्ता दिनेऽर्कस्य ॥५॥ गर्गः—अस्माप्रतिप्रदो सन्धिर्मध्याह्नात्पूर्वतोयदि। तदा तद्दिनपोराजा परतश्चेत्परो भवेत् ॥६॥ ज्योतिष्फलोदये—चैत्रस्य शुक्लप्रतिपत्तियौयो वारःस उक्तो नृपतिस्तदाब्दे। मेषप्रवेशःकिल भास्करस्य यस्मिन्दिने स्यात्स तु राजमन्त्री ॥७॥ कर्कप्रवेशे दिनषःस उक्तो सस्यस्य नाथो मुनिभिः पुराणैः। आर्द्राप्रवेशे दिननाथ उक्तो मेघाधिपःप्राक्तनविप्रवर्यैः ॥८॥ तुलाप्रवेशेऽहनि यस्य वारो रसाधिपोऽयं नियतं प्रदिष्टः। चापप्रवेशे दिवसाधिनाथो धान्याधिपो वैकथितो मुनीन्द्रैः॥९॥ चैत्रादिमेषचापार्दातुलाकर्कदिनेश्वराः। नृपमन्त्रिवान्यतोयरससस्याधिपेश्वराः॥

इति राजादिनिर्णयः।

अथ राजफलम्।

सूर्यस्य राज्ये जलहीनता स्यात्पयोधराणां महती च पीडा। जनस्य चोराः फलपुष्पमल्पं भवेत्तरूणां कलहो नृपाणाम् ॥१॥ सोमस्य राज्येऽखिललोकगेहे कल्याणकार्याणि गवां विवृद्धिः। वृष्टिः प्रभूता बहुसस्यसंपत्सौख्यं जनो विन्दति रोगहीनः ॥२॥ भौमस्य राज्येऽग्निभयं धरित्री सस्येनहोना क्वचिदेव वृष्टिः। चौराः प्रभूता मनुजेश्वराणां स्याद्विग्रहोऽन्योन्यजयाय नूनम् ॥३॥ बुधस्य राज्ये धनधान्यसंकुलं महीतलं वृष्टिरनुत्तमा च। जना विवाहोत्सवयज्ञकाङ्क्षिणः सुभिक्षमस्मिन्बहुवातवृष्टिः ॥४॥ जीवस्य राज्ये कनकाम्बुधारावृष्टिश्चगावो बहुदुग्धयुक्ताः। विप्राःसदा यज्ञमहोत्सवेन प्रहृष्टचित्ताः फलपुष्पसंपत् ॥५॥ शुक्रस्य राज्ये सरितस्तडागा वाप्यश्चकूपाः परिपूर्णतोयाः।प्रभूतधान्यं फलिताश्चवृक्षा गावः सुदुग्धाः सुखिनश्च लोकाः ॥६॥ मन्दस्य राज्ये सक्रुदेव वृष्टिर्जने गदश्चोरकृता च पीडा। नृपा विनाशं युधि संप्रयान्ति दुर्भिक्षमुग्रं फलपुष्पहानिः ॥७॥

अथ मन्त्रिफलम्।

सूर्ये प्रधाने ज्वलिता धरित्री क्षुधाभिभूतं जगदल्पसस्यम्। महर्घता रोगभयं जनानां युद्धं नृपाणामतुलं न वृष्टिः ॥१॥ सोमे प्रधानेऽभ्युदयं व्रजन्ति प्रजा महीशा बहुधा च वृष्टिः। शालीक्षुगोधूमगवां विवृद्धिर्यशक्रियायां निरता द्विजाः स्युः ॥२॥ भौमे प्रधाने क्वचिदेव वृष्टिर्धान्यं महर्घं ज्वलनप्रकोपः। स्यात्तस्कराणामनयोऽतिघोरःप्रजेश्वरा युद्धविधायिनः स्युः ॥३॥ बुधे प्रधाने कमलेक्षुदुग्धगोधूमसंपत्प्रचुरा च वृष्टिः। कीलालधान्यानि पचेलिमानि नरेश्वराणामपि कोशवृद्धिः ॥४॥ जीवे प्रधाने मुदिताश्चसर्वे लोकाः सुभिक्षं प्रचुरं विलोक्य। अनर्घता स्याद्वहुसस्यसंपन्महीरुहाणामतुला च वृद्धिः ॥५॥ शुक्रे प्रधाने प्रचुरान्बुवर्षी सुराधिनाथः सुखिनश्चसर्वे। गावो यथा कामदुधा नृपाणामतीवसौख्यं प्रचूरं च धान्यम् ॥६॥ मन्दे प्रधानेऽखिललोकपीडा ब्रह्मर्भयंधान्यविनाशनं च। रोगाभिभूता जनता न पश्येत्सौख्यं तथाऽस्मिन्नतिहीनवृष्टिः ॥७॥

अथाग्रधान्येशफलम्।

खण्डावृष्टिः सस्यद्धानिर्जनानां व्याधिर्युद्धं भूभुजां दारुणं च। चोरक्रीडादृश्यते सस्यनाथः सूर्यो यस्मिंस्तत्र गोदुग्धनाशः ॥१॥ सस्यं समर्थं प्रचुराम्बुवृष्टिःसर्वाणि धान्यानि पचेलिमानि। जनाश्चसर्वे सुखसंप्रयुक्ताः सस्याधिपो यत्र निशाकरः स्यात् ॥२॥ रोगाभिभूतं जगदस्ति सर्वं महर्घधान्यानि न वारि भूरि। वह्नेर्भयं तस्करजं क्वचित्स्यात्सस्याधिनाथे धरणीतनूजे ॥३॥ मही च सर्वा सलिलेन पूर्णा भयं विनष्टं च सुखी जनः स्यात्। नवानि धान्यानि फलैर्युतानि सस्याधिनाथो यदि चन्द्रजः स्यात् ॥४॥ आनन्दयुक्ता जनता पयोदाः सुवृष्टियुक्ताः फलपुष्पसंपत्। धान्यानि सर्वाणि शुभानि यत्र सस्याधिनाथः सुरराजमन्त्री ॥५॥ रोगैर्मुक्तानिर्भयाः सर्वलोकाः पच्यन्ते वा सर्वधान्यानि नूनम्। वृक्षाः शश्वत्पुष्पिता भूरिवृष्टिः सस्याधीशो यत्र दैत्येन्द्रमन्त्री ॥६॥ धान्यक्षयः कोशविहीनता स्यान्नरेश्वराणामपि मन्दवृष्टिः। हुताशभीतिः प्रचुरामयः स्यात्सस्याधिनाथोऽर्कसुतो यदा स्यात् ॥७॥

अथ मेघेशफलम्।

दिव्यभ्रजालं पिहितार्कमिन्द्रः क्वचिज्जलं वर्षतिमूषकेतिः। महीरुहाः पुष्पफलैर्विहीना मेधाधिपो यत्र दिवाकरः स्यात् ॥१॥ नदीतडागादिषु भूरितोयमतीव धान्यं प्रवला जनाश्च। शालीक्षुगोवारिचराभिवृद्धिर्मेघाधिपोयत्र निशाकरःस्यात् ॥२॥ वातः प्रचण्डोऽग्निभयं जनानामवृष्टिभीत्याकुलितं च धान्यम्। व्याधिप्रकोपोपहताश्चसर्वे मेधाधिपो यत्र धरातनूजः ॥३॥ कृषीश्वराभीष्टकृदन्वुवृष्टिर्मही लतापुष्पफलैः प्रपूर्णा। अस्त्यामयः क्वापि कलिर्नृपाणां मेघाधियो यत्र हिमांशुपुत्रः ॥४॥ पश्चाज्जलं भूरि महेश्वराणामन्योन्यमैत्रीकलहः क्वचित्स्यात्। धर्मक्रियायां निरता जनाः स्युर्मेघाधिपो यत्र सुरेन्द्रमन्त्री ॥५॥ नित्योत्सवानन्दितमानसानां गृहे द्विजानां धनधान्यसंपत्। गीर्वाणनाथो बहुवृष्टिकर्ता मेघाधियो यत्र च भार्गवः स्यात् ॥६॥ न क्वापि वृष्टिर्धरणीश्वराणां कोशोऽल्पकःशीतभयं क्वचिच्च। अभूरि धान्यं प्रचुरामयश्च मेघाधिपो यत्र स्वैः सुतः स्यात् ॥७॥

अथ रसाधिपफलम्।

कार्पासतैलेक्षुगुडादिकानां महर्घता शीतभयं जनानाम्। वापीतडागादिषु मुच्छमन्युरसाधिनाथो दिनकृद्यदा स्यात् ॥१॥ गावो बहुक्षीरमभिवन्त्यो

वत्सोत्सुकाःसस्यभुजोऽतिपुष्टाः। यज्ञक्रियायां निरताश्चविप्रारसाधिनाथो हिमकृद्यदा स्यात् ॥२॥ सुवर्णरूप्यादि निगूढभावं प्रयाति कीलालमतीव तुच्छम्। मध्वाज्यपूगादि महर्घयुक्तं रसाधिनाथो यदि भूमिजः स्यात् ॥३॥जम्बूमधूकामलकाम्र-पुष्पलतानिकुञ्जाद्यभिवृद्धियुक्तम्। कासारवापीतटधान्यसंपद्रसाधिपे स्वाद्रजनीशपुत्रे॥४॥ चामीकरं स्यात्सुलभं तथाऽऽज्यं कौशेयकार्पासगुडाम्बराणि। सुखेन लभ्यान्तातिवारिवृष्टिर्यदासुरेज्यो रसनायकः स्यात् ॥५॥ गवां विवृद्धिर्लवक्षुलाक्षाकांस्यातसीवस्त्रघृतादिकानाम्। समर्घताऽतीव जलस्य वृष्टी रसाधिपो यत्र च दैत्यमन्त्री ॥६॥ नीलीगजोर्णापटलोहजातं समर्घतामेति रसा महार्घाः। वलारिरल्पं सलिलं ददाति रसाधिनार्थोऽर्कसुतो यदा स्यात् ॥७॥

अथ पश्चिमधान्येशफलम्।

नृपा मिथोविग्रहकारिणः स्युर्धान्यस्य तोयस्य च नैव वृद्धिः। सतां जनानां ज्वरजा च पीडा धान्याधिपोयत्र दिवाकरः स्यात् ॥१॥ सुभिक्षसंदर्शनजातहर्षाःप्रजेश्वराः कोशविवृद्धियुक्ताः। गावो बहुक्षीरदुधा भवन्ति धान्याधिपो यत्र निशाकरः स्यात् ॥२॥ बह्नेर्भयं व्याधिभयं क्वचिच्च पयोविहीना जलदा मही स्यात्। फलैर्न पूर्णा विदुषां विरोधो धान्याधिपो यत्र धरातनूजः ॥३॥ गोधूमशालीक्षुयवादिकानां विद्वज्जनानामपि वृद्धिरस्ति। वेदश्रुताभ्यासरता द्विजेन्द्रा धान्याधिपो यत्र हिमांशुपुत्रः ॥४॥ यज्ञक्रियायां निरता द्विजाः स्युर्गावो बहुक्षीरयुता महिष्यः। सुभिक्षकृद्वर्षति देवनाथो धान्याधिपोयत्र सुरेन्द्रमन्त्री ॥५॥ गृहेगृहे मङ्गलयज्ञकार्यंमहीरुहाणांफलपुष्पसंपत्। सुभिक्षमुच्चैर्वहुवर्षतीन्द्रो धान्याधिपोयत्र भृगोः सुतः स्यात् ॥६॥ शचीपतिर्वर्षति नैव तोयं व्याधेर्भयं चास्ति सुभिक्षमल्पम्। भ्रमन्ति लोकाः परितो भयार्ता धान्याधिपो यत्र च सौरिरस्ति ॥७॥

———————

अथ विश्वानयनम्।

रामनिघ्ने शके सप्तभक्तेमुहुर्द्विमशेषंशैरःसंयुक्तं कारयेत्। पूर्वदृष्टिरन्नंच शीतं नृणं चाऽऽतपो मारुतो जन्तुवृद्धिक्षयौविग्रहः ॥१॥ शाके च वेदगुणिते सप्तभिर्भागमाहरेत्। शेषंतु द्विगुणीकृत्य रुपंचैव तु मिश्रितम् ॥२॥क्षुधा

नृपा तथा निद्रा आलस्योद्यम एव च। शान्तिः क्रोधस्तथा दण्डो भेद इष्टस्तथैव च ॥३॥ ततस्तु रसनिष्पत्तिः फलनिष्पत्तिरेव च। उत्साहः सर्वलोकानां ज्ञातव्यो निश्चितं बुधैः ॥४॥

अथप्रकारान्तरम् ॥

शाकः सागरताडितो नवहृतो लब्धं30 निधाय क्वचिच्छेपं दस्रहतं शशाङ्कसहितं क्षुत्तृट्सुषुप्तिः क्रमात्।आलस्यं तत उद्यमश्च कथितः शान्तिस्तथा क्रोधयुग्दण्डो मैत्रमथोत्सवश्चगदितः पापं च पुण्यं तथा ॥१॥ शकाब्दंवसुभिर्निघ्नंनवभिर्भागमाहरेत्। शेषंतु द्विगुणीकृत्य त्रिभिर्युक्तं च कारयेत् ॥२॥ उग्रं रसः फलोत्पत्तिर्व्याधिश्च व्याधिनाशनम्।सदाचारोऽप्यनाचारो मरणं जन्म एव च ॥३॥ देशोषद्रवः स्वास्थ्यं च चौरकुलभयं तथा। चौरोपशमनं चाग्निभयं साम्यंक्रमेण च ॥४॥ त्रिघ्नः शाकः सप्तभक्तावशिष्टं द्विघ्नं युक्तं पञ्चभिः स्यात्क्रमेण।आपो धान्यं कक्षशीतोष्णवायुर्वृद्धिर्नाशो विग्रहो लब्धतोऽपि ॥५॥ शाकार्धं गुरुयुग्राशियुक्तं तेन शफात्फलम्। तत्संख्याको भवेद्धर्मः पापं तन्न्यूनविंशतिः ॥६॥

अथाऽऽपव्ययानयनम्॥

रङ्गानि ६ चन्द्रस्य तिथयो १५ ष्टौ८ कुजस्य च। ज्ञस्यात्यष्टि १७ र्गुरोरेकोनविंशति १९ रथो भृगोः ॥१॥ एकविंशतिराख्याता २१ मन्दस्य दशसंमिताः।राहोर्द्वादश १२ वर्षाणि दशायाः कथितानि च ॥२॥ स्वस्वामिवर्षाधिपवत्सरैक्यं त्रि ३ घ्नंशरा ५ ढ्यंतिथि १५ भक्तशेषम्। आयोत्थलब्धिस्त्रिगुणार्थयुक्ता तिथ्याप्त १५ शेषोव्ययसंज्ञकः स्यात् ॥३॥

इति संवत्सरादिप्रकरणम्।

अथ मासप्रकरणम्।

श्रीपतिः—मधुस्तथामाधवसंज्ञकथशुक्रः शुचिश्चायनभोनभस्यौ। तथेप ऊर्जश्चसहःमहम्यौ तपस्तपस्याविति ते क्रमेण ॥१॥ नारदः—यस्मिन्मासे

पौर्णमासी येन धिष्ण्येन संयुता।तन्नक्षत्राह्वयोमासःपौर्णमासी तदाह्वया ॥२॥ तत्पक्षौ दैवपित्र्याख्यौ शुक्लकृष्णौ तु तानुभौ। शुभेऽशुभे कर्मणि च प्रशस्तौ भवतः सदा ॥३॥ ज्योतिष्प्रकाशे—चान्द्रोः दर्शावधिर्मासः सावनः स्वत्रिवासरैः। सौरोऽर्कराशिभोगेन नाक्षत्रो विधुभभ्रमात् ॥४॥ वसिष्ठः—सावनं स्याद्दिनंभानोरुदयादुदयं भवेत्। तदेव भूदिनं वारस्तदेशार्कोदयादितः31 ॥५॥ भास्करः—रवेश्चक्रभोगोऽर्कवर्षंप्रदिष्टं द्युरात्रं तु देवासुराणां तदेव। रवीन्द्रोर्युतेः संयुतिर्याचदन्या विधोर्मास एतच्च पित्र्यं द्युरात्रम् ॥६॥ गर्गः—पौर्णमास्यवसानः स्यान्मासो दैवऋतुस्तथा। दर्शान्तो मानुषोह्येतौविन्ध्यादुत्तरयाम्यगौ ॥७॥ परिशिष्टे-इन्द्रानी यत्र हूयेते मासादिः स मकीर्तितः। अग्नीषोमो तथा मध्यं मासान्तः पितृसोमकौ ॥ ८ ॥ आर्ष्टिषेणि—दर्शान्तो वैदिको मासो राकान्तः स्मार्त उच्यते। पौराणो हरिघस्रान्तः सौर उत्पत्तिपूर्वकः ॥९॥ विवाहादौ स्मृतः सौरो यज्ञादौ सावनः स्मृतः। वार्षिके पितृकार्ये च मासाश्चान्द्रोविधीयते ॥१०॥ स्कान्दे–सौरमाभ्युदये मासं चान्द्रं तु पितृकर्मणि।यज्ञे सावनमित्याहुरार्क्षंसर्वव्रतेषु च ॥११॥ पितामहः—आयुर्दायविभागश्चप्रायश्चित्तक्रिया तथा। सावनेनैव कर्तव्या शत्रूणामप्युपासनम् ॥१२॥ यथा पाण्डवैः कौरवाणाम्। शिरोमणौ—वर्षायनर्तुयुगपूर्वकमत्र सौरान्मा32नात्तथा च तिथयस्तु हिमांशुमानात्। यत्कृच्छ्रसूतकचिकित्सितवासराद्यं तत्सावना33द्यघटिकादिकमार्क्षमानात् ॥१३॥ ज्योतिष्प्रकाशे—तुलादिसंक्रमात्पट्केगोलौस्तो दक्षिणोत्तरौ। तथा कर्किमृगान्पट्केयाम्यसौम्यायने क्रमात् ॥१४॥ श्रीपतिः— मृगादिराशिद्वयभानुभोगात्पट्चर्तवः स्युः शिशिरो वसन्तः। ग्रीष्मश्च वर्षाऽथ शरच्च तद्वद्धेमन्तनामा कथितोऽत्र पठः ॥१५॥ गृहप्रवेशत्रिदशप्रतिष्ठाविवाहचौलव्रतवन्धपूर्वम्। सौम्यायने कर्म शुभं विधेयं यद्गर्हितं तत्खलु दक्षिणे स्यात् ॥१६॥

इति मासप्रकरणम्।

अथ तिथिप्रकरणम्।

संहिताप्रदीपे—सर्वत्र कार्येषु शुभाशुभेषु पृच्छन्ति लोकास्तिथिमेव पूर्वम्। न क्वापि योगं करणं ग्रहान्वा तस्मात्तिथेर्मुख्यतरत्वामिष्टम् ॥१॥ अर्काद्विनिसृतः प्राचीं यद्यात्यहरहः शशी। तच्चान्द्रमानमंशैस्तु ज्ञेया द्वादशभिस्तिथिः ॥२॥ क्रमात्तिथीशा ब्रह्माग्नी विरिञ्चिविष्णुशैलजे। विनायकयमौ नागचन्द्रा स्कन्दोऽर्क–

वासवौ ॥३॥ महेशो वसकोनागदुर्गे दण्डधराह्वयः। शिवो विश्वे हरिरवी कामः शर्वकली ततः ॥४॥ शिवो विश्वे दर्शसंज्ञतिथीशाः पितरः स्मृताः। कामोमयोः केचिदूचुरधिपस्तु धनाधिपः ॥५॥ ज्योतिष्प्रकाशे—स्वस्वदेवप्रतिष्ठायां34 मन्त्रसंग्रहणे तथा। पवित्रदमनारोपे ग्राह्या तत्तत्तिथिर्वृधैः ॥६॥ श्रीपतिः—नन्दा च भद्रा च जया च रिक्ता पूर्णेति सर्वास्तिथयः क्रमात्स्युः। कनिष्ठमध्येष्टफलास्तु शुक्लै कृष्णे भवन्त्युत्तममध्यहीनाः ॥७॥ वृद्धिः सुमङ्गलपदा च वला खला च लक्ष्मीवती त्वथ यशा परतश्च मित्रा। तद्वद्बला सुमहती तिथिरुग्रकर्मा स्याद्धर्मिणी प्रतिपदादि तथैव नन्दा ॥८॥ क्रमाद्यशोवत्यपराजयोग्रा सौम्यादया35 पञ्चदशी तिथिश्च। फलानि नाम्ना सदृशानि तासां महर्षिभिर्जूनमुदाहृतानि ॥९॥ दैवज्ञवल्लभे— ज्ञानाप्तिदेकर्मणि पौष्टिके च ध्रुवे च शस्ता प्रतिपत्मादेष्टा।व्यायामशिल्पौषधमङ्गलेषु यात्राविवाहादिषुच द्वितीया ॥१०॥ वीजोप्तिदास्यासवसंप्रयोगे ज्ञेया तृतीयोग्नविधौ चतुर्थी। माङ्गल्यकृत्येषु च पञ्चमी स्यात्षष्ठीध्रुवे कर्मणि न प्रयाणे ॥११॥ ध्रुवं प्रयाणाभरणादिकेषु स्यात्सप्तमीष्टाऽखिलमङ्गलेषु। सेनासु36 यन्त्रादिषु चाष्टमीष्टा पापोग्रसिद्धौ नवमी वरिष्ठा ॥१२॥ दशम्यभीष्टा गमने प्रवेशमाङ्गल्यकर्मस्विह पौष्टिके च। एकादशी मङ्गलसिद्धये च ध्रुवक्रियायां च महानसे च ॥१३॥ ध्रुवे सपाणिग्रहणे निधाने स्यादद्वादशी सिद्धिकरी न याने। त्रयोदशी कर्मणि मङ्गलाद्ये क्षिप्रेच सौभाग्यविधौ ध्रुवे च ॥१४॥ चतुर्दशी सिद्धिकदुग्रकार्ये न तु प्रयाणे न खलु प्रवेशे। माङ्गल्ययज्ञादिषुपौर्णमासी दर्शोन शस्तः पितृकर्म मुक्त्वा ॥१५॥ नारदः—अष्टमी द्वादशी षष्ठीचतुर्थी च चतुर्दशी। तिथयः पक्षरन्ध्राख्या दुष्टास्ता अतिनिन्दिताः ॥१६॥ चतुर्थमनुरन्ध्राङ्कतत्त्वसंज्ञास्तु नाडिकाः। त्याज्या दुष्टासु तिथिषु पञ्चस्वपि च सर्वदा ॥१७॥ अमावास्यां च नवमीं त्यक्त्वा विषमसंज्ञिताः। तिथयः सुप्रशस्ताः स्युर्मध्यमा प्रतिपत्सिता ॥१८॥ दर्शे षष्ठ्यां प्रतिपदि द्वादश्यां प्रतिपर्वसु। नवम्यां च न कुर्वीत कदाचिद्दन्तधावनम् ॥१९॥ षष्ठ्यां तैलं तथाऽष्टम्यां मांसं क्षौरं तिथौ कलेः। पूर्णिमादर्शयोर्नारीसेवनं परिवर्जयेत् ॥२०॥ व्यतीपाते च संक्रान्तावेकादश्यां च पर्वसु। अर्कभौमदिने षष्ठ्यांनाभ्यङ्गो न च वैघुतौ॥२१॥ यः करोति दशम्यां च स्नानमामलकैः सह।पुत्रहानिर्भवेत्तस्य द्वितीयायां न संशयः ॥२२॥ अर्थपुत्रक्षयस्तस्य द्वितीयायां न संशयः। अमायां च नवम्यां च सप्तम्यां च कुल-

क्षयः ॥२३॥ वसिष्ठः—चतुर्दश्यष्टमी कृष्णा त्यमावास्या च पूर्णिमा।पुण्यानि पञ्च पर्वाणि संक्रान्तिदिवसश्चयः ॥२४॥ श्रीपतिः—एकान्तरा दिनकरे37 तिथयो द्वितीयापूर्वा38न्त्यचाप39घटयोर्घटकक्षयोश्च।कवर्याजयोर्मिथुनकन्यकयोश्च40 कीटहर्योस्तुलामकर-योश्चभवन्ति दुग्धाः ॥२५॥ मासदग्घासु तिथिषु कृतं यन्मङ्गलादिकम्। तत्सर्वं नाशमायाति ग्रीष्मे कुसरितो यथा ॥२६॥ श्रीपतिः—आद्याश्चतस्रः क्रियपूर्वकाणामेषां चतुर्णामिह पञ्चमी स्यात्। परा परेषां परतस्तथैव सक्रुरराशेरशुभा तिथिःस्यात् ॥२७॥ एकस्मिन्वासरे तिस्रस्तिथयः सा क्षया तिथिः। तिथिर्वारत्रयेऽप्येका त्वधिका द्वेऽतिनिन्दिते ॥२८॥ गर्गः—सूर्योदये यथा तारा विलयं यान्ति स्वस्थिताः। तथा शुभानि कर्माणि क्षयवृद्धितिथौ ध्रुवम् ॥२९॥ दोषद्यमिदं जातु गुणैरन्यैर्न हन्यते। तथाऽपि सवले भानी लोभस्थे वा तथा विध ॥३०॥ नारदः—तिथेः पञ्चदश भागाः क्रमात्प्रतिपदादयः। क्षणसंज्ञास्तदर्धानि तासामर्धप्रमाणतः ॥३१॥ भूपालः—कूष्माण्डं वृहतीं क्षारं मूलकं पनसं फलम्। धात्रीं शिरःकपालान्त्रनखचर्मतिलानि च ॥३२॥ क्षुरकर्माङ्गनासेवां प्रतिपत्मभृति त्यजेत्।उर्ध्वलोकगतिप्रेप्सुरायुष्कामश्चमानवः ॥३३॥

इति तिथिप्रकरणम्।

अथ वारप्रकरणम्।

श्रीपतिः—सूर्यादितः शिवशिवागुहविष्णुकेन्द्रकालाः क्रमेण पतयः कथिता ग्रहाणाम्।वह्न्यम्बुभूमिहरिशक्रशचीविरिञ्चिस्तेषां पुनर्मुनिवरैः प्रतिदेवताश्च ॥१॥ राहोरधिपतिः कालः प्रत्यधीशो भुजङ्गमः।तथा केतोश्चित्रगुप्तः स्वयम्भूर्ऋषिभिः स्मृतः ॥२॥ रविः स्थिरः शीतकरश्चरश्चमहीज उग्रः शशिजश्चमित्रः। लघुः सुरेज्यो भृगुजो मृदुश्च शनिश्च तीक्ष्णः कथितो मुनीन्द्रः ॥३॥ पुंग्रहा जीवसूर्यारा वुधमन्दौ नपुंसकौ। स्त्रीखगौ चन्द्रशुक्रौ च सजलौ तौ च कीर्तितौ ॥४॥ जीवशुक्रौ तु विप्रेशौ क्षत्रियेशौ कुजोष्णगू।ज्ञः शूद्राणां विशां चन्द्रो ह्यन्त्यजानां शनिः स्मृतः ॥५॥ नारदः—नृपाभिषेकमाङ्गल्यसेवायानास्त्रकर्म यत्। औषधाहवधान्यादि विधेयं भानुवासरे ॥६॥शङ्खमुक्ताम्बुरजतवृक्षैक्षुस्त्री-विभूषणम्।पुष्पगीतक्रतुक्षीरकृषिकर्मेन्दुवासरे ॥७॥ विपाग्निवन्धनस्तेयसंधि-

विग्रहर्कर्पणम्। धात्वाकरप्रवालादिकर्म भूमिजवासरे ॥८॥ नृत्यशिल्पकलागीतलिपिभूरससंग्रहम्। विवादधातु संग्रामकर्म कुर्याद्विदोऽहनि ॥९॥ यज्ञपौष्टिकमाङ्गल्यस्वर्णवस्त्रादिभूषणम्। वृक्षगुल्मलतायानकर्म देवेज्यवासरे ॥१०॥नृत्यपीतादिनवादिनस्वर्णस्त्रीरत्नभूषणम्। भूषण्योत्सवगोधान्यवाजिकर्म भृगोर्दिने ॥११॥ नपुसीसायसाश्मादि विषपापासवानृतम्। स्थिरकर्माखिलं वास्तुसंग्रहः सौरिवासरे ॥१२॥ रक्तवर्णो रविश्चन्द्रो गौरो भौमस्तु लोहितः। दूर्वावर्णो बुधो जीवः पीतः श्वेतस्तु भार्गवः ॥१३॥ कृष्णः सौरिःस्ववारेषु स्वस्ववर्णक्रियाः शुभाः। यस्मिन्वारे तु यत्प्रोक्तं तद्धोरावर्गयोः शुभम् ॥१४॥ श्रीपतिः–सोमसौन्यगुरुशुक्रवासराः सर्वकर्मसुभवन्ति सिद्धिदाः। भानुभाौमशनिवासरेषु तु प्रक्तमेव खलु कर्म सिध्यति ॥१५॥ गर्गः—ग्रहस्योपचयस्थस्य वारे कार्यं प्रसि यति। नैवापचयसंस्थस्य यत्नादपि कृतं नरैः ॥१६॥ श्रीपतिः—वारप्रवृत्ति मुनयोः वदन्ति सूर्योदयाद्रावणराजधान्याम्। उर्ध्वं तथाऽधोऽप्यपरन तस्माच्चरार्धदेशान्तरनाडिकाभिः ॥१७॥ चरार्वदेशान्तरयोर्वियोगयोगोत्थयाऽऽनीय पलैश्चसन्यक्। सूर्योदयादृर्वमृणे धनेऽधो वारप्रवृत्तिं मुनयोः वदन्ति ॥१८॥ महेश्वरः—होरेशा रनिवर्जितोदयल्वाः पञ्चेन्दुभिर्भाजिता नाड्यो दस्रहता हृताश्चविपर्यरेवं हि कश्चित्स्मृताः। प्रोक्तोऽयं गणनाक्रमो दिनपतेर्होरेश्वराणां वुधैर्मार्तण्डास्फुजिदिन्दुपुत्रहिमकृत्सौरेज्यपृथ्वीसुताः ॥१९॥ आर्ष्टिषेणि—वारप्रवृत्तेर्या याता नाड्यः सूर्योदयादपि। द्विघ्नाः पञ्च हृता होराः स्ववारात्पूर्वरक्रत्मात् ॥२०॥ माण्डव्य— लाक्षाकौसुम्भमाञ्जिष्ठ-रागेऽर्कःस्वर्णकाचयोः। भौमश्चन्द्रश्च मुक्ताब्जेशनिर्लोहाश्मनोर्मतः ॥२१॥ गर्गः—लाक्षाकौसुम्भमाञ्जिष्ठरागे काञ्चनभूषणे। प्रशस्तौ भौममार्तण्डौ रविजी लोहमणि ॥२२॥ नारः—अभ्यक्तो भानुवारे यः स नरः क्लेशवान्भवेत्। ऋक्षेशे कान्तिमान्भौमेव्याधिः सौभाग्यमिन्दुजे। जीवे नैख्यंसिते दृानिर्मन्दे सर्वसमृद्धिता ॥२३॥ यस्य खेदस्य यत्कर्म चारे प्रोक्तं विधीयते ॥२४॥ तल्लग्नेतस्य होराया तस्य तत्कर्मसर्वदा।भूपालः—वारस्त्रिघ्नोऽत्रहच्छेपेऽस्यैकः स्यादर्धयामकः। मन्दवारोत्तरे भागे कुलिको व्यैक्यो निधि ॥२५॥ द्युपतेभौमजीवाभ्यांसंख्या या द्विगुणा भवेत्। तत्क्षणे कण्टको जीवकुलिकोऽन्यो

विकुर्निशि ॥२६॥ उद्वेगाऽमृतनामा च रोगा लाभा शुभा वला। कलिर्नामानि वेलानां होरावत्सूर्यतः क्रमात् ॥२७॥

इति वारप्रकरणम्।

————————

अथ योगप्रकरणम्।

नारदः—योगेशा यमविष्ण्विन्दुधातृजीवनिशाकराः।इन्द्रतीयाहिवद्यर्कभूमिरुद्राङ्गतोयपाः ॥१॥ गणेशरुद्रधन-दत्वष्टमित्रषडाननाः। सावित्री कमला गौरी नासत्यौ पितरौदितिः ॥२॥ सवैधृतिर्व्यतीपातोमहापातावुभौ सदा। परिघस्य तु पूर्वार्धं सर्वकार्येषु गर्हितम् ॥३॥ विष्कम्भे घटकास्तिस्रीनव व्याघतवज्रयोः। गण्डातिगण्डयोः षट्च शुले पञ्च न शोभनाः ॥४॥ नारदः—लिखेदुर्ध्वगतामेकां तिर्यग्रेखास्त्रयोदश। तत्र खार्जुरिके चक्रे कथितं मूर्ध्नि भं न्यसेत् ॥५॥ भान्येकरेखागतयोः सूर्याचन्द्रमसोर्मिथः। एकार्गलो दृष्टिपातश्चाभजिद्वर्जितानि वै ॥६॥ गण्डे मूलं मृगं शूले विष्कम्भे च तथाऽश्विनीम्।मैत्रं षट्केऽन्तिमे41 त्वाष्ट्रंव्याघाते दितिभं न्यसेत् ॥७॥ वज्रे पुण्यं व्यतीपाते सार्पं च परिघे मघाम्। एकार्गलं42 पतङ्गेन्द्वोरेकरेखास्थयोर्न्यसेत् ॥८॥ साध्यदर्पणशूलान्त्यगण्डपातान्तसंस्थितम्। धिष्ण्यं चण्डायुधं शैवं शुभकार्येविवर्जयेत् ॥९॥ लल्लः—विंशतिर्द्वियुतोत्पत्तौ भ्रमणे चैर्कविंशतिः।पतने दश नाड्यस्तु पतिते सप्त नाडिकाः ॥१०॥ फलं लक्षघ्नमुत्पत्तौभ्रमणे कोटिरुच्यते।पतने दश कोट्यस्तु पतिते दानमक्षयम् ॥११॥ सर्वेषां पुण्यकालानां व्यतीपातो विशिष्यते। तत्राणुमात्रं यद्दत्तं तदनन्तफलप्रदम् ॥१२॥ विनाडीभिर्द्वादशभी रहितं घटिकाद्वयम्। योगप्रकरणे योगाः क्रमात्ते सप्तविंशतिः ॥१३॥

इति योगप्रकरणम्।

————————

अथ करणप्रकरणम्।

नारदः—इन्द्रः प्रजापतिर्मित्रस्त्वर्यमा भूर्हरिप्रिया। कीनाशः कलिरुद्राख्यौतिथ्यर्धेशास्त्वहिर्मरुत् ॥१॥ धवादिवणिगन्तानि शुभानि43 करणानि षट्। परीता विपरीता वा विष्टिर्नेष्टा तु मङ्गले ॥२॥ स्थिराणि मध्यमान्येषां नेष्टेनागचतुष्पदे। रत्नकोशे—कुर्याद्भवे शुभचरस्थिरपौष्टिकानि धर्मक्रिया द्विज-

हितानि च बालवाख्ये।सिध्यन्ति मित्रचरणानि च कौलवाख्ये सौभाग्यसंश्रयगृहाणि च तैतिलाख्ये॥३॥ कृषिवीजगृहाश्रयजानि गरे वणिजे ध्रुवकार्यवणिग्युतयः। न हि विष्टिकृतं विदधाति शुभं परघातविषांदिषु सिद्धिकरम् ॥४॥ कार्यंपौष्टिकमौषधानि शकुनौमूलानि मन्त्रास्तथा गोकार्याणि चतुष्पदे द्विजपितॄनुद्दिश्य कार्याणि च। नागे चैव सुदारुणानि हरणं सौभाग्यकर्माण्यतः किंस्तुघ्ने शुभपु44ष्टिवृद्धिकरणं माङ्गल्यकर्माणि च ॥५॥ वसिष्ठः— वधबन्धविषाग्न्यस्वच्छेदनोच्चाद-नादियत्। तुरङ्गमहिपोष्ट्रादिकर्म विष्ट्यां च सिध्यति ॥६॥ श्रीपतिः—जलशिखिशशिरक्षः- शर्वकीनाशवायुत्रिदश-पतिककुप्सु प्रोक्तमास्यं हि विष्टेः। नियतमृषिभिराशासंख्ययामैः क्रमेण स्फुटमिह परिहार्यं मङ्गलेष्वेतदेव ॥७॥ दैवज्ञवल्लभे— मन्वा१४ ष्ट८ मुनि ७ तिथ्य १५ ब्धि ४ दिग्रु १० द्र ११ त्रि ३ मितासु च। तिथिष्यायाति पूर्वादेर्निन्याऽग्रे शुभा ॥८॥ नारदः—मुखे पञ्च गले त्वेका वक्षस्येकादश स्मृताः। नाभौ चतस्रः षट् श्रोणौ तिस्रः पुच्छाख्यनाडिकाः ॥९॥ दैवज्ञवल्लभे–मुखे कार्यहानिर्गलेःप्राणनाशो हृदि द्रव्यनाशः कलिर्नाभिदेशे। कठावर्थविध्वंसनं पुच्छभागे जयश्चेतिभद्राशरीरे फलं स्यात् ॥१०॥ भृगुः–पृथिव्यां यानि कर्माणि शोभनान्यशुभानि च। तानि सर्वाणि सिध्यन्ति विष्टिपुच्छे न संशयः ॥११॥ ज्योतिष्प्रकाशे—चतुर्थ्येकादशीरात्रौ शुल्केपूर्णाष्टमीदिवा। भद्रा त्रिदशमीरात्रौकृष्णे45 ह्यद्रिमनौतिथौ॥१२॥ सप्तर्षयः—क्रमायाताऽक्रमायाता भद्रा त्याज्या सदा वुधैः। तस्या वक्त्रे मूतिर्मध्ये हानिः पुच्छे जयो भवेत् ॥१३॥ आर्ष्टिषेणिः—भानि सार्धाब्धयः सूर्याः सार्धगोब्जाःक्रमोत्क्रमात्। क्रमाद्भद्रासुपुच्छं स्यादाभ्यी माडीत्रयं परम् ॥१४॥ भद्राङ्गन्यासघटिकाः षष्टितिथिभोगपक्षे न्यूनाधिकत्वेन्यूनाधिका ज्ञेयाः। श्रीपतिः—दैत्येन्द्रः समरेऽमरेषु विजितेष्वीशः क्रुधा दृष्ट्वान्सा कोपात्किल निर्गता खरमुखी लाङ्गुलिनी च त्रिपात्। विष्टिः सप्तभुजा मृगेन्द्रगलका क्षामोदरी प्रेतगा दैत्यघ्नीमुदितैःसुरैस्तु किरणप्रान्तेनियुक्ता सदा ॥१५॥ उद्बद्धोद्भटतरपिण्डिकाऽतिकृष्णा दंष्ट्रोग्रा पृथूहनुगल्लदीर्घनासा। कार्यघ्नी हुतवलक्ष-मुद्गिरन्ती विश्वान्तः पतति समन्ततोऽत्र विष्टिः ॥१६॥

इति करणप्रकरणम्

अथ नक्षत्रप्रकरणम्।

ज्योतिष्यकाशे—भेशा दस्रयमौवह्निकेन्द्वीशादितयो गुरुः। भुजङ्गपितृयोन्याख्यार्यमार्कत्वष्टृवायवः ॥१॥ वहीन्द्रौ मित्रशक्रौच रक्षोऽन्यो विश्ववैष्णवम्।वस्वन्धुषाजपादाहिर्बुध्न्यपूषाभिधाः क्रमात् ॥२॥ नारदः—वस्त्रोपनयनक्षौरसीमन्ता-भरणक्रियाः। स्थापनाऽश्वेभयानास्त्रकृषिविद्यादयोऽश्चिमे॥३॥ वापीकूपतडागादिविपशस्त्रोग्र-शस्रोग्रदारुणम्।बिलप्रवेश-गणितनिक्षेपा यान्यभे शुभाः ॥४॥ अग्न्याधानास्त्रशस्त्रोग्रसन्धिविग्रहदारुणाः।सङ्ग्रामौषधवादित्रक्रियाः शस्ताश्चवह्निमे॥५॥ सीमन्तोन्नयनोद्वाहवस्त्रभूषास्थिरक्रियाः। गजवास्त्वभिषेकाश्चप्रतिष्ठा ब्रह्मभे शुभः ॥६॥ प्रतिष्ठाभूषणोद्वाहसीमन्तोन्नयन-क्रियाः। क्षौरवास्तुजाश्वोष्ट्रयात्राः शस्ताश्चचन्द्रभे ॥७॥ ध्वजतोरणसङ्ग्रा-मप्रकारास्त्रक्रियाः शुभाः। संधिविग्रहवैतानरसाढ्या रौद्रभे शुभाः ॥८॥ प्रतिष्ठायानसीमन्तवस्त्रवास्तूपनायनम्। क्षौराश्वकर्मादितिभे विधेयं धान्यभूषणम् ॥९॥ यात्राप्रतिष्ठा-सीमन्तव्रतवन्धप्रवेशनम्।करग्रहं विना सर्वं कर्मदेवेज्यभे शुभम् ॥१०॥ अनृतव्यसनद्यूतक्रोधास्त्रविषदाकम्। विवादरसवाणिज्यकर्मं46 कद्रुजभे शुभम् ॥११॥ कृषिवाणिज्यगोधान्यरणो-पकरणादिकम्। विवाहनृत्यगीताद्यं निखिलं कर्मपैतृभे ॥१२॥ विवादविषशस्त्राग्निदारुणोग्राहवादिकम्। पूर्वात्रयेऽखिलं कर्मंंकर्तव्यं मांसविक्रयः ॥१३॥ वस्त्राभिषेकसीमन्तविवाहव्रतवन्धनम्।प्रवेशस्थापनाश्चेभवास्तुकर्मोत्तरात्रये ॥१४॥ प्रतिष्ठोद्वाहसीमन्तमानं वस्त्रोपनायनम्।क्षौरवास्त्वभिषेकाश्चभूषणं कर्मभानुभे ॥१५॥ प्रवेशवस्त्रसीमन्तप्रतिष्ठाव्रतवन्धनम्। त्वाष्ट्रभे वास्तुविद्याश्चसौरभूषणकर्म यत् ॥१६॥ प्रतिष्ठोपनयोद्वाहवस्त्रसीमन्तभूषणम्। विवाहाश्वेभकृष्यादि क्षौरकर्मसमीरभे ॥१७॥ वस्त्रभू-षणवाणिज्य-वसुधान्यादिसंग्रहम्। इन्द्राग्निभे नृत्यगीतशिल्पलेखनकर्मच ॥१८॥ प्रवेशस्थापनो द्वाहत्रतवन्धाष्टमङ्गलम।वस्त्रभूषणवास्त्वर्थो मित्रभे संधिविग्रहे ॥१९॥ क्षौरास्त्रशस्त्रवाणिज्यगोमहिष्यम्युकर्मं यत्। इन्द्रभे नृत्यगीताद्यं शिल्पलोहाश्मलेखनम् ॥२०॥ विवाहकृषिवाणिज्यदारुणाहवभेषजम्। निर्ऋतौ नृत्यशिल्पास्त्रसंधिविग्रहलेखनम् ॥२१॥ प्रतिष्ठाक्षौरसीमन्तयानोपनयनौषधम्। पुरारामगृहारम्भं विष्णुभे पट्टवन्धनम् ॥२२॥ वस्त्रोपनयनक्षौ-रप्रतिष्ठायानभेषजम्।वसुभे वास्तुसीमन्तप्रवेशाश्वेभभूषणम् ॥२३॥ प्रवेशस्थापनक्षौरमौञ्जीवन्धनभेषजम्। अश्वाभरणसी-मन्तवास्तुकर्मं जलेशभे ॥२४॥ विवाहव्रतवन्धाश्चप्रतिष्ठायानभूषणम्।प्रवेशव-

स्त्रसीमन्तक्षौरभेषजमन्त्यभे॥२५॥ आर्ष्टिषेणिः—ध्रुवं स्थिरं स्मृतं ब्राह्मं त्र्युत्तरारविवासरः। चरं चलं त्रयंकर्णात्स्वात्यादित्यं च चन्द्रमाः ॥२६॥ क्रूरमुप्रं मघा याम्यंपूर्वात्रितयकंफुजः।मिश्रं साधारणं प्रोक्तं विशाखाकृत्तिकैः बुधः ॥२७॥ लघु क्षिप्रं च हस्ताश्विन्यभिजिद्गुरुभं गुरुः।मृदु मैत्रं मृगश्चित्राऽनुराधा रेवती सितः ॥२८॥ दारुणं तीक्ष्णमाश्लेषाज्येष्ठाऽऽर्द्रा मूलमर्कजः। नक्षत्रेष्वेषुकर्माणि नामतुल्यानि कारयेत् ॥२९॥ भूपालः—ध्रुवः शान्तिपाौष्ट्याख्यं गृहग्रामद्रुमादिकम्।बीजौषधाभिषेकादि ध्रुवकर्म प्रशस्यते ॥३०॥ चरे तु गजगोश्वादिटयनं सेतुबन्धनम्। प्रयाणारामकार्यं च चरकर्मं हितावहम् ॥३१॥ क्रूरर्क्षेविषमद्यादि वन्धनोच्चाटनादि च। शत्रुप्रहारशस्त्रादिकुर्यादुग्रं च सिद्धये ॥३२॥ मिश्रर्क्षयोः प्रकुर्वीत यत्क्रूरैर्दारुणः स्मृतम्।अग्निकार्यं वृषोत्सर्गं मिश्रकर्मशुभावहम् ॥३३॥ मित्रर्क्षे मित्रकार्याणि गृहग्रामप्रवेशनम्। रतिभूषावस्त्रगीतमङ्गलादि प्रशस्यते ॥३४॥ तीक्ष्णतारासु बेतालभूतमन्त्राभिचारिकम्।विधातरौद्रसंत्रासतीक्ष्णकर्महितं भवेत् ॥३५॥ नारदः—पूर्वत्रयाग्निमूलाहिद्विदैवत्यमघान्तकम्। अधोमुखं तु नवकं भानां तत्र विघीयते ॥३६॥ विलप्रवेशगणितभूतद्युविलेखनम्। सननं शिल्पकूपादिनिक्षेषोद्धरणादि यत् ॥३७॥ मित्रेन्द्रत्वाष्ठ्रहस्तेन्द्वादित्यान्त्याश्विनवायुभम्।तिर्यङ्मुसास्यंनवकं भानां तत्रविधीयते ॥३८॥ हलप्रवादगमनं यन्त्रीयन्त्रखरोष्ट्रकम्। सरगोरथनौयानलुलायहयकर्मच ॥३९॥ ब्रह्मविष्णुमहेशार्यवसुपाश्युत्तरात्रयम्। ऊर्ध्यास्यं नवकं भानां तेषु कर्मविधीयते ॥४०॥ पुरहर्न्यगृहरामवारगध्वजकर्मच। प्रासादवेदिकोद्यानप्राकाराद्यं च सिद्धये ॥४१॥ लल्लः—क्षिप्रचरध्रुवमृदौदेवार्चास्थापनं सदा कार्यम्। वास्तुनिवेशो मृदुभिर्ध्रुवैश्चकार्यो विवाहोऽपि ॥४२॥ क्षिप्रचरैःप्रस्थानं प्रवेशनं स्यात्तु मृद॒भिश्च।कुग्रन्थेषुशस्त्रक्षाराग्निविषप्रयोगश्च॥ ध्रुवमृदुभिः क्षिप्रचरैर्धिष्ण्यैरपि भेषजंकार्यम्। वस्त्रालंकारविधिः स्नानं च तथा नवान्नं च ॥४४॥ क्रूरोग्रस्थिरमृदुषु क्षिप्तेषु चैवधिष्ण्येषु।वृक्षाणामारोपश्छेदनमथ तक्षणं चैव॥४५॥कूरोग्रभेषु कुर्याब्द्यालग्रहणं रिपुप्रशमनं च।वन्धनवधसंवासंहननानि च पाशजालं च ॥४६॥ शस्त्राणामपि करणं विधारणं विक्रयं तथादानम्।संस्कारद्यापितथा कर्मसु संयोजनं वाऽपि॥४७॥ स्नकोशे—आर्द्राऽऽश्लेषा मूलं मघाभरप्योरदैवनविशाग्वे। यात्रावस्त्राभरणंक्षुरकर्म च वर्जयेदेषु ॥४८॥

तीक्ष्णेषु पशून्गमयेद्दत्तमृणं ध्रुवेषु संग्राह्यम्। पशुपीषणं विधेयं चरेषु दीक्षाव्रतं मृदुषु ॥४९॥ श्रीपतिः–अन्धकं तदनु मन्दलोचनं मध्यलोचनमतः सुलोचनम्। रोहिणीप्रभृतिभं चतुर्विधं47 नूनमत्र गणयेत्पुनःपुनः ॥५०॥ दैवज्ञवल्लभे—अन्धे सद्यो वस्तु नष्टं हृतं यल्लभ्यं दूरान्मन्दनेत्रे च कष्टात्। श्राव्यं द्रव्यं मध्यनेत्रे सुनेत्रे नैव श्राव्यं नैव लभ्यं कदाचित् ॥५१॥ भूपालः— तद्यात्यन्धैर्दिशंपूर्वांकेकरैर्दक्षिणां पुनः। पश्चिमां48चिपिटैर्धिष्ण्यैर्दिव्यदृष्टिभिरुत्तराम् ॥५२॥ ज्योतिष्प्रकाशे—पुष्यः परकृतं हन्ति न तु पुष्यकृतं परः। दोषंयद्यष्टमोऽपीन्दुः पुण्यः सर्वार्थसाधकः ॥५३॥लल्लः—ग्रहरहितः सहितो या प्रत्यरिनैधनविषत्करो वाऽपि। पाणिग्रहणं मुक्त्वापुष्यः सर्वार्थसिद्धिकरः ॥५४॥ श्रीपतिः—सिंहो यथा सर्वचतुष्पदानां तथैव पुष्पो वलवानुडूनाम्।चन्द्रे विरुद्धेऽप्यथ गोचरे वा सिध्यन्ति कार्याणि कृतानि पुष्ये ॥५५॥ ग्रहेण विद्धोऽप्यशुभान्वितोऽपि विरुद्धतारोऽपि विलोमगोऽपि। करोत्यवश्यं सकलार्थसिद्धिं विहाय पाणिग्रहमेव पुष्यः ॥५६॥ लल्लः— शिखिशिखिरसशरगुणशशिकृतगुणरसविषययमलयमविषयाः। शशिशशिकृत49युगगुणशिवयुगगुणदह-नजलधिशतयमलाः ॥५७॥ यमलरदाः साभिजितास्तारासंख्येयमाश्विनादीनाम्। तारामितैरहोभिर्मासैरब्दे-शैश्चफलपाकः ॥५८॥ ३।३।६।५।३।१।४।३।६।५।२।१।५।१।१।४।४।३।११।४।३।३।४।१००।२।२।३२॥ श्रीपतिः—तुरगमुखसदृक्षं योनिरूपं क्षुराभं शकटसममथैणस्योत्तमाङ्गेन तुल्यम्। मणिगृहशरचक्राभानि शालोपमं भं शयनसदृशमन्धच्चात्र पर्यङ्गरूपम् ॥५९॥ हस्ताकारमतश्चमौक्तिकसमं चान्यत्प्रवालोपमं धिष्ण्यं तोरणवत्स्थितं मणिनिभं सत्कुण्डलाभं परम्।कुध्यत्केसरिविक्रमेण सदृशं शय्यासमानं परं चान्यद्दन्तिविलासवत्स्थितमितः50 शृङ्गाटकव्यक्ति च ॥६०॥ त्रिविक्रमाभं च मृदङ्गरूपं वृत्तं ततोऽन्यद्यमलद्वयाभम्। पर्यङ्कतुल्यं मुरजानुकारमित्येवमश्वादिभचक्ररूपम् ॥६१॥ रत्नकोशे—हुतवहदेवं पूर्वास्तिस्रोऽपि विप्रगणस्य भानि स्यु।स्तिस्रस्तथोत्तरा नृपगणस्य पुष्यश्चविज्ञेयः ॥६२॥ हस्तोऽभिजिदश्विन्यःपुनर्वसुश्चेति वणिजां स्युः। पैत्र्यं पौष्णं मैत्रं प्राजापत्यं च कर्षकजनस्य ॥६३॥ सेवकजनस्य चित्रा सौम्येन्द्रवासवंच चत्वारि।मूलं रौद्रं स्वाती वारुणमपि चोग्रजातीनाम् ॥६४॥ चाण्डालानां भरणी सार्पं चेन्द्राग्निविष्णुदैवं च।सप्तानां जातीनामेभ्यः सदसत्फलं ज्ञेयम् ॥६५॥ उमायामले— उल्काभि-

यातेन तमोचिभूत्या वक्रातिचारेण मुतो धरित्र्याः।केतुर्गतिस्पर्शनधूमनैश्च वारेण पीडां कुरुतेऽर्कपुत्रः ॥६६॥ नारदः—या दृश्यते दीप्ततारा सा गणे योगतारका। विषवृक्षोऽश्विभोयान्ये धिष्ण्ये चाऽऽमलकस्तरुः ॥६७॥ उदुम्बरो बह्निधिष्ण्ये कभे जम्बूद्रुमोभवेत्। इन्दुयात्खदिरो जातः कलिवृक्षस्तु रुद्रभात् ॥६८॥ संभूतोऽदितिभाद्वंशः पिप्पलःपुष्यसंभवः। स्वात्यर्क्षादर्जुनो जातो द्विदैवत्याद्विकङ्कतः ॥६९॥ मित्रभाद्वकुलो जातो लक्ष्मीः पौरंदरर्क्षजा।मूलर्क्षात्सर्जवृक्षश्चवकुलो वारिधिष्ण्यजः ॥७०॥ पनसो वैश्वभाज्जातो ह्यर्कष्टक्षस्तु विष्णुभात्। वसुधिष्ण्याच्छमी जाता कदम्बो वारुणर्क्षजः ॥७१॥ अजैकपाच्चूतवृक्षोऽहिर्वुन्ध्यात्पिचुमन्दकःमधुष्टक्षःपौष्णाधिष्ण्यादिष्णवृक्षं प्रपूजयेत् ॥७२॥ अरियोनिश्चारिवृक्षः पीडनीयः प्रयत्नतः। ज्योतिष्प्रकाशे—यस्मिन्भे यच्च कर्मोक्तं कार्यं तस्योदये च तत्। वारोक्तंतस्य होरायां लग्नोक्तं तन्नावांशके ॥७३॥

इति नक्षत्रप्रकरणम्।

————————

अथ शुद्धनक्षत्रविचारः।

संहिताप्रदीपे—सर्वत्र कार्येषु हि शोभनेषु नक्षत्रशुद्धिं मृगयन्ति पूर्वम्। यत्कर्मयस्मिन्करणीयमुक्तं तत्तत्र देयं विदुषां विदित्वा ॥१॥ विद्धं व्योमचरैर्विभिन्नमपियद्वत्ताहनं गहुणा युक्तं क्रूरयुतं विमुक्तमथ यद्भोग्यंतथोपग्रहैः। दुष्टं यद्ग्रहणोपगं पशुपतेश्चण्डायुधेनाऽऽहतं चोत्पातग्रहयुद्धपीडितमयोयद्धमितं केतुना ॥२॥ पश्चात्संध्यागतं चोकत्वाऽभिहतं पापदूषितम्। यच्चैकार्गलविद्धं तत्पीडितं भं विनिर्दिशेत् ॥३॥ श्रीपतिः—कूरैर्युक्तं क्रूरगन्तव्यमृक्षं क्रूराक्रान्तं क्रूरचिद्धं च नैष्टम्। यच्चोत्पातैर्दिव्यभौमान्तरिक्षैर्दुष्टं तद्वत्कूरलत्ताहतं च ॥४॥ संहिताप्रदीपे—दोषैरमीभिर्यदुपद्रुतं तत्तावन्न दृष्टं शुभकर्मणीष्टम्।यावन्न भुक्त्वाशशिना विमुक्तं ततो भवेन्मङ्गलकर्मणीष्टम् ॥५॥ इत्थंभद्रोषेतुद्दनिंशुभागैर्विशुद्धिरेषा किल सद्भिरुक्ता।सा वर्तमाने किमुत व्यतीते न भूयसामत्रमतैक्यमस्ति ॥६॥यथैकचाण्डालधृतैकहस्तःस्नातोऽपि नूनं न विशुद्धिमेति। तथैव पापग्रहयोगदुष्टधिष्ण्यं न शस्तं शशिनाऽपि भुक्तम् ॥७॥ पृष्ट्वा गतेतु चाण्डालेशुद्धिगल्परनाद्यथा। तथा भुवन्या गतेक्रूरे चन्द्रभोगो रिद्योपनम्॥८॥ यथा शरीरं परिपीड्यन्गदःप्रयानि नाशं प्रहितैर्महौषधैः।

पापग्रहयोगदूषितं विनाशमायाति मृगाङ्कभोगतः ॥९॥ यथा विषं योगमत्राप्य भेषजैर्नृणां भवेद्भुक्तमलं सुखावहम्।तथेन्दुसंभोगमवाप्य तारकं शुभग्रहैर्युक्तमपि प्रजायते ॥१०॥ संहिताप्रदीपे—इत्थं मिथो भिन्नपतं वचोभिर्विसंवदन्ति व्यवहारदक्षाः।प्रशाम्यते येन च यश्च दोषस्तं पूर्वशास्त्रानुमतेन वक्ष्ये ॥११॥ पश्चात्संध्यासंस्थितं खेटयुद्धोत्पातैर्दुष्टं धूमितं केतुना च। उल्कापाताद्दुष्टमुल्काहतं वा भिन्नं चैषां चन्द्रभोगेण शुद्धिः ॥१२॥ सक्रूरचन्द्रयोगेण शुद्धमुत्पातदूषितम्।सूर्यभुक्तं सदा शुद्धं धिष्ण्यभोगं विना विधोः ॥१३॥ नक्षत्रमर्केण समन्वितं यत्तदंशुधातातसमुपैति पीडाम्। तेनोज्झितं स्याद्विमलं नितान्तं कृशानुतापादिव जातरूपम् ॥१४॥ राहुमुक्तं त्रिभिर्योगैःशुद्धं षड्भिर्ग्रहोपगम्। चतुर्भिः शनिभोगेन दुष्टं द्वाभ्यां कुजेन च ॥१५॥ द्वाभ्यां धरित्रीतनयेन दुष्टं त्रिभिः सराहुग्रहणोपयातम्। पद्मिश्चतुर्भिः शनिभोगदुष्टं शुद्धं भवेत्तत्तु हिमांशुभोगैः ॥१६॥ वक्री खगश्चेत्पुनरेति दग्धं तत्पूर्वमृक्षं न हि धूमितं स्यात्। तदप्यतिक्रम्य यदैति पूर्वं सक्रुरदोषेऽपि विनाऽस्ति तस्य ॥१७॥ पक्षान्तरेण ग्रहणद्वयं स्याद्यदा तदाऽऽद्यग्रहणोपभङ्गम्। पश्चाद्विरुद्धं भवति द्वितीयं ग्रहोपगं शुध्यति भोगपद्कात्॥१८॥ एकस्मिन्नपि धिष्ण्ये भिन्ने राशौ खलग्रहे शशिनि। तच्चन्द्रर्क्षे कुर्याद्विवाहयात्रादिकं सर्वम् ॥१९॥

इति नक्षत्रशुद्धिः।

अथ वेधविचारः।

लल्ल— चक्रे सप्तशलाकाख्ये वेधः सर्वसु कर्मसु। त्याज्य एव विवाहे च तथैव पश्चरेखजः ॥१॥ हैमेन लोहदण्डेन दुःखं तुल्यं हि ताडनात्। तथैव सदसद्विद्रो दोषोऽशुभस्तयोः समः ॥२॥ क्रूरविमुक्तं दग्धं क्रूरयुतं ज्वलितधूमितं पुरतः। एकशलाका सवेधमृक्षं विज्ञानीयात् ॥३॥माण्डव्यः—विद्धे दग्धेज्वलिते सधूमिते चापि चन्द्रर्क्षे। यात्राप्रवेशमङ्गलविवाहकर्माणि नेष्यन्ते ॥४॥ धिष्ण्यं सौम्यग्रहैर्विद्धं पादमात्रं परित्यजेत्। क्रूरैस्तु सकलं त्याज्यमिति बेधविनिश्चयः ॥५॥ वैद्यनाथः—वैधमाद्यं तयोरङ्घ्र्योरन्योन्यं द्वितृतीययोः। क्रुरैरपि त्यजेत्पादं केचिद्रचुर्महर्षयः ॥६॥ विवाहवृन्दावने—विश्लेषमायाति यथाऽसुभिः स्वैरेणःशरणैकदिशिक्षतोऽपि। तथाऽङ्घ्रिवेधादपि तारकाणां नरस्य नश्येद्वलसस्यसंपत् ॥७॥ संहिताप्रदीपे— तत्रैकरेखारिथतखेचरं यद्विद्धंतदाहुःखचरेण धिष्ण्यम्।केचिद्विचिन्वन्ति च पादवेधं सम-

स्तमेवाशुभमाहुरन्ये ॥८॥ यथा शरेणावयवैकदेशे विद्धे तु तन्न क्षमतामुपैति। तथैव धिष्ण्यं खचरेण विद्धं न शोभनं शोभनकर्माणि स्यात् ॥९॥ पटस्य देशेऽल्पतरेऽपि दग्धे दग्धः पटो यद्वदिति प्रसिद्धिः। तथैव पादे हि नभश्चरेण विद्धे भवेद्विद्धमशेषमृक्षम् ॥१०॥ नक्षत्रवेधे यदि पाटवेधस्तदङ्घ्रिवेधाद्घाटिकासु वेधः। नाडीव्यधे स्याद्विघटीषुचैवं भानां तदा क्वापि न चास्ति वेधः ॥११॥ छिद्येत शाखा यदि काचिदद्रेर्भवेत्तदानीं किमशेषनाशः। एवं स एवाशुभदो ग्रहेण यो विध्यतेऽन्ये चरणाःशुभाः स्युः ॥१२॥ पादेविद्धे चेदनिष्टं भवेद्भंतत्संयोगाद्राशिरेवाशुभःस्यात्।तेनाप्येवं योगतो राशिचक्रंमाङ्गल्यं तत्कर्मं कार्यं कथं स्यात् ॥१३॥ अत्रैवमृक्षं यदसद्ग्रहेण विद्धं न शस्तं सकलं तु यावत्। प्रागुवतसंख्यार्थहिमांशुभोगस्ततो विचिन्त्यः खलु पादवेधः ॥१४॥ प्रागुक्तसंख्यार्धमेतत्। भौमस्य १।शनेः २।राहोः १। केतोश्च१।यथा शरेणावयवेविभिन्ने नरोऽक्षमः सन्पटुरौषधैःस्यात्। हित्वा तथैवावयवं तथेन्दुभोगाच्छुभंचरणस्तु दुष्टः ॥१५॥ धिष्ण्ये शुभेन द्युचरेण विद्धे विद्धस्तु पादः परिवर्जनीयः। शेषं शुभं विद्धि विनेन्दुभोगं समस्तमेवाशुभकर्मं विद्धम् ॥१६॥ एकार्गलोपग्रहभैरवास्त्रैर्लत्ताहतं सदसद्ग्रहेण।तस्यापि पादंपरिहार्यं दुष्टं शेषेषु सत्कर्मं कृतं हितं स्यात् ॥१७॥ रनकोशे—विषप्रदग्धेन हतस्य पत्रिणा मृगस्य मांसं सुखदं क्षतादृते।यथा तथाऽप्राच्युडुपाद एवप्रदूषितोऽन्यन्त्रितयं शुभावहम् ॥१८॥ राजमार्तण्डः—यस्मिन्पादे ग्रहस्तिष्टेच्छुभोवा यदि वाऽशुभः। तेनाङ्घ्रिणा भपादोयो विद्धो नेप्टः परे शुभाः ॥१२॥ लल्ल— बालग्रहदृष्टिपाताद्यद्वल्लक्ष्यं भिनत्ति धानुष्कः। समपादगतश्चैवंवैधेनाङ्घ्रिप्रदूषयति ॥२०॥

इति नक्षत्रवेधः।

अथ पीडितनक्षत्रापवादः।

काश्यपः—रव्यङ्गास्यभास्करिभोगापन्नंविधुमितं शिखिना।ग्रहभिन्नं ग्रहयुद्धं सोपप्लुतमुल्कयाऽभिहतम् ॥१॥ ग्रहणगतं चैवतथा पश्चात्संध्यागतं च विद्धर्क्षम्।विविधोत्पातर्दुष्टं पीडितमृक्षंविजानीयात् ॥२॥ फलप्रदीप— तत्सूर्येन्द्वोर्भोगात्कर्मण्यत्वं प्रयाति भूयोऽपि। धिष्ण्यं कर्मंविशुद्धं तापनिकपात्सुवर्णमित्रम् ॥३॥ यध्दूमितं भं खचरेण येन तदग्रतोवा सुरराजमन्त्री।शुक्रो यदा वा यदि रोहिणेयस्तदा विशुद्धं किल धूमितं स्यात् ॥४॥ ज्योतिष्प्रकाशे— दोषैर्मुक्तं तु

नक्षत्रं कर्मयोग्यं च तद्भवेत्। भानुना शशिना वाऽपि भुक्तं सौम्यग्रहैरपि ॥५॥

इति पीडितनक्षत्रोपपादः।

अथ मुहूर्तप्रकरणम्।

भूपालः—दिवाक्षणाः स्यू रुद्राहिमिवापितृवसूदकम्। विश्वेऽभिजिद्ब्रह्मशक्रेन्द्राग्निकोणेशपाशिनः ॥१॥ अर्थमा भग इत्येते राजेरीशाजयादितः। दश मेशा रुद्रहीना हरीनात्वष्ट्टवायवः॥२॥ यस्मिन्मेयच्च कर्मोक्तं तत्तन्नाथमुहूर्तकैः।दिक्शूलद्यंचिन्तनीयं तद्वद्दण्डश्चपारिधः ॥३॥ श्रीपति—अर्यम्णोऽर्केतुहिनकिरणे राक्षसब्राह्मसंज्ञौपिवाग्नेयौक्षितिसुतदिने चन्द्रपुत्रेऽभिजिच्च। पित्र्यब्राह्म्यौभृगुसुतदिने राक्षसाप्यौच जीवे भौजङ्गेशौसपितृतनये वर्जनीयौमुहूता ॥४॥ नारद—पौराणिका रौद्रसितमैवचारभटाः क्षणाः। सा विवश्चाथवैराजो गान्धर्वश्चाष्टमोऽभिजित् ॥५॥ रौहिणो वलसंज्ञश्चविज्ञेयो नैरृतस्तथा। इन्द्रो जलेश्वरः पञ्चदशमो भगसंज्ञकः॥६॥ रुद्रगान्धर्वयक्षेशाश्चारुणीमारुतोऽनलः।रक्षो धाता तथा सौम्यःपद्मजो वाक्पतिस्तथा ॥७॥ पूषाहरिर्वायुनिर्ऋन्मुहूर्ता रात्रिसज्ञिताः। क्षणोऽत्र दिनमानस्य राजेश्चशरभू १५लवः ॥८॥ लल्लः—श्वेतो मैत्रो विराजश्चसावित्रश्चाभिजित्तथा। वलश्चविजयश्चैवमुहूर्ताःकार्यसाधकः ॥९॥ नारदः—अष्टमो योऽभिजित्संज्ञः स एव कुतुषःस्मृतः। तस्मिन्काले शुभा यात्रा विना याम्यांवुधैः स्मृता ॥१०॥ यात्रानृपाभिषेकावुद्वाहोऽन्यच्च माङ्गल्यम्। सर्वं शुभदं ज्ञेयं कृतं मुहूर्तेऽभिजित्सज्ञे॥११॥ विष्टिव्यतीपातकृतान्दोपानुत्पातखचरभवान्। मध्याह्नगतो दिनकृत्सर्वानपनीय शुभकृत्स्यात् ॥१२॥ यत्कार्यं नक्षत्रेतद्दैवत्यासु तिथिषु तत्कार्यम्।करणमुहूर्तेष्वपि तत्सिद्धिकरं देवतासदृशम् ॥१३॥ गर्गः—ईषत्सध्यामतिक्रान्तः किचिदुद्भिन्नतारकः।विजयो नाम योगोऽसौ सर्वकार्यार्थसाधकः॥१४॥

इति मुहूर्तप्रकरणम्।

अयोपग्रहप्रकरणम्।

लल्लः—विद्युत्पच्चमभेक्षितेश्च चलनस्यात्सप्तमे सूर्यभाच्छुलश्चाष्टमभेशनिश्च दशमे केतुस्तथाऽष्टादशे।दण्डः पञ्चदशे चतुर्दश इहप्रोक्तो निपातो वुधैस्तुल्याः कालविदा गणे निगदिताश्चैकोनविंशेऽर्कभात् ॥१॥ दैवज्ञ —क्रमशो मोहनिर्घातौ

भूकम्पो वज्र एव च। परिवेषश्चविज्ञेयो नक्षत्रादेकविंशते॥२॥ एतेष्विन्दुसमेतेषु कुर्यात्कर्मन शोभनम्। दहनास्त्रं विषैः साध्यं यत्तत्सिद्धिमुपैति च ॥३॥ नारदः—त्रयोदश स्युर्मिलने संख्यया तिथिवारयोः। क्रकचो नाम योगोऽयं मङ्गलेष्वपि गर्हितः ॥४॥ वसिष्ठः—भानुना सप्तमी युक्ता बुधेन प्रतिपद्युता।संवर्तकस्तदा योगो निन्दितः सर्वकर्मसु ॥५॥ श्रीपतिः—आनन्दः कालदण्डो51 धूम्राख्योऽथ प्रजापतिः सौम्यः।ध्वाङ्क्षोऽथ ध्वजनामा श्रीवज्रमुद्गरौ छत्रम् ॥६॥ मित्रं मानसनामा पद्माख्यो लुम्वकस्तथोत्पातः। मृत्युः काणःसिद्धःशुभामृतौ मुसलमथ गदाख्यश्च ॥७॥ मातङ्गराक्षसचरस्थिरप्रवृद्धा इमे योगाः। अष्टाविंशतिसंख्याः संज्ञासदृशंफलं दद्युः ॥८॥ क्रमात्स्युरेते रविवासरेऽश्विभाद्विधौ मृगाद्भूमिसुते भुजङ्गात्। हस्ताद्बुधे देवगुरौ च मैत्रतः सिताद्धि वैश्वाद्रविजाद्धि वारुणात् ॥९॥ क्रमोत्क्रमाल्लत्तयन्ति सूर्यपूर्णेन्दुपूर्वकाः। धिष्ण्यमर्काकृतित्र्यद्रिरसेष्वष्टाट्कसंमितम्52 ॥१०॥ माण्डव्यः—हस्तोत्तरात्रयं मूलं धनिष्ठारेवतीद्वयम्। पुण्यप्रति-पदष्टम्यौनवमी पुण्य च शुभा रवौ ॥११॥ भरणी भास्करे देया विशाखात्रितयं मघा। सप्तमी द्वादशी षष्ठ्येकादशी च चतुर्दशी ॥१२॥ द्वितीया नवमी पुण्यः श्रवणो रोहिणी मृगः।अनुराधा शुभा ज्ञेया दिने कुमुदिनीपतेः ॥१३॥ आषाढाद्वितयं चित्रा विशाखा न शुभा भवेत्।सप्तम्येकादशी सोमे द्वादशी च त्रयोदशी ॥१४॥ रेवती मूलमाश्लेषोत्तराभद्राऽश्विनी मृगः।त्रयोदश्यष्टमी षष्ठी तृतीयाऽभिमता कुजे ॥१५॥ वर्जयेदुत्तराषाढां धनिष्ठात्रितयं कुजे।आर्द्रां प्रतिपदं चैकादशीं च दशमीं तथा ॥१६॥ श्रवणो रोहिणी पुण्योऽनुराधामृगकृत्तिकाः। द्वितीया द्वादशी सप्तम्यपि सिद्धिप्रदाबुधे ॥१७॥ न शुभाय बुधे मूलधनिष्ठारेवतीत्रयम्। तिथयः सचतुर्दश्यः प्रतिपन्नवमी जया ॥१८॥ अदितेर्भंविशाखा च रेवतीद्वितयं करः। भाग्यमैत्रेज्यभं पूर्णैकादशी च गुरौ शुभा ॥१९॥ कृत्तिकोत्तरफाल्गुन्यो रोहिणीत्रयमष्टमी।षष्टी शतभिपग्भद्राचतुर्थी चाशुभा गुरौ ॥२०॥ पुनर्वसुश्चसावित्रं वैश्वं षोष्णद्वयं तथा। शुभा त्रयोदशी नन्दाऽनुराधाभाग्यभं भृगौ ॥२१॥ पुष्यादित्रिवित्रयं ज्येष्ठा रोहिणी शुक्रवासरे। द्वितीया सप्तमी रिक्ता तृतीया नेष्टदा सदा ॥२२॥ पूर्वाफाल्गुनिरोहिण्यौस्वाती शतभिपङ्मघा।श्रवणश्चाष्टमी रिक्ता तिथिःस्यात्सिद्धये शनौ ॥२३॥ रेवतीमुत्तराषाढामुत्तराफाल्गुनीत्रयम्। षष्टीं च सप्तमींपूर्णां मन्दवारे विवर्जयेत् ॥२४॥ ज्योतिष्प्रकाशे—शुक्रवारे तिथिर्नन्दा वुधे भद्रा कुजे जया। मन्दे रिक्ता गुरौ

श्रीशिवराजविनिर्मितो-

पूर्णा सिद्धियोगाः प्रकीर्तिताः ॥२५॥ सुधासिद्धी रवौहस्तौबुधे मैत्रं कुजेऽश्विनी। शनौब्राह्मं सिते षौष्णं गुरौ पुष्योविधौ मृगः ॥२६॥ मृत्युयोगोऽनुराधार्के वैश्वं चन्द्रे गुरौ मृगः। शुक्रे सार्पेशनौहस्तो ज्ञेऽश्विनी वारुणं कुजे ॥२७॥ मघाद्विदैवतं शैवं मूलं कार्शानवद्वयम्।हस्तश्चेत्यर्कवारादौ यमघण्टाः प्रकीर्तिताः ॥२८॥ गुरुपुष्यो विवाहे च प्रयाणे शनिरोहिणी। भौमाश्विनी प्रवेशे च गृहारम्भेन शोभना ॥२९॥ गर्गः—चतुर्थी चोत्तरायुक्ता मघायुक्ता तु पञ्चमी।तृतीययाऽनुराधा च नवम्यासह कृत्तिका ॥३०॥ अष्टम्या रोहिणी युक्ता योगो ज्वालामुखाभिधः।त्याज्योऽयं शुभकार्येषु गृह्यते त्वशुभे पुनः ॥३१॥ नारदः—आदित्यभौमयोर्नन्दा भद्रा शुक्रशशाङ्कयोः।जया सौम्येगुरो रिक्ता शनौ पूर्णेति नो शुभः ॥३२॥ एकादश्यामिन्दुवारो द्वादश्यामर्कवासरः।षष्ठ्यां वृहस्पतेर्वारस्तृतीया बुधवासरे ॥३३॥ अष्टमी शुक्रवारे तु नवमी शनिवासरे।पञ्चमी भौमवारे च दग्धयोगः प्रकीर्तितः ॥३४॥ दग्धयोगाश्च विज्ञेयाः षङ्गुयोगाभिधा अमी। विशाखादिचतुर्वर्गमर्कतारादिषु क्रमात् ॥३५॥ उत्पातमृत्युकाणाख्यसिद्धियोगाः प्रकीर्तिताः। सूर्यभात्सार्पपित्र्यर्क्षत्वष्टमित्रान्त्यभेषु च। सविष्णुभेषु क्रमशो दस्रभाच्चन्द्रसंयुते ॥३६॥ धिष्ण्ये तावतिथे ह्यत दुष्टयोगः पतत्यसौ। चण्डीशचण्डायुधाख्यस्तस्मिन्नेवाऽऽचरेच्छुभम् ॥३७॥

इत्युपग्रहप्रकरणम्।

अथोपग्रहदोपापवादः।

गर्गः—यावदंशस्थिते सूर्ये तावदंशे निशाकरे।वर्जयेत्सूर्यजोदोषःशेषंकर्मशुभं भवेत् ॥१॥ पूर्वाह्नेदण्डदोषः स्यादपराह्णेतु मोघकः।उल्का स्यादर्धरात्रे तु कम्पोऽहारात्रदूषकः ॥२॥ कम्पोल्कादण्डमोघानां स्वरमासदशर्तवः ॥७।१२।१०।६ ॥ आदितो घटिकास्तेषु व्यपनीयाः पराः शुभाः ॥३॥ उपग्रहेषु लत्तायां तथा चण्डायुवादिषु।ग्रहोऽस्ति यत्प्रमाणांशे विद्धोंऽशस्तत्प्रमाणकः ॥४॥ वसिष्ठः—चण्डीशचण्डायुघपादवेधः खार्जूरचक्रे समपाददोषः। शुभोऽथ यात्रादिषु सूर्यचन्द्रौ वलान्वितौ वा शुभवीक्षितौ या ॥५॥ राजमार्तण्डे—ध्वाङ्क्षेन्द्रादिषु मुद्गरेषु घटिकास्त्याज्यास्तु पञ्चाऽऽदिमाः पद्मीलुम्बक-योश्चतस्र उदिता धूम्रे सदैका पुनः ॥६॥ गर्गः—उत्पाते यमघण्टे च काणे च क्रकचे शुभे। तिथौदग्धे च पापेच प्राग्यामात्परतःशुभम् ॥७॥ रनकोशे—वारर्क्षतिथि-

योगैस्तु यात्रामेव न कारयेत्। विवाहादीनि कुर्वीत गर्गादीनामिदं वचः ॥८॥ नारदः—तिथिवारोद्भवा नेष्टा योगा वारर्क्षसंभवाः। हूणवङ्गखशेभ्योऽन्यदेशेष्वतशुभप्रदाः ॥९॥ शौनकः—खशेषु हूणेषु च रिष्टयोगाः षट्काष्टकाद्या न विचिन्तनीयाः। वारर्क्षयोगास्तिथिवारजाता वङ्गेतु योज्या न तु चान्यदेशे ॥१०॥ सौराष्ट्रशाल्वेषु च लत्तितं भं कलिङ्गवङ्गादिषुपातितं च। उपग्रहाख्यं कुरुवाह्लिकेषु त्यजेत्तु सर्वत्र सवेधमृक्षम् ॥११॥ गर्गः—यमघण्टे त्यजेदष्टौमृत्यौ द्वादश नाडिकाः। अन्येषु दुष्टयोगेषु मध्याह्नात्परतः शुभम् ॥१२॥क्रकचामृत्युयोगाश्चदग्घाद्याश्चतथा परे। चन्द्रे शुभे प्रणश्यन्ति वृक्षा वज्रहता इव ॥१३॥

इत्युपग्रहापवादः।

अथ चन्द्रतारावलप्रकरणम्।

नारदः—शुक्लपक्षाद्यदिवसे चन्द्रो यस्य शुभप्रदः। स पक्षस्तस्य शुभदःकृष्णपक्षेऽन्यथा शुभः ॥१॥ ज्योतिष्प्रकाशे—कृष्णाष्टम्यूर्ध्वतो ग्रात्द्यंदशाहंतारकावलम्।परतोऽब्जवलं ग्राह्यं सर्वमङ्गलकर्मसु ॥२॥ बुद्धिवेदाङ्गनामाङ्गमितास्ताराः शुभप्रदाः। शेषा निन्द्याऽथ53 पक्षादौशस्ता54शस्ते विधौशुभम् ॥३॥ कश्यपः—जन्मसंपद्विपत्क्षेमपापा तारा सुसाधिका। कष्टा मैत्राऽतिमैत्रा च संज्ञातुल्यफलप्रदा॥४॥ ज्योतिष्प्रकाशे—गणयेज्जन्मभाच्चन्द्रं जन्मधिष्ण्याच्च तारकम्। जन्मराशेः शशाङ्काद्रागणयेद्वेधकं ग्रहम् ॥५॥ तारावलेन हीनोऽपि चन्द्रः शुक्लेबली शुभः।शुभं तारावलं कृष्णे यदि चन्द्रोऽप्यनिष्टदः ॥६॥ पक्षे सिते चन्द्रचलं प्रधानं तारावलं तत्र न चिन्तनीयम्। सुस्थे गृहस्थेसवले च पत्यौ प्रधानता नास्ति यतोऽङ्गनानाम् ॥७॥ न कृष्णपक्षे शशिनः प्रभावस्तारावलं तत्र भवेत्प्रवानम्।देशान्तरस्थे विकले च पत्यौस्त्री सर्वकार्याणि न किं करोति ॥८॥ अत्रापि तारापतिवीर्यमेव वदन्ति पक्षद्वितयेऽन्तिमे तत्।केचिच्च ताराबलयुक्तमिन्दोर्वलं सदाऽऽदेयमिति व्रुवन्ति ॥९॥ कृष्णेऽपि पक्षे विधुवीर्यमेव भवेत्प्रधानं न तु तारकायाः।दुःस्थः कृशो वा पतिरेव यद्वत्सर्वाणि कार्याणि विधापयीत ॥१०॥ विहाय तारावलमोषधीशः पक्षद्वयेऽपीष्टफलं न यच्छेत्। अप्राप्य जायानुमतं हि लोके न कार्यसिद्धौपुरुषः समर्थः ॥११॥ वसिष्ठमाण्डव्यमतादिहेत्थं वलावलं तारकशीतभान्वोः। विचारितं सम्यगमी तदर्थाः श्लोकास्तदीयाः सुरसंहितायाम् ॥१२॥ तिथयः पञ्च शुक्लाद्यश्चन्द्र-

स्तारायुतो वली। तनुत्वाद्वर्तमानोऽपिप्रौढस्त्रीको यथा पतिः ॥१३॥ परतश्चन्द्रमा एवयावत्कृष्णाष्टमीदुलम्। प्रौढत्वात्पुरुषो यद्वत्स्वतन्त्रः स्याद्विना स्त्रियम् ॥१४॥ कृष्णाष्टम्यूर्ध्वतो यावद्दिनं पैत्रं निशाकरः। क्षीणत्याद्दुर्बलत्वेन प्रधानं तारकावलम् ॥१५॥ विकलाङ्गे यथा पत्यौकार्येषु प्रभवः स्त्रियः। एवं चन्द्रे च विकले तारा बलवती भवेत् ॥१६॥ गर्गः–जन्माद्यं दशमं कर्मसंघातं षोडशं स्मृतम्। अष्टादशं सामुदायं त्रयोविंशं विनाशकम् ॥१७॥ मानसं पञ्चविंशाख्यं षड्भानीति नृणां जगुः। नव भानि नृपाणां तु देशजात्यभिषेकजैः ॥१८॥ अभिषेकेऽभिषेकर्क्षंदेशभं जन्मभागतः। जातिभं जातिनक्षत्रं पापैर्युक्तं न शोभनम् ॥१९॥ वराहः—निरुपद्रुतभो निरामयः सुखभाङ्नष्टरिपुर्धनान्वितः। षडुपद्रुतभो विनश्यति त्रिभिरन्यैश्च सहावनीश्वरः ॥२०॥ केत्वर्काकिंयुतं भौमवक्रभेदेन दूषितम्। हतमुल्कोपरागाभ्यां स्वभावान्यत्वमागतम् ॥२१॥ पीडिते जन्मभे मृत्युः कर्मनाशश्च कर्मणि।संघाते बन्धुपीडा स्यात्सामुदाये सुखक्षयः ॥२२॥ वैनाशिके देहनाशो मनस्तापस्तु मानसे।कुलदेशश्रियां नाशो जातिदेशाभिषेकभे ॥२३॥ च्यवनः—यस्य जन्मर्क्षमासाद्य रविसंक्रमणं भवेत्। तन्मासाभ्यन्तरे तस्य वैरक्लेशघनक्षयाः ॥२४॥ शाकल्यः—जन्मर्क्षयुक्ता यदि जन्ममासे यस्य ध्रुवं जन्मतिथिर्भवेच्च।भवन्ति तद्वत्सरमेव यावन्नैरुज्यसन्मानसुखानि तस्य ॥२५॥ वृद्धगर्गः—कृतान्तवक्रयोर्वारे यस्य जन्मदिनं भवेत्। ऋक्षयोगेण संजातं विघ्नं तस्य पदे पदे ॥२६॥ जन्मधिष्ण्ये यदि स्यातां वारौभौमशनैश्वरौ। मासः स कल्मषो नाम मनोदुःखप्रदायकः ॥२७॥ नारदः—चन्द्रस्य द्वादशावस्था राशौ राशौ यथा क्रमात्। यात्रोद्वाहादिर्कोयषुसंज्ञातुल्यफलप्रदाः ॥२८॥ षष्टिघ्नंचन्द्रनक्षत्रं तत्कालघटिकान्वितम्। वेदघ्नमिषुवेदाप्तमवस्था भानुभाजिताः ॥२९॥ एतच्च षष्टिघटिकाभिप्रायेणोक्तम्। श्रीपतिः—प्रवासनष्टाख्यमृताजयाख्याहास्यारतिक्रीडितसुप्तभुक्ताः। ज्वराह्वयाकम्पितसुस्थिरे च द्विषट्कसंख्या हिमगोरवस्थाः ॥३०॥ लल्लः—जन्माधानप्रत्यरिनैधननक्षत्रयुक्तदिवसेषु। प्रवसेन्मनुजो मोहात्प्राणात्ययमाप्नुयान्नियतम् ॥३१॥

इति चन्द्रतारावलप्रकरणम्।

अथ दुष्टतारापवादः।

ज्योतिःसागरे—शशिनि परिस्फुटकिरणे स्वतुङ्गभवने स्वकीयवर्गे वा। क्षौरादिकेऽपि कार्ये तारादोषो न दोषाय ॥१॥ शुभदः स्वशुभोच्चगृहे भवति

यदीन्दुः कलावशेषोऽपि। ताराऽप्यशुभा शुभदा भवति तदानीं न संदेहः ॥२॥ राजमार्तण्डे—सौम्यसुहृन्निजभवने चन्द्रे तुङ्गे त्रिकोणसंस्थे च। अणुतामपि संप्राप्ते तारादौष्ट्यंन दोषाय ॥३॥ च्यवनः—तगरुसरोरुहपत्रैः रजनीसिद्धार्थलोध्रसंयुक्तैः। स्नानं जन्मर्क्षगते रविसंक्रान्तौ नृणां शुभदम् ॥४॥ अस्यार्थः—यस्य वै जन्मनक्षत्रं भौमादियुक्तं भवति। तस्य सर्वौपधिस्नानं गुरुविप्रसुरार्चनम्।सौरारयोर्दिने मुक्ता देया धिष्ण्ये तु काञ्चनम् ॥५॥ वाग्भटः—सुरामांसी वचा कुष्ठं शैलेयं रजनीद्वयम्।सटा चम्पकमुस्तं च सर्वौषधिगणः स्मृतः ॥६॥ गर्गः—विपदि प्रत्यरे चैव नैधने च यथाक्रमम्। प्रथमान्त्यतृतीयाः स्युर्वर्जनीयाः प्रयत्नतः ॥७॥ विपत्तारे गुडं दद्याच्छाकं देघात्रिजन्मसु। प्रत्यरे लवणं दद्यान्नैधने तिलकाञ्चने ॥८॥

इतिदुष्टतारापवादः।

अथ गोचरप्रकरणम्।

भूपालः—फलं55न गोचरं दत्ते शुभोऽपि ग्रहवेधतः। ग्रहवेधविधानं तद्यवनोक्तं प्रकाश्यते ॥१॥ ज्योतिष्प्रकाशे—गणयेज्जन्मभाच्चन्द्रं जन्मधिष्ण्याच्च तारकम्।जन्मराशेः शशाङ्काद्वा गणयेद्वेधकं ग्रहम् ॥२॥ कश्यपः—हिमाद्रिविन्ध्ययोर्मध्ये वेधजंतद्ग्रहालयात् ॥३॥ वैद्यनाथः—जन्मभाद्रणयेच्चन्द्रं जन्मभाद्वेधकं ग्रहम्। स तु बेधक्रमो56 युक्तः कथितः शौनकादिभिः ॥४॥ चन्द्रमित्युपलक्षणम्। नारदः—शुभोऽर्को जन्मतस्त्रयायदशपद्सु न विध्यते। जन्मतो नवपञ्चाम्बुव्ययगैर्व्यार्किभिर्ग्रहैः57॥५॥ विध्यते जन्मतो नेन्दुर्द्यूनाद्यायर्तुदिक्त्रिषु स्वैष्वष्टान्त्याम्बुधर्मस्थेर्विबुधैर्जन्मतः शुभः ॥६॥ त्र्यायारिपु58 कुजः श्रेष्ठो जन्मराशेर्न विध्यते। अन्त्येष्वङ्कग्रहैःसौरिरोपि सूर्येण संमतः ॥७॥ ज्ञः खाब्ध्यर्यष्टखायेषु जन्मतश्चेन्न विध्यते। धीत्र्यङ्काष्टान्त्यखेटैर्हि जन्मतो वीक्षितः शुभः ॥८॥ जन्मतः स्वायगोऽध्यस्तेष्वन्त्याष्टखलजत्रिगैः। जन्मराशेर्गुरुः श्रेष्ठो ग्रहैर्यदि न विध्यते ॥९॥ जन्मभादासुताष्टाङ्कान्त्यायेविष्टो न विध्यते। जन्मभान्मृत्युसप्ताद्यखाङ्केष्वायरिपुत्रिगैः ॥१०॥ शार्ङ्गघरः— राहुकेतुफलं सर्वंमन्दवत्कथितं बुधैः। विवलोऽर्कयुतो मन्दश्चन्द्रयुक्तो वुधस्तथा ॥११॥ भूपालः—यादृशेन ग्रहेणेन्दुर्युता सोऽपि तथाविधः। यतो वृत्तिसमायोगाद्विकारोवदनस्य तु ॥१२॥ नारदः—न ददाति

शुभं किंचिद्गोचरे वेधसंयुतः। तस्माद्वेधं विचार्याथकथ्यते तच्छुमाशुभम् ॥ १३ ॥ वामवेधविधानेन शोभनस्त्वशुभोऽपि च। अतस्तान्द्विविधान्येधान्विचार्याथ वदेद्बलम्॥ १४ ॥ अज्ञात्वा द्विविधान्वेधान् यो ग्रहज्ञोवेलं वदेत्। स मृषावचनाभाषी हास्यं याति नरैः सदा ॥१५ ॥सौम्येक्षितोऽनिष्टफलः शुभदः पापवीक्षितः। निष्फलौ तौ ग्रहौस्वैन शत्रुणा च विलोकितौ ॥१६ ॥नीचराशिगतः स्वस्य शत्रोः क्षेत्रगतोपि वा। शुभाशुभफलंनैव दद्यादस्तं गतोऽपि वा ॥ १७ ॥दैवज्ञवल्लभेक्षौणीपालविलोकने दिनकरो धात्रीसुतः सङ्गरे यात्रायां भृगुनन्दनोऽतिबलवाञ्छस्त्रावबोधे बुधः। गीर्वाणेशगुरुर्विवाहसमये दीक्षाविधौ भास्करिः प्रारन्भेऽखिलकर्मणां निगदितः सद्भिर्निशानायकः ॥१८ ॥श्रीपतिः-विवाहचर्यां मृगयां च साहसं सुदूरयानं गजवाजिवाहनम्।गृहे परेषां गमनं च वर्जयेद्ग्रहेषु राजा विषमस्थितेषु ॥ १९ ॥आर्ष्टिषेणिः-नाऽऽत्मक्षेत्रं पीडयन्ति विपमस्था अपि ग्रहाः। तद्बुद्धर्मरतं वालमात्मज्ञं सत्यवादिनम् ॥ २० ॥ बादरायणः-गोचरे वा बिलग्ने वा ये ग्रहा नेष्टसूचकाः। पूजयेतान्प्रयत्नेन पूजिताः स्युः शुभमदाः ॥ २१ ॥ ज्योतिष्प्रकाशे सत्तारया शशी शस्तो ग्लौवीर्यादर्कसंक्रमः।भौमादयोऽर्कवीर्येण दृष्टाअपि शुभमदाः ॥ २२ ॥ ग्रहणे ग्रहसंक्रान्तौ वर्षादावुत्सवेऽयने। यादृग्विधो विधुः पुंसां तादृन्विधफलं भवेत् ॥ २३ ॥ प्रवेशकाले भौमाकौं शुक्रेज्यौ राशिमध्यगौ। निर्गच्छतो शनीन्दू च सर्वदा फलदो बुधः ॥ २४ ॥ ऋक्षसन्धिगता ये च राशिसन्धिगता ग्रहाः। दद्युस्ते फलमेष्यस्य गतस्य तु विलोमगाः ॥ २५ ॥ ज्योतिःसागरे-भानुर्ददाति गन्तव्यराशेः पञ्चदिनं फलम्।चन्द्रो नाडीत्रयं भौमो दिनान्यष्टौ बुधो द्व्यहम् ॥ २६ ॥ सार्धमासं गुरुः शुक्रश्चतुर्दिनमथार्कजः।मासपट्कं फलं राहुः केतुर्मासत्रयं तथा ॥ २७ ॥ रनकोशेः-पक्ष दशाहं च तथा त्रिपक्षं मासत्रिभागं खलु मासपट्कम्। भौमादिखेटारत्वतिचारवक्रादद्युःफलं पूर्वगृहे यदुक्तम् ॥ २८ ॥ त्रयोदशार्किः क्षितिजश्च सप्तद्व्यहंबुधः पञ्च दिनानि शुक्रः। वक्री गुरुः पूर्वफलप्रदः स्यादेकादशाहाने गुरुर्वराहः ॥ २९ ॥ मासं शनीज्यौ कुजभार्गवौ तु पक्षं दशाहानि च सोमसूनः। ददाति वक्री फलमाद्याराशेः केषांचिदेवं न मतं वद्दूनाम् ॥ ३० ॥ विलोमगत्या यदि वाऽतिगत्या प्रयाति यो राशिमतीत्यमेप्यम्। हित्वा तदीयं गगनेचरोऽसौ दद्यात्फलं पूर्वगृहे यदुक्तम् ॥ ३१ ॥ यावन्ति यो वक्रगतिर्दिनानि भवेत्स वक्रेयदि षाऽतिचारे।दशांशतुल्यानि फलानि तेषां दद्यात्फलं पूर्वगृहे यदुक्तम् ॥३२ ॥वक्रातिचारेण गृहान्तरेऽपिस्थितो ग्रहः पूर्वफलप्रदः स्यात्। देशा-

न्तरं कार्यवशाद्गतोऽपि तद्देशधर्मं न जहाति मर्त्यः ॥ ३३ ॥ यदा ग्रहोऽयंसमुपैति राशिं तदा तदीयं स फलं ददाति। पीतादिवर्णेन समन्वितोऽपिवर्णःसितस्तन्मयतामुपैति ॥ ३४ ॥ यथा प्रदेशेषु शुभाशुभेषु गच्छञ्जलौघःसदसत्त्वमेति। स्थानप्रभावाद्द्युचरस्तथैव शुभाशुभं राशिफलं ददाति ॥ ३५॥ शुभाशुभस्थानभवं ग्रहाणां शुभाशुभत्वं न निसर्गसिद्धम्।स्थितिं यदा यत्रगुणे करोति भजेत्तदा तत्प्रकृतिं हि मर्त्यः ॥ ३६ ॥ इत्यादिसामान्यवचोभिरेर्तेर्न निश्चयः स्यादितरेतरघ्नैः फलाप्तिराद्यादुत वर्तमानादिति भ्रमोऽपेतविरोधिवाक्यात् ॥ ३७ ॥निश्चयवाक्यम्—यस्मिन्गृहे स्थितो दीपस्तत्र द्योतं करोतिवै। एवं ग्रहोऽपि यत्र स्यात्तत्रैव फलदः स्मृतः ॥ ३८ ॥ गर्गः- चारातिचारवक्रेण यो यत्रावस्थितो ग्रहः। स तद्राशिफलं दद्याद्गोचरे बलसाधने ॥ ३९ ॥वसिष्ठः-ग्रहा राज्यं प्रयच्छन्ति ग्रहा राज्यं हरन्ति च। ग्रहैस्तुव्याप्तं सकलंत्रैलोक्यं सचराचरम् ॥ ४० ॥ ज्योतिष्प्रकाशे—सर्वे लाभगताः श्रेष्ठा गोचरे लाभदा मताः।आयुःप्रदा विलग्नाञ्चजातके कारकास्तथा ॥ ४१ ॥गर्गः—द्वादशाष्टमजन्मस्थः शनिरङ्गारको गुरुः।कुर्वन्ति प्राणसंदेहंदेशत्यागं धनक्षयम् ॥ ४२ ॥

अथ पृथक्फलानि।

लल्लः—स्थानं जन्मनि नाशयेद्दिनकरः कुर्याद्द्वितीयेभयं दुश्चिक्येश्रियमातनोति हिवुके मानक्षयं गच्छति।दैन्यं पञ्चमगः करोति रिपुहाषष्ठोऽध्वदः सप्तमः पीडामष्टमगः करोति वपुषः पुण्यक्षयं धर्मगः ॥ १ ॥ कर्मसिद्धिजनकस्तु कर्मगो वित्तलाभकृदथायसंस्थिताः। द्रव्यनाशजनितां महापदं यच्छतिव्ययगतो दिवाकरः ॥ २ ॥ जन्मन्यन्नं दिशति हिमगुर्वित्तनाशं द्वितीये दद्याद्द्रव्यं सहजभवने कुक्षिरोगं चतुर्थे। कार्यभ्रंशेतनयगृहगो वित्तलाभे च षष्ठे द्यूनेद्रव्यं युवतिसहितं मृत्यु संस्थोऽपमृत्युम् ॥ ३ ॥ नृपभयं कुरुते नवमःशशी दशमधामगतस्तु महत्सुखम्। विविधमायगतः कुरुते धनं व्ययगतस्तु रुजं च धनक्षयम् ॥ ४ ॥ ज्योतिष्प्रकाशे—शुक्लपक्षे द्वितीयस्तु चन्द्रो वित्तसुखप्रदः।पञ्चमो वरवस्त्राप्तिं कुर्याद्भोगं च पुण्यगः ॥ ५ ॥ श्रीपतिः—करोति जन्मन्यरिजं भयं कुजो धनेऽर्थनाशं सहजे धनं ध्रुवम्। सुखेऽरिभीतिं तनयेऽर्थसंक्षयं रिपौ स्वलब्धिं धनविप्लवं स्मरे ॥ ६ ॥ भयं महच्छत्रुकृतं गृहेऽष्टमेशरीरपीडां नवमे पदे शुचम् \। अनेकशोलाभगृहे धनागमं व्यये धराजः कुरुतेधनक्षयम् ॥ ७ ॥ वन्धं वुधो दिशति जन्मगतोऽर्थगोऽर्थं दुश्चिक्यगो रिपुभयंजलगो घनाप्तिम्।धीस्थो वपुर्विलयतां स्थितिदो रिपुस्थः पीडां परां कुसुमका-

र्मुकधामसंस्थः ॥ ८ ॥ अष्टमे शशिसुते धनलब्धिर्धर्मगेच मद्दती तनुपीडा।कर्मगे सुखमुपान्त्यगतेऽर्थो द्वादशे भवति वित्तविनाशः ॥ ९ ॥ गुरुर्भयं जन्मगृहेददाति धने धनं क्लेशभयं तृतीये। सुखेऽर्थनाशं तनये सुखानि रिपौ शुचं भूपतिमानमस्ते॥ १० ॥ जीवोऽष्टमे मृत्युसमानरोगं सुखानि धर्मे दशमेऽतिदैन्यम्। धनाम्बरस्थानकलब्धिमाये तनोश्च पीडां वितनोति रिप्फे ॥ ११ ॥जन्मन्यरिक्षयकरो भृगुजोऽर्थदः स्वे दुःश्चिक्यगः सुखकरो धनदश्चतुर्थः। सत्पुत्रदस्तनय-गोऽरिगतोऽरिवृद्धिं शोकप्रदो मदनगो निधनेऽर्थदाता ॥ १२ ॥जनयति विविधाम्बराणि धर्मे न शुभकरो दशमस्थितस्तु शुक्रः। धननिचयकरः स लाभसंस्थो व्ययभवनेऽपि धनागमं करोति ॥ १३॥ सर्वभ्रंशं विधत्ते दिनकरतनयो जन्मराशिं प्रपन्नो वित्तक्लेशं द्वितीये धनहरणकृतं वित्तलाभंतृतीये।पाताले शत्रुवृद्धिं सुतभवनगतः पुत्रभृत्यार्थनाशं षष्ठस्थानेऽर्थलाभंजनयति मदने दोषसंघातमार्किः ॥१४ ॥शरीरपीडां निधने च धर्मे धनक्षयंकर्मणि दौर्मनस्यम्। उपान्त्यगो वित्तमनर्थमन्त्ये शनिर्ददातीत्यवदद्वसिष्ठः॥ १५ ॥ ज्योतिष्प्रकाशे—हानिं नैस्व्यं धनं रोगेशोकं वित्तं कलिं व्यसुम्।पापं वैरं सुखं हानिं राहुः कुर्यात्स्वजन्मभात् ॥ १६ ॥ रोगं वैरं सुखं भीतिंशुचं वित्तं गतिं पदम्।पापं शोकं यशो वैरं जन्मभात्कुरुते शिखी ॥ १७ ॥

इति गोचरप्रकरणम्।

_____

अथ गोचरापवादः।

माण्डव्यः—गोचरपीडायामपि राशिर्वलिभिः शुभग्रहैर्दृष्टः। पीडां न करोतितदा क्रूरैरेवं विपर्यासः ॥ १ ॥ मार्तण्डः–यादृशेन शशाङ्केनग्रहः संचरतेनृणाम्। तादृशं फलमाप्नोति शुभं वा यदि वाऽशुभम् ॥ २ ॥ ज्योतिष्प्रकाशे—यथोक्तमोपधिस्थानं ग्रहविप्रार्चनं तथा। ग्रहानुद्दिश्य होमो वा त्रिधा शान्ति–र्वुधैः स्मृता ॥ ३ ॥ श्रीपतिः–देवब्राह्मणवन्दनाद्गुरुवचःसंपादनात्प्रत्यहं साधूनामपि भाषणाच्छ्रुतिरवश्रेयःकथाकर्णनात्। होमादध्वरदर्शनाच्छुचि-मनोभावाज्जपाद्दानतो नो कुर्वन्ति कदाचिदेव पुरुषस्यैवं ग्रहाः पीडनम् ॥ ४ ॥ मनःशिलैलासुरदारुकुङ्कुमैरु-शीरयष्टीमधुपद्मकान्बितैः। सताम्रपुष्पैर्विषमस्थिते रवौशुभप्रदं स्नानमुदाहृतं बुधैः ॥ ५ ॥ पञ्चगव्यगजदानविमिश्रैः शङ्खशुक्तिकुमुदस्फटिकैश्च।शीतरश्मिकृतवैकृतहन्तृ स्नानमेतदुढितं नृपतीनाम् ॥ ६ ॥ बिल्वचन्दनबलारुणपुष्पैर्हिङ्गु लूकफलिनीवकुलैश्च।स्नानमद्भिरिह मांसियुताभिर्भौ–

मदोपविनिवारणमाहुः ॥ ७ ॥ गोमयाक्षतफलैः सरोचनैः क्षौद्रशुक्तिभवमूलहेमभिः। स्नानमुक्तमिदमत्र भूभुजां बोधनाशुभविनाशनं बुधैः॥ ८ ॥ मिश्रवन्धुमधुकेन च स्फुटं वैकृतं गुरुकृतं निकृन्तति ॥ ९ ॥ एलया च शिलया समन्वितैर्वारिभिः सफलमूलकुङ्कुमैः। स्नानतो भृगुसुतोपपादितं दुःखमेतिविलयं न संशयः ॥ १० ॥ असिततिलाञ्जनलोध्रवलाभिः शतकुसुमाधनलाजयुताभिः।रवितनये कथितं विषमस्थे दुरितहदाप्लवनं मुनिमुख्यैः ॥ ११ ॥दर्भगर्भतिलपत्रकमुस्ताहस्तिदानमृगनाभिपयोभिः। स्नानमार्तिमिह कृन्तति राहोःसाजमूत्रमिदमेव च केतोः ॥ १२ ॥ सप्रियङ्गुरजनीद्वयमांसीकुष्ठलाजसितसर्षपखण्डैः।वारिभिः सहवचैः सह लोध्रैःस्नानमत्ति निखिलग्रहपीडाः ॥ १३ ॥धार्यंत्तुष्टयैः विद्रुमं भौमभान्वो रौप्यं शुक्रेन्द्वोश्चहेमेन्दुजस्य।मुक्ता सूरेर्लोहमर्कात्मजस्य लाजावर्तः शेषयोः कीर्तितश्च ॥ १४ ॥ भूपालः–माणिक्यमर्के मुक्ताऽब्जे प्रवालं भूमिजे हितम्। बुधे गारुत्मतं जीवे पुष्परागं भृगौ पविम् ॥ १५ ॥शनौ नीलं सैहिकेये गोमेदं धारंयेद्बुधः।केतौवैडूर्यममलं विषमे तुष्टिकारकम् ॥ १६ ॥ श्रीपतिः–सदौपधैर्याति गदो विनाशं यथा यथा दुष्टबलानि मन्त्रैः।तथोदितस्नानविधानतोऽपि ग्रहाशुभं नाशमुपैत्यवश्यम् ॥ १७ ॥ अनपत्या चया नारी दुर्भगा वाऽपिया भवेत्। स्नानैरेभिर्यदा स्नाता सौभाग्यारोग्यभागिनी ॥ १८ ॥ ज्योतिष्प्रकाशे—धेनुः शङ्खो वृषःस्वर्णं वस्त्रमश्वश्च गौरयः। छागो वै दक्षिणा प्रोक्ता सर्वेभ्योऽन्नं च हेम वा ॥ १९ ॥ गुडान्नं क्षीरिकासारो दुग्धान्नंदधिभक्तकम्।घृतान्नं कृशरं मापं चित्रान्नं सूर्यतः क्रमात् ॥ २०॥ लल्लः–न भवति शरीरपीडा यस्य विना शान्तिभिर्भयं पीडा।तस्य शरीरविपत्तिं पाकान्ते देवलः प्राह ॥ २१ ॥ गर्गः—स्नानमङ्गलहोमैश्चघोरमध्येतिमार्दवम्।नैवमापच्यते59 दैवं निहतं शान्तिकर्मभिः ॥ २२ ॥ लल्लः–जन्मर्क्षादिकपीडायां दिनमेकमुपोपितोऽनलं जुहुयात्।सावित्र्या क्षीरतरोःसमिद्भिरमरद्विजानुरतः ॥ २३ ॥

अथ ग्रहदानानि।

कौसुम्भवस्त्रंगुडहेमताम्रं माणिक्यगोधूममसूरिकाब्जम्। सवत्सगोदानमिति प्रणीतं दुष्टाय सूर्याय वदन्ति दानम् ॥ २४ ॥ घृतकलशं सितवस्त्रं युगस्थवृषभं सुवर्णं च। रजतं च संप्रदद्याञ्चन्द्रारिष्टस्य प्रशमाय ॥ २५ ॥ आरक्तवस्त्रंगुडहेमदानं प्रवालगोधूममसूरिकाश्च। वृषः सुताम्रः करवीरपुष्पं दुष्टाय भौमायवदन्ति दानम् \।\। २६ \।\। नीलं वस्त्रंमुद्गदानं बुधाय रत्नं पाचिर्दासिका हेम

सर्पिः।कास्यंदन्तः कुञ्जरस्याथ मेषोरौप्यं सर्वंपुष्पजात्यादिकं च ॥ २७ ॥अश्वः सुवर्णं शुभपीतवस्त्रंसपीतधान्यं लवणं सुपुष्पम्।सशर्करंतद्रजनीप्रयुक्तंदुष्टाय शान्त्यै गुरवे प्रणीतम् ॥ २८ ॥ चित्रवस्त्रमपि दानवार्चिते दुष्टगे मुनिवरैः परिणीतम्।तण्डुला घृतसुवर्णरूप्यकं वज्रक परिमला शबला गौः ॥ २९ ॥ नीलकं महिषी वस्त्रं कृष्णं लोहं सदक्षिणम्। तैलमापकुलित्याश्चशनेर्दौष्ट्यप्रशान्तये ॥ ३० ॥ राहोर्दानं बुधैर्मेषो गोमेदो लोहकन्बलौ। सौवर्णं नागरूपंच सतिलं ताम्रभाजनम् ॥ ३१ ॥ केतौवैडूर्यकं शस्त्रं तैलं मृगमदं तथा।ऊर्णां तिलैश्चसंयुक्तां दद्यात्क्लेशापनुत्तये ॥ ३२ ॥ नवग्रहहोमस्तु स्वशाखोक्तो ग्राह्यः।

इति गोचरापवादः।

_____

अथानिष्टचन्द्रापवादः।

गर्गः—अनिष्टस्थानसंस्थोऽपि गोचरे शुभदः शशी।सौम्यर्क्षगोऽधिमित्रेणगुरुणा च विलोकितः ॥ १ ॥ वैद्यनाथः—निषिद्धस्थानसंस्थोऽपि शुभमित्रगृहांशके।स्थितोऽधिमित्रसंदृष्टश्चन्द्रमाःशुभदः स्मृतः ॥२ ॥ज्योतिःसागरे—अनिष्टस्थानगोऽपीन्दुर्लग्नाद्राशेश्च शोभनः।भवेत्सौम्यांशगः स्वामिमित्रेण बलिनेक्षितः ॥ ३ ॥ स्वोञ्चऽथवा स्वभवने स्फुटरश्मिजालःसौन्यालये हितगृहेशुभवर्गयोगे।जामित्रवेधयुतिपूर्वकदोषराशिं हित्वा ददाति बहुशः सुखमेवचन्द्रः ॥ ४ ॥ प्राप्तोदयः प्राप्तबलैश्चसौम्यैर्विलोकितो वा शुभराशिसंस्थः।निहन्त्यनिष्टं सकलं स्वकीयं फलं विधत्ते शुभमेव चन्द्रः ॥ ५ ॥ ज्योतिष्प्रकाशे—यात्रादावशुभे चन्द्रे यदि पक्षबलं भवेत्। तदा फलं शुभं कुर्यात्तथालग्नाच्छुभेक्षितः ॥ ६ ॥ वैद्यनाथः—ऋक्षं दग्धं तिथिं रिक्तां चन्द्रमष्टमगं तथा।तत्सर्वं नाशयेत्तारा षट्चतुर्नवमी ध्रुवम् ॥ ७॥ वसिष्ठः–उशीरं च शिरीषंच चन्दनंपद्मकं तथा। शङ्खे न्यस्तमिदं स्नानं चन्द्रदोषनिवारणम् ॥ ८ ॥ दानखण्डे—शुक्लाक्षतैः पूरयित्वा पात्रं वेणुमयं शुभम्। तस्योपरि पयःपूर्ण कांस्यपात्रंसमौक्तिकम् ॥९॥ सरौप्यं शुक्लगन्धाद्यैर्वस्त्रयुग्मेण संयुतम्। दद्याज्ज्योतिर्विदेतच्चचन्द्रारिष्टप्रशान्तये ॥ १० ॥ गदिता दक्षिणा तत्र शङ्खो मौक्तिकगर्भितः।घृतदीपश्चतुर्वत्तिःकुम्भो वा पयसाऽन्वितः ॥ ११ ॥ घृतकुम्भः सितं वस्त्रंसितोवा वृषभस्ततः। सुवर्णं रजतं वाऽपि चन्द्रारिष्टमशान्तये ॥ १२ ॥

इत्यनिष्टचन्द्रापवादः।

_____

अथ सौम्यक्रूरादिविचारः।

होरामकरन्दे—क्रूरग्रहाःकुजदिवाकरसूर्यसूनुक्षीणेन्दवः शशिसुतः सहितस्तु तैःस्यात्। पूर्णेन्दुजीवभृगुजाः शुभसंज्ञिताः स्युस्तैः संयुतस्तुहिनरश्मिसुतोऽपिसौम्यः ॥१॥सप्तवर्गे स्थितो यस्य तस्य स्यात्केवलः समः। मिश्रवर्गाश्रितश्चान्द्रिराधि-वयफलदो मतः ॥ २ ॥ जातकोत्तमे–क्षीणेन्दूर्काकिंमौमाः स्युःपापास्तैः संयुतो बुधः।राहुकेतू पापतरौ पापः पापान्वितस्तथा ॥ ३ ॥ जातकतिलके–सौम्यः सपापस्त्वशुभः पापः सौम्ययुतः शुभः।पापौ युतावत्यशुभौ सौन्यावतिशुभौ युतौ ॥ ४ ॥ चन्द्रेण संयुताः सर्वे सर्वत्रैवबलोत्कटाः। भार्धोत्तरस्था अवलाः क्रमान्पापैर्युयुक्षवः ॥५ अर्केणास्तंगतायद्वतेन मुक्ताः क्रमाच्छुभाः। सौन्याःपापोज्झिताश्चैव सौम्ययोगे शुभं वदेत् ॥ ६ ॥ गार्ग्यः–तिथिभागान्तरस्थौयौग्रहौतौयोगसंज्ञितौ।तत्तुल्यांशैःफलंपूर्णं न्यूनं न्यूनाधिकैर्भवेत् ॥ ७ ॥ लल्लः—योगा यथोक्तफलदाःकलार्धभागैकसंस्थितानां च अप्राप्ता-तीतानामिच्छामात्रं फलं भवति ॥ ८ ॥ ज्योतिष्प्रकाशे–योगो ग्रहान्तरं यत्र तिथिभागाधिकं भवेत्। न योगफलमित्याहुरनु-पातस्तदन्यथा ॥ ९ ॥ ज्योतिर्विवरणे—शुभाशुभत्वं द्युसदां यदुक्तं योगतो बुधैः।तत्फलादेशविषयेन स्वभावविमोचकम् ॥ १० ॥

इति सौम्यक्रूरादिविचारः।

_____

अथ सूर्ये कथं क्रूरत्वादीति प्रश्नोत्तरम्।

आदित्यपुराणे—कालात्मा सर्वदेवात्मा भूतात्मा विश्वतोमुखः।जगद्योनिःसहस्राक्षः कथं क्रूरत्वमागतः ॥ १ ॥ अस्योत्तर—छायापुत्रोमहारौद्रो मातुर्दुखेःन दुःखितः। शशाप पितरं क्रोधाप्नोर्कः क्रूरतांगतः ॥२ ॥ रुद्रग्रामे–काश्यपेयो रविः केन हेतुना क्षत्रियोऽभवत्। इत्येतच्छोतुमिच्छामि ब्रूहि शंकरते नमः ॥ ३ ॥ शृण्वपर्णे विशालाक्षि सृष्ट्यादावसृजद्विधिः। कर्मकालप्रबोधार्थेभचक्रं खेचरैः सह ॥४॥ तत्रार्को ग्रहमादीनां स्वामित्वे केन योजितः। तेनोच्यतेस राजन्यः प्रभुत्वं तद्विना न हि ॥ ५ ॥

इति सूर्ये क्रूरत्वादिप्रश्नोत्तरम्।

_____

अथ लग्नप्रकरणम्।

श्रीपतिः - विरोधमभिषेकं च राज्ञां साहसकर्म च। धात्वाकरादिसंबन्धं मेष-

संधिस्थितः खेटः सर्वत्र विफलः स्मृतः। एवं भावविधिं ज्ञात्वा जन्मोद्वाहगमादिषु॥ २५ ॥ ज्योतिष्प्रकाशे—चरस्थिरद्विस्वभावा मेषाद्या राशयः क्रमात्। क्रूरकर्मणिसक्रूराःशुभे ग्राह्याः शुभान्विताः ॥ २६॥कश्यप—स्वामियुक्तो वीक्षितो वा बुधजीवक्षितस्तथा। बलवान्संभवेद्राशिदृष्टो युक्तोऽपि नायरैः ॥२७॥ वसिष्ठ—पृष्ठोदये वृषोमेषः कर्किचापमृगास्तथा। शेषः शीर्षोदये राशिर्मीनः स्यादुभयोदयः॥ २८ ॥ कुम्भमीनौ तथा सिंहश्चत्वारो बलिनो दिने। धनुर्मृगौच मेषाद्याश्चत्वारस्तु निशाबलाः ॥ २९ ॥ वराहः—मेषवृषधन्विसिंहाश्चतुष्पदा मकरपूर्वभागश्च।कीटःकर्कटराशिः सरीसृपो वृश्चिकः कथितः ॥ ३० ॥ मकरस्य पश्चिमार्ध कुम्भो मीनश्चजलचराः ख्याताः। मिथुनतुलाधरकन्या द्विपदाख्या धन्विपूर्वभागश्च ॥ ३१ ॥ स्वरशास्त्रे-कुम्भान्त्यौ60द्विनिशौषड्गू तुलाली मृगधन्विनौ।वधिरौ सिंहगोमेषा अन्धाः स्त्रीमृगकर्कटाः ॥ ३२ ॥ अन्धे शून्यं भ्रमः षङ्गौबधिरे हानिरत्र चेत्। यदि तुष्टोभवेदंशः सौम्यो वै तत्पलं न हि ॥३३ ॥ घटान्त्योक्षनृयुङ्मेषकन्याकीटतुलाहयाः \। कुलीरमृगसिंहाः स्युश्चैत्राद्याः शून्यराशयः ॥ ३४ ॥ तुलामृगौ प्रतिपदि तृतीयायां मृगार्कभे। पञ्चम्यां वुधराशी द्वौ सप्तम्यां चापचन्द्रभे ॥ ३५ ॥ नवम्यां हरिकीटौद्वावेकादश्यां गुरोर्गृहे।त्रयोदवश्यांमेषवृषौदिनदग्धाश्च राशयः ॥ ३६ \।\। मासदग्धाह्वयान्राशीन्दिनदग्धांंश्चवर्जयेत्। सत्यसूरि— जन्मर्क्षादथवाजन्मलग्नाद्रन्व्रेशभांशगाः।शुभं भावफलं घ्नन्ति ग्रहाः पुष्णन्ति चाशुभम् ॥३७ ॥जन्मभाद्व्यायभांशस्था जन्मलग्नाच्चखेचराः। भवन्ति व्ययदाः शत्रुभांशस्थाःशत्रुकारिणः ॥ ३८ ॥श्रीपतिः—अशुभोऽपि शुभांशस्थो दर्शने स्याच्छुभप्रदः। सामृतं किं विषं भुक्तं न शुभाय प्रजायते ॥ ३९ ॥ वैद्यनाथ—विलग्नस्थोऽष्टमो राशिर्जन्मलग्नात्स्वजन्मभात्। न शुभः सर्वकार्येषु लग्नाच्चन्द्रस्तथाऽष्टमः ॥ ४० ॥ वराहः स्वगृहात्रिकोणतुङ्गादिभसंस्थितमित्रभवनभावगतः। चेष्टादिवलयुतो वा यत्नाद्योज्यःशुभे स्थाने ॥ ४१ ॥ नेष्टः शुभो विलग्ने नीचारिगृहोपगस्तु शत्रुदिने।क्रूरोऽपि सुहृद्दिवसे स्वोच्चगतः शुभफलो लग्ने ॥ ४२ ॥ भृगु—लग्नेशेऽस्तं गते रोगो रन्ध्रेमृत्युर्व्यये व्ययः। शत्रौ शत्रुभयं घोरं नीचे भङ्गोऽरिजं भयम् ॥ ४३ ॥ यवन - ऋक्षसंधिगताः खेटा राशिसंधिगतास्तथा। एष्यराशेः फलं दद्युर्विपरीतंतु वक्रगाः ॥ ४४ ॥ ज्योतिष्प्रकाशे—प्रायोव्ययाष्टगाः सौम्या नेष्टा वृद्धिंविना खलाः।लग्नेशोऽष्टारिगो लुप्तश्चन्द्रो लग्नारिरन्ध्रगः ॥ ४५ ॥ त्याज्यो

लग्ने प्रसाधयेत् ॥ १ ॥ वृषोदये विवाहश्च ध्रुवं वेश्मप्रवेशनम्। कुमारीवरणंदानं क्षेत्रारम्भादि चेष्यते ॥ २ ॥ कलाविज्ञानसंबन्धं वृषलग्नोदितं च यत्।विभूषणादिकं कर्म कर्तव्यं मथुनोदये॥ ३ ॥ वापीकूपतडागादिवारिबन्धनमोक्षणे। पौष्टिकं कर्म यत्किंचित्सर्वे सिध्यति कंकिणि ॥ ४ ॥ वणिक्पथाद्यं पण्यं च कर्षणं नृपसेवनम्।परयोगश्च मेषोक्तं तच्च कण्ठीरवे हितम् ॥ ५ ॥औषधं शिल्पविज्ञानं भूषणादि चरं स्थिरम्। कर्तव्याः पौष्टिकारम्भाः कन्यालग्ने प्रसिद्धये ॥६ ॥कृषिकर्म वणिक्सेवा यात्राकर्म तुलोदये। प्रसिध्यन्ति हिसर्वाणि तुलाभाण्डाश्रितानि च ॥ ७ ॥ साहसं दारुणोग्रं च राजसेवाभिषेचनम्।चौर्यकर्म स्थिरारम्भाः कर्तव्या वृश्चिकोदये ॥ ८ ॥ प्रस्थानपौष्टिकोद्वाहाः सवाहनपरिग्रहाः। चापलग्ने प्रसिद्धाः स्युश्चरकर्मप्रसिद्धये ॥ ९ ॥ क्षेत्राश्रयाण्यम्बुयात्रा बन्धमोक्षौ च वारिणाम्। दासीचतुष्पदोष्ट्रादि कर्तव्यं मकरोदये ॥ १० ॥ नौचौर्योदकयानं च कर्म ध्रुवचरं तथा। वीजसंग्रहणोप्ती च कर्तव्यं कलशोदये ॥ ११ ॥विद्यालंकारशिल्पादि कृप्यम्बुपशुकर्म च। यात्रोद्वाहाभिषेकाद्यं कार्यंमीनोदये बुधैः ॥ १२ ॥ नारदः—मेषादिषु विलग्नेषु शुद्धेष्वेतत्प्रसिध्यति। क्रूरग्रहेक्षितेषूग्रं संयुक्तेषुग्रमेव हि ॥ १३ ॥ गोयुग्मककिंकन्यान्त्यतुलाचापधराः शुभाः। शुभग्रहास्पदत्वात्सप्तेतराःपापराशयः ॥ १४ ॥ सौम्योग्रतैषांराशीनां प्रकृत्यान भवत्यसौ ॥ योगेन सौम्यपापैश्चखेचरैर्वीक्षितेन वा ॥ १५ ॥ सौम्याश्रितत्वात्क्रूरोऽपि स राशिः शोभनः स्मृतः। सौम्योऽपि राशिःक्रूरः स्यात्क्रूरग्रहयुतो यदि ॥ १६ ॥ ग्रहयोगावलोकाभ्यां राशिर्धत्ते ग्रहोद्भवम्। फलं ताभ्यां विहीनोऽसौ स्वभावमुपसर्पति ॥ १७ ॥ आदौसंपूर्णफलदं मध्ये मध्यफलप्रदम्। अन्त्यै तुच्छफलं लग्नं सर्वस्मिन्नेवमेव हि ॥ १८ ॥ दैवज्ञवल्लभे—लग्नेशुभेऽपि यद्यशः क्रूरः स्यान्नेष्टसिद्धिदः। लग्ने क्रूरेऽपि सौम्योंऽशःशुभदोंऽशो बली यतः ॥ १९ ॥ स चन्द्रराशेरशुभो नवांशः प्रोक्तः स पापस्य च लग्नसंस्थः।केन्द्रत्रिकोणेषु गुरुः सितो वा भवेत्तदाऽसावशुभोऽपि शस्तः ॥ २० ॥ विवाहपटले—सचन्द्रसक्रूरनवांशकं यल्लग्नं हत्यायुरिति ब्रुवन्ति। धीधर्मकेन्द्रो भृगुजोऽथवेज्यो लग्नं तदेवाऽऽयुरतीय धत्ते ॥ २१ ॥ ज्योतिष्प्रकाशे—प्रोच्यते लग्नसंस्थोऽसौ ग्रहो य उदितांशगः। द्वितीयोऽनुदितांशस्थः सर्वराशिष्वयं क्रमः ॥ २२ ॥ पटलसारे—लग्नांगतुल्या विज्ञेया भावा द्वादश ते पुनः।तिथ्यंशेन युनास्तेषु प्राप्तपराःसन्धयःक्रमात् \।\। २३ \।\। विश्वेश्वरः- गतैप्यभावफलदःसंधेरुनाधिको ग्रहः \। भावतुल्यं फलं पूर्ण धत्तेऽन्यत्रानुपाततः ॥ २४ ॥ भाव-

संधिस्थितः खेटः सर्वत्र विफलः स्मृतः। एवं भावविधिं ज्ञात्वा जन्मोद्वाहगमादिषु ॥ २५ ॥ज्योतिष्प्रकाशे-चरस्थिरद्विस्वभावा मेषाद्या राशयः क्रमात्। क्रूरकर्मणिसक्रूराः शुभे ग्राह्याःशुभान्विताः ॥ २६ ॥ कश्यपः- स्वामियुक्तो वीक्षितो वा बुधजीवक्षितस्तथा। बलवान्संभवेद्राशिर्दृष्टो युक्तोऽपि नापरैः ॥ २७ ॥\। वसिष्ठः- पृष्ठोदये वृषोमेषः कर्किचापमृगास्तथा। शेषः शीर्षोदये राशिर्मीनःस्यादुभयोदयः॥ २८ ॥ कुम्भमीनौ तथा सिंहश्चत्वारो बलिनो दिने।धनुर्मृगौ च मेषाद्याश्चत्वारस्तु निशावलाः ॥ २९ ॥ वराहः-मेषवृषधन्विसिंहाश्चतुष्पदा मकरपूर्वभागश्च।कीटः कर्कटराशिः सरीसृपो वृश्चिकः कथितः ॥ ३० ॥मकरस्य पश्चिमार्धंकुम्भो मीनश्चजलचराः ख्याताः। मिथुनतुलाधरकन्या द्विपदाख्या धन्विपूर्वभागश्च ॥३१ ॥स्वरशास्त्रे- कुम्भान्त्यौ61द्विनिशौपङ्गू तुलाली मृगधन्विनौ। बधिरौ सिंहगोमेषा अन्धाः स्त्रीमगकर्कटाः ॥ ३२ ॥ अन्धे शून्यं भ्रमः पङ्गौ बधिरे हानिरत्र चेत्। यदि तुष्टों भवेदंशः सौम्यो वै तत्पलं न हि ॥३३ ॥घटान्त्योक्षनृपुङ्मेषकन्याकीटतुलाहयाः। कुलीरमृगसिंहाः स्युश्चैत्राद्याः शून्यराशयः ॥३४ ॥तुलामृगौ प्रतिपदि तृतीयायां मृगार्कभे। पञ्चम्यां बुधराशी द्वौसप्तम्यां चापचन्द्रभे ॥ ३५ ॥ नवम्यां हरिकीटौद्वावेकादश्यां गुरोर्गृहे। त्रयोदश्यां मेषवृषौ दिनदग्धाश्चराशयः ॥ ३६ ॥मासदग्धाह्वयान्राशीन्दिनद्ग्धांश्च वर्जयेत्। सत्यसूरिः जन्मर्क्षादथवाजन्मलग्नाद्रन्ध्रेशभांशगाः। शुभं भावफलं घ्नान्ति ग्रहाः पुष्णन्ति चाशुभम् ॥ ३७ ॥ जन्मभाद्व्ययभांशस्था जन्मलग्नाच्च खेचराः। भवन्ति व्ययदाः शत्रुभांशस्थाः शत्रुकारिणः ॥ ३८ ॥श्रीपतिः- अशुभोऽपि शुभांशस्थो दर्शने स्याच्छुमप्रदः।सामृतं किं विषंभुक्तं नशुभाय प्रजायते ॥ ३९ ॥ वैद्यनाथः- विलग्नस्योऽष्टमो राशिर्जन्मलग्नात्स्वजन्मभात्। न शुभः सर्वकार्येषु लग्नाच्चन्द्रस्तथाऽष्टमः ॥ ४० ॥ वराहः- स्वगृहत्रिकोणतुङ्गादिभसंस्थितमित्रभवनभावगतः। चेष्टादिबलयुतो वा यत्नाद्योज्यःशुभे स्थाने ॥ ४१ ॥ नेष्टः शुभो विलग्ने नीचारिगृहोपगस्तु शत्रुदिने।क्रूरोऽपिसुहृद्दिवसे स्वोच्चगतः शुभफलो लग्ने ॥ ४२ ॥ भृगुः- लग्नेशेऽस्तं गते रोमो रन्ध्रेमृत्युर्व्यये व्ययः। शत्रौ शत्रुभयं घोरं नीचे भङ्गोऽरिजं भयम् ॥४३ ॥ यवनः-ऋक्षसंधिगताः खेटा राशिसंधिगतास्तथा। एष्यराशेः फलं दद्युर्विपरीतंतु वक्रगाः ॥ ४४ ॥ ज्योतिष्प्रकाशे-प्रायो व्ययाष्टगाः सौम्या नेष्टा वृद्धिं विना खलाः।लग्नेशोऽष्टारिगो लुप्तश्चन्द्रो लग्नारिरन्धगः॥ ४५ ॥ त्याज्यो

लग्नेऽष्टमो62 मन्दः षष्ठेशुक्रेन्दुलग्नपाः।रन्ध्रेऽब्जात्पञ्च पापास्ते विवाहे पापकर्तरी ॥ ४६ ॥ चन्द्रनेत्रयुगसप्तदिक्तथा सूर्यषट्कवसुनन्दरुद्रकाः। रामवाणमितभानिजन्मभाद्घातलग्नामिति संत्यजेद्वुधः॥ ४७ ॥

इति लग्नवलप्रकरणम्।

_____

अथ षड्वर्गप्रकरणम्।

ज्योतिष्प्रकाशे-गृहं होरा च दृक्काणोनवांशो द्वादशांशकः।त्रिंशांशश्चेति षड्वर्गःस सौम्यग्रहजः शुभः ॥ १ ॥ भौमः शुक्रो बुधः सोमो रविः सौम्योभृगुः कुज।गुरुर्मन्दः शनिर्जीवो मेषादीनामधीश्वराः ॥ २ ॥ भास्करः- होरेशेविषमेऽर्केन्द्वोःसमभे चन्द्रसूर्ययोः। स्वपञ्चनवमेशाः स्युर्दृक्काणा भवने63त्रयः ॥ ३ ॥सिंहाजधन्विनोऽजाद्याः कर्काद्याः कर्क्यलिर्झपः।तुलाद्यास्तौलियुवकुम्भा मृगाद्यामृगगोवला ॥ ४ ॥ भागास्त्रिघ्ना दशहृता लब्धा भुक्तनवांशकाः64। द्विघ्नैःपञ्चहृतैर्भागैः स्वस्थानाद्द्वादशांशकाः ॥ ५ ॥ भागाः पञ्चेष्विभाद्व्यक्षास्त्रिंशांशा65विषमे गृहे।कुजार्कीज्यज्ञशुक्राणां व्यस्तास्ते समभे तथा ॥ ६ ॥ व्यासः—षड्वर्गं पञ्चवर्गंच चतुर्वर्गंशुभावहम्।\। त्रिवर्गं वाऽपि सद्योगे द्व्येकवर्गं तनुंत्यजेत् ॥ ७ ॥

इति षड्वर्गशुद्धिः।

**_____ **

** अथानिष्टवर्गापवादः। **

** **वसिष्टः—इष्टैश्चवेदाहिबलोपपन्नैश्चतुर्भिरप्यम्बरगैर्विलग्नम्। अनिष्टषड्वर्गमपीष्टमाहुः66स्वेशेक्षितं गौतमशालवाद्याः ॥ १ ॥ माण्डव्यः—षड्वर्गं पञ्चवर्गंच चतुवर्गंशुभावहम्। लग्नं नन्द्यादियोगेषु त्रिवर्गमपि शस्यते ॥ २ ॥ शुभवर्गैः शुभं लग्नंनेतरैश्चापि तत्र तु।स्वमित्रजः शुभः प्रोक्तो वर्गः शत्रुभवो न सन् ॥३ ॥ ज्योतिष्प्रकाशे—जातिशक्राम्बुढव्याल-धृत्यष्टिजिनभानवः67।घनेन्द्रोत्कृत्तिनागांशामेषादेः कार्यकारकाः ॥ ४ ॥ अत्यष्टिर्मनयश्चैव जिनाश्चमुनयस्तथा। मेषसिंहाश्वपूर्वाणां68 पुष्कलांशाःप्रकीर्तिताः ॥ ५ ॥

इत्यनिष्टवर्गापवादः।
_____

अथ तिथ्यादीनां बलविचारः।

संहिताप्रदीपे-शास्त्रार्थतत्त्वं प्रविचार्य पूर्वंसांवत्सराणां धुरमुद्दिधीर्षुः। समादिशन्सत्सु महत्त्वमेति लोके न विद्यालवालिप्तचिह्नैः॥ १ ॥ लग्नं तिथिर्व्याेमचरः शशाङ्कोनक्षत्रयोगौकरणं तथैव। एतानि लोकव्यवहारसिद्ध्यै शास्त्रार्थशोध्यानि पदानि सप्त ॥२ ॥लग्नेन्दुतिथ्युद्गमतारकाणां दोषा गुणाश्चाभिहिता बुधैर्ये।विचार्य तेषां लघुतां गुरुत्वं विनिर्णयं शास्त्रपदानि(न्नि)धास्ये ॥ ३ ॥ तिथिःशरीरं मन इन्दुवीर्यंविलग्नमात्माऽवयवास्तु भाद्याः।शुद्धे शरीरे त्वपरेऽविचिन्त्यं न क्वापि कुड्येन विनाऽपि चित्रम् ॥४ ॥सर्वत्रकार्येषु शुभाशुभेषु पृच्छन्ति लोकास्तिथिमेव पूर्वम्। न क्वापियोगं करणं ग्रहंवा तस्मात्तिथेर्मुख्यतरत्वमिष्टम् ॥ ५ ॥ ज्योतिर्विवरणे-तिथेःप्रशंसा या प्रोक्ता सदैव पितृकर्मणि।ज्ञेया बुधैस्तथोद्वाहप्रयाणादिषु चाल्पता ॥ ६ ॥ वारर्क्षचन्द्रोदयशुद्धिलाभे तिथिःसदोषोऽपि भवेददोषः। सौन्दर्यकान्त्यादिगुणैः सरोजं सकण्टकत्वेऽपि यतो गुणाढ्यम्॥ ७ ॥ विशुद्धमृक्षं सबलं च लग्नं यथा प्रयत्नेन विलोकयन्ति। तथा न योगं करणं तिथिं वा दोषो गुणोवाऽपि तिथेर्यतोऽल्पः ॥ ८ ॥ इत्थं विरोधे वचसां मिथस्तु किं तु प्रमाणं कतरन्मृषेति। नाऽऽयाति वक्तुं मुनिभाषितत्वात्प्रामाण्यमेषां विषयावबोधात् ॥ ९ ॥गुणस्य दोषस्य च तारतम्यं विचारणीयं विदुषा प्रयत्नात्। कश्चिद्गुणोदोषशतंनिहन्ति दोषो गुणानामपि हन्ति लक्षम् ॥ १० ॥ पूर्वापराभ्यां सहितस्तिथिभ्यांनिहन्ति दर्शो निचयं गुणानाम्। तमेव हित्वाऽमृतसिद्धियोगस्तिथेरशेषानपिहन्ति दोषान् ॥ ११ ॥ स्यातामुर्भोदोषगुणौ महान्तौ यदा तदा हीनतरो गुणः स्यात्। पुण्ये कृते पातकिताऽधिकेऽपि नाषैति पापं हि जनापवादः ॥ १२ ॥ज्योतिःसागरे-लग्नंजीवो मनश्चन्द्रः शरीरं च तिथिस्ततः। जीवे पुष्टे फलं पुष्टंनष्टे नष्टं विदुर्बुधाः ॥१३ ॥गर्गः—लग्नंकेनापि दोषेण दूषितं चेत्तदा गुणाः।सर्वे दुष्टाः स्युरात्मानं विना यद्वत्कलेवरम् ॥ १४ ॥ संहिताप्रदीपे-केनापिदोषेण तनौ प्रदुष्टे दुष्यन्ति तिथ्यब्जबलर्क्षवाराः। सौवर्णकान्त्यादिगुणो मुखस्यनासाविहीनस्य भवत्यसारः ॥ १५ ॥ लल्लः-न तिथिं न च नक्षत्रं न योगंनैन्दवं बलम्।लग्नमेकं प्रशंसन्ति गर्गनारदकश्यपाः ॥ १६॥ ज्योतिर्विवरणे लग्नवीर्यंविना यत्र यत्कर्म क्रियते बुधैः। तत्फलं विलयं याति ग्रीष्मे कुसरितो यथा ॥ १७ ॥ शुष्कमार्द्रं दहत्येधो महादीप्तो यथाऽनलः।तिथ्यादीनांफलं तद्वल्लग्नदोषो विनिर्देहेत्। यथा निर्वाणतां याति दीपः स्नेहक्षयात्तथा।

लग्नवीर्यक्षयादेव तिथ्यादेः सदसत्फलम् ॥ १९ ॥ मन्त्रौषधवशाद्यद्वद्भक्षितंजीर्यते विषम्।तद्वद्ग्रहबलेनैव जीर्यते दोषसंचयः ॥ २० ॥ ज्योतिष्प्रकाशे—न लिप्यते यथाऽम्भोभिस्तत्रस्थं पद्मिनीदलम्।तथा तिथ्यादिजैर्दोषैर्लग्नं खेटबलान्वितम् ॥ २१ ॥ संहिताप्रदीपे—नक्षत्रलग्नतिथयः प्रथमार्धवीर्या वारश्चयोगसहितो बलवानशेषः। ऋक्षं दिवा निशि तिथिर्विबलत्वमेति तिथ्यर्धमत्रतिथिवत्परिचिन्तनीयम् ॥२२ ॥ वृद्धगर्गः—तिथिरेकगुणः प्रोक्तो बलेन द्विगुणःक्षणः। चतुर्गुणं तु नक्षत्रं वाराश्चाष्ठगुणः स्मृतः ॥ २३ ॥ चन्द्रः शतगुणो लग्नंसहस्रगुणमुच्यते। लग्नाद्धोरादयो भेदा बलिनः स्युर्यथोत्तरम् ॥ २४ ॥ राजमार्तण्डः–तिथिरेकगुणा प्रोक्ता नक्षत्रं च चतुर्गुणम्। वारश्चाष्टगुणश्चैव श्चन्द्रः शतगुणः स्मृतः ॥ २५ ॥ लग्ने कोटिगुणं विद्याद्ग्रहवीर्यसमन्वितम्। तस्मात्सर्वेषु कार्येषु लग्नवीर्यं विलोकयेत् ॥२६ ॥ ज्योतिःसागरे—लग्नं पुष्पसमं ज्ञेयमंशःफलसमस्तथा। नष्टे पुष्पे फलं नास्ति तस्माल्लग्ने प्रधानता ॥ २७ ॥ तिथ्यादिकानामिति तारतम्यं शास्त्रार्थतत्त्वं मुनिभिः प्रदिष्टम्। तथैव लोकव्यवहारदृष्टंमतं बहूनामपि चिन्तनीयम् ॥ २८ ॥

इति तिथ्यादीनां बलविचारः।

_____

अथ चन्द्रबलप्रशंसा।

शार्ङ्गविवाहपटले—लग्नं देहोऽङ्गानि षड्वर्गकाश्चप्राणश्चन्द्रो धातवः खेचरेन्द्राः। प्राणे नष्टे देहधात्वङ्गनाशस्तस्मात्सर्वत्रेन्दुवीर्यंप्रधानम् ॥ १ ॥ संहिताप्रदीपे—आदौ हि चन्द्रस्य बलं विचिन्त्यं लग्नस्य पश्चादथ सप्तवर्गः। किं चन्द्रवीर्येणविनेतराणि कुर्वन्ति सत्यायुषि लक्षणानि ॥ २ ॥ श्रीपतिः- आधारमिन्दोर्बलमुक्त-मार्यैराधेयमन्यद्ग्रहजं च वीर्यम्। आधारशक्तौपरिनिष्ठितायामाधेयवस्तूनि हि वीर्यवन्ति ॥ ३ अमृतकिरणवीर्याद्वीर्यमाश्रित्य सर्वे विदधति फलमेतेखेचराः साध्वसाधु। निजनिजविषयेषु व्याप्रियन्ते यथाऽमी फलमिह मनसैवाधिष्ठितानीन्द्रियाणि ॥ ४॥

इति चन्द्रबलप्रशंसा।

_____

अथ चन्द्रलग्नयोर्बलनिर्णयः।

इत्थं विवादे विदुषां बहूनां परस्परं भिन्नमतं वचोभिः। प्राधान्यमस्येति नवक्तुमेति शास्त्राणि विज्ञाय पुरातनानि ॥ १ ॥ संहिताप्रदीपे—प्रायेण सर्वत्रविलोकयन्ति चान्द्रं बलं गोचरतो विशुद्धम्। लोकेषु यच्चन्द्रबलं प्रधानं शास्त्रेषुमुख्यं खलु लग्नमेव॥ २ ॥ यत्रोदितं लग्नबलं प्रधानं विलोक्यमिन्दोरपि तत्र वीर्ये। दुष्टुं फलं स्यादुभयोरभावे लग्नाब्जयोरन्यतमस्य मध्यम् ॥ ३ ॥ अत्राऽऽहमाण्डव्यमुनिर्विशेषं प्रायेण चन्द्रस्य बलं विलोक्यम्। समुत्सुके कर्मणि लग्नवीर्यं तात्कालिकादप्यनयोरभावे ॥ ४ ॥ यदुक्तं कैश्चिदाचार्यैः प्राधान्यं शीतगोर्बले। लग्ने न सदसद्यस्मान्नैतद्गर्गादिसंमतम् ॥ ५ ॥ गर्ग–कल्पादावसृजत्स्रष्टा भचक्रंग्रहसंयुतम्। मूर्तिमत्संनिबद्धं तद्राशिचक्रे त्वमूर्तके॥ जातकतिलके-अमूर्तिराशिचक्रस्य स्थिरत्वं युज्यते पुनः। ज्योतिश्चक्रस्य मूर्तस्य स्थिरत्वे नैव कारणम् ॥ ७ ॥ सोमसिद्धान्ते—नित्योऽमूर्तो धनाद्यन्तः कालो द्वादशधा भवेत्। स्वयं स्वाङ्गविभागेन राशयस्तेऽत्र कल्पिताः ॥ ८ ॥ ज्योतिर्विवरणे—अनित्यं मूर्तिमत्सर्वममूर्तं नित्यमुच्यते। तस्मादल्पफलं मूर्ते परं भूरिफलप्रदम् ॥ ९ ॥ अमूर्तमूर्तयोः क्वास्ति साम्यं नित्यादिभेदतः। तस्याल्लग्नेप्रधानत्वं त्रिस्कन्धज्ञैःकिल स्मृतम् ॥ १० ॥पितामहः—ज्योतिःशास्त्रफलं सर्वे लग्नाधीनं बुधैः स्मृतम्।स्फुटखेटाश्रयं तत्तु तस्मात्प्राधान्यमेतयोः ॥ ११ ॥ प्रधानं चिन्तयेत्पूर्वे ततोऽङ्गं च तयोर्यदि। मुख्याभावेऽङ्गनाशः स्यान्सर्वत्रैवं विनिश्चयः ॥ १२ ॥ज्योतिर्विवरणे—चन्द्रः प्राण इति प्रोक्तं यद्वचफलनिर्णयः। तल्लग्नवीर्यमीमांसाविषयं न तु गोचरम् ॥ १३ ॥ संहिताप्रदीपे—इत्थं पुराणमुनिनिर्मितसंहितार्थान्युद्धो-

दितं किल बलाबलमुद्गमेन्दोः। चन्द्रात्तनुर्बलवतीति हि शास्त्रतत्त्वं प्रायोऽभिधेयमधिगम्य मतं बहूनाम् ॥१४ ॥पञ्चादिभिः सत्फलदैर्विलग्नंपुष्टं भवेन्मध्यफलंचतुर्भिः। द्वाभ्यां त्रिभिर्वाऽप्यथ हीनमेव न कापि देयं विदुषा कदाचित् ॥ १५ ॥ कश्यपः —पञ्चभिरिष्टैरिष्टं पुष्टमनिष्टैरनिष्टमादेश्यम्।स्थानादिबलसमृद्धैवतुर्भिरपि पठ्यते यवनैः ॥१६ ॥दैवज्ञवल्लभे–संपूर्णफलदं चाऽऽदौ मध्ये मध्यफलप्रदम्। अन्ते तुच्छफलं लग्नं यदि वर्गोत्तमं न चेत् ॥१७ ॥संहिताप्रदीपे—अन्त्ये स्मृतं तुच्छफलं विलग्नं न चेत्षडादिग्रहवीर्ययुक्तम्। वर्गोत्तमांशोपगतंगुणैर्वा प्रौढैस्तदा पुष्टफलप्रदं स्यात् ॥१८ ॥ असत्फलस्थानगतो ग्रहः स्याच्छुभप्रदः सौम्यसितेज्यमित्रैः। बलान्वितो दुष्टयुतो न पापैर्गत्यन्तराभाव इदंविचिन्त्यम् ॥ १९ ॥ बादरायणः—निषिद्धभवनस्थोऽपि लग्नात्पादो न दोषकृत्।बुधभार्गवजीवैस्तु दृष्टः केन्द्रत्रिकोणगैः॥ २० ॥ गर्गः—उच्चस्वगेहमित्रस्या उदिताः फलदा ग्रहाः। अस्तंगताश्च नीचारिराशिस्था विफलाः स्मृताः ॥ २१ ॥ शौनकः—नीचस्था ग्रहविजिताः शिख्यभिभूता विरश्मयो ह्रस्वाः।भुजगा इवमन्त्रहता न स्युः कार्यक्षमा लग्ने ॥ २२ ॥ माठरः—लग्ने चन्द्रबलं बीजं फलपाककरा ग्रहाः।बीजे पुष्ठे फलाप्तिः स्यात्तस्माद्बीजमिहेप्यते ॥२३ ॥लल्लः—सौम्यभावगतो मृदुतां क्रुरोऽपि याति संयोगात्। न हि चन्द्रकराश्लिष्टात्सूर्यमणेः संभवति वह्निः ॥ २४ ॥ क्रूरांशगतः सौम्यो न शुभं दातुं क्षमः प्रयुक्तोऽपि। न तु चन्द्रकान्तस्तावत्सूर्यकरालिङ्गितः स्रवति ॥ २५ ॥न सकलगुणसंपल्लभ्यतेऽल्पैरहोभिर्बहुतरगुणयुक्तं योजयेन्मङ्गलेषु।प्रभवति न हि दोषो भूरिभावे गुणानां सलिलमिव हि वह्नौसंप्रदीप्तेन्धनस्य ॥ २६ ॥ गुणशतमपि दोषःकश्चिदेकोऽपि वृद्धः क्षपयति यादे नान्यस्तद्विरोधी गुणोऽस्ति। घटमिव परिपूर्णपञ्चगव्यस्य शक्त्या मलिनयति सुराया बिन्दुरेकोऽपि सर्वम् ॥ २७॥श्रोपतिः—उच्चादिस्थोऽपि नो हन्ति फलं भावकृतं ग्रहः। अनिष्टं कुरुते पापीनीचादिस्थस्त्वशोभनम्॥२८ ॥ गर्गः—यद्येकभावगौतुल्यशुभाशुभफलौग्रहौ। स्यात्तदानिष्फलो भावो यो बली स फलप्रदः ॥ २९ ॥ सप्तर्षिमते—तोयालयादिभिर्वृक्षा यथा भूरिफलप्रदाः। तथा स्थानादिवीर्याढ्या लग्ने कार्यक्षमा ग्रहाः ॥ ३० ॥ लल्लः—फलं वारस्य संपूर्ण स्वहोरायां जगुर्बुधाः। तथालग्नफलं चांशे संपूर्णं मिश्रमन्यथा ॥ ३१ ॥ माण्डव्यः—लग्नं सर्वगुणोपेतं दिनैरल्पैर्नलभ्यते। ततो गुणाधिकं देयं दोषाल्पं बहु संमतम् ॥ ३२ ॥

इति चन्द्रलग्नयोर्बलनिर्णयः।

_____

अथ लग्नांशयोर्विचारः।

ज्योतिर्विवरणे—केचिल्लग्नंप्रशंसन्ति ग्रहवीर्येणसंयुतम्। केचिल्लग्ननवांशं च केचिच्चन्द्रमसो बलम् ॥ १ ॥ लग्नं देहो विधुर्जीवो मनोंशः कर्मणः फलम्।ग्रहवीर्य69ेततो देहे70 दृढे प्राणादिचिन्तना ॥२ ॥पितामहः—ज्योतिःशास्त्रफलं सर्वं लग्नाधीनं बुधैः स्मृतम्।स्फुटखेटाश्रयं तत्तु तस्मात्प्राधान्यमेतयोः ॥ ३ ॥ भृगुः—गुणयुक्तं यदा लग्नंनवांशो दुर्बलो भवेत्। शुभं नैव विरुध्येत शुभस्वान्यबलोकनात् ॥ ४ ॥ नवांशो गुणवान्यत्र लग्नंबलविवर्जितम्। तदा न मङ्गलं कार्यंयतो मुख्यं तनोर्बलम् ॥ ५ ॥ प्रधानं चिन्तयेत्पूर्वंततोऽङ्गं च तयोर्यदि।मुख्याभावेऽङ्गन्नाशः स्यात्सर्वत्रैवं विनिर्णयः ॥ ६ ॥ माठरः—शुद्धौ लग्नांशयोःपूर्णं पादोनं केवलं तयोः। अंशशुद्धौफलं त्वर्धमभावे निष्फलं तयोः ॥ ७ ॥ प्रश्नशास्त्रे—इन्दुः सर्वत्र बीजाभो लग्नं तु कुसुमप्रभम्। फलेन सहशोंऽशश्च भावः स्वादुफलः स्मृतः ॥ ८॥ ज्योतिर्विवरणे—चन्द्रः प्राण इति प्रोक्तंं यद्वचःफलनिर्णये। तल्लग्नवीर्यमीमांसाविषयं तु न गोचरम् ॥ ९ ॥

इति लग्नांशयोर्विचारः।

_____

अथ लग्नस्थार्कप्राशस्त्यम्।

अशुभोऽपि रविः शस्तो लग्नगः केचिदूचिरे।इति तद्धेतुना केन ब्रूहिशास्त्रानुसारतः ॥ १ ॥ यथोषाधिवशेनैव सम्मणिर्भाति तद्विधः। वाह्येऽथाऽऽभ्यन्तरे तस्य निर्मलत्वं न मुञ्चति ॥ २ ॥ तथा शापोपग्रहाद्यैर्दोषैर्व्याप्तोऽपिभास्करः। न जहाति गुणं व्यालावृतचन्दनवृक्षवत् ॥ ३ ॥ लल्लः—कुर्यान्मङ्गलपौष्टिकानि नृपतेर्यात्राभिषेकौ तथा सेवाभेषजधर्मवर्त्मकनग्रावोग्रकर्माणि च।विद्याज्ञानचरव्रतानि हवनं शिल्पं रणं साहसं क्षिप्रालंकरणे दिने दिनकृतोलग्नस्थिरे वा रवौ॥ ४ ॥ बृहस्पतिः—अर्कोदयः प्रशस्तः स्याद्विप्रराजन्ययोःसदा। चन्द्रोदयोऽङ्गानानांच वणिजां जलजीविनाम् ॥ ५ ॥ ज्योतिष्प्रकाशे—वर्णस्याधिपतौकेन्द्रे लग्नजन्मभयोस्तथा। सिध्यन्ति सर्वकार्याणि सबले चविशेषतः ॥ ६ ॥ कूर्मयामले—यात्रायामुदये भानोरस्ते चोद्वाहपूर्वकम्।विदध्यास्सर्वकर्माणि मध्याह्नेभृगुरब्रवीत् ॥ ७ ॥ मौञ्जीपटले-शुभगोबलवान्भानुर्लग्नगोदशमस्तथा। सर्वशाखाधियो यस्मात्सर्वेषां व्रतबन्धने ॥ ८ ॥

इति लग्नस्थार्कप्राशस्त्यम्।

_____

अथ लग्नस्थचन्द्रनिषेधप्रश्नोत्तरम्।

ज्योतिष्प्रकाशे–चन्द्रः सौम्यतरस्तद्वत्फलपाककरो ग्रहः। कथं तर्हि विलग्नस्थो निन्द्यः पाणिग्रहादिषु ॥ १ ॥ गुरुभार्यानुगामित्वात्क्षयित्वं प्राप्तवान्विधुः तेनमूर्तौनिषिद्धः स्याद्यतः संसर्गजा रुजः ॥ २ ॥ आयुर्वेदशास्त्रे—यक्ष्मा कुष्ठं ज्वरश्चैव स्फोटको नयनामयः। संश्रयात्संचरन्त्यन्यं चन्द्रदोषो यथा तनुम् ॥ ३ ॥

इति लग्नस्थचन्द्रनिषेधः।

_____

अथ तात्त्कालिक विचारः।

भूपालः—अहोरात्रस्य मध्ये तु समानं वत्सरो व्रजेत्। तन्मध्यमासतिथ्यृक्षचारयोगादिकं भवेत् ॥१ ॥चैत्रे चैत्रादयो मासा मासे मासेऽप्ययं क्रमः। पञ्चपञ्चघटीसंख्या मासानां परिकल्पना ॥ २ ॥ तत्र त्रिंशद्दिनानि स्युः पलैस्तुदशभिर्दिनम्।यस्मिन्काले तु यो मासस्तस्मिन्मासे तु या तिथिः ॥ ३ ॥तस्यां चरर्क्षयोगादि स्वकार्याय विलोकयेत्। तात्कालिकमिदं सर्वं सर्वकार्येषुयोजयेत् ॥ ४ ॥ संहिताप्रदीपे—सप्ताश्विनिघ्ना दिनयातनाङ्यः षष्ट्या विहृत्याऽऽप्तफलं वियोज्यम् \। वारे तिथौ भे च युतौ च ते स्युस्तात्कालिका वारतिथीन्दुसूर्याः ॥ ५ ॥ ज्योतिष्प्रकाशे—गतर्क्षाब्दिहतिर्यातघटीतिथ्यंशसंयुता। दिक्त्र्याप्ता [दि] लवादिन्दुः षड्गुणोऽष्टघटीयुतः ॥३ ॥भृपालः—संवत्सरमहोरात्रं ये जानन्ति मनीषिणः।तेषां तिथ्युदयज्ञानमिदं मनसि वर्तते ॥ ७ ॥

इति तात्कालिकविचारः।

_____

अथ सूक्ष्मर्क्षानयनम्।

शिरोमणौ—सूक्ष्मं प्रवक्ष्येऽथ मुनिप्रणीतं विवाहयात्रादिफलप्रसिद्ध्यै। अध्यर्घभोगानि71 षढत्र72 तज्ज्ञाः प्रोचुर्विंशाखादितिभध्रुवाणि ॥ १ ॥ पौलिशः—भरण्यार्द्रा तथाऽऽश्लेषा मारुतं शाक्रवारुणे। षडैतान्यर्धभोगानि संपूर्णा-नीतराणि च ॥ २ ॥ भमानबिलवोद्विघ्नः स्वस्मृत्यंशयतो हृतः। भसंख्यया फलैःस्थूलं भहीनं सूक्ष्मतामियात् ॥ ३ ॥ एवं विश्वर्क्षपर्यन्तं पौष्णे शून्यमुखान्त्यतः।कर्णास्तं प्राग्वदत्रस्थमुपान्त्ये श्रवणद्वये ॥ ४ ॥ वैश्वर्क्षस्य चतुर्थांशस्तथापञ्चदशांशकः। श्रवणम्य च तत्तुल्या अभिजिद्भोगनाडिकाः ॥ ५ ॥

इति सूक्ष्मर्क्षानयनम्।
_____

अथ तिथ्यादिगुणप्रशंसा।

पितामहः—मासशुद्धौ सुखं भोगो धनारोग्यं च सत्तिथौ।कार्यसिद्धिः सुनक्षत्रे करणे शोभने धनम् ॥ १ ॥ इष्टावाप्तिः शुभे योगे वाञ्छिताप्तिः शुभेविधौ।शुभे वारे सर्वसंपत्सौमनस्यं शुभे क्षणे ॥ २ ॥ लग्ने शस्ते महानन्दः स्वेशवीर्ये समुन्नतिः। लग्ने सग्रहवीर्येस्युः सर्वे समुदिता गुणाः ॥ ३ ॥ लल्लः—सिद्धौ यात्रां प्रकुर्वीतामृतयोगे गृहादिकम्।अन्धमे स्थापयेद्द्रव्यं काणेचौर्यविधिक्रिया ॥ ४ ॥

इति तिथ्यादिविचाराध्यायः।

_____

अथ त्याज्यप्रकरणम्।

ज्योतिष्प्रकाशे—जन्माधिपधिलग्नेशचन्द्रभार्गवमन्त्रिणाम्। विरश्मित्वं जन्ममासो जन्मभं जन्मवासरः ॥ १ ॥ दुर्निमित्तंमनोभङ्गः क्षयमासाधिमासकौ। मृतजातकयोश्चैव सूतकं ग्रहणस्य च ॥२ ॥ ज्वरोत्पत्ती रजो मातृपित्रोः क्षयदिनं तथा।गण्डान्तत्रितयं कालः संधिर्भस्य तिथेस्तनोः ॥ ३ ॥ क्रान्तिपातो व्यतीपातोवैधृतिः परिवार्थकम्। भानोः संक्रान्तिभोगश्चकुलिकश्चार्धयामकः ॥ ४ ॥क्रूरैर्मुक्तं युतं भोग्यं सराहुशिखिधूमितम्।विष्ण्यं ग्रहणगं पापैर्विद्धं सौम्यैश्चपादतः ॥ ५ ॥ विष्टिः क्रूरयुतं लग्नं लग्नेशो रिपुमृत्युग। जन्मतो दुःस्थितश्चचन्द्रो लग्नस्थो निधनोपगः ॥ ६ ॥ जन्मभाज्जन्मलग्नाच्च लग्नलग्नांशकाष्टमौ।पापयोर्मध्यगं लग्नं क्षीणेन्दुः कुलवांशकः ॥७॥ क्रूरवारे पापहोरा-दुष्टयोगाग्रहोद्भवाः। तिथिवृद्धिक्षयौभानां नाडिका विषसंज्ञिताः ॥८ ॥एते दोषाःसमाख्याताः शुभकर्मणि गर्हिताः।दशारिष्टोद्भवाश्चान्ये गोचरस्थास्तथा परे॥ ९ ॥ लतैकार्गलचण्डास्त्रकालवेलाश्च पञ्चकम। मृत्युयोगोपग्रहाद्याः स्वे स्वेदेशेऽतिनिन्दिताः ॥ १० ॥ माण्डव्य—सिंहस्थिते सुरगुरावधिमासके च ज्येष्ठेतथाऽऽद्यतनयस्य च कन्यकायाः।कुर्वीत नास्तगतनीचगयोर्विलग्नजन्मेशयोश्च निखिलान्यपि मङ्गलानि ॥ ११ ॥

इति त्याज्यप्रकरणम्।

_____

अथ दोषफलप्रकरणम्।

वसिष्ठः—फुलिफे मरणं विद्याद्धार्हस्पत्येऽर्थनाशनम्। यामार्धे नाशमाप्नोति

कालवेला भयप्रदा ॥१ ॥माण्डव्यः—सर्वमङ्गलविध्वंसी याने सर्वापहारकः। व्याकुली कुलिकेऽभ्यङ्गे भोजनेऽन्नं विपायते ॥ २॥ ज्योतिष्प्रकाशे—कुलिकेन भवेन्मृत्युर्यामार्धेन यशःक्षयः। विष्ट्या भ्रंशोऽर्कसंक्रान्त्या वैरं पातेन बन्धनम् ॥३ ॥ कश्यपः— वत्सरायनमासर्तुसंधिर्दैन्यप्रदः शुभे। तिथिसंधौमनस्तापो धिष्ण्यसंधौ महद्भयम् ॥ ४ ॥ योगसंधौ श्रमस्तीव्रो लग्नसंधौ सुखक्षयः। तिथिलग्नभगण्डान्ते कार्यनाशः क्षतिर्मृतिः ॥ ५ ॥ निषिद्धचरणे रोगो निन्धयोगे कलिर्भवेत्। वैधृतौव्यतिपाते च हानिर्वा मृत्युरेव वा ॥ ६ ॥मिथ्याभिदूषणं दुष्टयोगे तिथिभवारजे। चण्डायुधेऽस्त्रजंदुःखं वैरमेकार्गलेमहत् ॥ ७ ॥ लत्तायां वाहनात्पातःकलिर्दग्धतिथौ भवेत्। विषनाड्यां विषाद्भीतिरपमृत्युरथापि वा \।\। ८ \।\। विघ्नं स्यात्पापकर्तर्यांसमांशे मरणं ध्रुवम्। पापविद्धे च नक्षत्रे व्याधिः शोको धनक्षयः ॥ ९ ॥ धूमिते भे भवेद्व्याधिर्दग्धेकार्यं न सिध्यति। ज्वलिते मृत्युरेव स्याद्विद्धे विघ्नं समादिशेत् ॥१० ॥ रजोत्पत्तौ मृतिंविद्याद्रोगं पित्रोः क्षयेऽहानिःपरिघे रोधवन्धौ च व्यतीपातेकुलक्षयः ॥ ११ ॥ वैधृतौ जीवहानिः स्याद्ग्रहणर्क्षेपराभवः। क्षीणेन्दौदीर्घरोगश्च पापहोरा विरोधकृत् ॥ १२ ॥ तिथिक्षये मानहानिस्तिथिवृद्धौ पराद्भ्यम्। अस्तं गते लग्नपतौव्याधिराधिर्धनक्षयः ॥ १३ ॥ लग्ने क्रूरयुतेनाशश्चाष्टमे च तनुक्षयः। चतुर्थे जायते वैरं जन्मतो व्ययगे व्ययः ॥ १४ ॥दुष्टस्थानस्थिते चन्द्रे राशेर्लग्नात्सुखक्षयः। मृत्युयोगे कालयोगे कर्तुर्नाशः प्रजायते ॥ १५ ॥ जन्मर्क्षे सुखहानिः स्यात्कालिर्जन्मतिथावपि। जन्ममासे भयं घोरं जन्मलग्नं शुभावहम् ॥ १६ ॥ गात्रभङ्गः क्षये मासे विग्रहस्त्वधिमासके।व्यसनं गोचरोत्थे च दशारिष्टे च बन्धनम् ॥ १७ ॥ षष्ठो लग्नाधिपो नूनं स्वयमेव रिपुर्भवेत्। अष्टमो मृत्युकृच्चैव व्ययगो व्ययकारकः ॥ १८ ॥ब्रह्मर्षिः—परिवेषं दिग्धूमं दिग्दाहं दुर्दिनं च नीहारम्। निर्घातं ग्रहयुद्धं प्रतिमायां स्वेदनं महीकम्पम् ॥ १९॥ रात्रौ सुरेन्द्रचापं संध्यायामासुरं शिवारावम्।उल्कापतनं दिवसे देशादेर्नाशनं जगदुः ॥ २० ॥

इति दोषफलाध्यायः।

_____

अथापवादप्रशंसा।

फलप्रदीपे—कृते गुणाः स्युर्बलिनः फलौ तु दोषाः समा मध्ययुगद्वयेऽपि।अतोऽपावादेन विना न दोषा गुणैः समं यान्ति युगे चतुर्थे॥ १ ॥ ज्योति-

र्विवरणे—न दोषाः कार्यहन्तारो ह्यपवादैरपोहिताः73। दिव्ये सत्परतं नूनं नहि दग्धं क्षमोऽनलः ॥ २ ॥ बृहस्पतिः—गुणो वा यदि वा दोषो दुर्बलो नष्टतांव्रजेत्। स एव पुनरुत्कुष्टवीर्यवान्स्वफलप्रदः ॥ ३ ॥ माण्डव्यः—दोषाणां चगुणानां च तारतम्यं विचार्यते। बलाबलविभागेन पश्चात्कात्कालं समादिशेत् ॥ ४ ॥ गर्गः—यत्सामान्यं विशेषेण बाध्यते तद्विलुप्यते। यत्र नास्ति विशेषत्वं तत्रसामान्यमाचरेत् ॥ ५ ॥ज्योतिर्विवेके—श्रूयते च महान्दोषः श्रूयते च महत्फलम्।फलं तत्र परित्याज्यं दोषो हि बलवान्भवेत् ॥ ६ ॥बृहस्पतिः—दोषाश्च गणिताःसर्वे गुणेभ्यो बहवः कलौ।तथाऽपि दोषा नश्यन्ति स्वापवादैर्गुणैरपि ॥ ७ ॥दोषाश्च स्वापवादैस्तु ह्यशुभाः शुभतां ययुः। यथा पापा ययुः सर्वे प्रायश्चित्तरभावताम् ॥ ८ ॥ ज्योतिष्प्रकाशे—यथाऽग्निर्मेघधाराभिस्तूलराशिस्तु मारुतैः।सदाचारेण पापानि व्याधयस्तुसदौषधैः ॥ ९ ॥तथा दोषा विनश्यन्ति ह्यपवादैर्यथोदितैः। बलिभिर्वा गुणैः प्रौढैस्तद्विना स्वफलं ददुः ॥ १० ॥

इत्यपवादप्रशंसा।

_____

अथ महादोषनिरूपणम्।

नारदः—पञ्चाङ्गशुद्धिरहितो दोषस्त्वाद्यः प्रकीर्तितः। उदयास्तशुद्धिरहितोद्वितीयः सूर्यसंक्रमः ॥ १ ॥ तृतीयः पापषड्वर्गो भृगुः षष्ठः कुजोऽष्टमः।गण्डान्तंकर्तरी रिप्फः षडष्टेन्दुश्च सग्रहः ॥२ ॥ दंपत्योरष्टमंलग्नं राशेर्विषघटी तथा दुर्मुहूर्तो वारदोषः खार्जूरिकसमाङ्घ्रिभम् ॥ ३ ॥ ग्रहणोत्पातभं क्रूरविद्धर्क्षं क्रूरसंयुतम्।कुनवांशी महापातो वैघृतिश्चैकविंशतिः ॥ ४ ॥ फलप्रदीपे-महादोषा विवाहे च वैधव्यं भङ्ग आहवे। विद्यारम्भे च मूर्खत्वं यात्रायां मार्गरोधनम् ॥ ५ ॥ व्रते च कर्मबाह्यत्वं रोगश्च क्षुरकर्मसु। नवान्नप्राशने भैक्ष्यं गृहारम्भे सुखक्षयः ॥ ६ ॥ दैन्यं गेहप्रवेशे च बन्ध्यात्वं गर्भशोभने। कृषिकर्मणिवैफल्यं ग्रामकार्ये नृपोऽपरः ॥ ७ ॥राज्यनाशः प्रतिष्ठायामग्न्याघानेऽग्निनाशनम्।पट्टाभिषेके दारिद्र्यं हानिर्वाणिज्यकर्मणि ॥ ८ ॥विरोधः स्वामिसेवायां हरणं चविभूषणे।दारिद्र्यं मरणं हानिं सर्वकार्ये विदुर्बुधाः ॥ ९ ॥ ज्योतिश्चिन्तामणौ—महादोषे कृतं कर्म महादोषकरं भवेत्। तस्माच्छुभेषु कार्येषु महादोषान्परित्यजेत् ॥ १० ॥

एषां लक्षणानि।

नारदः—तिथिवारर्क्षयोगाणां करणस्य च मेलनम्। पञ्चाङ्गमस्य शुद्धिस्तु

पञ्चाङ्गशुद्धिरीरिता ॥ ११ ॥ यस्मिन्पञ्चाङ्गदोषोऽस्ति तस्मिल्लग्नं निरर्थकम्।त्यजेत्पञ्चेष्टिकं वाऽपि विषसंयुक्तदुग्धवत् ॥ १२ ॥ पञ्चाङ्गापवादः—योगस्य हेम करणस्य च धान्यमिन्दोः शङ्खं च तण्डुलमणी तिथिवारयोश्च।ताराबलायलवणं वसु गां च राशेर्दद्याद्द्विजाय कनकं शुचि नाडिकायाः ॥ १३ ॥ लग्नलग्नांशकौस्वस्वपतिना वीक्षितौ युतौ।नचेद्वाऽन्योन्यपतिना शुभमित्रेण वातथा ॥ १४ ॥ वरस्य मृत्युः स्यात्ताभ्यां सप्तसप्तोदयांशकौ। एवं तौ न युतौ दृष्टौमृत्युर्वध्वाः करग्रहे ॥ १५ ॥ कश्यपः—त्रिप्रकारेण सा शुद्धिर्न चेल्लग्नंचनिन्दितम्। अपि पञ्चेष्टिकं लग्नमनेकगुणसंयुतम् ॥ १६ ॥ त्यजेद्यथा शुना घ्रातंतथा हव्यं घृतप्लुतम् ॥ नारदः—त्याज्याः सूर्यस्य संक्रान्तेः पूर्वतः परतः सदा।विवाहादिषु कार्येषु नाड्यः षोडश षोडश ॥ १७ ॥ कश्यपः—यत्कृतं मङ्गलंतत्र नाशमायात्यसंशयम् \।\। १८ \।\। सापवादः षड्वर्गःषड्वर्गप्रकरणस्थो ज्ञेयः। नारदः—भृगुषष्ठाह्वयो दोषो लग्नात्षष्ठगते सिते। उच्चमे शुभसंयुक्ते तल्लग्नंसर्वदात्यजेत् ॥ १९ ॥ कश्यपः—नीचगे तत्तुरीये वा शत्रुक्षेत्रगतेऽपि वा। भृगुषष्ठाह्वयोदोषो नास्ति तत्र न संशयः ॥ २० ॥ नारदः—कुजाष्टमो महादोषो लग्नादष्टमगे कुजे।शुभत्रययुतं लग्नं त्यजेत्तत्तुङ्गगे यदि ॥ २१ ॥ कश्यपः—अस्तगे नीचगेभौमे शत्रुक्षेत्रगतेऽपि वा। कुजाष्टमोद्भवो दोषो न किंचिदपिविद्यते ॥ २२ ॥गण्डान्तविचारः—पूर्णानन्दाख्ययोस्तिथ्योः संधिर्नाडीद्वयं सदा। गण्डान्तं मृत्युदं जन्मयात्रोद्वाहव्रतादिषु ॥ २३ ॥ कुलीर-सिंहयोःकीटचापयोर्मीनमेषयोः।गण्डान्तमन्तराले स्याद्घटिकार्थंमृतिप्रदम् ॥ २४ ॥ सार्पेन्द्रपौष्णभे-ष्वन्त्यपोडशांशाभसंधयः। तदग्रभेष्वाद्यपादा भानां गण्डान्तसंज्ञिताः ॥ २५ ॥उग्रं च संधित्रितयं गण्डान्तत्रितयं महत्। मृत्युप्रदं जन्मयानविवाहस्थापनादिषु ॥ २६ ॥ सूर्यसिद्धान्ते-सार्पेन्द्रपौष्णधिष्ण्यानामन्त्यपादाभसंथयः। तदग्रभेषु पादार्थेगण्डान्तं नाम कीर्त्यते ॥ २७ ॥ रत्नकोशे - आद्यः पितृमूलाश्विषु पौष्णेन्द्रभुजङ्गभेषु चान्त्यभवः। षोडशभागो नेष्टस्तावत्कालस्तु गण्डान्तः ॥ २८ ॥मूलाश्विनीमधानां प्रथमांशे संस्थिता तु यमदंष्ट्रा। भुजगेन्द्ररेवतीनामन्त्ये सैवापरा घोरा ॥ २९ ॥ लल्लः—अन्त्यः सार्पेन्द्रपौष्णानामाद्यः पित्राश्विमूलजः।जन्मोद्वाहप्रयाणे च मृत्यवेऽमी पडंशकाः ॥ ३० ॥ ज्योतिःसागरे - अश्विनीपौष्णमूलादौत्रिवेदनवनाडिकाः ३।४।९।रेवतीशाक्रसार्पान्ते मासशक्रशिवास्त्यजेत् १२।१४।११ ॥ ३१ ॥ राजमार्तण्डः—यामं यवनाधिपतिस्तदर्धभागं च मागुरिः प्राह।दण्डप्रमितं गण्डंपूर्वं परतोऽङ्गिरामीशः ॥ ३२ ॥ मूले

मघाश्विचरणे प्रथमे च नूनं पौष्णेन्द्रयोश्च फणिनश्चरणे चतुर्थे। मातुः पितुः स्ववपुषोऽपि करोति नाशं जातो यदा निशि दिनेऽप्यथ संध्ययोश्च॥ ३३ ॥ रत्नमालायां—पौष्णाश्विन्योः सार्पपित्राख्ययोश्च यच्च ज्येष्ठामूलयोरन्तरालम्। तद्गुण्डान्तं स्याच्चतुर्नाडिकं हि यात्राजन्मोद्वाहकालेष्वनिष्टम् ॥ ३४ ॥ ज्योतिर्विवरणे—इह सर्वत्र कालादेरपकर्षो य ईरितः। स एव दोषाधिकताकथनार्थस्तु केवलम्॥ ३५ ॥ गर्गः—मघायाः प्रथमे पादेमूलस्य प्रथमे तथा। रेवत्याश्च चतुर्थेंऽशेविवाहः प्राणनाशनः ॥३६ ॥ भिन्नवाक्यव्यवस्थावचनं ज्योतिःसागरे—कथयति वराहमिहिरो विलोक्य वाक्यानि गण्डविषये च। गण्डं दण्डप्रमितं पूर्वं पश्चात्तयोर्मध्यात् ॥ ३७ ॥

अथ गण्डान्तापवादः।

च्यवनः—तिथ्यादीनां संधिदोषं तथा गण्डान्तसंज्ञितम्। हन्ति लाभगतश्चन्द्रःकेन्द्रमा वा शुभग्रहाः ॥ १ ॥

इति गण्डान्तापवादः।
_____

अथ कर्तरीविचारः।

ज्योतिःसागरे-पापमध्यगते चन्द्रे पापसंपर्कगेऽपि वा। शुभकर्म न कर्तव्यंतथा लग्ने कदाचन ॥ १ ॥ भवति यदा तुहिनांशुः क्रूरद्वयमध्यगो विलयेवा। यात्रादीनि तदानीं नोपदिशेदिष्टकर्माणि ॥ २ ॥ भास्करव्यवहारे—क्रूरयोःसौम्ययोर्वाऽन्तर्लग्नं वा यदि वा शशी।विवाहे कर्तरी ज्ञेया शुभक्रूरान्तरे तथा॥ ३ ॥ फलप्रदीपे—क्रूरयोः कर्तरी नेष्टा महाविघ्नप्रदा ध्रुवम्।सौम्ययोर्नातिदुष्टा स्यान्मध्यमा पापसौम्ययोः ॥ ४ ॥ लल्लः—क्रूरयोरितरयोश्च कर्तरी नोशुभा तनुशशाङ्क्योर्न तत्।लग्नमाह शुभयोश्चकर्तरी पापयोश्च शुभमध्यवर्तिनी॥ ५ ॥ नारदः—लग्नाभिमुखयोः पापग्रहयोर्ऋजुवक्रयोः। सा कर्तरीति विज्ञेयादंपत्योर्गलकर्तरी ॥ ६ ॥कर्तरीदोपद्रुष्टं यल्लग्नं तत्परिवर्जयेत्। अपि सौम्यग्रहैर्युक्तं गुणैः सर्वैः समन्वितम् ॥ ७ ॥

अथ कर्तर्यपवादः।

विधौ धनोपगे शुभग्रहेऽथ चान्त्यगे गुरौ।न कर्तरी भवत्यहो जगादचादरायणः ॥ १ ॥ क्रूरद्वयस्यान्तरगं विलग्नं मृतिमढं चन्द्रमसं व रोगदम्।शुभैर्धनस्थैरथ वाऽन्त्यगे गुरौ न कर्तरी स्यादिह भार्गवा विदुः ॥२॥बृहस्पतिः—लग्नद्विरिष्फगौ क्रूरौत्रयमेतत्समांशगम्। तदा कर्तरिजो दोषो

नान्यथा भावजं फलम् ॥ ३ ॥ राजमार्तण्डे—लग्नस्य पृष्ठाग्रमयोरसाध्वोः साकर्तरी स्यादृजुवक्रगत्योः। तावेव शीघ्रौ यदि वक्रचारौ न कर्तरी चेति वदन्तिगार्ग्याः ॥ ४ ॥ व्यये मार्गगतिः क्रूरो वक्री क्रूरो धने यदि।तौ च लग्नांशतुल्यौ चेत्तदा घोराख्यकर्तरी ॥ ५ ॥ महाविघ्नप्रदा ज्ञेया विवर्ज्या शुभकर्मणि।इति सत्यपि लग्नं चेच्छुभाढ्यं नैव दोषकृत् ॥ ६ ॥ क्रूरकर्तरिसंयुक्तं लग्नं चन्द्रंन च त्यजेत्। केन्द्रत्रिकोणसंस्थेषु गुरुभार्गववित्सु च ॥७ ॥बादरायणः— नहि कर्तरिजो दोषः सौम्ययोर्यदि जायते। शुभग्रहयुतं लग्नं क्रूयोर्नाऽस्तिकर्तरी ॥ ८ ॥ पापयोः कर्तरीकर्त्रोर्नीचराशिगृहस्थयोः। यदा चास्तगयोर्वाऽपिकर्तरी नैव दोषदा ॥९॥ वसिष्ठः—एकार्गलोपग्रहपातलत्ताजामित्रकर्तर्युदयादिदोषाः।नश्यन्ति चन्द्रार्कबलोपपन्ने लग्ने यथाऽर्काभ्युदयेऽन्धकारः ॥ १० ॥

इति कतर्यपवादः।

_____

अथ षडष्टरिष्फचन्द्रदोषः।

नारदः—षडष्टरिष्फगे चन्द्रे लग्नाद्दोषः स्वसंज्ञकः। तल्लग्नंवर्जयेद्यत्नाज्जीवशुक्रसमन्वितम् ॥ १॥ उच्चगे नीचगे वाऽपि मित्र शत्रुराशिगे।अपिसर्वगुणोपेतं दंपत्योर्मृत्युदं यतः ॥ २ ॥

अथ षडष्टरिष्फचन्द्रापवादः।

मुहूर्तदर्पणे कवौगुरौ वा वलिनि स्थिते तनौ शुभेन दृष्टः शुभवर्गगः शशी।विवर्धमानः शुभकृच्च नो शुभं करोति तिष्ठन्नपि वाऽष्टरिष्फयोः ॥ १ ॥

अथ संग्रहदोषः।

नारदः—शशाङ्के ग्रहसंयुक्तेदोषः संग्रहसंज्ञकः। तस्मिन्संग्रहदोषे तु विवाहंनैव कारयेत् ॥१ ॥ मुहूर्तदर्पणे—भूषाद्भयं रिपुभयं व्यसनं प्रवासं वित्तक्षयंविदरणं च शुभक्रियासु। कर्तुः करोति शशभृत्क्रमशोऽर्कपूर्वैरेवं ग्रहः सहविशन्नुडुमेकराशौ ॥२॥ दारिद्र्यं रविणा कुजेन मरणं सौग्येन न स्युः प्रजादौर्भाग्यं गुरुणा सितेन सहिते चन्द्रे च सापत्नकम्।प्रव्रज्याऽर्कसुतेनसेन्दुजगुरौ वाञ्छन्ति केचिच्छुभं द्व्याद्यैर्मृत्युरसद्ग्रहैःशशियुतैर्दीर्घप्रवासःशुभैः॥ ३ ॥ नारदः—प्रव्रज्या सूर्यपुत्रेण राहुणा कलहः सदा।केतुनासंयुते चन्द्रे नित्यं कष्टदरिद्रता ॥४ ॥स्वक्षेत्रगः स्वोच्वगो वा मित्रक्षेत्रगतोयदि। पापद्वययुतश्चन्द्रः करोनि मर्णं तयोः ॥ ५ ॥

अथ संग्रहापवादः।

गुरुःस्वकीयवर्गस्थो बलवान्कण्टकस्थितः। पश्यन्स क्रूरशीतांशुतं दोषं विलयं नयेत् ॥ १ ॥ नारदः—शुभग्रहयुते चन्द्रे स्वोच्चस्थे मित्रराशिगे। दोषाय न भवेल्लग्नं दंपत्योः प्रेयसे सदा ॥२ ॥संग्रहे प्रोक्तनक्षत्रे विवाहो नैवशोभनः।राशिभेदे न दोषः स्यादेकतारास्वपीन्द्र सः ॥ ३ ॥ एकस्मिन्नपि धिष्ण्ये भिन्नेराशौ खलग्रहे शशिनि। तच्चन्द्रर्क्षेकुर्याद्विवाहयात्रादिकं सर्वम् ॥ ४ ॥ बृहस्पतिः - विधौ शुभरते74 सौम्यैदृष्टे वर्गे निजे सताम्।सक्रूरे75 दुस्थितं दोषं व्यपोहति विधुस्तदा ॥ ५ ॥

अथाष्टमलग्नदोषः।

शाकल्यसंहितायां—शान्तिकं पौष्टिकं विद्यादानभोजनपूर्वकम्। जीवितेच्छुर्नकुर्वीत जातु लग्नेष्टमे स्वभात् ॥ १ ॥ फलप्रदीपे-त्यजन्ति वै नैधनभं तथैकेतदंशकं चोभयमेव चान्ये। तस्मात्स्वजन्मर्क्षविलग्नयोश्च लग्नांशकौनैधनगौविवर्ज्यो॥ २ ॥ वसिष्ठः - यस्याष्टलग्नेतदधीश्वरे वा राशौ तदंशेऽथ विलग्नगेवा।स मृत्युमाप्नोतितदा मनोजस्त्रिनेत्रभालाम्बकवह्निनेव ॥ ३ ॥ नारदः —दंपत्योर्द्वादशंलग्नं राशिर्वा यदि लग्नगः। अर्थहानिस्तयोरस्मात्तदंशस्वामिनं76त्यजेत् ॥ ४ ॥ जन्मराश्युद्गमो नैव जन्मलग्नोदयः शुभः। तयोरुपचयस्थानं यदिलग्नमतं शुभम् ॥ ५ ॥ कश्यपः — दुष्टं स्वजन्मलग्नं तज्ज्जन्मराशिरनिष्टदः। लग्न -गानि तयोः स्थानाच्छुभान्युपचयानि वै ॥ ६ ॥ वसिष्ठः- जन्मोदयर्क्ष निधनंविलग्ने तदीश्वरेणा77पगतेऽथवा स्यात्। कृतो विवाहो भयमृत्युकारी त्रातुं विधाताऽपि न तान्समर्थः ॥ ७ ॥ तस्मात्स्वजन्मर्क्षनवांशयोश्चलग्नांशको नैधनगोविवर्ज्यः ॥ ८ ॥

अथाष्टमलग्नापवादः।

वसिष्ठः— जन्मेशाष्टमलग्नेशौमिथो मित्रे व्यवस्थितौ।जन्मराश्यष्टमस्थोत्थदोषो नश्याते भावजः ॥ १ ॥ दोषविवेके- अन्योन्यमित्रे यदि जन्मरन्ध्रराशीश्वरौ चेदपि चैकदेशः। जन्मर्क्षतो रन्ध्रविलग्नदोषो नश्येत्तदा द्वादशतुर्यहोरा ॥ २ ॥ चूडामणौ— लग्नं चालिवृषं त्याज्यमष्टमं शुभकर्मसु। तत्राप्येकेश78ताऽस्त्येव ततः शस्तं न दोषकृत् ॥ ३ ॥ न दोषोऽष्टमलग्नस्य यदि जन्मेशर-

न्ध्रपौ।सुहृदौचेत्तदाकार्यंमङ्गलं मुनयो विदुः॥ ४ ॥ बृहस्पतिः—चतुर्थंद्वादशं लग्नं शस्तं यदि गुणान्वितम्। अष्टमं तु न कर्तव्यं यदि सर्वगुणान्वितम् ॥ ५ ॥ अयं निषेधो जन्मेशरन्ध्रपौ वैरिणौ यदा। परस्परं ततो मित्रेतदा दुष्टफलं न हि ॥ ६ ॥ मुहूर्तदर्पणे—स्वकीयजन्माष्टमराशिपत्योर्मैत्र्यां नजन्माष्टमराशिदोषः। जन्मेशकर्मेश्वरमित्रभावः क्षिणोति वैनाशिकदोषमुग्रम् ॥ ७ ॥

अथ विषनाडीदोषः।

तिथीषुनागाद्रिगिरीशवारिधिगजाद्रिदिक्पावकदिक् च भास्कराः। मुनीभसंख्याः प्रथमातिथेः क्रमात्परं विषाख्यं घटिकाचतुष्टयम् ॥८ ॥विंशच्चतुर्द्वादशदिक् च शैला वाणाश्च तत्त्वानि यथाक्रमेण।सूर्यादिवारेषु भवत्यनन्तरंनाड्यो विपाख्यं घटिकाचतुष्टयम् ॥ ९ ॥ नारदः—खमार्गणा ५० वेदपक्षाः २४ खरामा ३० व्योमसागराः४०।वार्धिचन्द्रा १४ रूपदस्राः२१ खरामा३० व्योमवाहवः २० ॥ १० ॥ द्विरामाः ३२ खाग्नयः ३० शून्यदस्रा २० कुञ्जरभूमयः१८। रूपपक्षा २१ व्योमदस्रा२० वेदचन्द्रा १४ श्चतुर्दश १४ ॥ ११ ॥शून्यचन्द्रा १० वेदचन्द्राः१४ षडक्षा ५६ वेदबाहवः २४।शून्यदस्राः२०शून्यचन्द्राः१० पूर्णचन्द्रा १० गजेन्दवः १८ ॥ १२ ॥ तर्कचन्द्रा १६ वेदपक्षाः१४ खरामा ३० श्चाश्विभात्क्रमात्। आभ्यः पराः स्युर्घटिकाश्चतस्रो विषसंज्ञिताः। विवाहादिषु कार्येषु विषनाडीस्तु वर्जयेत् ॥ १३ ॥फलप्रदीपे—यात्राविवाहादिषु मङ्गलेषु सर्वेषु नूनं विषनाडिकाश्च। कुर्वन्ति कर्तुर्मरणं हि शीघ्रं कृतप्रमाणायुष एव धात्रा79 ॥ १४ ॥ विषघटिकोक्तध्रुवका नक्षत्रगतैष्ययोगसंगुणिताः। खरसहृताः स्पष्टाः स्युस्ताभ्यो घटिकाचतुष्टयं चतथा ॥ १५ ॥ अन्यथा पञ्चपञ्चाशद्भोगपक्षे मूलस्य विषघटिकाभाव एव।

अथ विषनाड्यपवादः।

फलप्रदीपे-विषनाड्युत्थितं दोषं हन्ति सौम्यर्क्षगः शशी।मित्रदृष्टोऽथ वा स्वीयवर्गस्थो लग्नगोऽपि वा ॥ १ ॥ बृहस्पतिः—चन्द्रो विषघटीदोषं हन्ति केन्द्रत्रिकोणगः।लग्नं विना शुभैर्दृष्टः केन्द्रे वा लग्नपस्तथा ॥ २ ॥

अथ दुर्मुहूर्तदोषः।

नारदः—भास्करादिषु वारेषु ये मुहूर्ताश्च निन्दिताः। अपि सर्वगुणोपेतास्ते वर्ज्याः सर्वमङ्गले ॥ १ ॥ एतत्सर्वंमुहूर्तप्रकरणस्थं ज्ञेयम्।

अथ वारदोषः।

महेश्वरः—मार्तण्डोदयतः स्मृता दिनपतेर्यामार्धनाथा ग्रहा मार्तण्डात्मजभोगउत्तरलवस्तज्ज्ञैः शुभे कर्मणि। त्याज्योऽसौ कुलिकोऽथ सूर्यदिवसादन्यैश्च शक्रार्कदिग्वस्वङ्गाब्धियमैः स्मृताः कुरहितैरात्रौ तु तिथ्यंशकैः॥ १ ॥ दीपके-दशेन्द्रौ रवौनागसूर्यौ हिमांशौ दशर्तू कुजे वेदनागौ च सौम्ये। गुरौ द्व्यङ्गभूषा भृगौ वेदशक्रौ नृपार्काश्विनो मन्दवारे च कालः ॥ २ ॥ एतेऽपि सत्कर्मणि वर्जनीया दिवा निशायामपि षोडशंशाः।नृपांशकं पञ्चदशांशकं वानान्यो गुणः कश्चिदपाकरोति ॥ ३ ॥ रत्नकोशे– ये द्युवारास्ते नागा दिवायथोक्तास्तथैव ते रात्रौ। कालः कुलिको ज्ञेयः सरोजशङ्खोक्तवेलायाम् ॥ ४ ॥ छायाघटीचतुर्भागो नाड्यर्धमुदयः स्मृतः। वेलानाडीत्रिभागस्तु शेषः कालः प्रकीर्तितः ॥ ५ ॥ छायोदयस्तु वेला कालश्चेति प्रकीर्तितो मुनिभिः।कुलिकश्चतुरङ्गोऽयं ज्ञेयः स्वयशोर्विना विदुषा ॥६ ॥ महतीं पीडां क्लेशं मृत्युसमामापदं तथा मृत्युम्। कुलिकः करोति नियतं चतुर्विधोऽयं यथोद्दिष्टः ॥ ७ ॥ चूडारत्ने—वेदाद्रिद्विशराष्टाग्निरसा80 यामार्धकाः क्रमात्।आदित्यादौ शुभे त्याज्या दिवैव न तु निश्यपि \।\। ८ \।\। संहिताप्रदीपे—यथा दिवार्धप्रहरा न शस्तास्तथैवरात्रावपि81 केचिदूचुः। व्येको निशायां शुभदोऽय वर्ज्यो दिवार्धयामस्तुमतं बहूनाम् ॥ ९ ॥ श्रीपतिः—अहनि निशि गजांशः स्वो दिनेशादिकानां भवति तुगुरुभौमज्ञार्किकाले क्रमेण।प्रभवति यमघण्टः कण्टकः कालवेलाकुलिकइतिविरुद्धस्तत्परार्धं निषिद्धम् ॥ १० ॥

अथ कुलिकाद्यपवादः।

बृहस्पतिः — वारेशे सबलेवाऽपि बलाढ्ये लग्नगे शुभे। कुलिकोदयदोषस्तु विनश्यति नसंशयः॥ १ ॥ तत्प्रधीशे बलोपेते निधौ वा बलसंयोते। अर्थप्रहरसंभूतो दोषो वै नात्र विद्यते ॥२ ॥शुभे केन्द्रगते82 चन्द्रे शुभांशे वा शुभेक्षिते।लग्नगे सबले वापि कुलिकस्तु विलीयते ॥ ३ ॥ अर्धप्रहरपूर्वार्धंमध्यं83 तुयमघण्टके।कुलिकान्त्यघटीं त्यक्त्वा शेषेषु शुभमाचरेत् ॥४ ॥नारदः—मुहूर्तपापषड्वर्गकुनवांशग्रहोत्थिताः। ये दोषास्तान्निहन्त्येव यत्रैकादशगः शशी ॥ ५ ॥ दुर्लग्नदुर्मुहूर्तोत्थादुर्निमित्तांशजातयः।ते सर्वे विलयं यान्ति केन्द्रस्थाने बृहस्पतौ ॥ ६ ॥

अथैकार्गलादिदोषः।

एकार्गलः समाङ्घ्रिश्चेत्तत्र लग्नं विवर्जयेत्।अपि शुक्रेज्यसंयुक्तं विषसंयुक्त-

दुग्धवत् ॥१ ॥ग्रहणोत्पातभं त्याज्यं मङ्गलेषु ऋतुत्रयम्।यावच्च रविणाभुक्त्वा मुक्तभं दग्धकाष्ठवत् ॥ २ ॥ एतत्सर्वं नक्षत्रप्रकरणस्थं ज्ञेयम्।

अथ कुनवांशः।

तुलामिथुनकन्यांशा धनुरन्त्यार्घसंयुताः। एते नवांशाः शुभदा यदि नान्त्यांशकाः खलु ॥ १ ॥ अन्त्यांशास्तेऽपि शुभदा यदि वर्गोत्तमाहयाः। अन्येनवांशा न ग्राह्यायतस्ते कुनवांशका ॥२ ॥कुनवांशकलग्नं यत्त्याज्यं सर्वगुणान्वितम्। एते नवांशा विवाहे।यस्मिन्यस्मिन्कार्येये नवांशा उक्तास्तेभ्योऽन्ये तस्मिंस्तस्मिन्कार्ये कुनवांशा इति ज्ञेयम्।

अथ नवांशापवादः।

लग्नदोषांशदोषा ये दोषाः षड्वर्गजाश्च ये। हन्ति ताल्लँग्नगो जीवो मेघसंघमिवानिलः ॥ १ ॥

अथ पातदोषनिर्णयः।

संहिताप्रदीपे—ब्रह्मणोऽन्ते ध्रुवस्याऽऽदौ प्रायः पातस्य संभवः। स तु मङ्गलकार्याणि विनाशयति निश्चितम् ॥१ ॥भौमपराक्रमे—वैधृतिव्यतिपातौ यौक्रान्तिसाम्येऽर्कचन्द्रयोः। सत्कर्मारम्भणं तत्र मरणं व्यसनं विदुः ॥ २ ॥मार्तण्डे — एष्यो धनं क्षपयतिव्यतिपातयोगो मृत्युं ददाति नचिरादध वर्तमानः।संतापशोकगदविघ्नगदान्यतीतस्तरमाद्दिनत्रयमपि प्रजहीत विद्वान् ॥ ३॥सहिताप्रदीपे-त्यजन्ति केचित्तिथिमृक्षमेके वारं तथा पातविदुष्टमन्ये। माङ्गल्यकार्येषु न शोभनं स्याद्दिनत्रयं केचिदपि ब्रुवन्ति ॥ ४ ॥ शार्ङ्गधरः - विषप्रदग्धेन हतस्य पत्रिणा मृगस्य मांस शुभदं क्षतादृते। यथा तथैव व्यतिपातयोगेक्षणोऽत्र दुष्टो न तिथिर्नवारः ॥ ५ ॥ ज्योतिर्विवरणे- नो भं तिथिं च वारं चत्यजेत्पातविदूषितम्।त्यजेत्क्रान्त्यन्तरं यावत्तद्दोषस्तावदेव हि ॥ ६ ॥ ग्रहप्रदीपे -मानैक्यखण्डादयमान्तरेऽल्पे शुभानि कार्याणि निहन्ति पातः।स्नाने जपेहोमविधौ च दाने करोत्यनन्तं फलमेव कर्तुः ॥ ७ ॥

इति श्रीज्योतिर्निबन्ध एकविंशतिदोषाध्यायः।

_____

अथ भद्रपवादः।

गर्गः—क्रमायाताऽक्रमायाता भद्रा त्याज्या प्रयत्नतः। गुणघ्नी भ्रंशदा यस्मान्न गुणैरपि हन्यते ॥ १ ॥ तथाऽप्युत्सुककार्येषु पराधीनेषु संकटे।भद्रायां विपरीतायां न दोषः कार्यसाधने ॥ २ ॥ ब्रह्मयामले - दिवा भद्रा यदा

रात्रौ रात्रौभद्रा यदा दिवा। न त्याज्या शुभकार्येषु प्राहुरेवंपुरातनाः॥ ३ ॥ बृहस्पतिः—विष्टिस्तु सर्वदा त्याज्या क्रमेणैवाऽऽगता तु या।अक्रमेणाऽऽगता भद्रा सर्वकार्येषु शोभना \।॥ ४ ॥ भाधधीये—विष्टिर्यदाऽहनितिथेरपरार्धजाता पूर्वार्धजा निशि तदा शुभदा च पुच्छे। तत्कालभूरपि निजोदययामवाह्या ग्राह्या शुभे बलिनि लग्नपतौ निजांशे ॥ ५ ॥ज्योतिष्प्रकाशे —दिवा सर्पमुखी भद्रा रात्रौ वृश्चिकयुच्छिका।वृश्चिकस्य विषंपुच्छे सर्पस्य वदने विषम् ॥६ ॥स्वकालजा महामारी कल्याणी भिन्नकालजा।महामारी दहेत्सर्वंकल्याणी मङ्गलप्रदा ॥ ७ ॥ तस्मात्सर्वप्रयत्नेनशुभकार्ये विषं त्यजेत्। मानार्धतोऽत्र विज्ञेयं मुखं पुच्छंबुधैः सदा ॥ ८ ॥भूपालः—कीटकुम्भद्वये भूस्था कौर्ष्याजद्वितयेद्युगा।कन्याचापद्वये चन्द्रेभद्रा पातालवासिनी ॥ ९ ॥ कन्यातुलामकरधन्विषु नागलोके मेषालिवैणिकवृषेषु सुरालये स्यात्। पाठीनसिंहघटकर्कटकेषु मर्त्ये चन्द्रे वदन्ति मुनयस्त्रिविधां च विष्टिम् ॥ १० ॥ रुद्रयामले—दाने वाऽन्नाशने चैव घातपातादिकर्मसु। खराश्वप्रसवे भद्रा भद्राऽन्यत्र न शस्यते ॥ ११ ॥ रत्नकोशे—धन्या त्वधोमुखी भद्रा महामारी खरानना।कालरात्रिर्महारौद्री विष्टिश्चाकुलपुत्रिणी॥ १२ ॥ भैरवी च महाकाली दैत्यानां च क्षयंकरी। द्वादशैतानि नामानि प्रातरुत्थाय यः पठेत् ॥ १३ ॥ न तु व्याधिर्भवेत्तस्य रोगी रोगात्प्रमुच्यते।ग्रहाः सर्वेऽनुकूलाः स्युस्तस्यविघ्नं न जायते ॥ १४ ॥ रणे राजकुले द्यूते सर्वत्र विजयी भवेत्। सर्वार्थसिद्धयस्तस्य भवन्त्यत्र न संशयः ॥ १५ ॥लल्लः - कराली नन्दिनी रौद्री सुमुखी दुर्मुखी तथा।त्रिशिरा वैष्णवी हंसीत्यष्टावेतासु विष्टयः \।\। १६ \।\। शुक्लपक्षादितो ज्ञेया नामसंज्ञा यथोदिताः।स्तोतव्याः पूजनीयास्ता नैरस्तद्दोषशान्तये ॥ १७ ॥

इति भद्रापवादः।
_____

अथ कालहोरापवादः।

गर्भः—क्रूरवारे क्रूरहोरा न शस्ता इति मङ्गले। नातिदुष्टा शुभे वारेरात्रौस्वल्पफला मता ॥ १ ॥ वैद्यनाथः—न लग्नं सचतुर्वर्ग दृश्यते कालहोस्या।अपि षड्वर्गसंयुद्धं कुलिकेन विहन्यते \।\। २ \।\।

अथ पञ्चकदोषः।

ब्रह्मयामले—गततिथियुतलग्नं पञ्चघा कर्मभूमौतिथिरविदशनागाम्भोधि-

युक्तं क्रमेण।नवहृतमिपुशेषं शोभने वर्जनीयं रुगनलनृपचोर २मृत्युर्दपञ्चकंस्यात् ॥१ ॥ ज्योतिश्चिन्तामणौ—तिथिवारभलग्नाङ्को रसा ६ ग्न्य ३ ब्जा १ ष्ट ८ बेद ४ युक्। नन्दा ९ प्तः पञ्चशेषे रुग्वह्निराट्चोरमृत्युकृत् ॥२ ॥यद्वा गताहलग्नाङ्कःसदा मृत्यर्दिवाऽग्निराट्।रुक्चौरौनिशि शेषैक्ये नवाप्तेनागपञ्चकम् ॥३ ॥ संक्रान्तिभाद्भवतियेष्टविलग्नसंख्या मासादियाततिथिभिःसहिताङ्कभक्ता। स्याच्छेपके खलु शुभे कुसुमैः क्रमेण मृत्य्वग्निभूमिपतितस्कररोगभीतिः ॥ ४ ॥

अथ पञ्चकापवादः।

रवौ रोगं कुजे वह्निं शनौ नृपपञ्चकम्। वर्ज्यं पुनः कुजे चोरं बुधवारेच मृत्युदम् ॥ १ ॥ सदाऽर्कवारे त्यज रोगपञ्चकं सोमे नृपस्याऽऽरदिनेऽग्निपञ्चकम्। गुरौ तु चोरस्य भृगौ मृतिप्रदं बुधे शनौ पञ्चकदुष्टता न हि ॥ २ ॥ज्योतिष्प्रकाशे - रोगं चोरं त्यजेद्रात्रौ दिवा राजाग्निपञ्चकम्।उभयोः संध्ययोर्मृत्युमन्यकाले न निन्दितम् ॥ ३ ॥ नागमृत्यू सदा त्याज्ये संध्ययोर्वाह्लिकैर्जनैः84। तत्रापि यत्र लग्नं चेद्बलाढ्यं तच्च निष्फलम् ॥४ ॥बृहस्पतीन्दभौमार्कशुक्रवारेषु पञ्चकम्। चोरे85 नाग्निरुजो मृत्युसंज्ञितं वर्जयेच्छुभे ॥ ५ ॥नृपाख्यं नृपसेवायां गृहे गोपेऽग्निपञ्चकम्।याने चोरं व्रतेरोगं त्यजेन्मृत्युंकरग्रहे ॥ ६ ॥

इति पञ्चकापवादः।

_____

अथ संधिविचारः।

शौनकः—स्यात्संधिकालो वर्षादेः पष्ट्यंशो मुनिभिः स्मृतः। अवसाने प्रवृत्तौ च तावन्मित्रफलं भवेत् ॥ १ ॥ अब्दायनर्तुसंधौदिनमेकं वर्जयेच्छुभेकार्ये। संध्यायां तिथिगण्डान्ते धिष्ण्ये नाडिद्वयं संधिः ॥ २ ॥ सिद्धान्त शिरोमणो - शशितनुविकलाभ्यश्चन्द्रभुक्त्येन्दुभान्वोर्गतिविवरकलाभिर्भूय एताभिरेव।पृथगथ गतियुत्या नाडिकासंधिराप्ता भतिथिकरणयोगानां86 फलं तत्रमिश्रम् ॥ ३ ॥ बृहस्पतिः—प्राकृतोऽब्दो गुरोरब्दः सौराब्दस्त्रिविधाः सभाः। तेषामादौ तथा चान्त्ये त्र्यहं चैव शुभे त्यजेत् ॥४ ॥च्यवनः—तिथ्यादीनां संधिदोषं तथा गण्डान्तसंज्ञकम्। हन्ति लाभगतश्चन्द्रः केन्द्रगा वा शुभग्रहाः ॥ ५ ॥

इति संधिविचारः।
_____

अथोक्तानुक्तदोषाणामपवादः।

नारदः—अनुक्ताः स्वल्पदोषाः स्युर्विद्युन्नीहारवृष्टयः।प्रत्यर्कपरिवेषेन्द्रचापाम्बुधरगर्जनाः ॥ १ ॥ लत्तोपग्रहपाताख्या मासदग्धाह्वया तिथिः। दग्धलग्नान्धबधिरषड्गुसंज्ञाश्च राशयः ॥ २ ॥ एवमाद्या यतस्तेषां व्यवस्था क्रियतेऽधुना। अकालजा भवन्त्येता विद्युन्नीहारवृष्टयः ॥ ३ ॥ प्रत्यर्कपरिवेषेन्द्रचापाभ्रध्वनयोयदि।दोषाय मङ्गले नूनमदोपायैव कालजाः ॥ ४ ॥ सौराष्ट्रशाल्वदेशेषु87पतितं भमुपग्रहम्। चाह्निके कुरुदेशे चान्यस्मिन्देशे न दूषणम् ॥ ५ ॥ तिथयोमासदग्धाख्या दग्घलग्नानि तान्यपि।मध्यदेशे विवर्ज्यानि न दूष्याणीतरेषुतु ॥ ६ ॥ षङ्ग्बन्धकाणलग्नानि मासशून्याश्चराशयः। गौडमागधयोस्त्याज्या अन्यदेशे न गर्हिताः ॥ ७ ॥ माण्डव्यः—ये दोषा ग्रहयोगदृष्टिजनिता ये मासपक्षोद्भवा ये जामित्रमुहूर्तवारविहिता येऽर्कार्किवक्रैःकृताः। ये चैव ग्रहलत्तयैव विहिता ये दुष्टलत्तोत्थितास्तान्हत्वा शुभदौ सुरासुरगुरू केन्द्रत्रिकोणस्थितौ ॥८ ॥ लग्नांशदोषा ग्रहजातदोषा वर्गोद्भवास्तिथ्युडुयोगजाताः। केन्द्रत्रिकोणेषुसितज्ञजीवैर्नश्यन्ति सिंहैरिव नागयूथम् ॥ ९ ॥ उल्कानिपातपरिवेषशिवाश-नीनांविद्युद्विकालघनगर्जितदुर्दिनानाम्। नीहारवृष्टिकुचलप्रतिभास्कराणां दोषो विनश्यति सितेज्ययुते विलग्ने ॥ १० ॥ उत्पातपातपरिघप्रतिसूर्यबिम्बोत्थाकालवृष्टिघनगर्जितमारुतानि। दिग्धूमदाहपरिवेषकु-कम्पचापदोषाः क्षयं ययुरमर्त्य-गुरौविलग्ने ॥ ११ ॥ वसिष्ठः—ये लग्नदोषाः कुनवांशदोषाः पापैः कृता दृष्टिनिपातदोषाः। लग्ने गुरुस्नान्विमली करोति फलं यथाऽम्भः कतकद्रुमस्य ॥ १२ ॥नक्षत्रदोषं कुनवांशदोषं गण्डान्तदोषं पञ्चमुहूर्तदोषम्।विरुद्धपञ्चांशविलग्नदोषंनिशाकरो लाभगतो निहन्ति ॥ १३ ॥ लल्लः—लग्ने गुरुः सौम्ययुगीक्षितो वालग्नाधिपो, लाभगतो, यथा, स्यात्। कालाख्यहोरा तु यदाशुभा, चेन्द्रवेशदोषस्य तदा हि भङ्गः ॥ १४ ॥ बृहस्पति—गुरुः सर्वगुणोपेतो लग्नात्केन्द्रेस्ववर्गगः। दोषाणां लक्षहन्ता स्पाल्लग्नस्थः—सर्वदोषहा ॥ १५ ॥ शुक्रो दशसहस्राणि बुधो दशशतानि च। लक्षमेकं च दोषाणां गुरुः केन्द्रे व्यपोहति ॥ १५ ॥केन्द्रगो वा त्रिकोणे वा ज्ञो वा शुक्रोऽथवा गुरुः। सर्वदोषान्हरत्येव पापं विष्णोः स्मृतिर्यथा ॥ १७ ॥ स्वोच्चेस्ववर्गे सद्भावे शुभः पापोऽपि वा भवेत्। उदितोदोषविच्छेत्ता हरिरेको यथा गजान् ॥ १८ ॥ आग्नेयाख्यगृहेष्वेको विक्रमायारिगो बली।स्वतुङ्गमःस्ववर्गस्थो दोषसंघविनाशनः ॥ १९ ॥ तिथिभग्नहवा-

रादौ ये दोषाश्चोदिताः परैः। ते सर्वे नाशमायान्ति जीवशुक्रेक्षणोदये ॥ २० ॥नारदः—गुरुरेकोऽपि केन्द्रस्थः सकलं दोषसंचयम्। विनाशयति धर्मांशुरुदितस्तिमिरं यथा ॥ २१ ॥ एकोऽपि लग्नगः काव्यो गुरुर्वा यदि वा बुधः। नाशयत्यखिलान्दोषांस्तूलराशिमिवानलः ॥ २२ ॥ गुरुरेकोऽपि केन्द्रस्थः शुक्रो वा यदि वा बुधः। दोषसंघं निहन्त्येव केसरीवेभसंहतिम् ॥ २३ ॥ नाशयत्यखिलान्दोषान्यत्रैकादशगो रविः। गङ्गायां स्नानतो भक्त्या सर्वपापमिवाचिरात्॥ २४ ॥ लग्नलग्नांशनाथौद्वौ वाऽऽयगौ वाऽपि केन्द्रगौ।राशिं निहन्तिदोषाणामिन्धनानीव पावकः ॥ २५ ॥ उक्तानुक्ताश्च ये दोषास्तान्निहन्ति बलीगुरुः। केन्द्रत्रिकोणगो वाऽपिशुक्रो विष्णुर्यथाऽसुरान् ॥ २६ ॥ बृहस्पतिः -लग्नाधिपो यदा केन्द्रे लग्नादुपचयेऽथवा88। शुभो वाऽप्यथवा क्रूरस्तदा दोषालयं ययुः ॥ २७ ॥ यस्य दोषस्य यः कर्ता स्ववर्गे स्वोच्चगोऽपि वा। शुभदृष्टःस एकस्थं दोषं संहरति स्फुटम् ॥ २८ ॥ नारदः -परित्यज्य महादोषाञ्शेषयोर्गुणदोषयोः। गुणाधिकः स्वल्पदोषः सकलो मङ्गलप्रदः ॥२९ ॥दोषो नप्रभवत्येको गुणानां परिसंचये।एको यथा तोयविन्दुरुदर्चिषिहुताशने ॥ ३० ॥एवं संचिन्त्य गणितशास्त्रोक्तं लग्नमानयेत्। तल्लग्नं जलयन्त्रेण दद्याज्ज्यौतिपिकोत्तमः ॥ ३१ ॥

इत्युक्तानुक्तदोषापवादः।

_____

अथ दोषापवादभङ्गः।

सामान्येनोदिता दोषा भङ्गास्तेषां तु तद्विदैः। यदि ते बलहीनाश्चेत्प्रध्वंसाभावतां ययुः ॥ १ ॥ जन्मर्क्षाज्जन्मलग्नर्क्षादपवादकरो ग्रहः। तत्काले यदिदुस्थाने दोषभङ्गक्षमो न सः ॥ २ ॥

इति श्रीज्योतिर्निबन्धे दोषापवादाध्यायः।

_____

अथ मौढ्यादिविचारः।

वृत्तशते—बालः शुक्रो दिवसदशकं पञ्चकं चैव वृद्धः पश्चादह्नां त्रितयमुदितःपक्षमैन्द्यां क्रमेण। जीवो वृद्धः शिशुरपि सदा पक्षमन्यैः शिशू तौवृद्धौ प्रोक्तौदिवसदशकं चापरैः सप्तरात्रम् ॥१ ॥माण्डव्यः—त्यजेद्दशाहं शिशुवृद्धयोश्च सितेज्ययोश्चेतिवदन्ति89 गर्गाः। कालांशतुल्यानि दिनादि चैके सप्ताहमन्ये त्वपरे

त्रिरात्रम् ॥ २ ॥ संहिताप्रदीपे—स्यात्सप्तरात्रं गुरुशुक्रयोश्च बालत्वमह्नांदशकंच चार्ध्यम्।वृद्धौ सितेज्यावशुभौ शिशुत्वे शस्तौ यतस्तावुपचीयमानौ॥ ३ ॥ कालनिर्णये—वापीकूपतडागयानगमनं चौलं प्रतिष्ठां व्रतं विद्यामन्दिरकर्णवेधनमहीदुर्गं वनं सेवनम्।तीर्थस्नानविवाहशान्तिवनं मन्त्राग्निदेवेक्षणं देवेज्ये चजिजीविषुः परिहरेदस्तं गते भार्गवे ॥ ४ ॥ ब्रह्मपुराणे—यथा स्वेर्मण्डलमेतिकाव्यो विनष्टतेजा गुरुरप्यथैवम्।कालस्य दीक्षाव्रततीर्थयात्रायज्ञोत्सवानां चविनाशकृत्स्यात् ॥ ५ ॥ रस्नकोशे—अस्तमिते भृगुतनये नारी म्रियते बृहस्पतौपुरुषः। दंपत्योः सह मरणं ह्युदितेकेतौ करग्रहणे90 ॥ ६ ॥ नष्टे चन्द्रे तथा शुक्रे नष्टे चैव बृहस्पतौ।मङ्गलानि तयोद्वाहं त्वरितोपि न कारयेत् ॥ ७ ॥

अथास्तापवादः।

गर्गः—नित्ययाने गृहे जीर्णे प्राशने परिधानके।वधूप्रवेशमाङ्गल्ये न मौढ्यंगुरुशुक्रयोः ॥ १ ॥ भृगुः—उपाकर्मोपसर्जनं पवित्रं दमनार्पणम्। अवरोहःसमेहन्तः सर्पाणां बलिरष्टका ॥ २ ॥ ईशानस्य बलिर्विष्णोः शयनं परिवर्तनम्।कुर्याच्छुक्रस्य च गुरोर्मौढ्येऽपीति विनिश्चयः ॥ ३ ॥ धर्मप्रदीपे —गोदावर्यां गयायां च श्रीशैले ग्रहणद्वये। अयने विपुवे चैव चातुर्मास्यव्रतेषु च ॥ ४ ॥ उत्सवेषु च सर्वेषु सीमन्तक्रतुकर्मसु।सुरासुरेज्ययोश्चैव मौढ्यदोषो न विद्यते॥ ५ ॥ कालनिर्णये—नष्टे शुक्रे तथा जीवे सिंहस्थे च बृहस्पतौ। कार्या चैवस्वदेवार्चा प्रत्यब्दं कुलधर्मतः ॥ ६ ॥ कालविवेके—न शुक्रदोषो न सुरेज्यदोषस्तारावलं चन्द्रबलं न योग्यम्।उद्वाहिताया नवकन्यकाया दीपोत्सवो मङ्गलशोभनानि ॥ ७ ॥ मत्स्यपुराणे—मौढ्येऽपि च प्रकर्तव्या मिश्रजातिक्रियाःशुभाः।सुरेज्यशुक्रयोर्वर्णक्रियाश्चौलादिकान च ॥ ८ ॥ संहितासारे—यदाऽस्तमायाति गुरुर्भृगुर्वा बाध्यै च बालत्यमकीर्णजातेः। चौलादिकार्याणि शुभानिन स्युः संकीर्णजातेश्च गुभावहानि ॥ ९ ॥ गर्गः—गुरुभार्गवयोरस्तदोषो जातिचतुष्टये।नैव संकरजातीनां शिशुत्वं बार्धकं तथा ॥ १० ॥

अथ तीर्थयात्रानिषेधः।

बाले वा यदि वा वृद्धे शुक्रेचास्तमुपागते। मलमास श्वैतानि वर्जयेद्देव दर्शनम् ॥ १ ॥ व्यासः —अधिमासेच जन्मर्क्षे नष्टयोर्गुरुशुक्रयोः।तीर्थयात्रा नकर्तव्या गयां गोदावरीं विना ॥ २ ॥

अथ पर्वेशसाधनम्।

** **दिग्बाणभूमियुक्शाको91 दस्रघ्नः पञ्चसंयुतः। नगतष्टो भवेत्पर्वपतिर्ब्रह्मादिको गतः ॥ १ ॥ रविगुणिते शककाले माससमेतेऽक्षिसागरविभक्ते।यल्लभ्यन्ते भगणाः शेषे मुनिभाजिते च पर्वेशाः ॥ २ ॥

अथ पर्वेशादिफलानि।

वाराह्यां—षण्मासोत्तरवृद्ध्या पर्वेशाः सप्त देवताः क्रमशः। ब्रह्मशशीन्द्रकुबेरावरुणाग्नियमाश्च विज्ञेयाः ॥ १ ॥ ब्राह्मे द्विजपशुवृद्धिः क्षेमारोग्याणि सस्यसंपच्च।तद्वत्सौन्ये तस्मिन्पीडा विदुषामवृष्टिश्च ॥ २ ॥ ऐन्द्रे भूषविरोधःशारदसस्यक्षयो न च क्षेमम्। कौबेरेऽर्थपतीनामर्थविनाशः सुभिक्षं च ॥ ३ ॥वारुणमवनीशानामन्येषां92 क्षेमसस्यवृद्धिकरम्।आग्नेयं मित्राख्यं सस्यारोग्याभयाम्बुकरम् ॥ ४ ॥ याम्यं करोत्यवृष्टिं दुर्भिक्षं संक्षयं च लोकानाम्।यदतःपरं तदशुभं क्षुन्मारकावृष्टिदंपर्व ॥ ५ ॥ पूर्वाह्णे वाऽपराह्णे वा वेलाहीनंतदुच्यते। मध्याह्ने परवेलायां त्रयो वेलागुणाः फलम् ॥ ६ ॥ वेलाहीने पर्वणगर्भविपत्तिश्च शस्त्रकोपश्च।अतिवेले कुसुमफलक्षयो भयं सस्यनाशश्च॥ ७ ॥हीनातिरिक्तकाले फलमुक्तं पूर्वशास्त्रदृष्टत्वात्। स्फुटगणितविदां कालः कथंचिदपि नान्यथा भवतिं ॥८॥ यद्योकस्मिन्मासे ग्रहणं रविसोमयोस्तदाक्षितिपाः। स्ववलक्षोभैः संक्षयमायान्त्यतिशस्त्रकोपश्च ॥९॥ ग्रस्तावुदितास्तमितौ शारदधान्यावनीश्वरक्षयदौसर्वग्रस्तौ93दुर्भिक्षमरक(ण)दौ पापसंदृष्टौ॥ १० ॥ अर्धोदितोपरक्तो नैकृतिकान्हन्ति यज्ञांश्च। अग्न्युपजीविगुणाधिकविप्राश्रमिणो युगाभ्युदितः ॥११॥ कर्षकपाखण्डवणिक्क्षत्रियबल-नायकान्द्वितीयेंऽशे। कारूकशूद्रम्लेच्छान्खतृतीयेंऽशे समन्त्रिगणान् ॥१२॥ मध्याह्णे नरपतिमध्यदेशहाऽ-शोभनश्चधान्यार्धः। तृणभुगमात्यान्तःपुरवैश्यघ्नः पञ्चमे खांशे ॥१३॥ स्त्रीशूद्रान्षष्ठेंऽशे दस्युप्रत्यन्तहाऽस्तमयकाले। यस्मिन्खांशेमोक्षस्तत्प्रोक्तानांशिवं भवति ॥ १४ ॥ द्विजनृपतीनुदगयने विट्शूद्रान्दक्षिणायनेहन्ति।राहुरुदगादिदृष्टः प्रदक्षिणं हन्ति विप्रादीन् ॥ १५ ॥ म्लेच्छान्विदिक्स्थितो यायिनश्च हन्याद्भुताशसक्तांश्च।सलिलचरदन्तिघाती याम्येनोदग्गवामशुभः ॥ १६ ॥पूर्वेण सलिलपूर्णां करोति वसुधां समागतो दैत्यः।पश्चात्कर्षकसेवकबीजविनाशाय निर्दिष्टः ॥ १७ ॥ पाञ्चालकलिङ्गशूरसेनाःकाम्बोजोग्रकिरातशस्त्रवार्ताः। जीवन्ति च ये हुताशवृत्या ते पीडामुपयान्ति

मेषस्थे94 ॥ १८ ॥ गोपाः पशवोऽथ गोमिनो मनुजा ये च महत्त्वमागताः। तेपीडामुपयान्ति भास्करे ग्रस्ते शीतकरेऽपि वा वृषे ॥ १९ ॥ मिथुने प्रवराङ्गनानृपा नृपमात्रा बलिनः कलाविदः।यमुनातटजाः सवाह्णिका मत्स्याः सुह्मजनैः समन्विताः ॥ २० ॥ आभीराञ्छवरान्सपह्लवान्मल्लान्मत्स्यकुरुञ्छकानपि। पाञ्चालान्विकलांश्चपीडयत्यन्नं चापि निहन्ति कर्कटस्थे ॥ २१ ॥सिंहे पुलिन्दगणमेकलसत्त्वयुक्तान्राजोपमान्नरपतीन्वनगोचरांश्च।षष्ठे तु सस्यकविलेखकगेय-सक्तान्हन्त्यश्मकत्रिपुरशालियुतांश्च दौषान्॥२२॥ तुलाधरेऽवन्त्यपरान्त्यसाधून्वणिग्दशार्णान्मरुकच्छपांश्च। अलिन्यथोदुम्बरमद्रचोलान्द्रुमान्सयौधेयविषायु-धीयान्॥२३॥ धन्विन्यमात्यवरवाजिविदेहमल्लान्पाञ्चालवैद्यवणिजो विषमायुधज्ञान्। हन्यान्मृगे तु झषमन्त्रिकुलानि नीचान्मन्त्रौषधीषुकुशलान्स्थविरायुधीयान् ॥ २४ ॥ कुम्भेऽन्तर्गिरि-जान्सपश्चिमजनान्भारोद्वहांस्तस्करानामीरान्दर-दार्यसिंह-पुरकान्हन्यत्तथा वर्वरान्।मीने सागरकूलसागरजलद्रव्याणि मान्याज्जनान्प्राज्ञान्वार्युपजीविनश्चभफलं कूर्मोपदेशाद्वेदेत् ॥ २५॥गर्गः—ज्येष्ठा ब्राह्मं तथा मैत्रं प्राग्वैश्वं वासवं तथा। वैष्णवं वैश्वदेवं च पुरुहूतस्यमण्डलम् ॥ २६ ॥ मण्डलेऽस्मिन्समुत्पन्नं ग्रहणं जगतः शुभम्। आनन्दं सर्वजन्तूनां विदधाति विशेषतः ॥ २७ ॥ तिप्यमाजपदं चैव याम्यं भाग्यं च पैतृकम्। ऐन्द्राग्निदैवतं चैव सप्तैतान्यनलो गणः ॥ २८ ॥ अनले मण्डले दृष्टं ग्रहणचन्द्रसूर्ययोः। राज्ञां भयकरं विद्यात्मजानां बहुदोषकृत्॥ २९ ॥ आहिर्बुध्न्यंतथा पोष्णं मूलभाष्यं95 च शाङ्करम्। वारुणं सार्पदैवत्यं वारुणं मण्डलं स्मृतम् ॥ ३० ॥ एतस्मिन्नुपरागः स्यान्मण्डले रविसोमयोः।दुर्भिक्षमथ96 नाशश्च प्रजानामिति निश्रयः ॥ ३१ ॥ ऋक्षाणि चार्यमादीनि चत्वारि च पुनर्वसुः। सौम्यं चैवाश्विदेवत्यं वायव्यं मण्डलं स्मृतम् ॥ ३२ ॥ समरस्य भयं चैव दुर्भिक्षंकुरुतेऽचिरात्। व्याधिशस्रादिकोषश्च मण्डलेऽस्मिन्नुपप्लवः97 ॥ ३३ ॥कश्यपः—आग्नेये कारयेच्छान्ति कुर्यात्सर्वत्र वारुणे। वायव्ये शान्तिरिष्येत माहेन्द्रे न तुकारयेत् ॥ ३४ ॥ होरायां गृह्यते यस्य नक्षत्रे वा निशाकरः। प्राणसंदेहमाप्नोतिस वा मरणमृच्छति ॥ ३५ ॥ यस्य त्रिजन्मनक्षत्रे98 ग्रस्येते शशिभास्करौ। तज्जातानां भवेत्पीडा ये (ते) नराः शान्तिवर्जिताः ॥ ३६ ॥वराहः—सव्यापसव्यलेह-ग्रसननिरोधावमर्दनारोहाः। आघ्रातं मध्यतमस्तमोऽन्त्य इति ते दशग्रासाः ॥ ३७ ॥ सव्यगते तमसि जगज्जलप्लुतं भवति मुदितमभयं च। अप-

सात्प्राग्यत्काम्यमसमापितम्। आगते मलमासेऽपि तत्समाप्यमसंशयम् ॥ १३ ॥ कालविवेके—चीर्णव्रतानामनिषिद्धकाल आकाङ्क्षितं तत्परिपूर्णभावम्। व्रतोपवासादिफलाप्तिहेतौ निषिद्धकालेऽपि समाप्यमेतत् ॥ १४ ॥ मनुस्मृतौ—तीर्थश्राद्धं दर्शश्राद्धं प्रेतश्राद्धं सपिण्डनम्।चन्द्रसूर्यग्रहस्नानं मलमासे विधीयते ॥ १५ ॥

इत्यधिमासनिर्णयः।

_____

अथ क्षयमासनिर्णयः।

वृत्तशते—यत्र मासि रविसंक्रमद्वयं तत्र मासयुगलं क्षयाह्वयम्। व्योमरामदिवसैर्भवेच्छुभे यज्ञकर्मणि च वर्जयेत्तु तत् ॥ १ ॥ सिद्धान्तशिरोमणौ—गतोऽब्ध्यद्रिनन्दैर्मितेशाककाले ९७४ तिथीशै १११५ र्भविष्यत्यथाङ्गाक्षसूर्यैः१२५६।गजाद्य्रग्निभूमि १३७८ स्तथा प्रायशोऽयं कुवेदेन्दुवर्षैः१४१ क्वचिद्गोकुभिश्च १९ ॥२ ॥स्मृतिरत्नावल्याम्—एक एव यदा मासः संक्रान्तिद्वयसंयुतः। मासद्वयगतं श्राद्धं तस्मिन्नेव प्रशस्यते ॥ ३ ॥ बृहत्कालनिर्णये-तिथ्यर्धेप्रथमे पूर्वो द्वितीयेऽर्धे तयोत्तरः। मासाविति बुधैर्ज्ञेयौक्षयमासस्य मध्यगौ॥ ४ ॥ एतज्जन्ममासादिशानार्थविषयम्। अन्यत्रापि स्वकालसंभवे योज्यम्।कालनिर्णये- यस्मिन्राशौ गते सूर्ये विपत्तिः स्याद्विजन्मनः। तद्राशावेव कर्तव्यं प्रत्यब्दंतु मृतेऽहनि ॥ ५ ॥ फलप्रदीपे—क्षयमासो भवेद्यस्मिंस्तस्मिन्वर्षेऽथविग्रहः।दुर्भिक्षं वाऽथवापीडां राष्ट्रभङ्गं करोति वै ॥ ६ ॥ पक्षस्य मध्ये द्वितिथीविनष्टे महाहवं रौरवविग्रहं च। पक्षे विनष्टे नृपतिर्विनश्येन्मासक्षये म्लेच्छवती वसुन्धरा ॥ ७ ॥

इति क्षयमासनिर्णयः।

_____

अथ ग्रहणनिर्णयः।

विश्वाख्यनिर्णये—दिवा चन्द्रग्रहो रात्रौसूर्यपर्व न पुण्यदम्।संधिस्थं पुण्यदंज्ञेयं यावद्दर्शनगोचरः ॥ १ ॥ मेघच्छन्नेग्रहे स्नानाद्यधिकारोन विद्यते। इति यत्कीर्तितं तच्च निर्मूलत्यादुपेक्षितम् ॥ २॥ यथा वृक्षादिभिच्छन्ने स्नानायं क्रियतेग्रहे।वनैराच्छादितेतद्वत्स्नानादौनैव बाधकम् ॥ ३ ॥ स्पर्णमुक्तिनिमित्तं हिस्नानं च गणितागते।फाले कुर्वीत सूर्येन्द्वोर्मेघाच्छादितयोर्ग्रहे ॥४ ॥यावन्मुक्तं रवेर्विम्यं विधोर्वाऽपि न दृश्यते। तावन्न क्रियते स्नानं मौक्तिकंमनुरब्रवीत् ॥ ५ ॥ ग्रस्तोदिते ग्रहं ग्रस्तं दृष्ट्वा स्नानां समाचरेत्। ग्रस्तारते मौक्तिकंस्नानं मुक्त्वा (कं) दृष्ट्वा रविं विधुम् ॥ ६ ॥

अथ ग्रहणविधिः।

स्पर्शे स्नानं जपं कुर्यान्मध्ये होमं सुरार्चनम्। मुच्यमानेसदा दानंविमुक्तौ स्नानमाचरेत् ॥१॥ सूर्योदये— स्पर्शे स्नानं भवेद्धोमो ग्रस्तयोर्मुच्यमानयोः।दानं स्यान्मुक्तयोः स्नानं ग्रहे चन्द्रार्कयोविधिः ॥ २ ॥चतुर्विधतिमते—मुक्तौ यस्तु न कुर्वीत स्नानं ग्रहणसूतके।स सूतकी भवेत्तावद्यावत्स्यादपरोग्रहः ॥३॥ सूर्यग्रहे तु नाश्नीयान्पूर्वं यामचतुष्टयम्। चन्द्रग्रहे तु यामांस्त्रीन्वालवृद्धातुरैर्विना ॥४॥ सेवासूर्योदये—नाद्याच्चतुस्त्रीन्प्राग्यामात्रवीन्दुग्रहयामयोः।ग्रहकाले च नाश्नीियात्स्नाात्वाऽश्नीयाच्चमुक्तयोः ॥५॥ ग्रस्तास्तेऽन्यदिने दृष्ट्वाऽश्नीयाद्वृद्धातुरैर्विना।वेधोवृद्धातुरन्यर्भपुत्रिणां वामयुग्मकम् ॥६॥ चिन्तामणो— सायह्ने सङ्गवेऽश्नीयाच्छारदे संगवादध।मध्याह्ने परतोऽश्नीयान्नोपवासोरविग्रहे ॥७॥ सेवासूर्योदये—न सूतकादिदोषोऽत्रदानहोमजपादिषु।ग्रस्ते स्नायादुदक्याऽपि तीर्थादुद्धृतवारिणा ॥८॥ स्मृतिमहार्णवे—दशन्यां99 विनिवृत्तायां पाककर्म समारभेत्। श्राद्धे सूर्योदयादूर्ध्वं मुक्तयोः शशिसूर्ययोः ॥९॥ स्मृतिचन्द्रिकायाः— स्मार्तकर्मपरित्यागो राहोरन्यत्र सूतके। श्रौतकर्मणि तत्कालं स्नातः शुद्धिमवाप्नुयात् ॥१०॥ मन्वर्थमुक्तावल्याम्— अन्नं पक्षमिह त्याज्यं स्नानंसवसनं ग्रहे। वारितत्रारनालादि तिलैर्दर्मैर्न दुष्यति॥११॥ धर्मप्रदीपे–आरनालं पयस्तक्रं दधिस्नेहाज्ययाचितम्।मणिकस्थोदकं चैव न दुष्येद्राहुसूतके ॥१२॥ मेधातिथिः—सूतकेऽपि च संप्राप्ते यदि स्याद्राहुसूतकम्। न सूतकं भवेत्तावद्यावद्राहुर्न मुञ्चति ॥१३॥ सेवासूर्योदये— त्रयोदश्यास्तुमाङ्गल्ये दिनानां नवकं त्यजेत्।खण्डग्रहे ग्रहदिनं तथा पूर्वापरं दिनम् ॥१४॥नारदः— उत्पातग्रहणादूर्ध्वं सप्ताहमग्निलग्रहे। नाखिले त्रिदिनं नेष्टं नेष्टं तदमृतुत्रयम् ॥१५॥ कालविशेषेण वर्तनीयदिनान्यह— ग्रस्तास्तं100 विदिनंपूर्वं पश्चाद्ग्रस्तोदिनेतथा। सं त्र्यायां विदिनं नेष्टं निःशेषे सप्तसप्त च ॥१६॥ जोतिष्प्रकाशे—खग्रामसर्वपादोनखण्डाङ्घ्र्यल्पेतु वासराः। गजाश्वैष्वब्धिरामाब्जानेष्टाः प्राक्तद्दलग्रहे ॥१७॥ ज्योतिःसागरे—एकरात्रं परित्यज्य कुर्यात्पाणिग्रहं ग्रहे।सप्तरात्रं प्रयागं च त्रिरात्रं व्रतबन्धनम् ॥१८॥ एतद्वचनमावश्यकविषयम्।कालविवेके—प्रागेकाहंत्र्यहं पश्चात्तद्दिनंग्रहणस्य च। त्यजेद्गत्यन्तराभावेसर्वग्रासेऽपि कर्मणाम् ॥१९॥

अस्यापवादः।

भृगुः—मलमासेऽप्यनावृत्तं तीर्थस्नानं विवर्जयेत्। अनादिदेवतां द्रष्टुं शुचिःस्यान्नष्टभार्गवे ॥ १ ॥ तीर्थखण्डे—गुरुशुक्रास्तादिदोषः प्रोक्तो यस्तीर्थयातृणाम्।अपूर्वयायिनामेव न त्वसौ पूर्वगामिनाम् ॥ २ ॥ पितृखण्डे—शुक्रस्यास्तमनेचैव देवेज्यस्य तथैव च। प्रेतकार्यं प्रदुष्येत प्रथमं वत्सरं विना ॥ ३ ॥ माण्डव्यः—मलिने जन्ममासे वा मौढ्ये वा गुरुशुक्रयोः।तीर्थयात्रा न कर्तव्या गयां गोदावरीं विना ॥ ४ ॥ गारुडे—न कुर्याद्गुरुशुक्रास्ते पुण्ये स्वाषे मलिम्लुचे। विलम्बितं प्रेतकार्यं गयां गोदावरीं विना ॥ ५ ॥ गुरुभार्गवमौढ्ये च पुण्ये स्वाषे मलिम्लुचे। प्रेतकार्यं न कुर्वीत गयां गोदावरीं विना ॥ ६ ॥ मेधातिथिः—अस्तं गते गुरौ शुक्रे पुण्याषाढाधिमासके। प्रेतकार्यंन कुर्वीत गयां गोदावरीं विना ॥ ७ ॥ प्रेतमञ्जर्यां– प्रेतकार्याणि सर्वाणि व्रतस्नानजपादिकम्। वर्ज्यं शुक्रेज्ययोरस्ते गयां गोदावरीं विना ॥ ८ ॥

इति गुरुशुक्रयोर्मौढ्यादिविचारः।

_____

अथ प्रसङ्गाञ्चन्द्रास्तदोषः।

वृद्धत्वमिन्दोस्त्रिदिनं दिनार्धं बालत्वमस्तत्वमहर्द्वयं च। अस्ते विधौ मृत्युमुपैति कन्या वालेऽन्यसक्ता विधवा च वृद्धौ ॥१॥

अथ मलमासनिर्णयः।

सिद्धान्तशिरोमणौ–असंक्रान्तिमासोधिमासः स्फुटः स्याद्द्विसंक्रान्तिमासःक्षयाख्यः कदाचित्। क्षयः कार्तिकादित्रये नान्यतः स्यात्तदा वर्षमध्येऽधिमासद्वयं च ॥ १ ॥ पितामहः—अष्टाधिमासाः स्थुर्नित्यं प्रोच्यन्ते फाल्गुनादयः।सौम्यपौषौ क्षयौ नित्यं भवेतामिति निश्चितम् ॥ २ ॥ क्षयो वाऽप्यधिमासो पा स्यादूर्ज इति निश्चितम्।न क्षयो नाधिमासः स्यान्माघो वै परिकीर्तितः ॥ ३ ॥ पञ्च मासास्तु वैशाखादधिमासा व्यवस्थिताः। भवन्ति चाष्टभिर्वर्षैर्भवैर्वाऽङ्कनिशाकरैः ॥ ४ ॥ तथैव फाल्गुनश्चैत्र आश्विनः कार्तिकोऽधिकाः।एते किन्द्रैः१४१ शराङ्गै ६५ र्वा कदाचिद्गोकुवत्सरैः १९ ॥ ५ ॥ मार्ग—पौषौ क्षयौरयातां कदाचित्कार्तिको भवेत्। अधिमासस्तदा ज्येष्ठो भवेन्नित्यं क्षयो यदा ॥ ६ ॥ क्षयात्प्रागधिमासः स्यान्नित्यं भाद्रपदत्रये। आश्विनोर्जौसदा स्यातामादौ भाद्रपदः सकृत् ॥ ७ ॥ पौलिशसिद्धान्ते—स्फुटगत्या यथाचन्द्रो रविमण्डलनेमिगः \। तदूर्ध्वं संक्रमो भानोर्मासः स स्यान्मलिम्लुचः ॥ ८ ॥

कालनिर्णये— संक्रमो यदि भवेद्रवेस्ततो मण्डलाद्बहिरनिर्गते विधौ।उच्यते सरविसंक्रमो बुधैः शुद्धमास इतरो मलिम्लुचः ॥९॥ लल्लः—यदा शशी यातिगभस्तिमण्डलं दिवाकरः संक्रमणं करोत्यनु। विवाहयज्ञोत्सवनाशहेतुस्तदाऽधिमासः कथितः स्वयंभुवा ॥१०॥ रत्नमालायां श्रीपतिः—सवितृमण्डलमेति यदा शशी तदनु संक्रमणं कुरुते रविः। मखमहोत्सवनाशकरस्तदा मुनिवरैः कथितोऽधिकमासकः ॥११॥ शार्ङ्गपटले— चन्द्रार्कयोस्तु बिम्बैक्यं प्रतिपद्दर्शसंधिषु।तिथ्यन्तात्तदुभयतो रसनाड्योऽर्कमण्डलम् ॥१२॥ तन्मण्डलाच्छशी गच्छेत्ततः सूर्यस्य संक्रमः। मासोऽसौ मलिनः प्रोक्तस्तत्तद्धीनोऽधिकः स्मृतः ॥१३॥पितामहः—प्रतिपद्दर्शसंधौ तु बिम्बैक्यंसूर्यचन्द्रयोः।जवान्तराप्तं षष्टिघ्नं नाडिकाअर्कमण्डलम् ॥१४॥ ज्योतिष्प्रकाशे—दर्शान्त एकैः कथितोऽत्र मासः परैःप्रदिष्टो रविमण्डलान्तः। मतद्वये चेद्रविसंक्रमः स्यात्स एवं पूर्वस्य न चापरस्य॥१५॥ रत्नकोशे— प्रायशो न शुभश्चैव ज्येष्ठश्चाऽऽषाढ एव च। मध्यमौ चैत्रवैशाखावधिकोऽन्यः सुभिक्षकृत् ॥१६॥

अथ मलमासे कार्याकार्याणि।

कश्यपः—शुद्धे दैवानि कर्माणि कर्तव्यानि शुभानि च। मलिनेऽन्यानिचोक्तानि मासि पैत्राणि न्योभयोः ॥१॥ गर्गः–अग्न्याधेयं प्रतिष्ठां च यज्ञदानव्रतानि च। देवव्रतवृषोत्सर्गचूडाकरणमेखलाः ॥२॥ गमनं देवतीर्थानां विवाहमभिषेचनम्। यानं च गृहकर्माणि मलमासे विवर्जयेत् ॥३॥ सूर्यप्रदीपे—अवश्यकर्म मासाख्यं मलमासमृताब्दिकम्।तीर्थेभच्छाययोः श्राद्धं मद्यानङ्गपितृक्रियाम्101 ॥४॥ कुर्यान्मलिम्लुचे वर्षमध्ये चेत्स तदाऽधिकः। तत्र स्यान्मासिकं मृत्युमासात्स द्वादशो यदि ॥५॥ प्रेतक्रियां समाप्यात्र कुर्वीताभ्युदयंतदा। श्यामाकाग्रयणं कृच्छ्रेऽन्नस्यावर्ज्यमतोऽन्यथा ॥६॥काम्यारम्भं वृषोत्सर्गं पर्वोत्सवमुपाकृतिम्। मेखलाचौलमाङ्गल्याग्न्या- -धानोद्यापनक्रियाः ॥७॥ वेदव्रतमहादानाभिषेकान्वर्धमानकम्। इष्टंपूर्तं तथा यस्य विध्यलोपोऽन्यदाकृतौ ॥८॥ तत्सर्वमष्टकाद्यन्यदधिमासे विवर्जयेत्। सूतकेऽपि च कर्तव्यंस्नानाद्यं राहुदर्शने ॥९॥ पराशरस्मृतौ—गर्भे वार्धुषिके भृत्ये प्रेतकर्मणिमासिके। सपिण्डीकरणे नित्ये नाधिमासं विवर्जयेत् ॥१०॥ कात्यायनस्मृतौ—गर्भाधानादिका अन्नप्राशनान्ता मलिग्लुचे।आकर्णवेधाः स्युः क्रिया नान्याइत्याह भास्करः ॥११॥ आधानानन्तरं चान्वारम्भणीं चेष्टिमेव च। स्थालीपाकं च नो कुर्यात्पाकयज्ञान्मलिम्लुचे ॥१२॥ स्मृतिरत्नावल्यां—प्रवृत्तं मलमा-

सव्ये नरपतितस्करावभर्दैःप्रजानाशः ॥३८॥ जिह्वोपलेढि परितस्तिमिरनुदोमण्डलं यदि स लेहः। प्रमुदितसमस्तभूषाः प्रभूततोया च तत्र मही ॥३९॥ग्रसनमिति यदा त्र्यंशः पादो वा गृह्यतेऽथवाऽप्यर्धम्।स्फीतनृपवित्तहानिः पीडाच स्फीतदेशानाम् ॥४०॥ पर्यन्तेषु गृहीत्वा मध्ये पिण्डीकृतं तमस्तिष्ठेत्। सनिरोधो विज्ञेयः प्रमोदकृत्सर्वभूतानाम् ॥४१॥ अवमर्दनमिति निःशेषमेवसंछाद्य यदि चिरं तिष्ठेत्। हन्यात्प्रधानदेशान्प्रधानभूषांश्च तिमिरमयः ॥४२॥वृत्ते ग्रहे यदि तमस्तत्क्षममावृत्य दृश्यते भूयः। आरोहणमित्यन्योन्यमर्दनैर्भयकरं राज्ञाम् ॥४३॥ दर्पण इवैकदेशे सवाप्पनिश्वासमारुतोपहतः। दृश्येताऽऽघ्रातं तत्सुवृष्टिवृद्ध्यावहं जगतः ॥४४॥ मध्ये तमः प्रविष्टं वितमस्कं मण्डलंच यदि परतः।तन्मध्यदेशनाशं करोति कुक्ष्यामयं भयं चैव ॥४५॥ पर्यन्तेष्वतिवहलं स्वच्छं मध्ये तमस्तमोऽन्त्याख्ये। सस्यानामीतिभयं भयमस्मिस्तस्कराणांच ॥४६॥ श्वेते क्षेमसुभिक्षं ब्राह्मणपीडां च निर्दिशेद्राहौ। अग्निभयमनलवर्णेपीडा च हुताशवृत्तीनाम् ॥४७॥ हरिते रोगोल्वणता सस्यानामीतिभिश्च विध्वंसः।कपिले शीघ्रगसत्वम्लेच्छध्वंसोऽथ दुर्भिक्षम् ॥४८॥ अरुणकिरणानुरूपे दुर्भिक्षावृष्टयो विहगपीडा।आधूम्रे च क्षेमं सुभिक्षमादिशेन्मन्दवृष्टिंच ॥४९॥ कापोतारुणकपिले श्यामाभे क्षुद्रयं विनिर्देश्यम्।शूद्राणां व्याधिकरः कापोतः कृष्णवर्णश्च ॥५०॥ विमलकमणिपीताभोवैश्यध्वंसी भवेत्सुभिक्षाय।सार्चिष्मत्यग्निभयं गैरिकरूपे तु युद्धानि ॥५१॥ दूर्वाकाण्डश्यामेहारिद्रे चापि निर्दिशेन्मरणम्। अशनिभयसंप्रदायी पाटलकुसुमोपमो राहुः॥५२॥ पांमुविलोहितरूपः क्षत्रध्वंसाय भवति वृष्टेच।बालरविकमलसुरचापभृच्छस्त्रकोपाय ॥५३॥ पश्यन्ग्रस्तं सौम्यो घृतमधुतैलक्षयाय राज्ञां च। भौमः समरविमर्द शिखिकोपं तस्करभयं च ॥५४॥ शुक्रः सस्यविमर्दं नानाक्लेशांश्च जनयति धरित्र्याम्।रविजः करोत्यवृष्टिं दुर्भिक्षं तस्करभयं च ॥५५॥ यदशुभमवलोकनाद्यमुक्तं ग्रहजनितं ग्रहणे प्रमोक्षणे वा। सुरपतिगुरुणाऽवलोकिते तत्क्षयमुपयाति जलैरिवाग्निरिद्धः ॥५६॥ ग्रस्ते क्रमान्निमित्तैः102 पुनर्ग्रहो मासषट्कपरिवृद्ध्या। पवनोल्कापातरजःक्षितिकम्पतमोशनिनिपातः॥५७॥आवन्तिका जनपदाः कावेरीनर्मदातटाश्रयिणः। दृप्ताश्चमनुजपतयः पीड्यन्ते क्षितिसुते ग्रस्ते ॥५८॥ अन्तर्वेदी शरयूंनेपालं पूर्वसागरं शोणम्। स्त्रीनृपयोधकुमारान्सह विद्वद्भिर्बुधो हन्ति ॥५९॥ ग्रहणोपगते जीये विद्वन्नृपमन्त्रिहयगजध्वंसः। सिन्धुतटवासिनामप्युदग्दिशं संश्रितानां च ॥६०॥ भृगुतनये राहुगते

दशार्णकाः कैकयाः सयौधेयाः। आर्यावर्ताः शिवयः स्त्रीसचिवगणाश्चपीड्यन्ते ॥६१॥ सौरे मरुभवपुष्करसौराष्ट्रघातवोऽम्बुन्दान्त्यजनाः।गोमन्तपारियात्राश्रिताश्च नाशं व्रजन्त्याशु ॥६२॥ कार्तिक्यामनलोप- -जीविमगधान्प्राच्याधिपान्कौशलान्कल्माषानथशूरसेनसहितान्कशींश्च संतापयेत्। हन्याच्चाऽऽशुकलिङ्गदेशनृपतिं सामात्यभृत्यं तमो दृष्टुं क्षत्रियतापदं जनयति क्षेमं सुभिक्षान्वितम् ॥६३॥ काश्मीरकान्कोशलकान्सपुण्ड्रान्मृगांश्च हन्यादपरान्तकांश्च।ये सोमपास्तांश्च निहन्ति सौम्ये सुवृष्टिकृत्क्षेमसुभिक्षकृच्च॥६४॥ पौषेद्विजक्षत्रजनोपरोधाः ससैन्धवाख्याः कुकुरा विदेहाः। ध्वंसं व्रजन्त्यत्र चमन्दवृष्टिं भयं च विद्यादसुभिक्षयुक्तम् ॥६५॥ माघे तु मातृपितृभक्तवसिष्ठगोत्रान्स्वाध्यायधर्मनिरतान्करिणस्तुरङ्गान्। वङ्गाङ्गकाशिमनुजाश्चदुनोतिराहुर्वृष्टिं च कर्षकजनुमतां करोति ॥६६॥ पीडाकरं फाल्गुनमासि पर्ववङ्गाश्मकावन्तकमेकलानाम्। नृत्यज्ञसस्यप्रचुराङ्गनानां धनुर्धरक्षत्रतपस्विनां च॥६७॥ चैत्रे तु चित्रकरलेखकमेयसक्तख्योपजीविनिगमज्ञहिरण्यपण्यान्। पुण्ड्रोण्ड्रकैकयजनानथ वाऽश्मकांश्च तापःस्पृशत्यमरपोऽत्र विचित्रवर्षी ॥६८॥ वैशाखमासग्रहणे विनाशमायान्ति कार्षासतिलाः समुद्राः। इक्ष्वाकुयोधेयशकाःकलिङ्गनः सोपद्रवाः किं तु सुभिक्षमत्र ॥६९॥ ज्येष्ठे नरेन्द्रद्विजराजपत्न्यःसस्यानि वृष्टिश्च महागणाच। प्रध्वंसमायान्ति नराश्च सौम्याः शाल्वैःसमेताश्च निपादसंघाः ॥७०॥ आषाढपर्वण्युडुपानवप्रनदी प्रवाहान्फलमूलवार्तान्। गान्धारकाश्मीरपुलिन्दचीनान्हन्ता वदेन्मङ्गलवर्षमस्मिन्103 ॥७१॥काश्मीरान्सपुलिन्दचीनयवनान्हन्यात्कुरुक्षेत्रजान्गान्धारानपि मध्यदेशसहितान्दृष्टो ग्रहः श्रावणे। काम्बोजैकशफांश्च शारदमपि त्यक्त्वा यथोक्तानिमानन्यत्र प्रचुरान्नहृष्टमनुजैर्धात्रीं करोत्यावृताम् ॥७२॥ कलिङ्गवङ्गान्मगधा- -न्सुराष्ट्रान्म्लेच्छान्सुवीरान्दरदाश्मकांश्च।स्त्रीणां च गर्भानसुरो निहन्ति सुभिक्षकृद्भाद्रपदेऽभ्युपतः॥७३॥ काम्बोजचीनयवनान्सह शल्यहृद्भिर्वाह्लीकसिन्धुतटवासिजनांश्चहन्यात्।आनर्तपौण्ड्रभिषजश्चतथा किरातान्दृष्टोऽसुरोऽश्वयुजिभूरिसुभिक्षकृच्च ॥७४॥हनुकुक्षिपायुभेदाद्विध्वंसं छर्दनं च जरणं च। मध्यान्तयोश्च विदरणमिति दश शशिसूर्ययोर्मोक्षाः ॥७५॥ आग्नेय्यामथ गमनं दक्षिणहनुभेदसंज्ञितं शशिनः। सस्यविमर्दो मुखरुङ् नृपपीडा स्यात्सुवृष्टिश्च ॥७६॥पूर्वोत्तरेण वामो हनुभेदो नृपकुमारभयदायी। मुखरोगः शस्त्रभयं तस्मिन्विद्यात्सुभिक्षं च ॥७७॥

दक्षिणकुक्षिविभेदो दक्षिणपार्श्वेन यदि भवेन्मोक्षः।पीडा नृपपुत्राणामभियोज्या दक्षिणा रिपवः ॥७८॥ वामस्तु कुक्षिभेदो यद्युत्तरपार्श्वमास्थितो राहुः।स्त्रीणां गर्भविपत्तिः सस्यानि च तत्र मध्यानि ॥७९॥ नैरृतवायव्यस्थे दक्षिणवामौ तु पायुभेदौ द्वौ। गुह्यरुगल्पा वृष्टिर्द्वयोस्तु राज्ञीक्षयोवामे ॥८०॥पूर्वेण104 प्रग्रहणं कृत्वा प्रागेव चापसर्पेद्यत्। संछर्दनमिति तत्क्षेमसस्यहार्दिप्रदं जगतः ॥८१॥ प्राक्प्रग्रहणं यस्मिन्पश्चादपप्रहसर्पणं तु सज्जरणम्।क्षुच्छस्त्रभयोद्विग्नान शरणमुपयान्ति तत्र जनाः ॥८२॥ मध्ये यदि प्रकाशः प्रथमं तन्मध्यविदरणं नाम।अन्तःप्रकोपदं स्यात्सुभिक्षदं नातिवृष्टिकरम् ॥८३॥ पर्यन्तेषु विमलना बहुलं मध्ये तमोऽन्तदरणाख्यम्। मध्याख्यदेशनाशः शारदसस्यक्षयश्चास्मिन् ॥८४॥एते सर्वे मोक्षा वक्तव्या भास्करेऽपि किं त्वत्र। पूर्वा दिक् शशिनि यथा तथा रवौ पश्चिमा कल्प्या ॥८५॥ नारदः—दशैवग्रासभेदाः स्युर्मोक्षभेदास्तथा दश।न शक्ता वेदितुं देवाःकिं पुनस्तान्नराधमाः ॥८६॥मुक्तेःसप्ताहान्तः पांशुनिपातोऽन्नसंक्षयं कुरुते। नीहारो रोगभयं भूकम्पः प्रवरनृपमृत्युम् ॥८७॥ उल्का मन्त्रिविनाशं नानावर्णा घनाश्चभयमतुलम्। स्वनितं गर्भविपत्तिं विद्युन्नृपदंष्ट्रिपरिपीडाम् ॥८८॥ परिवेषोरुक्पीडां दिग्दाहो नृपभयं च साग्निभयम्। रूक्षो वायुः प्रवलश्चौरसमुत्येभयं दत्ते ॥८९॥ निर्घातः सुरचापं दण्डश्च क्षुद्भयं सपरिचक्रम्। ग्रहयुद्धे नृपयुद्धं केतुश्च तदैव संदृष्टः ॥९०॥ अविकृतसलिलनिपातैःसप्ताहान्तःसुभिक्षमादेश्यम्। यच्चाशुभं ग्रहणजं तत्सर्वं नाशमुपयाति ॥९१॥ सोमग्रहे निवृत्ते पक्षान्ते यदि भवेद्ग्रहोऽर्कस्य। तत्रानयः प्रजानां दंपत्योर्वैरमन्योन्यम् ॥९२॥ अर्कग्रहात्तु शशिनो ग्रहणं यदि दृश्यते ततो विप्राः। नैकक्रतुफलभाजो भवन्ति मुदिताः प्रजाश्चैव ॥९३॥

इति पर्वेशादिफलानि।

_____

अथ निजराशौ ग्रहणफलम्।

माण्डव्यः— निजराशेर्ग्रहणदिने त्रिषड्दशैकादशे शुभो राहुः। अपरे राहुं प्राहुर्जन्मगमशुभं परं शशिवत् ॥१॥ भृगुः–कष्टतरं जन्मभगं ग्रहणं पुंसां तथाऽष्टसप्तान्त्यम्। उपचयनं शुभद्रं स्यान्मध्यफलं द्वित्रिकोणबन्धुगतम् ॥२॥ फलप्रदीपे—ग्रहणं जन्मनक्षत्रं जायते चन्द्रसूर्ययोः।यस्य तस्याशुभं हानिर्वैरं रोगः

पराभवः ॥ ३ ॥ कालनिर्णये—यस्मिन्राशौतपनशशिनोः सैंहिकेयोपमर्दस्तद्राशीनां भवति विषयग्रामपुंसां विनाशः।तस्माच्छान्तिं मुनिभिरुदितां तत्पटालोकपूर्वां कुर्याद्दानादिभिरिह नृणां नाशमायात्यनिष्टम् ॥ ४ ॥

अथ दानम्।

सुवर्णनिर्मितं नागं सतिलं ताम्रभाजनम्।सदक्षिणं सवस्त्रं च श्रोत्रियायनिवेदयेत् ॥ १ ॥ सोवर्णंराजतं वाऽपि बिम्बंकृत्वा स्वशक्तितः। उपरागोद्भवक्लेशच्छिदे विप्राय कल्पयेत् ॥ २ ॥ दानमन्त्रस्तु—तमोमय महाभीम सोमसूर्यविमर्दन।हेमनागप्रदानेन मम शान्तिप्रदो भव ॥ ३ ॥ स्कन्दपुराणे—गोदानं भूमिदानं चस्वर्णदानं विशेषतः। ग्रहणक्लेशनाशाय दैवज्ञाय समर्पयेत् ॥ ४ ॥

अथ ग्रहणमाहात्म्यम्।

दानखण्डे—सर्वंभूमिसमं दानं सर्वंब्रह्मसमा द्विजाः। सर्वंगङ्गासमं तोयंग्रहणे नात्र संशयः ॥ १ ॥ इन्दोर्लक्षगुणं पुण्यं रवेर्देशगुणं भवेत्। गङ्गादितीर्थसंप्राप्तौप्रोक्तंकोटिगुणं भवेत् ॥ २ ॥ गङ्गायांपुण्यतीर्थे वा ग्रहणे स्नानमुत्तमम्। कूपे वाप्यां तडागे वा तथैवोद्धृतवारिणा ॥ ३ ॥

अथ ग्रहणे वर्ज्यम्।

हारीतस्मृतौ— सर्वेषामेव वर्णानां सूतकं राहुदर्शने।सचैलं तु भवेत्स्नानंशतमन्नं विवर्जयेत् ॥ १ ॥ निबन्धसारे-दर्शे पातेऽर्कसंक्रान्तावुपाकर्मण्युपप्लवे।न स्नायादुष्णतोयेनास्पृश्यस्पर्शेऽत्यये तथा ॥ २ ॥ आदित्येऽहनिसंक्रान्तौग्रहणे चन्द्रसूर्ययोः।पारणं चोपवासं च न कुर्यात्पुत्रवान्गृही ॥ ३॥ स्मृतिरत्नावल्याम् अन्त्येष्ट्यां शरचाण्डालस्पर्शने खरकाकयोः।राहुग्रस्ते विमुक्तेवा कुर्यात्स्नानममन्त्रकम् ॥ ४ ॥ चतुर्विंशतिमते-ग्रहे पर्युपितं चान्नंभुक्त्वा चान्द्रायणं चरेत्।पीत्वा तथोदकं विप्रः पादकृच्छ्रं समाचरेत् ॥ ५ ॥ पराशरः—नवश्राद्धे च यच्छेषं ग्रहपर्युषितं तथा। दंपत्योर्भुक्तशेषं च भुक्त्वा चान्द्रायणं चरेत् ॥ ६ ॥व्रतवाक्यसंग्रहे— चन्द्रसूर्यग्रहे यस्तु स्नानंदानं शिवार्चनम्।न करोति पितुः श्राद्धं स नरः पतितो भवेत् ॥ ७ ॥ चतुर्वर्गचिन्तामणौ—छेद्यं न पत्रं तृणदारुपुष्पं कार्यंन केशाम्बरपीडनं च। दन्ता न शोध्याःपरुषं न वाच्यं भोज्यं च वर्ज्यं मदनो न सेव्यः ॥ ८ ॥ बाह्यं न वाजिद्विरदादिकिंचिदोशो न गोजामहिषीसमूहः। यात्रां न कुर्याच्छयनं च तद्वद्ग्रहे निशाभर्तुरहर्षतेश्च ॥ ९ ॥ ज्योतिष्प्रकाशे-नच्छेद्यं तृणपुष्पादि न केशाम्बरपीडनम्।

न भोगदोहयात्रादि न निद्रा भोजनं ग्रहे ॥ १० ॥ पैतामहसिद्धान्ते—सर्वैः पटस्थितं वीक्ष्यं खस्थं तैलम्बुदर्पणे।गुर्विण्या ग्रहणं जातु नावलोक्यंपटं विना ॥ ११ ॥

इति सूर्येन्दुग्रहणनिर्णयः।

___________

अथ सिंहस्थगुरुनिर्णयः।

ब्रह्मपुराणे— यस्मिन्दिने सुरगुरुः सिंहराशिगतो भवेत्। तस्मिंस्तु गौतमीस्नानं कोटिजन्माघनाशनम् ॥ १ ॥ ब्रह्माण्डपुराणे— तीर्थानि नद्यश्च सरःसमुद्राः क्षेत्राण्यरण्यानि तथाऽऽश्रमाश्च।वसन्ति सर्वाणि च वर्षमेकं गोदातटेसिंहगते सुरेज्ये ॥ २ ॥ ब्रह्मवैवर्ते- अश्वमेधफलं चैव लक्षगोदानजं फलम्। प्राप्नोतिस्नानमात्रेण गोदायां सिंहगे गुरौ ॥ ३ ॥ कालनिर्णये— शान्तिकं पौष्टिकं यात्रां प्रतिष्ठोद्वाहपूर्वकम्। न कुर्यात्सर्वमाङ्गल्यं सिंहसंस्थे बृहस्पतौ ॥ ४ ॥ माण्डव्यः— इष्टापूर्तंच चौलादिसंस्कारा वास्तुकर्म च।अन्यानि शुभकर्माणि नकुर्यात्सिंहगे गुरौ ॥ ५ ॥ होराप्रकाशे—रविक्षेत्रगते जीवे जीवक्षेत्रगते गुरौ। न कुर्याच्छुभकर्माणि व्रतोद्वाहमुखानि च ॥ ६ ॥ रविक्षेत्रं तु पैत्रर्क्षंगुरुक्षेत्रंच रेवती।मिथः—क्षेत्रगतौ तौ च नश्येतां किल मङ्गलम् ॥ ७ ॥ गर्गः— भागीरथ्युत्तरे तीरे गोदावर्याश्च दक्षिणे। व्रतोद्वाहादिकर्मादि सिंहसंस्थे न दुष्यति ॥ ८ ॥ शौनकीयपटले— वरलाभातिकालाभ्यां दुर्भिक्षाद्देशविप्लवात्। विवाहोऽदक्षिणे तीरे भागीरथ्याश्चदक्षिणे ॥ ९ ॥ गोदावर्युत्तरे तीरे भागीरथ्याश्च दक्षिणे। विवाहादि न कुर्वीतसिंहसंस्थे च वाक्पतौ॥ १० ॥ सिंहे गुरौ सिंहनवांशकोर्ध्वं गोदावरीदक्षिणकूलजातैः। उद्वाहकालात्ययदोषभीतैःकार्यो विवाहश्च्यवनो ब्रवीति ॥ ११ ॥कालनिर्णये— सिंहस्थिते सुरगुरावधिमासके च ज्येष्ठे तथाऽऽद्यतनयस्य कुमारिकायाः। कुर्वीत नार्कगतनीचगयोर्विलग्नजन्मेशयोश्च निखिलान्यपि मङ्गलानि॥ १२ ॥ भृगु – सीमन्तजातकादीनि प्राशनान्तानि च क्रमात्। कर्तव्याने नदोषोऽस्ति पञ्चाननगते गुरौ ॥ १३ ॥ कल्पतरौ— नष्टे शुक्रे तथा जीवे सिंहस्थेच बृहस्पतौ। कुर्याच्चैत्रे स्वदेव्यर्चांप्रत्यब्दं कुलधर्मतः ॥ १४ ॥ ब्रह्मपुराणे—स्नानं जपस्तपोहोमः पितॄणां तर्पणादिकम्। गौतन्यामक्षयं विद्यात्सिंहयाते बृहस्पतौ ॥१५ ॥ यात्राविधाने— स्वेष्टदेव्यर्चनं गेहे विधायाभ्युदयं व्रजेत्। तीर्थदृष्ट्वा स्तुतिं स्नानं क्षौरं मृद्भूतिगोमयैः॥ १६ ॥ शुद्धिः कृच्छ्रोपवासादिस्नानैर्नित्यं च वाक्पतेः। गङ्गायाश्चार्चनं श्राद्धं पिण्डदानं द्विजार्चनम् ॥ १७ ॥

अथ संकटे प्रवृत्तिमाह।

वृद्धगर्गः— वृत्रशत्रुसचिवेऽपि सिंहगे मेषगे च तपने करग्रहम्।या लभेतभवतीह साऽबला सौख्यमेति सुभगत्वमक्षयम् ॥ १ ॥ अन्यच्च— सिंहस्थे देवगुरौमेषस्थे यदि भवेत्सहस्रांशुः।मङ्गलकार्यं कुर्यादिति नारदपराशरौवदतः ॥ २ ॥ शौनकः— मेषस्थे दिवसकरे सिंहस्थे वज्रपाणिसचिवे च। यस्याः परिणयनमसौ साध्वी सुखसंपदोपेता ॥ ३ ॥ कारिकानिबन्धे—अतीव दुष्टे सुरराजपूज्ये सिंहस्थिते वा द्विजपुङ्गवानाम्।व्रतस्य बन्धः खलु मासि चैत्रे कृतश्चिरायुः सुखसंपदे स्यात् ॥ ४ ॥ मौञ्जीपटले— जन्मभाद्दुष्टगे सिंहे नीचे वा शत्रुगेगुरौ। मौजीबन्धः शुभः प्रोक्तश्चैत्रेमीनगते रवौ ॥ ५ ॥ ज्योतिर्विवरणेकश्यपः— हरिनीचारिभागेऽपि व्रतोद्वाहादि मङ्गलम्। न निषिद्धं यदि स्वोच्चेस्वभे वा संस्थितो गुरुः ॥ ६ ॥ भृगुः— सिंहेऽपि भगदेवत्ये गुरौ पुत्रवतीभवेत्। अत्यन्तं सुभगा साध्वी धनधान्यसमन्विता ॥ ७ ॥ सप्तर्षिपटले - मघांत्यक्त्वा यदा गच्छेत्फल्गुनीं च बृहस्पतिः। पुत्रिणी धनिनी कन्या सौभाग्यंसुखमेधते ॥ ८ ॥

इति सिंहस्यगुरुनिर्णयः।

_____

अथ संक्रान्तिनिर्णयः।

सूर्ये घोरा विधौ ध्वाङ्क्षी भौमवारे महोदरी। बुधे मन्दाकिनी ज्ञेयामन्दाख्या देवमन्त्रिणि ॥ १ ॥ मिश्राभिधा कवेर्वारे राक्षसी स्यादिनात्मजे। केचिदाहुरिने ध्वाङ्ङ्क्षी घोराऽऽरेऽब्जे महोदरी ॥ २ ॥ उग्रक्षिप्रचरैर्मित्रध्रुवमिश्राख्यदारुणैः। धिष्ण्यैः संक्रान्तिरर्कस्य घोराद्या क्रमशो भवेत् ॥ ३ ॥ घोरासुखाय शूद्राणां विशां ध्वाङ्क्षीशुभप्रदा।महोदरीं च चोराणां राज्ञां मन्दाकिनी मता ॥ ४ ॥ विभाणां शुभदा मन्दा पशूनां मिश्रका मुदे।चाण्डालशौण्डिकादिनां स्यादानन्दाय राक्षसी ॥ ५ ॥ पूर्वाह्णे पीडयेद्भूषान्मध्याह्ने तु द्विजोत्तमान्। विशोऽपराह्णेऽस्तमये शूद्रानुपसि गोपकान् ॥ ६ ॥ व्रतिनो हन्तिसंध्यायां पिशाचान् रजनीमुखे।अर्धरात्रे रात्रिचरान्परतो नटनर्तकान् ॥ ७ ॥दिवा चेन्मेषसंक्रान्तिरनर्मकलहप्रदा।रात्रौ सुभिक्षमतुलं संध्ययोर्वृष्टिरुत्तमा ॥ ८ ॥ मृगकर्का105जगोमीनसंक्रान्तिर्निशि सौख्यदा।शेषेषु सप्तसु दिवाव्यत्ययादशुभं भवेत् ॥ ९ ॥ संक्रान्तिर्जायते यत्र भास्करे भूसुते शनौ। तत्र

मासि भयं घोरं दुर्भिक्षावृष्टिगोचरम् ॥ १० ॥ स्यादुत्थितश्च किंस्तुघ्ने शकुनौकौलवे रविः। संक्रान्तिस्तैतिले नागे प्रसुप्तस्य चतुष्पदे ॥ ११ ॥ निविष्टश्च गरेविष्ट्यां ववे वणिजवालवे।वृष्ट्यर्वादेः क्रमादिष्टमनिष्टं मध्यमं फलम् ॥ १२ ॥ राजमार्तण्डे—दुर्भिक्षं रोगबाहुल्यमूर्ध्वः संक्रमते रविः।सुप्तः करोति कल्याणमुपविष्टः समं फलम् ॥ १३ ॥ मेषं याति दिवा सूर्यो रात्रौसंक्रमते तुलाम्। तदा नन्दन्ति राजानी जनाश्चविविधोत्सवैः ॥ १४ ॥ प्रद्योतनस्य संक्रान्तिर्यादृशेनेन्दुना भवेत्।तन्मासि तादृशं प्राहुः शुभाशुभफलं नृणाम् ॥ १५ ॥ पन्था भोजनमग्नेर्भीर्मित्राणां दर्शनं तथा। फलानि सप्त संक्रान्तेर्विद्यावस्त्रधनागमाः ॥ १६ ॥ यां तिथि समनुप्राप्य तुलां गच्छति भास्करः। तस्यामेवार्कसंक्रान्तिर्यावन्मेषं शुभप्रदा ॥ १७ ॥ न्यूनातिचारे दुर्भिक्षं राष्ट्रभङ्गो जनक्षयः। समसप्त106कमर्केन्द्वौःसंक्रमे च महर्घता ॥ १८ ॥ संक्रान्तिऋक्षं तिथिवारमिश्रं धान्याक्षराढ्यं त्रिहृतं च शेषम्।एकेन वृद्धिं युगलेन साम्यं शून्येन हानिं मुनयो वदन्ति ॥ १९ ॥ यत्र मासि कुजार्काकिंवारेषु रविसंक्रमः। दुर्भिक्षंजायते तत्र राज्ञां च कलहो मिथः ॥ २० ॥ सिंहो व्याघ्रो वराहश्च खरकुञ्जरमाहिषाः। अश्वोष्टमेषवृषभा नृयानं वाहनं बवात् ॥ २१ ॥ मतान्तरे— गजो वाजिर्वृषोमेषः खरोष्ट्रहरयः क्रमात्। ववादौ वाहनं प्रोक्तं स्थिरेषुवृषभोरविः ॥ २२ ॥ खशवाह्णीकवङ्गेषु संक्रान्तिर्विष्ण्यवाहना।अन्यदेशेषु तिथ्यर्धवाहनं107 नारदोऽब्रवीत् ॥ २३ ॥ ववे गरे गजारूढो बालवे वणिजे वृषे।किंस्तुघ्ने शकुनौकौलेवाजिरूढस्तु संग्रमे ॥ २४ ॥ व्याघ्रे विष्ट्यां चतुष्पादे माहिषे नागतैतिलेगजे लक्ष्मीर्वृषेस्वस्थं विड्वरं वाजिवाहने ॥ २५ ॥ माद्दिषे मारणं व्याघ्रे वाहने निश्चितं फलम्।गर्गादिभाषितं चैव कुर्याच्छान्तिं तु बुद्धिमान् ॥ २६ ॥ गर्गः—तन्त्री खड्गः सितः केतुः कुन्तः पद्मं धनुस्तुला। पाशश्चक्रमलातं च कुलिशंचाऽऽयुधं रवेः ॥ २७ ॥ नारदः— भृशुण्डीभिन्दिपालासिदण्डकोदण्डतोमरान्।कुन्तपाशाङ्कुशास्त्रेपून्विभर्ति करणेष्विनः ॥ २८ ॥ अन्नं च पायसं भैक्षमपूपं108च पयो दधि \। चित्रान्नं गुडमध्वाज्यं शर्करा वक्तो रवेः ॥ २९ ॥ नटक्षत्रियविप्राणां विट्शूद्रयतियोपिताम्। प्रधानान्त्यजपाखण्डिक्लीवानां संक्षयोयवात् ॥ ३० ॥ श्वेतं रक्तं चित्रं पीतं नीलं च कम्बलं क्रमशः।पट्टमजिनंक्षौमवल्कलमसितं ववाद्वसनम् ॥ ३१ ॥ कस्तूरिका चन्दनकुङ्कुमं मृद्गोरोचनंयावक ओतुघर्मः। निशाञ्जनं चागरुरिन्दुरेभिर्विलेपनं संक्रमणे ववाच्च ॥ ३२ ॥ पुन्नागजातीवकुलानि मल्लिका जपा च नीलोत्पलमर्कमाधवी।सचम्पकं पाटलिपुष्प-

धत्तुरं ववादिपुष्पाणि च धारणानि॥ ३३ ॥ प्रवालमुक्तारजतं मणिस्तथागोमेदक नीलसुवर्णसीसम्।कांस्यं तथा पित्तलताम्रलोहं ववादिकानामिहभूषणानि ॥ ३४ ॥ आयुधं वाहनाद्दारौयज्जातीयनरस्य यत्। विनाशो जायते तस्य वस्रादीनां महर्धता ॥ ३५ ॥ यदन्नं संक्रमे प्रोक्तं तदन्नैः प्रीणयेद्रविम्। आयुधं यच्च तद्राज्ञा पूजनीयं जनार्थिना ॥ ३६॥ वद्राज्ञा पूजनीयं जयार्थिना ॥ ३६ ॥

अथ संक्रान्तिवाहनादिविचारः।

मुहूर्तचूडामणी109— बवे सिंहगा देवजातिर्निविष्टा भुगुण्ड्यायुधा शुभ्रवस्त्राऽन्नभक्ष्या।सुवाला च कस्तूरिकालिप्तमाला गले चर्यपुन्नागमालां दधाना ॥ १॥बालवे भिन्दिपालायुधा कुङ्कुमालिप्तभाला निविष्टा कुमारी तथा। जातीपुष्पं च पीतांशुकं विभ्रती पायसं चात्ति शार्दूलिकाभौतिका ॥ २ ॥ कौलवे कोलगा व्यालजातिर्हरिद्वर्णवासा विकेशा सुभेक्षाशिनी। चन्दनालिप्तमालाऽसिंहस्तोर्ध्वगा वाकुलां पुष्पमालां करे बिभ्रती ॥ ३ ॥ तैतिले पक्षिजातिः खरस्था भवेत्केतकीपुष्पमाला च दण्डायुधा।मृत्तिकालिप्तमाला च पीताम्बराऽपूषभक्ष्या च सुप्ता वयोमध्यमा ॥ ४ ॥ गरे निविष्टा सुधनुर्धरित्री प्रौढा पशुर्वारणवाहना च। सुरक्तवस्त्राऽत्ति पयो विरोचनाञ्चिता युता विल्वकपुष्पमालया ॥ ५ ॥सतोमरा माहिषगा प्रगल्भा श्यामान्वरा स्याद्वणिजे निविष्टा।दधिप्रियायावकलिप्तमाला मृगी घृतार्कामलपुष्पमाला ॥ ६ ॥ विष्ट्यां वृद्धा विप्रजातिर्निविष्टा वाजिस्था स्यादोतुघर्माढ्यमाला। दूर्वामालाढ्या विचित्रान्नभक्ष्या हस्तेकुन्ताख्यायुधा कृष्णवस्त्रा ॥ ७ ॥ स्यात्क्षत्रिया कुक्कुरगाऽतिवृद्धा पाशायुधारात्रिविलिप्तमाला।विचित्रवस्त्रा शकुनौसपद्माचोर्ध्वस्थिता सद्गुडराशिभक्ष्या ॥ ८ ॥ चतुष्पदे मेषगताऽतिवन्ध्या सकम्बला कजललिप्तमाला। वैश्याच सुप्ता मधु भक्षमाणाऽङ्कुशायुषा मल्लिकया समेता ॥ ९ ॥ अस्त्रं दधाना वृषवाहना च सुप्ता सुपुत्रा सितवस्रयुक्ता। सपाटला शूद्रभवाऽऽज्यभक्ष्या विलिप्तमालाऽगरुणा हि नागे ॥ १० ॥ वाणायुधा कुकुटगोर्ध्वगा सा कृष्णान्वरासंकरजेन्दुलिप्ता। प्रव्रज्ययाऽऽढ्याजपया समेता किंस्तुघ्नके चात्ति सुशर्करांच ॥ ११ ॥ निथ्यर्धजानि संक्रान्तिवाहनानि यथाक्रमात्। भयोनिवाहनं वङ्गवाह्णीके विषये खशे ॥ १२ ॥

अथ पुण्यकालः।

संक्रान्तिसमयः सूक्ष्मो दुर्लक्ष्यः पिसितेक्षणैः। तस्य योगादधश्चोर्ध्वंत्रिंश-

न्नाड्यस्तु कीर्तिताः ॥ १ ॥ अर्वाक् षोडशनाड्यस्तु परतश्चैव षोडश।पुण्यकालोऽर्कसंक्रान्तेः स्नानदानादिकर्मसु ॥ २ ॥ त्रिंशत्कर्कटसंक्रान्तौपूर्वतः पुण्यनाडिकाः।मकरे तूत्तराः पुण्याश्चत्वारिंशच्च नाडिकाः ॥ ३ ॥ आसनंसंक्रमे पुण्यं दिनार्धं स्नानदानयोः।नाड्यः संनिहितास्तत्र तास्ताः पुण्यतमाः स्मृताः ॥ ४ ॥ संपूर्णे चार्धरात्रे चेद्यादे संक्रमते रविः। तदा दिनद्वयं पुण्यंमुक्त्वा मकरकर्कटौ ॥ ५ ॥ स्थिरे विष्णुपदं कर्किदक्षिणायनमादितः। मृगेसौम्यायनं द्व्यङ्गे षडशीतिमुखं पुरः ॥ ६ ॥ घटेऽजे विपुवं मध्ये पुण्यदानाद्यनन्तकम्। प्रागर्धरात्रात्पूर्वेद्युः पुण्यं पश्चात्परं दिनम् ॥ ७ ॥ अहःसंक्रमणे कृत्स्नमहः पुण्यं प्रकीर्तितम्।रात्रौ संक्रमणे भानोर्व्यवस्था सर्वसंक्रमे ॥ ८ ॥सूर्यास्तमनसंध्यायां यदि सौम्यायनं भवेत्। तदहः पुण्यकालः स्यात्परतश्चेत्परेऽहनि ॥ ९ ॥सूर्यस्योदयसंध्यायां यदि याम्यायनं भवेत्। तदोदयादहः पुण्यं पूर्वतः पूर्वतो यदि ॥ १० ॥ यद्यर्धरात्र एवस्यात्संपूर्णः संक्रमो रवेः।तदा दिनद्वयं पुण्यं परतश्चेत्परेऽहनि ॥ ११ ॥मनुस्मृतौ - ग्रहणोद्वाहसंक्रान्तियात्रार्तिप्रसवेषु110 च। स्नानदानादिकं कार्यं रात्रावपि न दुष्यति॥ १२ ॥ ग्रहणेऽयनसंक्रान्तौ विवाहे पुत्रजन्मनि। काम्यव्रते च मरणे रात्रौ स्नानाद्यमुत्तमम्111 ॥ १३ ॥अर्धास्तमनात्संध्या स्याद्घटिकात्रयसंमिता। तथैवार्धोदयात्प्रातर्घटिकात्रयसंमिता॥ १४ ॥ प्रागर्धरात्रात्पूर्वाहो विपुवद्विष्णुपादयोः।षडशीतिमुखे चैवं परतश्चेत्परेऽहनि। पश्चात्पराहः संक्रान्तिः षडशीतौ विपर्ययात् ॥ १५ ॥ कालविवेके— निशः प्राक् प्रहरात्पूर्वं यदि सौम्यायनं भवेत्। तदा तस्मिन्दिने पुण्यं परतश्चेत्परेऽहनि ॥ १६ ॥ यादृशेनेन्दुना भानोः संक्रान्तिस्तादृशं फलम्।नरः प्राप्नोतितद्राशौ शीतांशोः साध्वसाधु वा ॥ १७ ॥ रविसंक्रमणे पुण्ये योन स्नातीहमानवः।सप्तजन्मान्तरं रोगी दुःखभाङ्निर्धनो भवेत् ॥ १८ ॥ स्मृतिचन्द्रिकायां संक्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः। तानि तस्य ददात्यर्कःसप्तजन्मसु निश्चितम् ॥ १९ ॥ भारते—दत्तानि यानि दानानि हव्यकव्यानि संक्रमे। अपामिव समुद्रस्य तेषामन्तो न विद्यते ॥ २० ॥ आदित्यपुराणे—शतमिन्दुक्षये दानमुपरागे त्वनन्तकम्। षडशीत्यां सहस्रं तु विषुवत्यां112 तथैव च ॥ २१ ॥विपुवे शतसाहस्रं कोटिघ्नं दक्षिणायने। शतकोटिगुणं पुण्यं जायते तूत्तरायणे ॥ २२ ॥

अथ पुण्यकालविशेषः।

निरंशः सविता यत्र तद्दिने स्नानमाचरेत्। दानं चाप्यक्षयं प्रोक्तं रहस्यंमुनिभिः स्मृतम् ॥ १ ॥ पुण्यं बहुतरं सूर्ये निरंशे मुनयो विदुः। अंशकंप्राप्य दानानि नैव गृह्णाति भास्करः ॥ २ ॥ नारदः — आक्रान्तगतयो राश्योरन्तरालमहर्षतेः। विज्ञेयं विम्बमध्यं तदहः सन्यङ्महत्फलम् ॥ ३ ॥कालनिर्णय - कर्केऽतीतं मृगे पूर्वं रात्रौ चैव कदाचन। सौरव्रतंन कुर्वीतयदीच्छेत्सुतजीवितम् ॥ ४ ॥ यस्मिन्दिने निरंशः स्यात्संस्कृतोऽर्कोऽयनांशकैः। तद्दिनं च महत्पुण्यं रहस्यं मुनिभिः स्मृतम् ॥ ५ ॥ संक्रान्त्युत्तरभोगिन्यो यदि स्युर्यामिनीमुखे। तदा पूर्वदिनं पुण्यं स्नानदानादिकर्मसु ॥ ६ ॥*संपूर्णे113”) चार्धरात्रे चेद्यदा संक्रमते रविः। तदा दिनद्वयं पुण्यं स्नानदानादिकर्मसु ॥ ७ ॥ कार्मुकं च परित्यज्य मृगं याति दिवाकरः। प्रदोषे चार्धरात्रे वा तदा भोगः परेऽहाने ॥ ८॥

अथ पुण्यकालानयनम्।

सिद्धान्तशिरोमणी-षष्टिघ्नविम्बं ग्रहभुक्तिभक्तं संक्रान्तिनाङ्योऽखिलधर्मकृत्ये।रवेस्तु ताः पुण्यतमा ग्रहः114 स्वसंक्रान्तिको मित्रफलं विधत्ते ॥ १ ॥ मानोर्गतिःस्वदशभागयुतार्दिता115 स्याद्विम्बंविघोस्त्रिगुणिता युगशैलभक्ताः। व्यङ्घ्रीपवः सचरणा ऋतवस्त्रिभागयुक्ताद्रयो नव कुजार्स्त्रिलवाधिकाक्षाः ॥ २ ॥ बिम्बाकलाः - रवेः३३, इन्दो ३३, भौमस्य ४। ४५, ज्ञस्य ६।१५,गुरोः ७। २०, कवेः ९। ०, शनेः ५।२०। ग्रहसंक्रान्तौ प्राकृतःपुण्यकाल उभयत्र। १० १६, चं० १।१३, मं० ४, बु० ३, बृ० ४, शु० ४, श० ६, रा० ८, के० ८। होलिकाग्रहणभानुकायने प्रेतदाहमिति पञ्चकंस्मृतम्। तत्परेऽहनि करोति मृत्युकृत्सर्वकर्मसु विगर्हिता (तं) बुधैः ॥ ३ ॥गर्गः— यस्य जन्मर्क्षमासाद्य रविसंक्रमणं भवेत्। तन्मासाभ्यन्तरे तस्य वैरक्लेशधनक्षयाः ॥ ४ ॥ तगरसरोरुहपत्रैरजनीसिद्धार्थलोघ्रसंयुक्तैः। स्नानंजन्यर्क्षगते रविसंक्रमणे नृणां शुभदम् ॥ ५ ॥

अथ संक्रान्तिस्नानम्।

देवीपुराणे—कुङ्कुमंरोचनामांसीपुराचन्दनबालकम्।हरिद्राचन्द्रसंयुक्तं मेषे

स्नानं महाफलम् ॥ १ ॥ कुङ्कुमैलासुसिद्धार्थरोचनाधनसारकैः। सितगोमूत्रसंयुक्तैर्वृषे स्नानं सुखार्थदम् ॥ २ ॥ उशीरं पद्मकं कुष्ठे रोचनाग्रन्थिपर्णकम्।कुङ्कुमागरुसंयुक्तं मिथुने राज्यदं मतम् ॥ ३ ॥ रोचना बालकं मुस्ता मुराशैलेयचन्दनम्। हरिद्राकुष्ठसंयुक्त कर्किसंक्रमणे शुभम् ॥ ४ ॥ पत्रकं रोचकंमुस्ता मांसीत्वगथ चन्दनम्। सिंहे स्नानं सुराध्यक्ष राज्यायुः पुत्रवर्धनम् ॥ ५ ॥हरिद्रा बालकं कुष्ठमांसौचन्दनरोचना।कन्यास्नानं प्रकर्तव्यं रतिसंतानवर्धनम् ॥ ६ ॥ रोचना तगरुः कुष्ठं पद्मकोशीरपत्रकम्। हरिद्राबालसंयुक्तं तुलायांस्नानमुत्तमम् ॥ ७ ॥ प्रियङ्गुस्फटिकामांसीपत्रकं रोचनाऽगरुः। मुस्ताकुष्ठसमं स्नानं वृश्चिके राज्यदं मतम् ॥ ८ ॥ प्रवालमौक्तिकं कुष्ठंरोचना धनपद्मकम्। सुरामांसीसमं स्नानं धनुःसंक्रमणे शुभम् ॥ ९ ॥रोचनाबालकं कुष्ठं पद्मकोशीरपत्रकम्। हरिद्राबालसंयुक्तं मकरे सर्वकामदम्॥ १० ॥ ग्रन्थिपर्णं तथैला च केसरं जातिपत्रकम्। रोचनासहितं स्नानं कुम्भेपुत्रायुराज्यदम् ॥ ११ ॥ कर्पूरं फलसूक्ष्मैलामांसीचन्दनपद्मकम्। बालकंसघनोशीरत्वचे मीने सुखावहम् ॥ १२ ॥ द्वादशैते समाख्याताः स्नानतः स्युःसुरार्चिताः।अलक्ष्मीनाशना धन्या महापातकनाशनाः (१) ॥ १३ ॥

अथ संक्रान्तिफलम्।

संक्रान्तर्ग्रहणक्षै वा जन्मन्युभयपार्श्वयोः।नेष्टं ततः षट् च शुभाः पर्यायेणपुनः पुनः ॥ १ ॥ वसिष्ठः - हानिश्चेदर्कसंक्रान्तिर्जन्मपूर्वर्क्षतस्त्रिपु। अर्थलाभस्तथा षट्सु शेषेष्वेवमुपप्लवे ॥ २ ॥ त्रिकं षट्कं त्रिकं षट्कंत्रिकं षट्कं पुनःपुनः। पन्था भोगो व्यथा वस्त्रंहानिश्च विपुलं धनम् ॥३ ॥ दर्शान्तसूर्यमुक्तर्क्षान्निर्जीवाख्यं च भत्रयम्। एकादशर्क्षं विंशद्भं मङ्गले निधनमदम् ॥ ४॥तिलोपरि लिखेच्चक्रं त्रिकोणं त्रित्रिशूलकम्। तत्र हेम विनिक्षिप्य दद्याद्दोषापनुत्तये ॥ ५ ॥ वतिष्ठः – शूलदोषामनुत्त्यर्थं निर्जीवस्यापनुत्तये।स्वर्णशूलंद्विजे दद्यात्तिलवस्त्रसमन्वितम् ॥ ६ ॥ पूर्वसंक्रान्तिनक्षत्रात्परसंक्रान्तिभं यदि।द्वित्रिसंख्यासमर्वं स्यात्तुर्यपञ्चमहर्घता। षष्ठेलोका भ्रमन्तीह गृहीत्वा खर्परं करे॥ ७ ॥

अथ दानानि।

सौम्यायने नूतनभाण्डदानं गोग्रासमन्त्रं तिलपात्रमर्थम्।गुडाज्यतैलोर्णसुवर्णभूमिं गोवस्त्रवाजिमभृतींश्चदद्यात् ॥ १ ॥ फलभोजनपाथेयरूपालोकनदी-

पकैः। नत्यर्थजपमालार्कस्नानैः सूर्यं व्रतैर्यजेत्116 ॥ २ ॥ तत्र भाण्डमन्त्रः— रविसंक्रमसंभूते संक्रान्ते पापहारिणि।नमस्ते सवितुः प्रीत्यै भाण्डानि प्रददाम्यहम् ॥ ३ ॥

इति सूर्यसंक्रान्तिनिर्णयः।

_____

अथ जन्मराशिनिर्णयः।

विवाहे सर्वमाङ्गल्ये यात्रादौ ग्रहगोचरे। जन्मराशेः प्रधानत्वं नामराशिं नचिन्तयेत् ॥ १ ॥ देशे ग्रामे ग्रहे युद्धे सेवायां व्यवहारके।नामराशेः प्रधानत्वंजन्मराशि न चिन्तयेत् ॥ २ ॥ काकिण्यां वर्गशुद्धौ च वादे द्यूतेज्वरोदये।मन्त्रे पुनर्भूवरणे नामराशेः प्रधानता ॥ ३ ॥ राज117मार्तण्डः — विवाह118घटनं चैवलग्नजं ग्रहजं फलम्। नामभाच्चिन्तयेत्सर्वं जन्म न ज्ञायते यदा ॥ ४ ॥ दीपिकाया— जन्म न ज्ञायते येषां तेषां नाम्नो गवेष्यते। चक्रेऽवकहडे भांशे तन्नाडी कैश्चिदग्निभात् ॥ ५ ॥ यदा स्त्रीजन्मसंपत्तिर्वरजन्म न लभ्यते। स्त्रियाःस्याज्जन्मतः शुद्धिर्नाम्नो मेलक्रिया तदा ॥ ६ ॥ पटलसारे-जन्मज्ञानेऽपिचैकस्यद्वयोर्नान्नोर्भमेलकः। चिन्त्यस्तत्रैव जन्मर्क्षाद्वीक्ष्यंलग्नेन्दुजं बलम् ॥ ७ ॥

इति जन्मराशिनिर्णयः।

_____

अथ नामविचारः।

स्वरशास्त्रे— प्रसुप्तोयेन जागतिं येनाऽऽगच्छति शब्दितः। तन्नाम्नश्चाऽऽदिमो वर्णो ग्राह्यस्तस्माद्भनिर्णयः ॥ १ ॥ न प्रोक्ता ङजणा वर्णां नामादौसन्ति ते नहि। चेद्भवन्ति तथा ज्ञेया गजडास्ते यथाक्रमम् ॥ २ ॥ खपौ सशौववौ चैव ज्ञेयाविति परस्परम्। संयोगाक्षरजे नान्नि ग्राह्यं तत्राऽऽदिमाक्षरम् ॥ ३ ॥बहूनि यस्य नामानि नरस्य स्युः कथंचन।तस्य पश्चाद्भवं नाम ग्राह्यं स्वरविशारदैः॥ ४ ॥ यवनमतं— यत्र स्थितः शीतकरों नराणां स्याजन्मराशिंतमुदाद्दरन्ति। यथायथा येषु खगा विलग्नाः स्थिता न ते सप्त कुतो भवन्ति॥ ५ ॥ अतोऽष्टराशिर्मनुजोऽत्र सर्वः प्रोक्तानि तेभ्यश्च शुभाशुभानि।फलानितेषां तु वियोगयोगाद्यदष्टवर्गोत्यफलं स्फुटं स्यात् ॥ ६ ॥ भौमादौ लग्नभं योज्यं राजकार्येऽर्कभं तथा। चन्द्रभं सर्वकार्येषु सङ्ग्रामादौ च भौमभम् ॥ ७ ॥

विद्याभ्यासे बुधर्क्षंच विवाहे गुरुभं स्मृतम्। शुक्रयुग्भं प्रयाणे च दीक्षायांशनिभं बुधैः ॥ ८ ॥

इति नामविचारः।

_____

अथ जन्ममासादीनांनिर्णयः119

श्रीपतिः—जन्ममासि न च जन्मभे तथा नैव जन्मदिवसेऽपि कारयेत्‌। आद्यगर्भदुहितुः सुतस्य वा ज्येष्ठमासि न तु जातु मङ्गलम्‌ ॥ १ ॥ शार्ङ्गधर—जन्मर्क्षेसति दारिद्र्यं वैरं जन्मतिथावपि।जन्ममासे च दौर्भाग्यंजन्मलग्नं शुभावहम्‌॥ २ ॥ ज्योतिष्प्रकाशे— केचिच्चान्द्रं वर्जयन्ति जन्ममासं महर्षयः। मङ्गलेसावनंकेचित्सौरमासं तु केचन ॥ ३ ॥ दर्शान्तोवैदिको मासो राकान्तः स्मार्तउच्यते। पौराणो हरिघस्त्राद्यः सौर उत्पत्तिपूर्वकः ॥ ४ ॥ तत्तत्कर्मणि स एवमासो ग्राह्यः।

अथ व्यवस्थाविकल्पः।

दोषापवादे— तपतीकृष्णयोर्मध्ये मासश्चान्द्रःप्रकीर्तितः। कृष्णाया दक्षिणेतीरे जन्मतो जन्ममासकः ॥ १ ॥ अन्येषु सर्वदेशेषु सौरो व्रतविवाहयोः। अन्नाशादिषु सर्वत्रग्राह्यो मासस्तु जन्मतः॥ २ ॥ अर्धभोगजन्मभे विवाहकर्मशर्मदम्‌। मध्यदेशयाम्ययोर्जगाद बादरायणः ॥ ३ ॥

अथजन्ममासप्रवृत्तिः।

गृहकौमुद्यां— जन्ममासि विपरीतपक्षके वासरे दिननिशोर्विषर्यये। जन्मभेच दलपर्यये तथा मङ्गलानि सकलानि कारयेत्‌ ॥ १ ॥ भोजमार्तण्डे—जन्ममासि तिथौ भे च विपरीतदले सति। कार्यं मङ्गलमित्याहुर्गर्गभार्गवशौनकाः ॥ २ ॥ जन्ममासि निषेधेऽपि दिनानि देश वजेयेत्‌ आरभ्य जन्मदिवसान्छुभाः स्युस्तिथयः परे ॥ ३ ॥ संकीणेत्वेऽपि कालस्य जन्ममासाद्युपरिस्थिते(तौ)। सद्योविधाय तत्पूजां शुभं कुर्यादशङ्कितः ॥ ४ ॥

अथ जन्मनक्षत्रविचारः।

जन्मनक्षत्रश्चन्द्रः प्रशस्तः सर्वकर्मसु। क्षौरभेषजउद्वाहकर्तनेषु च तंत्यजेत् ॥ १ ॥ ज्योतिष्यप्रकाशे—जन्मभं कृषिनृपाभिषेचने भूषणे नगरगेहकर्मणि। आधिपत्यभुजि मौञ्जिबन्धने पुंविवाहउदितं शुभं बुधैः ॥ २ ॥

विवाहे जन्मभं स्त्रीणां वर्जनीयं प्रयत्नतः। नैव पुंसामिह120प्राहुर्ज्योतिर्नयविदो बुधाः ॥ ३ ॥ नारदः— षट्टबन्धनचौलान्नप्राशने चोपनायने। शुभदंजन्मनक्षत्रमशुभं त्वन्यकर्मणि ॥ ४ ॥ चूडाबन्धनशब्देन केशबन्धो न तु क्षौरकर्म। राजमार्तण्डः— वसन्तसमये दद्यादब्देगर्भाष्टमेऽष्टमे।मेखलां जन्ममासेऽपिजन्मभे वा तिथौ तथा ॥ ५ ॥ जन्मकालोत्थिता त्याज्या शुभे चान्द्रमसीकला नेतरेत्याहुराचार्या वराहमिहिरादयः ॥ ६ ॥ शार्ङ्गधरः121— मेधावीमेखलादाने जन्ममासेऽथ जन्मभे ॥ ७ ॥ वराहः— जन्मोदये जन्मनि तारकासुमासेऽथ वा जन्मदिनेऽथ भे वा। व्रतेन, विप्रो न बहुश्रुतोऽपि विद्याविशेषैः प्रथितः पृथिव्याम् ॥ ८ ॥ भृगुः— वेदार्थपालनपरः खलु जन्ममासे ऋक्षेऽथ जन्मानि बहुक्रतुमान्वटुःस्यात्। इति। विवाहेऽपि फलं तथा— जन्मभे जन्मलग्ने वा मासे व तारकेऽह्निवा। जन्मांशकेऽपि वोढायाः सुखमाहुर्मुनीश्वराः ॥ ९ ॥ वसिष्ठः— जन्मर्क्षे जन्ममासे वा ऊढा कन्या पतिव्रता ॥ १० ॥ भृगुः—जन्ममासेऽथ जन्मर्क्षे जन्मलग्नेऽथ जन्मनि। उद्वाहेषु च नारीणां प्रतिष्ठा महती भवेत् ॥ ११ ॥ यवनः— जन्ममासेऽथ पुत्राढ्या धनाढ्या जन्मभोदये। जन्मभेवा भवेदूढा वृद्धा संततिवर्धिनी ॥ १२ ॥ भागुरिः—जन्मोदये जन्मनि तारकासुमासे तथा जन्मानि जन्मभे वा। ऊढाऽङ्गना नैकविधानि धत्ते सौख्यानि भोगं खलु बान्धवानाम् ॥ १३ ॥ अतो बहुवाक्यपर्यालोचनया ज्येष्ठापत्यस्यैव जन्गमासादिवर्जनमुक्तम्। अत एव नारदः— न जन्ममासे जन्मर्क्षे न जन्मदिवसेऽपि च। नाऽऽद्यगर्भसुतस्याथ दुहितुर्वा करग्रहः ॥ १४ ॥ माण्डव्यः -ज्येष्ठे ज्येष्ठस्य गर्भस्य मासं चान्द्रं परित्यजेत्। दर्शावसानमखिलं सर्वमङ्गलकर्मसु ॥ १५ ॥ ज्येष्ठे न ज्येष्ठयोः कार्यंनृनार्योः पाणिपीडनम्।तयोरेकतरेज्येष्ठे ज्येष्ठमासेऽपि कारयेत् ॥ १६ ॥ विवाहे स्थूलसूक्ष्माभ्यां जन्मर्क्षं यदिजायते। तत्त्याज्यं यदि चेद्भिन्नं तज्जन्मर्क्षं शुभावहम् ॥ १७ ॥

इति जन्मनक्षत्रविचारः।

_____

अथ सिद्धान्तमीमांसाध्यायः।

ज्योतिर्विवरणे— श्रौतस्मार्तानि कर्माणि पुराणोक्तानि यानि च। ज्योतिषोक्ते स्फुटे काले कुर्युस्तत्फलकाङ्क्षिणः ॥ १ ॥ विवाहे जातके प्रश्ने यात्रा-

वस्तुव्रतादिषु।ज्योतिःशास्त्रफलं सर्वंप्रस्फुटं द्युचराश्रयम् ॥ २ ॥ तत्तुसम्यक्प्रकारेण प्रवक्तुं नैव शक्यते। सिद्धान्तानां तु सर्वेषां साम्यं नास्तिमिथो यतः ॥ ३ ॥ स्वयंभूरिनो रोमशः पौलिशाख्यो वसिष्ठश्चसिद्धान्तवक्तार एते। महान्तोऽत्र पाराशराख्यश्च तद्वद्बुधैरुच्यते सांप्रतं चाऽऽर्यसंज्ञः ॥ ४ ॥

अथास्य निर्णयः।

योगा ग्रहाणां ग्रहणं रवीन्द्वोस्तिथेस्तु बीजं विधुदर्शनं च।नित्योदयास्तौ खलु—खेटभानां युतिश्च तेषां खचरोदयास्तौ ॥ १ ॥ प्रत्यक्षसमया ह्येते येनपक्षेणयत्र वै। स्फुटं दृक्तुल्यतां यान्ति तेन सर्वविनिश्चयः ॥ २ ॥ ज्योतिर्विवरणे—यात्रोद्वाहप्रभृतिषु फलं स्पष्टखेटाश्रयं यत्तस्मात्तत्साधन इह बुधैर्भाषितेऽपि क्वचित्ते। स्पष्टा न स्युः परमपुरुषांशाश्चिराल्लक्ष्यचारास्तस्मात्साध्या बहुविधमतैर्नैकपक्षाभिमानः ॥ ३ ॥ यस्मिन्देशे यत्र काले येन दृग्गणितैक्यकम्। दृश्यतेतेन पक्षेण कुर्यात्तिथ्यादिनिर्णयम् ॥ ४ ॥ तथा च पीयृपतरङ्गिण्याम्। अस्त्युच्चवचता क्षितेरत इमे स्वस्थानसंस्था ग्रहाः क्वापि क्वापि भवन्ति दूरनिकटेदृक्चक्रचारादपि।दृश्यन्ते न समास्ततो बहुविधोक्तानां मतानां भवेद्यः सिद्धान्तदृगैक्यतः स्वनगरे तेनाखिलं साधयेत् ॥ ५ ॥ सौरभाष्ये— संसाध्य स्पष्टतरं बीजंनलिकादियन्त्रेभ्यः। तत्संस्कृतास्तु सर्वे पक्षाः सायं भजन्त्येव ॥ ६ ॥ब्रह्मसिद्धान्तभाष्ये—ध्यानग्रहोपदेशाद्बीजं ज्ञात्वा सुदैवज्ञः। तत्संस्कृतग्रद्देभ्यःकर्तव्यौनिर्णयादेशौ ॥ ७ ॥

अथ सामान्यत आधुनिकमतमुच्यते।

सान्ये सौरः क्षये ब्रह्मा तिथिवृद्धौ पराशरः। सर्वकर्मसु कः श्रेयान्विष्णुधर्मे तु योऽधिकः ॥ १ ॥ ह्रासत्वाच्च तिथेर्भुक्तेः शीघ्रत्वात्कालनिर्णयः। कपक्षेणान्यथाऽ122ऽर्येण निर्णयोऽत्र विधीयते ॥ २ ॥ ज्योतिर्विवरणे—पितामहादयःपुण्याः क्रियाकालविनिर्णयः। स्मृतिरार्य123भटो न स्यात्तस्माच्च तदुपेक्षितः(?) ॥ ३ ॥ ज्योतिःशास्त्रमिदं पुण्यं प्राहुर्नयविदो बुधाः। स्वतः प्रामाण्यमस्यास्ति सत्यं प्रत्यक्षतो यतः ॥ ४ ॥ आर्षेयं पौरुषं वाऽपि शास्त्रं दृक्सिद्धिमाश्रयेत्।यथोत्तमाज्जघन्याद्वा प्राप्तंरत्नं हितं भवेत् ॥ ५ ॥

किं तेनापि सुवर्णेन कर्णघातं करोति यत्। तथा किं तेन शास्त्रेण यन्न प्रत्यक्षतःस्फुटम् ॥ ६ ॥

इति सिद्धान्तमीमांसाध्यायः।

_____

अथ संदेहे विचारः।

संहिताप्रदीपे—एकार्थरूढानि वचांसि यानि मिथो विरुद्धार्थ124पराणि सन्ति।न तानि मिथ्या मुनिभाषितत्वाद्विद्वान्विदध्याद्विषयव्यवस्थाम् ॥ १ ॥ ज्योतिर्विवरणेस्थविरत्वेच बालत्वे शुक्रगुर्वोर्न सान्यता। पक्षकालांशदिकसप्तपञ्चत्रिदिवसैर्मता ॥ २ ॥ सप्ताहं त्र्यहमेकाहं वर्ज्यं ग्रहणतः शुभे। गण्डान्तं पादवस्वब्धिद्विनाडिकमिति स्मृतम् ॥ ३ ॥ पाते त्र्यहमथैकाहं वर्जयेत्स्थितिनाडिकाः। श्राद्धे विदिनमेकाहं निरंशेऽर्केष्ट नाडिकाः ॥ ४ ॥ जन्ममासि तिथौ भे चविपरीतदलादिकम्। कृष्णपक्षे दशाहं च पक्षार्धंपञ्चकं द्व्यहम् ॥ ५ ॥ केचिद्वदन्ति जन्मर्क्षं व्रतोद्वाहादिके शुभम्।\। अशुभं केचिदाचार्याः प्राहुश्चन्द्रमसं तथा ॥ ६ ॥ कालहोरा त्रिधा प्रोक्ता लग्नहोरा द्विधा तथा।विप्रकारस्तु द्रेष्काणो द्विभेदस्तु नवांशकः ॥ ७ ॥ द्विविधः कुलिकः प्रोक्तोवामवेधस्तथैव च। एते चान्येविकल्पाः स्युः कीर्तिता मुनिसत्तमैः॥ ८ ॥ तत्संदेहनिरासार्थं व्यवस्था क्रियतेऽधुना। यतो वाक्यांनि सर्वाणि प्रमाणान्येव नो मृषा ॥ ९॥ ज्योतिर्विवरणे—दीर्घव्यापी विवाहादौ योज्यो मध्यो गमादिषु। आशुकार्ये पराधीने लघुपक्षोऽपिशोभनः ॥ १० ॥ संकीर्णत्वेऽपि कालस्य लग्ने ग्रहबलान्विते। चित्तोत्साहे नृपाज्ञायां जघन्योऽपि शुभायते ॥ ११ ॥ तिथ्यंशं वा नृपांशं वा कुलिकंसर्वथा त्यजेत्। श्राद्धे प्रयाणादावेकाहं करपीडने ॥ १२ ॥ त्र्यहं पातेविवाहादौ यात्रादौ तद्दिनं त्यजेत्। अन्येषु स्वल्पकार्येषु विवर्ज्यास्तिथिनाडिकाः॥ १३ ॥ समस्तः कृष्णपक्षस्तु त्याज्यो मौञ्जीनिबन्धने।दलं जन्मफलादेशेविवाहादौ च पञ्चकम् ॥ १४ ॥ अनन्यगतिकत्वे च सर्वकार्येऽपि च द्व्यहम्।संभवे सकलं त्याज्यं लघुपक्षमसंभवे ॥ १५ ॥ जातके कालहोरा च ग्राह्यातन्वर्कसंभवा। अन्येषु सर्वकार्येषु तिस्रो ग्राह्या यथासुखम् ॥ १६ ॥ गर्गः—समस्तगुणदोषाणां विकल्पा ये प्रकीर्तिताः। प्रमाणमेव ते सर्वे नोपेक्ष्याहेतुभिर्बुधैः ॥ १७ ॥ विकल्पोक्तगुणो ग्राह्यो दोषस्त्याज्यः प्रयत्नतः।युगपद्गुणदोषौ चेत्तदा मिश्रफलं भवेत् ॥ १८ ॥ ज्योतिर्विवरणे— दीर्घव्यापिनि काले तु स्वल्प-

कालः पुनः स्मृतः। स एवोत्कृष्टफलदो ज्ञेयो नैवाऽऽद्यबाधकः ॥ १९ ॥ न्यायमीमांसायां—न हिंस्यात्सर्वभूतानि व्यापकोऽयं निषेधकः। न जातु ब्राह्मणंहन्यादुत्कृष्टधर्मसूचकम् ॥ २० ॥ तथातथाऽत्र विज्ञेया विकल्पेष्वखिलेष्वपि। व्यवस्थाप्रोक्तदोपाणां फलनिर्देशकैर्बुधैः ॥ २१ ॥ ज्योतिष्प्रकाशे— बहुव्यापकमाचार्यैःसामान्यं समुदाहृतम्। अल्पव्यापी विशेषस्तु स एव बलवानिह ॥ २२ ॥यद्विशेषेण सामान्यं हन्यते तद्विलुप्यते। नास्ति यत्र विशेषत्वं सामान्यं तत्रसंश्रयेत् ॥ २३ ॥

इति संदेहे विचारः।

_____

अथ जातकलग्नयोःप्राधान्यविचारः।

संहिताप्रदीपे— प्रायेण वारर्क्षतिथीन्दुवीर्यैर्माङ्गल्यकर्माणि समाचरन्ति।विवादमेकं तु विलग्नशुद्ध्या महत्त्वमस्यैव हि शोभनेषु ॥ १ ॥ सुखानि दुःखानिच सर्वदेहिनां भवन्ति पूर्वाचरितैः स्वकर्मभिः। विलग्नशुद्धिः किमितीह मृग्यतेन केनचित्पूर्वकृतं निवार्यते ॥ २ ॥ यज्जातकेन प्रसवेन दृष्टं तावत्प्रमाणंकिमिहोदयेन।लग्नप्रमाणं यदि जातकं किं न निश्चयोऽस्माद्द्वयमप्यकिंचित् ॥ ३ ॥सर्वाणि कार्याणि शुभाशुभानि करोतु दैवात्तु फलस्य सिद्धिः। संपद्यते तस्यतथोदयाय शुद्धिर्यथा यस्य सदैव संपत्॥ ४ ॥ नारदेः—स्वस्थे नरेःसुखासीने यावत्स्यन्दति लोचनम्। तस्य त्रिंशत्तमो भागस्त्रुटिरित्यभिधीयते ॥ ५ ॥त्रुटेः सहस्रभागोऽयं लग्नकालः स उच्यते। ब्रह्माऽपिः तं न जानाति किं पुनः प्राकृतो जनः ॥ ६ ॥ स कालोऽप्यन्यकालो वा पूर्वकर्मवशीद्भवेत्। निमित्तमात्रंदैवझस्तद्वशान्न शुभाशुभम् ॥ ७ ॥ संहिताप्रदीपे-इत्युक्तिरेषाऽऽगमनिन्दकानां नश्रद्दधेया(?) विदुषा कदाचित्। शास्त्राणि पूर्वेै रचितानि यानि महर्षिभिस्तानिकथं मृषा स्युः॥ ८ ॥ यथा पुराणागमसंहिताः स्युर्धर्मादिसिद्ध्यै बहवः प्रकाराः। प्रकारभेदोऽयमपीति किंचिद्वदन्ति पृच्छा जननादेयादि (देः) ॥ ९ ॥ न देशकालव्यवसायवर्जं भवेत्फलाप्तिः सति चापि दैवे। तथा फले सत्यपि जातकस्य भवेत्फलाप्तिस्तिथि-भोदयाद्यैः॥ १० ॥ यद्यत्फलं जन्मनि जातकोक्तं विरोधिना तस्य फलेन युक्ता।निहन्ति लभेन्दुविशुद्धिराद्यं फलाविरोधेऽपि फलद्व्याप्तिः ॥ ११ ॥ यथाऽऽप्तवाक्यादपहाय दुष्टं मार्गंगतः साधु यथा सुखी स्यात्। तथा विरुद्धेऽपि च जातकोक्ते फले शुभाप्तिस्तनुभादिवीर्यात् ॥ १२ ॥यत्पूर्वजन्मनि कृतं सदसच्च कर्म होरा तदीयफलपाकमिह व्यक्ति।यज्जाद-

कोदितफलादपरऽ सदादि तत्प्रत्ययः शकुनलग्ननिमित्तभाद्यैः ॥ १३ ॥ श्रेष्ठं फलं’शस्तदशाविपाके संशोधिते मध्यममष्टवर्गे। तिथीन्दुलग्नादिबले कनिष्ठं माङ्गल्यकार्येष्वितिगर्ग आह ॥ १४ ॥ ज्योतिष्प्रकाशे—दुष्टं जन्मफलं यत्र कर्मलग्नंशुभं भवेत्। मिश्रं तत्र समादेश्यं बुधैर्मृत्युफलं विना ॥ १५ ॥ प्रस्तुतस्यविरोधेन ग्राम्यः सर्वोऽ125प्यपक्रमः।वीणायां वाद्यमानायां वेदोद्गारो न जायते॥ १६ ॥ यथा सथैव दैवज्ञा जनाश्च स्वार्थमोहिताः। कर्मलग्ने प्रवर्तन्ते जन्मप्रश्नपराङ्मुखाः ॥ १७ ॥ ज्योतिर्विवरण— प्रमाणे जन्मकालोत्थं फलं सर्वत्र सर्वदा।कर्मलग्नफलं तत्र तदधीने समादिशेत् ॥ १८ ॥ जन्मजे कर्मजे वाऽपि फलेदुष्टे प्रकुर्वते।126 कार्यान्ते दुःखमायान्ति शकुन्ता इव पाशगाः ॥ १९ ॥ दैवंजन्मफलं ज्ञेयंकर्माङ्ग फलमुद्यमः।उभयोः सानुकूलत्वे सर्वं सिध्यति नान्यथा ॥२० ॥केचिद्देवात्स्वभावाच्चकालात्पुरुषकारतः। तथेदं जातकंसम्यग्भाव्यज्ञानप्रकाशकम् ॥ २१ ॥

इति जन्मलग्नकर्मलग्नयोः प्राधान्यविचारः।

_____

अथ शास्त्रार्थशिष्टाचारप्रामाण्यविचारः।

शास्त्रार्थाद्बलवाञ्छिष्टाचारोऽत्र बहुसंमतम्। शिष्टाचारस्य कालेन विलुप्ताःश्रुतयो यतः ॥ १ ॥ श्रीपतिः— न शास्त्रदृष्ट्या विदुषा कदाचिदुल्लङ्घनीयाः कुलदेशधर्माः।मूलं हि तेषां च्युतवेदशाखाभूयानधर्मः स्थितिभङ्गदोषः ॥ २ ॥कारिकायां– प्रमाणं ग्रामवचनं विवाहादौ तथाऽत्यये। यतः परम्परायातंधर्मे विदन्ति ते खलु ॥ ३ ॥ गृह्यसूत्रे - ग्रामवचनं च कुर्युरिति सकलवृद्धाःस्त्रियः पूर्वं पुरुषानुष्ठीयमानं परम्परायातं सदाचार स्मरन्ति। सहिताप्रदीपे—शास्त्रोत्थितोऽर्थोऽपि न च प्रमाणं स्त्रीशूद्रगोषा अपि यं वदन्ति। यथाहि भाण्डोत्कषणेन रात्रौ भवेत्पशूनां किल मूर्ध्नि पीडा ॥ ४ ॥ स्मृत्यन्तरे—सोऽनुष्ठेयो भवेद्धर्मे यो लोकश्रुतिसंमतः। शास्त्रशिष्टविरुद्धस्तु धर्मस्त्याज्योबुधैः सदा ॥ ५ ॥ कुलस्य देशस्य च चित्तवृत्तिर्न खण्डनीया विदुषा कदाचित्। यो लोकशास्त्रानुमतः स धर्मो लोको बलीयाननयोर्विरोधे ॥ ६ ॥न्यायमीमांसायां भट्टाचार्यैरुक्तं - तर्कोऽप्रतिष्ठः श्रुतयो विभिन्ना नासावृषिर्यस्य127मतं न भिन्नम्।धर्मस्य तत्त्वं निहितं गुहायां महाजनो येन गतः स पन्थाः

॥ ७ ॥ लोकविद्विष्टमस्वर्ग्यंधर्ममप्याचरेन्न तु। शिष्टाचारविरुद्धत्वादातिथ्ये गोवधोयथा ॥ ८ ॥

इति शास्त्रार्थशिष्टाचारप्रामाण्यविचारः।

_____

अर्थ प्रथमार्तवरप्रकरणम्।

नारदः — अमारिक्ताष्टमीषष्ठीद्वादशीप्रतिपत्स्वपि।परिघस्य तु पूर्वार्धे व्यतीपाते च वैधृतौ ॥ १ ॥ संध्यासूषप्लवे विष्टधामशुभं प्रथमार्तवम्। एकार्गलेमृतिंविद्यात्संध्याकाले तु पुंश्चली ॥ २ ॥ आद्यर्तौसुभगा नारी प्रतिपत्सु रजस्वला।द्वितीया भाग्यजननी तृतीयायां सुतान्विता ॥ ३ ॥ चतुर्थ्यां विधवा नारी पञ्चम्यां धनदायिनी। षष्ठ्यां च क्लेशभाक् चैव सप्तम्यां धनवर्धिनी ॥ ४ ॥ अष्टम्यां राक्षसी नारी नवम्यां पापवर्धिनी।दशम्यां प्रीतिकरी स्यादेकादश्यां सुतान्विता ॥ ५ ॥ द्वादश्यां दुर्भगा नारी त्रयोदश्यां हिरण्यदा।चतुर्दश्यां पुंश्चलो स्यात्पौर्णमास्यां सुपुत्रिका ॥ ६ ॥ यदि भद्रा नजायेत दर्शे स्याच्चौरिका ध्रुवम्।आदित्ये विधवा नारी सोमे चैव मृतप्रजा॥ ७ ॥ अङ्गारे चाऽऽत्महानिश्चबुधेकन्यां प्रसूयते। पुत्रिणी गुरुवारे चकन्योशुक्रे प्रसूयते। शनौ तु पुंश्चली नारी प्रथमर्तौविदुर्बुधाः ॥ ८ ॥ त्रयस्त्रीणि त्रिकं त्रीणि पञ्चकं सप्तकं त्रिकम्।उत्तराषाढामारभ्य प्रथमं त्वृतुलक्षणम् ॥ ९ ॥

अथ पृथक्फलानि।

संहिता धनपुत्राभ्यामश्विन्यांचेद्रजस्वला।दोषयुक्ता भरण्यां तु कृत्तिकायां सुपुत्रिणी ॥ १ ॥ रोहिण्यांधनसंयुक्ता मृगे स्वात्सुतशालिनी।आर्द्रायां भर्तृनिरता निर्वैराच भवेत्सती ॥ २ ॥ पतिव्रता पुनर्वसौ पुष्येच व्यालभद्वये।पूर्वाद्वये च युवती मारिका च करद्वये ॥ ३ ॥ स्वातीद्वयेधनवती विधवा स्यात्परद्वये।मूलद्वये नित्ययुक्ता सुभगा स्यात्परद्वये ॥ ४ ॥ धनिष्ठायां स्वैरिणी च सती शतभिषग्द्वये। अहिर्बुध्न्यद्वये नारी सुभगा भर्तृतत्परा ॥ ५ ॥ पूर्वाह्ले चाशुभं स्यादशुभमपरतो मध्यमं मध्यभागे रात्रौ चैवद्विषट्फे शुभमिति कथयन्त्युत्तराषाढभादौ। सप्तस्वार्द्रादिषु स्याद्रशुभमिति वदन्त्येव हस्तादिकेषु मैत्रादौ भर्तृहीना प्रथमरजसियद्भावि तत्सर्वमुक्तम् ॥ ६ ॥रोहिण्यार्द्राग्निमित्रामस्पतिदिनकृत्सौम्यभाग्याहिर्बुध्न्यप्रौष्ठाद्याप्याश्रविष्ठा-र्यमनिर्ऋनिमघावारुणेष्वङ्गनायाः। माङ्गल्यं सर्वसौख्यंभवतिनवरजोदर्शने त्वन्यथात्वं

मेष्वन्येष्वेव दीना पतिविरहवती सर्वसौभाग्यहीना ॥ ७ ॥ आद्यर्तौदुर्भगानारी विष्कम्भे चेद्रजस्वला।वन्ध्या चैवातिगण्डे च शूले शूलवती भवेत्॥ ८ ॥गण्डे तु पुंश्चली नारी व्याघाते चाऽऽत्मघातिनी।वज्रे चस्वैरिणी प्रोक्ता पाते च पतिघातिनी ॥ ९ ॥ परिधे मृतवन्ध्या च वैधृतौ पतिमारिणी।शेषाःशुभावहा योगा यथानामफलप्रदाः॥ १० ॥ पुत्रवती शुभं प्राप्ता पूर्वाह्णे तु रजस्वला।मध्याह्ने तुशुभप्राप्तिःस्वैरिणी चापराह्णके॥ ११ ॥ संध्ययोरुभयोर्वेश्या निशायां विधवा तथा। पूर्वरात्रौ च वन्ध्या स्यार्द्दुर्भगा सर्वसंधिषु ॥ १२ ॥ ववे पुष्पवतीनारी बन्ध्या वा विधवा भवेत्। बालवे पुत्रिणी नारी कौलवे प्रमदाभवेत् ॥ १३ ॥ तैतिले संमतवती गरे नारी विनश्यति। नष्टप्रजा वणिक्संज्ञेविष्ट्यां बन्ध्या धनोज्झिता ॥ १४ ॥ शकुनौ च चतुष्पादे नारी वैधव्यमाप्नुयात्। नागे न रमते नारी किंस्तुघ्ने विधवा भवेत् ॥ १५ ॥ प्रथमर्तौमधौ नारी विधवा भवति ध्रुवम्। वैशाखे धनपुत्राढ्या ज्येष्ठे रोगान्विताभवेत् ॥ १६ ॥ आषाढे च मृतापत्या श्रावणे च धनान्विता।भाद्रे तु दुर्भगा नारीआश्विने च तपस्विनी ॥ १७ ॥ ऊर्जेऽप्यायुष्मती नारी मार्गशीर्षे बहुप्रजा।पुष्ये तु पुंश्चली नारी माघे पुत्रसुतान्विता ॥ १८ ॥ फाल्गुने श्रीमती साध्वीक्रमान्मासफलं स्मृतम्। आत्मघ्नी भ्रूणहा मेषे वृषे पुत्रवती भवेत्। द्वन्द्वेकन्याप्रसूर्नारीमृतापत्या च कर्किणि ॥ १९ ॥ सिंहे वैधव्यमायाति कन्यायांस्त्रीप्रसूर्भवेत्।तुलायां बहुपुत्राढ्या दुष्टकर्मरताऽलिनि ॥ २० ॥ चापे पुत्रधनाढ्या स्यान्मकरे सुखिनी भवेत्।सकृत्प्रजावती कुम्भे मीने चाल्पप्रजाभवेत् ॥ २१ ॥ सुभगा श्वेतवस्त्रा च रोगिणी रक्तवाससा।नीलाम्बरधरांनारी विधवा प्रथमार्तवे ॥ २२ ॥ भोगिनी पीतवस्त्रा च दृढवस्त्रा पतिव्रता। दुर्भगा शीर्णवस्त्रा च सुभगा चारुवस्त्रिणी ॥ २३ ॥ देवस्थाने पितृस्थाने निन्द्यस्थानेऽन्यवेश्मनि। पुष्पवत्याः फलं न स्यान्मार्गे चाण्डालवेश्मनि ॥ २४ ॥ प्रथमर्तौफलं स्त्रीणामुच्यते रजसा तु तत्।सुभगा पुत्रसंयुक्ता शुक्लवर्णे सद्रार्तवे ॥ २५ ॥ शशशोणितसंकाशे यद्वा रक्तकसंनिभे।पुत्रकन्याप्रसूतिः स्यान्नीलेतु स्यान्मृतप्रजा ॥ २६ ॥ कर्पुरे म्रियते सा च पिङ्गले च मृतप्रजा।कृष्णे तुविधवा नारी रजस्येवं विनिर्दिशेत् ॥ २७ ॥ शोणिते बिन्दुमात्रे तु स्वैरिणीचाल्पशोणिता।वरा मधुस्त्रवा स्यात्तु दुर्भगा बहुशोणिता ॥ २८ ॥ रक्ते, रक्तोभवेत्पुत्रः कृष्णे च बहुपुत्रिका।पिच्छिले च भवेद्बन्ध्या काकबन्ध्या च

पाण्डुरे ॥ २९ ॥ पीते च स्वैरिणी प्रोक्ता गुञ्जाभे सुभगा भवेत्। सिन्दुराभेभवेत्कन्या रजःशोणितलक्षणम् ॥ ३० ॥ गुरुशुक्रयुते लग्ने प्रेक्षिते128 चात्र पुष्पजे।निद्यं फलं समस्तंतु नाशमेति शुभं भवेत् ॥ ३१ ॥ आरोग्यसौभाग्यवती च सौम्यवर्गेषु सा पुष्पवती च कन्या।दुःखामयानर्थविवादशीला वर्गेष्वसौम्येषु च दुर्मतिः स्यात् ॥ ३२ ॥ पुष्पं दृष्टं निन्दिते मे यदि स्याच्छान्तिंकुर्यादङ्गनानांच पूर्वम्।तत्संयोगं वल्लभा वर्जयेयुर्यावद्भूयः शस्तभे चैवदृष्टम् ॥ ३३ ॥ शेषं विवाहवत्सर्वं पुष्पे लग्नादि चिन्तयेत् ॥ ३४ ॥ अलंकृतामार्तवसंयुतां च गेहे शुभे दीपयुते निवेशयेत्।तिलान्गुडाषूपयुतं च पूगं स्त्रीभिश्चदद्याद्विजमत्र पूजयेत् ॥ ३५ ॥ आरोपयेदिमां तत्र पादुके शोभने ततः। पुण्याहंवाचयित्वा तु ब्राह्मणान्पूजयेत्सुधीः ॥ ३६ ॥ त्रिरात्रं तु सकृद्भुक्त्वा स्मृतिप्रोक्तैर्व्रतैर्युता। चतुर्थे संगवेऽतीते स्नात्वा स्त्री धर्ममाचरेत् ॥ ३७ ॥

इति प्रथमरजोदर्शनफलम्।

_____

अथ रजस्वलाशान्तिः।

निन्द्यर्क्षतिथिवारादौ यत्र पुष्पं प्रदृश्यते। शान्तिंसमाचरेत्तत्र वक्ष्यमाणांशुभाप्तये ॥ १ ॥ गोमयेनोपलिप्ते तु स्थण्डिले समलंकृते। ग्रहाणां मण्डलं तत्रतद्वद्वर्णेन कारयेत् ॥ २ ॥ मण्डलस्येशदिग्भागे व्रीहिराशिं विनिक्षिपेत्। भाराचलप्रमाणं तु वस्त्रेण परिवेष्टयेत् ॥ ३ ॥ तस्योपरि न्यसेत्पद्मं दले काद्यष्टवर्गकम्।स्वराणां विन्यसेत्तत्र द्वे द्वे कोणे यथाक्रमम् ॥ ४ ॥ कर्णिकायां न्यसेद्बीजंहल्लेखामन्त्रसंयुतम्। तस्योपरि न्यसेत्कुम्भं वस्त्रेण परिवेष्टितम् ॥ ५ ॥ गुडूचीविल्वापामार्गपत्रपालाशसर्पपान्। दूर्वापल्लवसंयुक्तां सर्वौपधिशतावरीम् ॥ ६ ॥ सहदेवीं विष्णुक्रान्तां हरिद्राचूर्णसंयुताम्। पञ्चपल्लवसंयुक्ते पञ्चरत्नसमन्विते ॥ ७ ॥ तस्मिन्कुम्भे समावेश्य इन्द्राणींमन्त्रमेव च। सवस्त्रप्रतिमां चैव तस्मिन्नावाहयेत्सुधीः ॥ ८ ॥ सर्वान्देवान्समभ्यर्च्य द्युपचारैश्चशोभनैः। आपोदिष्ठादिभिर्मन्त्रैरव-लिङ्गैर्मन्त्रयेत्ततः ॥ ९ ॥समुद्रज्येष्ठां त्र्यम्बकं च विष्णुं रुद्रं जपेत्पुनः। नमस्कारं ततः कृत्वा ह्याचार्यंसम्यगर्चयेत् ॥ १० ॥ ऋत्विग्भ्यो दक्षिणां दद्यात्तत्कुम्भेनाभिषेचयेत्। सवस्त्रप्रतिमां गां च ह्याचार्याय निवेदयेत् ॥ ११ ॥ प्रच्छादनपदं दद्यात्ततः शान्तिंप्रयच्छति। यावच्छान्तिं प्रकुर्वीत तावत्तां नावलोकयेत् ॥ १२ ॥ नारदः— निन्द्य-

र्क्षतिथिवारेषु यस्याः पुष्पं प्रदृश्यते। तत्र शान्तिं प्रकुर्वीत घृतदूर्वातिलाक्षतैः ॥ १३ ॥ प्रत्येकमष्टशतं [तु] गायत्र्या जुहुयात्ततः। स्वर्णगोभूतिलान्दद्यात्सर्वदोषापनुत्तये।भर्ता तत्राभिगमनं वर्जयेच्छुभदर्शनात् ॥ १४ ॥

इति रजस्वलाशान्तिः।

_____

अथ गर्भाधानम्।

नारदः— रजोदर्शनतोऽस्पृश्या नार्यो दिनचतुष्टयम्। ततः शुद्धाः क्रियास्वेताः सर्ववर्णेष्वयं विधिः ॥ १ ॥ वसिष्ठः— पौष्णद्वये दुष्टभसार्पपैत्र्य129शक्रद्वये नैधनजन्मभेषु। उत्पातपापग्रहदूषितेषु न कार्यमाधानमनिष्टलग्ने ॥ २ ॥ उपप्लवेवैधृतिपातयोश्च विष्ट्यां दिवा पारिवपूर्वभागे। संध्यासु सर्वास्वपि मातृपित्रोर्मृतेऽह्नि पत्नीगमनं विवर्ज्यम् ॥ ३ ॥ दिनेषु युग्मेषु च वक्ष्यमाणयोगैःसुतार्थी स्वसतीमुपेयात्। दिनेष्वयुग्मेषु130च कन्यकार्थी हित्वा च गण्डांस्तिथिलग्नभागान् ॥ ४ ॥ ओजर्क्षांशे लग्नमे वीर्ययुक्ते जीवन्द्वर्कैराजराश्यंशसंस्थैः। पुंजन्मस्याद्व्यत्यये कन्यका स्यान्मिश्रै षण्ढो द्व्यङ्गगैर्द्वित्रिजन्म॥ ५ ॥ ओजांशकर्क्षाद्विपमर्क्षसंस्थः पुंजन्मकारी रविसूनुरेकः। विचार्य कार्यं पुरुषो ग्रहाणां वाच्योऽय पुत्रस्त्वथकन्यका वा ॥ ६ ॥ चन्द्रार्कशुक्रक्षितिजैः स्ववर्गगैबृहस्पतौधर्मविलग्नपुत्रगे।योगेष्वपत्यं भवतीति निश्चयादमी च योगा विफला विजीविनाम्131 ॥ ७ ॥

इति गर्भाधानम्।

_____

अथ पुंसवनम्।

नारदः— प्रसिद्धविषये गर्भे तृतीये वाऽथ मासि च। कुर्यात्पुंसवनं कर्म सीमन्तं चयथा तथा ॥ १ ॥ जातूकर्ण्यः— द्वितीये वा तृतीये वा मासि पुंसवनं भवेत्।व्यक्ते गर्भे भवेत्कार्यं सीमन्तेन सहाथवा ॥ २ ॥ मासप्राधान्येन विहितत्वात्सुरगुरुशुक्रमौढ्ये मलमासेऽपि कर्तव्यम्। तदाह बृहस्पतिः— मासप्रयुक्तकार्येषुमूढत्वं गुरुशुक्रयोः। न दोषकृत्तदा मासो लक्षणैर्बलवानिति ॥ ३ ॥ यमः— गर्भेवार्धुषिके भृत्ये श्राद्धकर्मणि मासिके। सपिण्डीकरणे नित्ये नाधिमासं विवर्जयेत् ॥ ४ ॥ वराहः— हस्तो मूलः श्रवणः पुनर्वसुर्मृगशिरस्तथा पुष्यः।पुंसंव-

केषु कार्येष्वेतानि शुभानि धिष्ण्यानि ॥ ५ ॥ कारिकायां132— पुंनक्षत्राणि चैतानि तिष्यो हस्तः पुनर्वसुः। अभिजित्प्रोष्ठपाच्चैव अनूराधाश्वियुक्श्रुतिः ॥ ६ ॥ वसिष्ठः—सार्पाच्चतुष्कं वसुवारिरुद्रत्वाष्ट्रत्रयैविश्वयमान्त्यशक्राः। स्त्रीलिङ्गताराः श्रवणेन्दुमूलतारा न पुंसः पुरुषाः परे स्युः ॥ ७ ॥ बृहस्पतिः— कुलीरं मिथुनं कन्यां हित्वा शेषाः शुभावहाः।अनुक्तमपि राशौ तु शुभं स्याच्छुभवीक्षिते ॥ ८॥कन्यायां न प्रशंसन्ति शुभदृष्टे युतेऽपि वा ॥९॥ नृसिंहः— रिक्तां च पर्व नवमीं त्यक्त्वा पुंसवने शुभाः ॥ १० ॥ वसिष्ठः— अष्टमस्थानगाः सर्वे नेष्टाः स्युस्ते शुभावहाः। एवंसम्यङ् निरीक्ष्यैव कुर्यात्पुंसवनक्रियाः ॥ ११ ॥ बृहस्पतिः— गुरुशुक्रबुधेन्दूनां द्रेष्काणदिवसांशकाः। तेषामुदयहोरा च पुंसवेऽतिशुभावहा ॥ १२ ॥ कारिकायां—तृतीये गर्भसंस्कारो मासि पुंसवनं भवेत्। आद्यगर्भो न विज्ञातस्तृतीयेमासि वै यदि।चतुर्थे मासि कर्तव्यमाद्यगर्भे स्मृतो विधिः ॥ १३ ॥

इति पुंसवनम्।

_____

अथ सीमन्तोन्नयनम्।

नारदः—चतुर्थे मासि षष्ठे चाऽप्यष्टमे वातदीश्वरे।बलोपपन्नेदंपत्योश्चन्द्रतारावलान्विते ॥ १ ॥ कार्ष्णाजिनिः— गर्भलम्भनमारुभ्य यावता प्रसवस्तदा।सीमन्तोन्नयनं कुर्याच्छङ्खस्य वचनं यथा ॥ २ ॥ मासश्चात्र सौरसावनयोरन्यतरो गृह्यते। कालविधाने— चतुर्थषष्ठाष्टममासभाजि सौरेण गर्भे प्रथमं विधेयम्।सीमन्तकर्म द्विजभामिनीनां मासेऽष्टमे विष्णुबलिं133 च कुर्यात् ॥ ३॥ वसिष्ठः— चतुर्थेसावने मासि षष्ठेवाऽप्यथवाऽष्टमे ॥ ४ ॥ नारदः— अरिक्तापर्वदिवसे कुजजीवार्कवासरे। तीक्ष्णमिश्रोग्रवर्ज्येषु पुंलग्ने पुंनवांशके ॥ ५ ॥ शुद्धेऽष्टमे जन्मलग्नात्तयोर्लग्ने न नैधने। शुभग्रहयुते दृष्टे पापखेटयुतेक्षिते ॥ ६ ॥ पञ्चेष्टिकेचतुर्भिर्वा इष्टेऽर्केन्द्वीज्यपूजकैः134। स्त्रीणां तु प्रथमे गर्भे सीमन्तोन्नयनं शुभम् ॥ ७ ॥कारिकायां—पुंनक्षत्रे सिते पक्षे त्वन्वाधानादि पूर्ववत्।पुंनक्षत्राणि चैतानि तिष्योहस्तः पुनर्वसुः ॥ ८ ॥ अभिजित्प्रोष्ठपाच्चैव ह्यनुराधाश्वयुक् तथा। ऋक्षस्यमध्यमे पादद्वये कर्मेदमिष्यते ॥ ९ ॥ नारदः—शुभग्रहेषु धीधर्मकेन्द्रेष्वरिभवत्रिषु।पापेषु सत्सु चन्द्रेऽन्त्यनिधनाद्यरिवर्जिते ॥ १० ॥ क्रूरग्रहाणामेकोऽपि लग्नादन्त्यात्मजाष्टगः। सीमन्तिनीं वा तद्गर्भं बली हन्ति न संशयः ॥ ११ ॥ नृसिंहः—

लग्नादष्टमराशीशः केन्द्रगः शुभवीक्षितः। यद्यदष्टमभस्योक्तं दोषमाशु व्यपोहति ॥ १२ ॥ वसिष्ठः—मासे मासे मासपादिग्रहाणां शान्ति कुर्याच्छान्तिवाक्यैर्जपेश्च। होमैर्दानैः सज्जनानां च वाक्यैर्गर्भं सम्यग्रक्षयेत्पुत्रकामी ॥ १३ ॥ दीपिकायां—चतुर्थाद्यष्टपर्यन्तं मासि पुंनामभे सकृत्। सीमन्तोन्नयनं स्त्रीणांगर्भस्य प्रतिगर्भकम् ॥ १४ ॥ हारीतः—सकृत्संस्कृतसंस्काराः सीमन्तेन द्विजैःस्त्रियः। यं यं गर्भं प्रसूयन्ते स सर्वः संस्कृतो भवेत् ॥ १५ ॥

इति सीमन्तोन्नयनम्।

_____

अथ जातकर्म।

तस्मिञ्जन्ममुहूर्तेऽपि सूतकान्तेऽथवा शिशोः। जातकर्म च कर्तव्ये पितृपूजनपूर्वकम् ॥ १ ॥ वसिष्ठः—संतर्प्य देवान्सपितृद्विजांश्च सुवर्णंगोभूतिलधान्यवस्त्रैः।गुडाज्यरौप्यैर्लवणैश्च होमैरक्षोघ्नमन्त्रैः सह जातकर्म ॥ २ ॥ अतीतकार्याण्यखिलानि तानि कार्याणि सौम्यायनगे दिनेशे।सिते गुरौ वाऽप्यथ दृश्यमानेतदुक्तपञ्चाङ्गदिनेऽप्यखण्डे ॥ ३ ॥ क्षिप्रैश्चरैर्ध्रुवैर्मिश्रैर्द्वादशे प्रथमेऽह्नि वा।केन्द्रे गुरौभृगौकार्यं जातकर्म सनातनम् ॥ ४ ॥ वसिष्ठः— जातमात्रकुमारस्यमुखमस्यावलोकयेत्। पिता ऋणाद्विमुच्येत पुत्रस्य मुखदर्शनात् ॥ ५ ॥ जातेपुत्रे पितुः स्नानं सचैलं च विधीयते ॥ ६ ॥ तच्च शीतोदकेन कार्यम्। जाबालिः—कुर्यान्नैमित्तिकं स्नानं शीताद्भिः काम्यमेव च ॥ ७ ॥ एतद्रात्रावपि कार्यम।वसिष्ठः – पुत्रजन्मनि यज्ञे च तथा संक्रमणे रवेः।राहोश्च दर्शने स्नानंप्रशस्तं नान्यथा निशि ॥ ८ ॥ सूतके च समुत्पन्ने पुत्रजन्म यदा भवेत्।कर्तृस्तात्कालिकी शुद्धिः पूर्वाशौचेन शुध्यते ॥ ९ ॥ वसिष्ठः—श्रुत्वा जातं पिता पुत्रं सचैलं स्नानमाचरेत्। उत्तराभिमुखो भूत्वा नद्यां या देवखातके॥ १० ॥ राजावुदकादिगमनाशक्तौविशेषमाह सांख्यायनः—दिवा यदाहृतं तोयंकृत्वा स्वर्णयुतं तु तत्।रात्रिस्नाने तु संप्राप्तेस्नायादनलसंनिधौ ॥ ११ ॥

इत जातकर्म।

_____

अथ नामकर्म।

नारदः —सूतकान्ते नामकर्म विधेयं स्वकुलोचितम्।नाम पूर्वं प्रशस्तंस्यान्मङ्गलैसुसमाक्षरैः ॥ १ ॥ व्यासः—नामधेयं दशम्यां तु केचिदिच्छन्ति सूरयः। द्वादश्यामाहुग्न्ये तु मासे पूर्णे तथा परे ॥ २ ॥ अष्टादशेऽहनितथा

वदन्त्यन्ये मनीषिणः ॥ २ ॥ बृहस्पतिः—द्वादशे दिवसे वाऽपि जन्मतो दिवसे शुभे। षोडशे विंशतौ चैव द्वाविंशे वर्णतः क्रमात् ॥ ३ ॥ प्राप्तकालेऽपि विशेषमाहगर्गः –व्यतीपाते च संक्रान्तौ ग्रहणे वैधृतावपि। श्राद्धं विना शुभं नैव प्राप्तकालेऽपि मानवः ॥ ४॥ अमासंक्रान्तिविष्ट्यादौ प्राप्तकालेऽपि नाऽऽचरेत् ॥ ५॥ अत्राहनीति दिवसविधाने नामकर्मणि गुरुशुक्रयोर्मूढता नास्ति। बृहस्पतिः—यस्यां क्रियायां सर्वोक्तः कालो मासैर्दिनैरपि। तस्यां न दोषो मूढत्वं वक्रं वा(मोढ्यंवा वक्रत्वं) जीवशुक्रयोः ॥ ६ ॥ पूर्वाह्णः श्रेष्ठ इत्युक्तो मध्याह्णोमध्यमः स्मृतः। अपराह्णं च रात्रिं च वर्जयेन्नामकर्मणि ॥ ७ ॥ नारदः—देशकालोपघाताद्यैः कालातिक्रमणं यदि।अनस्तगे भृगावीज्ये तत्कार्यंचोत्तरायणे॥ ८ ॥ चरस्थिरमृदुंक्षिप्रनक्षत्रे शुभवासरे। चन्द्रतारावलोपेते दिवसेऽपि शिशोः पितुः ॥ ९ ॥ नृसिंहः–सायाह्णे दुष्टयोगे च शनिभूमिजवारयोः।रिक्ता पर्वाष्टमी विष्टिः किंस्तुघ्नं च विशेषतः ॥ १० ॥ एतैर्दोषर्युते काले रात्रावपि नकारयेत्। छिद्रां पूर्णिमां नवमीं हित्वा शेषाः शुभावहाः ॥ ११ ॥ शकुन्यादीनिविष्टिं च नामकर्मणि वर्जयेत्।शुभनक्षत्रयोगेषु शुभेषु शुभमीरितम् ॥ १२ ॥बृहस्पतिः—शुभवारे च षड्वर्गे शुभानां नामसंपदे। राशयश्चस्थिराः श्रेष्ठा द्विस्वभावाः शुभैर्युताः ॥ १३ ॥ नृसिंहः—लग्नाद्व्ययाष्टमे सर्वे न शुभा नामकर्मणि।केन्द्रत्रिकोणगाः सौम्या व्यये सर्वे त्वशोभनाः ॥ १४ ॥ शुभलग्ने शुभांशे चनैधने शुद्धिसंयुते। लग्ने135 त्वनैधने सौम्यैः संयुते वा निरीक्षिते ॥ १५ ॥ संग्रहकार—देवालयगजाश्वानां वृक्षाणां वापीकूपयोः। सर्वोपकरणानां च चिह्नानां योषितां नृणाम् ॥ १६ ॥ काव्यादीनां कवीनां च पश्वादीनां विशेषतः। राजप्रसादसंज्ञानां नामकर्म विशिष्यते ॥१७॥ गर्गः—मासनाम गुरोर्नाम दद्याद्बालस्यवै पिता।कृष्णोऽनन्तोऽच्युतश्चक्री वैकुण्ठोऽथ जनार्दनः ॥ १८ ॥ उपेन्द्रो यज्ञपुरुषोवासुदेवस्तथा हरिः। योगीशः पुण्डरीकाक्षो मासनामान्यनुक्रमात् ॥ १९ ॥

इति नामकर्म।

_____

अथ खट्वारोहविधिः।

बृहस्पतिः—खट्टारोहस्तु कर्तव्यो दशमे द्वादशेऽपि वा। षोडशे दिवसे वाऽपि द्वाविंशे दिवसेऽपि वा ॥ १ ॥ भविष्ये—अभीष्टपुण्यदिवसे चन्द्रताराबलान्वितेमृदुध्रुवक्षिप्रभे तु माता वा कुलयोपितः ॥ २ ॥ योगशायिहरिं स्मृत्वा प्राक्शीर्षे

विन्यसेच्छिशुम् ॥ ३ ॥ करत्रये वैष्णवरोहिणीषु136दितिद्वये चाऽऽश्विनकध्रुवेषु। कुर्याच्छिशूनां नृपतेश्च तद्वदान्दोलनं137 वै सुखिनो भवन्ति ॥ ४ ॥ त्रयोदशस्तु138कन्याया न नक्षत्रविचारणा।अन्यस्मिन्दिवसे चेत्स्यात्तिर्यगास्ये प्रशस्यते ॥ ५ ॥

इति खट्वारोहणविधिः।

_____

अथ दुग्धपानविधिः।

नृसिंहः—एकत्रिंशे दिने चैव पयः शङ्खेन पाययेत्। अन्नप्राशननक्षत्रे दिवसोदयराशिषु ॥ १ ॥ नक्षत्रे मासि संपूर्णे जातर्क्षे तु विशेषतः।मासान्तेदुग्धपानं स्यात्पश्चात्काले सुशोभने ॥ २ ॥ उत्तरात्रयहस्ताश्च त्वाष्टवैष्णववासवाः। पौष्णाश्विविन्यौ मघा स्वातिर्वारुणादितिजीवभम् ॥ ३ ॥ रोहिण्यन्दवमैत्राश्च दुग्धपाने शिशोः शुभाः।षष्ठी रिक्ताऽष्टमी दर्शवर्ज्या विष्टिः स्थिराणिच ॥ ४ ॥ वर्ज्यास्त्वशुभयोगाश्च कृष्णे चान्त्यत्रिकं विना। अधोमुखानिवर्ज्यानि मीनाजालिगृहाणि च ॥ ५ ॥ जीवशुक्रेन्दुसौम्यानां वारवर्गे क्षणाः शुभाः। शुभानां राशयः श्रेष्ठा विशेषाच्छुभकर्मणि ॥ ६ ॥ आया ११ रि ६भ्रातृगाः३ पापा विशेषेण शिशोः शुभाः। पूर्वाह्नेचापि मध्याह्ने कुर्याद्राशिंविवर्जयेत् ॥ ७ ॥ योगिनीराहुरुद्रादिमुखं चैव विवर्जयेत् ॥ ८ ॥ योगिनीलक्षणं तु प्रागेवोक्तम्।

अथ चरयोगिनी।

इन्द्रवायुयमशूलपाशिनां बार्हिषश्रवणरक्षसां क्रमात्। अर्धयाममनुवासरादितो दिक्षु संभ्रमति योगिनी चरा ॥ १ ॥

अथ राहुलक्षणम्।

गुरुभान्वोर्वसेत्प्राच्यामिन्दौ शुक्रे च दक्षिणे।कालराहुः कुजे प्रत्यगुत्तरेबुधमन्दयोः ॥ १ ॥

अथ रुद्रलक्षणम्।

हरिसोमवह्निराक्षसयमवरुणानिलहरालयेष्वेवम्।उदयादि भ्रमति सदाघटिकारुद्रो महाप्रबलः ॥ १ ॥

इति दुग्धपानम्।

_____

गर्गः—*मासे139 षष्ठे सप्तमे वाऽष्टमेऽपि द्वादशेऽपि वा। कर्णवेधं प्रशंसन्तिपुष्ट्यायुः श्रीविवृद्धये॥१॥ बृहस्पतिः—जन्मतो दशमे वाऽह्नि द्वादशे वाऽथषोडशे।सप्तमे मासि वा कुर्यादष्टमे मासि वा पुनः॥२॥ गर्गः—कार्तिके पौषमासे वा चैत्रे वा फाल्गुनेऽपि वा। कर्णवेधं प्रशंसन्ति शुक्लपक्षे शुभे दिने॥३॥ अगस्त्यः—द्वयोश्च संध्ययोर्लग्ने न कुर्यात्कर्णवेधनम्। रात्रावपि तथा लग्ने नक्षत्रतिथिसंधिषु। कर्णवेधं न कृ॒र्वीत कुर्याच्चेच्छेदनं भवेत्॥४॥ नृसिंहः—एकादश्यष्टमीपर्वरिक्ता वर्ज्याः शुभावहाः। शिष्टाश्च तिथयः सर्वाः कृष्णे चान्त्यत्रिकेविना॥५॥ शकुन्यादीनि विष्टिं च विशेषेण विवर्जयेत्। शुभयोगेषु सर्वेषु कर्णवेधः शुभावहः॥६॥कर्णद्वयादितिक्षिप्रमृदुभिस्त्र्यायगैः शुभैः। गुरौलग्नेऽयकेऽप्याहुरुत्तरासु श्रुतिव्यधम्॥७॥ वेध्यौ कर्णावदन्तस्य विषमेऽब्देऽपिवा शिशोः।शुक्लपक्षे शुभे वारे चैत्रे140 पौषोर्जफाल्गुने॥८॥ बृहन्नारदः—वृषभेमिथुने मीने कुलीरे कन्यकासु च। तुलाचापे च कुर्वीत कर्णवेधं शुभर्धये॥९॥मेषश्च मकरश्चैव मध्यमौ गुरुचोदितौ। सिंहवृश्चिककुम्भाश्च ह्यधमत्वाद्विवर्जिताः॥१०॥ बृहस्पतिः—मन्दारार्कांशवाराः स्युर्वर्ज्याः कर्णस्य वेधने। गुरुशुक्रेन्दुजेन्दूनां पूज्या वारांशकोदयाः॥११॥ वागीशशुक्रेन्दुजवासरेषु शस्तः शिशूनामपि कर्णवेधः। वदन्ति तज्ज्ञाः सरवीन्दुभौममन्दे कृते त्रुट्यति कर्णयुग्मम्॥१२॥ रन्ध्रारिव्ययगो नेष्टो गुरुः शेषेषु शोभनः। चतुरस्रगतः सौम्यो नेष्टःशेषेषु शोभनः॥१३॥ सप्ताष्टमगतः शुक्रो न शुभोऽन्यत्र शोभनाः। चन्द्रोद्वित्रिसुतस्त्रीषु धर्मकर्मगतः शुभः॥१४॥ त्रिषडायगताः पापाः शुभाः कर्णस्यवेधने। अष्टमस्थानगाः सर्वे नेष्टाः कर्णस्य वेधने।कर्णवेधे त्रिलाभस्यौक्रूरौनेष्टौशुभाशुभौ॥१५॥ संग्रहे—शिशोरजातदन्तस्य मातुरुत्सङ्गसर्पिणः। सूचिको वेधयेत्कर्णौसूच्या द्विगुणसूत्रया॥१६॥ शातकुम्भमयी सूची वेधनेतु शुभप्रदा। राजती चाऽऽयसी वाऽपि यथाविभवतः शुभा॥१७॥ सुभूमौप्राङ्गणे रम्ये शुचौ देशेऽम्बरे रवौ। संनिधौ वेधयेत्कर्णौस्त्रीपुंसोर्वामदक्षिणौ॥१८॥ शुक्लसूत्रसमायुक्तताम्रसूच्याऽथ वेधयेत्। वेधात्तृतीये नक्षत्रे क्षालयेदुष्णवारिणा॥१९॥ देवलः—कर्णरन्ध्रे रविच्छाया न विशेदग्रजन्मनः। तं

दृष्ट्वा विलयं यान्ति पुण्यौघाश्च पुरातनाः॥२०॥ शङ्खः—अङ्गुष्ठमात्रसुषिरौ कर्णौ न भवतो यदि। तस्मै श्राद्धं न दातव्यं यदि चेदासुरं व्रजेत्॥२१॥

इति कर्णवेधविधिः।

_____

अथ निष्क्रमणम्।

बृहस्पतिः—अथ निष्क्रमणं नाम गृहात्प्रथमनिर्गमः। अकृतायां क्रियायांस्यादायुःश्रीनाशनं शिशोः।कृते संपद्विवृद्धिः स्यादायुर्वर्धनमेव च॥१॥ यमः—तृतीये मासि कर्तव्यमहःसूर्यस्य दर्शनम्। चतुर्थे मासि कर्तव्यमग्नेश्चन्द्रस्य दर्शनम्। उपनिष्क्रमणं कुर्याच्चतुर्थे मासि सावने॥२॥ संग्रहे—चत्वार्यर्थम्णविश्वर्क्षात्तिस्रोऽहिर्बुध्न्यभाद्विदुः।मैत्रमादित्यपुष्यौच रोहिणी च शुभावहाः॥३॥पूर्वपादाः शुभाः प्रोक्ताः कृष्णे चान्त्यधिकं विना। रिक्ताषष्ठ्यष्टमीदर्शद्वादशीश्च विवर्जयेत्॥४॥ वर्ज्यास्त्वशुभयोगाः स्युर्विष्टिश्चशकुनादिच। वृषालिमेषा वर्ज्याः स्युस्तथैवाधोमुखानि च॥५॥ सतां तु वारवर्गाश्चशुभदास्तूदयास्तथा। चान्द्रं सर्वं विवर्ज्यं स्यात्सर्वेऽशस्ता विनाशदाः॥६॥ केन्द्रत्रिकोणगाः सौम्याः पापाःषष्ठास्त्रिलाभगाः। उपनिष्क्रमणे शस्ताः शिशोरायुष्प्रवर्धनाः॥७॥ कारिकाया—चतुर्थे मासि पुण्यर्क्षे शुक्लेनिष्क्रमणं भवेत्।स्नातं स्वलङ्कृतं चाभिहतं स्वस्त्ययनं शिशुम्॥८॥ आदाय गेहान्निष्क्रम्यगच्छेयुर्देवतालयम्। अभ्यर्च्य देवतां सम्यगाशिषो वाचयेदथ॥९॥ दत्त्वा प्रदक्षिणं गेहमानयन्ति ततः स्वकम्। मातृस्वगृहं गत्वा मातुलादेर्गृहं नयेत्॥१०॥तदाशीर्वचनाद्यैः स्याद्दीर्घायुरभिनन्दितः। जयन्तस्य मतेनायं लिखितः शिशुनिष्क्रमः॥११॥

इते निष्क्रमणम्।

_____

अथ भूम्युपवेशनम्।

पद्मपुराणे—पञ्चमे च तथा मासि भूमौतमुपवेशयेत्। तत्र सर्वग्रहाः शस्ताभौमोऽप्यत्र विशेषतः॥१॥ तिथि विवर्जयेद्रिक्तां शस्तान्याशृणु भामिनि। उत्तरात्रितयं सौम्यं पुष्यर्क्षं शक्रदैवतम्॥२॥ प्राजापत्यं च हस्तश्चशस्तमाश्विनमित्रभम्। वराहं पूजयेद्देवं पृथिवीं च तथा द्विजः॥३॥ पूजनं पूर्ववत्कृत्वागुरुदेवद्विजन्मनाम्। भूभागमुपलिप्याथ तत्र कृत्वा तु मण्डलम्। शङ्ख पुण्याह-

शब्देन भूमौ तमुपवेशयेत्॥४॥ तत्र मन्त्रः-—ईक्षैनं वसुधे देवि सदा सर्वगतंशुभे। आयुष्प्रमाणं सकलं निक्षिपस्व हरिप्रिये॥५॥

इति भूम्युपवेशनम्।

_____

अथ जीविकापरीक्षणम्।

मुहूर्तेचिन्तामणौ–तस्मिन्काले स्थापयेत्तत्पुरस्ताद्वस्त्रं शस्त्रं पुस्तकं लेखनीयम्।स्वर्णं रौप्यं यच्च गृह्णाति बालस्तैराजीवैस्तस्य वृत्तिः प्रदिष्टा॥१॥

अथान्नप्राशनम्।

नारदः—षष्ठे मास्यष्टमे वाऽपि पुंसां स्त्रीणां तु पञ्चमे।सप्तमे मासि वा कार्ये नवान्नप्राशनं शुभम्॥१॥ रिक्तादिनत्रयं नन्दां द्वादशीमष्टमीममाम्। त्यक्त्वाऽन्यतिथयः श्रेष्ठाः प्राशने शुभवासरे॥२॥ विधिरत्ने—बालाम्नभोजनविधौ गुरुशुक्रमौढ्यं मासप्रयुक्तमशुभं त्वधिमासदोषः।नास्त्येव सावनविधाविह मासि षष्ठेयुग्मे च मासि परतः शुभचन्द्रपक्षे॥३॥ नारदः—चरस्थिरमृदुक्षिप्रनक्षत्रेषु ननैधने।दशमे शुद्धिसंयुक्ते शुभलग्ने शुभांशके॥४॥ ज्योतिर्विवरणे—जन्मर्क्षेश्रीक्षयं विद्यात्कर्मक्षं चापि सौख्यकृत्।आधानर्क्षे च बालानां भोजनं रोगनाशनम्॥५॥ विधिरत्ने—अन्नप्राशनकार्ये तु जन्मभं मृत्युदं भवेत्। शुभंकर्मर्क्षमाधाने विवाहे चान्नभोजने॥६॥ वसिष्ठः—चौलान्नभुक्तौ व्रतबन्धने चराज्ञोऽभिषेके खलु जन्मधिष्ण्यम्।शुभं त्वनिष्टं सततं विवाहसीमन्तयात्रादिषुमङ्गलेषु॥७॥ वृद्धनारदः—बुधशुक्रगुरूणां तु वारा बालान्नभोजने।चन्द्रवारं प्रशंसन्ति कृष्णे चान्त्यत्रिकं विना॥८॥\। मिष्टान्नभुग्जीवनिशाकराभ्यां शुक्रेणवाग्मी रविणा दरिद्री। कुजेन रोगी शशिजेन भोगी क्षीणायुरादित्यसुतेऽह्निकुर्यात्॥९॥ अर्काङ्गारकमन्दानां वाराश्चापि शुभप्रदाः। यदा वाराधिपस्तिष्ठेत्स्वोच्चमित्रगृहे तदा॥१०॥गुरुणा बलिना वाऽपि वीक्षितश्च बलान्वितः जीवसौम्यसितानां तु द्रेष्काणदिवसांशकाः॥११॥ बालान्नप्राशने शस्ता नचन्द्रार्कार्कजासृजाम्॥१२॥ मदनमहार्णवे—गोश्वकुम्भास्तुला141 कन्या सिंहकर्किमृगा यमः। एताश्च राशयः शस्ता न मेषझषवृश्चिकाः॥१३॥ नारदः—पूर्वाह्नेसौम्यखेटेन संयुक्ते वीक्षितेऽथवा।त्रिषष्ठलाभगैः क्रूरैः केन्द्रधीधर्मगैः परैः॥१४॥ अन्त्यारिनिधनस्थेन चन्द्रेण प्राशनं शुभम्। अन्नप्राशनं लग्नस्थे क्षीणेन्दौ वा स्वनीचगे। नित्ये भोवतुश्च दारिद्य्रं रिष्फषष्ठाष्टगेऽपि वा ॥१५॥ श्रीपतिः-

रवौ लग्ने कुष्ठी धरणितनये पित्तगदभाक् शनौ वातव्याधिः कृशशशिनिभिक्षाटनकरः। बुधे ज्ञानी भोगी ह्युशनसि चिरायुः सुरगुरौ विधौ पूर्णे यज्वा भवतिच नरः सत्रद इह॥१६॥ कण्टकान्त्यनिधनत्रिकोणमास्तत्फलं ददति यत्तनावमी। षष्ठ इन्दुरशुभस्तथाऽष्टमः केन्द्रकोणगतसौरिरन्नहृत्॥१७॥

इत्यन्नप्राशनम्।

_____

अथ चूडाकरणम्।

नारदः—पञ्चमे वा तृतीयेऽब्दे स्वकुलाचारतोऽपि वा। बालानां जन्मतः कार्यंचौलमावत्सरत्रयात्॥१॥ मघादिपञ्चके चौलं हित्वा क्षीणविधुं मधुम्।क्रूरवारं निशां रिक्तां षष्ठीं संध्यां च जन्मभम्॥२॥ षड्गुरुशिष्यः—आद्येऽब्दे कुर्वतेकेचित्पञ्चमेऽन्ये, द्वितीयके। उपनीत्या सहैवेति विकल्पाः कुलधर्मतः॥३॥ आचार्यः—तृतीये पञ्चमेऽब्दे वा चौलकर्म प्रशस्यते। प्राग्वा समे सप्तमे वा सहोपनयनेन च॥४॥ वृद्धनारदः—जन्मतस्तु तृतीयेऽब्दे श्रेष्ठमिच्छन्ति पण्डिताः। पञ्चमे सप्तमे वर्षे जन्मतो मध्यमं भवेत्। अधमं गर्भतः स्याद्वादशमैकादशेऽपिवा॥५॥ नारदः—सौम्यायने नास्तगयोरसुरासुरमन्त्रिणोः। अपर्वरिक्तातिथिषु शुक्रेज्यज्ञेन्दुवासरे॥६॥ बृहस्पतिः—सोमवारः सिते पक्षे कृष्णपक्षेऽतिगर्हितः। बुधवारः शुभः प्रोक्तः पापग्रहयुते बुधे॥७॥पापग्रहाणां वारादौविप्राणां तु शुभो रविः।क्षत्रियाणां क्षमासुनुर्विट्शूद्राणांशनिः शुभः॥८॥ नारदः—दस्रादितीज्यचन्द्रेन्द्रपूषमानि शुभान्यतः। चौलकर्मणि हस्तर्क्षास्त्रीणित्रीणि च विष्णुभात्॥९॥ श्रीपतिः—षट्कृत्तिकः पञ्चमवस्त्रिमैत्रो ब्राह्माष्टकोयश्चतुरुत्तरश्च। क्षौरी स वर्षं चतुराननोऽपि न प्राणितीति प्रकटःप्रवादः॥१०॥ बृहस्पतिः—संपदि क्षेमभे मैत्रे साधके भेऽतिमित्रभे।चौलकर्म प्रशस्तं स्याच्छोभनांशगते विधौ॥११॥ आद्यंशो विपदि त्याज्यः प्रत्यरेचरर्मोऽशकः।वधे त्याज्यस्तृतीर्योऽशः शेषांशाअपि शोभनाः॥१२॥नारदः—अष्टमे शुद्धिसंयुक्ते शुभलग्नेशुभांशके। न नैधने मे शीतांशौषष्ठाष्टान्त्य ६।८।१२।विवर्जिते॥१३॥ धन २ त्रिकोण ९।५ केन्द्रस्थैः142 १।४।७।१० शुभैस्त्र्यायारि ३।११।६ गैः परैः। चौलान्नप्राशने शस्ताः सौम्या रन्ध्रव्ययोपगाः॥१४॥ वसिष्ठः—वृषभश्च कुलीरश्चयमकन्यातुलाधराः। मकरश्चैव मीनश्चक्षुरकर्मणि वर्जिताः॥१५॥ मेषे दुःखं मृगेन्द्रे च

वृश्चिके व्यसनं महत्। राजवाधा च धनुषि शुभयुक्ते न दुष्तेय॥१६॥ विशेषस्तु जलैर्घोरैःपीड्यते मरणान्वितः। क्षौरी मर्त्यो घटे लग्ने शुभयुक्ते प्रशस्यते॥१७॥ गर्गः—आत्मराश्युदये षष्ठे द्वादशे निधने तथा।शत्रुक्षेत्रे चमीने च क्षौरं नैव च कारयेत्॥१८॥ बृहस्पतिः—अष्टमस्था ग्रहाः सर्वे नेष्टाःशुक्रविवर्जिताः। शुक्रस्तु निधने क्षौरे सर्वसंपत्प्रदः शिशोः॥१९॥ अष्टमग्रहस्यापवादः। बृहस्पतिः—लग्नादष्टमराशीशः केन्द्रगः शुभवीक्षितः।यस्याष्यष्टमगस्योक्तं दोषमाशु व्यपोहति॥२०॥ स्वांशगः स्वोच्चगो वाऽपि स्वक्षेत्रोपचयर्क्षगः। अष्टमस्थानदोषोऽयं विनश्यति न संशयः॥२१॥ बृहन्नारदः—लग्नाष्टमेशयोर्मैत्र्ये लग्नेशे बलसंयुते। अस्तगे निधनेशे वा निघनेऽपि शुभो,ग्रहः॥२२॥ वसिष्ठः—जामित्रे भास्करे क्षौरे मृत्युःस्याद्भूमिजेतथा।शुक्रेसौख्यविनाशः स्यान्मन्दभाग्यं शनैश्चरे॥२३॥ त्रिकोणकण्टके वाऽपि सत्कर्मनिरते विधौ। गुरुर्वाऽतिबलः प्रोक्तः क्षौरयोगः शुभावहः॥२४॥ लग्नेन्दुराशिगौद्वौ द्वौ भावनाथयुतेक्षितौ। भवेत्कश्चित्प्रभ्रष्टः स्याच्चूडायोगोऽयमुत्तमः॥२५॥ मीने शुक्रे च लग्नस्थे भवे भानौ चतुष्टये।गुरौ यातेऽथवायोगः शुभदः क्षुरकर्मणि॥२६॥ यमे कर्किणि सिंहे च सहिते भृगुजे बुधे। भानौ भवे व्यये चापि योगः क्षौरे शुभावहः॥२७॥ भवव्ययोदये भानुबुधशुक्रा यदास्थिताः। चन्द्रे शुभांशके केन्द्रे चूडायोगः शुभावहः॥२८॥ अनिष्टस्थानगोयः स्याद्ग्रहो लग्नेशवीक्षितः। गुरुणा बलिना दृष्टो यदीष्टस्थानगो भवेत्॥२९॥नारद—अभ्यक्ते संध्ययोर्नान्ते निशि भोक्तुर्नचाऽऽहवे। नोत्कटे भूषिते नैवयाने न नवमेऽह्नि च॥३०॥ क्षौरकर्म महीशानां पञ्चमे पञ्चमेऽहनि। कर्तव्यंक्षौरनक्षत्रेऽप्यथवाऽस्योदयेष्टदम्॥३१॥ नृपविप्राज्ञया यज्ञे मरणे बन्धमोक्षणे। उद्वाहेऽखिलवारर्क्षतिथिषु क्षौरमिष्टदम्॥३२॥

इति चूडाकरणम्।

_____

अथ चौलनिषेधः।

षष्ठेऽब्दे षोडशे वर्षे विवाहाब्दे तथैव च। अन्तर्वत्न्यां तु जायायां नेष्यतेकेशवापनम्॥१॥ चूडाकर्म न कर्तव्यं यस्य माताऽस्ति गुर्विणी।करोतियदि मुढात्मा तदा गर्भस्य नाशनम्॥२॥ परिशिष्टे—माता कुमारमादायेत्युक्तं कात्यायनादिभिः।सा चेद्यदि सगर्भा स्यात्तदा चौलं न कारयेत्॥३॥गर्गः—उक्तकालातिक्रमेच जनित्री यस्य गर्भिणी। ऊर्ध्वं मासात्पञ्चमतश्चौलं

कार्येव्रतं तथा॥४॥ पुत्रचूडामणो माता यदि सा गर्भिणी भवेत्। शस्त्रेणमृत्युमाप्नोति तस्मात्क्षौरं विवर्जयेत्॥५॥ नारदः—सूनोर्मातरि गार्भिण्यां चूडाकर्म न कारयेत्। पञ्चाब्दात्प्रागथोर्ध्वं तु गर्भिण्यामपि कारयेत्॥६॥यदि गर्भविपत्तिः स्याच्छिशोर्वा मरणं भवेत्। सहोपनीत्या कुर्याच्च तदा दोषो नविद्यते॥७॥ मेधातिथिः—चौले च व्रतबन्धे च विवाहे यज्ञकर्मणि। भार्या रजस्वला यस्य प्रायस्तस्य न शोभनम्॥८॥ वधूवरान्यतरयोर्जननी चेद्रजस्वला। तस्याः शुद्धौ परे कार्यं माङ्गल्यं गुरुरब्रवीत्॥९॥ मनुस्मृतौ—उद्वाहव्रतचूडासु माता यदि रजस्वला। तदा न मङ्गलं कार्यं शुद्धौ कार्यं शुभेच्छुभिः॥१०॥ गर्गः—यस्योद्वाहादिमाङ्गल्यं माता तस्य रजस्वला। तदा नतत्प्रकर्तव्यमायुःक्षयकरं यतः॥११॥ बृहस्पतिः—वैधव्यं च विवाहे स्याज्जडत्वं व्रतबन्धने। चूडायां च शिशोर्मृत्युर्विघ्नं यात्राप्रवेशयोः॥१२॥ रजस्वला—विषयमेतत्। कारिकानिबन्धे—सूतिकोदक्ययोः शुद्ध्यै गां दद्याद्धेमपूर्विकाम्।प्राप्ते कर्मणि शुद्धा स्यादितरस्मिन्न शुध्यति॥१३॥ अलाभे सुमुहूर्तस्य रजोदोषे तु संस्थिते।श्रियं संपूज्य तत्कुर्याद्वृत्रहत्याभयंकरीम्॥१४॥ हैमींमापमितां पद्मां श्रीसूक्तविधिनाऽर्चयेत्। प्रत्यृचं पायसं हुत्वाऽभिषिच्य शुभमाचरेत्॥१५॥ गर्गः—न गुरौ सिंहराशिस्थे सिंहांशकगतेऽपि वा। क्षौरकर्म143 प्रकुर्वीत विवाहं गृहकर्म वा॥१६॥ नर्मदोत्तरदेशस्थे सिंहस्थे देवमन्त्रिणि।शुभकर्म न कुर्वीत निषेधो नास्ति दक्षिणे॥१७॥

इति चौलनिषेधः।

_____

अथ क्षौरनिषेधः।

उदन्वतोऽम्भसि स्नानं नखकेशनिकृन्तनम्। नान्तर्वत्न्याः पतिः कुर्यादप्रजो भवति ध्रुवम्॥१॥ स्मृत्यन्तरे—सिन्धुस्नानं द्रुमच्छेदं वपनं प्रेतवाहनम्।विदेशगमनं चैव न कुर्याद्गर्भिणीपतिः॥२॥ क्षौरं नैमित्तिकं कुर्यान्निषेधेसत्यपि ध्रुवम्।पित्रोः प्रेतविधानं च दोषस्तत्र न विद्यते॥३॥ गङ्गायांभास्करक्षेत्रे मातापित्रोर्मृतेऽहनि। आधाने सोमपाने च षट्सु क्षौरं विधीयते॥४॥ पञ्चाशद्धायनात्पूर्वं क्षौर नैमित्तिकं विना। न कुर्यात्तत्तदूर्ध्वं तुस्वेच्छया वपनं चरेत्॥५॥ मुण्डनस्य निषेधेऽपि कर्तव्यं च विधीयते। छेदनं दृपदा वाऽपि न क्षुरेण कदाचन॥६॥ राजा योगी पुरन्ध्री च माता-

पित्रोश्च जीवतोः। मुण्डनं सर्वतीर्थेषु न कुर्याद्गुर्विणीपतिः॥७॥ अन्तर्वत्न्यांतु जायायां तीर्थे क्षौरं न कारयेत्। प्रेतवाहादिकं चैव सीमन्तोन्नयनादनु॥८॥ बृहस्पतिः—राजकार्ये नियुक्तानां नराणां भूपसेविनाम्। श्मश्रुलोमनखच्छेदेनास्ति कालविशोधनम्॥९॥

इति क्षौरनिषेधः।

_____

अथाक्षरारम्भविधिः।

श्रीधरीये—उदग्गते भास्वति पञ्चमेऽब्दे प्राप्तेऽक्षरस्वीकरणं शिशूनाम्। सरस्वतीं विघ्नविनायकं च गुडौदनाद्यैरभिपूज्य कुर्यात्॥ १ ॥ विधिरत्ने—बालस्य पञ्चमे वर्षे प्राप्ते भानौ मृगादिके। आरभेताक्षरविधिं शुभेकाले यथोदिते॥२॥ बृहस्पतिः—द्वितीयजन्मतः पूर्वमारभेताक्षरान्सुधीः॥३॥ नृसिंहः—अक्षरस्वीकृतिः प्रोक्ता प्राप्ते पञ्चमहायने। उत्तरायणगे सूर्ये कुम्भमासं विवर्जयेत्॥४॥विश्वामित्रः—प्राप्ते तु पञ्चमे वर्षे त्वसुप्ते च जनार्दने। विद्यारम्भस्तु कर्तव्योयथोक्तविधिवासरे॥५॥ आषाढशुक्लद्वादश्यां शयनं कुरुते हरिः। निद्रां त्यजति कार्तिक्यां तयोः संपूज्यते हरिः॥६॥हस्तादित्यसमीरमित्रपुरुजित्पौष्णाश्विचित्रायुतेष्वारार्क्यंशदिनोदयादिरहिते144 चांशस्थिते चोभये। पक्षे पूर्णनिशाकरे प्रतिपदं रिक्तां विहायाष्टमीं षष्ठीमष्टमशुद्धभाजि भवने प्रोक्ताऽक्षरस्वीकृतिः॥७॥

इत्यक्षरारम्भविधिः।

_____

अथाङ्कुरार्पणम्।

नारदः—कर्तव्यं मङ्गलेष्वादौ मङ्गलायाङ्कुरार्पणम्।नवमे सप्तमे वाऽपिपञ्चमे दिवसेऽपि वा॥१॥ तृतीये बीजनक्षत्रे शुभवारे शुभोदये। सम्यग्गृहाण्यलंकृत्य वितानध्वजतोरणैः॥२॥ आशिषो वाचनं कुर्यात्पुण्यं पुण्याङ्गन्नादिभिः।सह वादित्रनृत्याधैर्गत्वा प्रागुत्तरां दिशम्॥३॥ तत्र मृत्सिकतां श्लक्ष्णां गृहीत्वा पुनरागतः। मृन्मयेष्वथ वा वैणवेषु पात्रेषु पूरयेत्। अनेकधीजसंयुक्तं तोयपुष्पोपशोभितम्॥४॥

इत्यङ्कुरार्पणम्।

_____

अथोपनयनम्।

अथोपनयनं वक्ष्ये द्विजानांशुभकाङ्क्षिणाम्। त्यजेत्तत्र महादोषांस्त्याज्यप्रकरणोदितान्॥१॥ ज्योतिर्विदुक्तसमये कुमारमुखदर्शनम्। तत्तूपनयनं प्राहुर्याज्ञिकास्तत्त्वदर्शिनः॥२॥ जाताधिकाराज्जन्मादावष्टमेऽब्दे भवेदिदम्। कुमाराधिकृतेश्चापि न स्त्रीणामिदमुच्यते॥३॥ वैवाहिको विधिः स्त्रीणामौपनायनिकः स्मृतः। पतिसेवा गुरौ वासो गृहस्थाग्निपरिक्रिया॥४॥ नारदः—आधानादष्टमे वर्षे जन्मतो वाऽग्रजन्मनाम्। राज्ञामेकादशे मौञ्जीबन्धनं द्वादशेविशाम्॥५॥ अत्राऽऽचार्यः स्मृतिरूपेणाऽऽह—गर्भाष्टमेऽष्टमे वाऽब्दे पञ्चमेसप्तमेऽपि वा। द्विजत्वं माप्नुयाद्विप्रो वर्षे त्वेकादशे नृपः।वैश्यश्च द्वादशे वर्षेविप्राणां षोडशावधि॥६॥ यस्मिन्वर्षे गर्भोभूत्वा शेते स गर्भ इति हरदत्तः। गर्भसहचरितो गर्भशब्देनोच्यत इति भारुचिः।सोऽष्टमो यस्येति बहुव्रीहिः। षष्ठीसमासस्य पूरणप्रत्ययान्तेन निषेधात्। जन्मतः पञ्चमे वर्षे वेदशास्त्रविशारदः। उपनीतो यतः श्रीमान्कार्यं तत्रोपनायनम्॥७॥ संग्रहे145—ब्रह्मवर्चसमोजश्च विद्याऽऽयुः श्रीर्यशः सुखम्। विप्रादेरुपनीतस्य पञ्चमादब्दतःफलम्॥८॥ नृपजातिजिना १६।१८।२४ ब्दान्तं नातिकालस्ततःपरम्। पातित्यं स्यादग्रजादेर्व्रात्यस्तोमो विशोधनम्॥९॥ अग्रजा बाहुजा वैश्याः स्वावधेरूर्ध्वमब्दतः। अकृतोपनयाः सर्वे वृपला इव ते स्मृताः॥१०॥नारदः—बालस्य बलहीनोऽपिशान्त्या जीवो बलप्रदः। यथोक्तवत्सरे कार्यमनुक्ते नोपनायनम्॥११॥ बृहस्पतिः—अपचापकुलीरस्थो जीवोऽप्यशुभगोचरः। अतिशोभनतां दद्याद्विवाहोपनयादिषु॥१२॥ व्रते जन्मत्रिखारिस्थो जीवोऽपीष्कृठोर्त्वात्सकृत् शुभोऽतिकाले तुर्याष्टवयस्वो द्विगुणार्क्षताम्॥१३॥अशुभेऽब्दे ग्रहाः सर्वे शुभगोचरगा अपि। शान्तिभावाच्छमं नैव यान्त्यब्दःकालमृत्युवत्॥१४॥ तस्माद्ग्रहेभ्यः कालत्वाद्बली संवत्सरः स्मृतः। शान्तिर्ग्रहाणां कर्तव्या न तु संवत्सरस्य सा॥१५॥ संग्रहे—व्रतकाले तुसंप्राप्तेयस्य शुद्धिर्न लभ्यते।कृत्वाऽर्चां शक्तितः पश्चाद्विधेयं मौञ्जिबन्धनम्॥१६॥ शुद्धिर्न विद्यते यस्य वर्षे प्राप्तेऽष्टमे यदि। चैत्रे मीनगते भानौ

तस्योपनयनं शुभम्॥१७॥ जन्मभाद्दुष्टगे सिंहे नीचे वा शत्रुभेगुरौ। मौञ्जीबन्धः शुभः प्रोक्तश्चैत्रे मीनगते रवौ॥१८॥ हरिनीचारिभागेऽपि व्रतोद्वाहादि मङ्गलम्। न निषिद्धं यदि स्वोच्चे स्वभे वासंस्थितो गुरुः॥१९॥ गोचरेऽपि सुराचार्यो वेदवर्णेश्वरोऽथवा।अशुभोऽपिशुभो ज्ञेयो यदि स्वोच्चे स्वमे स्थितः॥२०॥ मुख्यकालस्तु बलवान्व्रते गोचरशुद्धितः। यतो निषिद्धवर्षस्य शान्तिर्नोदृश्यते क्वचित्॥२१॥मीनस्थे पद्मिनीमित्रे नीचेऽरिभे च वाक्पतौ।व्रतादिषु निरोधः स्याद्विन्ध्यस्योत्तरवासिनाम्॥२२॥ नारदः—दृश्यमाने गुरौ शुक्रे शाखेशे चोत्तरायणे। वेदानामधिपा जीवशुक्रभौमबुधाः क्रमात्॥२३॥ शरद्ग्रीष्मवसन्तेषु व्युत्क्रमात्तु द्विजन्मनाम्। मुख्यं साधारणं तेषां तपोमासादिपञ्चसु॥२४॥ वसिष्ठः—वसन्तश्चैत्रवैशाखौ ग्रीष्मः शुक्रः शुचिस्तथा। इषोर्जौच शरत्त्विन्द्रमासाः श्रौतादिकर्मणि॥२५॥ नारदः–स्वकुलाचारधर्मज्ञो माघमासेऽथ फाल्गुने। विधिज्ञश्चार्थवांश्चैत्रे वेदवेदाङ्गपारगः॥२६॥ वैशाखे धनवान्वेदशास्त्रविद्याविशारदः। उपनीतः कलाढ्यश्च ज्येष्ठे विधिविदां वरः॥२७॥ गर्गः–ज्येष्ठे मासेविशेषेण सर्वज्येष्ठस्य चैव हि। उपनीतस्य च शिशोर्जडत्वं मृत्युरेव च॥२८॥संग्रहकारः—विवाहे चोपनयने जन्ममासं विवर्जयेत्। विशेषाज्जन्मपक्षं तु वसिष्ठाद्यैरुदाहृतम्॥२९॥ नारदः—शुक्लपक्षे द्वितीया च तृतीया पञ्चमी तथा।त्रयोदशी च दशमो सप्तमी व्रतबन्धने॥३०॥ श्रेष्ठा त्वेकादशी षष्ठीद्वादश्येतास्तु मध्यमाः \। एकां चतुर्थी संत्यवत्वा(ज्य) कृष्णपक्षेऽपि मध्यमाः।आपञ्चम्यस्तु तिथयः पराः स्युरतिनिन्दिताः॥३१॥ ज्योतिर्नृसिंहः—तृतीया पञ्चमी षष्ठी द्वितीया चापि सप्तमी। पक्षयोरुभयोश्चैव विशेषेण सुपूजिताः॥३२॥ धर्मकामौ सिते पक्षे कृष्णे च प्रथमा तथा। कृष्णत्रयोदशींकेचिदिच्छन्ति मुनयस्तथा। द्वादश्येकादशी चैव मध्यमे च प्रचक्षते॥३३॥ बृहस्पतिरपि—शुक्लपक्षे शुभः प्रोक्तः कृष्णे चान्त्यत्रिकं विना॥३४॥ संग्रहकारः-चन्द्रेजीवे च वेदेशे वर्णेशे च वलान्विते। कृष्णपक्षे व्रतं शस्तं द्वित्रिपञ्चमिते तिथौ॥३५॥ कृष्णे कामद्वये देशे शुभा मौञ्जीति यद्वचः। तत्पुनःप्राप्तसंस्कारविषयंसंकटादृते॥३६॥ अजिनं मेखला दण्डो भैक्ष्यचर्याव्रतानि। निवर्तन्तेद्विजातीनां पुनःसंस्कारकर्माणि॥३७॥ प्रदोषेनिश्यनध्याये मन्दे कृष्णे गलग्रहे।मधुं विना चोपनीतः पुनःसंस्कारमर्हति॥३८॥ यो न मन्त्रैः स्वशाखोक्तैःसंस्कृतो नाधिकारिणा। नासौ द्विजत्वमाप्नोति पुनःसंस्करणं विना॥३९॥ व्रतं शुक्ले त्रिपञ्चाङ्गदशेशार्कमिते तिथौ। देयं द्विसप्तकामेषु

कुमारे वयसाऽधिके॥४०॥ कृष्णे भूनेत्रवह्नीषुतिथौ स्वेशे बले सति।संकटादौ व्रतं कार्यमिति प्राह बृहस्पतिः॥४१॥ नारदः—आचार्यसौम्यकाव्यानां वाराः शस्ताः शशीनयोः। वारौतौमध्यफलदावितरौ निन्दितौव्रते॥४२॥ सर्वेषां जीवशुक्रज्ञवाराः शस्ता व्रते तथा। चन्द्रार्कौ मध्यमौज्ञेयौ सामबाहुजयोः कुजः॥४३॥ वारौ मन्दारयोर्वर्ज्यौ कृष्णे वर्ज्योनिशापतिः। अस्तंगतस्य सौम्यस्य वारो वर्ज्योद्विजन्मनि॥४४॥ त्रिधा विभज्य दिवसं तत्राऽऽदौ कर्म दैविकम्। द्वितीये मानुषं कार्यं तृतीयेऽंशे चपैतृकम्॥४५॥ चतुर्दशीद्वयं चैव प्रतिपञ्चाष्टमी तथा। पक्षयोरुभयोरेवमनध्यायाष्टकं विदुः॥४६॥ पूर्वापरतिथिभ्यां तु तदुक्तं मौञ्जिबन्धने। त्याज्या अन्येऽप्यनध्यायाः परित्यक्तास्तु केवलाः॥४७॥ अष्टकासु च सर्वासुयुग्ममन्वन्तरादिषु। अनध्यायं प्रकुर्वीत तथा सोपपदास्वपि॥४८॥ अयनेविषुवै चैव सूतके मृतके तथा। तात्कालिकेऽप्यनध्याये प्रदोषेऽध्ययनं त्यजेत्॥४९॥ ज्ञेयो गलग्रहः क्वब्धी कामाद्रिभ्यां तिथित्रये। मौञ्जीबन्धे च विद्यायां षष्ठी विद्यासु न व्रते॥५०॥ तृतीया प्रहरान्न्यूना द्वादशी प्रहरद्वयात्। षष्ठी रात्रेःसार्धयामात्प्रदोषो जायते तदा॥५१॥ कारिकानिबन्धे—अनध्यायस्य पूर्वेद्युरनध्यायात्परेऽहनि।व्रतबन्धं विसर्गंच विद्यारम्भं न कारयेत्॥५२॥ रोमशसंहिताया—व्रतस्य पूर्वेद्युरनिष्टकालो ह्यनिष्टकारी यजुषां बटूनाम्। तदज्ञि दौष्ट्यं खलु सामगानामाथर्वणानामपरेऽह्नि दौष्ट्यम्॥५३॥ तद्दिनगतैप्यदिवसाञ्शुद्धानध्यायकर्मणि प्राहुः। बह्वृचबटूपनीत्यां कात्यायनशौनकात्रेयाः॥५४॥ वेदव्रतोपनयने स्वाध्यायाध्ययने तथा। न दोषो यजुषां सोपपदास्वध्ययनेषु च॥५५॥ प्रारम्भे सर्वविद्यानामनध्यायं विवर्जयेत्।नष्टं बुधं चविबलं लग्नंक्षीणं विधुं तथा॥५६॥ मनुः—वा चैत्रवैशाखासिता तृतीया माघेऽपि सप्तम्यथ फाल्गुनस्य।कृष्णद्वितीयोपनये प्रशस्ताः प्रोक्ता भरद्वाजमुनीन्द्रवर्यैः॥५७॥ एतन्नित्यानध्यायविषयम्। अन्यथा माघे पञ्चम्यादिनिषेधः प्रसज्येत। माघस्याऽऽद्या द्वादशी च द्वितीया वर्ज्या कृष्णा फाल्गुनस्य द्वितीया।चैत्रे वैशाखे [च] शुद्धा तृतीया ज्येष्ठे वर्ज्या शुक्लपक्षद्वितीया॥५८॥ नान्दीश्राद्धे कृते चेत्स्यादनध्यायस्त्वकालिकः। तदोपनयनंकार्यं विद्यारम्भं न कारयेत्॥५९॥ नारदः—श्रेष्ठान्यर्कत्रयांत्येज्यचन्द्रादित्त्युत्तराणि च। विष्णुत्रयाश्विमित्राब्जयोनिभान्युपनायने॥६०॥ जन्मभाद्दशमं कर्म संयातर्क्षंच146 षोडशम्। अष्टादशं सामुदायं त्रयोविंशं

विनाशभम्।मानसं पञ्चविंशर्क्षं नाऽऽचरेच्छुभमेषु तु॥६१॥ संग्रहे—पूर्वाहस्तत्रयाह्यैशश्रुतिमूलेषु बह्वृचाम्। यजुषां पौष्णमैत्रार्कादित्यपुष्यमृदुध्रुवैः॥६२॥सामगानां हरीशार्कवसुपुष्योत्तराश्विभैः। धनिष्ठादितिमैत्रार्केष्विन्दुपौष्णेष्वथर्वणाम्॥६३॥ नारदः—स्वनीचगे तदंशे वा स्वारिभे वा तवंशके।गुरौ भृगौवा शाखेशे कलाशीलविवर्जित॥६४॥ स्वाधिशत्रुगृहस्थे वा तदंशे वाऽथवाव्रती।शाखेशे वा गुरौ शुक्रे महापातककुद्भवेत्॥६५॥स्वोच्चसंस्थे तदंशेवा स्वराशौ वा त्रिकोणगे। शाखेशे वा गुरौ शुक्रे केन्द्रगे वा त्रिकोणगे। अतीव धनवांश्चैव वेदवेदाङ्गपारगः॥६६॥ परमोच्चगते जीवे शाखेशेवाऽथवा सिते। व्रती शिशुर्धनाढ्यश्च वेदशास्त्रविशारदः॥६७॥ मित्रराशिगतेजीवे तदंशे वा स्वशाखषे। शुक्रे वा चारसंयुक्तेतदा तत्र व्रती शिशुः॥६८॥ स्वाधिमित्रगृहस्थे वा तस्योच्चस्थे तदंशके। गुरौ भृगौ वा शाखेशे विद्याधनसमन्वितः॥६९॥ शाखाधिपतिवारश्चशाखाधिपबलं शिशोः। शाखाधिपतिलग्नं च दुर्लभं त्रितयं व्रते॥७०॥ तस्माद्वेदांशगे चन्द्रे व्रतीविद्याविशारदः। पापांशगे स्वांशगे वा दरिद्रो नित्यदुःखितः॥७१॥ वाकुण्ठःश्रुतिमान्वक्ता जडः क्रूरोऽर्थवान्गुणी।क्रूरः पूज्यः खरः प्रेष्यो धीमान्मेषाद्भवेद्बटुः॥७२॥ रव्याद्यंशैः क्रमात्क्रूरो जडः पापरतः पटुः। यज्वा चदीक्षितो मूर्खः षड्वर्गेणापि तत्फलम्॥७३॥ नारदः—श्रवणादितिनक्षत्रेकर्क्यशस्थे निशाकरे। तदा व्रती वेदशास्त्रधनधान्यसमृद्धिमान्॥७४॥ शुभलग्नेशुभांशे च नैधने शुद्धिसंयुते। लग्ने त्वनेैधने साैम्यैः संयुक्ते वा निरीक्षिते॥७५॥ इष्टैर्जीवार्कचन्द्राद्यैः पञ्चभिर्बलिभिर्ग्रहैः। स्थानादिबलसंपूर्णैश्चचतुर्भिर्वा शुभान्वितैः॥७६॥ ईक्षिते वाऽत्रैकविंशन्महादोषविवर्जिते। राशयःसकलाः श्रेष्ठाः शुभग्रहयुतेक्षिताः॥७७॥ शुभा नवांशा न तथा ग्राह्यास्तेशुभराशयः। न कदाचित्कर्कटांशकाःशुभेक्षितयुतोऽपि वा॥७८॥ तस्माद्गोमिथुनान्त्याश्वतुलाकन्यांशकाः शुभाः। एवंविधे लग्नगते नवांशे व्रतमीरितम्॥७९॥ त्रिषडायगतैः पापैः षडष्टान्त्यविवर्जितैः। शुभैः षष्ठाष्टलग्नान्त्यवर्जितेन हिमांशुना॥८०॥ संग्रहे—केन्द्रस्थितैरिनाद्यैर्नृपसेयी विट्क्रियोऽस्त्रवृत्तिश्च।वेदाभ्यासी यज्वा क्रतुकर्ता हीनसेवको भवति॥८१॥ सिते त्रिकोणगे चन्द्रे शुक्रांशे लद्नगे गुरौ। उपनीतो भवेद्विप्रो वेदशास्त्रार्थपारगः॥८२॥ चन्द्रक्रूरास्तनौनेष्टाः सर्वे रन्ध्रे व्यये कविः। सितेन्दुलग्नयाः षष्ठेमौञ्जीविद्यादिकर्मसु॥८३॥ रविः खायगतः १०।११ श्रेयान् व्ययाष्टतनुगः १२।८।१।शंशी। कुजार्किराहुशिखिनस्त्रिषष्ठायगताःशुभाः॥८४॥अनिष्टस्थानगोऽ-

प्यत्र ग्रहः कोऽपि न दोषकृत्। शुभदृष्टः शुभो यस्मात्सौम्यवर्गे यदि स्थितः॥८५॥ व्ययस्थोऽर्कःकुजार्किभ्यां दृष्टो विद्यां हरेद्बटोः।शुभदृष्टो न दोषायतथेन्दुर्गुरुरब्रवीत्॥८६॥श्रीपतिः—त्रिषट्खगोऽर्कस्त्रिधनास्तकर्मगश्चन्द्रस्त्रिषष्ठाः शनिराहुभौमाः।सर्वे च लाभे द्वित्रिकोणकेन्द्रगाः शुभाः शुभाः स्युर्व्रतबन्धकाले॥८७॥ रन्ध्रान्त्यारिगतः शुक्रो लग्नेशो वा षडष्टगः।चन्द्रो लग्नारिरन्ध्रस्थो वटोः प्राणापहारकः॥८८॥ शुक्रश्च सर्वभावस्थः सर्वसंपत्समृद्धिदः। षष्ठाष्टमस्मरान्मुक्त्वा शिशोर्लग्नाद्द्विजन्मनः॥८९॥ मौञ्जीबन्धे विशेषेण प्राग्लग्नं पञ्चमंतथा। भाव्यं क्रूरग्रहैर्मुक्तं भृगुराह तथाऽष्टमम्॥९०॥ मौञ्जीपटले—शुभदो बलवान् भानुर्लग्नगो दशमस्तथा। सर्वशाखाधिपो यस्मात्सर्वेषां व्रतबन्धने॥९१॥ सर्वशाखाधिपो भानुः केचिदूचुर्महर्षयः। तस्माद्गत्यन्तराभावे लग्नस्थोऽर्कः प्रशस्यते॥९२॥ नारदः—स्वोच्चसंस्थोऽपि शीतांशुर्व्रतिनो यदि लग्नगः।तंकरोति शिशुं निःस्वं सततं क्षयरोगिणम्॥१३॥ बृहस्पतिः—चन्द्रोदयेऽभिशस्तःस्यात्क्षयरोगी सितेतरे। सिते पक्षे भवेद्यज्वा स्वभे तुङ्गे विशेषतः॥९४॥ लग्नेहिमांशुर्यदि शुक्लपक्षे स्तम्भप्रतिष्ठाव्रतबन्धकाले। आयुःसहस्रं हि निकेतनानांनृणां सहावृत्ति147विवृद्धिहेतुः॥९५॥ संग्रहे—लग्नस्थितेषु रन्ध्रेषु पापेषु मरणंबटोः। सौख्यं स्यात्त्रिषडायेषु जडत्वमितरेषु च॥९६॥ अरन्ध्रारिगताःश्रेष्ठाः शुभाः सर्वत्रगा व्रते। व्ययेऽपि न शुभः शुक्रस्तयाऽब्जोऽर्यष्टलग्नगः॥९७॥अनिष्टस्थानगोऽप्यत्र ग्रहः कोऽपि न शेषकृत्। सद्वर्गे शुभदृष्टो वा स्वोच्चे स्वस्थै विशेषतः॥९८॥ स्फूर्जितं केन्द्रगे भानौव्रतिनो वंशनाशनम्। कूजितं केन्द्रगेभौमे शिष्याचार्य148विनाशनम्॥९९॥ करोति रुदितं केन्द्रसंस्थे मन्देऽतुलेन्गदान्। लग्नात्केन्द्रगते राहौ149 रन्ध्रं मातृविनाशनम्॥१००॥ उग्रकेन्द्रगते केतौवृत्तवित्तविनाशनम्। पञ्चदोषेतरल्लग्नं शुभदं चोपनायने॥१०१॥ विद्यां प्राप्तां नाशयेतां मन्दभौमौद्वितीयगौ। अन्योन्यमथवा दृष्टौद्वादशस्थौ तु बन्धदौ॥१०२॥ यथोक्तसमयालाभे योगान्वच्मि शुभप्रदान्। द्विजन्मकालसंभूतान्वसिष्ठाङ्गिरसोक्तितः॥१०३॥ जीवे केन्द्रे त्रिकोणे वा भानौ शुक्रेऽथवाव्यये। धने ज्ञेचोपनीतस्तु वेदविद्याविशारदः॥१०४॥ लग्नार्थभ्रातृगे शुक्रेजीवे कोणार्थकण्टके।त्रिषडेकादशे क्रूरे व्रती भवति धार्मिकः॥१०५॥ गुरौकेन्द्रे भवे150 भानौचन्द्रे शुभनवांशगे। शुभग्रहदशायुक्ते चिरायुर्धनवान्भवेत्॥१०६॥ भृगौ मीने वृषे याऽपि जीवे केन्द्रत्रिकोणगे।कर्किचापझषस्थेऽ-.

स्मिन्व्रती वेदार्थविद्भवेत्॥१०७॥ दशमायोदये याताः शुक्रभानुबुधाःक्रमात्। चन्द्रे शुभांशगे शुद्धे रन्ध्रे विद्यार्थवान्वटुः॥१०८॥ बुधार्किशुक्राःकर्मायलग्नगाः क्रमशो यदि।जीवशुक्रबुधाः केन्द्रे बलिनोऽर्केन्दुवेदपाः॥१०९॥ उपनीतस्तदा शिष्यो दीर्घायुर्यज्ञकृद्भवेत्। एकोदरप्रसूतानामेकस्मिन्मण्डपेऽहनि।एकलग्नेऽपि भिन्नांशे व्रतं महति संकटे॥११०॥ वसन्वसमये दद्यादब्दे गर्भाष्टमेऽष्टमे। मेखलां जन्ममासेऽपि जन्मभे च तिथौ तथा ॥१११॥ विधिनाऽग्न्यार्यसामीप्यनयनं तूपनायनम्। एतत्प्रधानं सावित्रीवाचनं वाऽन्यदङ्गकम्॥११२॥मुहूर्तसमये प्रैषः स्वसूत्रोक्तो विधीयते। पुनरंशे शुभे ब्रूयाद्गायत्रीं सति संभवे॥११३॥ भाष्यकारैः स्मृतेर्वाक्यान्मुख्यत्वं गुरुदर्शने। उक्तं तस्मान्मुहूर्तोऽस्ययुक्त एव न संशयः॥११४॥

इत्युपनयनम्।

_____

अथोपाकरणम्।

प्रयोगपारिजाते—अध्यायानामुपाकर्म श्रावण्यां श्रवणेन तु।तन्मासे151 हस्तयुक्तायां पञ्चम्यां वा तदिष्यते॥१॥ अवृष्ट्यौषधयस्तस्मिन्मासे तु न भवन्तिः चेत्। तदा भाद्रपदे मासि श्रवणेन तु कारयेत्॥२॥ इदमत्र गृह्यम्—अथातोऽध्यायोपाकरणमोपधीनां प्रादुर्भावे श्रवणेन श्रावणस्य पञ्चम्यं हस्तेनवेति। अस्यार्थः—अध्ययनमध्यायस्तस्योपाकरणं प्रारम्भो येन कर्मणा तद्ध्यायोपाकरणम्। अतःशब्दो हेत्वर्थः। यस्माद्ब्रह्मयज्ञो नित्योऽतोऽध्यायोपाकरणं ब्रूम इति। तस्य कालमाह—ओषधीनामिति। श्रावणमासस्य श्रवणेन कर्तव्यम्। औषधीनां प्रादुर्भाव इति वचनं यदा श्रावणे प्रादुर्भावो नस्यात् तदा भाद्रपदे श्रवणेन कर्तव्यमित्येवमर्थम्। वृष्ट्यपकर्षे कर्मापकर्षशङ्कैव नास्ति। यदा भाद्रपदादुत्कर्षो भवति तदाऽपि कर्मोत्कर्षशङ्कन नैव कार्या।तद्वार्षिकमित्याचक्षत इतिवक्ष्यमाणसमाख्याबलात्। वर्षासुः क्रियत इति वार्षिकम्। श्रावणभाद्रपदौ हि मासौ वर्षर्तुः। श्रावणे प्रादुर्भावाभावे कर्माकरणशङ्खाऽप्यनेनैव निरस्ता। श्रवणेनेति श्रवणेन युक्ते काल इत्यर्थः। ‘नक्षत्रेण युक्तःकालः’ इत्यनेनाण्। ‘लुवविशेष’ इति तस्य लुप्। ‘नक्षत्रे च लुपि’ इति सप्तम्यर्थे तृतीया। नक्षत्रशब्देषु सर्वत्रैवं योज्यम्। पञ्चम्यामित्यत्रापि श्रावणस्येतिसंबध्यते। मध्यगतस्य विशेषाभावात्प्रयोजनवत्त्वाच्च। श्रावणस्य मासस्य

पञ्चमी यदा हस्तेन युज्यते तदा वेत्यर्थः। एवंच कालत्रयमुक्तं भवति। अत्रभगवान्–अथातः श्रावणे मासे श्रवणर्क्षयुते दिने। श्रावण्यां श्रावणे मासि पञ्चम्यां हस्तसंयुते॥३॥ दिवसे विदधौतैतदुपाकर्म यथोदितम्। अध्यायोपाकृतिं कुर्यात्तत्रौपासनवह्निना॥४॥ अत्रोक्तश्रवणनक्षत्रे काशीखण्डे विशेषमाहव्यासः—धनिष्ठासंयुते कुर्याच्छ्रावणे कर्म यद्भवेत्। सत्कर्म सफलं ज्ञेयमुपाकरणसेज्ञितम्॥५॥ श्रवणेन तु यत्कर्म तूत्तराषाढसंयुतम्। संवत्सरकृतोऽध्यायस्तत्क्षणादेव नश्यति॥६॥ तत्र त्रिरोधमाह गार्ग्यः—पर्वण्यौदयिकेकुर्युः श्रावणे तैत्तिरीयकाः। बह्वृचा श्रवणे कुर्युर्ग्रहसंक्रान्तिवर्जिते॥इति॥७॥अत्र कालविरोधमाह बृहन्मनुः—अत्रार्धरात्रादर्वाक्चेद्ग्रहःसंक्रममे (ए) व वा। नोपाकर्म तदा कुर्याच्छ्रावण्यां श्रवणेन वा ॥ इति ॥८॥ कात्यायनोऽपि —अर्धरात्रादधस्ताच्चेत्संक्रान्तिग्रहणे तदा। उपाकर्म न कुर्वीत परतश्चेन्नदोषकृत् ॥९॥ भृगुस्तु—प्रेते राजाने राष्ट्रे वा परचक्रादिपीडिते। अनुप्तबीजेऽनावृष्ट्यां चोपाकुर्याद्विचक्षणः॥ इति॥१०॥ वसिष्ठोऽपि—अनुप्तबीजे नृपतौविनष्टे शुभेमृते राष्ट्रसमाकुले च। उत्सर्जनोपाकरणे न कार्ये ग्रस्तेन्दुसूर्ये गुरुरस्तयाते॥११॥ गुरावित्यर्थः। यत्तु वचनं वेदोपाकरणे प्राप्ते कुलीरे संस्थिते रवौ।उपाकर्म न कर्तव्यं कर्तव्यं सिंहयुक्तके।कर्कटे संस्थिते भानावुपाकुर्यात्तुदक्षिणे॥१२॥ एतत्सर्वं विचार्य श्रावणभाद्रपदयोरन्यतरस्मिन्मासे152 कर्तव्यम्।तदुक्तं स्मृत्यर्थसारे—श्रवण आदौ घटिकाचतुष्टयमभिजिन्नक्षत्रांश(शो) वर्ज्यं(ज्यों) वा। श्रवणखण्डे सति–धनिष्ठासंयुतं ग्राह्यंनोत्तराषाढसंयुतम्।हस्तनक्षत्रं प्रयोगपर्याप्तं ग्राह्यम्। सूतकादिविघ्नसंभव ओषध्युत्पत्त्यभावेऽपिच। श्रावणभाद्रपदयोरेकस्मिन्दिने ग्रहसंक्रान्तिवर्जिते कार्यम्। कर्मणो नलोपो नोत्कर्षश्चेति। यत्तु सायणीयकारवचनं—श्रावणस्य तु मासस्य पूर्णिमायांद्विजन्मनाम्। आषाढ्यां प्रौष्ठपद्यां वा वेदोपाकरणं स्मृतम्॥इति॥१३॥ तदेतच्छाखान्तरविषयम्। तद्वार्षिकमित्याचक्षत इति गृह्योक्तसमाख्याबलात्।शुक्रे मूढेऽप्युपाकृत्य विद्यावित्तविनाशनम्। आयुःक्षय153मवाप्नोति तस्मात्कर्मविवर्जयेत्॥१४॥ कश्यपोऽपि—गुरुशुक्रतिरोधाने वर्जयेच्छ्रुतिचोदितान्।इत्याह भगवानात्रिःश्रवणं तु विशेषतः॥१५॥ इत्येतत्प्रथमोपाकर्मविषयम्।तथोक्तं संग्रहे–गुरुभार्गवयोर्मौढ्ये वक्रे या बार्धकेऽपि वा। तथाऽधिमाससंस्पर्शे मलमासादिषु द्विजः॥१६॥ प्रथमोपाकृतिर्न स्यात्कृतं कर्म विनाशकृत्॥इति॥१७॥ स्मृतिसारसमुच्चयेऽपि—यज्ञोपवीतं कर्तव्यं श्रावणे गुरुशुक्रयोः।

मौढयेऽपि वार्धके बाल्ये नित्यकर्म प्रचोदितम्॥१८॥ स्मृतिभास्करेऽपिचण्डांशोर्मण्डलं प्राप्तौ यदा शुक्रबृहस्पती। सर्वकर्मनिवृत्तिः स्यान्नित्यं नैमित्तिकं विना॥१९॥ स्मृत्यन्तरेऽपि—नित्ये नैमित्तिके जप्ये होमयज्ञक्रियासुच। उपाकर्मणि चोत्सर्गे ग्रहबेधो न विद्यते॥२०॥ एतदधिमासे कर्तव्यमित्याहचन्द्रिकायां ज्योतिष्पराशरः—उपाकर्म तथोत्सर्गप्रसवाहोत्सवाब्दिकाः। मासवृद्धौ परेकार्या वर्जयित्वा तु पैतृकम्॥२१॥ उत्तरे मासि कार्यमित्यर्थः। प्रसवाहोत्सवशब्देन जातेष्टिरेव गृह्यते। एतच्च मध्याह्णादूर्ध्वमेव कर्तव्यम्। तथाचोक्तं हेमाद्रौउपाकर्मापराह्णे स्यादुत्सर्गः प्रातरेव च॥इति॥२२॥गोभिलोऽपि—अध्यायानामुपाकर्मकुर्यात्कालेऽपराह्णिके। पूर्वाह्णे तु विसर्गः स्यादिति वेदविदो विदुः॥इति॥२३॥

इत्युपाकरणम्।

_____

अथ केशान्तकर्म।

केशान्तं षोडशे वर्षे कुर्याच्चौलोक्तभादिके।गुरुशुद्धिं विना काले व्रतोक्ते व्रतमोक्षणम्॥१॥ अथवा वस्त्रनक्षत्रवारलग्नेषु शस्यते। गुरोर्गेहान्निवृत्तानांसमावर्तनमण्डनम्॥२॥ नारदः—अयोत्तरायणे शुक्रजीवयोर्दृश्यमानयोः।द्विजातीनां गुरोर्गेहान्निवृत्तानां यतात्मनाम्॥३॥ चित्रोत्तरादितीज्यान्त्यहरिमित्रविधातृषु। भेष्वर्केन्दुज्ञार्यशुक्रवारलग्नांशकेष्वपि॥४॥ अथवा वस्त्रनक्षत्रवारलग्नांशकेषु च। प्रतिपत्पर्वरिक्तामाअष्टमीं च दिनक्षयम्। हित्वाऽन्यदिवसेकार्यं समावर्तनमण्डनम्॥५॥

इति केशान्तकर्म।

_____

अथ विद्यारम्भः।

विद्यया लुप्यते पापं विद्ययाऽऽयुः प्रवर्धते।विद्यया सर्वसिद्धिः स्याद्विद्ययाऽमृतमश्नुते॥१॥ द्वितीयजन्मतः पूर्वमक्षराभ्यासमारभेत्। मौञ्जीबन्धनतःपश्चाद्वेदारम्भः प्रशस्यते॥२॥ कन्यार्के सबले सौम्ये योगे सारस्वताभिधे।गणेशं गिरमभ्यर्च्य सर्वा विद्याः समारभेत्॥३॥ बृहस्पतिमतं चैव तदभावेऽधुनोच्यते। सौम्यायने प्रदोषादि चिन्तयेद्व्रतबन्धवत्॥४॥ मघायाम्यध्रुवाग्नीन्द्रद्वीशानिन्दुकुजार्कजान्। अनध्यायं तदाद्यन्तं त्यक्त्वा विद्यां समारभेत्॥५॥ आदित्यादिषु वारेषु विद्यारम्भे फलं क्रमात्। आयुर्जाड्यं मृतिर्मेधा सुधीः प्रज्ञाननुक्षयः॥६॥ हस्तत्रिकेत्रिके कर्णात्पूर्वासुमृगपञ्चके। मूलाश्विमैत्रपौष्णेषु

सुखसंस्कारमि(इ)ष्यते॥७॥ शुक्लपक्षे शुभाः सर्वे विद्यारम्भे दिनं तथा।विहायार्धं त्रिभागं वा परं कृष्णेऽपि शस्यते॥८॥ यदा चन्द्रो बुधांशस्थो बुधजीवसितेक्षितः। निषिद्धेऽपि च मासादौ विद्या शस्तेति केचन॥९॥लग्नवारदशा वर्ज्या विद्यारम्भेऽर्कभौमयोः। लग्ने द्व्यङ्गे सुविद्याप्तिः स्थिरेजाड्यं चरे भ्रमः॥१०॥ बृहस्पतिः—प्रथमा च द्वितीया च तृतीयापञ्चमी तथा। दशमी द्वादशी चैव एकादश्यस्तु पूजिताः॥११॥ त्रयोदशीसप्तमी च कदाचिच्छुदे तिथी।यदा चन्द्रो बुधांशस्थो बुधजीवसितेक्षितः॥१२॥ त्रिषडायगताः पापास्त्रिकोणे कण्टके शुभाः। विद्यारम्भे शुभाःप्रोक्ताः सक्रूरं पञ्चमं त्यजेत्॥१३॥विशेषाद्बुधवर्गेषु बुधदृष्टे बुधोदये।बुधवारे च होरायां विद्या शस्तोदिति विदि॥१४॥ एषु सर्वेषु शस्तेषु शुभंस्यादितरेषु च। अपवादो न चेत्तत्र योगान्वक्ष्याम्यभीष्टदान्॥१५॥ हस्ते बुधांशकेयुक्ता यदि भान्विन्दुसोमजाः। सोमवारे रवौ लग्ने योगः सारस्वतो भवेत्॥१६॥ अत्युच्चस्थे बुधे लग्नेऽषार्धोनाऽऽद्यत्रिभागके। भानौ तत्सौम्यवारे च योगो वागीश्वराह्वयः॥१७॥ हस्ते युधांशकस्थौ चेद्बुधेन्दू लग्नगौ यदा।बुधवारे चहोरायां योगः सारस्वताभिधः॥१८॥ इन्द्वर्कज्ञदिने वारे नाथलग्नेबुधांशके।हस्तर्क्षे च गता ह्येते योगःसारस्वताल्लयः॥१९॥ बुधोत्तमे गुरोरंशे केन्द्रगाज्ञार्कभार्गवाः। त्रयोदश्यां यमे लग्ने योगः सारस्वताल्लयः॥२०॥ कर्किणःपञ्चमे भागे गुराबुदयगे सति। गुरोर्वारे च होरायां विद्यायोगोऽयमुत्तमः॥२१॥प्रारम्भे सर्वविद्यानामनध्यायं विवर्जयेत्।नष्टं बुधं च विबलं लग्नं क्षीणं विधुंतथा ॥२२॥

इति विद्यारम्भः।

_____

अथानध्यायाः।

प्रतिपत्पूर्णिमाऽमा च चतुर्दश्यष्टमीतथा।अनध्यायाः सौषपदा युगमन्वादयस्तथा॥१॥ नारदः—अयने विपुत्रे चैव शयने बोधने हरेः। अनध्यायस्तुकर्तव्यो मन्वादिषु युगादिषु॥२॥ कार्तिक शुक्लनवमी त्वादिःकृतयुगस्य च। त्रेतादिर्माधवे शुक्ला तृतीया पुण्यसंज्ञिता॥३॥ कृष्णा पञ्चदशी माघे द्वापारादिरुदाहृता।कल्पादिः स्यात्कृष्णपक्षे नभस्ये च त्रयोदशी॥४॥द्वादश्यूर्जेशुक्लपक्षे नवन्याश्वयुजे सिते।चैत्रे भाद्रपदे चैव तृतीया॥५॥ एकादशी सिता पौषेऽप्याषाढे दशमी सिता। माघे च सप्तमी शुक्लानभस्येऽ

प्यसिताष्टमी॥६॥ श्रावणे मास्यमावास्या फाल्गुने मासि पूर्णिमा।आषाढेकार्तिके मासि चैत्रे ज्येष्ठे च पूर्णिमा। मन्वादयः स्नानदानश्राद्धेष्वत्यन्तपुण्यदाः॥७॥ संग्रहे—मार्गशीर्षे तथा पौषे माघमासे तथैव च तिस्रोऽष्टकाःसमाख्याताः कृष्णपक्षे तु सूरिभिः॥८॥सिता ज्येष्ठे द्वितीया तु आश्विनेदशमी सिता। चतुर्थी द्वादशी माघ एताः सप्तपदाः स्मृताः॥९॥ चातुर्मास्य—द्वितीया गर्गेणोक्ताः—शुचावूर्जेतपस्ये च द्वितीया च विधुक्षये। चातुर्मास्यद्वितीयास्ताःभवदन्ति महर्षयः॥१०॥

इत्यनध्यायाः।

_____

अथ च्छुरिकाबन्धनम्।

नादरः—छुरिकाबन्धनं वक्ष्ये नृपाणां प्राक्करग्रहात्।विवाहोक्तेषु मासेषुशुक्लपक्षेऽप्यनस्तमे॥१॥ जीवे शुक्रे च भूपुत्रे चन्द्रताराबलान्विते। मौञ्जीबन्धर्क्षतिथिषु कुजवर्जितवासरे॥२॥ सग्रहे शूद्राणां राजपुत्राणां मौञ्जीभावेऽस्त्रबन्धनम्। मौञ्जीबन्धोक्ततिथ्यादौकार्य भौमदिनं विना॥३॥ नारदः—धनत्रिकोणकेन्द्रस्थैः शुभैस्यायरिगैपरैः। छुरिकाबन्धनं कार्यमर्चयित्वासुरान्पितॄन्॥४॥ अर्चयेच्छुरिकां सम्यग्देवतानां च संनिधौ।ततः सुलग्ने बध्नीयात्कट्यां लक्षणसंयुताम्॥५॥ तस्यास्तु लक्षणं वक्ष्ये यदुक्तं ब्रह्मणापुरा। संमितं छुरिकायामं विस्तारेणैव ताडयेत्॥६॥ भाजितं गजसंख्यैश्चअङ्गुलान्प(लीःप)रिकल्पयेत्। शेषं चैव फलेंचक्ष्ये ध्वजाये धनवान्भवेत्॥७॥धूमाये मरणं सिंहे जयः श्वायेऽतिरोगिता। धनलाभो वृषेऽत्यन्तै दुःखी भवति गर्दभे॥८॥गजायेऽत्यन्तसंप्रीतिर्ध्वाङ्क्षे वित्तविनाशनम्। आयामार्धांग्रविस्तारप्रमाणेनैव ताडयेत्॥९॥ तच्छेदखण्डान्यायाः स्युर्ध्वजाये रिपुनाशनम्। खङ्गपुत्रिकयोर्मानं गणयेत्स्वाङ्गुलेन तु॥१०॥ मानाङ्गुलेषु पर्यायानेकादशमितांस्त्यजेत्। स्वामिनोऽङ्गुलिभिर्गुण्यं शस्त्रे मुष्टिं विहाय तु॥११॥ तन्मानं विभजेद्रुद्रैःशेषाङ्कस्य फलं क्रमात्। पुत्रलाभः शत्रुवृद्धिः स्त्रीलाभोगमनं शुभम्॥१२॥ अर्थहानिश्चार्थवृद्धिः प्रीतिः सिद्धिर्जयः क्षितिः। स्थितोध्वजे वृषाये वा प्रष्टा चेत्पूर्वतो व्रणौ॥१३॥सिंहे गजेमध्यभागे त्वन्त्यभागे श्वकाकयोः। धूमगर्दभयोर्नैव व्रणं श्रेयोऽन्त्यभागजम्॥१४॥

इति च्छुरिकाबन्धनम्।

_____

अथ विवाहप्रकरणम्।

वराहः-स्त्रीरत्नभोगोऽस्ति नरस्य यस्य निःस्वोऽपि मां प्रत्यवनीश्वरोऽसौ।राज्यस्य सारोऽशनमङ्गनाश्चतृष्णानलोद्दीपनदारु शेषम्॥१॥ रत्नहेमाद्यलंकारा भोगा मृगमदादयः। व्यर्थाः सर्वे न राजन्ते हर्न्याणिस्त्रियमन्तरा॥२॥नारदः-सर्वाश्रमाणामाश्रयो गृहस्थाश्रम उत्तमः। यतस्तदपि योपायां शीलवत्यां स्थितस्ततः॥३॥ तस्याः सच्छीललब्धिस्तु सुलग्नवशतः खलु।पितामहोक्तां संवीक्ष्य लग्नशुद्धिं प्रवच्न्यहम्॥४॥ शौनकः-प्रमदाफलस्य सदसज्जातकविहितस्य यदि न नाशोऽस्ति। तत्किमनेन बहुना पुनरप्युद्वाहलग्नेन॥५॥ अथ तु विलग्नाधीना सिद्धिर्नियमेन भवति दंपत्योः। प्राक्सुकृतसंचयफलं तच्च नृणां चैव वक्तव्यम्॥६॥ येन तु यत्प्राप्तव्यंतस्य विधानंसुरेश इन्द्रोऽपि। यः साक्षानीतिज्ञः सोऽपि न शवतोऽन्यथा कर्तुम्॥७॥ननु जन्मकाले शुभाशुभफलं गदितं तच्चेत्प्रमाणं ततो यदि जन्मफलमशुभमस्ति तत्कथं विवाहलग्नेन शुभं भवति चेद्विवाहलग्नप्राबल्यं तज्जातकादीनामानर्थक्यप्रसङ्गः। सत्यं यज्जातके फलमुक्तं तस्य विवाहे तत्कालग्रहवशेनाऽऽधिक्यंन्यूनता च भवति। तथाचोक्तं बृहज्जातके-पाकस्वामिनि लग्नगे सुहृदि वा वर्गेऽथसौम्येऽपि वा प्रारब्धा शुभदा दशा त्रिदशषड्लाभेषु वा पाकपे। मित्रोच्चोपचयत्रिकोणमदने पाकेश्वरस्य स्थितश्चन्द्रः सत्फलबोधनानि कुरुते पापानि चातोऽन्यथा॥८॥ अत्र जन्मफलं शुभमपि दशाप्रवेशकालचन्द्रस्य स्थानवशाच्छुभतरमुक्तम्। पापदृष्टतत्कालचन्द्रवशाज्जन्मफलं दुष्टमशुभतरमुक्तम्। एवं जन्मफलमशुभमपि विवाहलग्नवशाच्छुभम्। शुभं तु जन्मफलं विवाहलग्नशुभग्रहसंस्थानवशादतीय शुभमिति सर्वमनवद्यम्॥

इति लग्नप्रामाण्यम्।

_____

अथ विवाहे कुलविचारः।

सापिण्डयं गोत्रशुद्धिं च शीलं सामुद्रिकाणि च। जातकादिभमेलं च वीक्ष्यंवाग्दानतः पुरा॥१॥ तत्र कुलपरीक्षा मिताक्षरायां-बध्वा वरस्य वा तातःकूटस्थाद्यदिसप्तमः।पञ्चमी चेत्तयोर्माता तत्सापिण्ड्यं निवर्तते॥२॥ मनुः-लेषभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः। पिण्डदः सप्तमस्तेषां सापिण्ड्यंसाप्तपौरुषम्॥३॥ संतानं भिद्यनेयस्मात्पूर्वजादुभयत्र च।तमादाय गणये-154

द्धीमान्वरं यावच्च कन्यकाम्॥४॥ धर्मप्रदीपे—असपिण्डां च पितृतः सप्तमात्पुरुषात्परम्। मातृतः पञ्चमादूर्ध्वमसमानार्पगोत्रजाम्॥५॥ स्मृतिचन्द्रिकायांनिर्णयवचनं–मूलगोत्रादन्यगोत्रामुद्वहेदष्टमोऽष्टमीम्। अन्यगोत्रादन्य-गोत्रां षष्ठः षष्ठीं समुद्वहेत्॥६॥तृतीयां वा चतुर्थी वा पक्षयोरुभयोरपि। विवाहयेन्मनुः प्राह पाराशर्योऽङ्गिरा यमः॥७॥ मातुलस्य सुतामूढां मातृगोत्रां तथैव च। समानप्रवरामूढां परित्यज्य प्रपालयेत्॥८॥ पञ्चमात्सप्तमादूर्ध्वं मातृतः पितृतस्तथा। उभयोर्मातृतश्चैव षष्ठः षष्ठींसमुद्वहेत्॥९॥ लिङ्गपुराणे-वाक्संबन्धकृतानां तु स्नेहसंबन्धभागिनाम्। विवाहोऽत्र न कर्तव्यो लोकगर्हा प्रसज्यते॥१०॥ स्मृतिमहार्णवे-या दुष्प्रतीतसंबन्धा मातृगोत्रद्वये च या। सगोत्रा चसपिण्डा च वर्ज्या सोद्वाहकर्मणि॥१०॥

इति विवाहे कुलविचारः।

_____

अथ गोत्रप्रवरनिर्णयः।

समानप्रवरां कन्यां सपिण्डां चैकगोत्रजाम्। नैव तां वरयेत्प्राज्ञो मातृवत्परिकीर्तिता॥१॥ एक एव ऋषिर्यत्र प्रवरेष्वनुवर्तते। तावत्समानगोत्रत्वमृते भृग्वङ्गिरोगणात्॥२॥ प्रवरमञ्जर्यां—पञ्चानां155 त्रिषु सामान्यादविवाहस्त्रिषुद्वयोः। भृग्वङ्गिरोगणेष्वेवं शेषेष्वेकोऽपि वारयेत्॥३॥समानप्रवरोभिन्नो मातृगोत्रे वरस्य च। विवाहो नैव कर्तव्यः सा कन्या भगिनी भवेत्॥१४॥ प्रवरप्रदीपे–पैत्रे प्रवरभिन्नत्वं चिन्तनीयं न मातृके।केवलं मातृकंगोत्रं वर्ज्यं कात्यायनोऽब्रवीत्॥५॥ गोत्रं मातुरपुत्राया वर्जयेत्प्रवरान्न तु।सपुत्रायास्तु नो गोत्रं प्रवरांश्च न चिन्तयेत्॥६॥ प्रयोगपारिजाते-असमानार्पगोत्रजामिति। ऋषेरिदमार्षं प्रवरगोत्रप्रवर्तकस्य मुनेर्व्यावर्तको मुनिगण इत्यर्थः।तद्यथा गोत्रप्रवर्तकस्य भारद्वाजस्य व्यावर्तकावङ्गिरोबृहस्पती। अत एवाऽऽङ्गिरसवार्हस्पत्यभारद्वाजगोत्रामिति प्रयुञ्जते।एवमन्यत्राप्युदाहार्यम्।गोत्रं तुवंशपरम्परामसिद्धम्।यस्या बध्वा वरेण सह प्रवरैक्यं गोत्रैक्यं वा नास्तिसा वधूर्विवाहमर्हति। क्वचिद्गोत्रभेदेऽपि प्रवरैवयमस्ति। याज्ञवल्क्यवाधूलमौनमौकानां भिन्नगोत्राणां भार्गववैतहव्यसावेतसेति156 प्रवरैक्यादतस्तत्र विवाहप्रसक्तौतद्व्यवच्छेदायासमानार्षामित्युक्तम्। कचित्प्रवर-भेदेऽपिगौत्रेक्यम्। तद्यथा-आङ्गिरसाम्बरीषयौवनाश्वेति। मान्धात्राम्बरीषयौवनाश्वेति।

अत्राऽऽङ्गिरसमान्धातृप्रवरभेदेऽपि यौवनाश्वगोत्रमेकम्। अतस्तत्र विवाहो माभूदित्यसमानगोत्रग्रहणम्। अत्र विशेषमाह सूत्रकारः—एक एव ऋषिर्यावत्प्रवरेष्वनुवर्तते। तावत्समानगोत्रत्वमन्यत्र भृग्वाङ्गिरसां गणात् इति ॥७॥गोत्रप्रवर्तकाः प्राधान्येनाष्टौ मुनयः। ते च—अगस्त्याष्टमाः सप्तर्षयः। तथा च बौधायनः—विश्वामित्रो जमदग्निर्भरद्वाजोऽथ गौतमः। अत्रिर्वसिष्ठः कश्यप इत्येते सप्तर्षयः। सप्तानामृषीणामगस्त्याष्टमानां यदपत्यं तद्गोत्रमित्याचक्षत इति। अत्र संग्रहकारस्त्वष्टादश गणानाह—जामदग्न्यो वीतहव्यो वैन्यो गृत्समदाह्लयः।बाध्रयश्वोगौतमाख्यत्र भरद्वाजाह्लयः कपिः ॥८॥ हरितो मौद्गलः कण्वो विरूपो विष्णुवृद्धयः (कः)। अत्रिविश्वामित्रकौ157 च वसिष्ठः कश्यपाह्लयः। अगस्त्यश्चेति मुनयो ह्यष्टादश गणाः स्मृताः ॥९॥ जामदग्न्यः—जामदग्न्यश्च वत्सश्च श्रीवत्सश्चानवाह्लयः। आप्तवानौर्वसावर्णी158 जीवन्तो देवरातकः। शीतशायनशाखाख्योवैरोहित्यो वटाह्लयः ॥१०॥ मण्डःप्राचीनयोग्यः स्यादार्ष्टिषेणस्त्वरूपकः159।एतानि भार्गवाख्यानि दशसप्तोत्तराणि च। जामदग्न्यगणे तस्मिन्नविवाहः परस्परम् ॥११॥ वीतहव्यः—वीतहव्ययस्कमौनमौकवाधूलसंज्ञकाः।सावेदश्च षडेतानि भार्गवाख्यान्वये गणः। वीतहव्यस्य वाऽन्योन्यं न कार्यंपाणिपीडनम् ॥१२॥ वैन्यः160—वैन्यः पार्थश्च गोत्रे द्वे भवतो भार्गवाह्लयः। एषवैन्यगणस्तत्र अन्योन्यं न करग्रहः ॥१३॥ गृत्समदः—उभे गोत्रे गृत्समदःशौनको भार्गवाह्लयः। गणो गृत्समदस्तस्मिन्नान्योन्यं पाणिपीडनम् ॥१४॥ बाध्र्यश्वः—द्वे बाध्र्यश्वोमित्रयुग्मो गोत्रे भार्गवनामकः। बाध्र्यश्वस्य गणस्तस्मिन्नद्वाहो न परस्परम् ॥१५॥ जामदग्न्यादयः पञ्च गणा भृगुगणाः स्मृताः।न चैतेषां गणानां तु विवाहःस्यात्परस्परम् ॥१६॥ गोतमः—गौतमोयस्य औतथ्यः कक्षीवानौशिजस्तथा। बृहदुक्थोवामदेवो गोत्राणीमानि सप्त च। गौतमस्य गणस्तस्मिन्विवाह न परस्परम् ॥१७॥ भारद्वाजः—भारद्वाजः कुशः क्वग्निवैश्यऊर्जयमः कृतः। शैशिरःशीरशुङ्गश्च वदनश्च बृहस्पतिः ॥१८॥ सर्वस्तम्बः कपिर्नीतवचसो161 गार्ग्यसैन्यकौ। भारद्वाजगणःसप्तदशगोत्रमिति स्मृतम्। तस्मिन्परस्परं कार्यं न कन्यापाणिपीडनम् ॥१९॥ कपिः—कपिश्चमहदक्षीयोरुक्षीयस्त्रीणि केवलम्। अयं कपिगणोऽन्योन्यंतस्मिन्न हि करग्रहः ॥२०॥ हरितः—हरितो यौवनाश्वश्च मान्धाता कुत्सनामकः। पिङ्गलः शङ्खदर्भौच भौमश्च गवनायकः ॥२१॥ अम्बरीषो दशै-

तानि हरितस्य गणः स्मृतः। तस्मिन्परस्परं पाणिग्रहणं न हि शोभनम् ॥२२॥ मौद्गल्यः—मौद्गल्यतार्क्ष्यभार्न्याश्वास्त्रीणि गोत्राण्यमूर्ति हि। मौद्गल्यस्य गणस्तत्र न मिथः पाणिपीडनम् ॥२३॥ कण्वः—कण्वोऽजर्मीढ इत्येते गोत्रे कण्वगणःस्मृतः। तस्मिन्परस्परं पाणिग्रहणं न शुभं मतम् ॥२४॥ विरूपः—विरूपोऽष्टादंष्ट्रिनामा पृषदश्वश्चमौद्गलः। चत्वारीमानि गोत्राणि विश्वरूपगणः स्मृतः।परस्परं विवाहोऽस्मिन्न विधेय इतीरितः ॥२५॥ विष्णुवृद्धः—विष्णुवृद्धःपौरुकुत्स्यस्त्रसदस्युः कतस्तथा। माषणो भद्रणाख्यश्च बादरायणसंज्ञकः ॥२६॥सत्यकामौषमित्यौ च गविः सात्यकितालुकी। नितुन्दश्चेतिगोत्राणि त्रयोदशमितानि च ॥२७॥ विष्णुवृद्धगणस्तस्मिन्न विवाहः परस्परम्। गौतमस्यगणा ह्यष्टौ यस्तथाऽऽङ्गिरसो गणः। तथाऽप्येषां गणानां तु विवाहः स्यात्परस्परम् ॥२८॥ अत्रि—तदेतद्गोत्रनवकमत्रिः स्यान्नर्चनानसः।श्यावाश्वोधामरन्ध्रञ्च गविष्ठिरधनञ्जयौ ॥२९॥ सुमङ्गलस्तिथिवर्जिवापश्चात्रिगणोह्ययम्। आत्रेयाख्ये विवाहोऽस्मिन्न विधेयोमिथःशुभम् ॥३०॥ विश्वामित्रः—विश्वामित्रो देवरातो मनुस्तन्तुश्च औलकिः। बालकिश्चिंकितोलूकौयाज्ञवल्किश्चनारदः ॥३१॥ बृहदग्निः कालववौशवलीबहुलोहितौ। शालङ्कायनवावर्ण्यकामकायनपूरणौ ॥३२॥ शालवातोऽग्निदेवश्च मदनः कौशिकौष्टकौ। आज्यो मधुच्छन्दसश्चदेवश्रवधनञ्जयौ ॥३३॥ शुङ्गः कतः शैशिनश्च वारिधारोऽधमर्पणः। सूनुः पनश्चधूम्राख्यो जठरस्त्वेकहव्यकः ॥३४॥ अष्टात्रिंशच्च गोत्राणिविश्वामित्रगणः स्मृतः। एतस्मिन्नपि चान्योन्यं न कुर्यात्पाणिपडिनम् ॥३५॥कश्यपः—कश्यपो रेभरौभौ च शाण्डिल्यो देवलोहितः। सांकृतिः पूतिमाषश्चवत्सरो नैध्रुवो दश। गोत्राणि कश्यपगणस्तत्रान्योन्यं न दोर्ग्रहः ॥३६॥वसिष्ठः—वसिष्ठ इन्द्रप्रमदस्त्वाभरद्वसुसंकृतिः। कौण्डिन्यः पूतिमापश्च गौरवीतिःपराशरः ॥३७॥ मैत्रावरुणसक्थिश्च उपमन्युगणः स्मृतः। एकादश वसिष्ठस्यगोत्रस्यास्मिन्न दोर्ग्रहः ॥३८॥ अगस्यः—त्रीण्यगस्त्यो वीतवाहो दार्ढ्यच्युतइति स्मृतः। एषोऽगस्त्यगणस्तस्मिन्न विवाहः परस्परम् ॥३९॥ जमदग्निगणस्यापि विश्वामित्रगणस्य च। न देवरातगोत्रेण विवाहः स्यात्परस्परम् ॥४०॥ भरद्वाजगणस्यापि विश्वामित्रगणस्य च।कतरौशिरशुङ्गैश्च नान्योन्य पाणिपीडनम् ॥४१॥काश्यपेयगणस्यापि विश्वामित्रगणस्य च। संकृतिपूतिमाषाभ्यांविवाहो न परस्परम् ॥४२॥आत्रेयस्य गणस्यापि विश्वामित्रगणस्य च। धनञ्जयाख्यगोत्रेण नान्योन्य पाणिपीडनम् ॥४३॥ भरद्वाजगणस्यापि

तथा कपिगणस्य च। विवाहो न विधेयः स्यादन्योन्यं तु कदाचन ॥४४॥मौद्गलस्य गणस्यापि विरूपस्य गणस्य च। परस्परं न कुर्वीत पाणिपीडनसत्क्रियाम् ॥४५॥ अनाप्तृयोराकुलयः162 श्वातयो राजचारयः। सरश्चावाहिजाश्चैव बाहवस्तदनन्तरम् ॥४६॥ तथाचाशुशयः प्रोक्ताः सैरन्ध्यो राजसेवकाः।स्वापलिङ्गश्च लौगाक्षिस्तथैव शरबन्दकाः ॥४७॥एते त्रयोदश प्रातर्वसिष्ठानिशि कश्यपाः। गायत्रीयोनिसंबन्धावङ्गीकृत्य प्रवर्तकाः ॥४८॥ अहर्वसिष्ठतां रात्रौ कश्यपत्वमपि स्वयम्। तेषां गोत्रत्रयं मुक्त्वा वासिष्ठं काश्यपं तथा।सर्वत्रापि विवाह्याः स्युरिति वेदविदो विदुः ॥४९॥ यत्तु स्मृयन्तरं—सावित्रीं यस्य यो दद्यात्तत्कन्यां न विवाहयेत्। तद्गोत्रे तत्कुले वाऽपिविवाहो नैव दोषकृत् ॥५०॥ इति तत्स्वगोत्र(त्रा)ज्ञातृविषयम्। गुरोःसगोत्रत्रप्रवरा नोद्वाह्याःक्षत्रवैश्ययोः।स्वगोत्रह्य(स्या) नभिज्ञैश्च विप्रैराचार्यगोत्रजाः ॥५१॥ द्व्यामुष्यायणकाः सर्वे दत्तकक्रीतकादयः।गोत्रद्वयेऽप्यनुद्वाहः शुङ्गशैशिरयोस्तथा ॥५२॥ असंप्रज्ञातबन्धूनामाचार्यप्रवराः स्मृताः।पक्षे चास्मिन्विवाहोऽपि सगोत्रैः सह नेष्यते ॥५३॥ येऽत्र सप्रवरां विवहेयुस्तेषांनिष्कृतिरुच्यते। संग्रहे—सगोत्रां समानप्रवरां कामतः परिणीय प्रजामुत्पाद्यगुरुतल्पगतव्रतैः चरेत्। प्रजां चाण्डालेषु निक्षिपेत्। अकामतस्त्वब्दकृच्छ्रं प्रजाया भारद्वाजगोत्रान्तर्भागः। प्रजानुत्पादे चान्द्रायणम्। विवाहमात्रे कृच्छ्रंचरेत्। सर्वत्र व्रतान्तेऽष्टोत्तरशतं समिधां होमः। परित्यक्तां तां जननीवद्रक्षेदिति।

इति गोत्रप्रवरनिर्णयः।

_____

अथ वरगुणाः।

कुलं शीलं वपुर्विद्या वयो वित्तंसनाथता।गुणाः सप्त वरे यस्मिस्तस्मैकन्या प्रदीयते ॥१॥ ब्राह्मणस्य कुलं ग्राह्यं न वेदाः सपदक्रमाः।कन्यादानेतथा श्राद्धे न विद्या तत्र कारणम् ॥२॥ कारिकानिबन्धे—अन्धो मूकः क्रियाहीनश्चापस्मारी नपुंसकः। दूरस्थः पतितः कुष्ठी दीर्घरोगी वरो न सन् ॥३॥नात्यासन्ने नातिदूरे नात्याद्व्ये नातिदुर्बले। वृत्तिहीने च मूर्खे च षट्सु कन्यान दीयते ॥४॥ मूर्खनिर्धनदूरस्थशूरमोक्षाभिलाषिणाम्।त्रिगुणाधिकवर्षाणांन देया जातु कन्यका ॥ ५॥ यस्याप्सु प्लवते बीजं ह्यादि मूत्रं फेनिलम्।

पुमान्स्याल्लक्षणैरेतैर्विपरीतस्तुषण्ढकः ॥६॥ अपरीक्ष्य वरं कन्यां निर्गुणायददाति यः। कुलं तस्यैव तच्छोकसंतप्तोर्वी निकृन्तति ॥७॥

इति वरगुणाः।

_____

अथ कन्यागुणाः।

वधूं सुलक्षणोपेतां प्रसन्नाख्यां कुलोद्भवाम्।कन्यकां वग्येद्रूपवतीमव्यङ्गविग्रहाम् ॥१॥ अपुत्रा ह्यक्रिया त्याज्या निश्छेदा163 रोमशीर्षका। दुर्भगा त्वथापस्मारी164 कुष्ठी कृत्या कुलस्त्रियः ॥२॥ कारिकानिबन्धे—ज्योतिःसागरेच–भुजगविहङ्गमभीषणपादपनाम्नी लकाररेफान्ता। ऋक्षनदीनदसंज्ञा न विवाह्या कन्यकासद्भिः ॥३॥ अत्रान्तशब्देनोपान्तो लक्षितः। धन्या पर्वतपुष्णख्या पुष्पनाम्नी च कन्यका। अतिदीर्घा च कपिला वर्ज्या कृष्णाऽतिरोमशा ॥४॥ठान्तं भीषणमाख्यातं नद्याप्यं वारुणं नदः। पक्षिद्वीशं तरुर्मूलं सार्षाश्लेषार्क्षकंमघा ॥५॥ इति केचिन्मतं प्रोक्तं परैः प्रोक्तमथोच्यते। भुजङ्गादिप्रसिद्धार्थनाम्नीं कन्यां विवर्जयेत् ॥६॥

इति कन्यागुणाः।

_____

अथ सामुद्रिकलक्षणानि।

अर्चितं वचनमुन्नतं मनो निर्विशेषसुखदं दृशां वपुः। अस्ति चेदथपराङ्मुखी मतिर्लक्षणैः किमपरैर्नृयोपिताम् ॥१॥ मनसश्चक्षुषो यस्मिन्वरे यस्यांच योषिति। संतोषो जायते तत्र नान्यत्किंचिद्विचिन्तयेत् ॥२॥ तत्रापिकिचिदुच्यते—पञ्चदीर्घं चतुर्हस्वं पञ्चसूक्ष्मं षडुन्नतम्। सप्तरक्तं त्रिगम्भीरं त्रिविस्तीर्णं प्रशस्यते ॥३॥हनुलोचनबाहुनासिकाःस्तनयोरन्तरमत्र पञ्चमम्।इति दीर्घमिदं तु पञ्चकं न भवत्येव नृणामभूभृताम् ॥४॥ नाभिः स्वरः सत्त्वमिति प्रशस्तं गम्भीरमेतत्त्रितयं नराणाम्। उरोललाटं वदनं च पुंसां विस्तीर्णमेतत्त्रितयं प्रशस्तम् ॥५॥ वक्षोऽथ कक्षाद्वयनासिकास्यकृकाटिकाश्चिति षडुन्ननानि।हस्वाणि चत्वार्यथ लिङ्गपृष्ठे ग्रीवा च जङ्ये च हितप्रदानि ॥६॥नेत्रान्तपादकरताल्वधरोष्ठजिह्वा रक्ता नखाश्च खलु सप्त सुखावहानि।सूक्ष्माणिपञ्च दशनाङ्गुलिपर्वकोशाः साकं त्वचा कररुहाश्चन दुःखितानाम् ॥७॥ययोऽङ्गुष्ठोदरे यस्य यशस्वी च नरो भवेत्। अनामिक्या मूलजा स्याद्रेखा

यस्य स पुण्यवान् ॥८॥ उरोविशालो धनवान्हनौ शीर्षेऽपराजितः। बहुपुत्रःकटिस्थूलो विशालचरणो धनी ॥९॥ चक्षुःस्नेहे च सौभाग्यं दन्तस्नेहेनभोजनम्। वपुःस्नेहेन सौभाग्यं पादस्नेहेन वाहनम् ॥१०॥ उलूकाक्षाश्चकाकाक्षा मण्डूकाक्षाश्च ये नराः।अल्परोमकपोलाश्चते सर्वे पापबुद्धयः ॥११॥विस्वराः काकनादाश्चकेकरा वक्रनासिकाः। शिराला रोमशा ह्रस्वोत्तरोष्ठास्ते हि पापिनः ॥१२॥पितृशीलोत्तमा कन्या मातृशीलो वरस्तथा। समपृष्टस्तुल्यरूपो विवाहः सुखदो भवेत् ॥१३॥ शङ्खपद्मयवच्छत्रमालामत्स्यध्वजादयः। पादेपाणौभवन्त्येव राज्ञां तद्योषितां तथा ॥१४॥ व्यासः— मार्जारपिङ्गला नारी विषकन्येति कीर्तिता।सुवर्णपिङ्गला नारी नातिदुष्टापरे जगुः ॥१५॥ कृष्णजिह्वाच लन्वोष्ठी पिङ्गाक्षी घर्घरस्वरा। त्याज्या यस्याश्च पादौ च कुचावोष्ठौ च रोमशौ ॥१६॥ विरलाङ्गुलिदन्ता च कुचगण्डबृहत्त्वचा। कृष्णतालुः परित्याज्या व्यङ्गाङ्गी पितृमातृतः ॥१७॥ कनिष्ठाऽनामिका यस्याः पादे मध्यमिका तथा। भूमिं न स्पृशते सा स्त्रीविज्ञेया व्यभिचारिणी ॥१८॥ पादप्रदेशिनी यस्या अङ्गुष्ठं समतिक्रमेत्।न सा भर्तृगृहे तिष्ठेत्स्वच्छन्दा कामचारिणी ॥१९॥ उदरे श्वशुरं हन्ति ललाटेहन्ति देवरम्।स्फिचौ पतिं लम्बमाने धनं कूर्मोदरी हरेत् ॥२०॥ पृष्ठावर्तापतिं हन्ति नाभ्यावर्ता पतिव्रता। कट्यावर्ता तु स्वच्छन्दा स्कन्धावर्ताऽर्थभागिनी ॥२१॥सुखचारा सुवेषाच मृद्बङ्गी चारुभाषिणी। प्रशस्ता सुगतिःकन्या या च दृङ्मनसोः प्रिया ॥२२॥मण्डूककुक्षिका नारी न्यग्रोधपरिमण्डला।एकं जनयते पुत्रं स तु राजा भविष्यति ॥२३॥ वराहः— मध्याङ्गुलीयामणिबन्धनोत्था रेखा गता पाणितलेऽङ्गनानाम्। ऊर्ध्वं गता पाणितलेऽथवायापुंसोऽथवा राज्यसुखाय सा स्यात् ॥२४॥ कनिष्ठिकामूलभवा गता या प्रादेशिनीमध्यमिकान्तरालम्। करोति रेखा परमायुषंतं प्रमाणहीनाऽर्थतं ऊनमायुः ॥२५॥ कलत्रकान्तयोः संख्या जीविताख्यकनिष्ठयोः।मध्यं विचिन्तयेद्दक्षे वामहस्ते नरस्त्रियोः ॥२६॥ अङ्गुष्ठमूले प्रसवम्य रेखाः पुत्राबृहत्यः प्रमदाश्चतन्व्यः। अच्छिन्नदीर्घाश्चचिरायुषःस्युः स्वल्पायुपश्छिन्नलघुप्रमाणाः ॥२७॥ अरेखं बहुरेखं वा येषां पाणितलं नृणाम्। ते स्यूरल्पायुषो निःस्वा दुःखिता नात्र संशयः ॥२८॥ क्लेशसंपल्लवा रेखा कुर्याच्छिन्नायुषः क्षयम्। मणिबन्धोन्मुखा वृद्ध्यै त्रिवदेऽङ्गुष्ठसंमुखा ॥२९॥मत्म्यःकरतले यस्य स नरो बहुकोशवान्।भाग्यरेखा सुतीक्ष्णाप्रा शुभा छत्राकृति-॥३०॥

स्तथा ॥३०॥ मिलद्भूयुग्मिका काणा लम्बोष्ठी शूर्पकर्णिका।वक्रास्यनासिका चातिमौना त्याज्याऽतिभीषणा ॥३१॥ श्लिष्टान्यङ्गुलिमध्यानि द्रव्यसंचयहेतवे। तानि चेच्छिद्रयुक्तानि त्यागशीलकराणि च ॥३२॥ यस्याः केशांशुकस्पर्शान्म्लायन्ति कुसुमस्रजः। स्नानान्भसि विषद्यन्ते चहवः क्षुद्रजन्तवः ॥३३॥ धीयन्ते मत्कुणास्तल्पे तथा यूकाश्च वाससि। चौर्यान्नभक्षिणी शौचहीना त्याज्या नितम्बिनी ॥३४॥

इति सामुद्रिकलक्षणानि।

_____

अथ प्रसङ्गेन स्वस्थारिष्ठानि।

पूर्वमायुः परीक्षेत पञ्चालक्षणमादिशेत्। आयुर्हीननराणां च लक्षणैः किं प्रयोजनम् ॥१॥ स्वप्नो निमित्तेशकुनःस्वकर्म शारीरमागन्तुकमद्भुतानि। दोषाभिचारग्रहचारकालाः काम्यानि दैवं विविधं फलानि ॥२॥ फलं यदि प्राक्तनमेव तत्किं कृष्याद्युपायेषु परः प्रयत्नः।श्रुतिः स्मृतिश्चापि न वा निषेधविद्यात्मके कर्मणि कि निषण्णा ॥३॥अरुन्धतीं ध्रुवं चैव विष्णोस्त्रीणि पदानि च। आयुर्हीना न पश्यन्ति चतुर्थे मातृमण्डलम् ॥४॥ देहेऽप्यरुन्धती जिह्वा ध्रुवो नासाग्रमुच्यते। भ्रुवोर्विष्णोः पदं मध्यं तारका मातृमण्डलम् ॥५॥ आकीर्णश्रवणो यस्तु न घोषं शृणुयात्तथा। नभोमन्दाकिनीमिन्दोश्छावां नेक्षेद्गतायुषः ॥६॥ हकारःशीतलो यस्य सकारोऽग्निसमप्रभः। लक्षणं त्वीदृशं दृष्टं तस्याऽऽयुः स्यात्समार्थकम् ॥७॥स्थूलो वाऽपिकृशोऽकस्माद्दरिद्रो वा धनी भवेत्। यो मुक्त्वा न धृतिं लेभे स याति यममन्दिरम् ॥८॥ पांसुषङ्कादिषु न्यस्तं खण्डं यस्य पदं भवेत्। पुरतः पृष्ठतो वाऽपि सोऽष्टौ मासान्न जीवति ॥९॥ संसृज्यते न सलिलैर्नलिनीदलवत्तनुः। स्नानमाचरतो यस्य षण्मासान्न स जीवति ॥१०॥ स्नानाम्बुलिप्तमात्रस्य यस्योरः प्राक् प्रशुष्यति। मात्रेष्वार्द्रेषु सर्वेषु सोऽर्धमासं न जीवति ॥११॥ जलादर्शादिषु च्छायां विकृतां यः प्रपश्यति। संस्विद्यते ललाटं वा तस्य मृत्युरुपस्थितः ॥१२॥ न मान्त्यङ्गुलयस्तिस्रो मुखे यस्य स नश्यति। ऊर्ध्वं तिर्यगधो दृष्टिर्यस्य स्यात्सोऽपि मृत्युभाक् ॥१३॥ नयनान्ते विनिष्पीड्य यस्तु तेजो न पश्यति। मयूरचन्द्रिकाकारं स सप्ताहाद्विपद्यते ॥१४॥ गन्धर्वनगरं पश्येद्दिवा नक्षत्रमण्डलम्। परवेत्रेषु चाऽऽत्मानं न पश्येन्न स जीवति ॥१५॥ सरटः कङ्ककाकादद्यागोधाद्या यदि मध्यमाः। जीवाः शीर्षे पतन्त्येव तदा जीवितसंक्षयः ॥१६॥

कपोतः प्रविशेद्यस्य गृहं घूको गृहोपरि।शब्दं कुर्यात्स नश्येश्च यः पश्येत्काकमैथुनम् ॥१७॥ स्वप्ने मुण्डितमात्मानं षष्मासायुर्निरीक्षते। कर्णमासाकरादीनां छेदनं षङ्कमज्जनम् ॥१८॥ पतनं दन्तकेशानां पक्वमांसस्य भक्षणम्। खरोष्ट्रमहिपैर्यानंतैलाभ्यङ्गं च मृत्यवे ॥१९॥

इति स्वस्थारिष्टानि।

_____

अथ दैवज्ञं प्रति पृच्छा।

पुण्येऽह्नि लक्षणोपेतं सुखासीनं सुचेतनम्।प्रणम्य देववत्पृच्छेद्दैवज्ञं भक्तिपूर्वकम् ॥१॥ताम्बूलफलपुष्पाद्यैः पूर्णाञ्जलिरुपागतः। कर्ता निवेद्य दंपत्योर्जन्मराशिं स्वजन्मभम् ॥२॥ पुण्यैर्निमित्तशकुनैः प्रश्नकाले तु मङ्गलम्।दंपत्योरशुभैस्तैस्तु विरुद्धं सर्वथा भवेत् ॥३॥सप्तर्षयः—पृथक्समयनिमित्तान्यवलोक्य च शास्त्रमार्गविदा। प्राक सुकृतदुष्कृतभवं फलमिह वाच्यंप्रयत्नेन ॥४॥ लल्लः—प्रश्ने यदि शुभशकुनस्तदा शुभं कन्यकावरयोः। अशुभेषु भवत्यशुभं शकुनेषु न संशयस्तत्र ॥५॥ शौनकः—जन्मसमये यदुक्तं शुभाशुभं दिव्यदृग्भिराचार्यैः।पृच्छापरिणयमाभ्यां तदेव युक्त्या प्रयोक्तव्यम् ॥६॥

तत्राऽऽदौ विवाहपृच्छा।

व्ययेशो यदि लग्नस्थो लग्नेशो व्ययगो भवेत्। तदा विवाहपृच्छायांविवाहो भवति ध्रुवम् ॥१॥ लग्ने स्थिरे पापयुते नृनार्योरुद्वाहसिद्धिर्न भवेत्कदाचित्। जीवेन दृष्टोऽथ शशी त्रिपञ्चसप्तायखस्थः कुरुते विवाहम् ॥२॥ चन्द्रो लग्नपतिर्वाऽपि कन्यालाभाय कामगः। द्यूनषोलग्नगः शीघ्रंकन्यालाभाय जायते ॥३॥ कर्कतुलाधरवृषभा शुक्रेन्दुयुतानिरीक्षितावाऽपि। संपृच्छतां नराणां कन्यालाभोऽस्ति नियमेन ॥४॥ युग्मलग्रेब्जशुक्राभ्यां कन्याप्तिस्तद्युतेक्षिते।तथा वराप्तिः पुंलग्ने पुंग्रहैर्वोजगेऽर्कजे(?) ॥५॥कृष्णपक्षे प्रश्नलग्नाद्युग्नाद्युग्मराशौशशी यदि।पापदृष्टोऽथवा रन्ध्रे न संबन्धोभेवत्तदा ॥६॥

इति विवाहपृच्छा।

अथ शुभाशुभज्ञानम्।

पृच्छा विलग्ने यदि राशिसंस्थे दाक्षायणीशे मरणं वरस्य। वर्षेऽष्टमेस्यादथ लग्नगेजेऽब्जे धरासुते सप्तमगे च शीघ्रम् ॥१॥ क्षीणेन्दुभौमार्किदिवाकराणामेकोऽपि लग्ने मरणाय खेटः। भवेद्ध्रुवंवत्सरपञ्चकेन क्रूरग्रहे सप्तमगे वरस्य ॥२॥सप्तमगोऽर्कःकन्यां मृतप्रजां पुंश्चलीं करोत्युदये। कथितंयच्चोद्वाहे योज्यं तत्प्रश्नकालेऽपि ॥३॥ शौनकः— क्रूरग्रहो विलग्ने सप्तमसंस्थोयदि भवेत्क्रूरः। सप्तभिरब्दैर्मरणं शशिभौमो सप्तभिर्मासैः ॥४॥ पृच्छाविलग्नसंस्थौ गुरुसौम्यौदीर्घजीविनीं कुरुतः। पञ्चमसंस्थौ पुत्राज्जामित्रे गोधनं विपुलम् ॥५॥ नारदः—पृच्छकस्य भवेल्लग्नादिन्दुः षष्ठाष्टगोऽपि वा। दंपत्योर्मरणं वाच्यमष्टमाब्दान्तरे यदि ॥६॥ यदि लग्नगतः क्रूरस्तस्मात्सप्तमगःकुजः। विज्ञेयं भर्तृमरणं सप्तमाब्दान्तरे तदा ॥७॥ यदि लग्नगतश्चन्द्रस्तस्मात्सप्तमगः कुजः। विवाहात्परतो भर्ता त्वष्टमाब्दे न जीवति ॥८॥ लग्नात्पञ्चमगः पापः शत्रुदृष्टः स्वनीचगः।मृतपुत्रा तदा कन्या कुलटा वा न संशयः ॥९॥ विवाहे जन्मपृच्छोक्ता जन्मन्युद्वाहप्रश्नजाः। जन्मोद्वाहोदिताः प्रश्नेयोगा योज्या धिया बुधैः ॥१०॥ विषाङ्गनामूलजादिजन्मोत्थं च शुभाशुभम्।विलोकनीयमंत्रैव तत्तत्प्रकरणोदितम् ॥११॥ शौनकः—एतद्बुध्वा शास्त्रं मन्दमतिर्यः प्रयच्छति विवाहम्।अयशोंबुधौमज्जति तस्माद्विज्ञायवै दद्यात् ॥१२॥

इति शुभाशुभज्ञानम्।

_____

अथ राशिकूटविचारः।

अथ भकृदे लग्नस्योपेक्षा ज्योतिष्प्रकाशे— जन्मलग्नात्फलं सर्वमायुर्दादशादिकम्। कीर्तितं मुनिभिस्तत्तु भमेलेऽनादृतं कथम् ॥१॥ विवाहबृन्दावने— जन्मदग्नमिदमङ्गसङ्गिनां मेनिरे मन इतीन्दुमन्दिरम्।सौहृदं हि मनसोर्न देहयोर्मेलकस्तदयमिन्दुगेहयोः ॥२॥

इति भकूटे लग्नानादरः।

_____

अथ घटितभेदाः।

बृहस्पतिः— दंपत्त्योर्जन्मताराभ्यां नामर्क्षाभ्यामथापि वा। भमेलं चिन्तयेत्प्राज्ञः

सुखसंतानवृद्धये ॥१॥ पटलसारे—यद्भकूटं विपक्षाभ्यां सगुणं स्यात्तदुत्तमम्।एकेन मध्यमं हीनं केऽप्याहुस्तदभावतः ॥२॥ वर्णश्च वश्यं च मिथश्च तारायोनिश्च मैत्री खगयोर्गणश्च।भमेलको नाडिकशुद्धिरेते यथोचरं स्युर्बलिनोऽष्टभेदाः ॥३॥ एतदष्टभेदं षट्त्रिंशद्गुणंसद्राशिकूटं ज्ञेयम्। वर्णश्च वश्यं वरदूरतारा योनिर्गणः खेटसुहृत्त्वमेव।राशिश्च नाडी नवभेदकं स्यादसद्भकूटे चविलोकनीयम् ॥४॥ असद्राशिकूटे नवभेदं पञ्चचत्वारिंशद्गुणं ज्ञेयम्। पुनरन्येषां मतं—विप्राणां दशकूटं स्यात्क्षत्रियाणां तथाऽष्टकम्।वैश्यानामपिषड्भेदं शूद्राणां च चतुष्टयम् ॥५॥ वर्णो वश्यं नृदूरं च वल्लभत्वं च तारकाः। योनिर्मित्रं गणो राशिर्नाडिकेति क्रमाद्दश ॥६॥ तत्र दूरद्वयं हित्वा कूटं भेदाष्टकं भवेत्।तारादिषट्कं षड्भेदं परं योनिचतुष्टयम् ॥७॥ तत्रापि मुख्यभेदानाह—नाडीमैत्रे वर्णगणौराशिभे वश्ययोनिके। वर्णेष्वीक्ष्यं तु मुख्यत्वाच्छेषाणांदूरवर्गकौ165॥८॥

इति राशिकूटभेदाः।

_____

अथ वर्णविचारः॥

स्वराशिसंख्या दंपत्योर्वेदाप्ता शेषतः फलम्।उत्तमं स्यान्नृशेषेऽल्पे मध्यंतुल्येऽधिकेऽधमम् ॥१॥ मीनालिकर्कटा विप्रा नृपाः सिंहाजधन्विनः। कन्यानक्रवृषा वैश्याः शूद्रा युग्मतुलाघटाः ॥२॥ वरे वर्णाधिके प्रीतिरुत्तमा स्त्री वरानुगा।समवर्णे मिथः सख्यं हीने स्नेहो न जायते ॥३॥

अथ वश्यम्॥

तत्र राशिस्वरूपं—मत्स्यो घटी नृयुगलं सगदं सवीणं चापी नरोऽश्वजघनोमकरो मृगास्यः।तौली ससम्यदहना प्लवगा च कन्या शेषाः स्वनामसदृशाःसमसंचराः स्युः ॥१॥ सर्वे वश्या नृजातेस्तु भक्ष्यस्थाने जलोद्भवाः। सिंहंहित्वाऽथ सिंहस्य वश्यास्ते वृश्चिकं विना ॥२॥ मुहूर्तदर्पणे—अलिमृगपतीतौलीन्द्वर्क्षेवधूमलिधन्विनौ वणिराधिपतिं वीणामीनौमृगं युवतीन्दुभे।पुनरनिमिषं मेषोपान्त्यामजं मकरं क्रमात्पदपरिमितान्राशीन्वश्यानजादिषुमन्वते ॥३॥ गर्गः—सिंहाली कर्कजूकौच कन्या वृश्चिककार्मुकौ।तुलामीनयमौनक्रः कन्याकर्कटकौतिमिः ॥४॥ मेषकुम्भावजो नक्रो मेषादेर्वश्यराशयः। एतानि वश्यकूटानि दंपत्योः शुभसंपदे॥५॥

अथ ताराः।

वरभाद्गणयेद्यावत्कन्यर्क्षं कन्यमादपि। वरभं नवहृच्छेषं ताराः सन्तिं परस्परम् ॥१॥शुभदा जन्मतारा स्याद्द्वयोरेकर्क्षवर्जिता। निन्द्यास्त्रिपञ्चसप्तस्युःशेषाः श्रेष्ठा भकूटके ॥२॥

अथ योनिः।

वारुणाश्विनयोरश्वयोनिर्याम्यान्त्ययोर्गजः।पुण्यकृत्तिकयोर्मेषः सर्पो रोहिणिसौम्ययोः ॥१॥ मूलार्द्रयोः शुनो योनिर्विडालो दितिसार्पयोः। मघाभगर्क्षयोराखुरर्यमोषान्त्ययोः पशुः ॥२॥ चित्राविशाखयोर्व्याघ्रो महिषः स्वातिहस्तयोः। कर्णाप्ययोर्वानरश्च ज्येष्ठानूराधयोर्मृगः ॥३॥ विश्वर्क्षाभिजितोर्वभ्रुःसिंहोऽजाङ्घ्रिधनिष्ठयोः। पशुपालकयोर्वीक्ष्यं दंपत्योर्नृपभृत्ययोः ॥४॥ गोव्याघ्रमश्वमहिषं श्वैणं गजसिंहमाखुमार्जारम्।अहिवभ्रु वानराजं महत्त्यजेत्पुंस्त्रियोर्वैरम् ॥५॥ महद्वैरं सदा त्त्याज्यं लोकतोऽन्यच्च चिन्तयेत्। तद्ग्रन्थान्तरतो ज्ञेयं न लोकव्यवहारतः ॥६॥ तद्यथा गर्गसंहितायाम्–एकयोनिपुकलहो गजयोः सिंहयोः शुनोः। महद्वैरेऽपि समता महिषस्य कपेस्तथा ॥७॥ केचित्स्वभावतः क्रूराः केचिच्छान्तास्तथा समाः। योनिसत्त्वा भजन्त्यत्र स्वस्वशीलं तथा मिथः ॥८॥ सद्भकूटे योनिवैरं मृत्युदं च परित्यजेत्। तत्र चेद्ग्रहयोः सख्यं नातिदुष्टं विदुर्बुधाः ॥९॥ ज्योतिष्प्रकाशे—आग्नेयं मृत्युभं पूफा तथोपान्त्यद्वयं पृथक्। मैत्रोऽप्याभिजिदेषु स्त्री योनिः शेषेषु ना स्मृतः ॥१०॥ सदसद्राशिकूटेऽपि योनिवैरं न दोषकृत्।यदि स्यादवलायोनिः पुंसो योनिर्बलीयसी ॥११॥ योनिर्वैरं सदा त्याज्यं स्त्रीपुंसोर्भिन्नलिङ्गयो।एकलिङ्गजयोः प्रोक्तं मध्यमं नातिदोषदम् ॥१२॥

अथ ग्रहसख्यम्।

भौमः शुक्रो बुधश्चन्द्रो भानुसौम्यौ भृगुः कुजः।गुरुर्मन्दः शनिर्जीवो मेषादीनामधीश्वराः ॥१॥ यवनसंहितायां—मित्राण्यर्काद्गुरुर्ज्ञेज्यौ ज्ञसितौच विभानवः। व्यारा व्यर्केन्दवो व्यर्कचद्रारास्तु166 परेऽरयः ॥२॥ सत्यमतं—शत्रू मन्दसितौ समश्चशशिजो मित्राणि शेषा रवेस्तीक्ष्णांशुर्द्दिमरश्मिजश्च सुहृदौशेषाःसमाः शीतगोः।जीवेन्दूष्णकराः कुजस्य सुहृदो ज्ञोऽरिः सितार्की समौ मित्रे

सूर्यसितौबुधस्य हिमगुः शत्रुः समाश्चापरे ॥३॥ सूरेःसौम्यसितावरी रविसुतौ मध्यौ परे चान्यथा सौम्यार्की सुहृदौ समौ कुजगुरू शुक्रस्य शेषावरी।शुक्रज्ञौ सुहृदौसमः सुरगुरूः सौरस्य चान्येऽरयस्तत्कालेन दशायबन्धुसहजस्वान्त्येषु मित्रं स्थिताः ॥१४॥ यथेशयोर्मिथो भावो दंपत्योस्तादृशो भवेत्।दुष्टं कूटं शुभं मैत्र्यासद्भावैरपि शस्यते ॥५॥ ज्योतिष्प्रकाशे— राशीशौसुहृदौ स्यातां जन्मकाले यदा तदा।ग्रहवैरेऽपि कर्तव्यं भकूटं मुनयोजगुः ॥६॥ विवाहबृन्दावने—आपार्श्वकेन्द्रद्वयगाः प्रसूतौतत्कालमित्राणि मिथः खपान्थाः। न्यूनामपि स्त्रीनरभृत्यराज्ञोतत्कालसंख्यां विशिनष्टि मैत्रीम् ॥७॥

अथ गणशुद्धिः।

देमरामदमंदेदेराराममदरादराः।देराराममदेराराममदेति गणत्रयम् ॥१॥ पटलसारे—स्वगणे चोत्तमा प्रीतिर्मध्यमादेवमर्त्ययोः। असुरासुरयोर्वैरंमृत्युर्मानुपरक्षसोः ॥२॥ रक्षोगणा यदा नारी नरो नरगणो भवेत्। तदोद्वाहो न कर्तव्योयस्माद्वैधव्यदो ध्रुवम् ॥३॥ वरस्तीव्रगणश्चापि कन्या च नृगणा भवेत्। दुष्टकूटे गुणाढ्येऽपि तत्र मृत्युर्न संशयः ॥४॥ वराहपटले—रक्षोगणोयदि नरोनृगणा कुमारी सद्राशिकूटखगमैत्रभयोनिशुद्धिः। यद्यस्ति तत्र भयदं करपीडनंस्याद्वामभ्रुवां खलु यदा नहि नाडियोगः ॥५॥ सद्भकूटं योनिशुद्धिर्ग्रहसख्यंगुणत्रयम्। एष्वेकतमसद्भावे कन्या रक्षोगणा शुभा ॥६॥

अथ भमेलः।

एकराशौ पृथग्धिष्ण्ये पृथग्राशौ तथैकभे।एकांशेऽपि कृतोद्वाहः श्रेष्ठोमध्योऽधमः क्रमात् ॥१॥ एकराशौशुभोद्वाह एकभांशे मृतिप्रदः। यदिस्याद्भिन्ननक्षत्रे शुभदः शौनकोऽब्रवीत् ॥२॥ दंपत्योरेकराशिः स्याद्भिन्नमृक्षंयदा तदा। गणदौष्ट्येऽप्येकनाड्यां विवाहः शुभदः स्मृतः ॥३॥ नाडीगणौनैकराशौचिन्त्यौभिन्नभयोर्यथा। कृत्तिकाकभयोर्द्वीशस्वात्योः पूभाजलेशयोः॥४॥ एकभेभिन्ननक्षत्रे न नाडीगणदुष्टता।वह्निभब्राह्मवत्मीतिः शतताराजपादवत् ॥५॥ व्यवहितराश्योर्ऋक्षंयद्येकं जायते तत्र। नाडीद्रोषोवाच्यो मरणकरः सोऽपि दंपत्योः ॥६॥ एकराशौ द्विनक्षत्रे पुंस्तारा प्रथमाभवेत्। अतीव शोभना प्रोक्ता स्त्रीतारा चेद्विनश्यति ॥७॥ भवनद्वययुक्तर्क्षेपूर्वं पुंसां शुभावहम्। पञ्चाद्भागं तथा स्त्रीणां व्यत्ययस्तु विनाशकृत् ॥८॥ तत्र वर्ज्यनक्षत्राण्युज्यन्ते गर्गेण—एकराशौद्विनक्षत्रे कृत्तिकायान्यतारके।

धनिष्ठाशततारे च पुण्याश्लेषे च वर्जयेत् ॥९॥ पृथग्राशावेकभेप्रवृत्तिमाहविवाहवृन्दाचने—नक्षत्रमेकं यदि भिन्नराश्योरभिन्नराश्योर्यदि भिन्नमृक्षम्।प्रीतिस्तदानीं निविडा नृनार्योश्चेत्कृत्तिकारोहिणिवन्ननाडी ॥१०॥ वैद्यनाथः—एकभे च पृथग्राशौ पृथम्भे चैकराशिके।अंशान्न दूरता त्याज्या कन्यादूरंशुभावहम् ॥११॥ भीमः—राशियुग्मे चैकराशौ भयोरैक्ये युगे तथा। पुमंशः पुरतः श्रेयान्प्रतीपस्तु न मे मतः ॥१२॥ कालार्णवः—सद्भकूटे तथाऽन्यस्मिन्नंशाद्वा राशितोऽथवा।संभवे वरदूरत्वं त्याज्यस्तत्राधिको गुणः ॥१३॥ बृहस्पतिः—एकराशौ पृथग्धिष्ण्ये पृथग्राशौ तथैकभे। गणनाडीं नृदूरत्वं ग्रहवैरं न चिन्तयेत् ॥१४॥ वराहः—भमेलं चिन्तयेत्प्रीत्यै दंपत्योस्तत्र निर्णयः। तयोर्भराश्योरेकत्वेस्वान्तैक्यात्सा गरीयसी ॥१५॥ द्विर्द्वादशं नृदूरत्वं नाडीगणभयोनिता। न चिन्त्या खगवैरं च राशिकूटोत्तमं द्वयोः ॥१६॥ एकनक्षत्रेविशेषमाह भृगुः—रोहिण्यार्द्रा मघेन्द्राग्नितिष्यश्रवणपौष्णभम्।उत्तरा प्रोष्ठपाच्चैव नक्षत्रैक्येऽपि शोभना ॥१७॥ विधिरत्ने—रोहिण्यार्द्रामघेन्द्राग्नितिप्यश्रवणपोष्णभम्। आहिर्बुध्न्यं तथाऽष्टौ च शुभं भवति नान्यथा ॥१८॥ कालनिर्णये—विशाखिकार्द्राश्रवणप्रजेशतिष्यान्त्यतत्पूर्वमघाः प्रशस्ताः।स्त्रीपुंसतारैक्यपरिग्रहे तु शेषा विवर्ज्या इति संगिरन्ते ॥१९॥ अजैकपान्मित्रवसुद्विदैवप्रभञ्जनान्त्यार्कभुजङ्गभानि।मुकुन्दजीवान्तकभानि नूनं शुभानि योषिन्नरजन्मभैक्ये ॥२०॥ दंपत्योरेकनक्षत्रे भिन्नपादे शुभावहम्। दंपत्योरेकपादे तु वर्षान्ते मरणं ध्रुवम् ॥२१॥ अथैकांशकत्त्वेऽपि प्रवृत्तिमाह—पराशरः प्राह नवांशभेदादेकर्क्षराश्योरपि सौमनस्यम्।एकांशकत्वेऽपि वसिष्ठशिष्यो नैकत्र पिण्डे किल नाडिबेधः ॥२२॥नाग्निर्दहत्यात्मतनुं तथाहि द्रष्टा स्वदृष्टेर्नहि दर्शनीयः। एकांशकत्वेऽपि समप्रभावान्न भर्तृभार्याव्यवहारसिद्धिः ॥२३॥ज्योतिष्प्रकाशे—केचिन्नेच्छन्ति चैकांशं केचिदिच्छन्ति मेलकम्। तत्राप्यङ्घ्रेर्घटीसाम्यं त्यजेन्नो भिन्ननाडिकम् ॥२४॥ एकराशौ महाप्रीतिश्चतुर्थदशमेमुखम्। तृतीयैकादशे वित्तं सुप्रजाःसमसप्तके ॥२५॥ समसप्तकेऽप्यशुभदौ घटसिंहौपाणिपीडने कथितौ ॥२६॥ अन्यच्च—मकरे कर्कटे चैव कुम्भे सिंहे तथैवच। परस्परं सप्तमे च वैधव्यं तु विनिर्दिशेत् ॥२७॥ निर्धनत्वं वियोगो वा मेले द्विर्द्वादशे भवेत्।त्रिकोणे त्वनपत्यत्वमपमृत्युः षडष्टके ॥२८॥ योनिनाडीगणानां च शुद्ध्या तद्राशिकूटकम्।युक्तं श्रेष्ठं गुणाभावे खेटमैत्र्या भवेच्छुभम् ॥२९॥ गर्गः—न खेटमैत्रं नो राश्यं न वर्णो न च तारकाः।सद्भकूटेपरा प्रीतिर्न सा वज्रेण भिद्यते ॥३०॥ सद्राशिकूटं ग्रहमैत्रयुक्तं शुभं भवेद्यद्यपि

योनिवैरम्।योनौगणे चेत्त्वनुकूलता स्याच्छुभोविवाहो ह्यपि खेटचैरम् ॥३१॥ ग्रहमैत्रं शुभा तारा राशिवश्यं त्रिभिः शुभम्। षडष्टकं बुधाः प्राहुर्द्वाभ्यां द्व्यर्कत्रिकोणकम् ॥३२॥ शार्ङ्गधरः— मीनालिभ्यां युते कीटे कुम्भे मिथुनसंयुते। मकरे कन्यकायुक्ते न कुर्यान्नवपञ्चकम् ॥३३॥ वरवध्वोर्मातृपित्रोर्जीवतोस्तद्विनाशकृत्।त्रिकोणं मीनकोटाद्यं न स्यादन्यत्र दूषणम् ॥३४॥ वैद्यनाथः— द्विषष्ठाभ्यां समो राशिर्विषमोऽष्टव्ययान्वितः। शुभो विलोमतो नेष्टः सिंहोऽपीष्टो बलान्वितः ॥३५॥ संहितादीपके— यदा तु कन्याभवनं द्वितीयं षट्पञ्चमं स्यात्पुरुषस्य राशेः। तद्राशिनाथौ सुहृदौसमौ वा सुहृत्समौ वातदतीव शस्तम् ॥३६॥द्विर्द्वादशेऽप्यदोषःस्यादंशकाद्दूरतः स्त्रियाः। धृत्यंशोऽत्यष्टिकांशो वा पुंसोंऽशः कन्यकांशकात् ॥३७॥ न भोगारिभावं हरेत्सद्भकूटं तथाखेटमैत्रीविरुद्धं भकूटम्। सदा नाशयत्येकनाडीसमाजो भकूटाविकान्सप्त भेदान्प्रशस्तान्॥३८॥ भेशारिभावे गणवृत्त्यभावे नाडीसमोऽजेऽपि कृतोविवाहः। भवेत्सुतप्रीतिसुखायुराप्त्यं सद्राशिकूटे जगुरेत्रमन्ये ॥३९॥ श्रूयमाणगुणमात्रलाभे नाडीसमाजे सति बोद्धव्यम्। मित्रत्वाभावेऽपि शुभं षद्काष्टकम्। नारदः— मित्रषट्काष्टकं मेषकन्ययोर्घटमीनयोः। चापोक्षयोर्नृयुवहमाक्कीटभयोः कुम्भकुलीरयोः। पञ्चास्यमृगयोः स्त्रीणां जन्मराशेः शुभावहम् ॥४०॥ कश्यपः-नृराशितोऽष्टमै षष्ठेपञ्चमे नवमे तथा। द्वादशे च द्वितीये चविवाहः पुत्रपौत्रदः ॥४१॥ नृयुक्तुलाश्वकुम्भालिसिंहाः कुर्वन्ति मित्रताम्। स्वषष्ठभवनेऽस्तोऽपि स्वाष्टभिः प्रीतिमुत्तमाम् ॥४२॥ वसिष्ठः— नृयुक्तलामेषघटाश्वसिंहाः कुर्वन्त्यजस्रं खलु मित्रभावम्। स्त्रषष्ठसंख्याभवनैश्च तेऽपि स्वस्वाष्टसंख्याभवनैस्तथैव ॥४३॥ श्रीधरीये— मेषेण कन्या धनुषा ककुद्मांस्तौल्या मीनःकुम्भमृता कुलीरः। सिंहेन नको नृथुगैण कीर्पिः षट्काष्टके वापि शुभाय योगः ॥४४॥ संग्रहेऽपि-कन्याजवृश्चिकतुलाकर्कटमकराःशुभवहाः प्रोक्ताः। स्वैस्वैरष्टमभवनैस्तेऽप्येभिर्विदधति प्रीतिम् ॥४५॥

अथ नाडीविचारः।

अश्विन्यार्द्रा शतभिषफल्गुनी चोत्तरा तथा। पूर्वा भाद्रपदा मूलं ज्येष्ठा हस्तः पुनर्वसुः ॥१॥ पूर्वा फल्गुनिका चित्रा धनिष्ठा भरणी मृगः।पूर्वाषाढाऽनुराधा च पुष्योऽहिर्बुध्न्यमेव च ॥२॥ कृत्तिका रोहिणी स्वाती मघाऽऽश्लेषा च रेवती। श्रवणश्चोत्तराषाढा विशाखा चैकनाडिकाः ॥३॥ रत्नकोशे-आद्यनाडीव्यधे भर्ता मध्यनाडीव्यधेद्वयम्।पृष्ठनाडीव्यधेकन्या म्रियते नात्र

संशयः ॥४॥ समासन्नै व्यधे शीघ्रं दूरवेधे चिरेण तु। व्यधान्तरभमानेनवर्षे दुष्टं प्रजायते ॥५॥ एतन्मुख्यत्वाद्ब्राह्मणविषयम्। जठरे निर्धनत्वं चगर्भे मरणमेव च। पृष्ठे दौर्भाग्यमाप्नोति यस्मात्तां परिवर्जयेत् ॥६॥ एतत्क्षत्त्रियादिविषयमुख्यत्वात्।167 तथा चोक्तं— नाडीमैत्रे वर्णगणौराशिभे वश्ययोनिके। वर्णेष्वीक्ष्यं तु मुख्यत्वाच्छेषाणां दूरवर्गकौ ॥७॥ ज्योतिष्प्रकाशे—निधनं मध्यमनाड्यां दंपत्योर्नैव पार्श्वयोर्नाड्योः। केऽप्याहुर्मध्यगस्ते(ध्यायाः) पादविभेदे न दोषाय ॥८॥ करग्रहे पृष्ठनाड्यौ [वि]निन्द्ये इति यद्वचः। तत्क्षत्त्रियादिविषयं गौतम्या यान्यतस्तथा ॥९॥ बुधवल्लभे नारदः—चतुस्त्रिद्व्यङ्घ्रिभोत्थायाः कन्यायाः क्रमशोऽश्विभात्। वह्निभादिन्दुभान्नाडी त्रिचतुःपञ्चपर्वसु ॥१०॥ जाङ्गले तु चतुर्माला पाञ्चाले पञ्चमालिका। त्रिमालाऽन्येषु देशेषु विवाहेमुनिसंमतम् ॥११॥ वृद्धगर्गः— एकनाडीस्थितायत्र गुरुर्मन्त्राश्च देवताः। तत्र द्वेषंरुजं मृत्युं क्रमेण फलमादिशेत् ॥१२॥प्रभुः पण्याङ्गना मित्रं देशो ग्रामः पुरं गृहम्। एकनाडीस्थितं भव्यं विरुद्धेवेधवर्जितम् ॥१३॥

अथ नाड्यपवादः।

ज्योतिश्चिन्तामणौ—रोहिण्यार्द्रा मृगेन्द्राग्निपुष्यश्रवणपौष्णभम्।अहिर्बुध्न्यर्क्षमेतेषां नाडीदोषो न विद्यते ॥१॥ एतद्वितीयादौ संकीर्णाविषयम्।बुधवल्लभे—ग्रहवैरं दुष्टकूटे सन्मेले योनिवैरकम्। त्याज्यं वैरं राशिवैरे तारादौष्ट्यं षडष्टके ॥२॥ गणवैरं वल्लभत्वाद्वर्गाद्व्यर्कं त्रिकोणकम्।स्त्रीदूराद्दुष्टकूटश्च मैत्राःसर्वे गुणाः शुभाः ॥३॥ न वर्णवर्गो न गणो न योनिर्द्विर्द्वादशे चैव षडष्टकेवा।वरेऽपि दूरे नवपञ्चमे वा मैत्री यदि स्याछुभदो विवाहः ॥४॥

अथ पुञ्जी।

रत्नमालायां— षट् पौष्णतो द्वादश शांकराच्च पौरन्दराद्भानि नव क्रमेण। पूर्वार्धमध्यापरभागयुञ्जिचिरंतनज्योतिषिकैः स्मृतानि ॥१॥ पूर्वभागयुजि भेपतिः प्रियो योषितामपरभागयोगिनि। स्त्री नृणां भवति मध्ययोगिनि प्रेम नूननुभयोः परस्परम् ॥२॥

**अथ वर्गः। **

वर्गेशास्तार्क्ष्यमार्जारसिंहश्वसर्पमूषकाः168। मृगश्च शशकस्तत्र स्ववर्गात्पञ्चमोरिपुः॥१॥

अथ दूरविचारः।

स्त्रीराशेर्वरभंदूरं कन्यादूरं शुभावहम्। व्यस्तं नृदूरमशुभं वश्यत्वात्तदपीष्टदम्॥१॥ शौनकः— वर्गवैरं योनिवैरं गणवैरं नृदूरकम्। दुष्टकूटफलं सर्वंग्रहमैत्रेण नश्यति ॥२॥

अथ विष्णयदूरम्।

नारदः— स्त्रीधिष्ण्यादाद्यनवके स्त्रीदूरमतिनिन्दितम्। द्वितीये मध्यमं श्रेष्ठंतृतीये नवके नृभम् ॥१॥

अथ दुष्टफलपरिहारः।

राजमार्तण्डे— षडष्टके गोमिथुनं प्रदद्यात्कांस्यं सरौप्यं नवपञ्चमे(के) च। देयं च वस्त्रं कनकाश्वयुक्तं द्विर्द्वादशे ब्राह्मणभोजनं च ॥१॥ ज्योतिष्प्रकाशे— निषिद्धमेलके शान्तिं कृत्वा दानं यथोदितम्। दत्त्वोद्वाहं प्रकुर्वीतप्रशस्तशकुनादिषु ॥२॥ विवाहदीपिकायाम्— आजौ जिता संधिलब्धा प्रीत्या दत्ता तथाऽध्वरें। स्वयमेवाऽऽगता कन्या नैवाऽऽस्तां शुद्धिमेलकौ ॥३॥बहूनामेकजातानां कन्यकानां करग्रहे। ज्येष्ठाया मेलकं वीक्ष्य लघ्वीनां नैवचिन्तयेत् ॥४॥ आसुरादिधिविवाहेषु राशिकूटं न चिन्तयेत्। तथा व्यङ्गातिवृद्धानां दुर्भगाणां पुनर्भुवाम् ॥५॥

**अथ गुणविचारः। **

एको, गुणः सदृग्वर्णे तथा वर्णोत्तमे वरे। हीनें वरेऽधिकं शून्यं केऽप्याहुःसदृशे दलम् ॥१॥ सख्यं वैरं तु भक्ष्यं च वश्यमाहुस्त्रिधा बुधाः। वैरे भक्ष्येगुणाभावो द्वयोः सख्ये गुणद्वयम् ॥२॥ वश्यवैरे गुणश्चैको वश्यभक्ष्ये गुणार्धकम्। एकतो लभ्यते तारा शुभा चैवाशुभाऽन्यतः ॥३॥ तदा सार्धो गुणश्चैकस्ताराशुद्धौ मिथस्त्रय। उभयोर्न शुभा तारा तदा शून्यं समादिशेत् ॥४॥अष्टविंशतिताराणां योनयश्च चतुर्दश। तत्र वैरं महद्वैरं सत्त्वानां स्वस्वभावतः॥५॥ मैत्रं वै वातिमैत्रं च विवाहे सत्त्वसादृशम्। महावैरे च वैरेच स्वभावेच यथाक्रमम् ॥६॥ मैत्रे चैवातिमैत्रे च खेन्दुद्वित्रिचतुर्गुणाः। ग्रहमैत्रं सप्तभेदंगुणाः पञ्च प्रकीर्तिताः ॥७॥ तत्रैकाधिपतित्वे च मित्रत्वे गुणपञ्चकम्।

चत्वारः सममित्रत्वे द्वयोः साम्ये त्रयो गुणाः ॥८॥ मित्रवैरे गुणश्चैकःसमवैरे गुणार्धकम्। परस्परं खेटवैरे गुणशून्यं विनिर्दिशेत् ॥९॥ असद्भे सममित्रादौ व्येको ग्राह्यो यथोदितः। गुणभेदः सप्तविधो गुणाः षट्प्रमितामताः ॥१०॥ षड् गुणा गुणसादृश्ये षड् गुणाः सुरमानुषे। देवराक्षसयोः शून्यं शून्यं च नररक्षसोः ॥११॥ नार्या देवो नरः पुंसस्तत्र पञ्च गुणाःस्मृताः। पुंसो रक्षोगणो यत्र नार्यां देवोऽथवा तरः ॥१२॥ गुणवानपितत्रैको गुणो ग्राह्योऽन्यथा नहि। सद्भकूटत्रयं प्रोक्तं दुष्टकूटत्रयं तथाः ॥१३॥सप्तमं चैकराश्याख्यं गुणस्तेषामथोच्यते। शून्यमेकांशके चैकराशौ सप्तैवभिन्नभे ॥१४॥ एकराश्यृक्षके सप्त भिन्नराश्यैकमे शराः। सद्भकूटेऽबलादूरे सप्त चापि नृदूरके ॥१५॥ सद्भमैत्रेषु ते सप्त मैत्रहीने तु षड्गुणाः। दुष्टकूटे च मित्राख्ये स्त्रीदूरेऽब्धिमिता गुणाः ॥१६॥ नृदूरे दुष्टकूटे च मित्रसंज्ञेगुणान्विते। एको गुणोऽन्यथा शून्यं शून्यं निन्द्ये तु दुष्टभे ॥१७॥ वाक्यान्तरे शुभं यत्र ग्राह्यं स्यात्तद्गुणेषु खम्। नाडीदोषे गुणाभावः पूर्वाचार्यैरुद्राहृतः॥१८॥ पृष्ठनाड्यंशभैदादिग्राह्यपक्षेऽपि खं गुणाः। गुणवैरे च भक्ष्ये चतथा योन्यां च वैरके॥१९॥ नैव ग्राह्या गुणास्तत्र शून्यं चैव विदुर्बुधाः। गुणैःषोडशभिर्निन्द्यं मध्यमा विंशतेस्तथा॥२०॥ श्रेष्ठं त्रिंशद्गुणे यावत्परतस्तूत्तमोत्तमम्। सद्भकूट इति ज्ञेयं दुष्टकूटेऽथ कथ्यते॥२१॥ निन्द्यंगुणैर्विंशतिभिर्मध्यमं पञ्चभिस्तथा। तत्परैः पञ्चभिः श्रेष्ठं ततः श्रेष्ठतरं गुणैः॥२२॥

इनि राशिकूटविचारः।

_____

**अथ निश्चयः। **

पुण्याहे च विवाहर्क्षे चित्रावस्वश्विविष्णुभे। लब्ध्वा चन्द्रबलं कुर्यानिश्चयंसत्यया गिरा ॥१॥ शुभलग्नेऽग्निसांनिध्ये स्नातां पुण्यामरोगिणीम्। तत्कालोपस्थिते कन्यां पिता तुभ्यं प्रयच्छति ॥२॥ यदि त्वं पतितो न स्या दशदोषविवर्जितः। तुभ्यं कन्यां प्रदास्यामि द्विजदेवाग्निसंनिधौ ॥३॥ तुभ्यं कन्यार्थिने वाचा कन्यादानं प्रयच्छति। तन्निश्चयार्थं मद्दत्तं गृह्यतां साक्षताफलम् ॥४॥ निश्चये प्राङ्मुखायाऽऽदौ वरपित्रे ददाति च। फलं कन्यापितादद्यात्ततो वरपिता तथा। वाग्दाने वरणे मौढ्यं न त्यजेद्गुरुशुक्रयोः ॥५॥

इति निश्चयः।

अथ कन्यावरणम्।

पञ्चाङ्ग शुद्धिदिवसे चन्द्रताराबलान्विते। विवाहमस्योदये वा कन्यावरणमान्वयैः ॥१॥ विश्वर्क्षपूर्णात्रयकर्णयुग्मस्वात्यग्निमैत्रैश्च विवाहभैर्वा। प्रत्यङ्मुखःसन्वरयेत्कुमारी फलादिभिः प्राग्वदनीं सुवेषाम् ॥२॥ धीधर्मकेन्द्रगैः सौम्यैःपापैः शत्रुत्रिलाभगैः। कन्यायाः वरणं कार्यं जीवे चोपचयस्थिते ॥३॥ कन्याप्रदानमपरे विवाहतुल्यं वदन्ति कालज्ञाः।लग्नं विना वसिष्ठः प्राहमुनिर्नारदश्चैवम् ॥४॥ नारदः— भूषणैः फल(पुष्प)ताम्बूलफलगन्धा- -क्षतादिभिः। शुक्लाम्बरैर्गीतवाद्यैर्विप्राशीर्वचनैः सह ॥५॥ कारयेत्कन्यकागेहे वरः प्रणवपूर्वकम्। तदा कुर्यात्पिता तस्याः प्रदानं प्रीतिपूर्वकम् ॥६॥ कुलशीलवयोरूपवित्तविद्यायुताय च। वराय रूपसंपन्नां दद्यात्कन्यां यवीयसीम् ॥७॥ संपूज्य संप्रार्थ्य च तां शचीदेवीं गुणाश्रयाम्। त्रैलोक्यसुन्दरीं दिव्यगन्धमाल्याम्बरान्विताम् ॥८॥ सर्वलक्षणसंयुक्तां सर्वाभरणभूषिताम्। अनर्घ्यमणिमालाभिर्भासयन्तीं दिगन्तरान् ॥९॥ विलासिनीसहस्राद्यैः सेव्यमानामहर्निशम्।एवंविधां कुमारी तां पूजान्ते प्रार्थयेदिति ॥१०॥ देवेन्द्राणि नमस्तुभ्यंदेवेन्द्रप्रियभामिनि। विवाहभाग्यमारोग्यं पुत्रलाभं च देहि मे ॥११॥ श्वेताम्बरं नारिकेलं भक्ष्याद्यफलमर्पयेत्। प्रदाने यद्दुकूलादि कर्णकण्ठादिभूषणम् ॥१२॥ उभे वा युगपत्कार्ये तत्र तद्वस्त्रमण्डने। आदौ संपादयेत्पश्चाद्विन्यसेत्फलमञ्जलौ ॥१३॥ हरिद्गामधुपुष्पाणि गुडजीरकतण्डुलाः। धान्यकं मुद्रिकावल्ली सौभाग्याष्टकमुच्यते ॥१४॥ लग्नशब्दो विवाहे स्याद्वरणं फललग्नयोः।पाणिपीडनशब्दस्तु कन्यादाने करग्रहे ॥१५॥ विवाहर्क्षेषु यः प्रोक्तो मयाऽङ्भिक्षालनोत्सवः।कन्यायाःवरणात्पूर्व देशाचारः स केवलम् ॥१६॥

इति कन्यावरणम्।

_____

अथविवाहकालविचारः।

नारदः— युग्मेऽब्दे जन्मतः स्त्रीणां प्रीतदंपाणिपीडनम्। एतत्पुंसामयुग्मेऽब्देव्यत्यये नाशनं तयोः ॥१॥ सवर्त—अष्टवर्षा भवेद्गौरी नवमे रोहिणी भवेत्।दशमे कन्यका प्रोक्ता द्वादशे वृषली मता ॥२॥ गौरी ददन्नाकपृष्ठं वैकुण्ठं रोहिणी ददत्। कन्यां दृढब्रह्मलोकं रौरवं तु रजस्वलाम् ॥३॥

इति विवाहकालः।

अथ गुरुशुक्रास्तापवादः।

लल्लुः— अस्तमिते भृगुतनये नारी म्रियते बृहस्पती पुरुषः। दंपत्योः सहमरणं पाणिग्रहणोद्रिते केतौ ॥१॥ अगस्त्यः—एको मूढो भवेदन्त्यः स्वोच्चमित्रांशको यदि।स्वराशिमूर्तिगश्चैव मूढदोषो विनश्यति ॥२॥ बृहस्पतिः—यद्येक–स्यापि मूढत्वे शुभकर्म न दोषऋत्। तयोर्मूढत्वमेवोक्तं दोषदं गुरुशुक्रयोः ॥३॥ द्विजन्मादिशुभे कार्ये शुक्रमौढ्यं न दोषदम्। त्रैवर्णिकानामेवोक्तंदोषदंगुरुशुक्रयोः ॥४॥ क्षत्त्रियाणां विशेषेण भृत्यानां राजसेविनाम्।मौढ्यदोषंन पश्येत्तु दीक्षणामेव कारयेत् ॥५॥ अतिपातिषु कार्येषु राज्ञां तत्कर्मकारिणाम्। विवाहादीनि कार्याणि मौढ्येऽपि गुरुशुक्रयोः ॥६॥ शान्तिं कृत्वातयोस्तद्वच्छुक्रदेवेन्द्रमन्त्रिणोः।होमैर्दीपैर्जपैर्वाऽपि तयोरुदितमन्त्रकैः ॥७॥यदा जीवसितौचक्रे परस्परनिरीक्षकौ।समभस्थौ तदा दोषो मूढत्वादतिरिच्यते ॥८॥ सग्रहे—समदृष्टिर्गुरोः शक्रे नर्मदोत्तरतो भवेत्। नर्मदायाम्यभागेतु समदृष्टिर्न विद्यते ॥९॥

इति गुरुशुक्रास्तापवादः।

_____

अथ रविगुर्वोर्बलविचारः।

नारदः— विवाहे बलमावश्यं दंपत्योर्गुरुसूर्ययोः। तत्पूजा यत्नतः कार्यादुर्बलप्रदयोस्तयोः ॥१॥गर्गः—स्त्रीणां गुरुबलं श्रेष्ठं पुरूषाणां रवेर्बलम्। तयोश्चन्द्रबलं श्रेष्ठमिति गर्गेण निश्चितम् ॥२॥ जन्मत्रिदशमारिस्थः पूजया शुभदोगुरुः। विवाहेऽथ चतुर्थाष्टद्वादशस्थो मृतिप्रदः ॥३॥ बृहस्पतिः—झपचापकुलीरस्थजीवोऽप्यशुभगोचरः। अतिशोभनतां दद्याद्विवाहोपनयादिषु ॥४॥ सर्वत्रापि शुभं दद्याद्द्वादशाब्दात्परं गुरुः।पञ्चषष्ठाब्दयोरेव शुभगोचरता मतां ॥५॥ सप्ताब्दात्पञ्चवर्षेषु स्वोच्चस्वर्क्षगतो यदि। अशुभोऽपि शुभं दद्याच्छुभदर्क्षेषुकिंपुनः ॥६॥ रजस्वला यदा कन्या गुरुशुद्धिं न चिन्तयेत्। अष्टमेऽपि प्रकर्तव्यो विवाहस्त्रिगुणार्चनात् ॥७॥ अर्कगुर्वोर्बलंगौर्या रोहिण्यर्कबला स्मृता। कन्या चन्द्रबला प्रोक्ता वृषली लग्नतोबला ॥८॥ केचिदाहुर्गुरोः शुद्धिर्नान्वेप्या गणकोत्तमैः। विवाहे त्वन्त्यजादीनां चाण्डालानां च पुल्कसाम् ॥९॥चारेऽतिचारे वक्रे वा यस्मिन्मे संस्थितो गुरुः। शुद्धिं कुर्यात्स तत्रैव योषितांकरपीडने ॥१०॥ कन्योद्वाहे गुरुदिने गुरुः पूज्यो द्विजातिभिः। पुत्रोद्वाहेव्रतत्वाच्च शूद्राद्यैः पूज्यते क्वचित् ॥११॥ वसिष्ठः—यत्रार्कगुर्वोरपिनैधनान्त्य-

जन्मादिदुःस्थानगयोर्द्वयोर्वा।एकस्य पूजामपि तत्र कृत्वा पाणिग्रहं कार्यमतःसुसम्यक् ॥ १२ ॥

अत्रापेक्षितबृहस्पतिशान्तिरभिधीयते।

तत्र शोनकः—कन्यकोद्वाहकाले तु आनुकूल्यं न विद्यते। ब्राह्मणस्योपनयनेगुरोर्विधिरुदाहृतः ॥ १ ॥ सुवर्णेन गुरुं कृत्वा पीतवस्त्रेण वेष्टयेत्। ऐशाने’धवलं कुम्भं धान्योपरि निधाय च ॥ २ ॥ दमनं मधुपुष्पं च तथा पालाशसर्पषान्। मांसी गुडूच्यषामार्गविडङ्गी शङ्खिनी वचा ॥ ३ ॥ सहदेवी हरिक्रान्तासर्वौषधी शतावरी।कृत्वाऽऽज्यभागपर्यन्तं स्वशाखोक्तविधानतः ॥ ४ ॥गृह्योक्तमण्डलेऽभ्यर्च्य पीतपुष्पाक्षतादिभिः। देवपूजोत्तरे काले ततः कुम्भानुमन्त्रणम् ॥ ५ ॥ अश्वत्थसमिधवाऽऽज्यं पायसं सर्पिरन्वितम्।यवव्रीहितिलाःसाज्या मन्त्रेणैव बृहस्पतेः ॥ ६ ॥ अष्टोत्तरशतं सर्व होमशेषं समापयेत्।दारपुत्रसमेतस्य अभिषेकं समाचरेत् ॥ ७ ॥ कुम्भाभिमन्त्रणोक्तैश्च समुद्रज्येष्ठमन्त्रतः। प्रतिमां कुम्भवस्त्रं च ह्याचार्याय प्रदापयेत्। ब्राह्मणान्भोजयेत्पश्चाच्छुभदः स्यान्न संशयः ॥ ८ ॥

इति शौनकोक्तबृहस्पतिशान्तिविधिः।

_____

अथाऽऽदित्यशान्तिः।

शौनकः–ब्राह्मणस्योपनयने नानुकूलो भवेद्रविः।तस्य शान्तिं प्रवक्ष्यामिमन्त्रौषधिविधानतः ॥ १ ॥ अत्रोपनयनग्रहणं विवाहादीनामप्युपलक्षणम्।उपनयनात्पूर्वेद्युःकृत्वा पुण्याहवाचनम्। गृहस्येशानदिग्भागे गोमयेनोपलेपयेत् ॥ २ ॥ कुङ्कुमेनोल्लिखेत्पद्ममष्टपत्रं सकेसरम्। सुवर्णेन रविं कृत्वा द्विभुजंपद्मधारिणम् ॥ ३ ॥ कृत्वाऽऽज्यभागपर्यन्तं तत्र कृत्वा तु पूर्ववत्। स्वशाखोक्तविधानेन ह्याचार्यो होममाचरेत् ॥ ४ ॥ आकृष्णेनेतिमन्त्रेण समिदाज्यचरूञ्जुहेत्। अष्टोत्तरसहस्रं वा शतमष्टोत्तरं तु वा ॥ ५ ॥ तिलव्रीहींश्च हुत्वाऽथहोमशेषं समापयेत्। दारपुत्रसमेतस्य ह्यभिषेकं समाचरेत् ॥ ६ ॥ कुन्भाभिमन्त्रणोक्तैश्च समुद्रज्येष्ठमन्त्रकैः। ऋत्विग्भ्यो दक्षिणां दद्यादन्येभ्यश्च स्वशक्तितः॥ ७ ॥ प्रतिमां वस्त्रकुम्भं च ह्याचार्याय प्रदापयेत्। एवं यः पूजयेत्सूर्यं सर्वदोषोऽस्य नश्यति ॥ ८ ॥

इत्यादित्यशान्तिः।

_____

अथ मासनिर्णयः।

माघफाल्गुनवैशाखज्येष्ठमासाः शुभावहाः। विवाहे मार्गशीर्षोऽपि देवलस्यमतेन च ॥ १ ॥ नारदः—माघफाल्गुनवैशाखज्येष्ठमासाः शुभप्रदाः।मध्यमःकार्तिको मार्गशीर्षो वै निन्दिताः परे ॥ २ ॥ न कदाचिद्दशर्क्षेषु भानोरार्द्राप्रवेशनात्। विवाहं दैवतानां च प्रतिष्ठां चोपनायनम् ॥ ३ ॥ पौषेऽपि मकरस्थेऽर्केचैत्रे मेषगते रवौ। आषाढे मिथुनादित्ये केऽप्याहुःकरपीडनम् ॥ ४ ॥ चान्द्रोदैवो मानुषो वा सौरो देशानुसारतः। शुचिः शुक्लनवम्यन्तो ग्राह्यो लग्ने चकार्तिकः ॥ ५ ॥ ज्येष्ठे न ज्येष्ठयोः कार्यं नृनार्योःपाणिपीडनम्। तयोरेकतरे ज्येष्ठे ज्येष्ठमासेऽपि कारयेत् ॥ ६ ॥ नारदः—अप्रबुद्धो हृषीकेशो यावत्तावन्न मङ्गलम्।उत्सवे वासुदेवस्य दिवसे नान्यमङ्गलम् ॥ ७ ॥ न जन्ममासे जन्मर्क्षे न जन्मदिवसेऽपि च। नाऽऽद्यगर्भसुतस्याथ दुहितुर्वाकरग्रहः ॥ ८ ॥नैवोद्वाहो ज्येष्ठपुत्रीपुत्रयोश्च परस्परम्। ज्येष्ठमासे तयोरेको ज्येष्ठः श्रेष्ठश्चनान्यथा ॥ ९ ॥ शुक्ले तु सुभगा मान्या कृष्णपक्षेऽनृतप्रिया।दिवा भर्तुः प्रियारात्रौ पित्रर्चनरता च सा ॥ १० ॥

इति मासनिर्णयः।

_____

अथ तिथ्यादिशुद्धिः।

नारदः—मासान्ते पञ्च दिवसांस्त्यजेद्रिक्तामधाष्टमीम्। विष्टिं च परिघस्यार्धंव्यतीपातं च वैधृतिम् ॥ १ ॥ विधिरत्ने—पञ्चदश्यष्टमी रिक्ता वर्ज्याश्चान्याः शुभावहाः। केचित्कृष्णाष्टमीं प्राहुर्विवाहेषु169 वयोत्यये ॥ २ ॥ नारदः –पौष्णाधात्र्युत्तरामैत्रमरुच्चन्द्रार्कपैतृभैः। समूलभैरविद्धैस्तैः स्त्रीकरग्रह इष्यते॥ ३ ॥ गर्गः—मघायाः प्रथमे पादे मूलस्य प्रथमे तथा।रेवत्याश्च चतुर्थांशेविवाहः प्राणनाशनः ॥ ४ ॥ एतल्लग्नबलाभावे ज्ञेयम्। भगर्क्षं सर्वसौभाग्यकरंस्त्रीणां विशेषतः। कुतस्तर्हि वराहाद्यैर्गर्हितं पाणिपीडनम् ॥ ५ ॥ ज्योतिष्प्रकाशे—कीर्तितो मुनिभिः सर्वैः पुण्यः सर्वार्थसाधकः। इति सत्यपि चोद्वाहेनिन्दितः केन हेतुना ॥ ६ ॥ अनयोरुत्तर बृन्दावने—प्राचेतसः प्राह शुभं भगर्क्षंसीता तदूढा न सुखं सिपेबे। पुण्यस्तु पुण्यत्यतिकाममेव प्रजापतेराप सशापमस्मात् ॥ ७ ॥ वैधादिसर्वनक्षत्रशुद्धिस्तत्तत्प्रकरणस्था ज्ञातव्या।

इति तिथ्यादिशुद्धिः।

_____

अथ जामित्रशुद्धिः।

नारदः—जामित्रशुद्ध्यैकविंशन्महादोषविवर्जनम्। एकविंशतिदोषाणां नामरूपफलानि च ॥ १ ॥ तत्रैकविंशतिर्दोषा दोषाध्याय उक्ताः। विवाहे मुख्यत्वाज्जामित्रशुद्धिरत्रोच्यते। क्रूरो वा यदि वा सौम्योलग्नाचन्द्राच्च खेचरः।एकोऽपि यदि जामित्रे समांशे शोकदो भवेत् ॥ २ ॥ विधवा ससपत्न्यर्काद्वन्ध्या जामित्रगं फलम्। दुष्टाऽमान्या दुर्भगा वा वेश्या गर्भस्रवा क्रमात् ॥ ३ ॥जामित्रं न प्रशंसन्ति गर्गदेवलकश्यपाः। यदि ते बलहीनाः स्युः प्रध्वंसाभावतां ययुः ॥ ४ ॥ जामित्रगा यदि खगा उशना बुधो वा गीर्वाणनाथसितपक्षगशीतरश्मी। कन्याविवाहसमये परिहृत्य दोषं पुत्रान्वितं शुभकराः सुखमाशु दद्युः ॥ ५ ॥ लग्नाच्छीतकराद्ग्रहा धुनगता नेष्टा विवाहे स्मृताः कैश्चित्त्वाद्यनवांशकादिषु शरैस्तुल्ये नवांशे स्थिताः। लग्नत्रिकोण-सहजायगतं च (तश्च)रद्विर्जामित्रदोषगणनां भृगुराशु हन्यात्। धीधर्मकण्टकगतः स्फुरदंशुजालो जीवोऽति-जीवयतिलग्नगुणान्स घत्ते ॥ ६ ॥ वसिष्ठः—लग्नेन्दुजामित्रधनप्रचारनीहारविद्युत्परिवेषजांश्च। दोषानशेषानमृताख्ययोगो निहन्ति लोभो गुणबृन्दमेकः॥ ७ ॥ एकार्गलोपग्रहपातलत्ताजामित्रकर्तर्युदयादिदोषाः। नश्यन्ति चन्द्रार्कवलोपपन्ने लग्ने यथाऽर्काभ्युदयेऽन्धकारः ॥ ८ ॥

इति जामित्रशुद्धिः।

_____

अथांशशुद्धिः।

तुलामिथुनकन्यांशा धन्वंशोऽपि शुभप्रदः। विवाहेऽस्तगतस्यांशो वर्ज्यःपापेन्दुयुक्तथा ॥ १ ॥ तनुपेऽस्तंगते नाशो दंपत्योरंशपे तथा। सक्रूरेऽंशे च हानिःस्यादंशे चन्द्रयुते मृतिः ॥ २ ॥ धनुः सिंहश्च मेषादिर्वृषकन्ये मृगादिके।कुम्भमीनौ तुलाद्ये च कर्क्याद्यौमीनवृश्चिकौ ॥ ३ ॥ वर्गोत्तमादृते देयाश्चरमेन नवांशकाः।चरलग्ने चरांशे च तुलामकरगे विधौ ॥ ४ ॥ चरमांशोऽपिगोमेषहरितौलिघटेषु च। सबलेषु च सद्योगे देय इत्यपरे जगुः ॥ ५ ॥

इत्यंशशुद्धिः।

_____

अथ लग्नशुद्धिः।

सुखघ्नं तुर्यमुद्वाहे द्वादशं वित्तनाशकृत्। जन्मभाज्जन्मलग्नाच्च मृत्युदं लग्न-

मष्टमम् ॥ १ ॥ चतुर्थं सगुणं देयं द्वादशं च गुणाधिकम्।सगुणं चाष्टमं लग्नंत्याज्यमंशस्तथाऽष्टमः ॥ २ ॥ जन्मर्क्षजन्मलग्नाभ्यां रन्ध्रेशावष्टमौ च यौ। विलग्नसंस्थितानेतांस्तद्राश्यंशानपित्यजेत् ॥ ३ ॥ नारदः—चतुर्थमभिजिल्लग्नमुदयर्क्षात्तु सप्तमम्। गोधूलिकं तदुभयं विवाहे पुत्रपौत्रदम् ॥ ४ ॥ प्राच्यानां च कलिङ्गानां मुख्यं साधारणं स्मृतम्।अभिजित्सर्वदेशेषु मुख्यं दोषविनाशकृत्॥ ५ ॥ मध्यंदिनगते भानौ मुहूर्तोऽभिजिदाह्वयः। नाशयत्यखिलं दोषं पिनाकीत्रिपुरं यथा \।\। ६ \।\। मध्यंदिनगते भानौ सकलं दोषसंचयम्।करोति नाशमभिजित्तूलसंघमिवानलः ॥ ७ ॥

इति लग्नशुद्धिः।

_____

अथ लग्नगोचरम्।

आषष्ठतः खनवमायगताश्च सौम्याःशस्ताः षडायसहजाष्टमभेषु पापाः।पाणिग्रहे त्रिसुखलाभधनेषु चन्द्रः षष्ठः सितो निधनगो न शुभो महीजः ॥ १ ॥रन्ध्रे कुजे सौम्यखगे च मृत्युः षष्ठाष्टगे लग्नपतौ च मृत्युः। तृतीयगे देवरगा चशुक्रे केऽप्याहुरन्ते शुभदौ सितेज्यौ ॥ २ ॥ त्रिकोणसप्तमाम्बरव्ययोपगो विलग्नतः। हिमद्युतिः शुभर्क्षगः शुभेक्षितश्च शोभनः ॥ ३ ॥ नेष्टौषष्ठाष्टमौ लग्नादंशनाथविलग्नषौ। तथा170द्रेष्काणनाथश्च चन्द्रश्च मरणप्रदः ॥ ४ ॥ नातिदुष्टाःशुभा द्यूने तथा लग्नेश्वरो व्यये171। द्रेष्काणेशस्तथा रन्ध्रे क्षीणेन्दुर्मध्यमे धने ॥ ५ ॥ निधनचतुष्टयसंस्थे पापद्वयमध्यगे क्षपानाथे।निधनं प्रयाति नियतं देवैरपिरक्षिता कन्या ॥ ६ ॥ वैरिवारे शुभः खेटो लग्नगोऽप्यशुभायते। मित्रवारे तुपापेऽपि शुभदः स्यान्न संशयः ॥ ७ ॥ अरिनीचर्क्षगे शुक्रे श्वश्व्राऽर्के श्वशुरेण च। कलत्रेऽंशे च पत्या हि स्याद्विरोधो मृगीदृशाम् ॥ ८ ॥ पञ्चभिरिष्टैरिष्टं पुष्टमनिष्टैरनिष्टमादेश्यम्। स्थानादिबलसमृद्धैश्चतुर्भिरपि पठ्यते यवनैः ॥ ९ ॥ नारदः—धनत्रिबन्धुतनयाधर्माज्ञायेषु चन्द्रमाः। करोति सुतसौभाग्यभोगयुक्तां विवाहिताम् ॥ १० ॥वसिष्ठः—मृत्युर्नैः स्वयंबहुविधधनं भातृहानिः प्रजानां व्याधिर्मान्यैरतिशयधनंभ्रातृहानिश्चिरायुः। श्रेयोहानिर्भवति हृदयव्याधिरर्थागमत्वं भानौ स्त्रीणामतिशयरुजा लग्नभावादिसंस्थे ॥ ११ ॥ नाशः संपद्बहुविधयशो बन्धुवृद्धिः प्रजाप्तिः शस्त्रान्मृत्युर्भवति च चिराद्दीर्घसापत्न्यबाधा।प्रव्रज्यात्वं दुहितृजनितृत्वं धनं

भोगभावत्वं दास्यं स्त्रीणां तुहिनकिरणे लग्नप्रभावादिसंस्थे ॥ १२ ॥ मृत्युः शोकोबहुविधधनं भ्रातृवैरं कुबुद्धिलक्ष्मीप्राप्तिर्भवतिमरणं चोभयोर्वंशनाशः। स्त्रीणांद्वेष्यं (पो) व्यसननिरतिः पुत्रपौत्रार्थसिद्धिर्मीतिर्भूमेर्बलिनि तनये लग्नभावादिसंस्थे ॥ १३ ॥ प्रीतिर्बुद्धिः सुगुणनिरतिर्बन्धुपूजा सुताप्तिर्निर्वैपक्षं तनयरहितत्वंतनुत्यागचिन्ता। धर्मे बुद्धिर्भवति धरणीलाग्नम (प्राप्तिर) त्यन्तवृद्धिर्हानिःस्त्रीणां हिमकरसुते लग्नभावादिसंस्थे ॥ १४ ॥ लक्ष्मीप्रातिर्भवति सुयशःप्रीतिरन्योन्यवृद्धिरिष्टावाप्तिर्बहुविधभयं चाऽऽश्रमाणां विरक्तिः।पापासक्तिःसुकृतनिरतिर्भूरिलाभः सुरेज्ये स्त्रीणां सौख्यं रिपुकृतभयं लग्नभावादिसंस्थे ॥ १५ ॥भोगावाप्तिर्विविधविभवः स्वैरवृत्तिर्महत्त्वं द्युम्नाधिक्यंभवति निधनं सर्वनाशोव्ययित्वम्। तथ्यप्रीतिर्बहुविधगुणः सर्वसंपत्समृद्धिरस्वं स्त्रीणामुशनसि तथालग्नभावादिसंस्थे ॥ १६ ॥ स्वच्छन्दत्वं कदशनरतिर्वल्लभत्वं विशीलं व्याधिःसुश्रीर्मृतिरथ सुखं गर्भपातप्रवृत्तिः। द्यूतासक्तिर्भवति रविजे वैभवं वक्ररोगःस्वर्भानौवा शिखिनि च तथा लग्नभावादिसंस्थे ॥ १७ ॥

इति लग्नगोचरम्।

_____

अथ भावशुद्धिः।

लग्नांशतुल्या विज्ञेया भावाद्वादश ते पुनः।तिथ्यंशेन युतास्ते स्युः प्राक्पराः संधयः क्रमात् ॥ १ ॥ भावतुल्ये ग्रहे पूर्णं न्यूनं न्यूनाधिके फलम्।अफलं संधिषु ज्ञेयं त्रैराशिकमथान्तरे ॥ २ ॥ ग्राह्यान भावोत्यगुणा विलयेत्याज्याश्च दोषा जगदुःस्विदेके। लग्नांशकेभ्योऽभ्यधिकोऽपि धीस्थःशुक्रोऽरिगस्यान्न तु सूर्यजन्तु ॥ ३ ॥ सप्तमस्था यदा चन्द्रो भवेद्भावफलाष्टमः। न तदादीयते लग्नं शुभः सर्वग्रहैरपि ॥ ४ ॥ एतत्स्थूलं भावानयनं सूक्ष्मं तु जातकपद्धतेरवगन्तव्यम्।

इति भावशुद्धिः।

_____

अथ गोरजःशुद्धिः।

घटीलग्नं यदा नास्ति तदा गोधूलिकं स्मृतम्।शूद्रादीनां बुधाः प्राहुर्नद्विजानां कदाचन ॥ १ ॥ महादोषान्परित्यज्य मोक्तधिष्ण्यादिकेषु च। कारयेद्गोरजो यावत्तावल्लग्नं शुभावहम् ॥ २ ॥ कुलिकं क्रान्तिसाम्यं च मूर्तो षष्ठा-

अथ विवाहाङ्गादीनां शुद्धिः।

दलनं कण्डनं चैव व्यञ्जनं मोदकानि च। यथारमण्डपौ वेदी कुङ्कुमं वर्णकं तथा ॥ १ ॥ कार्यं विवाहाङ्गमिदं विवाहभैर्युञ्जन्ति नात्रेन्दुबलाबलं बुधाः। षष्ठे तृतीये नवमेऽह्नि लग्नतः पूर्वंन वर्णो न यवारमण्डपौ ॥ २ ॥ व्रते देवप्रतिष्ठायां विवाहे पुरुषस्त्रियोः।तैलं तन्मन्त्रतोधार्यं विमलं प्राङ्मुखस्वकैः ॥ ३ ॥ रजनिजनितरागा मालिनी पूर्ववक्रा प्रथमरजनियामेऽलंकृताभ्योऽङ्गनाम्यः।शिरसि विमलतैलं धारयेत्तत्कुमारी निशि सुललितगीतैर्नागवल्लीदलेन ॥ ४ ॥ रजकी तैलमादाय कन्यकामभिषिञ्चति। निशायाः प्रथमे यामे नागवल्लीदलेन तु \।\। ५ \।\। घटाकारमृदा देवी निर्मिता वसुंधा172 शची। वरणानन्तरं पूज्या यावत्पाणिग्रहो भवेत् ॥ ६ ॥ शचीं संपूज्य विधिवत्ततस्तैलाभिषेचनम्।कन्यायाश्चतदुच्छिष्टतैलेनापि वरस्य च ॥ ७ ॥ सुमुहूर्तो यदा न स्याल्लग्नात्पूर्वं तदा निशि। तैलं कृत्वा ततः कार्यंवरणं लग्नवासरे ॥८ ॥ रक्षार्थं दक्षिणे हस्ते वध्नीयात्कङ्कणं तयोः। वन्धनं कन्यकापूर्वं वरपूर्वं विमोचनम् ॥ ९ ॥ कन्यकासूत्रकार्षासं173 पञ्चकेनैव निर्मितम्। त्रिगुणं कुङ्कुमाक्तंच तन्मन्त्रेण निवन्धयेत् ॥ १० ॥ आदौ स्त्रीवरणं दानं तैलं वेदिश्च मण्डपः।वृद्धिः केलवणं लोणं गौरिण्याः पाणिपीडनम् ॥११ ॥ देशे देशे य आचारःस्थाने स्थाने च या स्थितिः। तथैवं व्यवहर्तव्यं पारम्पर्यवशादिभिः ॥ १२ ॥ अङ्गानि वरणादीनि प्रधानं पाणिपीडनम्।तस्माल्लग्नदिने सर्वंवरणाद्यं तु कारयेत् ॥ १३ ॥

इति विवाहाङ्गादीनां शुद्धिः।

_____

अथ विवाहभेदाः।

ब्राह्मो विवाह आहूय दीयते शक्त्यलंकृता। देवो विवाहः कन्याया ऋत्विजे दानमुच्यते ॥ १ ॥ आर्षो गोमिथुने दत्ते कन्यादानं यदा तदा। प्राजापत्यः सह धर्मं चरतामिति दानतः ॥ २ ॥ आसुरो द्रविणादानाद्गान्धर्वः समयान्मियः।राक्षसो युद्धहरणात्पैशाचः कन्यकाछलात् ॥ ३ ॥ अतो174 निन्द्यो विवाहोऽयं द्रविणादानभेदतः। आसुरः प्रोच्यते तेन तेषां शस्तोऽणुरत्रिजः ॥ ४ ॥ रत्नमालाया—प्राजापत्यब्राह्मदैवार्षसंज्ञाः कालेषूक्तेष्वेवकार्या विवाहाः। गान्धर्वाख्यश्चाऽऽसुरो राक्षसश्चपैशाचो वा सर्वकाले विधेयाः ॥ ५ ॥

इति विवाहभेदाः।

_____

अथ दातृनिर्णयः।

पिता पितामहो भ्राता पितृव्यो गोत्रजो गुरुः। मातामहो मातुलो वा कन्यादा बान्धवाः क्रमात् ॥१॥ याज्ञवल्क्यः— पिता पितामहो भ्राता स्वकुलोजननी तथा। कन्याप्रदः पूर्वनाशे प्रकृतिस्थः परः परः ॥२॥ यदाऽत्र नैवकश्चित्स्यात्कन्या राजानमाव्रजेत्।पित्राद्यभावे कर्तव्यः कन्यायाश्चस्वयंवरः ॥३॥ बलादुद्वाहिता कन्या देयाऽन्यस्मै वराय च। सुसमस्तगुणा कन्या कस्मै देयेति संशयः ॥४॥ तदा स्वयंवरं कुर्यादपणं सपणं तु वा। महादोषेसुविज्ञाते पूर्वं सप्तपदीविधेः।मरणादौ समुत्पन्ने देवाऽन्यस्मै न दोषभाक् ॥५॥ अपत्नीकैस्तु धर्मार्थंकौशी हैमी च राजती। ताम्री विप्रादिभिभार्याधार्या हैमीऽथवाऽखिलैः॥६॥

इति दातृनिर्णयः।

_____

अथ विषकन्यकाज्ञानम्।

जातकोत्तमे— इलात्मजः सूर्यसुतो दिनेशो भद्रा तिथिर्वारुणमन्निधिष्ण्यम्।सार्पं च योगे भवतीह कन्या विषाङ्गना सा परिवर्जनीया ॥१॥ यवनः—भद्रा तिथिर्यदाऽऽश्लेषा शतभि [ष] क् कृत्तिका तथा। मन्दाररविवारेषु विषकन्या प्रजायते ॥२॥ द्वादशी वारुणं सूर्यो विशाखा सप्तमी कुजः। मन्दाश्लेषा द्वितीया च विषकन्या प्रसूयते ॥३॥ त्रैलोक्यप्रकाशे—रिपुक्षेत्रस्थितौ द्वौ तुलग्ने यत्र शुभग्रहौ।क्रूरश्चैकस्तदा जाता भवेत्स्त्रीविषकन्यका ॥४॥ योगजातके— लग्ने सौरी रवेः पुत्रो धर्मस्थो धरणीसुतः। अस्मिन्योगे तु जाना स्त्री सा भवेद्विषकन्यका ॥५॥

इति विषकन्याज्ञानम्।

_____

अथ मूलजादीनां फलम्।

गर्गः— मूलजा श्वशुरं हन्ति सार्पजा च तदङ्गनाम्। ज्येष्ठाजा तु पतिज्येष्ठंदेवरं तु द्विदैवजा ॥१॥ वृद्धनारदः—कन्यका देवरं हन्ति विशाखायां समुद्भवा।पैत्रगण्डोद्भवा कन्या श्वशुरघ्नीति केचन ॥२॥ न हन्ति देवरं कन्या तुलामिश्रद्विदैवजा। तदन्त्यपादजात्याज्या दुष्टावृश्चिकपुच्छजा ॥३॥ कश्यपपटले— पत्न्यग्रजामग्रजं वा हन्ति ज्येष्ठर्क्षजः पुमान्। तथा भार्यास्वसारं च

अपमृत्युरुजान्विता।भर्तृप्रिया च वेश्या च मान्या वित्तसुतान्विता ॥१०॥उत्तरेशानपूर्वानु घटी पूर्णा शुभप्रदा। दिक्षु शेषासु कन्याया मग्ना वैधव्यदायिनी ॥११॥ अथवा साधयेत्कालं द्वाशाङ्गुलशङ्कुना।व्यासत्रिगुणपरिधिःपरिधेः सममायतम् ॥१२॥ व्यासाब्ध्यंशोऽङ्गुलं प्रोक्तमिति शङ्कुप्रमाणकम्। अन्ययन्त्रप्रयोगा ये दुर्लभाः कालसाधने ॥१३॥ एवं सुलग्ने दंपत्योः कारयेत्सन्यमीक्षणम् ॥१४॥

इति घटिकालक्षणं प्रतिष्ठा च।

_____

अथ वेदिकालक्षणम्।

केचिदूचुर्ध्वजायेनरचयेद्धरिणाऽथवा175। करोच्छ्रितां सप्तहस्तदीर्घां वापञ्चविस्तृताम् ॥१॥ नारदः—हस्तोच्छ्रितां चतुर्हस्तैश्चतुरस्त्रां समन्ततः। स्तम्भैश्चतुर्भिः सुश्लक्ष्णैर्वामभागे स्वसद्मनः ॥२॥समण्डपां चतुर्दिक्षु सोपानैरतिशोभिताम्। प्रागुदक्प्रवणां रम्भास्तम्भहंसशुकादिभिः ॥३॥ विचित्रितां चित्रकुम्भैर्विविधैस्तोरणाङ्कुरैः। शृङ्गारपुष्पनिकरैर्वर्णकैः समलंकृताम् ॥४॥ विमाशीर्वचनैःपुण्यस्त्रीभिर्दीपैर्मनोरमाम् ॥५॥ वादित्रनृत्यगीताद्यैर्हृदयानन्दिनीं शुभाम्।एवंविधां तामारोहेन्मिथुनं साग्निवेदिकाम् ॥६॥

इति वेदिकालक्षणम्।

_____

अथ गान्धर्वविवाहशुद्धिः।

पुनर्भूवरणं प्रोक्तं शूद्रादीनां शुभाप्तये।षट्टे शुद्धे विवाहर्क्षे सुवेलायां बलेऽधिके ॥१॥ न शुक्रास्तादिकं चिन्त्यं शुद्धिबेधादिकं तथा। पुनर्भुवां सवरणेन मासतिथिशोधनम् ॥२॥ त्रीण्वृक्षमर्कादि कुलक्षयश्चपूर्वादिलक्ष्मीर्मृतिदुर्बलत्वे। सौभाग्यवन्ध्या विधवा च नारी पुत्रप्रसूतिर्धनषट्टकाले ॥३॥ सूर्यभात्त्रिषटे शुद्धे विष्ण्यं शाक्रं तिथिर्मितम्। आकृतिर्विकृतिर्विश्वं गन्धर्वादौविचिन्तयेत् ॥४॥ पञ्च पाणिग्रहे दोषा वर्जनीयाः प्रयत्नतः। दारिद्र्यं मृतिवैधव्ये पौश्चाल्यमनपत्यता ॥५॥

इति गान्धर्वविवाहशुद्धिः।

ष्टगः शशी।पञ्च गोधूलिके त्याज्या अन्ये दोषाः शुभावहाः ॥३॥ मन्दवारे न कर्तव्यं बुधैर्लग्नंनिशामुखे।गुरोर्वारेऽपि कर्तव्यमस्तं याते दिवाकरे ॥४॥ क्रूरमुक्तं च भोग्यं च भं विद्धं कुदिनादिकम्।लग्नं क्रूरयुतं चांशंसंध्यालग्ने न चिन्तयेत् ॥५॥ ग्रहाल्लॅग्नादिभावस्थाञ्जामित्रं नैव चिन्तयेत्।द्विजानामपि संध्यायामंशशुद्धिं विलोकयेत् ॥६॥ लग्नशुद्धिर्यदा न स्याद्यौवने समुपस्थिते। तदा वैसर्ववर्णानां लग्नं गोधूलिकं शुभम् ॥७॥ दिनान्ते सूर्यविम्बार्धेपूर्वभेऽत्र घटीदलम। कालार्गले च वेलायां धात्रोद्वाहाय निर्मिता(तम्) ॥८॥ अनागतेऽर्केऽर्कदिने शनौ च त्रिभागनष्टे शशिशुक्रयोश्च।सूर्यार्धविम्बे शुभदं च जीवे लग्नं कुजे ज्ञे च मुखं रजन्याः ॥९॥ भानोःकुङ्कुमसंकाशाद्यावत्ताराप्रकाशनम्।यावच्च गोरजो व्योम्नि तावल्लग्नंस्मृतंपरैः ॥१०॥ कालं हित्वा सर्वदेशे लग्ने शस्तोऽभिजित्क्षणः। अम्भोधिमथनोत्पन्नां यतोऽत्र कमलांहरिः। उद्ववाह तदाद्यं176तल्लग्नं गोधूलिकं स्मृतम् ॥११॥केऽप्याहुर्गोरजो नेष्टं तनौ कामेऽष्टमे कुजे।रिपौशुक्रे गुरोर्वारे न चैतद्बहुसंमतम् ॥१२॥

इति गोरजःशुद्धिः।

_____

अथ घटीलक्षणं प्रतिष्ठा च।

नारदः— एवं संचिन्त्य गणितशास्त्रोक्तं लग्नमानयेत्।तल्लग्नं जलयन्त्रेणदद्याज्ज्यौतिषिकोत्तमः ॥१॥ षडङ्गुलमितोत्सेधं द्वादशाङ्गुलमायतम्। कुर्यात्कपालवत्ताम्रपात्रं तद्दशभिः पलैः ॥२॥ पूर्णे षष्ट्या जलपलैःषष्टिर्मज्जति वासरात्। माषमात्रत्र्यंशयुतस्वर्णवृत्तशलाकया ॥३॥ चतुर्भिरङ्गुलैरायतयाविद्धमतिस्फुटम्। ताम्रपात्रे जलैःपूर्णे मृत्पात्रे वाऽथवा शुभे ॥४॥ गन्धपुष्पाक्षतैःसार्द्रैरलंकृत्य प्रयत्नतः।तण्डुलस्थे स्वर्णयुते वस्त्रयुग्मेण वेष्टिते ॥५॥मण्डलार्धोदयं वीक्ष्य रवेस्तत्र विनिक्षिपेत्। मन्त्रेणानेन पूर्वोक्तलक्षणं यन्त्रमुत्तमम् ॥६॥ एकान्तपक्षेऽनिलवर्जितेऽस्मिन्दध्यक्षतैःपूजितमण्डले च। कुण्डे च पूर्णे घटिका प्रवाद्या सूर्यार्धविम्बेह्युदितेऽस्तगे वा ॥७॥ मुख्यं त्वमसियन्त्राणां ब्रह्मणा निर्मितं पुरा।भावभावाय दंपत्योः कालसाधनकारणम् ॥८॥ संस्तुत्यैवं घटी तोये यां दिशं प्रति गच्छति। पूर्वाशादिफलंकुर्यात्स्थिता मध्ये धनप्रदा ॥९॥ सौभाग्यं निर्धनं (निःस्वता) नार्या

शालकं च द्विदैवजः ॥४॥ व्यालजा श्वशुरं हन्ति मूलजा स्त्री तथा नरः।हन्ति सार्पोद्भवा कन्या पुमांश्च श्वशुरं स्त्रियम् ॥५॥ मूलान्त्यपादजौ श्रेष्ठौतथाऽऽश्लेषाद्यपादौ। द्वीशान्त्यपादजौदुष्टौ तद्वज्ज्येष्ठान्त्यपादजौ॥६॥ज्योतिःसंग्रहे—ऊढायाः पितरं हन्ति मातरं च यथाक्रमम्। यदि वा पादसंख्याब्दैर्मूलसार्पोद्भवः पुमान् ॥७॥ मूलजां नोद्वहेज्जीवत्पितृको व्यालजां तथा।कन्यां जीवन्मातृकस्तु न निषेधोऽयमन्यथा ॥८॥ नारदः—सुतः सुता वानियतं श्वशुरं हन्ति मूलजः। तदन्त्यपादजो नापि हन्त्याश्लेषाद्यपादजः ॥९॥वरयेन्न वरं मूलजातं पितरि जीवति। तथैव विद्यमानायां मातरि व्यालजंनरम् ॥१०॥ तिथ्यंशे पञ्चमे जातौ श्वशुरघ्नौ नरस्त्रियौ। श्वश्रूघ्नौ चाष्टमे मूलस्यैवं व्यस्तं तु सार्पभे ॥११॥ मूलव्यालभवो दोषो विवाहे य उदाहृतः। समौञ्जीबन्धनादूर्ध्वं पुंसां नैवेति केचन ॥१२॥ वसिष्ठः—मूले सार्पे विशाखायामैन्द्रभे चोद्भवः पुमान्। न दोषकृद्विवाहेषु स्त्रियः सर्वत्र गर्हिताः ॥१३॥ अस्यापवादो जातकोत्तमे–मूलसार्पोद्भवं दौष्ट्यं न स्यान्मित्रादयो ग्रहाः। उक्तस्थानस्थिताः सौम्यदृष्टाश्चबलिनो यदि ॥१४॥ भावे भावाधिपे चैव चन्द्रे चबलशालिनि। उक्तदोषा विनश्यन्ति शुभग्रहयुतेक्षिते ॥१५॥ जन्मलग्नात्पितृस्थानं १० मातुः ४ भार्यायाः७ भर्तुः ७ श्वशुरस्य ४ श्वश्रूस्थानं १० ज्येष्ठदेवरशालकस्थानम् (१)।

इति मूलजादीनां फलम्।

_____

अथ वैधव्यादियोगे विवाहः।

वैधव्यादिषु योगेषु जन्मकाले मृगीदृशाम्।ब्रूहि वैवाहिकं कर्म कथं तासांविधीयते ॥१॥ अस्य परिहारः संहितासारे—अवैधव्यकरैर्योगर्विवाहपटलोदितैः।वरायाऽऽयुष्मते देया कन्या वैधव्ययोगजा ॥२॥ प्रारब्धानामनारब्धकर्मणांविरतिर्यथा। आत्मज्ञानात्तयादोषा नन्दाद्यैर्विलयं ययुः ॥३॥ व्रतखण्डे— सावित्र्यादिव्रतानीह भक्त्या कुर्वन्ति याः स्त्रियः। सौभाग्यं सुभगत्वं च भवेत्तासांसुसंततिः ॥४॥ पुराणान्तरे—बालवैधव्ययोगेऽपि कुम्भद्रुप्रतिमादिभिः।कृत्वा लग्नं रहः पश्चात्कन्योद्वाह्येति वा परे ॥५॥ यथैव रससंस्कारात्ताम्रंकाञ्चनतां व्रजेत्। तथा दुष्टफला कन्या विमला स्याद्विधानतः ॥६॥

इति वैधव्यादियोगे विवाहः।

अथ समानक्रियाविचारः।

एकमातृजयोरेकवत्सरे पुरुषस्त्रियोः। एकक्रिया न कर्तव्या क्रियाभेदोविधीयते ॥१॥ नारदः– पुत्रोद्वाहात्परं पुत्रीविवाहो न ऋतुत्रये। न तयोर्व्रतमुद्वाहान्मङ्गले नान्यमङ्गलम् ॥२॥ विवाहश्चैकजन्यानां षण्मासाभ्यन्तरे यदि। असंशयं त्रिभिर्वर्षैस्तत्रैका विधवा भवेत् ॥३॥ संहितादीपके—ऊर्ध्वं विवाहात्तनयस्य नैव कार्यो विवाहो दुहितः समार्धम्। अप्राप्यकन्यां श्वशुरालयं तुवधूः प्रवेश्या स्वगृहं न चाऽऽदौ ॥४॥ कात्यायनः—कुले ऋतुत्रयादर्वाङ्मण्डनान्नतु मुण्डनम्।प्रवेशान्निर्गमो नेष्टो न कुर्यान्मङ्गलत्रयम् ॥५॥ पुत्रोद्वाहान्नैवपुत्रीविवाहस्तु ऋतुत्रये।अब्दान्तरान्मुण्डनं च नैकदा मुण्डनद्वयम् ॥६॥मातृयज्ञक्रियापूर्वंज्येष्ठं कृत्वा तु मङ्गलम्।ऋतुत्रयं पुनर्यावन्न कुर्याल्लघुमङ्गलम् ॥७॥ कुर्वन्ति मुनयः केचिदन्यस्मिन्वत्सरे लघु। लघु वा गुरु वाकार्यं प्राप्तं नैयमिकं तु यत् ॥८॥ पुत्रोद्वाहः प्रवेशाख्यः कन्योद्वाहस्तु निर्गमः। मुण्डनेचौलमित्युक्तं व्रतोद्वाहौ तु मङ्गलम् ॥९॥ चौलं मुण्डनमेवोक्तं वर्जयेद्वरणात्परम्।मौञ्जी चोभयतः कार्या ततो मौञ्जीन मुण्डनम् ॥१०॥ अभिन्ने वत्सरे यस्य तदहस्तत्र भेदयेत्। अभेदेऽपि दिनस्यापि न कुर्यादेकमण्डपे ॥११॥अथ देशकालभयादौ प्रवृत्तिमाह कपर्दिकायाम्—उद्वाद्य पुत्रीं न पिता विदध्यात्पुत्रान्तरस्योद्वहनं हि जातु। याचच्चतुर्थीदिनमत्र सर्वंसमाप्य चान्योद्वहनं विदध्यात् ॥१२॥ स्मृतिसारावल्या— स्वसृयुगेभ्रातृयुगे भ्रातृस्वसृयुगे तथा। एकस्मिन्मण्डपे चैव न कुर्यान्मङ्गलद्वयम् ॥१३॥ पुत्रीपरिणयादूर्ध्वं यावद्दिनचतुष्टयम्। पुत्र्यन्तरस्य कुर्वीत नोद्वाहमिति सूरयः ॥१४॥ एतद्वचनद्वयं भिन्नमातृकविषयम्।तथाचोक्तम्–एकोदरप्रसूतानामेकस्मिन्वासरे पुनः। विवाहं नैवकुर्वीत मण्डनोपरि मुण्डनम् ॥१५॥ ज्योतिर्विवरणे— एकोदरयोर्वरयोरेकदिनोद्वाहतो भवेन्नाशः।नद्यन्तर एकदिने केऽप्याहुः संकटे च शुभम् ॥१६॥न प्रतिषिद्धं लग्नं संप्राप्ते संकटे महति। एकोदरसंभवयोरेकाहे भिन्नमण्डपेकाले ॥१७॥ प्रवृत्तिमात्रमेतत्। शार्ङ्गधरः—ऊर्ध्वं विवाहाच्छुमदो नरस्य नारीविवाहो न ऋतुत्रये स्यात्। नारीविवाहात्तदहेऽपि शस्तं नरस्य पाणिग्रहमेवमार्याः ॥१८॥ एकोदरीकरतलग्रहणं यदि स्यादेकोदरस्थवरयोःकुलनाशनं च। एकाब्दिके तु विधवा भवतीति कन्या नद्यन्तरेऽपि शुभदं पृथुशैलरोधे ॥१९॥ संहितासारावल्यां—फाल्गुने चैत्रमासे तु पुत्रोद्वाहोपनायने। भेदादब्दस्य कुर्वीत नऋतुत्रयलङ्घनम् ॥२०॥

अथ यमलविशेषः।

एकस्मिन्वत्सरे चैकवासरे मण्डपे तथा। कर्तव्यं मङ्गलं स्वस्रोर्भ्रात्रोर्यमलजातयोः ॥१॥ मेधातिथिः—पृथङ्मातृजयोः कार्यो विवाहश्चैकवासरे।एकस्मिन्मण्डपे कार्यःपृथग्वेदिकयोस्तथा ॥२॥ पुष्पषट्टिकयोः कार्य दर्शनं नशिरस्थयोः। भगिनीभ्यामुभाभ्यां च यावत्सप्तपदी भवेत् ॥३॥

इति समानक्रियाविचारः।

_____

अथ प्रत्युद्वाहनिषेधः।

नारदः— प्रत्युद्वाहो नैव कार्यो नैकस्मै दुहितृद्वयम्।नवैकजन्ययोः पुंसोरेकजन्ये तु कन्यके।नैवं कदाचिदुद्वाहो नैकदा मुण्डनद्वयम् ॥१॥ अन्यच्च—एकजन्ये तु कन्ये द्वे पुत्रयोर्नैकजन्ययोः। न पुत्रीद्वयमेकस्मै प्रदद्यात्तुकदाचन ॥२॥

इति प्रत्युद्वाहनिषेधः।

_____

अथ प्रतिकूलविचारः।

गर्गः—कृतेऽपि निश्चये पश्चान्मृत्युर्मर्त्यस्य कस्यचित्। तदा न मङ्गलंकुर्यात्कृते वैधव्यमाप्नुयात् ॥१॥ मेधातिथिः—वधूवरार्थ घटिते सुनिश्चितेवरस्य गेहे त्वथ कन्यकायाः।मृतिर्भवेत्तन्मनुजस्य कस्यचित्तदा न कार्यखलु जातु मङ्गलम् ॥२॥ अत्र मङ्गलशब्देनविवाहः।स्मृत्तिचन्द्रिकाया—कृते वाड्निश्चयेऽपि स्यान्मृत्युर्मर्त्यस्य गोत्रिणः। तदा न मङ्गलं कार्य नारीवैधव्यदं ध्रुवम् ॥३॥ भृगुः—वाग्दानानन्तरं यत्र कुलयोः कस्यचिन्मृतिः।तदोद्वाहो नैव कार्यःस्वपक्षक्षयदो यतः ॥४॥ वृद्धशौनकः—वरवध्वोः पितामाता पितृव्यश्च सहोदरः। एतेषां प्रतिकूलं चेन्महाविघ्नप्रदं भवेत् ॥५॥पिता मातामहश्चैव माता चैव पितामही।पितृव्यस्त्रीसुतौभ्राता भगिनी वाविवाहिता ॥६॥ एभिरेव विपन्नैश्च प्रतिकूलं बुधैःस्मृतम्।अन्यैरपि विपन्नैस्तु केचिदूचुर्न तद्भवेत् ॥७॥ माण्डव्य—वाग्दानानन्तरं माता पिता भ्राताविपद्यते। विवाहो नैव कर्तव्य स्वयं स्वहितमिच्छता ॥८॥ अथ सकटादौप्रवृत्तिमाह मेषातिथिः— वाग्दानानन्तरं यत्र कुलयोः कस्यचिन्मृतिः। तदा

संवत्सरादूर्ध्वं विवाहः शुभदोःभवेत् ॥९॥ स्मृतिरत्नावल्यां—पितुरब्दमिहाशौचंतदर्धं मातुरेव च।मासत्रयं तु भार्यायास्तदर्धं भ्रातृपुत्रयोः ॥१०॥ अन्येषांतु सपिण्डानामाशौचं माससंमितम्। तदा तु शान्तिकं कृत्वा ततो लग्नं विधीयते ॥११॥ ज्योतिष्प्रकाशे—प्रतिकूलेऽपि कर्तव्यो विवाहो मासमन्तरा। शान्तिंविधाय गां दत्त्वा वाग्दानादि चरेत्पुनः ॥१२॥ स्मृत्यन्तरे– प्रतिकूले नकर्तव्यं लग्नं यावदृतुत्रयम्। प्रतिकूलेऽपि केऽप्याहुः कर्तव्यं बहुविप्लवे ॥१३॥ प्रतिकूले सपिण्डस्य मासमेकं विवर्जयेत्। विवाहं तु ततः पश्चात्तयोरेवविधीयते ॥१४॥ ज्योतिःसागरे— दुर्भिक्षे राष्ट्रभङ्गे च पित्रोर्वा प्राणसंशये। प्रौढायामपि कन्यायां नाऽऽनुकूल्यं प्रतीक्ष्यते ॥१५॥ मेधातिथिः—पुरुषत्रयपर्यन्तं प्रतिकूलं स्वगोत्रिणाम्।प्रवेशनिर्गमौ तद्वत्तथा मण्डनमुण्डने ॥१६॥प्रेतकर्माण्यर्निर्वर्त्य चरेन्नाभ्युदयक्रियाम्। आचतुर्थे ततः पुंसि पञ्चमे तु शुभंभवेत् ॥१७॥ स्मृत्यन्तरेऽपि—दीर्घरोगाभिभूतस्य दूरदेशस्थितस्य च।उदासवर्तिनश्चैव प्रतिकूलं न विद्यते ॥१८॥ संकटे समनुप्राप्ते याज्ञवल्क्येन योगिना।शान्तिरुक्ता गणेशस्य कृत्वा तां शुभमाचरेत् ॥१९॥ अकृत्वा शान्तिकं यस्तुनिषेधे सति दारुणे। करोति हि शुभं गर्वाद्विघ्नस्तस्य पदे पदे ॥२०॥ प्रतिकूलविधानं च शान्तिका(कमला)करे द्रष्टव्यम्।

इति प्रतिकूलविचारः।

_____

अथ सूतकादौ शान्तिः।

संकटे समनुप्राप्ते सूतके समुपागते।कूष्माण्डीभिघृतं हुत्वा गां च दद्यात्पयस्विनीम् ॥१॥ चूडोपनयनोद्वाहप्रतिष्ठादिकमाचरेत्। यदैव सूतकप्राप्तिस्तदैवाभ्युदयक्रियाम् ॥२॥ कृत्वा नाभिं वर्धयित्वा काले मङ्गलमारभेत्।अनारम्भेऽप्यवार्यत्वादनुज्ञा विष्णुनोदिता ॥३॥ अनारब्धविशुद्ध्यर्थं कूष्माण्डैर्जुहुयाद्धृतम्।गां दद्यात्पञ्चगव्याशी ततः शुध्यति सूतकी ॥४॥ कौमुद्यां—विवाहोत्सवयज्ञादावारब्धे सूतकं यदि। साङ्गं तत्कर्म कर्तव्यमन्नदानादिकं परैः ॥५॥ प्रारम्भो वरणं यज्ञे संकल्पो व्रतसत्रयोः। नान्दीश्राद्धंविवाहादौश्राद्धे पाकपरिक्रिया ॥६॥ एकविंशत्यहर्यज्ञे विवाहे दशवासरे। त्र्यहे चूडोपनयने नान्दीश्राद्धं विधीयते ॥७॥ देशान्तरे विवाहश्चेन्मध्येऽद्रिर्वामहानदी। गव्यूतित्रयपर्यन्तं स्वगृहे देवतार्चनम् ॥८॥ गर्गः—ज्वरस्योत्पादनंयस्य शुभं तस्य न कारयेत्।दोषनिर्गमनात्पश्चात्स्वस्थो धर्मं समाचरेत् ॥९॥

शल्यज्ञानं—यस्मिन्भागे सौम्या गृहस्य तद्द्रव्यमादिशेत्तत्र।पापायस्मिन्भागेतस्मिञ्छल्यंविनिर्देश्यम् ॥१४॥ स्मृत्वेष्टदेवतां प्रष्टुर्वचनस्याऽऽद्यमक्षरम्।गृहीत्वा तु ततः शल्याशल्यं सम्पग्विचार्यते ॥१५॥ अकचटतपयहया177वर्णाः पूर्वादिमध्यान्ताः। शल्यकरा इह नान्ये शल्यगृहे निवसतां नाशः ॥१६॥पृच्छायां यदि अः प्राच्यांनरशल्यं तदा भवेत्। सार्धहस्तप्रमाणेन तच्च मानुषमृत्युकृत् ॥१७॥ आग्नेय्यां दिशि कः प्रश्ने खरशल्यं करद्वये। राजदण्डो भवेत्तत्रभयं नैव निवर्तते ॥१८॥ याम्यायां टिशि चः प्रश्ने कुर्यादाकटि संस्थितम्। नरशल्यं गृहेशस्य मरणं चिररोगतः ॥१९॥ नैर्ऋत्यां दिशि टःप्रश्ने सार्धहस्तादधस्तले। शुनोऽस्थि जायते तच्च बालानां जनयेन्मृतिम् ॥२०॥ तःप्रश्ने पश्चिमायां तु शिशोः शल्यं प्रजायते। सार्धहस्ते गृहस्वामी न तिष्ठतिसदा गृहे ॥२१॥ वायव्यां दिशि षः प्रश्ने तुषाङ्गाराश्चतुष्करे। कुर्वन्तिमित्रनाशं च दुःस्वप्रदर्शनं सदा ॥२२॥ उदीच्यां दिशि178 यः प्रश्ने विप्रशल्यं कटेरधः। तच्छीघ्रं निर्धनत्वाय कुबेरसदृशस्य हि ॥२३॥ ऐशान्यां दिशि हः प्रश्ने गोशल्यं सार्धहस्ततः। तद्गोधनस्य नाशाय जायते गृहमेधिनः ॥२४॥ हषया179मध्यमे कोष्ठे वक्षोमात्रे भवेदधः। नृकपालं कचा भस्म लोहं तत्कुलनाशकृत् ॥२५॥

इति शल्यज्ञानपूर्विका भूमिशुद्धिः।

_____

अथ दिक्साधनम्।

मत्स्यपुराणे—कषिशीर्षप्रमाणैश्चग्रावभिः पूरयेद्दृढम्। खातं तत्तु समं कृत्वाततः प्राचीं प्रसाधयेत् ॥१॥ वृद्धनारदः—प्रासादे सदनेऽलिन्दे द्वारे कुण्डे विशेषतः दिङ्मूढे कुलनाशः स्यात्तस्मात्संसाधयेद्दिशः ॥२॥ वास्तुशास्त्रे—प्रथमं सुसमे क्षेत्रे प्राचीं संसाधयेत्स्फुटम्। सिद्धान्तोक्तप्रकारेण ततो निष्पादयेद्गृहम्॥३॥ स्फुटकारणे—ध्रुवलम्बकरेखाया रेखान्तः सौम्ययाम्यहरितौस्तः। तन्मत्स्यपुच्छमुखतः पश्चिमपूर्वाभिधे विद्यात् ॥४॥ शिरोमणौ—वृत्तेऽम्भःसुसमीकृताक्षतिगते केन्द्रस्थशङ्कोः क्रमाद्भागं यत्र विशत्यपैति च यवस्तत्रापरेऽङ्घ्रौ दिशौ।तत्कालोपमजीवयोस्तु विवराद्भात्कर्णमित्याहताल्लम्बज्याप्तमिताङ्गुलैरयनदिश्यैन्द्री स्फुटा चालिता ॥५॥

इति दिक्साधनम्।

अथ शङ्कुन्यासः।

शिल्पशास्त्रे— भाद्रत्रये शिरः प्राच्यां यान्यां मार्गशिरत्रये। फाल्गुनत्रितयेपश्चादुदग्ज्येष्ठत्रये तथा ॥१॥ वास्तोः शिरसि पुच्छे च वाम्वकुक्षौ च पृष्ठतः।आयुष्कामः खनेन्नैव वामकुक्षौ खनिः शुभा ॥२॥ वास्तुक्षेत्रप्रमाणं च कल्पयित्वाऽस्य वामके। कुक्षौ खातं विधायाऽऽदौ ग्रावभिः पूरयेत्ततः ॥३॥ नारदः—नभस्यादिषु मासेषु त्रिषु त्रिषु यथाक्रमम्। पूर्वादिदिक्शिरा वामपार्श्वशायी प्रदक्षिणम् ॥४॥ वास्त्वायामदलं नाभिस्तस्मादब्ध्यङ्गुलत्रयम्। कुक्षिस्तस्मिन्न्यसेच्छङ्कुं पुत्रपौत्रप्रवर्धनम् ॥५॥ लल्लः—त्यजेद्दश शिरोभागे ह्यग्नेः सप्तदशांशकान्।मध्ये कुक्षिं विजानीयात्तत्र शङ्कुं प्रतिष्ठयेत् ॥६॥ अस्थिरस्य शिरोयत्र वास्तोस्तद्गणयेत्करौ।देैर्घ्यं वा विस्तृतिं तत्र कृत्वाऽष्टाश्विमितांशकान् ॥७॥राजमार्तण्डे—ऊर्ध्वं भागत्रयं त्यक्त्वा ह्यधोभागद्वयं तथा।मध्ये नाभिं विजानीयादिति प्राह पराशरः ॥८॥ यदा वामपार्श्वेनपूर्वशिराःशैते तदा पश्चिमेपुच्छंदक्षिणे क्रोडमुत्तरे पृष्ठमेवं सर्वत्र।चतुर्विंशत्त्रयोविंशत्षोडशद्वादशाङ्गुलैः।विप्रादीनां शङ्कुमानं स्वर्णवस्त्राद्यलंकृतम् ॥९॥ खदिरार्जुनशालोत्थं युगं यत्रतरूद्भवम्। रक्तचन्दनपालाशरक्तशालविशालजम् ॥१०॥ नीषकारञ्जकुटजवैणवं बिल्ववृक्षजम्। शङ्कुंत्रिधा विभज्याऽऽद्यं चतुरस्रं ततः परम् ॥११॥अष्टास्रं च तृतीयांशमनस्रमृदुमव्रणम्। एवंलक्षणसंयुक्तं परिकल्प्यं शुभे दिने ॥१२॥

इति शङ्कुन्यासः।

_____

अथ दुर्निमित्तानि।

वराहः— कृष्णांप्ररूढबीजां गोध्युषितां ब्राह्मणैःप्रशस्तां च। गत्वा महीं गृहपतिःकाले सांवत्सरोदिते [तु शुभे] ॥१॥ भक्ष्यैर्नानाकारैर्दध्यक्षतसुरभिकुसुमधूपैश्च।दैवतपूजां कृत्वा स्वपतीनभ्यर्च्य विप्रांश्च॥२॥ लल्लः—कुर्यात्सूत्रनिपातं मध्याङ्गुल्याऽथवा प्रदेशिन्या। अङ्गुष्ठेन वा मणिकेन कक्षान्तरजातमुक्ताभिः ॥३॥भृगुः—विप्रः शीर्षं नृपो वक्षो वैश्यश्चोरू परः पदौ। स्पृष्ट्वा रेखां गृहारम्भे कुर्यादग्नेः प्रदक्षिणाम् ॥४॥ विश्वकर्मणि—सूत्रच्छेदे मृतिः कीलेऽवाङ्मुखे व्याधिपीडनम्।गृहेशस्थपतीनां च स्मृतिलोपतनुक्षयाः ॥५॥ कुम्भे करच्युते मृत्युरुपसर्गोपवर्जिते। स्कन्धभ्रष्टे शिरोरोगो भग्नेदुर्वचने वधः॥६॥

इति दुर्निमित्तानि।

केचिदूचुर्गुहस्थस्यकस्यचिद्दारुणो ज्वरः। तावन्मङ्गलकृत्यं च न कार्यं निश्चितंबुधैः ॥१०॥

इति सूतकादौ शान्तिः।

_____

अथ नववधूप्रवेशः।

वधूप्रवेशनं कार्यं पञ्चमे सप्तमे दिने।नवमे च शुभे वारे सुलग्ने शशिनो बले ॥१॥ एतल्लग्नान्तरमिति ज्ञेयम्। नारदः— आरभ्योद्वाहदिवसात्षष्ठे वाऽप्यष्टमे दिने। वधूप्रवेशः संपत्त्यैदशमेऽथ समे दिने ॥२॥ एतद्युग्मदिनप्रवेशः षोडशदिवसादर्वाक् द्रष्टव्यः। तदूर्ध्वं विषमे मासे संवत्सरे वा कार्यः।वृद्धनारदः— समे वर्षे समे मासि यदि नारी गृहं व्रजेत्।आयुष्यं हरते भर्तुः सा नारी मरणं व्रजेत् ॥३॥ संग्रहे—विवाहमारभ्य वधूप्रवेशो युग्मे तथाषोडशवासरान्तात्। तदूर्ध्वमब्दे युजिपञ्चमान्तादतः परस्तान्नियमो न चास्ति ॥४॥ भास्करव्यवहारे—रात्रौ विवाहभे शस्तः सन्मुहूर्ते स्थिरोदये।वधूप्रवेशोनैवात्र प्रतिशुक्राद्भयं विदुः ॥५॥ ऋक्षैर्वैवाहिकैःशुद्धैर्दंपत्योश्चशुभप्रदम्।वधूप्रवेशनं कार्यं पञ्चमे ह्यकृतं यदि ॥६॥ धान्यहानिः सुखं नाशो भोगोवैरं ततः शुभम्।प्रथमाब्दात्फलं ज्ञेयं क्रमाद्वध्वाःप्रवेशने ॥७॥ मार्गफाल्गुनवैशाखे शुक्लपक्षे शुभे दिने। गुर्वादित्यविशुद्धौ स्यान्नित्यं पत्नीद्विरागमः॥८॥ संमुखस्तु सुखं हन्ति दक्षिणे हानिकारकः। पृष्ठतो वामतश्चैवशुक्रःप्रोक्तः शुभावहः ॥९॥ मूलपुण्यमृदुस्वातिस्थिराश्विश्रुतिवासवे।पितृभे चकरे नारी प्रविष्टा पुत्रिणी भवेत् ॥१०॥ देवतोत्थापनं कार्यं समे तु दिवसेशुभैः। षष्ठं च विषमं नेष्टं मुक्त्वा पञ्चमसप्तमम् ॥११॥ नैकस्मिन्वासरेकार्यौगृहोद्वाहौ कथंचन।नवीनमन्दिरे कन्यां नवोढां न प्रवेशयेत् ॥१२॥ क्षयदर्शौशीतस्नानं सीमानदीविलङ्घनम्। आमश्राद्धगमो नास्ति प्राङ्निवीतंतु केचन (?) ॥१३॥ शेषं सर्वंनवगृहप्रवेशप्रकरणस्थं ज्ञेयम्।

इतिनववधूप्रवेशः।

इतिज्योतिर्निबन्धे विवाहप्रकरणम्।

_____

अथाग्न्याधानप्रकरणम्।

अग्न्याधानं दारकाले विधेयं कैश्चित्प्रोक्तं तच्च दायाद(द्य)काले। शक्राग्न्योर्मे

शक्रभे कृत्तिकायां सौम्ये ब्राह्मे पुण्यपौष्णोत्तरासु ॥१॥ कर्किनक्रघटमीनविलग्ने वांऽऽशके तनुगतेऽथ तदीये।लग्नगे कुमुदिनीदयिते वा नाशमेति जनितोऽपि हुताशः ॥२॥ केन्द्रर्क्षोपचयत्रिकोणभगताः सूर्यारजीवेन्दवः शेषाश्चोपचयस्थिता यदि तदाऽग्न्याधानमुक्तं शुभम्। चन्द्रे नैधनगे म्रियेत युवती भौमे पुमानष्टमे शेषैर्मृत्युगतै रुजा च सहितोऽग्न्याधानकर्ता भवेत् ॥३॥ नो कुर्याद्भुतभुवपरिग्रहमिह क्ष्मापुत्रजीवेन्दुभिर्नीचस्थैर्विजितै रिषोर्भवनगैरस्तं गतैर्वा द्विजः।चापस्थे तनुगे गुरौ क्रियगते सप्ताम्बरस्थे कुले शीतांशौत्रिषडायगे दिनकरे वा स्यात्तदा दीक्षितः ॥४॥ अग्न्याधानं न कुर्वीत कर्किनक्रत्रये विधौ। लग्नगे धनगे पापे तथा रन्ध्रेग्रहान्विते ॥५॥

इत्यग्न्याधानप्रकरणम्।

_____

**अथ गृहारम्भप्रकरणम्। **

मत्स्यपुराणे—गृहस्थस्य क्रियाः सर्वा न सिध्यन्ति गृहं विना। यतस्तस्माद्गृहारम्भप्रवेशसमयं ब्रुवे ॥१॥ श्रीपतिः— आयव्ययर्क्षांशिकचन्द्रताराबलानि शास्त्रादवगम्य सम्यक्। आयुर्धनारोग्ययशोभिवृद्ध्यै गृहंगृहस्थोऽपि विधापयीत ॥२॥ नारदः—निर्माणे पत्तनग्रामगृहादीनां समासतः। क्षेत्रमादौपरीक्षेत गन्धवर्णरसप्लवैः ॥३॥ वसिष्ठः— श्वेता शस्ता द्विजेन्द्राणां रक्ता भूमिर्महीभुजाम्।विशां पीता च शूद्राणां कृष्णाऽन्येषां च मिश्रिता ॥४॥ नारदः— मधुपेरान्नपिशितगन्धवर्णानुपूर्वकम्।मधुरं कटुकं तिक्तं कषायश्चरसाः क्रमात् ॥५॥ अत्यन्तवृद्धिदं नॄणामीशानप्रागुदक्प्लवम्। अन्यदिक्षु प्लवस्तेषां शश्वदत्यन्तहानिदः ॥६॥ भृगुः— उदगादिप्लवमष्टं विप्रादीनां प्रदक्षिणेनैव।विप्रः सर्वत्र वसेदनुवर्णमथेष्टमन्येषाम् ॥७॥ वास्तुशास्त्रे— मनसश्चक्षुपो यत्र संतोषोजायते भुवि। तस्यां कार्यं गृहं सर्वैरिति गर्गादिसंमतम् ॥८॥ लल्लः— गृहमध्ये हस्तमितं खात्वा श्वभ्रं प्रपूरितं च पुनः।यद्यूनमनिष्टं तत्समे समं धन्यमधिकं यत् ॥९॥ अवटमथवाऽम्बुपूर्णं षढशतमित्वा गतस्य यदि नोनम्। तद्धन्यं यत्र भवेत्पलानि पांस्वादिकं चतुःषष्टिः ॥१०॥ रत्नकोशे— आमे वा मृत्पात्रे श्वभ्रस्थे दीपवर्तिरभ्यधिकम्।ज्वलति दिशि यस्य शस्ता सा भूमिस्तस्य वर्णस्य ॥११॥ नारदः— तथा निशादौतत्कृत्वा पानीयेन प्रपूरयेत्। प्रातर्दृष्टे जले वृद्धिः समं पङ्के व्रणे क्षयः ॥१२॥ माण्डव्यः— जलान्तं प्रस्तरान्तं वा पुरुषान्तमथापि वा। क्षेत्रं संशोध्य चोद्धृत्य शल्यं सदनमारभेत् ॥१३॥

अथ स्तम्भः।

ब्रह्मशम्भुः— सूत्रभित्तिशिलान्यासं स्तम्भस्याऽऽरोपणं सदा।पूर्वदक्षिणयोर्मध्ये कुर्यादित्याह कश्यपः ॥१॥ शार्ङ्गधरः—प्रासादेषु च हर्म्येषु गेहेष्वन्येषुसर्वदा। आग्नेय्यां प्रथमं स्तम्भं स्थापयेद्विधिना ततः ॥२॥ वराहः—दक्षिणपूर्वे कोणे कृत्वा पूजां शिलां न्यसेत्प्रथमाम्। शेषाः प्रदक्षिणेन स्तम्भाश्चैवं प्रतिष्ठाप्याः ॥३॥ अग्निर्वसति वै काष्ठे तद्दिशि प्रथमं सदा। न्यसेत्काष्ठमयंस्तम्भं काष्ठकृत्येष्वयं विधिः ॥४॥ छत्रस्रग्गन्धयुतः कृतधूपविलेपनः समुत्थाप्यः। स्तम्भस्तथैव कार्यो द्वारोच्छ्रायः प्रयत्नेन ॥५॥ उत्पलः—स्तम्भोपरियदा घूककाकगृध्रादिपक्षिणः। व्यालादयश्च तिष्ठन्ति तदा कर्तुर्न शोभनम् ॥६॥तस्मात्स्तम्भोपरि च्छत्रं शाखां फलवतीं तु वा। धारयेदथवा वस्त्रं बुध्ने रत्नानिनिक्षिपेत् ॥७॥

इति स्तम्भः।

_____

अथाऽऽयाः।

नारदः— ध्वजो धूमोऽथ सिंहः सौरभेयः खरो गजः।उष्टश्चेति क्रमेणैतदायाष्टकमुदाहृतम् ॥१॥ दैवज्ञवल्लभः— पूर्वादितः स्युर्ध्वजधूमसिंहश्वगोखराख्यद्विरदाः क्रमेण।उष्ट्रस्तथाऽऽयाःस्वपदे विधेयाश्चत्वारएषां विषमाः प्रशस्ताः॥२॥ ध्वजः पदे केसरिणो विधेयो ध्वजो मृगारिश्च पदे गजस्य। पदेगजस्यध्वजकेसरीभा वृषस्तु नान्यत्र पदात्स्वकीयात् ॥३॥ गर्गः—सर्वद्वारे ध्वजो देयःपश्चिमास्यं विना हरिः। प्राङ्मुखे दक्षिणस्यैव गजः पूर्वमुखे वृषः ॥४॥ वास्तुप्रदीपे— खेटकर्षटकोटेषु वृषः सिंहो गजः शुभः।वापीकूपतडागादौ गजो देयो विचक्षणैः॥५॥ आसने योजयेत्सिंहं शयने चैव कुञ्जरम्।वृषंभोजनपात्रे च दद्याच्छत्रादिषुध्वजम् ॥६॥ महानसेऽग्निशालायां गृहे चाग्न्युपजीवनम्।धूमं दद्यात्तथा श्वानं यवनान्त्यजकगृहे ॥७॥खरो वेश्यागृहे योज्यो ध्वाङ्क्षःपक्षिपतेर्गृहे। वृषं सिंहं गजं दद्यात्प्रासादे पुरमन्दिरे ॥८॥ शिल्पशास्त्रे वस्त्रजे धर्मशालायां कुम्भे स्तम्भे ध्वजे ध्वजः। गोगजौभूगृहे चैव साधारणगृहे शुभौ ॥९॥ गाने180 शस्त्रे रथे सिंहो भाण्डागारे शुभो गजः। धान्याम्बुस्नानगोश्वेभशालायांवृषभःशुभः ॥१०॥ नाद्य(ट्य)भोगोद्वाहवेद्यां गजसिंहवृषाःशुभाः। सर्वे स्वाभिमुखाः श्रेष्ठा मध्यमेहे पराङ्गुखाः ॥११॥ ध्वजे परास्यं विप्राणां राज्ञां सिंहेऽप्यु-

दङ्मुखम्। गजेशूद्रस्य याम्याशं वृषेपूर्वमुखं विशः ॥१२॥ गर्गः—कीर्तिः शोकोजयो वैरं धनं निर्धनता सुखम्। रोगश्चेतिगृहारम्भे ध्वजादीनां फलं क्रमात्॥१३॥ ज्योतिष्फलोदये—अग्रजानां ध्वजायः स्याद्ध्वजकुञ्जरगोमृगाः। क्षत्रस्य ध्वजसिंहेभा वैश्यस्य शुभदाः स्मृताः ॥१४॥ ध्वजो मृगादिः शूद्राणां सर्वेषांवृषभः शुभः।हीनजातेः समा देयाः सूक्ष्मकृत्येऽङ्गुलात्मकः ॥१५॥ कर्कवृश्चिकमीनानां ध्वजायःशुभदो मतः। वृषभायः शुभः प्रोक्तो मेषसिंहधनुर्भृताम् ॥१६॥तुलामिथुनकुम्भानां गजायो वाञ्छितप्रदः। वृषकन्यामृगाणां च सिंहायःशुभदो भवेत् ॥१७॥ वादरायणः—विस्तारगुणितं दैर्घ्यं गृहक्षेत्रफलं भवेत्। तत्पृथग्वसुभिर्भक्तं शेषमायो ध्वजादिकः ॥१८॥ अष्टनिघ्नेक्षेत्रफले महृतेशेषमत्र भम्।मेषभक्ते181 व्ययः शेषमायादल्यो व्ययः शुभः ॥१९॥ भुपालः—शान्तिः पौरोद्यातहर्षः182 कन्तिः श्रीश्चाविसंज्ञकाः। व्ययनामान्यथाशेषाः क्रमादिन्द्रो यमो नृपः ॥२०॥ गर्गः—गृहनामाक्षरक्षेत्रफलव्यययुतीर्हरेत्। त्रिभिःशेषांशको ज्ञेयो मध्यनोऽत्र मृतिप्रदः ॥२१॥ निजप्राद्गृहभं याबद्गृहभाग्निजमंतथा।वेदघ्नं विभजेच्छैलैःक्रमाच्छेषं धनव्ययौ ॥२२॥ ज्योतिःसागरे— तारास्यात्सद्मभस्वामिधिष्ण्यैक्यं नवभाजितम्।उद्वाहवद्राशिकूटं विचार्यं स्वामिगेहयोः ॥२३॥ गर्गः—अश्विन्यादित्रयं मेषे सिंहे प्रोक्तं मधात्रयम्।मूलादित्रितयं चापे शेषभेषु द्वयं द्वयम् ॥२४॥ वृत्तशते—कार्या धिष्ण्यगृहैर्गृहेशगृहयोरुद्वाहवत्कल्पना नीडं यद्विषमायगं शग्निबले ताराबले संयुतम्। कार्ये तच्छुभदंकरैर्यदि गुणाः सर्वेऽपि न स्युस्तादा कुर्याज्ज्योतिषोर्कोऽङ्गुलादिकमिहक्षिप्त्वाविहायाथवा ॥२५॥ इष्ठायनक्षत्रानयने ह्मालुगिदैवज्ञस्यसूत्रं—व्येकेष्टर्क्षहता द्विबाणशशिनो १५२ त्यष्टा १७ युतास्तेऽपि च व्येकेष्टायहतैकनाग ८१ सहिताः षष्मूर्छनाभि २१६ र्हृताः।शेषंक्षेत्रफलं भवेदभिमतं स्वेष्टायनक्षत्रजं स्वाद्दैर्घ्यंतदपीष्ठविस्तृतिहृतं दैर्घ्योद्धृतं विस्तृतिः ॥२६॥ मेङ्गनाथदैवज्ञस्य सूत्रम्—इष्टभात्षष्टिवातेआयस्तेनोनिष्टका।त्रिहृल्लघ्वाहतागाश्वियुतेचेष्टायभंभवेत् ॥२७॥ रत्नकाशे—क्षेत्रफले गजगुणिते खयम २० भाजिते भवत्यायुः। आयुषि पञ्चविभक्तं183 क्रमान्महाभूतविश्लेषः ॥२८॥ बादरायणः—द्वारादेकंद्वितयं वेदा वसवः प्रदक्षिणं दिक्षु। शालादिकाङ्कयोगःसैको वेश्म ध्रुवादिभवेत् ॥२९॥ ध्रुवं धान्यं जयं नन्दं खरं कान्तं मनोरमम्।सुमुखं दुर्मुखं क्रूर184सुपक्षं धनदं क्षयम् ॥३०॥ आक्रन्दं विपुलं चैव विजयं चेति षोडश।

गृहनामाक्षराण्यष्ट गोभवार्कमनुत्रये ॥३१॥ शेषे त्रीणि नगे वेदाः शिष्टाङ्केष्वक्षरद्वयम्।चतुर्भिर्गुणितं क्षेत्रफलं षोडशभिर्भजेत्। शेषं ध्रुवादिकं ज्ञेयं सद्मनामयथाक्रमम् ॥३२॥ ब्रह्मशंभुः—श्रीर्धान्यं विजयो वृद्धिः पुष्टिः185 सन्मान्यता यशः। गोत्रवृद्धिः समस्तर्धिर्नवानां क्रमतः फलम् ॥३३॥ आयासो मनसःशोकः कलहो व्याधिपीडनम्। भयं ज्ञातेर्मृतिर्नाशः सप्तानामधमं186 फलम् ॥३४॥ चिन्तामणौ—भूर्भूर्दौद्वौकृता वेदा अष्टावष्टौ गुरुर्लघुः। स्थाप्यः सद्ममुखाच्छालालघुस्थानेऽष्ट वेश्मसु ॥३५॥ नारदः—गुरोरधो लघुः स्थाप्यः पुरस्तादूर्ध्ववन्यसेत्। गुरुभिः पूरयेत्पश्चात्सर्वलब्धविधिर्विधिः187 ॥३६॥ कुर्याल्लघुपदेऽलिन्दं गृहद्वारात्प्रदक्षिणम्। मुखादिगेष्वलिन्देषु गृहभेदास्तु षोडश188 ॥३७॥ग्रन्थविस्तरभीत्याऽत्र नन्द्यावर्तादिकानि च। घातविस्मरकारीणि नोक्तान्यत्र गृहाणि च ॥३८॥ वास्तुप्रदीपे—गृहेषु कर्महस्तेन मानं स्वामिकरेणवा।देवादीनां तु धिष्ण्येषु कर्महस्तेन केवलम् ॥३९॥ कर्महस्तश्चतुर्विंशत्यङ्गुलो मुनिभिः स्मृतः। धातुजो देशदैवत्यो यद्वा यज्ञीयवृक्षकः ॥४०॥दैवज्ञवल्लभः—न हस्तपातेन गुणान्वितं स्याद्यदा तदा तद्गुणितोक्तयुक्त्या। दत्त्वाऽथ हित्वा यदि चाङ्गुलानि प्रसाधयेत्क्षेत्रफलं189 शुभाय ॥४१॥ रत्नकोशे—करमानेन सर्वे न यदि स्युस्ततोऽङ्गुलयवादि।दत्त्वाऽथवा विहाय क्षेत्रफलंसाधयेद्गणितयत् ॥४२॥ वास्तुतन्त्रे— यवोदरैरष्टभिरङ्गुलं स्याद्यद्वाकरोऽङ्गुष्ठकवृत्तखण्डम्। कर्तुः कराब्ध्यश्विलवोन्मितं वा ग्राह्यं किलैष्वन्यतमं गृहेऽत्र ॥४३॥क्षेत्रस्य चतुरस्रस्य समस्याप्यसमस्य च। फलं प्रसाधायेत्प्राग्वद्वृत्ताद्येआयउच्यते ॥४४॥ श्रीधराचार्यः—वृत्तव्यासस्य कृतेर्मूलं परिधिर्भवेद्दशगुणायाः।व्यासार्धवर्गवर्गात्क्षेत्रफलं दशगुणान्मूलम् ॥४५॥ लीलावत्यां—व्यासस्य वर्गेभनवाग्निनिघ्ने सूक्ष्मं फलं पञ्चसहस्र ५००० भक्ते। रुद्राहते शक्र190 १४ हृतेऽथवा स्यात्स्थूलं फलं संव्यवहारयोग्यम् ॥४६॥ रत्नकोशे—विस्तारषोडशांशःसचतुर्हस्तो भवेद्गृहेष्वायः191। द्वादश वा गृहमाने भूमौ भूमौ समस्तानाम् ॥४७॥व्यासस्य षोडशांशः सर्वेषां सद्मनां भवति। पक्वेष्टकाकृतानां दारुमयाणां तुनैव कल्प्योऽसौ ॥४८॥ व्यासगृहाणि च विद्याद्विप्रादीनामुदग्दिशाद्यानि।विशतांयथा भवनं भवन्ति तान्येव दक्षिणतः ॥४९॥ दैवज्ञवल्लभ—अलिन्दनिर्व्यूहविनिर्गमाद्याश्चतुर्दिशं ये गृहभूषणाय।आयादिकं तेषु न चिन्तनीयं यतो न ते

वास्तुपरिग्रहाः स्युः ॥५०॥ क्षेत्रे पादतले पीठे भित्तौ स्तम्भतलोच्छ्रये।द्वांगदौचैकमेवाऽऽयं यथैवोक्तं निवेशयेत् ॥५१॥ वसिष्ठः—एकादशयवादूर्ध्वंयावत्खत्रिंशहस्तकम्192। यावदायादिकं चिन्त्यं तदूर्ध्वं नैव चिन्तयेत् ॥५२॥चिन्तामणौ— यत्र दैर्घ्यं गृहादीनां द्वात्रिंशद्धस्ततोऽधिकम्। न तत्र चिन्तयेद्धीमान्गणनायां व्ययाधिकान् ॥५३॥ राजमार्तण्डे—आयव्ययौ मासशुद्धिं चिन्तयेन्नतृणगृहे।शिलान्यासादि नो कुर्यात्तथाऽगारे पुरातने ॥५४॥

इत्यायादिनिर्णयः।

_____

अथ निषिद्धग्राह्यकाष्ठानि।

व्यासः— अन्यवेश्मस्थितं दारु नैवान्यस्मिन्प्रयोजयेत्। न तत्र वसते कर्तावसन्नपि न जीवति ॥१॥ समरङ्गणे—इष्टकालोष्टपाषाणमृत्तिका जीर्णमायसम्।तृणं पत्रं बुधैः प्रोक्तं दारु नूत्नं गृहाय वै ॥२॥ शार्ङ्गधरः—नूतने नूतनं काष्ठं जीर्णे जीर्णं प्रशस्यते। जीर्णे च नूतनं श्रेष्ठं नो जीर्णंनूतने शुभम् ॥३॥वास्तुशास्त्रे—श्रीपर्णी रोहिणी शाकं सर्जश्च सरलाः शुभाः। पतङ्गलांध्रशालाख्यास्तालार्जुनकर्शिशपाः ॥४॥ चन्दनाशोकबदरीमयूकाश्च कदम्बकाः। प्रशस्ताश्च शमीनिम्बविल्यवर्जंगृहान्तिके ॥५॥ गृहे दारुगुणैर्युक्ते गृहकर्माणि(ति) युज्यते। गृहे काष्ठं समं श्रेष्ठमलिन्दे विषमं शुभम् ॥६॥ नारदः—प्लक्षोदुम्बरचूताख्या निन्वस्नुहिविभीतकाः।दुग्धाः कण्टकिनो वृक्षा वटाश्वत्यकपित्थकाः ॥७॥ अगस्तिशिशुतालाख्यास्तिन्तिणीकाश्चनिन्दिताः। अन्येच गृहनिर्माणे योजनीयाः समा द्रुमाः ॥८॥ वराहः— पितृवनमार्गसुरालयवल्मीकोद्यानतापसाश्रमजाः। चैत्यसरित्संगमसंभवाश्च घटतोयसिक्ताश्च ॥९॥ कु़ञ्जानुजातवल्लीनिपीडिता वज्रमारुतोपहताः। स्वपतितहस्तिनिपीडितशुष्काग्निप्लुष्टमधुनिलयाः ॥१०॥ तरवो वर्जयितव्याः शुभदाः स्युः स्निग्धपत्रकुसुमफलाः। सुरदारुचन्दनसमा मधूकतरवः शुभा द्विजातीनाम् ॥११॥ क्षत्रस्यारिष्टास्त्वश्वत्थखदिरबिल्वावृद्धिकराः।वैश्यानां जीवखदिरकसिन्धूकचन्दनाश्च शुभफलदाः ॥१२॥ तिन्दुककेसरसर्जार्जुनोत्थशालाश्चशूद्राणाम्।सर्वेषां वाशस्ताः सर्वे वृक्षाश्च निन्दिता ये च ॥१३॥ वृक्षच्छेदने प्रार्थना—यानीहभूतानि वसन्ति तानि बलिं गृहीत्वा विधिवत्प्रयुक्तम्। अन्यत्र वासं परिकल्पयन्तुक्षमन्तु तान्यद्यनमोऽस्तु तेभ्यः ॥१४॥

इति निषिद्धग्राह्यकाष्ठानि।

अथ द्वारनिर्णयः।

नारदः—नभस्यादिषु मासेषु त्रिषु त्रिषु यथाक्रमम्। पूर्वादिदिक्शिरो वास्तुकुर्यात्तद्दिङ्मुखं गृहम् ॥१॥ प्रतिकूलमुखं गेहं दुःखशोकभयप्रदम्। सर्वतोमुखगेहानामेष दोषो न विद्यते ॥२॥ आयामेषु चतुर्दिक्षु प्रागादिषु चसत्स्वपि। अष्टावष्टौ प्रतिदिशं द्वाराणि स्युर्यथाक्रमात् ॥३॥ प्रदक्षिणक्रमात्तेषाममूनि च फलानि वै। हानिर्निःस्वत्वमर्थाप्तिर्नृपपूजा महद्धनम् ॥४॥ अतिचौर्यमतिक्रोधोभीतिर्दिशि शचीपतेः। निधनं बन्धनं भीतिरर्थाप्तिर्धनवर्धनम् ॥५॥ अनातङ्कं व्याविभयं निःस्वत्वं दक्षिणादिशि। पुत्रहानिः शत्रुवृद्धिर्लक्ष्मीप्राप्तिर्धनागमः ॥६॥ सौभाग्यमतिदौर्भाग्यं दुःखं शोकश्च पश्चिमे। कलत्रहानिर्निःस्वत्वं हानिर्धान्यवनागमः ॥७॥ संपद्वृद्धिर्महाभीतिरामयो दिशि शीतगोः।एवं गृहादिषु द्वारं विस्ताराद्द्विगुणोच्छ्रितम् ॥८॥ इति प्रदक्षिणद्वारफलमीशानकोणतः। मूलद्वारस्य चोक्तानि तान्यत्रैतानि योजयेत्। पश्चिमे दक्षिणेवाऽपि कपाटं स्थापयेद्गृहे ॥९॥ मण्डव्यः—नवभागं गृहं कुर्यात्पञ्चभागं तुदक्षिणे। त्रिभागं वामतः कृत्वा शेषे द्वारं प्रकल्पयेत् ॥१०॥ वराहः—दैर्घ्येनवांशाः पदमत्र सव्याद्द्वारं शुभं प्राक्त्रिचतुर्थभागे। चतुर्थषष्ठे दिशि दक्षिणस्यां पञ्चाच्चतुष्पञ्चमकेतथोदक् ॥११॥ ज्योतिष्फलोदये—कुलीरालिझपाणांच पूर्वद्वारं शुभावहम्।कन्यामकरयुग्माणां दक्षिणद्वारमिष्टदम् ॥१२॥ तुलाकुम्भवृषाणां च पश्चिमाभिमुखं स्मृतम्।सौम्यद्वारं शुभाय स्यान्मेषसिंहधनुर्भृताम् ॥१३॥ मार्गतरुकोणकूपस्तम्भभ्रमविद्धमशुभं द्वारम्। सद्मोच्छ्रायाद्द्विगुणं त्यक्त्वा भूमिं न दोषाय ॥१४॥ च्यवनः— स्वयमुद्घाटिते रोगः पिहिते च कुलक्षयः।मानाधिकेन दिग्भ्रान्तिर्द्वारेनीचे सुखक्षयः ॥१५॥ शार्ङ्गधरः—द्वारस्योपरि यद्द्वार द्वारं द्वारस्य संमुखम्। न कार्यंव्ययदं यच्च संकटंतद्दरिद्रकृत् ॥१६॥ वराहः—याम्यादिष्वशुभफला जातास्तरवः प्रदक्षिणेनैते। उदगादिषु प्रशस्ताःप्लक्षवटोदुम्बराश्वत्थाः ॥१७॥ आसन्नाः कण्टकिनो रिपुभयदाः क्षीरिणोऽथ नाशाय। फलिनः प्रजाक्षयकरा दारुण्यपि वर्जयेत्तेषाम् ॥१८॥ छिन्द्याद्यदिन तरूस्तांस्तदन्तरे पूजितान्त्यसेदम्यान्। पुन्नागाशोकारिष्टव-कुलपनसाञ्छमीप्लक्षान्॥१९॥ संवर्धयेद्यदिगृहं ततः समन्ताद्धि वर्धयेत्तुल्यम्।

एकदेशे न दोषः प्रागथ वाऽप्युत्तरे कुर्यात् ॥२०॥ वास्तुशास्त्रे—द्वारं चतुर्विधं प्रोक्तं वास्तुसंक्रान्तिभावजम्।कृत्वा चान्यतमं मुख्यं गवाक्षाद्यैः पराणि च॥२१॥ बहुद्वारेष्वलिन्देषु न द्वारनियमः स्मृतः। तथोपसदने जीर्णे द्वारेसंधारणेऽपि च ॥२२॥ रत्नकोशे—अल्पदोषं गुणज्येष्ठं दोषाय न भवेद्गृहम्।आयव्ययौप्रयत्नेन विरुद्धं भं च वर्जयेत् ॥२३॥ कर्किनक्रहरिकुन्भगतेऽर्केपूर्वपश्चिममुखानि गृहाणि। तौलिमेषवृषवृश्चिकयाने दक्षिणोत्तरमुखाणिगृहाणि ॥२४॥

इतिद्वारनिर्णयः।

_____

अथ गृहनियमः।

नारदः—स्नानागारं दिशि प्राच्यामाग्नेय्यांपचनालयम्।याभ्यायां शयनागारं नैर्ऋत्यां वस्त्रमन्दिरम् ॥१॥ प्रतीच्यां भोजनगृह वायव्यां पशुमन्दिरम्।भाण्डकोशं तूत्तरस्यामीशान्यां देवमन्दिरम् ॥२॥ अन्यच्च— देवकुट्टनसंस्थानक्षीर- -पानाद्यशालिकाः। शय्यामूत्रास्त्रतद्विद्याभोजना मङ्गलाश्रयाः ॥३॥ धान्यस्त्रीभोगवित्तं च (संपत्ति) शृङ्गगरायतनानि च। ऐशान्यादिक्रमात्तेषां गृहनिर्माणकंशुभम् ॥४॥ लल्लः—पूर्वस्यां श्रीभवनं याम्यायां रतिगृह विधातव्यम्।भोजनभवनं पश्चादुत्तरतश्चापि धनभवनम् ॥५॥ ऐशान्यां देवगृहं महानसंचापि कार्यमाग्नेय्याम्। नैर्ऋत्यां भाण्डोपस्करार्थभवनानि मारुत्याम् ॥६॥ प्राच्यादिस्थे सलिले सुतहानिः शिखिभियं रिपुभयं च। स्त्रीकलहः स्त्रीदौष्ट्यं नैःस्व्यं चिन्ताऽऽत्मजविवृद्धिः ॥७॥ नात्युच्छ्रितं नातिनीचं कुड्योत्सेधं यथारुचि।गृहोपरिगृहादीनामेवं सर्वंविचिन्तयेत् ॥८॥

इति गृहनियमः।

_____

अथ ग्रामदिङ्नियमः।

व्यवहारसारे— अलिमीनाङ्गनाः कर्किर्धनुस्तौलिः क्रियो घटः। पूर्वतो न वसेन्मध्ये युग्मं सिंह वृषोमृगः ॥१॥ भूपालः—वर्गेशास्तार्क्ष्यमार्जारसिंहाश्वाःसर्वमूषकाः। इभैणौपूर्वतस्तेषां स्वर्गात्पञ्चमो रिपुः ॥२॥ स्वंवर्गं द्विगुणंकृत्वा परवर्गे नियोजयेत्। अष्टभिस्तु हरेद्भागं योऽधिकःस ऋणी भवेत् ॥३॥ ज्योतिःसागरे—द्वारंसपञ्चधर्मस्य मीनादेरप्रदक्षिणम्। केऽप्याहुरथ वर्गाणां स्वस्थाने शुभदं गृहम् ॥४॥ एकभेसप्तमेग्रामे वैरं हानिस्त्रिषष्ठगे।तुर्याष्टद्वा-

दशे रोगः शेषस्थाने भवेत्सुखम् ॥५॥ पञ्चमो नवमो ग्रामो द्वितीयो वायदा भवेत्। दशमैकादशौ श्रेष्ठौमनुष्याणां शुभावहौ॥६॥ चतुर्थस्त्वष्टमोग्रामो द्वादशो वा यदा भवेत्। यत्रैवोत्पद्यते ह्यर्थस्तत्रैव विलयंव्रजेत् ॥७॥ जन्मराशिस्थितो ग्रामस्त्रिषट्सप्ताष्टमो भवेत्। स्वकीयार्थविनाशाय संतापोऽस्ति पदे पदे ॥८॥ भवनपुरग्नामाणां ये कोणास्तेषु निवसतां दोषाः। श्वपचाद्योऽन्त्यजाद्यास्तेष्वेव विवृद्धिमायान्ति ॥९॥

इति ग्रामदिङ्नियमः।

_____

अथ वास्तुनिवेशमुहूर्तविचारः।

रत्नमालायां— कर्मसिद्धिसुखायूंषि निमित्तशकुनादिभिः। ज्ञात्वा प्रष्टुर्गृहारम्भेकीर्तयेत्समयं बुधः ॥१॥ लल्लः —कालनरस्य यदङ्गं सौम्यग्रहवीक्षितं युतंवाऽपि। तच्चेत्स्पृशति प्रष्टा तदाऽस्य निर्माणमादेश्यम् ॥२॥ बादरायणः— वैशाखे फाल्गुने पौषे श्रावणे मार्गशीर्षके।सूत्रारम्भः शिलान्यासः स्तम्भारम्भःप्रशस्यते ॥३॥ ज्योतिस्तत्वे— पूर्वापरास्यं तु नभोन्त्यपौषे याम्योत्तरास्यं सहसिद्वितीये। कार्यंगृहं जीवबुधर्क्षगार्कंनीचास्तगौजीवसितौ च हित्वा ॥४॥रत्नमालायाम्— आषाढचैत्राश्वयुजोर्जमाघज्येष्ठेषु सप्रौष्ठपदेषु नूनम्। निकेतनानांघटनं नृपाणां योगेश्वराचार्यमते निषिद्धम् ॥५॥ दैवज्ञवल्लभे—शोको धान्यंपञ्चता निष्पशुत्वं स्वाप्तिर्नैःस्व्यं संगरे भृत्यनाशः। स्वश्रीप्राप्तिं वह्निभीतिं चलक्ष्मीं कुर्युश्चैत्राद्या गृहारम्भकाले ॥६॥ नारदः—सौम्यफाल्गुनवैशाखमाघश्रावणकार्तिकाः। मासाः स्युर्गृहनिर्माणे पुत्रपौत्रधनप्रदाः ॥७॥ वृद्धनारदः—आरम्भं च समाप्तिं वा प्रासादपुरसद्मनाम्।उत्थिते केशवे कुर्यान्न प्रसुप्ते कदाचन ॥८॥ विश्वंभरशास्त्रे—शस्तं पशुगृहं ज्येष्ठेऽप्याश्विने धान्यनीडकम्।पानीयशालिका माघे चैत्रे धारागृहं तथा ॥९॥ गर्गः—त्र्युत्तरामृगरोहिण्यांपुष्ये मैत्रे करत्रये।धनिष्ठाद्वितये पौष्णे गृहारम्भः प्रशस्यते ॥१०॥ रत्नकोशे—पुष्यध्रुवमृदुहस्तस्वातीधनिष्ठासु वारुणे चैव।सूत्रारम्भादिविधिः कर्तव्यश्चोक्तगुणलग्ने ॥११॥ नारदः—मृदुध्रुवक्षिप्रभेषु रिक्तामार्कारवर्जिते। दिने शुद्धेऽष्टमे लग्नेशुभे शङ्कुं विनिक्षिपेत् ॥१२॥ सूर्याङ्गारकवारांशा वैश्वानरभयप्रदाः। इतरग्रहवारांशाः सर्वकामार्थसिद्धिदाः ॥१३॥ शार्ङ्गधरः—मृदुध्रुवकरस्वातीपुष्यवासववारुणैः। सूत्रारम्भो गृहादीनां स्थाप्यः स्तम्भो न पञ्चके॥१४॥ माण्डव्यः—पञ्चकेषु च धिष्ण्येषु न कुर्यात्स्तम्भमुच्छ्रयम्। क्षेत्रसूत्रशिलान्यासप्राकारादि

समारभेत् ॥१५॥ रत्नमालायां—पुष्यध्रुवमृदुस्वातीहस्तवासववारुणैः। प्रथमोवेश्मनां तत्र प्रारम्भः सद्भिरिष्यते ॥१६॥ व्यवहारसारे—शिलान्यासः प्रकर्तव्योगृहाणां श्रवणे मृगे।पौष्णेहस्ते च रोहिण्यां पुष्याश्विन्युत्तरात्रये ॥१७॥ वास्तुप्रदीपे— अधोमुखैर्भैर्विदधीत खातं शिलास्तथैवोर्ध्वमुखैश्व षष्टम्। तिर्यङ्मुखैर्द्वारकपाट्यानं गृहप्रवेशोमृदुभिर्ध्रुवैस्तु ॥१८॥ अधोमुखैश्च नक्षत्रैः कर्तव्यं भूमिशोधनम्। मृदुध्रुवैः शुभं कुड्यमित्युक्तं विश्वकर्मणा ॥१९॥ सूत्रशङ्कुशिलाद्वारस्तुलाच्छादनपूर्वकम्। कार्यंशस्तं प्रतिष्ठोक्तेर्यथासंभवमादिके॥२०॥ ज्योतिष्प्रकाशे—पातादिकान्महादोषान्हित्वा प्रोक्तेऽत्र भादिके। कर्त्तव्यं शिल्पनिर्माणं योगैरायुष्पदैःशुभैः॥२१॥ दैवज्ञवल्लभे—राशौद्व्यङ्गे स्थिरे लग्ने शुभयुक्ते विलोकिते।निर्माणंभवनस्याऽऽहुः शस्तं कर्मस्थितैः शुभैः ॥२२॥ त्रिषडायगतैः क्रूरैः शुभैःकेन्द्रत्रिकोणगैः। शुभदं गृहनिर्माणं क्रूरो मृत्युकरोऽष्टमः ॥२३॥ रत्नमालायां—शुद्धकेन्द्रनिधनस्थिरोदये सौम्यवर्गमनुजोद्गमेऽपि च। संनिवेश उदितो हि वास्तुनः सूरिभिर्न तु चरोदये क्वचित् ॥२४॥ चक्रे सप्तशलाकाख्ये कृत्तिकाद्यानि विन्यसेत्।ऋक्षं चन्द्रस्य वास्तोश्चपुरः पृष्ठे च नो शुभम् ॥ २५ ॥ ब्रह्मशंभुः – धनलाभः प्रवासः स्यादायुश्चोरभयं क्रमात्। दत्तेऽग्रवामपृष्ठस्थो गृहकर्तुर्निशाकरः ॥२६॥ रवौ गृहस्थो गृहिणीं शशाङ्के सिते धनं देवगुरौ च सौख्यम्। विनाशमायाति बलेन होने नीचस्थिते वाऽस्तमुपागते वा ॥२७॥रत्नमालाटीकायाम्— अस्तदोषोऽत्र नो ग्रात्द्यःप्रतिदैवसि (ति) को बुधैः। नास्तदोषः सदा भानोमैत्रे चेन्दोर्न नीचता ॥२८॥ विशाखायाश्चतुर्थेंऽशे यावत्तिष्ठतिशीतगुः। तावन्नीचगतो ज्ञेयः परतो नैव दोषभाक॥२९॥ एकोऽपि परभागस्थः खस्मरस्थः समान्तरे। धामान्यहस्तगं कुर्याद्वर्णनाथे च दुर्बले ॥३०॥ लल्लः—मित्रस्वोच्चगृहांशस्थैस्तद्वंश्याश्चिरमासते। स्वगैरन्त्यगतैरन्यैर्नीचगैश्चापिनिर्धनः ॥३१॥ वृद्धनारदः—चरलग्ने चरांशे वा रिक्तामारार्कवासरे। लग्नान्त्याष्टारिगे चन्द्रे रन्ध्रे क्रूरे प्रभोः क्षयः ॥३२॥ खरशास्त्रे—त्रिवेदाब्धित्रिवेदाब्धिद्वित्रिभेष्वर्कतः193शशी। श्रीर्ऋद्धिः संस्थितिर्व्याधिर्नैःख्यं श्रीः श्रीर्मृतिर्वृषे ॥३३॥

इति वास्तुनिवेशमुहूर्तविचारः।

_____

अथ गृहायुर्दाययोगाः।

बादरायणः— लग्ने जीवे सुखे शुक्रो बुधः कामे रिपौरविः।रविजः सहजे

नूनं शतायुः स्यात्तदा गृहम् \।\। १ \।\। जीवे बन्ध विधौ योनि लाभगौ भानुभूमिजौ \। मारम्भे यस्य तस्याऽऽयुः समाशीतिः सह श्रिया ॥ २ ॥ दैवज्ञवल्लभेव्योम्निचन्द्रः सुखे जीवो लाभे भौमशनैश्वरौ। यस्य धान्नः समाशीतिस्तस्यसार्धं स्थितिः श्रिया \।\। ३ \।\। रत्नमालायां — स्वोच्चवर्तिनि भृगौ विलमगे देवमन्त्रिणि रसातलेऽथवा\। स्वोच्चगे रविसुतेऽथवाऽऽयगे स्यात्स्थितिथ सुचिरं सहश्रिया \।\। ४ \।\। स्वर्क्षगे हिमगौलग्ने सुरेज्ये केन्द्रसंस्थिते। धनधान्यसुखारोग्ययुतं धाम चिरं भवेत् ॥ ५ ॥ भूपालः- भृगुर्लग्ने बुधो व्योम्नि लाभेऽर्कः केन्द्रगोगुरुः \। यस्याऽऽरम्भेऽस्ति तस्याऽऽयुर्वत्सराणां शतद्वयम् ॥६॥ स्वोच्चगो भार्गवोलग्ने गुरुः स्वोच्चगतः सुखे। शनिः स्वोच्चगतो लाभे सश्रीका वसतिश्विरम् \।\।७\।\।लल्लः - शशधरसुरगुरुभृगुजेष्वनस्तगेषु प्रभौ च लग्नभयोः। स्वक्षेत्रोच्चांशगतैःखचरैः श्रीसौख्यदा भवति ॥ ८ ॥

इति गृहायुर्दाययोगाः।
————————

अथ गृहप्रवेशः।

श्रीपतिः—अथ प्रवेशो नवमन्दिरस्य यात्रानिवृत्तायथ भूपतीनाम् \। सौम्यायनेपूर्वदिने विधेयं वास्त्वर्चनं भूतबलिश्च सम्यक् ॥ १ ॥ व्यवहारतत्त्वे —सौम्यायनेश्रावणमार्गपौपे जन्यर्क्षलग्नोपचयोदयांशे। वामं गतेऽर्के गृहवास्तुपूजां कृत्वाविशेद्वेश्म भकूटशुद्धम् ॥ २ ॥ नारदः**—प्रवेशो मध्यमो ज्ञेयः सौम्यकार्तिकमासयोः। माघफाल्गुनवैशाखज्येष्ठमासेषु शोभनः \।\। ३ \।\। शुभः प्रवेशो देवेज्यशुक्रयोर्दृश्यमानयोः। वस्विज्यवारुणस्वा-तीदस्रमैत्रस्थिरोडुषु ॥ ४ ॥ लल्लःयद्दिङ्मुखं गृहद्वारं तद्द्वारर्क्षेगृहं विशेत्। सूर्यारवारौरिक्तामाकुयोगानपि वर्जयेत् ॥ ५ ॥ नारदःव्यर्कारवारे तिथिषु रिक्तामावर्जितेषु च \। दिवा वा यदि वारात्रौ प्रवेशो मङ्गलप्रदः \।\। ६ \।\। रात्री विशेषमा वसिष्ठःदिवा प्रवेशः शुभदःसुपुत्रपौत्राभिवृद्ध्यै निशि भास्करेन्द्वोः। बलेन मत्स्यध्वजवासरस्य रात्रिं विनासूर्यतिथेश्च रात्रिम् \।\।७\।\। दह्यतेऽत्र विशतां च मन्दिरं वह्निनेन्द्रशिखिवल्लिभयोश्च।व्रध्नभूमिसुतवासरे च तच्छीतरश्मिदिवसेतु वृद्धिदम् ॥ ८ ॥ चन्द्रजार्यसितवासरेषु तु श्रीकरं सुतमहार्थलाभदम्। सूर्यसूनुदिवसे स्थिरप्रदंकिं तु चोरभयमत्र विद्यते ॥ ९ ॥ शार्ङ्गधरः—**पुष्ये मैत्रे मृगे स्वात्यां ध्रुवे त्याष्ट्रेऽर्कपूषभे। वासवे वारुण शस्तं गृहग्रामप्रवेशनम् ॥ १० ॥ भविशेभूतनं हन्यैध्रुवमैत्रैः मुलाप्तये। पुष्यस्वातियुतैस्तैश्चजीर्णेतु वासवद्वये॥ ११ ॥

ज्योतिष्प्रकाशे—गृहारम्भोदितैर्मासैर्धिष्ण्यैर्वारैद्गृहम्। बिशेत्सौम्यायने हर्म्य तृणागारं तु सर्वदा ॥१२॥ राजमार्तण्डे— प्रवेशो नूतने गेहेअपूर्व इति कथ्यते। सपूर्वस्तु प्रयाणान्ते पूर्वापूर्वोऽन्य उच्यते ॥१३॥ ज्योतिष्प्रकाशे—अपूर्वसंज्ञं प्रथमं प्रवेशं यात्रावसाने च सपूर्वमेतम्। द्वन्द्वाह्वयं चाग्निभयादिजातं गृहप्रवेशं त्रिविधं वदन्ति ॥१४॥ अपूर्वः प्रवेशो गृहारम्भधिष्ण्ये विधेयः करो मध्यमोऽत्रेति केचित्। सपूर्वःस्थिरैर्मित्रभैरेव शुद्धैरतोऽन्योऽश्विमूलच्युतारम्भधिष्ण्यैः ॥१५॥ वृत्तशते— भूपानां मृदुभिर्ध्रुर्वैः प्रविशनं यात्रानिवृत्तौशुभं स्याद्भूयोगमनं चरर्क्षलघुभैरुग्रैर्मतिर्भूपतेः। तीक्ष्णैर्भूपकुमारकस्य नृपतेः पत्या विशाखाद्वयेधिष्ण्ये हव्यभुजो गृहे प्रविशतां संदह्यते वह्निना ॥१६॥ रत्नकोशे—पुष्येधनिष्ठामृदुवारुणेषु स्वायंभुवर्क्षेत्रिषु चोत्तरासु। अक्षीणचन्द्रे शुभदो नृपस्य तिथावरिक्ते च गृहप्रवेशः ॥१७॥ वैद्यनाथः—त्र्युत्तरे रोहिणीयुग्मेरेवत्या वासवद्वये।पुष्येत्वाष्टद्वयेमैत्रे प्रवेशोऽत्र मतः करे ॥१८॥ रत्नमालायाः— पुष्येधनिष्ठामृदुवायुमूलस्थिराश्विनीविष्णुजलेशहस्ते। एषुप्रवेशे बहुपुत्रपौत्रैश्चिरं वसेद्भूरिसमागमैश्च ॥१९॥ रत्नकोशे— सर्वग्रहैर्विमुक्तं प्रवेशभं शस्यते प्रयत्नेन। कैश्चित्सौम्यसमेतंशुभप्रदं कीर्तितं मुनिभिः ॥२०॥ भूपालः— मेषे यानं घटे व्याधिर्धान्यहानिर्मृगे गृहम्। विशतां कर्कटे नागः शेषलग्नेषु शोभनम् ॥२१॥ दैवज्ञवल्लभे— निन्दिता अपि शुभांशसमेतास्तौलिमेषःसकुलीराः। कर्तुरौपचयगाश्चविलग्नेराशयः शुभफलाश्चभवन्ति ॥२२॥ लल्लः—व्याधिहा धनहाश्चैववित्तदोबन्धुनाशकृत्। पुत्रहा शत्रुहा स्त्रीघ्नःप्राणहा पिटकप्रदः ॥२३॥ सिद्धिदो धनदश्चैवभवेत्तज्जन्मराशिगः। लग्नस्थः क्रमशो राशिर्जन्मलग्नात्प्रवेशने ॥२४॥ ज्योतिष्प्रकाशे—भूर्वेदपञ्चकं त्रिस्त्रिःप्रवेशे कलशेऽर्कभात्।मृतिर्गतिर्घनं श्रीः स्याद्वैरं सुस्थिरता सुखम् ॥२५॥ अथोच्यतेऽर्कपूर्वाणां पूर्वाचार्यैरुदाहृतम्। फलं लग्नादिसंस्थानां गृहारम्भप्रवेशयोः॥२६॥ ज्योतिष्प्रकाशे—सौदामिन्यादिभिर्भङ्गं कुर्याद्भानुर्विलग्नगः। धनेऽन्नकार्श्यबाहुल्यं सहजे श्रीसुखोदयम् ॥२७॥ सुखसंभ्यः सुहृद्वैरं सुतपीडा सुतस्थितः। षष्ठः कुर्यात्सुखारोग्यं कान्तां वैरं च सप्तगः ॥२८॥ रन्ध्रस्थोऽर्को मृतिं कुर्याद्धर्मे धर्मक्षयं रविः। खम्यो मध्यःसुखं कुर्यादायगो व्ययगः क्षतिम् ॥२९॥ आपण्मासाद्विधुर्लग्नेनाशं कुर्याज्जलादिभिः। धनम्योऽर्थेतृतीयस्थः सौभाग्यं वेश्मगःसुखम् ॥ ३०॥ धीम्योधियं कृशोभ्रान्ति षष्ठः

क्षीणोऽरिभङ्गकृत्। कामगस्तनुते भोगाञ्छिद्रस्थो मृत्युमाशु च ॥३१॥अक्षीणो नवमः सौख्यं दद्यात्स्वस्थःपदं तथा। लाभगो रत्नवस्त्राप्तिं दारिद्र्यंव्ययगः शशी ॥३२॥ सद्मनाशं कुजः कुर्याल्लग्नगो ज्वलनादिना। दृग्रोगं194 स्वेऽथ भूलाभं सहजेऽरिभयं सुखे ॥३३॥ विषशत्रुभयं पुत्रे यशोवृद्धिं रिपौकुजः। भार्यानाशं स्मरे कुर्याद्रन्ध्रे शस्त्रात्कुलक्षयः ॥३४॥ विघ्नं धर्मस्थितःकुर्यात्कर्मनाशं च कर्मगः। लाभगोऽम्बरहेमाप्तिं राजदण्डं व्यये कुजः ॥३५॥आरोग्यं लग्नगेसौम्ये कोशेऽर्थः सहजे सुखम्। सुखे भोगः सुते विद्या रिपौशत्रुक्षयो भवेत् ॥३६॥ द्यूने सौभाग्यमायासो रन्ध्रे धर्मे महद्यशः। खगे ज्ञेराजसन्मानो लाभे द्रव्यं व्यये व्ययः ॥३७॥ आयुर्धनं तनौजीवे धने श्रीरनुजेसुखम्। सुखे स्थैर्यं चिरं पुत्रे पुत्रवृद्धिर्यशो रिपौ॥३८॥ स्मरे भोगोऽष्टमे मध्यो धर्मगः सिद्धिदो गुरुः। व्योम्नि राज्यं धनं लाभे व्यये भवतिसिद्धिदः ॥३९॥ लग्ने शुक्रो निधिं दद्यात्कोशे वित्तमथानुजे। मानोन्नतिंसुखे स्थैर्यंवंशवृद्धिं सुते स्थितः ॥४०॥ रिपौमध्योऽस्तगः कुर्यात्स्त्रीलाभं मध्यमोऽष्टमः। तपस्यन्नं पदे राज्यं लाभे श्रीः सद्व्ययो व्यये ॥४१॥ गृहभङ्गस्तनौ मन्दे नृपकोपाद्वृकादिभिः। धने बन्धुजनाद्धानिः सहजस्थे धनागमः॥४२॥ सुखे सीमोद्भवं वैरं पुत्रे पुत्रात्पराभवः। षष्ठे शत्रुजनाद्ध्वंसःकलत्रेदारदूषणम् ॥४३॥ छिद्रेऽस्त्रादिभयं घोरं धर्मे प्रीतिः कुकर्मणि। मध्ये मन्दोगृहं शून्यं श्रीराये व्यसनं व्यये ॥४४॥ अहेर्वासोऽङ्गगे राहौ केतौभूतादिभिर्गृहे। शेषभावफलं ज्ञेयं राहुकेत्वोरिनारवत् ॥४५॥ जामित्रशुद्धिमुद्वाहेव्रते भाव्यं तु पञ्चमम्। याच्ञायामष्टमं तद्वत्पातालं च प्रवेशने ॥४६॥चतुर्दशी चतुर्थी च नवमी च तथाष्टमी। षष्ठी च द्वादशी चैवशुभकार्ये नशोभनाः॥४७॥ भूताङ्कतत्त्वशक्राङ्कदशनाड्यः क्रमेण तु। तासां वर्ज्याःशुभे कार्ये शेषनाड्यःशुभाय हि ॥४८॥ बृहन्मार्तण्डे—केन्द्रत्रिकोणगृहगैर्बुधजीवशुक्रैःपापैश्चमुक्तिनिधनव्ययकर्ममैश्च।ग्राम्येस्थिरेऽप्युपचये स्वभजन्मलग्ने लग्नाच्छशी ह्युपचये प्रविशेत्स्ववेश्म ॥४९॥ श्रीपतिः—त्रिकोणकेन्द्रगैः शुभैरकण्टकाष्टमान्त्यगैः। असद्ग्रहैः स्थिरोदये गृहं विशेद्बले विधौ ॥५०॥ केन्द्रच्छिद्रव्ययैः शुद्धैः क्रूरैः षट्त्र्यायगैर्गुरौ।लग्ने भृगौ च केन्द्रे वा स्थिरग्राम्योदये विशेत् ॥५१॥ रत्नमालायां—कृत्वा विप्रान्सजलकलशं चाग्रतो वामतोऽर्कं स्नातः सुखीविमलवसनो मङ्गलैर्वैदघोषैः। व्यस्तैर्यात्राकथितशकुनै-

र्द्वारमार्गेण राजाःहर्म्यं पुष्पप्रकररचितं तोरणाढ्यं विशेच्च ॥५२॥वास्तुशास्त्रे—लग्नात्प्रागादितो दिक्षु द्वौ द्वौ राशी नियोजितौ। एकमेकं न्यसेत्कोणे सूर्यंवामे विचिन्तयेत् ॥५३॥ज्योतिष्प्रकाशे— रन्ध्रात्पुत्राद्धनादाया- -त्पञ्चस्वर्केस्थितेक्रमात्। पूर्वाशाभिमुखं गेहं विशेद्वामो भवेद्यतः ॥५४॥ विवाहे व्रतवन्धेऽन्नप्राशने चाभिषेचने। सीमन्तेऽप्यरिगश्चन्द्रोनेष्टः शेषेष्वगर्हितः॥५५॥ ज्योतिषार्णवे—केन्द्रत्रिकोणद्विपदेषु पापाःकुर्वन्ति भीतिंबहुधा क्षतिंच। हानिं व्ययस्था मरणं मृतिस्था रोगं स्वदेशाद्गमनं च मूर्तौ॥५६॥ लाभारिविक्रमगताधनकीर्तिदाः खलाः सौम्यास्त्रिकोणधनविक्रमकेन्द्रलाभगाः।सौख्यार्थलाभजनसख्यसदन्नमानदाःषष्ठे शुभःशुभकरोऽन्यमते न मध्यः ॥५७॥ श्रीपतिः—ततो नृपो विप्रसुहृत्पुरोधसः शिल्पज्ञभूगोलविदश्चभागिनः। धनैश्चरत्नैःपशुभिः समर्चयेत्सदाऽन्धदी- नान्पुरवासिनस्तथा ॥५८॥ कश्यपः—एवं यः प्रविशेद्राजा योगे दैवज्ञकीर्तिते। काले शास्त्रोक्तविधिना शरीरं सुखमश्नुते॥५९॥ नारदः—अकपाटमनाच्छन्नमदत्तबलिभोजनम्।गृहंन प्रविशेदेवंविपदामाकरं हि तत् ॥६०॥

इति गृहप्रवेशः।

अथ वास्तुपूजाविधानम्।

अकृत्वा वास्तुपूजां यः प्रविशेन्नवमन्दिरम्। रोगान्नानाविधान्क्लेशानश्नुतेसर्वसंकटान् ॥१॥ वास्तुपूजाविधिं वक्ष्ये नववास्तुप्रवेशने।हस्तमात्रालिखेद्रेखा दशपूर्वा दशोत्तराः ॥२॥गृहमध्ये तण्डुलोपर्येकाशीतिपदं भवेत्।पञ्चोत्तरान्वक्ष्यमाणांश्चत्वारिंश ४५ त्सुरान्न्यसेत् ॥३॥द्वात्रिंश ३२ द्वाह्यतःपूज्यास्तत्रान्तःस्थास्त्रयोदश १३॥ तेषां स्थानानि नामानि वक्ष्यामि क्रमशोऽधुना ॥४॥ईशानकोणतो वाह्या द्वात्रिंश ३२ त्त्रिदशा अमी।कृपीटयोनिःपर्जन्यो जयन्तः पाकशासनः ॥५॥ सूर्यसत्यौ भृशाकाशौ वायुः पूषाचनैर्ऋतः। गृहक्षतो दण्डधरो गन्धर्वो भृगुराजकः ॥६॥ मृगः पितृगणाधीशस्ततो दौवारिकाह्वयः। सुग्रीवः पुष्पदन्तश्च जलाधीशस्तथाऽसुरः ॥७॥शेषः पापश्च रोगश्चभोगिमुख्यो निशाचरः। सोमः सर्पोदित्यदिती द्वात्रिंशत्त्रिदशा अमी ॥८॥अथेशानादिकोणस्थाश्चत्वारस्तत्समीपगाः।आपःसावित्रसंज्ञश्चजयो रुद्रः क्रमादमी ॥९॥ मध्ये नवपदो ब्रह्मा तस्याष्टौ

च समीपगाः। एकान्तराः स्युः प्रागाद्याः परितो ब्रह्मणः स्मृताः ॥१०॥अर्यमा सविता चैवविवस्वान्वसुधाधिपः। मित्रोऽथ राजयक्ष्मा च तथापृथ्वीधरः क्रमात् ॥११॥ आपवत्सोऽष्टमः पञ्चचत्वारिंशत्सुरा अमी।आपश्चैवाऽऽपवत्सश्च पर्जन्योऽग्निर्दितिः क्रमात् ॥१२॥ पदिकानां च वर्गोऽयमेवं कोणेष्वशेषतः।तन्मध्ये विंशतिर्वाह्याद्विपदास्ते तु सर्वदा ॥ १३॥अर्यमा च विवस्वांश्च मित्रः पृथ्वीधराह्वयः। ब्रह्मणः परितो दिक्षु चत्वारस्त्रिपदाः स्मृताः ॥१४॥ ब्रह्माणं च तथैकद्वित्रिपदानर्चयेत्सुरान्। वास्तुमन्त्रेणवास्तुज्ञो दूर्वादध्यक्षतादिभिः ॥१५॥ ब्रह्ममन्त्रेण वा श्वेतवस्त्रयुग्मं प्रदापयेत्।आवाहनादिसर्वोपचारांश्च क्रमशस्तथा ॥१६॥ नैवेद्यं विविधान्नेस वाद्यैः सहसमर्पयेत्। ताम्बूलं च ततः कर्ता प्रार्थयेद्वास्तुपूरुषम् ॥१७॥ ॐ वास्तुपुरुषः नमस्तेऽस्तु भूशय्याभिरत प्रभो। मद्गृहं धनधान्यादिसमृद्धं कुरु सर्वदा ॥ १८॥इति प्रार्थ्य यथाशक्त्या (क्ति) दक्षिणामर्चकाय च। दद्यात्तत्रैव विप्रेभ्यो भोजनंच स्वशक्तितः ॥१९॥ अनेन विधिना सम्यग्वास्तुपूजां करोति यः। आरोग्यंपुत्रलाभं च धनं धान्यं लभेन्नरः ॥२०॥ वराहः— किमपि किल भूतमभवद्रुन्धानंरोदसी शरीरेण।तदमरगणेनसहसा विनिगृह्याधोमुखं न्यस्तम् ॥२१॥येत्तच यत्र गृहीतं विबुधेनाधिष्ठितं तु तत्रैव।तस्य समयं विधाता वास्तुरितिकल्पयामास ॥२२॥

इति वास्तुपूजाविधानम्।

अथसूतिकागृहनिर्माणविधिः।

गर्गः— वारेऽनुकूले राशौ तु दग्धदोषादिवर्जिते। स्वानुकूलदिशि प्रोक्तं सूतिकाभवनं बुधैः ॥१॥ रत्नकोशे— आसन्नप्रसवे मासि कुर्याच्चैव विशेषतः। तद्वत्प्रसवकाले स्यादिति शास्त्रेषु निश्चयः ॥२॥ लल्लः—पुनर्वसौ नृपादीनांकर्तव्यं सूतिकागृहम्। श्रवणाभिजितोर्मध्ये प्रवेशं तत्र कारयेत् ॥३॥ वसिष्ठः—अथात संप्रवक्ष्यामि सूतिकागृहवेशनम्। मासे तु नवमे प्राप्ते पूर्वपक्षे शुभेदिने। प्रसूतिसंभवे काले सद्य एवं प्रवेशयेत् ॥४॥ गर्गः—रोहिण्यैन्दवपौष्ण्येषु स्वातीवारुणयोरपि।पुनर्वसौ पुष्यहस्तधनिष्ठात्र्युत्तरासु च ॥५॥मैत्रे त्वाष्ट्रे तथाऽश्विन्यां सूतिकागारवेशनम्।स्मृत्यर्थनाशौमृत्युश्चवृद्धिःपुष्ट्यायुरीप्सितम् ॥६॥ मृत्युश्चमरणं पित्रोर्मरणं तु ततस्त्रिषु। मेषादिक्रमशो विद्यात्सूतिकागारवेशनम् ॥७॥ गृहेऽनुकूले राशौ तु रिष्फषष्ठाष्टवर्जिते।

सर्वे चाथशुभाः केन्द्रे पापाश्चत्रिषडायगाः।शुभांशे शुभदृष्टौतु सूतिकावेशनं शुभम् ॥८॥ विष्णुधर्मे पुष्करः— प्रविशेत्सूतिकासंज्ञं कृतरक्षं समन्ततः।सुभूमौनिर्मितं सम्यग्वास्तुविद्याविशारदैः॥९॥ प्राग्द्वारमुत्तरद्वारमथवासुदृढं शुभम्। देवानां ब्राह्मणानां च गवां कृत्वा च पूजनम् ॥ १०॥विप्रपुण्याहशब्देन शङ्खवेणुरवेणच। प्रसूता बहवस्तत्र तथा क्लेशक्षमाश्चयाः॥११॥ विश्वसनीया विप्राश्चप्रविशेयुः स्त्रियश्च तत्। तथाऽनुलेपनैर्धूपैस्तथैवमुपचारयेत् ॥१२॥ आहारैश्चविहारैश्चप्रसवाय सुखं द्विजाः। एरण्डमूलचूर्णेन सवृतेन तथा वृतम्।सुखप्रसवनार्थाय पश्चात्काये195 तु तत्क्षिपेत् ॥१३॥

इति सूतिकागृहनिर्माणविधिः।

अथ प्रसङ्गेन शय्यालक्षणम्।

तत्राङ्गुलमा— पराणुरेणुवालाग्रलिक्षायूका यथाक्रमम्। एकैकमष्टगुणितंयवमध्यं प्रकल्पितम् ॥१॥ श्रेष्ठमष्टयवंसप्तयवं मध्यममङ्गुलम्। हीनं षड्यवमेतेषु यथायोग्यं नियोजयेत् ॥२॥ स्वामिहस्तप्रमाणस्य दलार्धार्धत्रिभागकम्।कर्तुरेवाङ्गुलं तस्याः प्रशस्तं मानकर्मणि ॥३॥ शिल्पशास्त्रे— सपञ्चाशीतिपर्वाणि दैर्घ्येण परिकल्पयेत्। सैकषष्ट्यैव विस्तृत्या मञ्चकः पञ्चविंशतिः ॥४॥एवं शय्या विधातव्या सर्वेषां शयनोचिता। चतुरशीतिपर्वाणि केचिद्दैर्घ्यं प्रचक्षते॥५॥ षष्ट्यङ्गुलानि विस्तारं मञ्चकं हस्तसंमितम्। नैवात्राऽऽयविशुद्धिःस्यात्तस्मादन्यैरुपेक्षितम् ॥६॥ चतुरशीतिकं मानं शय्यायास्तु शतत्रयम्।भूभृतां सुखभोगाप्त्यैकीर्तितं विश्वकर्मणा ॥७॥ आयशुद्धा तथा कार्या यथागोहरिकुञ्जराः। तथैव दोलिकामानं यथाशोभं विधीयते ॥८॥ अस्य विवरणम्३८४ एतान्यङ्गलानि शय्यामानम्। अस्या हस्ताः१६। तोर्ध्वगात्रमानं सार्धहस्तत्रयम्। उभयोर्गत्रयोः सप्त ७ हस्ताः। तिर्याग्गात्रस्यैकस्य मानं सार्धहस्तद्वयम्२। द्वयोर्मानं पञ्चहस्तकम् ५। एकस्य मञ्चकस्योर्ध्वमानं हस्तः १।चतुर्णां हस्तचतुष्टयम् ४। एवं षोडशहस्ता शय्या राज्ञांसुखभोगप्रदा भवति। गात्रन्यस्तपटस्यात्रसंख्या व्याप्ता खकुदिके।शेषे तद्देवता ब्रह्मा विष्णू रुद्रोऽन्तिमो न सन् ॥९॥मानाधिक्ये दरिद्रं स्यान्मातहीने सुखक्षयः। अज्ञात्वा कुरुते शिल्पं शिल्पी दोषमवाप्नुयात् ॥१०॥

इति शय्यालक्षणम्।

अथ शयनविधिः।

शुचिर्लक्ष्मीनृपञ्चास्यंस्मृत्वाऽगस्त्यशिराः स्वपेत्। न प्रतीच्युत्तरशिरा ननग्नोनाऽऽर्द्रपात्स्वपेत् ॥१॥ धान्यगोगुरुदेवाग्निफलकोपरि न स्वपेत्। नहिक्षताजिनकुशकूलच्छायासु पांसुपु ॥२॥ वराहः— धान्यगोगुरुहुता- -शसुराणां नस्वपेदुपरि नाप्यनुवंशम्।नोत्तरापरशिरा न च नग्नोनैव चाऽऽर्द्रचरणः श्रियमिच्छन् ॥३॥ स्वगृहेप्राक्शिराः शेते श्वाशुर्ये दक्षिणाशिराः। प्रत्यक्शिराः प्रवासेतु न कदाचिदुदक्शिराः ॥४॥ सुतल्पे वैदिकैस्तार्क्ष्यमन्त्रैः संरक्ष्य च स्मरेत्। संकटेऽपि च याम्याङ्घ्रिः स्वपेत्सुग्रीवमुच्चरन् ॥५॥ माधवोऽगस्तिरास्तीकःकपिलो मुचकुन्दकः। स्मृत्वैताञ्छ्रीनृसिंहाङ्घ्रिं स्मरन्नुच्छीर्षकं स्वपेत् ॥६॥

इति शयनविधिः।

इति ज्योतिर्निबन्धे गृहारम्भमकरणम्।

अथ राज्याभिषेकप्रकरणम् \।

वसिष्ठः— आधानजन्मेशदशाधिनाथरवीन्दुसौम्येज्यसितैर्बलिष्ठैः। उत्पातदोषादिकवर्जितेषु धराधिपानामभिषेक- माहुः ॥१॥ भूपाभिषेचनं ज्येष्ठाश्रुतिक्षिप्रमृदुध्रुवैः। रिक्ताक्रूरोज्झितैः शस्तं स्थिरोपचयकृत्तनौ ॥२॥ मूलत्रिकोण- -स्वगृहोच्चमित्रगृहस्थितैर्वाऽथतदंशसंस्थैः। शुभे विलग्ने सततं ग्रहेन्द्रा दिशान्ति लक्ष्मीं विपुलां च कीर्तिम् ॥३॥स्वनीचवैरिगृहगैस्तदंशैरस्तंगतैर्वक्रमुपागतैर्वा। पापोदये शोकभयं विकीर्तिं दिशान्ति राज्ञां भृशमम्बराटाः ॥४॥ शीर्षोदये चोपचयेगृहे वा स्वजन्मलग्नादथ लग्नगेऽपि। शुभैर्ग्रहैर्युक्तनिरीक्षितैर्वा पदं स्थिरं स्यात्सततं हि राज्ञाम् ॥५॥ रिक्ताव(याम)मायामथ भौमवारे वर्ज्येषु वारेषु दिनेषुचैवम्।बलेदिने ऋक्षनिशेशयोश्चन नैधने भे त्वभिषेक इष्टः ॥६॥ पापग्रहैःस्वान्त्यगतैश्च निःस्वोरोगी विलग्नोपगतैर्भवेत्सः।पदच्युतः सप्तचतुर्थगैस्तैः पुत्रस्थितैः सर्वसुखैर्विहीनः ॥७॥ भ्रष्टोत्सुकः कर्मगतैरनायुर्मृत्युस्थितैर्वीर्ययुतैः सपापैः।नूनं व्ययाष्टारिगतः शशाङ्कः क्षितीश्वरं हन्ति तदा वली चेत् ॥८॥ त्रिकोणकेन्द्रत्रिधनायसंस्थैस्त्रिषष्ठलाभारिगतैश्च पापैः। षष्ठाष्टलग्नव्ययवर्जितेन चन्द्रेणराज्ञां शुभदोऽभिषेकः ॥९॥ यस्याभिषेके सुरराजमन्त्री लग्ने त्रिकोणे यदिवाभवेत्सः। षष्ठे कुजः कर्मगतश्च शुक्रः स मोदते विक्रमराज्यलक्ष्म्या ॥१०॥

दुश्चिक्मलाभारिगताविनार्की खस्थोऽमरेज्यो यदि बन्धुगो ज्ञः।यस्यात्र योगेक्रियतेऽभिषेकश्चिरायुपस्तस्य पदं स्थिरं स्यात् ॥११॥

इति राज्याभिषेकप्रकरणम्।

अथ यात्राप्रकरणम्।

नारदः— अथो यात्रा यथा नृृणामभीष्टफलसिद्धये। स्यात्तथा तांप्रवक्ष्यामिसम्यग्विज्ञातजन्मनाम् ॥१॥ अज्ञातजन्मनां नृृणां फलाप्तिर्घुणवर्णवत्। प्रश्नोदयनिमित्ताद्यैस्तेषामापिफलोदयः ॥२॥ यात्राविधानं कथयाम्यथातः सर्वैरुपेतस्य गुणैर्जिगीषोः। अतर्किते जन्मनि तस्य याने फलाप्तिरुक्ता घुणवर्णतुल्या ॥३॥ ज्योतिष्प्रकाशे—ज्ञात्वाऽऽयुः कार्यसिद्धिं च निवृत्त्यादि ततोवदेत्। यात्रायाः समयं सम्यग्दृष्ट्वाजन्मदशादिकम् ॥४॥ गर्गः—सद्दशायांशुभा यात्रा ह्यष्टवर्गे शुभा समा। न्यूना तत्काललग्नादौ तिथ्यादावधमा मता॥५॥ रत्नमालायाम्—अज्ञातजन्मनोऽप्यन्यैर्यानं योज्यामिति स्मृतम्। प्रश्नोदयनिमित्ताद्यैर्विज्ञाते सदसत्फले ॥६॥ विद्वज्जनवल्लभे—संप्रेर्यमाणो ह्यवशः शरीरीप्रसद्य दैवेन शुभाशुभेन। ज्योतिर्विदः संनिधिमेत्य तस्मात्प्रश्नोऽप्यतो जन्मसमः196 फलेन ॥७॥ भूपलवल्लभे—सुभूमौ फलहस्तः सन्सुवेषःसुवचा नृपः।पृच्छेच्छुभं तदा वाच्यमन्यथा न शुभावहम् ॥८॥ माण्डव्यः— हस्तास्यस्तनकण्ठोष्ठना- -सागण्डकादिश्रुतीः। अङ्गुष्ठाङ्घ्र्यंसगुह्यानि स्पृशन्पृच्छेच्छुभंवदेत् ॥९॥ भृगुः— याताऽर्कपृष्ठतःपाष्णिग्रहोऽगम्यः पुरः स्थितः। आक्रन्दोऽर्कात्सप्तमस्थस्तत्रत्याः शक्तितस्तु ते ॥१०॥ श्रीपतिः— जन्मराशिरुतजन्मविलग्नं तत्पती उदयगौ यदि वाऽस्तः। व्यायकर्मरिपुभान्युत ताभ्यां शत्रुसंक्षयमवेहितदानीम् ॥ ११॥ इदमप्यरिसंभवं यदाऽऽस्ते हिवुके वा विजयस्तथाऽपि यातुः। शिरसोदयमेति यश्चराशिर्जयकृत्सोऽप्युदये तथेष्टवर्गः ॥१२॥ करोति राशिर्गमनं फलं च चरो विलग्नेशुभदृष्टियुक्तः। स्थिरोदये स्याद्गमनंन यातुः शुभंशुभैर्दृष्टयुतेऽत्र वाच्यम् ॥१३॥ द्विमूर्तिराशावुदयं प्रपन्ने क्रूरग्रहैर्युक्तनिरीक्षिते च। प्रयाति यद्यप्यबुधस्तदानीं निवर्तते शत्रुजनाभिभूतः ॥१४॥ ज्योतिष्प्रकाशे—वाच्यं सभायां सदिति भावि यद्यप्यसत्कलम्। भूभुजे मन्त्रिणेवाऽपि कथनीयं रहःस्फुटम् ॥१५॥ भूपालः—दीप्तः स्वोच्चे स्वभे स्वस्थो

सुपितोऽर्कयुतो ग्रहः।नीचो दीने मित्रभेतु हृष्टः पीडायुतो जितः ॥१६॥रिपुराशिगतस्तप्तः स्वांशे सौम्येक्षितो बली।प्रवृद्धवीर्यः स्वोच्चाभिमुखो नीचाद्विनिर्गतः ॥१७॥ जन्मपो लग्नपश्चैव यात्रेशःस्वदशाधिपः। चिन्तनीयो नृपोयस्मात्तद्वलेन बलान्वितः ॥१८॥ कश्यपः—त्रिकोणोच्चैः शुभैः श्रेष्ठा यात्रामध्या स्वमित्रभे। नीचेऽरिभेऽधमा प्रोक्ता श्रेष्ठाऽरिव्यसनेऽथवा ॥१९॥ज्योतिष्प्रकाशे—चरे शीर्षोदये यानं शुभस्वामियुतेक्षिते। पूर्णनाड्यां तथा ज्ञेयं विपरीतं न शोभनम् ॥२०॥

इति यात्रायां शुभाशुभम्।

अथ यात्रानिवृत्तिकालः।

बादरायणः— उद्गतकलासमूहं परमायुस्ताडितं समुद्धृत्य। मण्डलकलाभिराप्तो वर्षादिरथाऽऽयुषःकालः ॥१॥रत्नावल्यां—षष्टिः षष्टिरथाष्टौ विंशतिरेकाधिकंच वर्षाणाम्। त्रिंशदधिकं च शतं विंशत्या समधिकं चैव ॥२॥उदयोपगत197राशेस्तत्कलाकृत्यलिप्तिकां गुणयेत्। छायाङ्गुलैः पृथक्स्थां हृत्त्वा मुनिभिःशेषम् (?) ॥३॥ ग्रहगुणकारो ज्ञेयो दैवविदा पञ्चविशतिः सैका। मनवोऽष्टौ त्रितयंभावाश्चसूर्यादितो ज्ञेयाः ॥४॥ गुणयित्वैवं प्राग्वद्धृत्वा सौम्यस्य यदिभवेदुदयः। कार्यप्राप्तिः प्रष्टुर्वक्तव्या नेतरे भवति ॥५॥ गुणकारैक्यविभक्तःशेषोऽर्कादेर्विशोधयेद्गुणकान्। यस्य न शुध्यति लग्नं न ज्ञेयस्तद्वशात्कालः ॥६॥भौमदिवाकरशेषे दिवसाः पक्षाश्च भृगुशशिनोः। गुर्ववशेषेमासा ऋतवः सौम्येशनैश्चरेऽब्दाः स्युः ॥७॥ पृथुयशाः—ग्रहः सर्वोत्तमबलो लग्नाद्यस्मिन्गृहेस्थितः।मासैस्तत्तुल्यसंख्याकैर्निवृत्तिं यातुरादिशेत् ॥८॥ चरांशस्ये ग्रहे तस्मिन्कालमेनंविनिर्दिशेत्। द्विगुणं स्थिरभागस्थे त्रिगुणं द्व्यात्मकांशके ॥९॥ गर्गः—यातुर्विलग्नजामित्रभवनाधिपतिर्यदा। करोति वक्रामावृत्तिं कालं तं ब्रुवते परे ॥१०॥

इति यात्रा निवृत्तिकालः।

अथ यात्रायां पञ्चाङ्गशुद्धिः।

श्रीपतिः— निहन्त्युलूको निशिकाकमह्निकाकोऽप्युलूकं हरिमप्सु नक्रः।स्थलेमृगारिर्मकरं यतोऽतो देशस्य कालस्य बलंविचिन्त्यम् ॥१॥

गर्गः— श्रेष्ठाः सिंहाजचापेऽर्के मध्या ज्ञार्कोशिनो भगे। मीनकर्क्यालिगे दीर्घाभार्गेऽर्कः पृष्ठतः शुभः ॥२॥ लल्लः—अथ भवति विजयसमयश्चैत्रे ज्येष्ठे च मार्गशीर्षे च। सद्योऽरिव्यसनेऽपि च महीपतेः शक्तियुक्तस्य ॥३॥भृगुः—याने सूर्योदये बारा दद्युर्हानिंबलक्षयम्। रोगं सौख्यं श्रियं भोगान्सैन्यनाशं क्रमात्फलम् ॥४॥ लल्लः—उपचयकरे ग्रहदिने सिद्धिः क्रूरेऽपि यायिनां भवति। सौम्येऽप्यनुपचयस्थे न भवति यात्रा शुभा यातुः ॥५॥ ज्योतिष्प्रकाशे—जलयात्रा शुभा सोमे युद्धयात्रा शुभा रवौ। पशोर्यानं बुधे त्याज्यं सौमेलोम न चालयेत् ॥६॥रत्नकोशे— एकादशी द्वितीया त्रयोदशी पूर्णिमा तृतीयाच। श्रेष्ठा प्रतिपद्दशमी सप्तमी पञ्चमी याने ॥७॥ बृहस्पतिः—सर्वाः स्युस्तिथयःशस्ताः शुक्लेत्वाद्यद्वयं विना।कृष्णे त्वन्त्यत्रयं चैव षष्ठीं रिक्तां परित्यजेत् ॥८॥ नारदः—षष्ठ्यष्टमीद्वादशीषु रिक्तामावर्जितासु च।यात्रा शुक्लेप्रतिपदि निधनायधनाय च ॥९॥ ज्योतिष्प्रकाशे— श्रुत्यादित्यान्त्ययुग्मार्कमृगमैत्रैर्गतिः शुभा।मध्यमा वारुणं ज्येष्ठात्रयं भाग्यं स्थिरैर्भवेत् ॥१०॥चित्रात्रयाजपादार्द्रायमाग्निपितृसार्पभम्। रिक्तामाद्वादशीः षष्ठी जन्मभं गमनेत्यजेत् ॥११॥ रत्नमालायां—हस्तेन्दुमैत्रश्रवणाश्वितिष्यपौष्णश्रविष्ठाश्च पुनर्वसुश्र। श्रेष्ठानि धिष्ण्यानि नव प्रयाणे त्यक्त्वा त्रिपञ्चादिमसप्तताराः ॥१२॥दैवज्ञवल्लभे—आर्द्राविशाखाबहुलाजयाम्यचित्रामघास्वातिभुजङ्गमानि। प्रोक्तानि याने न शुभप्रदानि शेषाणि नेष्टानि न निन्दितानि ॥१३॥शूलं ज्येष्ठेन्दुमन्दाः प्राक् प्रत्यग्ब्राह्मार्कमार्गवाः। याम्येऽन्त्यपञ्चधिष्ण्येज्या ज्ञारार्यमभमुत्तरे॥१४॥ चन्द्रे मन्दे न च प्राचीं नगच्छेद्दक्षिणां गुरौ। न प्रतीचीं रवौशुक्लेबुधेभौमे न चोत्तराम् ॥१५॥ ज्योतिष्प्रकाशे—नोल्लङ्घ्यावायुवह्निस्था रेखाःसप्तारिकेऽग्निभात्। यदि लग्नविशुद्धिःस्यान्न दुष्टं परिघादिकम् ॥१६॥ गर्गः— प्रागादि सप्त सप्त स्युः कृत्तिकादीनि भानि तु। तत्राग्न्यनिलदिग्रेखांपरिधाख्यां न लङ्घयेत् ॥१७॥ श्रीपतिः– प्रयोजनेष्वात्ययिकेषुभूपतिर्विलङ्घ्यरेखामपि पारिधींव्रजेत्। विहाय दिक्शूलसमाह्वयानुडून्यदि स्वदिग्लग्नविशुद्धिराप्यते ॥१८॥ नारदः—आग्नेय्यां पूर्वदिग्धिष्ण्यैर्विदिश्चैवमेवहि। दिग्राशयः स्युः क्रमशो मेषाद्याश्च पुनः पुनः ॥१९॥ व्यासः—ध्रुवैर्मिश्रैर्न पूर्वाह्णेवासरार्धे न तीक्ष्णभैः। नापरार्धेतथा क्षिप्रैवर्दन्ति गमनं शुभम् ॥२०॥मृदुभिर्नरजन्यादौ निशामध्ये वरोग्रभैः। न चरैः शर्वरीशेषेकुर्वीत गमनं

सुधीः ॥२१॥ गर्गः—पुष्ये मैत्रे करेऽश्विन्यां सर्वाशागमनं शुभम्। सर्वकाले हिता यात्रा हस्ते पुष्ये मृगे श्रुतौ ॥२२॥ त्याज्यप्रकरणे दोषा ये प्रोक्तास्तान्विवर्जयेत्। भद्रा याने परित्याज्या क्षणाश्चनिन्दिताह्वयाः ॥२३॥ बादरायणः— मध्याह्ने सर्वदा ज्ञेयो मुहूर्तोऽभिजिदाह्वयः। तस्मिन्यानं सर्वदिक्षु शुभं याम्यदिशं विना ॥२४॥ रत्नकोशे—अभिजित्संज्ञे धिष्ण्ये श्रवणापादान्तरे भवति। तस्मिंश्च संप्रपातः सर्वार्थान्साधयेन्नित्यम् ॥२५॥ ज्योतिष्प्रकाशे— भद्राकुलिकपाताद्या दोषास्त्याज्याः प्रयत्नतः। लब्ध्वा चन्द्रवलं शुद्धे धिष्ण्ये लग्नेगमः शुभः ॥२६॥क्रान्तिपाते भवेन्मृत्युः कुलिके च महद्भयम्। यामार्धे सति शोकः स्याद्भद्रायां भङ्गमादिशेत् ॥२७॥ व्यसनं मरणं चापि व्यतीपाते च वैधृतौ। दिनक्षये द्युयुद्धौ वा संक्रमे च पराभवः ॥२८॥ हानिः क्रूरयुते भे स्याद्भयं दग्धे च धूमिते। यातुश्चन्द्रवलाभावे यात्रा शस्ताऽप्यनर्थदा ॥२९॥ यात्राशिरोमणौ—ऋते चन्द्रबले पुंसां यात्रा शस्ताऽप्यनर्थदा।व्याख्या गम्भीरशास्त्राणांसंप्रदायं विना यथा ॥३०॥ कलहः सूतिकाशौचे रोगः स्याद्राहुसूतके।तिथिदोषेण संतुष्टिर्वारदोषे मनश्चलम् ॥३१॥ गर्गः—रवीन्द्वयनयोर्यातमनुकूलं शुभप्रदम्। तदभावे दिवा रात्रौ यायाद्यातुर्वधोऽन्यथा ॥३२॥ पूउआनैदपवाईदिक्षु प्रतिपादितः। योगिनी संमुखा त्याज्या याने वा दक्षिणे सदा ॥३३॥ प्राच्यां याने कुजे लाभो मन्देन्द्रोर्दक्षिणे सुखम्। ज्ञे गुरौ पश्चिमे सिद्धिः शुक्रेऽर्के चोत्तरे शुभम् ॥३४॥ रत्नावल्यां—तथ्यां यात्रासिद्धिः करणे न सुखं धनं मुहूर्तवशात्। नक्षत्रेणावश्यं यातुस्थाऽऽयुस्तथा वित्तम् ॥३५॥ वारेण सौमनस्यं शुभेन चन्द्रेण मित्रसंप्राप्तिः। सर्वे गुणाः समुदिता लग्नेनैकेन लभ्यन्ते ॥३६॥ यात्राप्रदीपे— लग्नदोषे तु संप्राप्ते ये कुर्वन्ति प्रयाणकम्। प्रत्यावृत्तिर्भवेत्तेषां यदा व पुण्यदर्शनम् ॥३७॥ रविभाद्दिनभं नगहृदङ्गगुणैर्विडालाडलद्विनगैः। तन्नक्षत्रे यानं विवर्ज्यमिति देवलः प्राहः। वर्ज्या यात्रा युद्धे रोगारम्भे च मङ्गले नैव ॥३८॥ तथा च—रत्नकोशे— दिनकरकरप्रतप्तां मकरादानुत्तरां च पूर्वांच। यायाच्चकर्कटादौयाम्यामाशां प्रतीचीं च ॥३९॥ नक्षत्रसमुच्चये— यात्रायन्त्रहलप्रवाहसमरे198 चौर्ये च संधौ तथा कूपारामतडागवन्धनविधौ पापर्धिदुर्गग्रहे। अश्वभौष्ट्रस्यादिरोहणकृतौत्याज्यं सदैवाऽऽडलं तेनान्यत्र शुभेषु मङ्गलविधौ दोषोन तस्य क्वचित् ॥४०॥ बादरायणः—तिथयः पक्षगुणिताः सप्तभिर्भाजितास्तथा। स्युर्वारा वह्निगुणिता वसुभिश्चैव भाजिताः ॥४१॥

चतुर्गुणानि मान्यङ्गभाजितानि यथाक्रमम्। पीडा स्यात्प्रथमेशून्ये मध्येशून्ये महद्भयम् ॥४२॥ अन्त्ये शून्ये तु मरणं त्रिशून्यरहितं शुभम्। तिथिवासरनक्षत्रमेकैकंस्थापयेत्त्रिधा ॥४३॥ अस्मिन्पक्षे वारे शून्यं नाऽऽयात्येव।पक्षान्तरे— तिथिवासरऋक्षाणां योगं कृत्वा त्रिधा लिखेत्। द्वित्रिवेदैःसंगुणितंसप्ताष्टरसभाजितम् ॥४४॥

अथ पन्था राहुः।

धर्मेऽर्के शशिनस्तदादि तु फलं वैरं जयो भङ्गता लाभश्चेति तथाऽर्थतःक्षयसमत्त्वे लाभवस्त्रागमौ। तद्वत्कामगते रवौभयघने सौख्यं जयः कीर्तितोमोक्षेऽर्के मृतिलाभनिष्फलसमत्वे राहुपन्था इति ॥१॥

इति यात्रायां पञ्चाङ्गशुद्धिः।

अथ यात्रायां दोहदप्रकरणम्।

तिथिवारर्क्षचन्द्रेभ्यो लग्नंकोटिगुणं स्मृतम्। तस्मान्निषिद्धतिथ्यादेर्दोषःस्वल्पतरो मतः ॥१॥ तथाऽपि निन्द्यतिथ्यादाौकृत्वा दोहदकं विधिम्।केवलं लग्नवीर्येण गतो गजा क्षितिं जयेत् ॥२॥ तिथिष्वर्कजलं199 प्राश्यं तण्डुलोदकसर्पिषी। हविष्यं दधि सस्वर्णं तिलाम्भोवीजपूरकम् ॥३॥ भाषाविश्वंभरामूत्रं पिष्टकं तिलपिष्टकम्। कन्दो मूलं तथा शाकं शस्तवृक्षदलानि च ॥४॥मज्जिकां पायसं साज्यं सौवीरं क्वथितं पयः। दधिक्षीरमतप्तं च वारेष्वद्यात्तिलौदनम् ॥५॥ क्रमाद्दस्रगुणाः200३२ षष्टिः ६० खाङ्काः९० खाक्षाः५०खसागराः ४०। खाष्टौ ८० खागाः७० परे प्राहुर्मन्दादेर्भोगनाडिकाः ॥६॥अर्कादौधारयेद्भाले कुङ्कुमं चन्दनं मृदम्। यवान्दधिघृतं तैलं वारशूलापनुत्तये ॥ ७॥ ताम्बूलं चन्दनं मृच्च पुष्पं दधि घृतं खलम्201। वारशूलहराण्यर्काद्दानाद्धारणतोऽदनात् ॥८॥ बृहस्पतिः—सूर्यवारे घृतं प्राश्यं सोमवारे पयस्तथा। गुडमङ्गारवारे च बुधवारे तिलानपि ॥९॥ गुरुवारे दधि प्राश्यं शुक्रवारे यवानपि। माषान्भुक्त्वा शनेर्वारेशूले गच्छन्न दोषकृत् ॥१०॥भक्ष्यान्भुक्तोदितान्कृत्वा यात्रायोगेण गच्छता। प्रियं वदन्रवेर्वारे शय्यामध्युष्यशीतगोः ॥११॥ गयावृत्तोधरासूनोर्वारे ज्ञस्य तु हारधृक्। भस्मधृग्जीववारेस्याच्छित्त्वा षष्टिं भृगोर्दिने ॥१२॥ कलही मन्दवारे च यातुः कृत्यान्यमी

(नु) क्रमात्। भक्ष्यैश्च तिलकैः कृत्यैर्वारदोषो विलीयते ॥१३॥ दैवज्ञवल्लभे—स्विन्नाः स्युः साक्षता मापास्तण्डुलास्तिलसंयुत्ताः। दधि गोपार्षतं मांसंमृगमांसमसृक्ततः ॥१४॥ विलापनं पायसं च वैहङ्गंपिशितं तथा। तिलौदनं षष्टिकान्नं षष्टिकान्नंप्रियङ्गवः ॥१५॥ चित्रान्नममलं यावं कुलित्था मधुसर्पिषी। मूलाम्बु सक्तवःशालिःशाकं मांसं बिडालजम् ॥१६॥ आजं यथेष्टमांसं च सक्तवो माषमिश्रिताः। अश्विन्यादिषु धिष्ण्येषु प्राश्यं वाञ्छितसिद्धये ॥ १७॥ नारदः—कुल्माषांश्चतिलान्नं च दधि क्षौद्रं पयः स्मृतम्। मृगमांसंच तत्सारं पायसं चाषकं मृगम् ॥१८॥शशमांसं च पष्टिक्यं प्रियङ्गुकमपूषकम्। चित्राणुजफलं कूर्मश्वाविदोग्धांच शल्यकम् ॥१९॥ हविष्यं कृसरान्नंच मुद्रान्नं यवपिष्टकम्। मत्स्यान्नं चित्रितान्नं च दध्यन्नं दस्रभात्क्रमात् ॥२०॥ज्योतिश्चन्तामणौ— यमाग्न्यजपदा ह्यार्द्रा पैत्रत्वाष्ट्रत्रये गतिः। त्याज्याऽद्रिविश्वभूपेन्द्रेन्द्रेशभूपेन्द्रजिष्णवः ॥ ७। १३। १६। १४। १४। ११। १६।१४। १४ ॥ २१ ॥ ज्योतिःसागरे— विवर्जयेत्त्वाष्ट्रयमोरगाणामर्धं द्वितीयंगमने जयेच्छुः। पूर्वार्धमाग्नेयमधाद्विदैवं स्वातीमतेनोशनसः प्रशस्तम् ॥२२॥ज्योतिष्प्रकाशे—खास्ताम्बुलग्नगे सूर्ये भुक्तवा यायाद्घृतं तिलान्। क्षीरं च शर्करांशीघ्रं कार्याप्त्यै पूर्वतः क्रमात् ॥२३॥ बृहन्नारदः—गच्छेत्प्राचीं घृतं प्राश्य दक्षिणाशां तिलौदनम्। प्रतीचीं मत्स्यमांसानि शुभार्थी क्षीरमुत्तराम् ॥२४॥बृहस्पतिः— अभक्ष्यालभ्यभक्ष्या ये स्मृत्वा स्पृष्ट्वाऽथ तान्व्रजेत्। दत्त्वा वा सिद्धिमाप्नोति दुष्टभादिषु भूपतिः ॥२५॥ उक्तभक्ष्यैश्च नक्षत्रतिथितिथ्यर्धवारजाः।शुभाशुभग्रहोत्थाश्च सर्वे दोषाःशमंययुः ॥२६॥

इति यात्रायां दोहदप्रकरणम्।

अथ लग्नबलविचारः।

दैवज्ञबल्लभे— शीर्षोदये यातुरभीष्टसिद्धिः पृष्ठोदये वाञ्छितकार्यनाशः।यातव्यकाष्ठामुखमिष्टदं स्यादनिष्टदं दिक्प्रतिलोमलग्नम्॥१॥ जन्मोदयेसिद्धिकरं प्रयाणं न जन्मराशेरुदये नृपस्य। स्थानान्नयोश्चोपचयोदयेषु शुभं फलंस्यादितरेषु नाशः ॥२॥ जन्मर्क्षलग्नाष्टमराशिलग्नेषष्ठोदये शत्रुभलग्नतो

वा।तद्राशिनाथैरथवोदयस्थैःकरोति यानं विषभक्षणं वा ॥३॥ रत्नमालायां—वक्रः पन्था मीनलग्नेंऽशकेवा कार्यासिद्धिः स्यान्निवृत्तिश्चतत्र। नेष्टः कुम्भोऽप्युद्गमेंऽशस्थितो वा लग्ने चाप्येंऽशे च नौयानमिष्टम् ॥४॥ गर्गः— दिवादिनवले लग्ने रात्रौ रात्रिबले तथा। गन्तव्यं वा चरेद्व्यङ्गे शुभयुक्ते स्थिरेऽपिवा ॥५॥ दैवज्ञवल्लभे— शुभग्रहैर्जन्मनि संयुता ये ये चार्कतः सौम्ययुताद्वितीयाः। ते राशयो लग्नगताः प्रशस्ता ये क्रूरयुक्ता न शुभावहास्ते ॥६॥सौम्योऽपि यो जन्मनि नेष्टदाता स्थानं न लग्ने शुभकारि तस्य। पापोऽपि यःशस्तफलं तदीयं स्थानं विलग्ने शुभदं प्रयातुः ॥७॥ शस्तं न कीटालिवृषोदयेषु यानं तदंशेष्वथ वा प्रयातुः। लग्नानि शस्तानि शुभग्रहाणां यन्नौप्रयाणंजलभोदये तत् ॥८॥ चतुष्पदाद्व्यङ्घ्रिवशा विसिंहाः सरीसृपाश्चाम्बुचराश्चभक्ष्याः। सिंहस्य वश्या विसरीसृपाः स्युरूह्यं जनोक्तं व्यवहारतोऽन्यत् ॥९॥स्थलाम्बुसंभूतसरीसृपाख्या भवन्ति वश्याबलिनां स्वकानाम्। समा द्युसंस्थाविषमा भजन्ते वश्या रजन्यां विषमाः समानाम् ॥१०॥ स्याद्विद्विपो जन्मगृहोदयाम्यां लग्नेऽष्टमेशत्रुवधः प्रयातुः। वधः प्रयातुस्त्वरिभे प्रसूतौ रन्ध्रारिभे क्रूरशुमान्विते च ॥११॥ज्योतिष्प्रकाशे—सौम्यक्रूरेषु ये खेटास्तत्कालोपचयावहाः। तेषां वारांशवर्गाः स्युर्याने योज्यास्तनावपि ॥१२॥ रत्नमालायां—मूर्तिः कोशो धन्विनो बाहनानि मित्रं शत्रुमार्गआयुर्मदश्च। व्यापारश्च प्राप्तिरप्राप्तिरेवं लग्नाद्भावा द्वादशैते विचिन्त्याः ॥१३॥ घ्नन्ति क्रूरास्त्र्यायवर्ज हिभावान्निर्व्यापारं निर्हतः सूर्यभौमौ। सौम्याःपुष्णन्त्येव हित्वाऽरिभावं शुक्रश्चास्तंमृत्युमूर्तिस्तथेन्दुः ॥१४॥ ज्योतिष्प्रकाशे— सर्वत्रगाः शुभाः सौम्याःपापास्त्र्यायारिकर्मगाः। चन्द्रो नेष्टस्तनौ रन्ध्रे याने खार्किः सितोऽस्तगः ॥१५॥धनधीधर्मगं सूर्यं शुभमिच्छन्ति केचन। प्रयाणे तद्वदक्रूरं प्रशस्तं सर्वगं बुधम्॥१६॥ केचिदूचुर्व्यये चन्द्रं रिष्फे रन्ध्रे गुरुं त्यजेत्। षष्ठे शुक्रे च यात्रायांदिगीशे केन्द्रगे शुभम् ॥१७॥ राज्यश्रीजयधीमानलाभारोग्यफलोदयान्।पुष्णन्ति घ्नन्ति सूर्याद्याः सदसद्भावगाः क्रमात् ॥१८॥ लग्नषोमृत्युषो यानेरन्ध्रास्तारिव्ययोपगः। केऽप्याहुर्भयदो धर्मे शेषस्थाने यशोर्थदः॥१९॥रत्नकोशे—स्वोच्चगते विजिते रिपौ बलवति लग्नाधिपेकृतागमः। निर्जित्य सार्वभौमं समुपैति गृहं समग्रबलम् ॥२०॥ माण्डव्यः— जन्मराशिं त्यजेल्लग्ने तथाभं नष्टवक्रिणोः। अष्टमं तत्पतिं202 जन्मलग्नं203 लग्ने204 यदागमः ॥२१॥ प्रसूतौ

बलहीनो यो यो विरोधी दशापतेः। सांप्रतंविवलश्चासौ लग्ने सौम्योऽपिनेष्टदः ॥२२॥ बलवाञ्जन्मकाले यो दशापालस्य यः सुहृत्। फलदःसांप्रतंखेटो मूर्तौपापोऽप्यभीष्टदः ॥२३॥ दैवज्ञवल्लभे— जन्मर्क्षजन्मलग्नपयोः शत्रुर्लग्नगः स सौम्योऽपि। कुरुते नृणां विपत्तिं क्रूरोऽपि शुभस्तयोर्मित्रम् ॥२४॥जन्मर्क्षजन्मलग्नेशरिपुः सौम्योऽपि लग्नगः। विनाशदो भवेन्मित्रं तयोः पापोऽप्यभीष्टदः॥२५॥ वसिष्ठः—न तानकारकाख्यो यो जन्मलग्नभयोर्भवेत्। सौम्योऽपिस विलग्नस्थो याने यातुर्विरोधकृत्205 ॥२६॥ अथ यात्रोपयोगित्वाद्वेशिवर्धकरक्षकनापकतानकादीनां लक्ष्मोच्यते—सूर्याद्द्वितीयमृक्षं वेशिस्थानं प्रकीर्तितं यवनैः। तच्चेष्टग्रहयुक्ते जन्मनि चेष्टासु च विलग्नम्॥२७॥ वेशिर्विलग्नोपगतो यियासोर्विनाऽपि यत्नात्कुरुते फलाप्तिम्। शुभग्रहैर्जन्मनि संयुता ये ते राशयो लग्नगताःप्रशस्ताः ॥२८॥ यश्चापि पणफरस्थः स भवति रक्षोपगो यस्य। तस्येतिग्रहस्य कारको भवति। यो यस्य च दशस्थस्तस्यहि वश्योपगो ग्रहो ज्ञेयः ॥२९॥जन्मसमये शशाङ्कादुपचयसंस्था ग्रहाः केचित्। ते सर्वे तानसंज्ञाः क्रूरा अपिचात्र सौम्यसमाः ॥३०॥ जन्मन्युपचयसंस्थाः परस्परं खेचरा ये च। तेनापका मुनीन्द्रैस्तानसमानाः स्मृता नूनम् ॥३१॥ लग्नस्थःसुखसंस्थो दशमस्थश्चापि कारकः प्रोक्तः। एकादशेऽपि केचिद्वाञ्छन्त्यार्याः प्रसवकाले ॥३२॥ तुङ्गसुहत्खगृहांशे स्थिता ग्रहाःकारकाः समाख्याताः। अन्यस्माद्दशमस्थः सकारकश्चापि निर्दिष्टः ॥३३॥ अत्र कारको वर्धकः। स्वोच्चत्रिकोणसंस्था अपिकेन्द्रगता ग्रहाश्चिन्त्याः। ज्ञेया नापकसंज्ञानुपतायकसंज्ञिता भाग्ये ॥३४॥यवनः— स्वक्षेत्रे रजनिकरी बुधभवने भार्गवो बुधः स्वगृहे। सौरश्चैव तुलायांनापकविधिरेप निर्दिष्टः ॥३५॥ रक्षका वर्धकाश्चैव ये स्युर्जन्मनि नापकाः।तान्पापानपि निःशङ्को यात्रालग्ने नियोजयेत् ॥३६॥ अशस्तोऽपि भवेच्छस्तःशस्तोऽपि विफालायते। ग्रहो राशिच लग्नस्थो रक्षकादिप्रभेदतः ॥३७॥ राज्यं श्रियं सैन्यसुखं प्रियशब्दं सुभाग्यताम्। जयं हानिंभास्कराद्यादद्युः सद्भवनं ग्रहाः ॥ ३८॥ सौरिस्थानगते सूर्ये शुभो लग्नगतः कुजः। बुधकोणार्कशुक्राणां बुधस्थानस्थितः सितः ॥३९॥ मन्दः सूर्यग्रहे शस्तः शशी सर्वत्रगःशुभः। चन्द्रास्फुजित्स्थानगतो गुरुर्नैव शुभो भवेत् ॥४०॥ एकोऽपि केन्द्रगोवक्री क्रूरः सौम्योऽथवा ग्रहः। वर्गो वा तस्य लग्नस्थो भवेद्यातुर्विनाशदः ॥४१॥ज्योतिष्प्रकाशे—केन्द्रे वक्री मृतिं कुर्यात्तस्य वर्गोदितं तथा। सुखेऽस्तजन्मभेऽङ्गेच भङ्गः पापयुतेक्षिते ॥४२॥ बादरायणः— जन्मपौ केन्द्रगौग्राह्यौतयोः

शत्रुर्विलग्नगः। सौम्योऽपि नाशकृद्याने सुहृत्पापोऽपि कार्यकृत् ॥४३॥श्रीपतिः– विशाखा कृत्तिकाऽऽप्यानि श्रवणो भाग्यमीज्यभम्। रेवतीयाम्यमाश्लेषा जननर्क्षाणि सूर्यतः ॥४४॥ उत्पाताभिहतं यस्य क्रूरग्रहनिपीडितम्। जन्मभं सोऽनुकूलोऽपि न शस्तो लग्नगो ग्रहः ॥४५॥ बृद्धनारदः—यदेवोदयसंस्थस्य ग्रहस्य कथितं फलम्। तदेव तस्य वारेऽपि वर्गे वाऽपिविलग्नगे ॥४६॥ दिगीश्वरो ललाटस्थो यदि वा दिग्वलान्वितः। वधबन्धप्रदोयातुः केन्द्रगः सुजयार्थदः ॥४७॥ नारदः—दिगीशाः सूर्यशुक्रारराह्नार्कीन्दुजसूरयः। दिगीश्वरे ललाटस्थे यातुर्न पुनरागमः ॥४८॥ ज्योतिष्प्रकाशे—ललाटेऽर्कस्तनौ प्राच्या वह्नौलाभान्त्यगो भृगुः। याने याम्ये खगो भौमोनैर्ऋत्यां गोष्ठगोऽप्यगुः ॥४९॥ प्रतीच्यां सप्तमो मन्दो वायौचन्द्रः सुतारिगः।नेष्टोऽम्बुगो बुधः सौम्यो गुरुरीशे धनत्रिगः ॥५०॥ वसिष्ठः—राशीनेकं द्वाविनाक्रान्तराशेर (शेः)प्रादक्षिण्यं दिग्विदिक्षु क्रमेण। यद्दिग्राशौ लग्नगे संमुखत्वं तद्दिग्यातुर्मृत्युदस्तद्दिगीशः ॥५१॥ रत्नकोशे—लालाटेऽग्निभयं करोति दिनकृत्कोशक्षयं लोहितः शत्रूणां विजयं शशाङ्कतनयः सेवाविमर्द गुरुः। मृत्युं भास्करनन्दनो नरपतेर्व्याधिं तथा विप्रराडेतान्येव समस्तखेचरफलान्येकः सितोयच्छति ॥५२॥ दैवज्ञबल्लभे—केन्द्रोपचयगौशस्तौ जन्मराशिविलग्नपौ। बलिनी यद्यपिक्रूरौतज्ज्ञैःसौम्यसमौ स्मृतौ ॥५३॥ सौम्योऽपि न शुभं धत्तेरिपोर्वारे विलग्नगः। वारे मित्रस्य पापोऽपि भवेच्छुभफलप्रदः ॥५४॥ रत्नमालायां—यात्रादिगीशादपि पञ्चमेऽन्यो गृहे ग्रहो वीर्ययुतोऽधितिष्ठेत्। समुद्यताशाकथितानि भुक्त्वाफलानि वीर्यान्नयति स्वकाष्ठाम् ॥५५॥ परस्परं त्रिकोणस्थौमन्दारौभास्कराद्भपौ। शुक्रारौ नयतः स्वाशां विनाश्योक्तं फलं बलात् ॥५६॥ गर्गः– साम्नो जीवसितो नाशौदण्डस्य कुलभास्करौ।चन्द्रोदानस्य भेदस्य राहकेतुवुधार्कजाः ॥५७॥ यान्ति सामादयः सिद्धिं केन्द्रोपचयसंस्थितैः। स्वनाथैर्वीर्यसंयुक्तैस्तद्द्वारैर्वा तदंशकैः॥५८॥

इति लग्नवलविचारः।

अथ पृथग्भावफलम्।

अथ रविफलम्।

बृहस्पतिः—अर्कोदये च संतापं शोकंविघ्नं लभेत्ततः। कोशार्थमानहा भानुर्द्वितीये बलनाशनः ॥१॥ हेमान्नं विक्रमं दद्यात्तृतीये भूमिदोरविः। वैराग्यंबन्धुविद्वेषं कुर्यात्पातालगो रविः॥२॥ पञ्चमो मन्त्रिविद्वेषं कुर्याद्वादुर्मति रविः।

षष्ठोऽर्को वाञ्छितं दद्याच्छत्रुनाशं करोति वै ॥३॥ सप्तमः स्त्रीविरोधं च कुर्यादर्भक्षयं रविः। मृत्युभावगतो दद्यान्नानारोगान्दिवाकरः ॥४॥ धर्महा नवमोयातुर्धनदश्च दिवाकरः ॥५॥ दशमोऽभिमतान्दद्यात्संमानं चैव भास्करः। लाभगोबहुलाभांश्च रत्नाद्यर्थान्ददेद्रविः। व्ययगो व्ययकृद्भानुरन्यायांश्च प्रयच्छति ॥६॥

अध चन्द्रफलम्।

इन्दुर्लग्नगतो दद्याच्छोकं कलहमेव च। स्त्रीराज्यपुत्रधर्मार्थान्दद्यात्सोमोद्वितीयगः ॥१॥ धनरत्नाङ्गना दद्याद्यातुरिन्दुस्तृतीयगः। बन्धुगो बन्धुदश्चन्द्रःकृशो बन्धुविनाशनः ॥२॥ पञ्चमोऽर्थप्रदश्चन्द्रः पुत्रशोककरः कृशः। षष्ठोमित्रान्रिपून्कुर्याद्दुःखितानपि शीतगुः ॥३॥ सप्तमी धनभूमिस्त्रीलाभदोऽणुर्विनाशकृत्। अष्टमे शोकदश्चन्द्रो ह्यपमृत्युं करोति वा ॥४॥ निवृत्तिमाशु धर्मेषु तनुते महतीं श्रियम्। दशमोऽब्जोऽर्थहाक्षीणो वर्धनो राज्यवृद्धिदः॥५॥ लाभे त्वैश्वर्यदश्चन्द्रः सख्यचित्तयशःप्रदः। क्लेशं वाऽर्थव्ययं कुर्याद्भयंद्वादशगः शशी ॥६॥ अपूर्णःशोकदश्चन्द्रोलग्ने क्षीणस्तथा रिपौ। कर्किगोऽजस्थितः206 पुष्टो निजदुष्टफलापहः ॥७॥ सूर्यो राजभयं करोति शशिनायुक्तोऽर्थहानिं भृगुः स्थानभ्रंशकरो गुरुः शशिसुतः संतापदोषंमहत्। मृत्युंसूर्यसुतो ददाति नियतं शस्त्रात्तथा भूसुतस्तस्माञ्चन्द्रयुतिं विहाय मतिमान्यात्रां प्रकुर्यात्सदा ॥८॥

अथ भौमफलम्।

रुधिरो रुधिरात्सर्पाच्छस्त्राद्वालग्नगो भयम्। कुरुतेऽथद्वितीयस्थः सैन्यभेदं च भूमिजः ॥१॥ तृतीये धनरत्नस्त्रीवस्त्राणि कुरुते कुजः। चतुर्थेबन्धुहानिः स्याच्छत्रुबाधांच भूमिजः ॥२॥ शत्रुपीडा सुतस्थाने सुतापदचलासुतः। शत्रूणां नाशदः षष्ठः शीघ्रं जयकरः कुजः ॥३॥ सप्तमोऽर्थक्षयंरोगान्करोति धरणीसुतः। बह्वर्थनाशरोगश्चमृत्युदो मृत्युगः कुजः ॥४॥धर्मगो धर्मविच्छेत्ता यात्रायां धरणीसुतः। दशमेऽतीव शस्तः स्यादभीष्टफलदःकुजः ॥५॥ महाविभवदो भौमो भवगो भोगसौख्यदः। भूसुतो व्रणकृद्यातुर्द्वादशोऽर्थविनाशदः ॥६॥

अथ बुधफलम्।

सुखार्थकीर्तिदः सौम्यो जयदश्चोदये स्थितः। धनगो धनदश्चान्द्रिः प्रयातुर्विजयप्रदः ॥१॥ तृतीयगे बुधे कामाल्लँभेतोत्कटतामियात्। चतुर्थे शयनान्नाद्यविभवान्प्रददौबुधः ॥२॥ पञ्चमे पुत्रवित्तर्धिंदत्त्वा विजयदोयुधः। शत्रूणां वध्यतां दद्यात्षष्ठे किंचिदुजं च वित् ॥३॥ वराङ्गना बुधो दद्यात्सप्तमस्थोधनं तथा मृत्युगश्चन्द्रजोदद्यादायुरर्थ यशः श्रियम् ॥४॥ धर्मस्थोऽपिबुधो यातुर्धर्मायुःपुष्टिवृद्धिदः। ईप्सितार्थप्रदो यातुः कर्मगश्चन्द्रनन्दनः ॥५॥विद्यार्थाप्तिमयत्नेन दद्यादायगतो बुधः। द्वादशे धनहा लुप्तो धनदश्चोदितोबुधः ॥६॥

अथ गुरुफलम्।

लग्नगोऽतीव संपत्त्यैभवेज्जीवो जयाय च। द्वितीयो धनलाभाय भवेच्च श्रीविवृद्धये ॥१॥ तृतीयस्थोगुरुर्योधांस्तनुते चारिजं श्रमम्। राज्यसंमानदो जीवश्चतुर्थस्थो बलप्रदः ॥२॥ यातुरीप्सितदोजीवः पञ्चमो राज्यवृद्धिदः। प्रयातुर्वशगंकुर्यादरातिं षष्ठगोऽङ्गिराः ॥३॥ सप्तमः शत्रुवित्तस्त्रीकीर्तिराष्ट्रप्रदो गुरुः। अष्टमस्थोगुरुर्यातुः प्राणहा धनहा भवेत् ॥४॥ नवमे धर्मकीर्त्यर्थराज्यमानप्रदो गुरुः।दशमस्थोऽर्थकीर्तिश्रीप्रदाताऽमरपूजितः ॥५॥ एकादशगतो जीवःप्रदद्यादखिलां श्रियम्। प्रयाणे देवपूज्यःस्याद्द्वादशे सुखदुःखदः ॥६॥

अथ शुक्रफलम्।

लग्ने शुक्रो विलासस्त्रीपूर्वा दद्याच्छ्रियंभृशम्। द्वितीयेभृगुजो दद्याद्यातुर्थंश्रियं सुतान् ॥१॥ तृतीयस्ये सिते याताऽन्वसीदति कदाचन। चतुर्थगःसितो दद्याद्बहूनर्थाञ्छ्रियंयशः ॥२॥ पञ्चमे स्थानमानाद्यान्दद्यादर्थान्भृगोः सुतः। षष्ठगे शत्रवो यान्ति वश्यतां दुर्मदाः सिते ॥३॥ शुक्रे सप्तमगे यातास्वराज्यात्मच्युतो भवेत्। अष्टमस्थेसिते यातासाधयेदीप्सितं द्रुतम् ॥४॥पञ्चमे साधयेत्कामान्याता शुके धनान्यपि। दशमस्थे भृगौ याता प्रभूतं धनमाप्नुयात् ॥ ५॥ एकादशे धनं दद्याद्यातुः शुक्रौ गतो जयम्। द्वादशस्थःसितो दद्यादभीष्टं पुनराहरेत् ॥६॥

अथ शनिफलम्।

वधं वन्धोरवेः सूनुर्यातुर्दद्याद्विलग्नगः। धनगो धनहानिं च शुचं कुर्याद्रवेःसुतः ॥१॥ तृतीयगो रिपून्हन्याच्छनिः कुर्याद्धनादिकम्। चतुर्थगोविनाशाय बन्धूनां स्थाननाशनः ॥२॥ पञ्चमेऽर्थविनाशाय गतोरविसुतो भवेत्। षष्ठे

षष्ठोऽर्को वाञ्छितं दद्यान्च्छत्रुनाशं करोति वै ॥३॥ सप्तमः स्त्रीविरोधं च कुर्यादर्भक्षयं रविः। मृत्युभावगतो दद्यान्नानारोगान्दिवाकरः ॥४॥ धर्महा नवमोयातुर्धनदश्च दिवाकरः ॥५॥ दशमोऽभिमतान्दद्यात्संमानं चैवभास्करः।लाभगोबहुलाभांश्च रत्नाद्यर्थान्ददेद्रविः।व्ययगो व्ययकृद्भानुरन्यायांश्च प्रयच्छति ॥६॥

अथ चन्द्रफलम्।

इन्दुर्लग्नगतो दद्याच्छोकं कलहमेवच।स्त्रीराज्यपुत्रधर्मार्थान्दद्यात्सोमोद्वितीयगः ॥१॥ धनरत्नाङ्गना दद्याद्यातुरिन्दुस्तृतीयगः। बन्धुगो बन्धुश्चन्द्रःकृशो बन्धुविनाशन ॥२॥ पञ्चमोऽर्थप्रदश्चन्द्रः पुत्रशोककरः कृशः। षष्ठोमित्रान्रिपून्कुर्याद्दुःखितानपि शीतगुः ॥३॥ सप्तमो धनभूमिस्त्रीलाभदोऽणुर्विनाशकृत्। अष्टमे शोकदश्चन्द्रोह्यपमृत्युं करोति वा ॥४॥ निवृत्तिमाशु धर्मेषुतनुते महतीं श्रियम्।दशमोऽब्जोऽर्थहा क्षीणोवर्धनो राज्यवृद्धिदः॥५॥ लाभे त्वैश्वर्यदश्चन्द्रः सख्यवित्तयशःप्रदः। क्लेशं वाऽर्थव्ययं कुर्याद्भयंद्वादशमः शशी ॥६॥ अपूर्णः शोकदश्चन्द्रोलग्ने क्षीणस्तथा रिपो। कर्किगोऽजस्थितः207पुष्टो निजदुष्टफलापहः ॥७॥ सूर्यो राजभयं करोति शशिनायुक्तोऽर्थहानिं भृगुः स्थानभ्रंशकरो गुरुः शशिसुतः संतापदोषं महत्। मृत्युंसूर्यसुतो ददाति नियतं शस्त्रात्तथा भूसुतस्तस्माच्चन्द्रयुतिं विहाय मतिमान्यात्रांप्रकुर्यात्सदा ॥८॥

अथभौमफलम्।

रुधिरो रुविरात्सर्पाच्छस्त्राद्वालग्नगो भयम्।कुरुतेऽथ द्वितीयस्थः सैन्यभेदं च भूमिजः ॥१॥ तृतीये धनरत्नस्त्रीवस्त्राणि कुरुते कुजः। चतुर्थेबन्धुहानिः स्याच्छत्रुबाधांच भूमिजः ॥२॥ शत्रुपीडा सुतस्थाने सुतापटचलासुतः। शत्रूणां नाशदः षष्ठः शीघ्रं जयकरः कुजः ॥३॥ सप्तमोऽर्थक्षयंरोगान्करोति धरणीसुतः। बह्वर्थनाशरोगैश्च मृत्युदो मृत्युगः कुजः ॥४॥धर्मगो धर्मविच्छेत्ता यात्रायां धरणीसुतः। दशमेऽतीव शस्तः स्यादभीष्टफलदःकुजः ॥५॥ महाविभवदो भौमो भवगो भोगसौख्यदः। भूसुतो व्रणकृद्यातुर्द्वादशोऽर्थविनाशदः ॥६॥

अथ बुधफलम्।

सुखार्थकीर्तिदः सौम्यो जयदश्चोदये स्थितः। धनगो धनदश्चान्द्रिः प्रयातुर्विजयप्रदः ॥१॥ तृतीयगे बुधे कामाल्लँभेतोत्कटतामियात्। चतुर्थे शयनान्नाद्यविभवान्प्रददौबुधः ॥२॥ पञ्चमे पुत्रवित्तधिंदत्त्वा विजयदोवुधः। शत्रूणां वध्यतां दद्यात्षष्ठे किंचिदुजं च वित् ॥३॥ वराङ्गना बुधो दद्यात्सप्तमस्थोधनं तथा मृत्युगश्चन्द्रजोदद्यादायुरर्थ यशः श्रियम् ॥४॥ धर्मस्थोऽपिबुधो यातुर्धर्मायुःपुष्टिवृद्धिदः। ईप्सितार्थप्रदो यातुः कर्मगश्चन्द्रनन्दनः ॥५॥विद्यार्थाप्तिमयत्नेन दद्यादायगतो बुधः। द्वादशे धनहा लुप्तो धनदश्चोदितोबुधः ॥६॥

अथ गुरुफलम्।

लग्नगोऽतीव संपत्त्यैभवेज्जीवो जयाय च। द्वितीयो धनलाभाय भवेच्च श्रीविवृद्धये ॥१॥ तृतीयस्थोगुरुर्योधांस्तनुते चारिजं श्रमम्।राज्यसंमानदो जीवश्चतुर्थस्थो बलप्रदः ॥२॥ यातुरीप्सितदोजीवः पञ्चमो राज्यवृद्धिदः। प्रयातुर्वशगंकुर्यादरातिं षष्ठगोऽङ्गिराः ॥३॥ सप्तमः शत्रुवित्तस्त्रीकीर्तिराष्ट्रप्रदो गुरुः।अष्टमस्थोगुरुर्यातुः प्राणहा धनहा भवेत् ॥४॥नवमे धर्मकीर्त्यर्थराज्यमानप्रदो गुरुः।दशमस्थोऽर्थकीर्तिश्रीप्रदाताऽमरपूजितः ॥५॥ एकादशगतो जीवःप्रदद्यादखिलां श्रियम्।प्रयाणे देवपूज्यःस्याद्वादशे सुखदुःखदः ॥६॥

अथ शुक्रफलम्।

लग्ने शुक्रो विलासस्त्रीपूर्वां दद्याच्छ्रियंभृशम्। द्वितीयेभृगुजो दद्याद्यातुर्थंश्रियं सुतान् ॥१॥ तृतीयस्ये सिते याताऽन्वसीदति कदाचन। चतुर्थगःसितो दद्याद्बहूनर्थाञ्छ्रियंयशः ॥२॥ पञ्चमेस्थानमानाद्यान्दद्यादर्थान्मृगोः सुतः। षष्ठगे शत्रवो यान्ति वश्यतां दुर्मदाः सिते ॥३॥ शुक्रे सप्तमगे यातास्वराज्यात्प्रच्युतो भवेत्।अष्टमस्थेसिते यातासाधयेदीप्सितं द्रुतम् ॥४॥पञ्चमे साधयेत्कामान्याता शुक्रेधनान्यपि। दशमस्थे भृगौ याता प्रभूतं धनमाप्नुयात् ॥ ५॥ एकादशे धनं दद्याद्यातुः शुक्रौ गतो जयम्। द्वादशस्थःसितो दद्यादभीष्टं पुनराहरेत् ॥६॥

अथ शनिफलम्।

वधं वन्धोवैः सूनुर्यातुर्दद्याद्विलग्नगः। धनगो धनहानिं च शुचं कुर्याद्रवेःसुतः ॥१॥ तृतीयगो रिपून्हन्याच्छनिः कुर्याद्धनादिकम्। चतुर्थगोविनाशाय बन्धूनां स्थाननाशनः ॥२॥ पञ्चमेऽर्थविनाशाय गतोरविसुतो भवेत्। षष्ठे

शत्रुविनाशाय भवेद्यातुरिनात्मजः ॥३॥ उत्साहभङ्गदःकामे स्त्रीप्रसादकरोयमः। विपाग्निशस्त्रजं कोपं नेत्ररोगं च मृत्युगः ॥४॥ कुर्यान्नवमगः सौरिःसुखधर्मविनाशनम्। न निवृत्तिकरः स्वस्थो यमः कर्म विनाशयेत् ॥५॥ एकादशगतो मन्दो यातुर्विजयवित्तदः। द्वादशेऽनर्थदो यातुः शीघ्रं दिनकरात्मजः ॥६॥

अथ राहुकेतुफलम्।

राहुक्रेत्वोर्भावफलं शनिवद्दशमं विना। स्वस्थौतौ शुभदौ ज्ञेयौ षष्ठे शीघ्रफलप्रदौ ॥१॥ श्रीपतिः—त्रिकर्मायोपगीराहुः प्रयाणे सत्फलप्रदः। केतुर्यातव्यकाष्ठायां संनताग्रशुभप्रदः ॥२॥ वृहस्पतिः—एवं भावफलं प्रोक्तं यातुर्यात्रोदयर्क्षतः। अनर्थप्रोक्तभावेऽप किंचिद्दद्युशुभग्रहाः ॥३॥ तानद्य संप्रवक्ष्यामि यथा प्रोक्तं स्वयंभुवा। शुभवर्गे शुभैर्दृष्टा मित्रदृष्टाः शुभप्रदाः ॥४॥स्वकीयाष्टकवर्गे ये वहुलर्क्षगता ग्रहाः। ते चाऽप्यशुभभावस्था अपि शोभनदाःस्मृताः ॥५॥ यातुरायार्थपुत्रर्क्षत्रिधर्मदशमस्थितः208। शुभदःशुभदांशेषु भवनेषु निशाकरः ॥६॥ भृगुः—इष्टैःपञ्चभिरिष्टं स्यात्तथाऽनिष्टैरशोभनम्। स्थानादिवलसंपन्नैश्चतुर्भिरपि खेचरैः ॥७॥ रत्नमालायाम्— अस्तं गता ग्रहजिता रिपुदृष्टदेहा नीचस्थिता विरुचयोऽरिगृहं प्रयाताः। रूक्षाणवश्व किमपि स्वफलं विलग्ने दातुं क्षमाः खलु भवन्ति न खेचरेन्द्राः ॥८॥

इति यात्रायां पृथग्भावफलम्।

अथ यात्रायां समुदायेन पृथक्फलानि।

राहुर्भौमदिवाकरेन्दुरविजाः संप्रस्थिता लग्नगाः क्षुच्छस्त्राग्निविषज्वरारिजभयंरोगांश्च नानाविधान्। जीवः सोमसुतस्तथैव भृगुजो यात्रोदयस्थो नृणां सायात्रा धनधान्यभोगसुखदा पुण्यः कृतैर्लभ्यते ॥१॥ कोशस्थाने नराणामसुरगुरुबुधौ धर्मकामार्थलाभं पुत्रोत्पत्तिंच जीवो धनसुखमतुलं शत्रुपक्षक्षयं च। मन्दो बन्धं च दीर्घं क्षितिसुतमरणं नाशहानिं च भानुश्चन्द्रः कुर्यान्नरेन्द्रं प्रियजनसहितं मित्रसंयुक्तभूतम्209 ॥२॥ प्रस्थाने भूमिपस्य क्षितिसुतसहितो भानुजोभानुरेवं शुक्रश्चन्द्रात्मजो वा सुरगुरुरथवा शीतरश्मिश्चराहुः। भ्रातृस्थाने गताः स्युर्वरगजतुरगान्याप्यसर्वार्थसिद्धिं जित्वाशत्रूनशेषान्वितरतिच सुखं गोकुलेगोपवेषः ॥३॥ बन्धुस्थानगतो ददाति विपुलान्भोगान्भृगोरात्मजो जीवः शत्रुविनाशमृच्छति महालाभं करोतीन्दुजः। हानिंबन्धुगतः करोति रविजो बुद्धि-

क्षयं चन्द्रमा राहुभूमिसुतस्तथोष्णकिरणः कुर्वन्ति दुःखं महत् ॥४॥ कुर्यादर्थस्य सिद्धिं सुतभवनगतो वाक्पतिः शत्रुनाशं शुक्रः शीतांशुपुत्रः सुरपतिसदृशंयुद्धकाले करोति। सूर्यचन्द्रश्चभौमो दिनकरतनयः सिंहिकानन्दनाख्यः सर्वे तेपञ्चमस्था विविधभयकराः पार्थिवानां रणे च ॥५॥ शत्रुस्थाने नराणां दिनकरतनयो भूमिपुत्रोऽथवाऽर्कःशीतांशुर्दैत्यमन्त्री रजनिकरसुतः सैंहिकेयोऽथजीवः। कुर्वन्त्येवार्थलाभं परवलमथनं सिध्यते सर्वकार्यमित्येवं भूमिपानांभवति च गमने धर्मकामार्थसिद्धिः ॥६॥ नाशं शुक्रदिवाकरार्कतनया राहुस्तथा भूमिजः क्षिप्रंशत्रुवशं नयन्ति पथिकं स्थाने स्थिताः सप्तमे।सौम्योमित्रसमागमं सुरगुरुः स्त्रीवित्तलाभं नृणां चन्द्रोऽभीष्टसुखं ददाति च धनं यात्रासु जामित्रगः ॥७॥ आरोग्यं चन्द्रपुत्रो जनयति भृगुजः सर्वकार्यार्थसिद्धिं जीवोरक्षत्यशेषं सुतमिव जननी यातृकं नैधनस्थः। चन्द्रार्कौ द्वौतमो वा जनयतिनियतं शत्रुपक्षस्य वृद्धिं भौमश्चार्कात्मजो वा जनयति सततं तस्कराणां भयं च॥८॥ शुक्रोऽतिसौख्यं नवमो बुधश्च जीवो210 यशःश्रीधनधान्यलाभम्।चन्द्रार्कसौरा नवमाः सभौमाः कुर्वन्त्यनेकान्पुरुषस्य दोषान् ॥९॥ कर्मस्थानेस्थितोऽर्कःप्रचुरभयकरः पुष्टिदः शीतरश्मिर्जीवः सङ्ग्रामकाले भवति शुभकरःसर्वकार्यप्रदो ज्ञः।शुक्रः साम्राज्यलक्ष्मीं वितरति च महीनन्दनः प्राज्यकीर्तिं राहुर्वैरानुवृत्तिं जनयति सततं दीर्घरोगं तथाऽऽर्किः॥१०॥ शशिबुधगुरुशुक्राश्चार्कराह्वार्किभौमा व्रजति हि नरनाथे क्षिप्रमेकादशस्थाः। द्रुतमिहरिपुवर्गं घ्नन्ति नूनं प्रयातुर्विचरतु मृगराजो यूथमध्ये यथा सः ॥११॥ रविसुतकुजसूर्या बुद्धिनाशं नराणां जनयति कुमुदेशो व्याधिपीडां तमश्च।सुरुगुरुबुधशुक्रा द्वादशस्था नराणां नियतमरिसमूहं कुर्वतेनष्टवीर्यम् ॥१२॥

इति यात्रायां समुदायेन पृथक्फलानि।

अथ यात्रायां लग्नांशफलम्।

योगयात्रायां— दिनकृद्दिवसे तथांऽशके यात्रालग्नगतेऽथवा रवौ। संतापयतिस्मरातुरं वेश्येवार्थविवर्जितं नरम् ॥१॥ उदये शशिनोंऽशकेऽह्निवा भवतिगतो नचिरेण दुर्मनाः। प्रमदामिव यातयौवनां रत्यर्थं समवाप्यकर्कशाम्॥२॥ भौमोदयेंऽशेऽहनि वाऽस्य यात्रा करोति बन्धं धनमर्थनाशम्।संसेविता पापपराङ्मुखेन मनोभवार्तेन पराङ्गनेव ॥३॥ बुधस्य लग्नांशकवासरेषु

यात्रा नरं प्रीणयति प्रकामम्। भावानुरक्ता प्रमदाङ्गनेव विदग्धचेष्टामदनाभितप्ता ॥४॥ गुरोर्विलग्नांशदिनेषु यात्रा हितानुबन्धेप्सितकामदाच। जायेवभक्ता मनसोऽनुकूला कुलाभिवृद्ध्यै रतिदा हिता च ॥५॥ यात्रा भृगोरंशदिनोदयेषु प्रीणाति कामैर्विविधैर्यियासुम्। विलासिनी कामवशेन यातं भोगैरनेकैर्मदनातुरेव ॥६॥ द्युलग्नभागेषु शनैश्च यात्रा प्राणच्छिदादीन्प्रचिनोति दोषान्।अन्यत्र सक्ता वनितेव मोहान्निषेविता मन्मथमोहितेन ॥७॥

इति यात्रायां लग्नाशफलम्।

अथ यात्रायां प्रतिशुक्रविचारः।

ज्योतिष्प्रकाशे— न कुर्यात्संमुखे शुक्रे यात्रां राजा कदाचन। करोति चेत्तदानूनं बहुधाऽर्थक्षयो भवेत् ॥१॥ रत्नमालायाम्— उदयति दिशि यस्यां यातियत्र भ्रमाद्वा विचरति च भचक्रे येषुदिग्द्वारभेषु।त्रिविधमिह सितस्य प्रोच्यतेसंमुखत्वं मुनिभिरुदय एव त्यज्यते तत्र यत्नात् ॥२॥ वसिष्ठः– प्रतिशुक्रंप्रतिबुधं प्रतिभौमं गतो नृपः। बलेन शक्रतुल्योऽपि हतसैन्यो निवर्तते ॥३॥संमुखे चन्द्रजे यत्र मार्गमध्योदते यदि। यावदस्तंगते तस्मिस्तावत्तत्रैव संवसेत् ॥ ४॥ ज्योतिष्प्रकाशे— संमुखं वर्जयेच्छुक्रंविदेशगमने सदा। प्रतिग्रामप्रवेशे च कुलदेव्यर्चने तथा ॥५॥ संमुखे भृगुजे बालापत्याया म्रियतेऽर्भकम्।गर्भस्रावस्तु गर्भिण्या नवोढायाश्चवन्ध्यता ॥६॥ वामे शुक्रे नवोदायाः सुखः हानिश्च दक्षिणे। धनं धान्यं च पृष्ठस्थे सर्वनाशः पुरःस्थिते ॥७॥

इति यात्रायां प्रतिशुक्रविचारः।

अथ प्रतिशुक्रापवादः।

नवोदायास्तु बन्ध्यत्वं यदुक्तं संमुखे भृगौ। तदत्रविवुधैर्ज्ञेयं केवलं तु द्विरागमे॥१॥ लल्लः– स्वभवनपुरप्रवेशे देशानां विग्रहे तथोद्वाहे। नववध्वा गृहगमने प्रतिशुक्रविचारणा नास्ति ॥२॥ एकग्रामे पुरे वाऽपि दुर्भिक्षे राष्ट्रविप्लवे। उद्वाहे तीर्थयात्रायां प्रतिशुक्रो न विद्यते ॥३॥ भीमपराक्रमे— एकग्रामे चतुःशालेदुर्भिक्षे राष्ट्रविप्लवे। स्वामिना नीयमानानां प्रतिशुक्रो न विद्यते ॥४॥ मत्स्यपुराणे— चतुःशालं चतुद्वोरमलिन्दैः सर्वतो युतम्। नाम्ना तत्सर्वतोभद्रं न तत्रप्रतिशुक्रता ॥५॥ वसिष्ठः— कश्यपेषु वसिष्ठेषु भृग्वत्र्यङ्गिरसेषु च। भरद्वाजेषु वास्येषु प्रतिशुक्रोन विद्यते ॥६॥ गर्गः— पौष्णादिवह्निभाद्यङ्घ्रौयावत्तिष्ठति चन्द्रमाः। तावदन्धो भवेच्छुक्रःप्रवेशे निर्गमे शुभे ॥७॥ रेवत्याद्य

ग्निपादे च यावत्तिष्ठति चद्रमाः।तावच्छुको भवेदन्धः संमुखं गमनं शुभम्॥८॥ ज्योतिष्प्रकाशे—अत्युत्सुकेषु यावत्माक्कपालस्थो भूगर्भवेत्।तावत्पाशिदिशं गच्छेत्प्राचींप्रत्यक्स्थितस्तथा ॥९॥

इति प्रतिशुक्रापवादः।

अथ शुक्रस्तोत्रम्।

वसिष्ठः—दैत्यमन्त्री दिवादर्शी चोशना भार्गवः कविः। श्वेतोऽथ मण्डलीकाव्यो विधिमान्निर्ऋतिस्तथा ॥१॥ एतानि भृगुनामानि यः कीर्तयति नित्यशः। प्रतिशुक्रो न तस्यास्ति लक्ष्मीमायुश्च विन्दति ॥२॥ महाभारते—नमस्ते सर्वलोकेश नमस्ते भृगुनन्दन। कवेसर्वार्थसिद्ध्यर्थं गृहाणार्घ्यंनमोऽस्तुते ॥३॥दत्त्वेत्यर्घ्यंप्रयत्नेन प्रार्थयेच्चैवभक्तितः। अनेनैव च मन्त्रेण प्राञ्जलिः प्रणतः स्थितः ॥४॥

इति शुक्रस्तोत्रम्।

अथ प्रतिशुक्रपूजाविधानम्।

वसिष्ठः— इदमर्थमनुक्तत्वाच्छास्त्रे पैतामहे कचित्। तस्मात्संमुखदोषोऽस्तिप्रतिशुक्रस्य सर्वदा ॥१॥ तदोपशमनार्थाय शान्तिं वक्ष्ये समासतः।कृत्वाशान्तिं प्रयत्नेन पश्चात्सर्वं समाचरेत् ॥२॥प्रतिशुक्रे प्रदातव्या धेनवो हेमसंयुताः। अनड्वाहंकुजे दद्याद्धेमवस्त्रसमन्वितम् ॥३॥कृष्णां गां सूर्यतनये सुवर्णंलोहमुत्तमम्। प्रभूतं काञ्चनं दद्याद्ययात्सोमसुतं प्रति ॥४॥पट्टवस्त्रयुगं जीवेदद्यात्काञ्चनसंयुतम्। पूजिता गच्छतां कुर्युः संमुखा अपि सत्फलम् ॥ ५॥भृगोर्लग्ने भृगोर्वर्गे भृगुवारे भृगूदये। उपोष्यभृगुवारेऽपि यावच्छुक्रोदयं व्रती ॥६॥राजतेन सुशुद्धेन कारयेत्प्रतिमां भुगोः। लिखेदष्टदलं पद्मं कांस्यपात्रे चतण्डुलैः ॥७॥ शुक्लसूक्ष्माम्बरैर्वेष्ट्यप्रतिमां तत्र पूजयेत्। शुक्रपुष्पासतैर्गन्धैर्मुक्ताहारैर्विचित्रितैः॥८॥ उपचाराणि कार्याणि शुक्रं ते अन्यदित्यृचा।तन्मन्त्रेण जपं कुर्यात्सम्यगष्टोत्तरं शतम् ॥९॥ कर्मान्तेऽनेन मन्त्रेण भक्त्या चार्घ्यं प्रदापयेत्। श्वेतगन्धाक्षतैः पुष्पैः क्षीरमिश्रेण वारिणा ॥ १०॥ त्वत्पूजयाऽनया शुक्र ते संमुखसमुद्भवम्। दोषं विनाशय क्षिप्रं रक्ष मां तेजसांनिधे॥११॥ इति प्रार्थ्य प्रयत्नेन प्रतिमा भूषणान्विता। दैवज्ञायैव दातव्या

श्वेताश्वसहितेन च ॥१२॥ शिष्टेभ्यो दक्षिणां दद्याद्यथावित्तानुसारतः। ब्राह्मणान्भोजयेत्पश्चात्स्वयं भुञ्जीत बन्धुभिः ॥१३॥ एवं यः कुरुते सम्यक्प्रतिशुक्रप्रपूजनम्। न तस्य संमुखो दोषोविजयी चार्थवान्भवेत् ॥४॥इतरेषांग्रहाणां च पूजां कृत्वा प्रयत्नतः। तत्तत्संमुखजो दोषस्तत्क्षणादेवनश्यति ॥१५॥

इति प्रतिशुक्रपूजाविधानम्।

अथ प्रतिशुकदानम्।

सितमश्वंसितं वस्त्रं तारमौक्तिकहेमयुक्।दत्त्वा द्विजातयेयायात्प्रतिशुक्रेऽप्यशङ्कितः ॥१॥ विधाय राजतं शुक्रं शुचिमुक्ताफलान्वितम्। महाश्वेनसमायुक्तं सामगाय निवेदयेत् ॥२॥ एवं शुक्रोदये कुर्वन्यात्रादिषु च भारत।सर्वान्कामानवाप्नोति विष्णुलोके महीयते ॥३॥ अतिसंकटे विधानं केषांचिन्मते— वृषात्पञ्चकमादाय स्वसीमायां ततो व्रजेत्। प्रतिशुक्रेऽपि संपूज्य सानुकूले जले क्षिपेत् ॥४॥

इति प्रतिशुक्रदानम्।

अथ योगप्रशंसा।

बृहस्पतिः—एवं कथितकालोऽयं दुर्लभो यातुरञ्जसा। स्वल्पकालो यतस्तस्माद्योगान्वक्ष्याम्यभीष्टदान् ॥१॥ नारदः—पञ्चाङ्गशुद्धिरहिते दिवसेऽपिफलप्रदा। यात्रा योगैर्विचित्रांस्तान्योगान्वक्ष्येऽधुना ततः ॥२॥ रत्नावल्याम्—आत्ययिककार्ययाने दैवेन निपीडिते च यातव्यम्। केवलविलग्नयोगादपियाता सिद्धिमाप्नोति ॥३॥ श्रीपतिः— तिथौक्षणे भेषु करणे च वारे योगे विलग्नेहिमगौ नृपाणाम्। पापेऽपि यात्रा शुभदाऽत्र योगैर्यतस्ततस्तान्कियतोऽपिवक्ष्ये ॥४॥ लल्लः—यातव्ये211 व्यसनगते ह्यनिष्टदैवे च भूपतिस्त्वरया।लग्नैरभीष्टकल्पैर्व्रजतितिथौभेषु चरमेषु ॥५॥ दैवज्ञवल्लभे—सुधांशुतिथ्युद्गमवारधिष्ण-पक्षणेषुपापेष्वपि भूपतीनाम्। अभीष्टसिद्धौकथयामि यात्रां प्रयोजनेष्वात्यायिकेषु सत्सु ॥६॥ ज्योतिःसागरे— योगैःफलं क्षितीशानां द्विजानां भगुणैर्भवेत्। शकुनैश्चारचोराणामितरेषां मुहूर्ततः ॥७॥

माठरः– योगश्च प्रोक्तकालश्चयाने तुल्यफलावुभौ। योगो वा प्राप्तकालो वा न्यूनाङ्गो न फलप्रदः ॥८॥ भुपालवल्लभे— यथा योगाद्विपं पथ्यंमध्वाज्यमृदितं भवेत्। तथा योगात्फलं दद्युस्त्यक्त्वा खेटाःस्वकं फलम्॥९॥ ज्योतिष्प्रकाशे– निन्द्यतिथ्यर्क्षवारेषु पातवैधृतिविष्टिषु। ग्रहयोगं प्रशंसन्ति वसिष्ठात्रिपराशराः ॥१०॥ तिथ्यादावेवयत्साध्यंतद्योगेन प्रसिध्यति।अतः सर्वप्रयत्नेन ग्रहयोगान्विचिन्तयेत् ॥११॥ तस्माद्विवाहयात्रायामाधानेजातकेतथा। ग्रहयोगात्फलं वाच्यं सर्वमेकत्रदुर्लभम् ॥१२॥ निषेकप्रसवप्रश्नविवाहगमनादिषु। ग्रहयोगोद्भवं सत्यं फलमन्यत्र पुष्कलम् ॥१३॥पक्षाश्वमेधयात्रायां—न तिथिं न च नक्षत्रं न योगं नैन्दवं बलम्। न तारां वैधृतिंविष्टिं व्यतीपातादिकं तथा ॥१४॥ योगमेकं प्रशंसन्ति वसिष्टात्रिपराशराः। तस्मात्सर्वप्रयत्नेन याने योगान्विलोकयेत् ॥१५॥ वसिष्ठः—उक्त्वा साधारणांयात्रां युद्धयात्रां ब्रवीमि ताम्। व्रजन्ति ये नृपाः सूक्ष्मलग्ने ते जयिनःसदा ॥१६॥

इति योगप्रशंसा।

अथ यात्रायां योगाः।

रत्नमालायाम्– एकेनापेि ज्ञा(?) स्फुजिद्वाक्पतीनां योगः प्रोक्तः केन्द्रधर्मात्मजेषु। द्वाभ्यामेषांचाधियोगाभिधानो212 नूनं सर्वैरव योगाधियोगः213 ॥१॥ योगेन येनृपतयोऽरिपुरं व्रजन्ति क्षेमेण ते गमनमागमनं च कुर्युः। क्षेमं यशो रिपुविनाशमथाधियोगे योगाधियोगगमने च जयेद्धरित्रीम् ॥२॥ योगयात्रायां– सौम्यैश्चपापैश्च चतुष्टयस्थैः कृच्छ्रेण संसिद्धिमुपैति नूनम्। प्रयाति यातप्रतियातचक्रैर्नदीव धात्रीधरकन्धरेषु ॥३॥ रत्नमालायाम्—उदयादिनभस्तलगैर्दिनकृद्यमशीतकरैः। न भवन्त्यरयोऽभिमुखा हरिणा इव केसरिणः ॥४॥ रत्नमालायां—यमज्ञशुक्रेज्यमहीसुतेषु त्रिवन्धुलग्नास्तरिपुस्थितेषु।विलीयते वैरिचमूरणाग्रेलाक्षेव वह्नौनृपतेर्गतस्य ॥५॥ शशिनिचतुर्थे सविदि सितेऽस्ते जयतिगतोऽरीन्हरिरिव युद्धे ॥६॥दैवज्ञवल्लभे—ज्ञेसितेन सहितेऽस्तगे विधौ बन्धुगे प्रवसता महीपूजा। संगरेण रिपुणा विकीर्यते तूलराशिरिव मातरिश्वना ॥७॥लग्नेऽर्केसप्तमे चन्द्रे वित्ते सौम्ये गतो नृपः। सद्योऽरिपृतना हन्ति पूतनामिव

केशवः ॥८॥ योगयात्रायां— शुक्रवाक्पतिविदां धन एकः सप्तमे शशिनिलग्नगतेऽर्के। निर्गतो नरपतिर्न कृतार्थो वैनतेयवदरीन्विनिगृह्य ॥९॥रत्नमालायां— त्रिकोणकेन्द्रेषु भवन्ति सौम्या दुश्चिक्यलाभारिगताश्चपापाः। यस्यप्रयाणे तमुपैति रागाद्विपक्षलक्ष्मीरभिसारिकेव ॥१०॥ गुरुर्लग्नेरविः षष्ठेरन्ध्रे214 नेन्दुश्च गच्छतः। यस्य तस्यारिसेनाग्रे खलमैत्रीव न स्थिता ॥११॥लल्लः— गुरुरुदये रिपुराशिगतोऽर्को यदि निधने न च शीतमयूखः। भवतिगतोऽत्र वशी च नरेन्द्रो रिपुवनिताननतामरसानाम् ॥१२॥ श्रीपतिः— त्र्यायारिषु यमारौ चेच्छक्तिभाजः शुभग्रहाः। प्रयाणे नृपतेर्यस्य हस्तस्थातस्य मेदिनी ॥१३॥ रत्नकोशे— मूर्तिवित्तसहजेषुसंस्थिताः शुक्रचन्द्रसुततिग्मरश्मयः। यस्य यानसमये रणानले तस्य यान्ति शलभा इवारयः ॥१४॥रत्ननालायां— प्रयाति यो विलग्नगेगुरौ मृतिस्थिते विधौ। सितेऽरिगे सशास्त्यरीन्दिवस्पतिर्यथा सुरान् ॥१५॥ दैवज्ञवल्लभे— गुरौ बिलग्ने भृगुजेऽस्तसंस्थे चन्द्रेऽष्टमे हन्ति गतोऽरिसेनाम्। वृष्टिं यथा दक्षिणमार्गचारी ह्रस्वोयथारूक्षतनुश्च शुक्रः ॥१६॥ बृहयात्रायां— चन्द्रजे कवियुते सुखस्थिते कामगेशशिनि भूपतिर्गतः। घातयत्यरिवलं रणाङ्गगे तोयवेग इव सैकतं बलात्॥१७॥ दैवज्ञवल्लभे— दृष्टे शुभैस्तनुनभोहिबुकारिगे ज्ञे व्यक्तव्ययस्मरतनुष्वशुभेषुयाता। शौर्योत्थकीर्तिसुधया भुवनालयस्य दिग्भित्तिचक्रमखिलं धवलीकरोति ॥१८॥ रत्नमालायां—एकान्तरस्थे भृगुजाकुजाद्वा सौम्ये स्थिते सूर्यसुताद्गुरोर्वा। प्रध्वस्यतेऽरिर्न चिरोद्गतस्य वेषाधिको भृत्य इवेश्वरस्य ॥१९॥ श्रीपतिः— मध्यगेशशिनि सौम्ययुक्तयोर्बन्धुवर्तिनि च भूपतिर्गतः। वासवस्य ककुभंयमस्य वा वासवान्तक इव क्षमो भवेत् ॥२०॥ यात्राशिरोमणौ— यो यातिजीवे तनुगे महीशःक्रूरैःस्थितैर्व्योन्न्यथवाऽऽयसंस्थितैः। तस्याग्रतः संयतिवैरिसेना प्रीतिः खलानामिव न स्थिरा स्यात् ॥२१॥ लल्लः—त्रिषण्नवान्त्येशवली शशाङ्कश्चान्द्रिर्बलीयस्य गुरुश्च केन्द्रे। तस्यारियोषाभरणैःप्रियाणिप्रियाप्रियाणां जनयन्ति सैन्ये ॥२२॥ राजमार्तण्डे— त्र्यायारिदुश्चिक्यगतौयमारौ बलान्विता भार्गवजीवसौम्याः। यस्य प्रयाणे विलयं प्रयान्ति तस्य द्विषः सर्वरसोयथाऽप्सु ॥ २३॥ फलप्रदीपे— लाभविक्रमसुखस्थिते कवौकण्टकस्थगुरुणा निरीक्षिते। द्यूनरन्ध्रनववर्जितैःखलैःस्याद्गतोऽभि- -मतसिद्धिभाङ्नृपः ॥२४॥ ज्योतिःसागरे— सौन्यग्रहैः केन्द्रतपःसुखस्थैःक्रूरै-

स्त्रिलाभारिगतैर्गता ये। कोपानलः शान्तिमुपैति तेषां विरोधिनारीनयनाम्बुपातैः ॥२५॥ योगयात्रायाम्— एकोऽपि जीवार्ककुजार्कजानां स्वोच्चे विलग्नेस्वगृहे यदीन्दुः। यातस्य यान्त्यत्र परे प्रणाशं महाकुलानीव कुटुम्बभेदैः ॥२६॥ रत्नावल्यां— लग्नाच्चतुर्थो बलवाञ्छशाङ्कोयोगाद्विना चन्द्रबलेन याता। लब्ध्वाऽपि पृथ्वीं बहुरत्नपूर्णां क्षिप्रंक्षयं याति बली शशाङ्कः ॥२७॥ पापास्तृतीये हिवुके सितज्ञौजीवो विलग्नेमृगलाञ्छनोऽस्ति। गस्योद्गमे तस्य बलं रिपूणांयथा कृतघ्नेष्विवयाति नाशम् ॥२८॥ वराहः— चन्द्रेऽस्तगे देवगुरौ विलग्ने झशुक्रयोः कर्मणि लाभगेऽर्के। सौरारयोर्भ्रातृगमीश्चयाता नृपः स्वभृत्यानिव शास्ति शत्रून् ॥२९॥ राजमार्तण्डे— रविकुजयुतेऽरिभे गतानां जलसहजोपगतैःसितार्कजीवैः। परवलमुपयाति नागमाशु श्रुतमधनस्य कुटुम्बचिन्तयैव ॥३०॥ योगयात्रायां— स्वोच्चोपगैर्जीवकुजार्कजार्कैरेभिस्त्रिभिर्वा कथितैकलग्ने। राज्ञः प्रणाशं समुपैति शत्रुः सौख्यं द्विभार्यस्य यथाऽधनस्य ॥ ३१॥ योगार्णवे— लग्नायधर्मानुजखारिगेषु शुक्रेन्दुजीवार्ककुजार्कजेषु। सार्केन्दुजे चारिबलं प्रयाति कलत्रहीनालयवाद्विनाशम् ॥३२॥ योगयात्रायां— गुरौ विलग्नेयदि वा शशाङ्के षष्ठे रवौकर्मगतेऽर्कपुत्रे। सितज्ञयोर्वन्धुसुतस्थयोश्च यात्रा जनित्रीवहितानि धत्ते ॥३३॥ पत्यौ गिरांलग्नगते च शेषैरेकादशार्थोपगतैर्यियासोः। विदार्यते शत्रुबलं समन्ताद्धर्मोयथाहेतुशतैर्युगेऽन्त्ये ॥३४॥ सूर्यादयोऽरिमदनाम्बरशत्रुलग्नवन्धायगाः सुरगुरोर्दिवसश्चयस्य। यानेऽरिसैन्यमुपगच्छति तस्य नाशं दुष्ट्प्रतिग्रहवशादिव तीर्थपुण्यम् ॥३५॥ ऋक्षे गुरुज्ञौ बुधभार्गवौ वा यदा प्रविष्टौ युगपत्समेतौ। अर्थानवाप्नोति यथा विचित्राञ्छात्रःसुकामान्गुरुपूजयेव ॥३६॥बराहः— नक्षत्रमेकं युगपन्निविष्टौयदाधरित्रीतनयामरेज्यौ। कुर्यात्तदन्तं द्विषतां बलानां यथैनसां विप्र अयाच्यवृत्त्या ॥३७॥ योगयात्रायां— सिंहाजतौलिमिथुना मृगकर्कटौ च स्वेशान्विता भवति यस्य शनिश्च लाभे। तत्सैनिकाः परबलं क्षपयन्ति यातुर्मूर्खस्य चित्तमिव चारणचाटुवृक्षाः॥३८॥ शुक्रांशकादूर्ध्वमधः स्थिते बुधे यमारयोस्तत्र गतस्य भूपतेः। प्रयाति नाशं समरे द्विषां वलं यथाऽर्थिभावोपगतस्य गौरवम् ॥३९॥ लल्लः—क्षितितनययुतान्नवांशकाद्यदि शतमे भृगुजोऽथवा गुरुः। शतगुणमपि हन्त्यरेर्बलं विषमिव कायमसृक्पथं गतम् ॥४०॥ वृहस्पतिः— लग्ने केन्द्रे गुरौ याते चाऽऽपोक्लिमेनिशाकरे। शुक्रे कर्मगते योगो यात्रायांकार्यसिद्धिकृत् ॥४१॥ बलयुक्तेगुरौशुक्रे त्वथवा लग्नकेन्द्रगे। निशाकरोदये यातुर्यात्रायोगोऽयमुत्तमः ॥४२॥ तृतीयेऽर्के गुरौ लग्नेरिपोर्वारेयमेऽपि वा। हिवुकस्थे सुते ज्ञे वा खेऽब्जे

यात्राऽर्थलाभदा ॥४३॥ आयारिभ्रातृलग्नस्था अब्जारार्केन्द्रमन्त्रिणः। क्रमात्सितेऽनुकूले च यात्रा सर्वार्थसिद्धिदा ॥४४॥ लग्ने वा सप्तमे चन्द्रे जीवज्ञभृगुबोधने। यदिस्थिता शुभा यात्रा यातुरिष्टार्थसिद्धिदा215॥४५॥ त्रिषण्नवान्त्यगे चन्द्रे विबले सबले बुधे। गुरौ केन्द्रे तदा याता श्रियमायुश्चविन्दति ॥४६॥ कुजजीवार्कशुक्रज्ञास्त्रिसुतार्थाष्टसप्तगाः। यदि यात्रा शुभायातुः सर्वसंपत्समृद्धिदा ॥४७॥लग्नास्रितोयगा216 जीवरविशुक्राःक्रमादिमे।कुजो यदि यमो वाऽपि यात्रायोगः शुभावहः ॥४८॥अर्कवर्ज्या ग्रहाः सर्वे पञ्चराशौयदि स्थिताः। निरन्तरग्रहैर्योगो यात्रायां स्वार्थसिद्धिदः ॥४९॥ एकान्तरे ग्रहाःसर्वे षड्राशिषु यदि स्थिताः। शुक्रश्च पृष्ठतो यातुर्यात्रा सर्वार्थदा भवेत् ॥५०॥चन्द्रे ज्ञसितयोर्मध्ये जलगे लग्नगेऽपि वा। प्रयाता श्रियमाप्नोति जित्वाऽरीन्सवलानपि ॥५१॥ शुक्रज्ञौ जलगौ चन्द्रः स्मरगो यदि गच्छति। यात्राऽपि शुभदा लग्नंयदि पश्येत्सुरार्चितः ॥५२॥ एकान्तरगतौ भौमामरेज्यौ केन्द्रगौ यदा। तदायातुः शुभा यात्रा लग्ने शुभदृशा युते ॥५३॥यदा217 सितगुरू तारामेकांयातौतदा गतः। अभिप्रेतमवाप्याऽऽशु सुखी यायात्स्वमन्दिरम् ॥५४॥ बुधजीवौ ज्ञशुक्रौ वा तारामेकां गतौ यदा।तदाऽभ्युपैति क्षेमेण स्वगृहं प्राप्य चेप्सितान्॥५५॥ मन्दारार्कामराचार्येष्वेकः स्वोच्चेतु लग्नगः। कर्कटस्थेनिशानाथेयात्रा नृणां फलप्रदा ॥५६॥चन्द्रात्स्मरारिरन्ध्रेषु शुभा यदि गता ग्रहाः।यातुर्यात्रा शुभा राज्ञो रिपुघ्नीविजयावहा ॥५७॥ चन्द्रस्य द्वादशे कश्चिद्रविवर्जंग्रहः शुभः। द्विर्ताये चोभयत्रापि यात्रायोगास्त्रयः शुभाः ॥५८॥अङ्गिराः– लग्नचन्द्रर्क्षयोः षष्ठराशीशौयदि लग्नगौ। तदा नाऽऽगमनं नृणां तुल्यं स्याद्विषभक्षणैः ॥५९॥ नारदः– व्यापारशत्रुमूर्तिस्थेश्चन्द्रमन्ददिवाकरैः।रणे गतस्य भूपस्य जयलक्ष्मीर्वितन्यते ॥६०॥लग्ने शुक्रेऽथवा लाभे चन्द्रेबन्धुस्थिते सदा।गतो राजा रिपून्हन्ति पुण्यराशिमिवानृतम् ॥६१॥स्वोच्चसंस्थेसितेकेन्द्रे स्वोच्चे चन्द्रे च लाभगे। गतो राजा रिपून्हन्ति प्रज्वलद्वह्न्यणुर्यथा ॥६२॥स्वोच्चस्थे लग्नगे जीवे चन्द्रे वाऽऽयगते यदि। गतो राजा रिपून्हतिपिनाकी त्रिपुरंयथा ॥६३॥मस्तकोदयगे शुक्रे लग्नस्थे लाभगे गुरौ। गतो राजा रिपून्हन्तिकुमारस्तारकं यथा ॥६४॥ शुभैः केन्द्रत्रिकोणस्थैर्लग्ने चन्द्रेऽथवा रवौ।शत्रून्हन्ति गतो राजा ब्रह्मद्वेषोयथा कुलम् ॥६५॥ स्वक्षेत्रगे शुभे केन्द्रत्रिकोणायगते गतः। विनाशयत्यरीन्राजा शान्तिर्दुष्टभयं यथा ॥६६॥इन्दौ

स्वस्थे गुरौ केन्द्रे सबले च विशेषतः। नृपो हन्ति रिपून्सर्वान्कर्म ज्ञानोदयोयथा ॥६७॥वर्गोत्तमगते शुक्रे जीवे वाऽपि विलग्नगे।रसत्यागो यथा पापं हन्तिशत्रून्गतो नृपः ॥६८॥ जन्मेशो वापि लग्नेशो यात्रालग्नेश्वरोऽपि वा। पूर्णेन्दुर्वा दिगीशो वा केन्द्रे गन्ता श्रियं लभेत् ॥६९॥ बृहद्यात्रायां— यद्वविद्याध्ययनं द्रव्यलोभाद्भस्मीकुर्यात्पुण्यराशिं गुरुं च। वेशिस्थानं लग्नगं यानकालेशत्रून्हत्वाऽभ्येति गेहंकृतार्थः ॥७०॥ ये जातकोक्तक्षितिपालयोगैर्महीभृतोयान्ति रिपून्विजेतुम्। तेषां प्रकोणाग्निरुपैति शान्तिं विद्वेषियोपाश्रुजलप्रवाहैः ॥७१॥ बृहज्जातके— वक्रार्कजार्कगुरुभिः सकलैस्त्रिभिर्वा स्वोच्चेषु षोडश नृपाःकथितैकलग्ने।द्व्येकाश्रितेषु च तथैकतमे विलग्ने स्वक्षेत्रगे शशिनि षोडशभूमिपाः स्युः ॥७२॥ पितामहः—वर्गोत्तमगते लग्ने केन्द्रे वा चन्द्रवर्जिते।चतुराद्यैर्ग्रहैर्दृष्टेनृपा द्वाविंशतिः स्मृताः ॥७३॥ मेषादौराशौ स्थितैर्निरूप्यमाणेवेदाङ्गयमाः २६४।एवं विलग्नेपि २६४। उभयम् ५२८।आद्याःसर्वे५६०। अन्येऽपि जातकोक्ता विलोक्याः।नारदः— ये नृपा यान्त्यरीञ्जेतुंतेषांयोगैर्नृपाह्वयैः। उपैति शान्तिं कोपाग्निःशत्रुयोपाश्रुवारिभिः ॥७४॥

इति यात्रायां योगाः।

अथ राजयोगभङ्गः।

ज्योतिर्विवरणे— ये योगा ग्रहलग्नाभ्यां चोक्तास्तैचोत्तमोत्तमाः। केवलं द्युचरैर्मध्या जघन्या विबलैश्च तैः ॥१॥ज्योतिष्प्रकाशे— विबलग्रहयोगेण यः प्रयातिस संगरे। ब्रीडां प्राप्नोति किंचिज्ज्ञो यथा सदसि भूभृतः ॥२॥ जातके— पञ्चभिर्नीचगैः खेटैरस्तं यातैरथापि वा। प्रयान्ति विलयं योगा भूभुजांयेप्रकीर्तिताः ॥३॥ परनीचगते चन्द्रे क्षीणे योगे महीपतिः। नाशमायाति राजेवदैवज्ञप्रतिलोमगः ॥४॥त्रिविधे तु महोत्पाते त्रिशङ्कुनृपभोदये। राजयोगा लयंयान्ति दम्भे कर्मफलं यथा ॥५॥ जातकोत्तमे— केषद्रुमेण यो याता यात्रास्यात्तस्य निष्फला। राजयोगा लयं यान्ति क्षिमं भिक्षोर्विलासवत् ॥६॥ज्योतिष्प्रकाशे— न केषद्रुमजो याता सम्यग्यात्राफलं लभेत्। विरक्तिं संगतेयान्ति वृद्धे मुग्धामनोरथाः ॥७॥

इति राजयोगभङ्गः।

अथ यात्रायामनिष्टयोगाः।

रत्नावल्यां— जन्मोदयर्क्षंहिवुकास्तसंस्थं यस्याशुभैर्दृष्टयुतं न सौम्यैः। स शाण्डिलीं प्राप्य यथा गरुत्मान्दैन्यंगतोऽभ्येति हतस्वपक्षः ॥१॥ श्रीपतिः— यदीयजन्मोदयगे सुखास्तगे खलग्रहैर्दृष्टयुते न शोभनैः। स गोग्रहे पार्थजितःसुयोधनो यथा तथाऽभ्येति गृहं त्रयान्वितः ॥२॥दैवज्ञबल्लभे—लग्ने विवीर्यैर्विवलैश्च सौम्यैः शून्येषु सर्वेष्वपि कण्टकेषु। कृतप्रयाणो भ्रमति क्षितीशो यष्ट्याविहीनोऽन्यइवाकृतार्थः ॥३॥ रत्नकोशे— शून्येषु केन्द्रेष्वबले च लग्ने सौम्यग्रहैर्वीर्यविवर्जितैश्च। दत्ता गयायामिव जारजातैः पिण्डाः पितॄणां क्षितिपा भ्रमन्ति ॥४॥केन्द्रत्रिकोणेषु शुभाः प्रशस्तास्तेष्वेवपापा न शुभप्रदाः स्युः।पापोऽपि कामं बलवान्नियोज्यःशून्यं हि केन्द्रं न शुभाय वाच्यम् ॥५॥ लल्लः— क्रूरग्रहयुते लग्ने क्रूरेणैवनिरीक्षिते। योगानामधमो योगः सर्वकार्यार्थनाशकः ॥६॥बादरायणः— नष्टस्य वक्रस्य तनुः शुभस्य क्रूरस्य वा हन्ति शुभं प्रयातुः।यथाऽग्रजस्त्री पतिताऽमला वा श्रेयोहरा दास्यविधौ न युक्ता ॥७॥

इति यात्रायामनिष्टयोगाः।

अथ यात्रायां मनोविशुद्ध्यादि।

श्रीपतिः— शकुननिमित्तमनोभिरनिन्द्यैरुदयविशुद्धिमिह प्रतिपद्य। रिपुविषयं प्रतियो विजिगीषुर्व्रजति तमेत्यचिराद्विजयश्रीः ॥१॥शकुनो वक्ष्यमाणः। निमित्तमङ्गस्फुरणादि। मनश्चित्तम्। उदयशुद्धिर्लग्नशुद्धिः। रत्नावल्यां— शुभाशुभानिसर्वाणि निमित्तानि स्युरेकतः। एकतश्चमनो यातुस्तद्विशुद्धिरिद्देष्यते ॥२॥ च्यवनः— एकयैव मनःशुद्ध्या यत्कर्म क्रियते बुधैः। तत्सर्वं सिद्धिमाप्नोतितद्विनानिष्फलं भवेत् ॥३॥ श्रीपतिः— निमित्तराशिरेकतो नृणां मनस्तथैकतः। अतोयियासतां नृणां मनोविशुद्धिरिष्यते ॥४॥ भृगुः— चित्तोत्साहो निमित्तं चसुस्वप्नः शकुनस्तथा। एतान्येव विलोक्यानि यात्राकाले विशेषतः ॥५॥ब्रह्मयामले– चित्तोत्साहो निमित्तं च शुभलग्नंबलं तथा। यस्यैतान्यनुकूलानितस्य सिद्धिः करे स्थिता ॥६॥दैवज्ञबल्लभे— स्पन्दनं दक्षिणे पार्श्वे विपृष्ठ218उदये219हितम्। वामपार्श्वे तु नारीणां मनसश्चानुकूलता ॥७॥

इति यात्रायां मनोविशुद्धयादि।

अथाऽऽवश्यके यात्रा।

रत्नकोशे– कार्येषु पराधीनेष्वनेकसाधारणेषु सर्वेषु। प्रायेण गमनामिष्टं सदैव नसूक्ष्मचिन्ताऽस्ति ॥१॥ बृहद्यात्रायाम— अवश्यमेव यातव्यं कार्येष्यत्ययिकेषु च।सौम्योदये बिलग्ने च कार्यसिद्धिं विनिर्दिशेत् ॥२॥ रत्नावल्याम्– आवश्यके तथा याने सौम्येऽस्ते निधनेऽथवा। व्रजेदस्तोदयेऽर्के वा मध्याह्नेवाऽविशङ्कितः ॥३॥ पूर्वाह्नेनोत्तरां गच्छेन्मध्याह्ने पूर्वतो व्रजेत्। अपराह्ने ब्रजेद्याम्यां मध्यरात्रे न पश्चिमे ॥४॥ न तस्याङ्गारको विष्टिर्नशनैश्चरजं भयम्।व्यतीपातो न दुष्येत यस्यार्को दक्षिणे स्थितः ॥५॥ पृष्ठतो वा रविं कृत्वागच्छेद्दक्षिणतस्तथा। उत्तानपादपुत्रस्य शेखरे चोर्ध्वसंस्थिते ॥६॥ ज्योतिष्प्रकाशे— आवश्यकगमे मूर्तौसौम्येऽस्ते निधनेऽथवा। व्रजेत्सूर्योदयेऽस्ते वामध्याह्ने कार्यसिद्धये ॥७॥ यात्रासारे— उपः प्रशस्यते गर्गःशकुनं च वृहस्पतिः।अङ्गिरा मनउत्साहं विप्रवाक्यं जनार्दनः ॥८॥ अष्टौपादा बुधे स्युर्नव धरणिसुते सप्त जीवे पदानि ज्ञेयान्येकादशर्क्षे शशिशनिभृगुजेसार्धचत्वारि पादाः।तस्मिन्काले मुहूर्तः सकलगुणयुतः सर्वकार्यार्थसिद्ध्यैनास्मिन्पश्चाङ्गशुद्धिं न चखचरबलं भापितं गर्गमुख्यैः ॥९॥ वृहस्पतिः—कृतनृपमुनितिथिपक्षद्वादश-रुद्राङ्गुलानि ४। १६। ७। १५। २। १२। ११ वै कश्चित्। सिद्धा छायाक्रमशो ख्यादिषु सर्वकार्यसिद्धिकरी ॥१०॥

इत्यावश्यके यात्रा।

अथ यात्रोपयोगि मिश्रकम्।

रत्नकोशे—रक्तासिताद्या हि यथाऽम्बरस्य वर्णाः सितस्यैव भवन्ति सम्यक्।विलग्नतिथ्यादिगुणास्तथैव विशुद्धदोषस्य भवन्ति यातुः ॥१॥ योगयात्रायां—गुणान्वितस्यैव गुणात्करोति यात्रा शुभर्क्षग्रहलग्नयोगा। व्यर्थासदोषस्यगुणान्विताऽपि वीणेव शब्दाश्रयवर्जितस्य ॥२॥ श्रीपतिः—गुणैः समस्तैरपिसंप्रयुक्ता कन्येव यात्रा विगुणाय दत्ता। करोत्यकीर्तिं सुखवित्तहानिं यात्रान्तरज्ञानजडस्य दातुः ॥३॥ ज्योतिष्प्रकाशे—दैवी च मानुषी यस्मिन्संपत्तस्यगमादिकम्। तपोविद्यान्विते पात्रे दानवत्सफलं भवेत् ॥४॥ असंतुष्टे शठे धूर्ते प्रत्ययं पश्यतां तथा। ज्योतिषोक्तफलादेशो व्यर्थोदेवोज्झिते जने ॥५॥बृहद्यात्रायां— प्रकृतिविशुद्धा छाया मनोविशुद्धिर्जनानुकूल्यं च। औत्पातिकं चन स्यात्संपद्दैवी स्मृता पुंसाम् ॥६॥ मित्राणि कोशदण्डौ भृत्यामात्यौस्वजन्मदो

दुर्गम्। संपद्येषां तेषां विज्ञेया मानुषीसातु ॥७॥ यात्रा विशुद्धाऽपि समं प्रवृत्ता यात्रानुरूपाणि फलानि धत्ते। जगत्युदीर्णाऽपि हि कौशिकस्य भाभानवी नैव तमः प्रमार्ष्टि॥८॥ ज्योतिष्प्रकाशे— यथोपाधिवशेनैव भिन्नास्यात्स्फटिकद्युतिः। तथा यात्राऽनुरूपैषाभिन्नं यात्राफलं भवेत् ॥९॥ यादृशीवचनव्यक्तिस्तादृशी वदने भवेत्। यथा तथा स्मृता यात्रा बुधैर्दैवोद्यमानुगा॥१०॥ यात्रा शुद्धाऽपि सर्वेषां न समं तनुते फलम्। ज्योत्स्नावद्विरहार्तानां शुचेऽन्येषां सुखावहा ॥११॥ सुमुहूर्तेऽपि नो कार्यं कुमुहूर्तेऽपि शोभनम्। कुत्रचिद्दृश्यते किंचित्कारणं ब्रूहि शास्त्रतः ॥१२॥गर्गः— तिथिवारर्क्षलग्नादेर्यदुक्तं सदसत्फलम्। तत्सर्वं जातकाधीनं न स्वतःफलदक्षम(दं मत)म् ॥१३॥ ज्योतिष्प्रकाशे– यत्र जन्मफलं शस्तं दुष्टं तात्कालिकं भवेत्। कार्यं सिध्यति कृच्छ्रेण सिद्धौ सौख्यार्थसंपदाम् (दः) ॥ १४॥कर्मकालफलं शस्तं दुष्टं स्याज्जन्मजं फलम्। कार्यंभूत्वाऽपि तत्पश्चाद्विघ्नंत(घ्नस्त)त्र प्रजायते ॥१५॥ शुभयोरुभयोः शस्तं फलं संपूर्णमाप्यते। द्वयोर्मध्यमयोर्मध्यमशुभं च जघन्ययोः ॥१६॥ बृहयात्रायां—यात्रादौ सदसत्पाकंकारकादि शुभं स्फुटम्। ततो यात्रां वदेद्राज्ञां यशोलाभसुखाप्तये ॥१७॥भूपालबल्लभे— प्रवरासदृशा पाकेऽष्टवर्गे मध्यमा शुभे। न्यूना तत्कालदिवसाचन्द्रलग्नबलादिना ॥१८॥विद्वज्जनबल्लभे— जन्मसमयोत्थफलतो यात्राकालोत्थितं न बलवत्। यात्राकालोत्थं च प्रश्नफलं दुर्बलमुशन्ति ॥१९॥ एषां तुफलविरोधे विमृश्य सम्यग्बलाबलं स्वधिया। पौर्वापर्यंफलयोर्वाऽऽप्यत्वं220 वाफलं वाच्यम् ॥२०॥ ज्योतिष्प्रकाशे— एके वदन्ति यात्रोत्थफलात्प्रश्नफलंलघु। अनयोर्बलवत्सर्वैरुक्तं जन्मफलं स्फुटम् ॥२१॥ फलग्रन्थेषु या यात्राप्रोक्ता सा शुभकर्मसु। सङ्ग्रामे स्वरशास्त्रोक्तैर्जययोगः फलप्रदा ॥२२॥यात्रारत्नावल्याम्– आक्षेपशीलःपरुषाभिभाषीपरापवादी परदारगामी। लुब्धोऽसहायो व्यसनी कृतघ्नः स्थितिप्रभेत्ता करशीर्णराष्ट्रः ॥२३॥विस्रम्भहा क्रोधपरो नृशंसः क्षुद्रः प्रमादी न बहुश्रुतश्च। दिव्यान्तरिक्षक्षितिजैर्विकारैर्निपीडितोयश्च स दैवद्दीनः ॥२४॥ वृहद्यात्रायाम्— अदैवलक्ष्मान्यगुणेन राज्ञा तादृग्विधोऽरिस्त्वनुयुक्तमात्रः।तरुघुणैर्जग्ध इवाल्पवीर्यो महानपि क्षिप्रमुपैति भङ्गम् ॥२५॥यस्मिन्देशे पुरे गेहे त्रिविधोत्पातपूर्वकम्।दृश्यते तत्र भङ्गः स्यादित्युक्तं ब्रह्मयामले ॥२६॥ रत्नमालायाम्—उद्बाहमङ्गलोत्सवकल्याणाभ्युदयसूतिकाशौचे।असमाप्ते तु न यात्रां कुर्वीत जिजीविपुः पुरुषः ॥२७॥मङ्गलं पुत्रान्नप्राश-

नादि। उत्सवः कौमुदीप्रभृतिः। कल्याणाभ्युदयो रोगमुक्तस्य शुभकृत्यम्। गर्गः— प्रवेशान्निर्गमश्चैव निर्गमाच्च प्रवेशनम्।नवमे जातु नो कुर्याद्धिष्ण्ये वारे तिथावपि ॥२८॥ भृगुः**—**प्रवेशनिर्गमौ स्यातामेकस्मिन्दिवसे यदि। तदा प्रावेशिकंकार्येचिन्तयेन्न तु यात्रिकम् ॥२९॥ दवज्ञवल्लभे–– यायान्नाकालसंभूतैर्विद्युद्गर्जितवर्षणैः। त्रिविधैरपिचोत्पातैर्दृष्टैरासप्तरात्रतः ॥३०॥ रत्नमालायां— सौदामिनीवर्षणगर्जितेषु नाकालजेषुप्रवसेन्नरेन्द्रः। आसप्तरात्राद्भुतदर्शनेषु दिव्यान्तरिक्षक्षितिजेषु चैवम् ॥३१॥

इति यात्रोपयोगि मिश्रकम्।

अथ प्रयाणे कर्तव्यानि।

रत्नमालायां—हुत्वा वह्निं देवताश्च प्रणम्यश्रद्धायुक्तः स्वस्ति वाच्य द्विजेन्द्रान्। ध्यायन्नाशाधीश्वरं हृष्टचेताः क्षोणीपालो निर्विकल्पं प्रयायात् ॥१॥ लल्लः—हुत्वाऽनलं नमस्कृत्य देवताः स्वस्ति वाच्य विप्रांश्च।ध्यायन्दिगीशमविलम्बितं ब्रजेद्भूपतिः सुमनाः ॥२॥ रत्नमालायां— स्वनिक्रेतात्सुरभवनात्प्रधानादाश्रयाद्गुरुगृहाद्वा। यायात्कृताग्निकार्यःप्राश्य हविष्यं द्विजानुमतम् ॥३॥ वैन्यं पृथुं हैहयमर्जुनं च शाकुन्तलेयं भरतं नलं च। रामं च यो वै स्मरतिप्रयाणे तस्यार्थलाभो विजयश्च सिद्धिः ॥४॥ तिथ्यादिकालावयवाविलग्नंसूर्यादिखेटाः कुलदेवताश्च। भूतानि विघ्नेश्वरविप्रकेशाः कुर्वन्तु कल्याणमिहप्रयाणे ॥५॥ बृहद्यात्रायाम्— अथ शङ्खवेणुवीणादुन्दुभिनिर्घोषवर्धितोत्साहः।ध्वजचामरातपत्रः सिताङ्गरागान्वरोष्णीषः॥६॥ रत्नकोशे—प्राचीं गजेनयायाच्छुचिर्जपञ्छाकुनं सूक्तम्।याम्यां च कृष्णवासा रथेन विधिवज्जपन्दौर्गम् ॥७॥ मानस्तोकं जपित्वा221 दिशं प्रतीचीं हयेन निर्यायात्। अप्रतिरथंच जप्त्वा यायात्सौम्यां नृयानेन ॥ ८॥ बृहस्पतिः— शुक्लमाल्याम्बरः शुद्धोमुक्तादिसितभूषणः। बारेशसमवर्णो वा बालग्रहसमोऽपि वा ॥९॥ दृष्ट्वाऽष्टौमङ्गलान्गच्छेन्नृपतिर्मङ्गलां गिरम्। श्रुत्वा तूर्यजशब्दांश्चनिजधाम्नः पुरादपि ॥१०॥पूर्णकुम्भं ध्वजं छत्रंदीपं शङ्खं च चामरम्।हिरण्यं शस्त्रमादित्यं प्राहुर्मङ्गलमष्टकम् ॥११॥ दधिदूर्वाक्षतागन्धहेमरुक्ममर्णीस्तथा। दृष्ट्वास्पृष्ट्वाव्रजेद्राजा दक्षिणेनाङ्घ्रिणा ततः ॥१२॥ गर्गः— नत्वेष्टदेवतां विप्रान्दैवतं च दिगीश्वरम्। सम्यक्संपूज्य दैवज्ञं श्रद्धायुक्तो नृपो व्रजेत् ॥१३॥

बृहस्पतिः— दैवज्ञं पूजयित्वा तु विदुषः पूज्य शक्तितः। प्रदक्षिणानिमान्कृत्वा तिष्ठन्ध्यायेदुमापतिम् ॥१४॥ कश्यपः— यात्रासमये वृद्धानुपरागे[वा] ग्रहस्य वैषम्ये।गोभूहिरण्यवस्त्रैः संपूज्य श्रद्धया च दैवज्ञम् ॥१५॥ चिन्तामणौ— कुलीनः सत्यवादी च जितवर्गस्तु भाग्यवान्। संतोषी चारुवेषश्च श्रौतस्मार्तोक्तकर्मकृत् ॥१६॥ प्रगल्भो देशकालज्ञः स्वस्थारिष्टादिहेतुवित्। त्रिस्कन्धाभ्यासनिरतो राज्ञां सांवत्सरो मतः ॥१७॥ भूपालवल्लभे— गजाश्वरथपत्तीनां लक्षणेषु विशारदः। युद्धव्यूहादिकुशलः शास्त्रज्ञानाभिचारवित्222॥१८॥चतुरङ्गेण सैन्येन यत्कार्यं नैवसिध्यति। तत्साधयति दैवज्ञो हेलयैव नृपेप्सितम् ॥१९॥ जयार्णवे— तथान माता हितकृन्न पिता न सुहृद्गुरुः। यथा सांवत्सरो राज्ञां स्वयशोधर्मवृद्धये ॥२०॥ यः पूजयति दैवज्ञं स्वधर्भरतमग्रजम्। तस्य श्रीविजयः कीर्तिश्चिरं राज्यं च नन्दति ॥२१॥ लल्लः— श्रद्धायुक्तः शुचिः स्नातः प्रसन्नेन्द्रियमानसः। पूजितो बन्धुवर्गेण यात्रा तस्य फलप्रदा ॥२२॥बृहद्यात्रायां— स्नातो भुक्तोऽनुलिप्तश्चसर्वालङ्कारभूषितः। शुक्लाम्बरधरः श्रीमानध्वगः सुखमेधते ॥२३॥ मक्षिकाकचसिकतानुविद्धं दुर्गन्धि क्षयकृद्भूरियच्च दग्धम्223।स्वस्विन्नं सुचिरं मनोनुकूलं स्वाद्वन्नंबहु च जयाय यानकाले ॥२४॥ फलप्रदीपे— विप्रान्प्रदक्षिणीकृत्य पूजयित्वा तु शक्तितः। दैवज्ञं देवताश्चैव वद्धान्मोच्य सुखं व्रजेत् ॥२५॥ लल्लः— ताम्रपात्रे तिलान्कृत्वा सघृतान्हेमसंयुतान्। निवेद्य विप्रमुख्याय दैवज्ञाय ततो व्रजेत् ॥२६॥ गर्गः— मुहूर्तसमये प्राप्ते हंसचाराङ्घ्रिणा व्रजेत्। दैवज्ञामात्यविप्राद्यपुरोगैः स्वजनैर्वृतः ॥२७॥ज्योतिष्प्रकाशे— ततो निरीक्ष्य वै सम्यक्शकुनांश्चशुभाशुभान्। तथैव सदसच्छब्दान्निमित्तानि च वै व्रजेत् ॥२८॥

इति प्रयाणे कर्तव्यानि।

अथ नियमाः।

ज्योतिष्प्रकाशे— संतोष्यस्वाङ्गनांविप्राञ्जप्त्वाऽप्रतिरथादिकम्।शुचिःशुक्लाम्बरोष्णीषोनत्वेष्टं सुमना व्रजेत् ॥१॥ गर्गः— क्रोधं क्षौरं रतिं वान्तिं तैलाभ्यङ्गाश्रुमोक्षणे।द्यूतं मांसं गुडं तैलं याने मद्यं परित्यजेत् ॥२॥ रत्नकोशे— फालीयकं हिङ्गुलकः कुङ्कुमंरक्तचन्दनम्। पीतं रक्तं च वसनं यातुर्नेष्टं निरीक्षणात् ॥३॥ बृहद्यात्रायां— कटुतैलगुडक्षारपकमांसाशनं तथा।

भुक्त्वा यो याति मोहेन व्याधितः सन्निवर्तते ॥४॥लल्लः— प्रस्थानकालेमनुजो वर्जयेन्मैथुनं सदा। वपनंछेदनं चैव तैलाभ्यङ्गाश्रुमोक्षणे ॥५॥प्रमत्तो व्याधितो भीतः श्रान्तः क्रुद्धो बुभुक्षितः। अध्वानं न प्रपद्येत क्लीववेपस्तथैव च ॥६॥ रत्नावल्यां— स्वकीयां परकीयां वा स्त्रियं पुरुषमेव च।ताडयित्वातु यो गच्छेत्तदन्तं तस्य जीवितम् ॥७॥ भूपालबल्लभे–—ब्राह्मणान्नावमन्येत कोपयेन्न निजाङ्गनाम्। यात्रां कृत्वा गृहंनैव सिद्धिकामो विशेत्पुनः ॥८॥लल्लः— यात्रायां प्रस्थितो यश्च ब्राह्मणानवमन्यते। तदन्तं जीवितं तस्य नासौप्रतिनिवर्तते ॥९॥ बृहद्यात्रायां— यस्तु संप्रस्थितो यात्रां स्वभार्या नाभिनन्दति। भार्या वा नाभिनन्देत नास्य प्रतिनिवर्तनम् ॥१०॥ यात्राकाले तुसंप्राप्तेमैथुनं यो निषेवते। रोगार्तः क्षीणकोशश्चस निवर्तेत वा न वा ॥११॥रत्नावल्यां— कृत्वा तु मैथुनं रात्रौप्रभाते योऽभिगच्छति। नासौफलमवाप्नोतिकृच्छ्रेणापि निवर्तते ॥१२॥ यस्तु संप्रस्थितो यात्रां निवर्तेत पुनर्गृहम्।कामाद्वा यदि वा मोहान्न स सिद्धिमवाप्नुयात् ॥१३॥लल्लः– न कुर्यात्स्वगृहेगच्छन्प्रस्थानं तु कदाचन। भूतिकामस्तु कुर्वीत गृहानिष्क्रम्य दूरतः॥१४॥भृगुः—त्रिरात्रं वर्जयेत्क्षीरं पञ्चाहंक्षुरकर्म च। तदहश्चावशेषाणि सप्ताहं मैथुनंत्यजेत् ॥१५॥बादरायणः— यावद्ब्रजति चाध्वानं यावत्कार्य न सिध्यति।यावद्वा न निवर्तेत तावद्वर्ज्यंहि मैथुनम् ॥१६॥रत्नावल्यां— योधानामविरोधेन यवसौदनमेव च। पञ्चरात्रोपितः सेनां पुनर्भद्रेण योजयेत् ॥१७॥ क्रोशोवा यदि वाऽप्यर्धं प्रथमेऽहनि शस्यते। द्वितीये योजनं गत्वा निवसेत महीपतिः॥१८॥ तृतीये योजनं सार्धं वसेदाक्रम्य दूरतः। ततः परं यथेष्टं तु यायान्मार्गे महीपतिः ॥१९॥ वृहद्यात्रायां— स्निग्धास्थिरा सुरभिगुल्मलता सुगन्धाशस्ता प्रदक्षिणजला च निवासभूमिः।नेष्टाविपर्ययगुणा कचशर्करास्थिवल्मीककीटकविभीतकसंकुला च ॥२०॥

इति प्रयाणे नियमाः।

अथ यात्रायां प्रस्थानविधिः।

रत्नकोशे— कार्यवशात्स्वयमगमे भूभर्तुः केचिदाचार्याः। छत्रायुधाद्यमिष्टंवैजयिकं निर्गमे कुर्यात् ॥१॥ श्रीपतिः— अपेक्ष्य कार्य स्वयमप्रयाणे महीभृतांनिर्गममाहुरार्याः।छत्रायुधाद्यंमनसस्त्वभीष्टं प्रचालयेद्वैजयिकं जयार्थी ॥२॥

गन्धपुष्पान्वितं कृत्वा निर्गमे पूर्वमातृकम्। शुचौ देशे निदध्यात्तु यस्मिन्बाधा नविद्यते ॥३॥ छत्रशस्त्राक्षमालाग्निक-मण्डल्वाजिनाम्बरम्। विप्राणां ब्रह्मसूत्रंच निर्गमे कार्यसाधनम् ॥४॥ वरयष्टिध्वजेभाश्वैश्छत्रवाद्यायुधांशुकैः। दोलार्थरथसंनाहैर्निर्गमो भूभृतां हितः ॥५॥ गर्गः—यानवाहनसंनाहकार्योपकरणानि च। निर्गमे तु प्रशंसन्ति पश्चाद्गच्छेद्यथासुखम् ॥६॥ छत्राद्यं ध्वजमक्षसूत्रवलयं यज्ञोपवीतं द्विजैर्वैश्यैश्च स्वकदेहवस्त्रतुरगाः क्षत्रस्य खड्गो धनुः।ग्रामोपान्तनदीतटामरगृहोद्याने सुवापीतटेप्रस्थानं सुबुधैः प्रयाणसमये कार्यं सदा मानवैः ॥७॥यस्य लोकस्य यद्वस्तु स्वाभीष्टं वसनादिकम्।मुहूर्तसाधनायैव प्रचाल्यं तन्मुदान्वितैः ॥८॥स्वशरीरेण यः कश्चिन्निर्गच्छेच्छ्रद्धयाऽन्वितः। तस्य यात्राफलं सर्वं संपूर्णं पथि सिध्यति ॥९॥ प्रस्थानं चालयेद्वाऽपिगृहात्प्राकारतोऽपि च। क्रोशार्धं वा तदर्धंवा चत्वारिंशत्करावधि ॥१०॥गृहाद्गृहान्तरं गर्गआह सीमान्तरं भृगुः।शरक्षेपाद्भरद्वाजो वसिष्ठो नगराद्बहिः॥११॥ अथ प्रस्थाने स्थितो राजा प्रास्थानिकं वा वस्तु यावद्दिनानि मुहूर्तं नापेक्षते तदुच्यते रत्नमालायां— वसेन्न चैकत्र दश क्षितीशो दिनानि नो सप्तच माण्डलीकः।यः प्राकृतः सोऽपि च पञ्चरात्रं भद्रेण यात्रा परतः प्रयोज्या ॥१२॥समन्ततः षोडश योजनानि भुङ्क्ते महामाण्डलिकाभिधानः। भूपालसंज्ञः शतयोजनानि स सार्वभौमः सकलां धरित्रीम् ॥१३॥ ज्योतिष्प्रकाशे— स्वेष्टं वस्त्रादिसुस्थाने शुचि प्रास्थानिकं न्यसेत्। प्रस्थानं पञ्चवेदत्रिद्विदिनं पूर्वतःक्रमात् ॥१४॥ प्राच्यां दिनानि मुनयः प्रवदन्ति सप्त याम्यामतीव शुभदानिदिनानि पञ्च।त्रीण्येव पश्चिमदिशि क्षितिनायकानां प्रास्थानिकेषु दिवसद्वयमुत्तरस्याम् ॥१५॥ एकत्राध्युषितस्य जगुर्यात्रामत्रात्रिगौतमच्यवनाः। पञ्चत्रिसप्तदिवसा भूयो भद्रेण संयोज्याः ॥१६॥ज्योतिष्प्रकाशे—कार्यान्तरवशात्प्राप्तःपरदेशगतस्य चेत्।यानमन्यत्र तत्स्थानात्सुमुहूर्ते तदा व्रजेत् ॥१७॥रत्नावल्यां—श्रवणे तदहः पुण्ये पौष्णे वसुभे विनिर्गतोऽन्येद्युः। मृगमैत्रयोस्तृतीये हस्ते यायाच्चतुर्थर्क्षे॥१८॥ अथ राजा कार्यवशादेकत्र प्रदेशे दशदिनानि वसेत्।माण्डलिकः [सप्त] दिनानि।अन्यो जनः पञ्च दिनानि तिष्ठेत्प्रास्थानिकं वा स्थापयेत्। तदाऽन्येन सुमुहूर्तेन यात्रां कुर्यात्। न शुभं तेनैव मुहूर्तेनेत्यर्थः। अथ कश्चिदाह—अयुक्तमेतत्प्रतिभाति नूनं होराविदां युक्तिमतां बहूनाम्। यात्रासमाप्तिःखलु वाञ्छितार्थफलस्य सिद्धौ नियतं प्रदिष्टा ॥१९॥ ज्योतिष्प्रकाशे— प्रस्थानेऽपि कृते नेयान्महादोषान्विते दिने। गर्गयोगं विना कालवृष्ट्याही वाद्भुते

तथा ॥२०॥ जन्मर्क्षेवाऽष्टमे चन्द्रे वारे भौमे शनैश्चरे। प्रस्थितोऽपि न वै गच्छेदत्यन्तं गर्हिते दिने ॥२१॥

इति यात्रायां प्रस्थानविधिः।

_____

अथ यात्रायां शकुनाः।

तिथिधिष्ण्यं च वारश्च लग्नं ग्रहबलं तथा। पञ्चानामपि सर्वेषां शकुनो दण्डनायकः॥१॥ वसन्तराजः—चूडामणिज्योतिषशास्त्रहोरास्वरोदयाद्यैर्विषमैर्जनस्य।जडीकृतस्यौषधमेतदुक्तं स्फुटं चमत्कारिरसातिरेकम् ॥२॥ नक्षत्रवारैस्तिथिभिश्चलग्नैः कार्यं न किंचिच्छकुने विरुद्धे। दोषेऽपि तेषां शकुनेऽनुकूले सदैव सिध्यन्तिसमीहितार्थाः ॥३॥रत्नकोशे—नक्षत्रस्य मुहूर्तस्य तिथेश्च करणस्य च।लग्नस्यग्रहवीर्यस्य शकुनो दण्डनायकः ॥४॥ वसन्तराजः—लोकेऽमुना शाकुनसंज्ञकेनज्ञानेन विज्ञाय समस्तकार्यम्। नापायकूपे पतति प्रसर्षञ्छाशं हि दिव्यादृगतीन्द्रियेषु ॥५॥ पूर्वजन्मकृतकर्मणः फलं पाकमेति नियमेन देहिनाम्।तत्प्रकाशयति दैवचोदितः प्रस्थितस्य शकुनस्थितस्य च ॥६॥ बृहद्यात्रायाम्—अन्यजन्मान्तरकृतं कर्म पुंसां शुभाशुभम्।यत्तस्य शकुनः पाकंनिवेदयतिगच्छतः॥७॥ गर्गः—तत्राषशकुने शीघ्रं कार्य परिहरेद्बुधः। शुभे तु शकुने नूनं स्वाभीष्टं च समारभेत्॥८॥ वसन्तराजः—नन्ववश्यमुपभुज्यते नृभिः प्राक्तनस्य निजकर्मणः फलम्।तेन किं शकुनसंविदा जनोयत्र दैवमतिवर्तितुं क्षमः ॥९॥ ज्योतिष्प्रकाशे—नैतदेवं हि तत्पाकोऽकाले नैव व्यवस्थितः। तद्विनाभ्युज्यते नैव सोऽप्युपायानुगः स्मृतः ॥१०॥ सर्पवह्निविषकण्टकादिकान्येन दैवशरणोऽपि मानवः।दूरतस्त्यजति पौरुषं सदा तेन तत्स्फुरति दैवतोऽधिकम् ॥११॥\। पौरुषेण हृदयेप्सितां गतिं प्राप्नुवन्ति पुरुषाः सुमेधसः। यान्तिदेवशरणा लयं यथा पादयोर्ज्वलति दावपावके ॥१२॥दैवमेव यादिकारणंभवेन्नीतिशास्त्रमुपयुज्यते कथम्। यद्बलेन सुधियो महोद्यमाः पालयन्ति जगतीं क्षितीश्वराः ॥१३॥\। पूर्वजन्मजनित पुराविदः कर्म दैवमिति संप्रचक्षते। उद्यमेन तदुपार्जितं तदा दैवमुद्यमवशं न तत्कथम् ॥१४॥ वेत्ति मामयमयं नवेत्ति मां मन्यते यदवमन्यतेऽथवा।यत्नवानयमुपेक्षतेऽन्वयं नेदृशेषु शकुनो विशिष्यते ॥१५॥ ज्योतिष्प्रकाशे-बहूनां व्रजतां पुंसां शकुनस्य फलं कथम्।स्वयं प्रोक्तं यतस्तेषां प्राक्कर्माणि पृथवपृथक् ॥१६॥ वसन्तराजः-एकत्र सार्धेव्रजतां बहूनां यो यादृशं पश्यति दैवयोगात्। श्यामादिकानां शकुनेन तादृवफलं

नरो विन्दति निर्विकल्पम् ॥१७॥शकुनसंग्रहे — एकत्र सार्थे व्रजतां बहूनां तुल्येऽपिजाते शकुने फलानि। नानाप्रकाराणि भवन्ति येन तं हंसचारं प्रविचारयामः ॥१८॥वसन्तराजः — भवेदिडायां परिपूरितायां सर्वोऽपि वामः शकुनः प्रशस्तः।स्यात्पिङ्गलायां परिपूरितायां सर्वोऽप्यसव्यः शकुनः प्रशस्तः ॥१९॥ साधारणे कर्मणिच प्रवेशे शुभग्रहे नष्टविलोकने च। व्याधौ सरिद्दुर्गभयादिकेषु शस्तः प्रयाणाद्विपरीतभावः ॥२०॥नद्युत्तारे भये युद्धे प्रवेशे नष्टवीक्षणे। शकुना व्यस्तगाःशस्ता नृपालोके प्रयाणवत् ॥२१॥ ज्योतिष्प्रकाशे — शुद्धे शान्तः शुभायस्याद्दीप्तां भीतिहरोऽशुभे। द्वावप्यशस्तौ व्यत्यासादस्तिनास्तिफलौयतः॥२२॥ वसन्तराजः— दग्धा दिगुक्ता दिननाथमुक्ता विवस्वदाप्ता भवति प्रदीप्ता।सा घूमिता यां सविता प्रयातः शेषा दिगन्ताः किल पञ्च शान्ताः ॥२३॥दग्धा दिगैशी ज्वलिता दिगैन्द्री धूमान्विता चानलदिवप्रभाते। प्रत्येकमेवं प्रहराष्टकेन भुङ्क्ते दिशोऽष्टौ सविता क्रमेण ॥२४॥ दग्धेषु दग्धंज्वलितं ज्वलत्सु फलं ज्वलिप्यत्यथ धूमितेषु। शेषेषु शान्तेषु सदा नराणांसिध्यन्ति कार्याणि सुखेन सम्यक् ॥२५॥ प्रवर्तको यो गमनस्य पूर्वेस एव पश्चात्प्रतिषेधकश्चेत्। मृत्युं रिपुभ्यो डमरुं रुजं च गन्तुस्तदाऽऽन्यांश्चकरोत्यनर्थान् ॥२६॥ वरं श्रयेद्दुर्जनकृष्णसर्पौवरं क्षिपेत्सिंहमुखेस्वमङ्गम्। वरं तरेद्वारिनिधिं भुजाभ्यां नोल्लङ्ङ्घयेद्दुःशकुनं कदाऽपि ॥२७॥ दध्याज्यदूर्वाक्षतपूर्णकुम्भाः सिद्धान्नसिद्धार्थकचन्दनानि। आदर्शशङ्खामिषमीनमद्यगोरोचना गोमयमुद्धृतं गौः॥२८॥ भारद्वाजः— राजविप्रौ सुहृद्देश्यासपुत्रा स्त्री कुमारिका। अभिरूपो नरोऽस्त्री वा गजो वाजी वृषः सितः॥२९॥रज्ज्वा धृताऽन्यवर्णा गौःसवत्सा च विशेषतः। उद्धृतं गोमयं मीनो मृत्तिकाचोद्धृता तथा ॥३०॥ रजको धौतवस्त्रश्चवेश्या तौर्यत्रिकध्वनिः। जयमङ्गलशब्दश्च शान्तिपाठः प्रदीपकः ॥३१॥ दीपो वा प्रज्वलद्वह्निः पूर्णकुन्भो नृपासनम्। मद्यं मांसं च रुचिरं भक्ष्याणि च फलानि च ॥३२॥ इक्षवो मधुताम्बूलं वस्त्रालंकरणानि च। रौप्यं ताम्रं मणिः स्वर्णंद्रव्यं दर्पणमक्षताः ॥३३॥वितानं चामरं छत्रं दूर्वा वर्घापनं ध्वजः। दोला चारुरथो वृद्धः पुत्रपौत्रार्थयुक् शुचिः ॥३४॥ चन्दनानि सुगन्धीनि तथा पुष्पाणि रोचना।घृतं दधि पयः पेयं सिद्धमन्नं वचः शुभम्॥३५॥ दैवज्ञः स्वगुरुर्देवश्चित्तोत्साहकराणि च। दृष्ट्वैतानि नरो यांयात्सर्वार्थाल्लँभतेहि सः ॥३६॥भोगाद्भोगान्तरं यावच्छकुनाच्छकुनान्तरम्। तावत्पूर्वफलं ज्ञेयं गमनाद्गमनान्तरम् ॥३७॥ प्रापय गच्छ विसर्जय निर्गच्छ विमुञ्च याहीति।सिद्धिकराः खल्वेते प्रमोदजयजी—

वशब्दाश्च ॥ ३८ ॥ माण्डव्यः— यात्रोत्थितस्य शस्तं स्याज्जयमङ्गलपूर्वकम्। वाक्यं चान्यत्तथा सर्वंचित्तोत्साहकरं हितम् ॥ ३९ ॥ सितकुसुमचन्दनांशुकगन्धाम्बुरुहातपत्ररत्नानि। चन्द्रांशुनिकरगौराः स्तनतटपरिसर्पिणो हाराः ॥ ४०॥ दधिमधुघृतसिद्धार्थाः पिञ्जरतिलपिष्टरोचनादर्शाः। पूर्णोत्सङ्गप्रमदावेश्यायोपित्कुमार्यश्च ॥ ४१ ॥ हयहेपितगीतरवास्त- -दादिवृषभेभगर्जितनिनादाः। मुनिनृपदैवतकीर्तनमङ्गलपुण्याहशब्दाश्च॥ ४२ ॥ एवंविधास्तथाऽन्ये श्रोत्रसुखाः सामवेदऋग्यजुषाम्।सिद्धिकरा यातॄणां तत्कालमुपस्थिताः सर्वे ॥ ४३ ॥संमुखं सिद्धिदं नॄणां शवं रोदनवर्जितम्। वामभागे क्षुतं चापि सर्वकार्येषुसिद्धिदम् ॥ ४४ ॥जलार्थी रिक्तकुम्भस्तु पथिकेन सह व्रजेत्। निवर्तते, यथा पूर्णः कृतार्थः पथिकस्तथा ॥ ४५ ॥ दृष्ट्वाकुरङ्गं शशि १ वाण ५ लाभं षष्ठश्चतुर्थः प्रियसंगमाय। सप्त ७ तृतीये ३ श्रूयते च वार्ता वसु ८ द्वितीये २ गमनेच मृत्युः ॥ ४६ ॥ श्रीपतिः— छुच्छुका भवनगोधिका रला पिङ्गला कपिवधूश्च पोतकी। शूकरी पुरुषसंज्ञिता शिवा वामतः खलु यियासतांजयः ॥ ४७ ॥ ऋक्षो भासश्छिक्करो224 वानरः श्वा श्रीकण्ठाख्यः पिप्पलाख्यो रुरुश्च।ये स्त्रीसंज्ञादक्षिणाः स्युः प्रशस्ताः प्रोक्ताः पूर्वैः सूरिभिस्ते प्रयाणे ॥ ४८ ॥ भारद्वाजोनाकुलश्चापसंज्ञश्छागो वर्हीदृष्टमात्रःशुभः स्यात्। गोधा सर्पः शाशको जाहकश्च याने दृष्टः कुकलासोऽपि नेष्टः ॥ ४९ ॥ जाहिकाहिशशिसूकरगोधाकीर्तनं शुभमुदाहृतमार्यैः। नो रुतं न च विलोकनमेषामन्यथा गदितमृक्षकपीनाम् ॥ ५० ॥हंसस्य दर्शनं शब्दस्तन्नामश्रवणं शुभम्। वामो राजशुको याने प्रपठन्सर्वसिद्धिदः ॥ ५१ ॥ पुरो व्रजन्तः शुभदाश्चकोरा लायतित्तिराः।पुरस्तान्न शुभःश्येनःकाकारिर्दक्षिणः शुभः ॥ ५२ ॥ अवामः कुक्कुटः शस्तो वृश्चिको वामगःशुभः।गणेशो वामगो नेष्टो द्रोणः शस्तः प्रदक्षिणः ॥ ५३ ॥ अजाऽजवच्चशकुने गोवच्च महिषी स्मृता। छुच्छुन्दरीमूषिकोष्ट्रानखिनो वामतः शुभाः ॥ ५४ ॥पृष्ठे वामे शुभा पल्ली याने नेष्टाऽग्रयाम्यगा।मार्गं बध्नातिसूत्रेण ऊर्णनाभोन शोभनः ॥ ५५ ॥ सिद्धान्नपिष्टाफलमांसवस्त्रो लाभाय यक्षोऽभिमुखः सदैव।धुन्वञ्छिरःकर्णफलेवराणि यात्रानिषेधं कपिलः करोति ॥ ५६ ॥ श्वावामोऽभिमुखः शस्तो भृङ्गोवामगतः शुभः।मार्जारस्याऽऽरवं युद्धं दर्शनं च न शोभनम् ॥ ५७ ॥ भूमेः प्रदेशं शिरसा स्पृशाञ्छ्वा यदि वीक्षते। ध्रुवं महानिधानं चतत्रास्तीतिनिमद्यते ॥ ५८ ॥ ज्योतिष्प्रकाशे— प्रदक्षिणगतैःकाकैर्मृगराजैर्गमः शुभः।खरशब्दः शुभो वामे पृष्ठे चापि पियासताम् ॥ ५९ ॥ भूषाः शस्त्र-

युताः समानमनुजा गौः पद्मनाथेऽङ्गना युक्ता पूर्णघटेन शीतकिरणे श्वा ब्रह्मचारी मृगः।सौम्ये शस्त्रयुता नराः क्षितिसुते देवार्चिते ब्राह्मणाः शुक्रे सुन्दरिबालिकाहयमृगा मन्दे चराः कौरवाः। स्थाने वीर्ययुतार्कशीतकिरणादीनां वदेदादिमं पश्चाज्ज्ञः शकुनान्प्रयाणसमये भूपादिकानां नृणाम् ॥ ६० ॥

इति यात्रायां शकुनाः।

_____

अथापशकुनाः।

तृणतैलारिकार्षासभस्मचर्मतुपौषधम्।सामुद्रं गुडपङ्काहिमित्तं वान्तं बुभुक्षितम् ॥ १ ॥ क्लीवास्थिव्याधिताभ्यक्ततक्रमुण्डेन्धनान्तकाः। काषायिमुक्तकेशाश्चयाने दृष्टा न शोभनाः ॥ २ ॥ कुटुम्बकलहो गेहज्वलनं स्त्री रजस्वला। संन्यासी गर्विणी वन्ध्या धूमाङ्गारा न शोभनाः ॥ ३ ॥ कृष्णधान्यानि विष्ठाच जटिलः पतितः खलः। व्यङ्गाःखञ्जाश्च नग्नाश्च याने दृष्टा न शोभनाः ॥ ४ ॥युद्धं मार्जारयोर्नेष्टं याने महिषयोस्तथा। क्षुतं सर्वत्र विघ्नाय मरणायैव गोक्षुतम् ॥ ५ ॥ द्वारघातो दृशा सङ्गः स्खलनं पाणिपादयोः।रोदनं न शुभं यानेवाहनस्य पलायनम् ॥ ६ ॥ नारदः— यात्रासिद्धिर्भवेद्दृष्टे शवे रोदनवर्जिते। प्रवेशेरोदनयुतः शवः शिवप्रदस्तथा ॥ ७ ॥ सर्वदिक्षु क्षुतं नेष्टं गोक्षुतं निधनप्रदम्।अफलं यद्बालवृद्धरोगिपीनसिकैः कृतम् ॥ ८ ॥ भिन्नं रिक्तं न सद्भाण्डं केशपाशार्गलायसम्। अश्मावस्करपिण्याकं दुर्वाक्यं पथि हानिदम् ॥ ९ ॥खरोष्ट्रमहिषारूढो याने दृष्टो न शोभनः।सर्वे शुभं दक्षिणतः कार्यं निन्द्यं तुवामतः ॥ १० ॥मार्गस्तिष्ठति निवर्त गम्यारोहेति मूढ दुर्बुद्धे। यातुर्नेच्छन्ति बुधाः क्षुतकाकृष्टभीतशब्दाश्च। तैलावसक्तगात्रा नग्नाश्च विमुक्तकेशाश्च ॥ ११ ॥वागुरिमत्स्यबन्धकशशमहिषा वन्वनादिकृताः।रक्ताम्बरमाल्यधरास्तुषभस्मकपायकेशनिचयाश्च॥ १२ ॥जडकुब्जमूकबधिरा व्याधितमलिनाम्बरा विकृतवैषाः। भिन्नाचाराश्च नरा दृष्टा यातुर्न सिद्धिकराः ॥ १३ ॥ गर्गः— शङ्खमद्यौपधस्नेहलवणोपानहौगुडः। निर्गमे न प्रशंसन्ति यद्वाऽप्युपहतं भवेत्॥ १४ ॥ श्वकाकनकुलव्यालशिखिमार्जारमूषकैः।खण्डिते नेष्यते किंचिद्यायिनः पूर्वनिर्गमे ॥ १५ ॥ उदधूलितपुरोवक्षो भेकस्तस्करभीतिकृत्। दक्षिणाङ्गं स्पृशाञ्छस्तो वामाङ्गं च स्पृशन्न सन् ॥ १६ ॥

इत्यपशकुनाः।

_____

अथापशकुनविधानम्।

आर्ष्टिषेणिः— विन्वे विधाय शान्त्यर्थं श्रोत्रियाय निवेदयेत्।दुर्दिने गर्जितेदृष्ट्यां सूर्याचन्द्रमसोर्द्वयोः ॥१॥ दुःस्वप्नदुर्निमित्तापशकुना विलयं ययुः।स्नानदानजपैः पुण्यैरित्याह भगवान्भृगुः ॥२॥ यदाऽपशकुनं पश्येद्विपरीतमुपस्थितम्। सघृतं काञ्चनं दत्त्वा निर्विशङ्कः सुखं व्रजेत् ॥३॥ वसन्तराजः—जाते विरुद्धे शकुनेऽध्वनीनो विवृत्य कृत्वा करपादशौचम्।आचन्य चक्षीरतरोरधस्तात्तिष्ठन्प्रपश्येच्छकुनान्तराणि ॥४॥ विरुद्धे शकुने पूर्वे प्राणायामाष्टकंचरेत्।द्वितीये द्विगुणान्कुर्यात्तृतीये न व्रजेत्कचित् ॥५॥ नारदः— आदौ विरुद्धशकुनं दृष्ट्वा यायीष्टदेवताम्। स्मृत्वा द्वितीये विप्राणां कृत्वा पूजांनिवर्तयेत् ॥६॥वाराणस्यां दक्षिणे भागे कुक्कुटो नाम वै द्विजः। तस्यस्मरणमात्रेणाशकुनः शकुनो भवेत् ॥७॥अविमुक्तचरणयुगुलं दक्षिणामूर्तेश्चकुक्कुटचतुष्टयम्। स्मरणादपि वाराणस्या निहन्ति दुःस्वप्नमथ शकुनं च ॥८॥बृहद्यात्रायाम्— अपि प्रहीणस्य समस्तलक्षणैःक्रियाविहीनस्य निकृष्टजन्मनः।प्रदक्षिणीकृत्य शशाङ्कशेखरं प्रयास्पतः कस्य न सिद्धिरिष्यते ॥९॥ श्रीपतिः—आद्ये विरुद्धे शशुने प्रतीक्ष्य प्राणान्नृपः पञ्च च षट् च यायात्। अष्टौद्वितीयेद्विगुणस्तृतीये व्याहृत्य नूनं गृहमभ्युपेयात् ॥१०॥

इत्यपशकुनविधानम्।

_____

अथ क्षुतम्।

अथ क्षुताख्य शकुनं क्रमेण महाप्रभावं परिभावयामः।त्रस्यन्ति यम्माच्छकुनाः समस्ता मृगाधिनाथादिव वन्यसत्त्वाः ॥१॥ क्षुतं निषिद्धं सर्वत्रगोक्षुतं निधनप्रदम्।वामे पृष्ठे शुभं तच्च दक्षिणेऽग्रे न शोभनम् ॥२॥ प्रतियामंतु पूर्वादौक्रमात्क्षुतफलं विदुः। विघ्नः शोकः क्षतिर्लाभो भोज्यं वार्ता कलिः सुखम् ॥३॥इन्दिरा मरणं सिद्धिः पीडा भोगाः सुखासुखे।निष्फलंचोपविष्टस्य पूर्वतः क्षुतजं फलम् ॥४॥ प्रागन्यपुंसः परतस्तत्रैव च पुनःपुनः। हठात्कफाच्छिशोर्वृद्धात्क्षुतंजातं वृथा जयुः ॥५॥ स्वप्नस्याऽऽद्यन्तयोःशस्तं क्षुतं नो भोजनाग्रतः। भोजनाम्नेयदिभवेद्भोज्यलाभः परेऽहनि ॥६॥अन्तर्वत्नी कुमारी च किंनरी मद्यकारिका।बुरुडी चर्मकारी च निन्द्यमासां

क्षुतं सदा ॥७॥ प्रयोजने यत्र कृतेऽपि जातं क्षुतं क्षणात्तद्विनिहन्त्यवश्यम्।कार्योत्सुको नापि मनागपीदं तस्मादवेक्ष्यं न विचक्षणेन ॥८॥

इति क्षुतम्।

_____

अथाश्वेङ्गितम्।

मुहुर्मुहुर्मूत्रमलं करोति न ताड्यमानोऽप्यनुलोमयायी। अकार्यभीतोऽश्रुविलोचनश्च शिवं न भर्तुस्तुरगोऽभिधत्ते ॥१॥ आरोहति क्षितिपतौ विनयोपपन्ने यात्रानुगोऽन्यतुरगं प्रति हेषितश्च। वक्त्रेण वा स्पृशति दक्षिणमात्मपार्श्वंयोऽश्वःस भर्तुरचिरात्प्रतनोति लक्ष्मीम् ॥२॥

इत्यश्वेङ्गितम्।

_______

अथ गजेङ्गितम्।

भूमौ न्यस्तकरः स्तब्धकर्णो मुकुलितेक्षणः।भीतः श्वसन्गजो यानेभङ्गकृत्स्खलितस्तथा ॥१॥ अनुलोमगतिर्दृप्तो वक्त्रमुन्नम्य याति च। वल्मीकस्थानगुल्मादिमथनः सिद्धिदो गजः ॥२॥ प्रशस्तैः शकुनैः कार्यं कृत्वाऽभ्येति गृहं तथा।अकृतार्थोऽपशकुनैर्मिश्रैर्मिश्रफलं भवेत् ॥३॥

इति गजेङ्गितम्।

_____

अथ स्वस्थानकृत्यम्।

वप्रप्राकारयन्त्रप्रहरणपरिखातोयधान्येन्धनाढ्यं225 दुर्गं कृत्वाऽतिगूढं द्विपतुरगभिपविशल्पविप्राभ्युपेतम्। लुब्धत्रस्ताहितारिप्रकुपितकुभृताज्ञानशीलैर्विहीनं युक्तंशूराप्तवृद्धैः परविषयमियान्मन्त्रवार्ष्णिर्नरेन्द्रः ॥१॥ नारदः—परस्त्रीद्विजदेवांश्चन स्पृशेद्धि गजाश्वकान्। हन्यात्परपुरं प्राप्तो नार्तान्भीतान्निरायुधान् ॥२॥

इति शूरमहाठश्रीशिवदासविनिर्मिते। ज्योतिर्निबन्धसर्वस्येयात्राप्रकरणं स्फुटम्।

_____

अथ नानाविधमुहूर्तप्रकरणम्।

तत्र सुरप्रतिष्ठा।

नारदः— श्रीप्रदं सर्वगीर्वाणस्थापनं चोत्तरायणे। गीर्वाणपूर्वगीर्वाणमन्त्रिणोर्दृश्यमानयोः ॥१॥ विचैत्रेष्वेव मासेषु माघादिषु च पञ्चसु।शुक्लपक्षेषु कृष्णेषुतदादिष्वष्टसु स्मृतम् ॥२॥ वसिष्ठः— मासे तपस्ये तपसि प्रतिष्ठा धनायुरारोग्यकरी च कर्तुः। चैत्रे महारुग्भयदा च शुक्ले समाधवे पुत्रधनप्रदात्री ॥३॥आषाढमासादिचतुष्टये च कलत्रसंतानविनाशदा च।ऊर्जे च कर्तुर्निधनप्रदा द्राक् सौम्ये सपौषेऽखिलदुःखदा सा ॥४॥ बलक्षपक्षः शुभदः समस्तः सदैव तत्राऽऽद्यदिनं विहाय। अन्त्यं त्रिभागं परिहृत्य कृष्णपक्षोऽपि शस्तः खलु पक्षयोश्च॥५॥रिक्ताममां त्यक्तदिनेषु निन्द्ययोगेषु वैनाशिकवर्जितेषु।दिने महादोषविदूषिते च शशाङ्कन्ताराबलसंयुतेऽपि ॥६॥देवस्य यस्योडुतिथी प्रशस्ते संस्थापने कर्मणि वासरश्च।कर्तुर्दिनेशस्य बलं सदैव ग्रामाधिपग्रामबलं विचार्यम्॥७॥ * हस्तत्रये226 मित्रहरित्रये च पौष्णद्वयादित्यसुरेज्यभेषु।तिस्त्रोत्तराधातृशशाङ्कभेषु सर्वामरस्थापनमुत्तमं तत् ॥८॥ कीर्तिप्रदं क्षेमकरं कृशानोर्भयप्रदं बुद्धिकरं नराणाम्। लक्ष्मीकरं सुस्थिरदं त्विनादिवारेषु संस्थापनमामनन्ति॥९॥ नारदः— चन्द्रताराबलोपेते पूर्वाह्णेशोभने दिने।शुभे लग्ने शुभांशे चकर्तुर्न निधनोदये ॥१०॥ राशयः सकलाः श्रेष्ठाः शुभग्रहयुतेक्षिताः। शुभग्नहयुते लग्ने शुभग्रहनिरीक्षिते ॥११॥राशिस्वभावजं हित्वा फलं ग्रहजमाश्रयेत्। अनिष्टफलदःसोऽपि प्रशस्तफलदः शशी ॥१२॥ सौम्यर्क्षगोऽधिमित्रेण गुरुणा वा विलोकितः। पञ्चेष्टिके शुभे लग्ने नैधने शुद्धिसंस्थिते ॥१३॥ वसिष्ठः— पञ्चेष्टिके जीवज्ञशाङ्कसूर्यमुख्यैर्ग्रहैःसौम्यनवांशयुक्ते। लग्ने स्थिरे चोभयराशिलग्नेनवांशके चोभयभेऽस्थिरे वा ॥१४॥चरोदये लग्नगते न कार्यं संस्थापनंनैव चरांशकेऽपि। चरोऽपि मुख्यः सतुलांशकश्चसदा मृदुत्वात्सुरसंनिवेशे ॥१५॥ वृत्तज्ञते— आदित्यश्रुतिवासवध्रुवमृदुक्षिप्रैःसुरस्थापनं कार्यं रिक्ततिथिं कुंजस्य227 दिवसं पक्षं च हित्वा सितम्। स्थाप्योऽर्कश्च हरौशिवश्च मिथुनेकन्याविलग्ने हरिः क्षुद्राख्याश्चरभैद्विमूर्तिभवने देव्यः स्थिरार्क्षेऽखिलाः ॥१६॥ नारदः— लग्नस्थाः सूर्यचन्द्राराहुकेत्वर्कसूनवः। कर्तुर्मृत्युप्रदाश्चान्ये धनधान्य-

सुखप्रदाः ॥१७॥ द्वितीये नेष्टदाः पापाः शुभाश्चन्द्रश्च वित्तदाः। तृतीये निखिलाः खेटाः पुत्रपौत्रसुखप्रदाः ॥१८॥ चतुर्थे सुखदाः सौम्याःक्रूराश्चन्द्रश्चदुःखदा।ग्लानिदाः पञ्चमे क्रूराः सौम्याः पुत्रसुखप्रदाः ॥१९॥ पूर्णःक्षीणः शशी तत्र पुत्रदः पुत्रनाशदः। षष्ठे शुभाः शत्रुदाः स्युः पापाःशत्रुक्षयप्रदाः ॥२०॥ पूर्णः क्षीणोऽपि वा चन्द्रः षष्ठेऽखिलरिपुक्षयम्। करोति कर्तुरचिरादायुष्पुत्रधनप्रदः ॥२१॥ व्याधिदाः सप्तमे पापाः सौम्याः सौम्यफलप्रदाः। अष्टमस्थानगाः सर्वे कर्तुर्मृत्युप्रदा ग्रहाः ॥२२॥ धर्मे पापा घ्नन्तिसौम्याःशुभदाःशुभदः शशी।भङ्गदाः कर्मदाः पापाः सौम्याश्चन्द्रश्च कीर्तिदा ॥२३॥ लाभस्थानगताः सर्वे भूरिलाभप्रदा ग्रहाः।व्ययस्थानगताः शश्वद्बहुव्ययकरा ग्रहाः ॥२४॥ गुणाधिकतरे लग्ने दोषात्यल्पतरे यदि। सुराणांस्थापनं तत्र कर्तुरिष्टार्थसिद्धिदम् ॥२५॥ हन्त्यर्थहीना कर्तारं मन्त्रहीना तुऋत्विजम्।स्त्रियं लक्षणहीना तु न प्रतिष्ठासमो रिपुः ॥२६॥संग्रहे—रन्ध्रान्त्यवजितैः सौम्यैः पापैः षट्त्र्यायगैः शुभैः। प्रतिष्ठा वाऽरिगोऽपीन्दुः शुभोऽसौ लग्नगो न सन् ॥२७॥ श्रीपतिः—रोहिण्युत्तरपौष्णवैष्णवकरादित्यश्विनी- -वासवानूराधैन्दवजीवभेषु कथित विष्णोः प्रतिष्ठापनम्। पुण्यश्रुत्यभिजित्सुरेश्वरकयोर्वित्ताधिपस्कन्दयोर्मैत्रे तिग्मरुचेः करे निर्ऋतिभे दुर्गादिकाना स्मृतम् ॥२८॥ गणपरिवृढरक्षोयक्षभूतासुराणां प्रमथफणिसरस्वत्यादिकानां च पौष्णे।श्रवसिसुगतनाम्नो वासवे लोकपाना निगदितमखिलाना स्थापनं च स्थिरेषु ॥२९॥सप्तर्षयो यत्र वसन्ति धिष्ण्ये कार्या प्रतिष्ठा खलु तत्र तेषाम्। श्रीव्यासवाल्मीकिघटोद्भवाख्यतद्देवतावाक्यनिभग्रहाणाम् ॥३०॥ बलान्विते गुरौ भौमेसबले सुतधर्मगे।गुरौ लाभगते स्थाप्यः शंकरःशंकरो भवेत् ॥३१॥ जीवेचतुष्टषस्थे विष्णोः केन्द्रे बुधे गुरौ हिषुके। कार्या विधिवत्प्रतिष्ठा कुमारयक्षेन्दुसूर्याणाम् ॥३२॥ शुक्रे लग्नेनवम्यां तु स्ववलेन्दौ कुजे खगे।बृहस्पतौचसबले देवीनां स्थापनं हितम् ॥३३॥ शनौ बलान्विते वीर्यहीनौभौमशशाङ्कजौ। मृगे मेषे रवौवेन्दौमूर्ति जिनवतीं न्यसेत् ॥३४॥केन्द्रारिरिपुधर्मस्थाजीवभौमशनैश्चराः। प्रासादभेदं कुर्वन्ति कर्तुर्दुःखामयप्रदाः ॥३५॥

इति सुरप्रतिष्ठा।

_____

अथ वस्त्रधारणम्।

धार्यवस्त्रं न श्वेतं रोहिण्यां हस्तपञ्चके।वासवे दितिभेऽश्विन्यांपुष्ये पौष्णोत्तरात्रये ॥१॥ रवौजीर्णंविधौ स्तोकंजलार्द्रंदुःखदं कुजे। बुधे

धनं गुरौज्ञानं शुक्रे सौख्यं शनौ मलम् ॥२॥ हेम रक्ताम्बरं रौप्यं रक्तदन्ताश्चविद्रुमम्। धारयेद्वासवेऽश्विन्यां रेवत्यां हस्तपञ्चके ॥३॥ पुण्यादित्यध्रुवैर्धिष्ण्यैःस्वर्णरक्ताम्बरादिकम्। नवं न भूषणंधार्यं नार्या दयितुरायुषे॥४॥श्रीपतिः—पौष्णाश्विनीवसुकरादिषु पञ्चकेषु कौसुम्भहेममणिविद्रुमकाचशङ्खाः।नार्या धृताः सुतसुखार्थकरा भवन्ति ब्राह्मोत्तरादितिगुरुष्वसुखाय भर्तुः ॥५॥ज्योतिःशास्त्रे— शङ्खादिवररत्नानि पुण्यादित्युत्तरासु च।रोहिण्यां नैव युञ्जीतभर्तुर्जीवनकाङ्क्षिणी ॥६॥ माज्जिष्ठेऽर्कः कुजः स्वर्णे काचे रौप्याब्जयोर्विधुः।शस्तोऽथ वसनं मध्यत्र्यंशेऽग्न्यादिहतं न सत् ॥७॥ व्यासः— भरण्यार्द्रा तथाऽऽश्लेषा वह्नेर्भत्रितयं तथा। जिजीविपुर्न कुर्वीत प्रीत्या चाम्बरधारणम् ॥८॥ शुभैः केन्द्रत्रिकोणस्थैः पापैस्त्रयारिगैः शुभैः। अक्षीणाब्जेदुकूलादिवस्त्रसंधारणं मतम् ॥९॥ लब्धंराजप्रसादेन विप्रादेशात्करग्रहे।प्रीत्याऽऽप्तंचोत्सवे वस्त्रं धार्य निन्द्योऽपि भादिके ॥१०॥

अथ पृथक्फलानि।

रत्नमालायां— वस्त्रप्राप्तिस्तदभिहरणं वह्निदाहोऽर्थासिद्धी राज्ञो भीतिर्मृतिरथ धनं प्राप्तिरर्थागमश्च। शोको मृत्युर्नरपतिभयं संपदः कर्मसिद्धिरिष्टावाप्तिः सदशनमथो बल्लभत्वं जनानाम् ॥१॥ मित्राप्तिरम्बरहृतिः सलिलप्लुतिश्च रोगोऽथमिष्टमशनं नयनामयश्च। धान्यं विषोद्भवभयं जलभीर्धनं च रत्नाप्तिरम्बरधृतःफलमश्विभात्स्यात् ॥२॥निवसन्त्यमरा हि वस्त्रकोणे मनुजाः पार्श्वदेशान्त्यमध्ययोश्च। अपरेऽपि च रक्षसां228 त्रयोंऽशाःशयने चासनपादुकासु चैवम् ॥३॥ भोगप्राप्तिर्देवतांशे नरांशे मित्राप्तिः स्याद्राक्षसांशे च मृत्युः। प्रान्ते सर्वांशेष्वनिष्टंफलं स्याज्जुष्टं वस्त्रे नूतने साध्वसाधु ॥४॥ छत्रस्वस्तिकवर्धमानकलशश्रीवत्समात्स्यध्वजाम्भोजादर्शसुतोरणैश्चसदृशश्छेदोऽशुभांशैःशुभः। काकोलूकखरोष्ट्रयान-फणिभृद्गोमायुभिः शोभने भाग्येऽथाऽऽशु करोति शोकमरणं दग्धाकृतिर्वाससि ॥५॥ कज्जलकर्दमगोमयलिप्ते वाससि दग्धवति स्फुटिते वा।चिन्त्यमिदं नवधा विहितेऽस्मिञ्छ्रेष्ठकनिष्ठफलानि सुधीभिः ॥६॥ विप्रादेशादुद्वाहे वा क्ष्मापालेन प्रीत्या दत्तम्।भ वारे कनिष्ठेऽप्याहुर्नूनं नूतनवस्त्रं धार्यम् ॥७॥

इति वस्त्रधारणम्।

_____

अथ वस्त्रक्षालनम्।

वस्त्रहेमाद्यलंकारधारणोक्तैश्च भादिकैः। तत्संग्रहणनिर्माणं विदध्यात्क्षालनादिकम् ॥१॥ शनौ सोमसुते श्राद्धे षष्ठ्यमावास्ययोस्तथा। वस्त्राणांक्षालनं चैव दहत्यासप्तमं कुलम् ॥२॥

अथ दग्धस्फुटितवस्त्रफलम्।

प्राग्जन्मोपार्जितं, कर्म सदसच्च शुभाशुभम्।विषाकं व्यज्जयत्येव वस्त्रंवह्न्यादिदूषितम् ॥१॥ वस्त्रकोणे सुरा भोगा नराः पाददशेऽसुराः।रक्षेशास्त्वपरे मृत्युः पादशय्यासनेष्वपि ॥२॥ अग्निदग्धं नवं वस्त्रं खण्डितं गोवृषादिभिः। मषीगोमयपङ्कासृग्लिप्तं कण्टकपाटितम् ॥३॥ तीर्थधौतंतद्वस्त्रंद्विगुणं धारयेद्यथा।प्रागन्त्याञ्चलमूर्धस्थं पश्चादाद्याञ्चलं त्वधः ॥४॥ मध्येत्र्यंशे च मध्ये कोष्ठेंचोर्ध्वाधरे मृतिः।प्राच्यां तत्र भवेलक्ष्मीराग्नेय्यामग्निजंभयम् ॥५॥ याम्यायां जायते व्याधिनैर्ऋत्यां पुत्रवर्धनम्। वारुण्यां धनसंप्राप्तिर्वायव्यां वस्त्रलब्धये ॥६॥ उदीच्यां तु महोद्वेग ऐशान्यां धर्मवृद्धिकृत्।नववैतत्फलं ज्ञेयं कोष्ठसंधौफलम् ॥७॥ ध्वजपद्माङ्कुशच्छत्रचन्द्रदीपाकृतिः शुभा। निन्द्या त्रिकोणसूर्यादिक्रव्याद्रविकृताकृतिः ॥८॥ कोष्ठेशुभे शुभं चिह्नमतीव फलदं भवेत्।निन्द्ये निन्द्यं तथा दुष्टमन्यथा मध्यमंफलम् ॥९॥ पण्मासाभ्यन्तरे वस्त्रे प्रथमाच्छादनात्परम्। एतत्फलं विजानीयादस्ति नाऽऽद्यदिनॆ फलम् ॥१०॥ वर्षादावृतुमासेन पक्षाहोभ्यां फलं वदेत्।एकाद्यङ्गुलमानेन निन्द्यं षट्पर्वतोऽधिकम् ॥११॥ वधे धूमावलीडस्य विरन्ध्रस्याल्पकं फलम्।धार्यं चाणुतरं दग्धं पेटिकायां समृद्धये ॥१२॥ वारंवारं यस्य वस्त्रं दूषितं दहनादिभिः।तस्य विघ्नो भवेदाशु तत्त्याज्यं शुभमिच्छता ॥१३॥दग्धमात्रं त्यजेद्वस्त्रं स्नात्वा विघ्नेश्वरं यजेत्। ब्राह्मणान्भोजयेत्पश्चात्सुखी स्यादवशङ्कितः ॥१४॥ स्वयं खण्डीकृतं वस्त्रं मञ्जिष्ठादिसुरञ्जितम्।दुर्लभं नित्यधौतं च जीर्णंदग्धं न संत्यजेत् ॥१५॥ न दोषो रक्तवस्त्रे स्यादौर्णकौशेयषट्टजे।भूषणे हेम्नि रत्नादौनित्यधौतेऽतिदुर्लभे ॥१६॥बृहस्पतिः—मषीगोमयताम्बूलपङ्कान्याद्यादिदूषितम्। तद्वासस्त्रिगुणीकृत्य प्रारम्भेनूर्ध्वपश्चिमे ॥१७॥ अधोवसानं प्राच्यां तु भूमौ संत्यज्य तत्पुनः। मेषादिग्रदचक्रेऽपि यत्र वस्त्रवतो ग्रहात् ॥१८॥द्वादशाष्टमषष्ठेषु यदि पापग्रहेण तु।

दृष्टे तु वृश्चिके तस्य नाशमारः शुभप्रदः ॥१९॥ अन्यत्र सद्ग्रहैःसार्धच्छिन्नंशोभनदं भवेत्। मध्यमे सर्वनाशः स्यादन्तेष्वपि न शोभनम् ॥२०॥ वस्त्रस्यजन्मराशेस्तु भावैर्भावफलैरपि। शुभाशुभफलस्यार्धच्छेदे तद्वत्फलं वदेत् ॥२१॥ यद्वस्त्रंत्वशुभाकारं देयं तद्ब्राह्मणाय च।दैवतेभ्यो द्विजेभ्यो वा तद्दोषस्य प्रशान्तये ॥२२॥ क्षौमादिकमहार्धेषु त्रिषडाब्दादधः फलम्।कम्बलादिषुसर्वेषु त्रिभिर्वर्षैरधः फलम् ॥२३॥ एवं शय्यासनादौ तु कौतुके वाहनेऽपिच। राशिचक्रोक्तमार्गेण शुभाशुभफलं भवेत् ॥२४॥ नवभागीकृते वस्त्रे चत्वारस्तु त्रिकोणकाः।कर्णवर्तिद्वयं द्वौच लवौ मध्यं तथैककम् ॥२५॥चत्वारो देवताभागा द्वौभागौदेवनायकौ। उभौ तु मानुषौ लाभमेको भागश्चराक्षसः ॥२६॥ षङ्काञ्जनादिभिर्लिप्तं229 कुदितं मूषकादिभिः।तूणितं पाटितं दग्धं दृष्टा वस्त्रं विचारयेत् ॥२७॥ उत्तमं दैवते भागे दानवे रोगसंभवः।मध्यमे मानुषे लाभो राक्षसे मरणं पुनः ॥२८॥

अथ वस्त्रारम्भणम्।

सुदिने वस्त्रनिर्माणं ग्रहणं च शुभोदये। सचन्द्रकव्ययं रन्ध्रधनं क्रूरयुतं न सत् ॥१॥

अथ तूलिका।

तूलिका चोपधानानि वितानादि विधीयते। वस्त्रभे सुदिने शुद्धे रन्ध्रान्त्यकेन्द्रगैःशुभैः ॥१॥

अथालंकृतिः।

कदरायणः— हस्तानुराधगुरुषूपघनिष्ठयुक्तचित्रोत्तरात्रयपुनर्वसुरोहिणीषु। लग्नेस्थिरे रविसितेन्दुजजीववारे हेमादिधारणविधिः कथितो नराणाम् ॥१॥हारीतः—पौष्णवसुतुरङ्गेषु रोहिण्यामुत्तरायणे। पतिजीवितमिच्छन्ती नैव हेमादिकं स्पृशेत् ॥२॥व्यासः—चित्राविशाखापवनानुराधावस्वश्विनीभास्कररेवतीषु। आदित्यशुक्रेन्दुजजीववारे लग्ने स्थिरे स्त्री कनकादि दध्यात् ॥३॥पूनर्वसूत्तरापुष्यरोहिण्यर्काश्विनीषु च। पतिजीवितमिच्छन्तीनैव स्त्री कनकं वहेत् ॥४॥हेमरत्नाद्यलंकारघटनं धारणं तथा। स्वाङ्गभावशुभैर्युक्ते चित्तो-

त्साहेऽष्टमेऽमले ॥५॥ लब्धं राजप्रसादेन विप्रादेशात्करग्रहे।प्रीत्याऽऽप्तंचोत्सवे धार्यं भूषणं निन्द्यभादिके ॥६॥

अथ धननिक्षेपः।

साधारणोप्रतीक्ष्णेषु स्वात्यां द्रव्यं न लभ्यते। दत्तं प्रयुक्तं निक्षिप्तं नष्टंचेत्याह नारदः ॥१॥ मृदुपुष्याश्विनीपौष्णादित्यद्वीशश्रुतित्रयम्।निघाने संग्रहेवृद्धौ भूयात्स्थापनमन्धभे ॥२॥ द्रव्यादिस्थापने लग्नं सुखं च स्वं शुभान्वितम्।भव्यं पापग्रहैर्मुक्तं धिष्ण्यमन्धमधोमुखम् ॥३॥स्थापनेतु धनादीनां पातालंशुभसंयुतम्। हितप्रदं विशेषेण पापयुक्तं हि हानिकृत् ॥४॥ धनकेन्द्रत्रिकोणस्थैःसौम्यैः पापोज्झिते व्यये। मञ्जूषायां वसनादौ द्रव्यादेर्धारणं शुभम् ॥५॥

अथ विपणिः।

विपणिः स्यात्तनौ खेन्दुसिते पापैर्व्ययोज्झितैः। द्रव्यकर्मायमूर्तिस्थै शुभैःकुम्भोदयं विना ॥१॥

अथ सेवा।

रोहिण्युत्तरपौष्णेषु वसुवारुणयोरपि। सेवयेत्स्वामिनं भृत्यः शुभराश्युदयेसदा ॥१॥ दशाथगे कुजेऽर्के वा सुलग्ने योनिवश्यताम्। विद्यायुधाभ्यां सुरतःसेवकः प्रभुमाश्रयेत् ॥२॥

अथ व्यभिचारः।

सक्रूरे क्रूरलग्नस्थेचन्द्रे बलिनि बोधने।रिष्टयोगेषु कर्तव्यो व्यभिचारोऽरिनैधने ॥१॥

अथाऽऽयुष्पुष्टिकर्म।

पूर्णेन्दुसुखगे खेऽर्के जीवेः लग्ने गुरोर्दिने। श्रीमन्त्यायुष्यकार्याण्यभिषेको वानृपस्य च ॥१॥

अथ रससंग्रहादि।

लग्नेऽब्देतद्दिने केन्द्रे गुरौ स्याद्रससंग्रहः। वापीकूपतडागादिसेवोद्यानादि शस्यते ॥१॥

अथ संन्यासः।

तत्र मौञ्जीनक्षत्राणिग्राह्याणि।मुमुक्षुः प्रव्रजेत्पापे विबले व्यष्टमे विधौ।धर्मे खे वा गुरौ लग्ने भे स्थिरेऽर्केज्यवासरे ॥१॥त्रिषडेकादशे सौरे व्यये षष्ठे च भार्गवे। सबले धर्मगे जीचे येन्द्रे दीक्षा विरक्तिकृत् ॥२॥

अथ ब्रह्मज्ञानोपदेशः।

शीतांशौ बुधराशिस्थे शुभेषूदयवर्तिषु।ज्ञानस्य ग्रहणं कार्यं हित्वा पापग्रहोदयम् ॥१॥

अथ दीक्षा।

मृदुध्रुवचरक्षिप्रैर्वारेऽर्केधर्मसत्क्रिया।कार्या विद्योतभैर्दीक्षास्वदेवतिथिभेषु च ॥१॥ वीर्यहीनैःखलैर्धर्मस्थितैःकर्मणि मन्त्रिणि। सुस्थिरे च शुभादीक्षा प्रव्रज्यायोगसंभवैः ॥२॥

अथ श्रुतिस्मृतिप्रारम्भः।

श्रुतिस्मृतिपुराणादिप्रोक्तानां धर्मकर्मणाम्। गुरुज्ञलग्नवर्गेषु प्रारम्भस्तद्बलेसति ॥१॥

अथ शिल्पविद्यारम्भः।

लग्नकर्मगते सौम्ये जीवे वाऽमृतदीधितौ। तयोर्वर्गस्थितौ शिल्पविद्यारम्भःप्रशस्यते ॥१॥

अथ नाट्यम्।

हस्तः पुण्यो वासवं चानुराधा ज्येष्ठा पौष्णं वारुणं त्र्युत्तराश्च। पूर्वाचार्यैःकीर्तितश्चन्द्रवृत्त्या नृत्यारम्भे शोभनोऽयं भवर्गः ॥१॥ बुधे विलग्ने शशिनिज्ञराशौगुरुवीक्षिते। हिबुकस्थैः शुभैर्नाट्यप्रारम्भः सद्भिरिप्यते ॥२॥चाद्ययन्त्राणि कार्याणि शिल्पभैश्चाश्वभैरपि।संगीतमभ्यसेत्प्राज्ञः सबले ज्ञे त्रये विधौ ॥३॥

अथ राज्योपकरणादीनि।

बाद्याद्यायातयन्त्राणि राज्योपकरणानि च। कुर्यात्पट्टाभिषेकोक्तैर्यात्रायोगैर्जयावहैः। कुर्याद्वस्त्रालयं तत्र प्रवेशं तु प्रवेशभैः ॥१॥

अथ पण्यक्रयविक्रवः।

भाद्रद्वयं त्रिदशमंत्रिदिवाकरेषु मूलानिलोत्तरतुरङ्गमरेवतीपुषु।सारङ्गपाणिरजनीकरमित्रभेषु लाभः सदैव भवति क्रयविक्रयाभ्याम् ॥१॥ दशमैकादशे लग्ने वित्तकेन्द्रत्रिकोणकैः। शुभः पण्यस्य कर्मोक्तं वर्जयित्वा घटोदयम् ॥२॥

अथ धर्मारम्भोऽभिचारश्च।

मृदुध्रुवचरक्षिप्रैर्वारैर्भैर्धर्मसत्क्रिया।हिबुकेऽर्के गुरौलग्ने धर्मरम्भो रवेर्दिने। माङ्गल्यमभिचारश्च खस्थे सूर्ये गुरूदये ॥१॥

अथ संधिः।

तैतिले करणे भाग्ये मैत्रे पुप्येऽष्टमीदिने। द्वादश्यां शुक्रसंदृष्टे लग्ने संधिर्विधीयते ॥१॥

अथ वेतालसिद्धिः।

पैत्रेशयाम्यमूलेन्द्रभेषु शुद्धेऽष्टमेऽपि च। बेतालसिद्धिः पाताले भृगौ ज्ञेघटलग्नगे ॥१॥

अथवापीकूपाद्यारम्भः।

चित्रास्वातिपुनर्वसुमृगशिरोमूलाश्विनीरोहिणीहस्ताः पुष्यधनिष्ठकं शतभिषङ्मित्रोत्तरा रेवती। एतेषु श्रवणान्वितेषु मकरे लग्ने च कुम्भे झपे वापीकूपजलाशयादिखननं शस्तं प्रशस्ते दिने ॥१॥ रेवतीरोहिणीमैत्रपूर्वाषाढोत्तरात्रये। सौम्यवारुणपुष्येषु तोयारम्भः शुभावहः ॥२॥ सर्वतोयाश्रयारम्भः कर्तव्योविबलैः खलैः।लग्नस्थे ज्ञेऽथवा जीने लग्नभेऽब्जे सिते खगे ॥३॥ ध्रुववासवयुग्मार्कपुष्यमैत्रमत्रासु च।वापीकूपतडागादिवारिबन्धनमोक्षणम् ॥४॥भूर्ति230 पुष्टिं पुत्रहानिं पुरन्ध्रीनाशं मृत्युं संपदः शस्त्रबाधाम्। किंचित्सौख्यं दिक्षुपूर्वासु कुर्यात्कूषो मध्ये वास्तुनोऽर्थक्षयं च ॥ ५ ॥ वृद्धवसिष्ठः—ऐश्वर्यं पुत्रहानिश्च स्त्रीभङ्गने निधनं भवेत्।संपच्छत्रुभयं सौख्यं पुष्टिः प्राच्यादितः क्रमात् ॥६॥ कूपे कृते मध्यमे तु धनहानिश्चवास्तुनः। तस्मात्सन्यग्विचार्यैवंकूपं कुर्याच्च बुद्धिमान् ॥७॥

अथ वृक्षाधिरोपः।

लतागुल्मवृक्षरोपो हस्तपुष्याश्विनीध्रुवैः। विशाखामृदुमूलाल्लवारुणैश्च प्रशस्यते ॥१॥ गुरौ कन्द्रे विषाके खे विधौवारिविधूदये।शुभयुक्तेक्षिते बन्धौ सद्वारेवा शुभोदये ॥२॥

अथ कृषिः।

मैत्राश्विनीगुरुकरादितिधातृमूलशाक्रोत्तरापितृशशाङ्कविशाखपौष्णम्। शस्तंप्रवर्तनविधौ कथितं हलस्य बीजप्रवापणविरोषणसंग्रहेषु ॥१॥ चन्द्रे शुभेशुभतिथौ शुभवारयोगे वारे गुरौ शशिजशुक्रगभस्तिसोमे।लग्ने वृषे मिथुनके झपकन्यकायां शस्तं कृषिप्रकरणं प्रवषेच्च धान्यम् ॥२॥ दशम्येकादशी चैवतृतीया च त्रयोदशी।सप्तमी पञ्चमी चैव प्रतिपच्च सुखावहा ॥३॥ हन्त्यष्टमी

वलीवर्दान्नवमी सस्यघातिनी। चतुर्थी कोटजननी पतिं हन्ति चतुर्दशी ॥४॥रवौ बृहस्पतौ चन्द्रे शुक्रे चैव विशेषतः। बुधार्कभूमिपुत्राश्च न भवन्ति फलप्रदाः ॥५॥ शस्तासु चन्द्रतारास शुचिः शुक्लेन वाससा। स्नात्वा गन्धैश्चपुष्पैश्च पूजयित्वा विधानतः ॥६॥ पृथिवीं ग्रहसंयुक्तां पूजयित्वा प्रजापतिम्।अग्निं प्रदक्षिणीकृत्य दीयते च प्रदक्षिणम् ॥७॥शुक्लौवृषौ नियोक्तव्यौनवीनैश्चयुतेन वा। हेमनिर्घृष्टफालाग्रं छिन्नरेखं न कारयेत् ॥८॥उत्तराभिमुखोभूत्वा क्षीरेणार्घ्यं प्रदापयेत्।विबलं छिन्नलाङ्गूलं कपिलं वृषभं त्यजेत् ॥९॥हलप्रवाहणं कार्यं निरग्निर्वृषकर्षकैः।हलादिभिर्दृढैःक्षेमं कुदृढैर्नशुभं वदेत् ॥१०॥वृषभा यदि युध्येरंस्तस्य विघ्नः सदा भवेत्। तस्मात्सर्वप्रकारेण निर्विघ्नंकारयेत्सदा ॥११॥ एका जयकरी रेपा तृतीया चार्थवृद्धिदा।पञ्चमी च भवेद्रेखा बहुसस्यफलप्रदा ॥१२॥ अत ऊर्ध्वंन कर्तव्या महादोषस्ततो भवेत्। स्मर्तव्या वसवः शुक्रः पृथू रामः सचन्द्रमाः ॥१३॥ पराशरो हली चैव सर्वविघ्नोपशान्तये। हले प्रवाह्यमाणे तु कूर्म उत्पद्यते यदि ॥ १४ ॥ गृहिणी म्रियते तस्य ततोऽग्नेश्च भयं वदेत्। ईषाभङ्गोयदा क्रष्टुः संशयो जीवितस्य च ॥१५॥सुतनाशो युगे भग्ने समाने म्रियते शिक्षुः। योक्त्रच्छेदे तु व्यासङ्गःसस्यहानिश्च जायते ॥१६॥ हले प्रवाह्यमाणे तु गौरेकःप्रपतेद्यदि।प्रपतेद्युक्तमात्रस्तुबन्धनं च प्रयच्छति ॥१७॥ ज्वरातिसारयोगेण कृषिभङ्गं विनिर्दिशेत्। प्रवहेद्युक्तमात्रस्तु ततो गौः खनते यदि ॥१८॥ न वेद युक्तमात्रस्तु तदासस्यं चतुर्गुणम्।सबलेऽब्जे सिते पापैर्विलैर्लग्नगे गुरौ ॥१९॥सद्दिनेजलभे चन्द्रे कृषिकर्म शुभावहम्। त्रित्रित्रिपञ्चरामेषुत्रित्रिभान्यर्कभुक्तभात्।अशुभं च शुभं ज्ञेयं कृषिकर्मण्यनुक्रमात् ॥२०॥ नारदः– हलभृद्वृयनाशाय भत्रयंसूर्यभुक्तभात्। अग्नेवृद्ध्यै त्रयं लक्ष्म्यैसोम्यपार्श्वे च पञ्चकम् ॥२१॥ शूलत्रयेऽपि नवकं मरणायान्यपञ्चकम्। श्रियै पुच्छद्वयं श्रेष्ठं स्याच्चक्रे लाङ्गलेशुभम् ॥२२॥

अथ बीजोप्तिः।

रोहिणीरेवतीहस्तपुष्यमैत्रोत्तरासु च। वीजं तु वापयेत्तस्माद्यदीच्छेत्सस्यसंपदः॥१॥ मूषकाणां भयं भौमे मन्दे शलभकीटयोः। न वषेच्च तिथौ रिक्ते हीनेसोमे विशेषतः ॥२॥वृषलग्नेऽथवा मीने कन्यायां मिथुनेऽथवावापयेत्सर्वसस्यानि यदीच्छेत्सस्यसंपदः ॥३॥ श्रीपतिः— मूर्ध्नि त्रीणि गले त्रयं च जठरे धिष्ण्यानि च द्वादश स्यात्पुच्छे च चतुष्टयं पहिरतो भानां स्थितं पञ्चकम्।

कीटःकज्जलमन्नवृद्धिरधिका निस्तण्डुलत्वं क्रमात्स्यादीतिप्रभवं भयं न फणितोबीजोप्तिकालेऽर्कभात् ॥४॥ नारदः— भवेद्भत्रितयं मूर्ध्नि धान्यनाशाय राहुभात्।गले त्रयं कज्जलाय वृद्ध्यै च द्वादशोदरे ॥५॥निस्तण्डुलत्वं लाङ्गूलेभचतुष्टयमीरितम्। नाभौ बहिः पञ्चकं च बीजोप्तावित चिन्तयेत् ॥६॥कुर्वीत रेखात्रयमूर्ध्वगामि पश्चात्त्रिभिस्तत्सहितं त्रिशूलैः।षट्तिर्यगन्यद्वितयं विदिक्स्थं बीजोप्तिचक्रं स्मृतमेतदार्यैः ॥७॥ मूर्ध्न्यर्कयुक्तं सगतागतं भं नशोभनं कोणगतानि सन्ति। तिर्यक्स्थितं मध्यफलं भषट्कं फलं न यच्छन्तिनवापराणि ॥८॥ न व्यतिपाते विष्ट्यां वैधृतिशूलादिदुष्टयोगेषु। दर्शं रिक्तां हित्वा बीजोप्तिः सस्यवृद्धये भवति ॥९॥ स्नातैर्विगतक्रोधैर्वृद्धैःशुभवाग्भिरव्यग्रैः। शकुननिमित्तबले सति वृषैरकृष्णैर्वषेद्वीजम् ॥१०॥वीजोप्तिर्लग्नगे चन्द्रे तद्दिने च विशेषतः। गुरौ केन्द्रे शुभर्युक्ते दृष्टयोः कर्मलग्नयोः ॥११॥त्वं वै वसुंधरे देवि सितपुष्पफलरप्रदे।नमस्ते मे शुभं कृत्वाकृषिवृद्धिकरी शुभे ॥१२॥ रोहन्तु सर्वसस्यानि काले देवः प्रवर्षतु।कर्षकस्तु वदेदेवं धनधान्येन युज्यते ॥१३॥

इति बीजोप्तिः।

_____

अथ धान्यच्छेदनम्।

धान्यानां लवनं कुर्याद्गुरौ शुक्रे च सर्वदा।रिक्तावर्जं तु शेषाश्च तिथयःस्युः शुभावहाः ॥१॥ रेवतीहस्तमूलेषु श्रवणे भाग्यमैत्रयोः। पितृदैवे तथासौम्ये धान्यच्छेदे भृगूदये ॥२॥अनुराधा तथा ज्येष्ठा रेवती धान्यकर्तने।केवले सिंहलग्नेच तथैव च गुख्दये ॥३॥ धान्यानांलवनं कुर्यात्तथा लग्नेन्दुसंगमे। सर्वेषामपि वृक्षाणां प्राह श्रेष्ठतमं मुनिः ॥४॥ सपत्रौ माषमुद्गौच यवधान्ये सकञ्चुके।छिन्द्यात्तिलं च निष्पन्नमेतत्पाराशरं मतम् ॥५॥

अथ धान्यसंग्रहः।

रोहिण्युत्तरपुष्येषु भरणीशक्रनैर्ऋते।पौष्णार्काश्विविशाखास हरिमित्रपुनर्वसौ ॥१॥ चित्रासु च मघायां च जीवार्केन्दुभृगोर्दिने।अरिक्तायां तिथौचैव सस्यानां संग्रहो हितः ॥२॥ रोहिण्यार्द्रामघाहस्तरेवतीश्रवणेषु च। मन्ददृष्टिस्थिरे लग्नेधान्यसंग्रह इष्यते ॥३॥

अथ बीजसंग्रहः।

हस्तचित्रादितिस्वातीरेवतीश्रवणद्वये।स्थिरे लग्ने गुरोर्वारे बीजं धार्यं

ज्ञशुक्रयोः ॥१॥ माघे वा फाल्गुने वाऽपि सर्वबीजानि संग्रहेत्। शोपयेत्तापयेद्रौद्रं रात्रावृषनिपातयेत् ॥२॥ दीपाग्निधूमसंस्पृष्टं वृष्ट्या चोपहृतं च यत्। वर्जनीयं सदा बीजं कुरुण्डेनान्वितं च यत् ॥३॥

अथ मेथी।

रोहिणी रेवती मूलं स्वाती हस्तोमृगस्तथा। आषाढोत्तरयुक्ता च तथाभाद्रपदा मता ॥१॥ वेधने सर्वबीजानां तथा शालप्रवेशने।दुःखदा धनदाचैवानुराधोत्तरफल्गुनी ॥२॥ वटश्च सप्तपर्णश्च गन्भारी शाल्मली तथा। औदुम्बरी तथा धात्री या चान्या क्षीरवाहिनी ॥३॥स्त्रीनाम्नी कर्षकैर्नित्यंमेथी कार्या फलप्रदा ॥४॥

अथ धान्यस्थापनम्।

यमादितिमघाज्येष्ठात्र्युत्तरासु च कारयेत्। मीनलग्ने शुभे ऋक्षे निधनेक्रूरवर्जिते।निक्षेप्यं कोष्ठके धान्यं गर्गो वदति सर्वदा ॥१॥

अथ धान्यनिष्क्रमणम्।

त्रिषूत्तरेषु रोहिण्यां धनिष्ठावारुणेषु च। एतेषु षट्सु विज्ञेयं धान्यनिष्क्रमणंबुधैः ॥१॥

अथ चौर्यम्।

मिश्रोग्रदारुणैर्धिष्ण्यैर्लग्ने क्रूरग्रहस्य च। भौमे खे ज्ञे तनौ चौर्यं शकुनस्य बले सति ॥१॥ चौर्यं मन्दारयोर्वारे लग्ने क्रूरग्रहस्यच।शकुनस्य बलेकुर्याल्लग्ने दशमगे कुजे ॥२॥

अथ द्रव्यार्पणम्।

चरैःक्षिप्रैश्चरे लग्ने बुधे धर्मसुताष्टमे।व्यवहारादिना द्रव्यप्रयोगो मुनिभिःस्मृतः ॥१॥ साधारणीग्रतीक्ष्णेषु स्वात्यां द्रव्यं न लभ्यते। दत्तं प्रयुक्तंनिक्षिप्तं नष्टं चेत्याह नारदः ॥२॥ भरण्यां संग्रहं कुर्यात्पञ्चके ज्ञे त्रिपुष्करे। ऋणकर्मचरैः क्षिप्रैर्ऋणच्छेदः कुजे हितः ॥३॥ चम्पके पञ्चगुणितं त्रिगुणं च त्रिपुष्करे।यमले द्विगुणं प्रोक्तं हानिवृद्धधादिकं बुधैः ॥४॥ ऋणं भौमे न कुर्वीत न देयंबुधवासरे। ऋणच्छेदं कुजे कुर्यात्संचयं सोमनन्दने ॥५॥हस्तेऽर्कवारेसंक्रान्तौ यदृणं स्यात्कुलेषु तत्। वृद्धियोगे तथा ज्ञेयमृणच्छेदं तु कारयेत् ॥६॥धनादिस्थापने क्रूरास्त्र्यायारिस्थाःखगो रविः।विरन्ध्रान्त्ये शुभाःसौम्याः कृष्णेऽब्जोधनगो न सन् ॥७॥

अथ गोक्रयविक्रयादि।

आदित्यद्विवसुद्व्यन्त्यार्केन्द्रद्वीशैः क्रयादि गोः।दर्शभूताष्टमीचित्राध्रुवकर्णार्कभाद्यसत् ॥१॥सोमार्किवैधृतौपाते लग्ने पञ्चानने बुधे। भद्रासंक्रान्तिरिक्तासु पशुकर्म विवर्जयेत् ॥२॥ शुभग्रहोदये शुद्धे नैधने स्वर्क्षयोनिषु।रक्षावृद्धिक्रिया शस्ता पशूनां मुनिभिः स्मृता ॥३॥ नेन्दौ मन्दे सिंहलग्ने पशोर्यानप्रवेशने। सोमे लग्ने बुधे गावो न चाल्यास्तुरगाः शनौः ॥४॥ पूर्वात्रयामृतमयूखहुताशनेषु चेन्द्राग्निवाजिवसुधारणशांकरेषु। एतेषु गोमहिपदन्तितुरङ्गमादिनाना प्रकारपशुजाति- -गतिः प्रशस्ता ॥५॥ नासत्यपौष्णकरपुष्यशिवाजपादमूलाप्यसौम्यबहुलावसुमित्रभेषु। वृद्ध्यैगवां हि दधिमन्थनमेषु कुर्याद्विक्ताद्विपञ्चमदिनार्किकुजेन्दु हित्वा ॥६॥

अथाश्वकर्म।

आदित्ये वासवे पौष्णद्वये स्वात्यां करे मृगे। अरिक्ते ज्ञत्रयार्काहे वाजिकर्माखिलं हितम् ॥१॥ नारदः— विविष्णुचरभे क्षिप्रे मृदुभे स्थिरभेषु च। वाजिकर्माखिलं कार्य सूर्यवारे विशेषतः ॥२॥गुरुशुक्रयुते लग्ने सर्वैश्चत्रिषडायगैः।चन्द्रे सप्तद्विबन्धुस्थे हृयकर्म शुभं भवेत् ॥३॥घृतार्द्रचणकक्षीरतृणमुद्गादिभक्षणे। अन्नप्राशनवदृक्षं स्नानं सौम्यग्रहोदये ॥४॥ अश्वकार्यं च कल्याणंपुंनामर्क्षाश्विवारुणे। आरोहणं च केन्द्रस्थैः शुभेऽकें वृद्धिगैःपरैः ॥५॥ चौलोक्तं क्षुरकर्मादौ भेषजे भेषजोदितम्। गर्भाधानोक्तमश्वानां मैथुने तु विलोकयेत् ॥६॥ गृहारम्भोदिते काले हयशाला विधीयते। शिक्षा विधोक्तकाले चभूषणं भूषणोदिते ॥७॥ चर्मकर्मादिकं सर्वंजययोगे शुभोदये। एवं खरोष्ट्रादिकार्यं पूर्वाह्णे वाहनादिकम् ॥८॥महिष्याजाविकं कार्यं तावत्काले विशेषतः। शनेर्वारे च केन्द्रस्थे वासरोष्ट्रशुनां तथा ॥९॥ चक्रेऽश्वः शिरपञ्चकेसुखकरः पृष्ठे च दिग्लाभदः पुच्छे द्वे गृहिणीविनाशनकरः पादेऽब्धिभड्गो भवेत्।नाशं चोदरपञ्चभिश्च कुरुते चाऽऽस्ये द्विलाभो भवेद्गेहे चाऽऽनयरोहणेफलमिदं सूर्यर्क्षतो वा क्रमात् ॥१०॥

अथ नूतनाश्वपल्याणम्।

अश्वाकारं लिखेच्चक्रमश्विन्याः साभिजिन्न्यसेत्। मुखे वेदाः ४ शीर्ष्णि त्रीणि३ पृष्ठे सिन्धव ७ एव च ॥१॥ पृष्ठे चत्वारि ४ दीयन्ते द्वौ द्वौ २ पादे च षड्६ हृदि। जन्मधिष्ण्यं मुखे देयं गणयेद्दिनऋक्षतः ॥२॥ मुखे च धनसंपत्तिः शीर्ष्णि लाभस्तुरङ्गमे।पृष्ठेच श्रियमाप्नोति पुच्छे लक्ष्मीर्विनश्याति ॥३॥

चरणे भयमाप्नोति हृदि सौख्यादिवर्धनम्। पल्याणे रोहणे चैव फलं प्रोक्तंशुभाशुभम् ॥४॥

अथ पक्षिकर्म।

पक्षिद्रेष्काणगे चन्द्रे लग्ने वा शुभसंयुते। पक्षिकर्म शुभं प्रोक्तं बुधे मन्देबलान्विते ॥१॥ तुलामध्यान्तसिंहाद्याः कुम्भाद्याः पक्षिणः स्मृताः। शुभस्वामियुता दृष्टा भवन्ति बलिनस्तु ते ॥२॥

अथ स्थलाम्बुवनचारिकर्म।

स्वयोनिभे तनौशुद्धे शुभस्वामियुतेक्षिते। सर्वे कर्म शुभं प्रोक्तं स्थलाम्बुवनचारिणाम् ॥१॥

अथ शत्रुबन्धनम्।

मन्दभौमदिने लग्ने द्रेष्काणे शृङ्खलान्विते। बन्धनं वृद्धियोगे वा कार्यं वृद्धिस्वरोदये ॥१॥मनिकर्कटयोरन्त्यौ वृश्चिकस्याऽऽद्यमध्यमौ। सर्वे चत्वार एवैते द्रेष्काणा निगडाश्च ते ॥२॥

अथ पुष्पफलोत्तारणम्।

द्रेष्काणःकर्कटाद्यस्तु फलपुष्पयुतः स्मृतः। शुभस्वामियुते चास्मिंस्तदुत्तारणजं शुभम् ॥१॥

अथौषधनिष्पादनम्।

मन्दारवर्जिते वारे चरक्षिप्रमृदुध्रुवैः। सूर्यसौम्यैः केन्द्रगतैर्भेषजोत्पादनंहितम् ॥१॥ रसक्रिया सुधायोगे गुद्धौचूर्णादिकं तथा। तैलाज्यगुटिकाःक्षिप्रचरैः सौम्यार्कवासरे ॥२॥लग्नं तुर्य शुभस्वामियुतं दृष्टं शुभावहम्। निर्माणंवर्धमानेन्दौ भेषजानां शुभा क्रिया ॥३॥

अथौषधग्रहणम्।

पुष्टिदं गर्भवृद्धवादिज्वरादिहरणं परम्। एवं विविधमाचार्यैश्चिकित्सनमिहोच्यते ॥१॥मूलानुराधवसुतिष्यपुनर्वसौ च पौष्णाश्विनीश्रवणशाक्रसमीरणेषु। वारेषु चाङ्गिरसितेन्दुदिनेषु शस्तं भैषज्यभक्षणमिदं नियतं नराणाम् ॥२॥ सौम्यग्रहबले शुद्धे व्ययादिद्यूननैधने।आयुर्योगे जातकोक्ते सेव्यं सर्वंसदौ-

षधम् ॥३॥लग्नं वैद्यो द्युनंव्याधिर्मध्यं रोगी खमौषधम्।शुभयुक्तं च रोगघ्नंपापयुग्रोसवृद्धिकृत् ॥४॥ पञ्च कर्माणि कुर्वीत प्रोक्तभद्रोत्तरासु च। वमनंरेचनं मुक्तिरूर्ध्वाधःपार्श्वभैरुत ॥५॥ रक्तस्रावं कुजे कुर्यात्तद्धोरायामथापिवा।कुजे केन्द्रेऽथवा मन्दे रवौ वा विखलेऽष्टमे ॥६॥ अग्निभात्तुर्यतुर्यर्क्षंजया रिक्ताऽष्टमं शिरः। वारस्युद्युक्चरं लग्नमृणरोगादिद्यातने ॥७॥व्रणक्रिया कुजे सूर्ये केन्द्रगे तद्दिनेऽष्टमे।शुद्धे षष्ठे च सक्रूरे चरलग्नेयुवस्वरे ॥८॥

अथ रोगमुक्तिस्नानम्।

हस्तः पुष्यस्तथा ज्येष्ठा श्रवणं चमृगस्तथा। शुभान्येतानि ऋक्षाणि स्नानेरोगगतस्य च ॥१॥ श्रीपतिः—इन्दोर्वारे भार्गवे च ध्रुवेषु सार्पादित्ये स्वातियुक्तेषुभेषु। पित्र्ये चान्त्ये चैव कुर्यात्कदाचिन्नैव स्नानं रोगमुक्तस्य जन्तोः ॥२॥ अर्कार्किभौमेज्यदिनेषु शस्तं लग्ने स्थिरे केन्द्रगते च जीवे। कार्यस्थिरत्वं कुरुतेऽर्थसिद्धिं स्नात्वा तु रोगी भवति रोगः ॥३॥प्रतिपच्च द्वितीया चदशमी च त्रयोदशी।स्नायाद्रोगविमुक्तस्तु शुभयोस्तारचन्द्रयोः ॥४॥ लग्नेचरे सूर्यकुजार्किवारे जयासु रिक्तासु सिते च पक्षे। मृतित्रिभायारिगतैश्चपापैःस्नानं हितं रोगविमुक्तजन्तोः ॥५॥ रोगाभ्यङ्गे चरं लग्नं शुभं व्यन्त्याः शुभाशुभाः। केन्द्राष्टकोणगाः पापा साब्जान्दुष्टफलान्विदुः ॥६॥वैधृतौव्यतीपाते च भद्रायां धिष्ण्यसंक्रमे। रोगमुक्तोनरः स्नायात्कुवारर्क्षतिथिष्यपि ॥७॥ द्युनं पापयुतं शस्तं दशमं च शुभान्वितम्। सौम्यक्रूरयुतं रन्ध्रं रोगस्नानेऽरिभं तथा ॥८॥ रक्तस्रावे शुभं स्नानं सुधायोगे शुभोदये। बुधमन्ददिने पापरहितेऽनिष्टभोदये ॥९॥

अथ सूतिकास्नानम्।

मघामूलविशाखार्द्राचित्रादितियमद्वये। ज्येष्ठासार्पजलेशर्क्षे नैव स्नायात्प्रसूतिका ॥१॥ शुभग्रहयुते लग्ने पञ्चमे पापवर्जिते। परित्यज्य महादोषान्सूतिकास्नानमुत्तमम् ॥२॥

अथ शतभिषक्स्नानफलम्।

स्नानं कुर्वन्ति या नार्यश्चन्द्रे शतभिषम्मते। सप्तजन्म भवेयुस्ता विधवादुर्भगा ध्रुवम् ॥१॥ रोहिणीगुरुपुनर्वसूत्तरे या विभर्ति नववस्त्रभूषणम्।सप्तजन्म न च विन्दते पतिं स्नानमाचरति भे च वारुणे ॥२॥हठाच्छतभिषक्स्नानं नारीणां यदि जायते। पूजयेत्स्वामिनं तत्र आत्मने सर्वसत्कृतम् ॥३॥

अथ प्रसङ्गेन तैलाभ्यङ्गः।

सप्तम्यां न स्पृशेत्तैलं नवम्यां प्रतिपत्तिथौ। चतुर्दश्यामथाष्टम्यां षष्ठ्यां चैवविशेषतः ॥१॥ चतुर्दश्यष्टमी चैव पौर्णमास्यर्कसंक्रमः।तैलस्नानं न कुर्वीत सुतबन्धुधनक्षयः ॥२॥ सोमे कीर्तिः प्रसरति क्षितौ रौहिणेये हिरण्यं देवाचार्येतरणितनये वर्धते नित्यमायुः।तैलाभ्यङ्गात्तनयमरणं दृश्यते सूर्यवारे भौमे मृत्युः प्रभवतितरां भार्गवे वित्तनाशः ॥३॥दर्शे स्नानं न कुर्वीत मातापित्रोस्तु जीवतोः। नवम्यां च नचेत्तत्र निमित्तान्तरसंभवः ॥४॥ प्रतिपद्यनपत्यःस्यात्तृतीयायामपत्नीकः। दशम्यामधनः स्नाने सर्वंहन्ति त्रयोदशी ॥५॥अयं निषेधो ब्राह्मणव्यतिरिक्तविषयः। तदुक्तं भास्करव्यवहारे—त्रयोदश्यां द्वितीयायां दशम्यां च विशेषतः। शूद्रविटि्क्षत्रियाः स्नानं नाऽऽचरेयुः कथंचन ॥६॥ पुत्रजन्माने संक्रान्तौसिद्धिजन्मदिने तथा। नित्यस्नाने च कर्तव्ये तिथिदोषोन विद्यते ॥७॥ सूर्यशुक्रारवारेषु निषिद्धासु तिथिष्वपि। उत्सवे यदि वा स्नानेपक्वतैलं न दुष्यति ॥८॥ रवौ पुष्पं गुरौ दूर्वा भौमवारे च मृत्तिका। शुक्रेच गोमयं क्षेप्यं तैले स्नानं सुखावहम् ॥९॥

अथ प्रथमस्त्रीभोगः।

द्विषदाप्ये तनौ सौम्यदृष्टे युक्ते तनौशुभे। प्रथमाभिगमः श्रेष्ठश्चन्द्रे चोपचयस्थिते ॥१॥ यात्रोक्ते समये यानं प्रवेशोक्ते प्रवेशनम्। विवाहोक्ते नवोभोगः शेषं स्त्रीणां शुभोदये ॥२॥

अथ मद्यारम्भः।

मद्यारम्भणमाचार्यैरुक्तं पैत्रेशसार्पभे।मूलवारुणयान्यैश्च त्रिपूर्वाशक्रभैःशुभम् ॥१॥ सुधायोगे सुधारम्भः कर्तव्यो मनुजोदये। शुक्रे चन्द्रे चकेन्द्रस्थे तत्पानं च शनेर्दिने ॥२॥

अथ व्यालग्रहणम्।

व्यालाद्यग्रहण कार्यं क्रूरलग्ने च तद्दिने। हित्वा कालादिकं राहौकेन्द्रगे याशनौ कुजे ॥१॥ यमाग्निसार्पमूलार्द्रामवाद्वीशेषु नश्यति। सर्पदृष्टस्तथाऽर्कादौ यान्येष्वर्कोदयात् क्रमात् ॥२॥

अथ गजकर्म।

स्वाष्ट्रभे वैष्णवेऽश्विन्यां वारुणे वसुभेऽन्तिमे।दन्तिनां शुभदं कर्म पुष्ये हस्तेकीर्तितम् ॥१॥ पौष्णाश्विनीपवनवारुणशीतरश्मिचित्रादितिश्रवणपाणि-

सुरेज्यवित्ते। वारेषुसूर्यशशिसूनुसितेज्यकानामारोहणं गजतुरङ्गरथेषु शस्तम् ॥२॥व्ययाष्टरहितैः सौम्यैः क्रूरैश्च त्रिषडायगैः।जन्माभिषेकयात्रोक्तैर्नृपयोगैर्गजक्रिया ॥३॥ न कुर्याद्दन्तिदन्तानां छेदं गुरुगृहे रवौ। हरौ231 सुप्ते सिते पक्षेरात्रौभौमार्कवासरे ॥४॥ षल्याणं च तनुत्राणं जययोगे शुभोदये।भेषजंभेषजे काले गजबन्धः शनेर्दिने ॥५॥

अथ बलकर्म।

जयापूर्णार्कसद्वारे भांशे शीर्षोदये शुभैः। ससूर्यैः केन्द्रगैरिन्दोर्बले कार्या बलक्रिया ॥१॥

अथ नृपदर्शनम्।

श्रुतित्रयमृदुक्षिप्रध्रुवैःकार्यं नृपेक्षणम्।योगैर्यात्राभिषेकोक्तैःस्वायकेन्द्रगतैःशुभैः ॥१॥

अथ शान्तिः।

मृदुध्रुवचरक्षिप्रैः कार्यं शान्तिकपौष्टिकम्अभद्रारार्किरिक्तासु शुद्धधर्मोदयेशुभम्॥१॥

अथ दीपिकाशय्यादि।

हस्तादितिब्रह्मगुरूत्तरेषु232 पौष्णाश्विमूलेन्दुजचित्रभेषु233। वारेषु जीवेन्दुसितेन्दुजानांशय्यासनारम्भ (म्भो) हितप्रदः स्यात्॥१॥दीपिकाचामरच्छत्रदोलाशय्यासनादिकम्। सुधासिद्ध्यादि सद्योगैरायुर्योगैर्जयैः शुभैः ॥२॥

अथ सूची।

अदितिर्वासवं चित्रा मैत्रमैन्दवमश्विनी।सूचीकर्म तनुत्राणं शुभयुक्तेक्षितेतनौ ॥१॥

अथ दिव्यम्।

नाष्टमेऽर्के विधौजीवे शुक्रे नष्टे मलिम्लुचे।दिव्यं मन्दारयोर्वारे स्थिरलग्नेखलोदये ॥१॥

अथ नौका।

भाग्यवारुणमैत्राश्विषुंभेषु घटनं तरेः। चालनं च शुभे लग्ने सद्वारे दोषवर्जिते ॥१॥

अथ क्रूरम्।

कृष्णपक्षे सदोपर्क्षेमिश्रैरुग्रैश्च दारुणैः। सिध्यन्ति क्रूरकर्माणि क्रूरवारे तथोदये ॥१॥

अथ शस्त्रनिर्माणम्।

क्रूरैस्तीक्ष्णैश्च मिथैश्च शस्त्रकर्माणि कारयेत्। शनीज्यार्कारवारेषु पुंयोगैश्चविशेषतः ॥१॥ ब्राह्मे पुण्ये श्रुतौदास्रे मैत्रे भृग्विन्दुवासरे। नन्दापूर्णातिथौ मृत्युर्बुधवारे पराजयः ॥२॥ स्वातौ पौष्णे वसुद्वन्द्वे कोशपत्नीविनाशनम्।चित्रोत्तरा सुतं हन्यान्मृगार्कादिनिभे भयम् ॥३॥ कृत्तिकायां विशाखायां भौमवारे जयातिथौ। तद्दिने घटितं शस्त्रं सङ्ग्रामे जयदायकम् ॥४॥

अथ शस्त्रधारणम्।

संनाहकुन्तखङ्गादिधारणं234 सवितुर्बले।मिश्रोग्रक्रूरभैः पुंभैर्जययोगैःस्वरोदितैः ॥१॥

अथाभ्यासः।

हस्तत्रये श्रुतौ दस्रेपुण्यादित्याग्निमोत्तरे। जन्मभे सर्वशस्त्राणामभ्यासःसद्भिरुज्यते ॥१॥ ज्ञेज्यभौमार्कवारेषु तद्धोरातद्विलग्नके।सबलैःकेन्द्रगैरेभिस्तथोपचयगैःशुभः ॥२॥ नृपावलोकनं शस्त्रधारणं भृत्यसंग्रहः। शुभद्रंस्याद्ध्रुवमृदुलघुश्रवणवासवैः ॥३॥

अथ धनुरभ्यासः।

हस्तत्रये श्रुतौ पुष्येदस्रादित्याग्निभोत्तरे। जन्मभे च धनुर्वेदाभ्यासारम्भः प्रशस्यते ॥१॥ जीवारार्कज्ञवारेषु तद्विलग्ने जयासु च। शुभैर्वृद्धिकरैर्ज्ञेज्यमन्दाकैः केन्द्रगैः शुभैः ॥२॥ धनुश्चक्रंकृते शस्त्रं त्रेतायां खड्गचर्मके।द्वापरे च गदाच्छूरी मल्लयुद्धं कलौ वरम् ॥३॥इषुर्ब्रह्मा गुणो विष्णुर्धनुदेवो महेश्वरः। एतेषां स्मरणादेव सर्वपापैः प्रमुच्यते ॥४॥ शार्ङ्गं वशिंदारवीयं तृणराजोद्भवं धनुः। मुष्टिः शुक्रोदरा नागा वज्रा लग्ना प्रपूर्विका ॥५॥ भग्नपृष्ठं तथा वक्रं बलि नोन्नतपूर्वकम्। अतिदीर्घापपर्वाणंवर्जयेदिषुमीदृशम् ॥६॥गाण्टीवंवर्तुलं ज्ञेयं वैष्णव म्याश्रियम्यकम्। पिनाशं दाग्वं शेषं शार्ङ्गं स्याद्वग्रशृङ्गजम् ॥७॥यम्यांसौ पतितौ पुरश्चविततं शिष्यञ्चित(?) मस्तक पादौ स्थानरतौत्रिकं विनमितं मुष्टौशुभौ द्वायपि। दृष्टिर्लक्ष्यमना न रिक्तमुदरं पाष्णां ऋतू

संस्थितौ नासा सायकचुम्बिनी यदि भवेत्प्राप्तं तदा सौष्ठवम् ॥८॥सुवृत्तः सुदृढो दीर्घः सुक्लिष्टो गुप्तहीरकः। स्निग्धः श्लक्ष्णः सुस्वरश्चगुणस्याष्टौ गुणाः स्मृताः ॥९॥ आकर्णेपूरयेर्द्धाणं बाणाग्रं च निरीक्षयेत्।विद्धं तत्तु विजानीयाद्यदि बाहुर्न कम्पते ॥१०॥ आकर्णे पूरयित्वातु सर्वत्राणेन सायकम्।पार्श्वप्रवर्तितं किंचिन्न शृणोति न पश्यति ॥११॥यथा योगीश्वरो लक्ष्यं विहायान्यान्न पश्यति। तद्वच्छून्येतराक्षो वा चक्षुर्भ्यांलक्ष्यमानयेत् ॥१२॥ लक्ष्ये चैकमना भूत्वा वेधने कृतनिश्चयः। चेदेवंसायकं मुञ्चेद्विद्धं लक्ष्यं न संशयः ॥१३॥दृष्टिर्मुष्टौ235 शराग्रे236 च मनो बुद्धिश्च हुंकृतिः। स्युर्यदैतानि युगपल्लक्ष्यबेधस्तदा भवेत् ॥१४॥ मध्याह्नसमये चैववहत्यतिसमीरणे।संमुखे चैव सूर्यस्य न कुर्याद्बाणमोचनम् ॥१५॥ श्रमंधनुषि ये नित्यं न कुर्वन्ति धनुर्धराः।लक्ष्यबेधः कुतस्तेषां सङ्ग्रामे च कृतो जयः ॥१६॥

अथ वैदिको बाणमन्त्रः।

धन्वनागा इत्यादि सर्वाः प्रदिशो जयेमेत्यन्तम्। अयं नो अग्निरित्यादिशत्रूञ्जयत्वित्यन्तम्।

अथ स्मार्तो बाणमन्त्रः।

मुष्टिं त्यक्त्वाऽस्त्रपर्वाङ्को हंस्तोनःशेषमष्टहृत्। आयः स्याद्विषमो मध्यं समेऽरिजयदो हरिः ॥१७॥

अथ खड्गादिलक्षणम्।

पञ्चाशदङ्गुलः श्रेष्ठो हीनस्तन्मानतोऽधमः। अनयोरन्तरे मध्यं खड्गं प्राहुर्महर्षयः ॥१॥ ह्रस्वं कण्ठे छिन्नवंशंस्फुटितं विस्वनं जगुः। न दृङ्मनोनुकूलंच तन्निन्द्यं शुभमन्यथा ॥२॥ गोजिह्वावंशपत्राब्जकरवीरदलाकृति। सूच्यग्रसदृशं श्रेष्ठं स्यादतोऽन्यदशोभनम् ॥३॥रम्भाक्षारतक्रयुतः पायितो दिनषोपितः। शितः सम्यक् कुण्ठतां स न गच्छति शिलास्वपि ॥४॥ एकादशकरःकुन्तो नवहस्तस्तु शाबलः। सप्तहस्तो भवेद्भल्लः क्षेपणी पञ्चहस्तका ॥५॥ त्रिशूलमष्टहस्तं च शज्यशूलं त्रिहस्तकम्।सार्धहस्तत्रयासङ्गिमुशलं बर्हकं तथा ॥६॥तरुवारी पट्टिशं च दीर्घकं नारसिंहकम्।कात्यायनं बाणकं चज्ञातव्यं खड्गविभुधैः ॥७॥

अथ च्छुरिकाश्रमविधिः।

तिथ्यादिके शुभे ताराचन्द्रलग्नवलान्विते।काले श्रमक्रिया शस्ता त्यक्त्वानध्यायवासरम् ॥१॥रुद्रहस्तमिता दैर्घ्ये विस्तारे नवदण्डका।सगैरिकतलावृद्धौ श्रमभूमिःप्रशस्यते ॥२॥ तत्र संस्थाप्य बेतालं सुमुहूर्ते विलग्नके।कटिस्थच्छुरिकाहस्तः प्रसारितकरः परः ॥३॥किंचिदानतपूर्वार्थं237 भूतचण्डान्तकं शुभम्।सरोपाक्षं लोहिताक्षं धावन्तमिव संस्मरेत् ॥४॥ गुरूपदिष्टगार्गेण बेतालमतमभ्यसेत्।गुरुद्रोहाद्भृङ्गिमतं शिष्टैर्नेहोररीकृतम्238॥५॥

अथ ताम्बूलम्।

हस्तत्रये दितिद्वन्द्वे मृगे मूले शुभान्विते।ज्ञार्केज्यान्त्यवृषे लग्ने कार्यं तान्बूलभक्षणम् ॥१॥ पुण्योत्तरादितिदिवाकरवाजिपौष्णामूलानुराधवसुवासर्ववैष्णवेषु। वारेषु सौरिधरणीधरवारवर्जंताम्बूलनूतनफलाद्यशनं शुभाय ॥२॥यन्मुखं वेदविभ्रष्टं ताम्बूलरसवर्जितम्। सुभाषितपरिभ्रष्टं तन्मुखं विलमब्रवीत् ॥३॥ सुपूगं च सुपर्णेच सुधया च समन्वितम्।दत्त्वा स द्विजराजेभ्यस्ताम्बूलं239 भक्षयेत्ततः ॥४॥ सुताम्बूलं च यो दद्याद्ब्राह्मणाय विशेषतः।कन्दर्पसदृशो रूपे नीरोगो जायते नरः ॥५॥ क्रमुकात्तृष्यते ब्रह्मा विष्णुस्तृष्यति पर्णतः। चूर्णादीशस्तु तृष्येत ताम्बूलदानमक्षयम् ॥६॥ ताम्बूलं श्रीकरंभद्रं ब्रह्मविष्णुशिवात्मकम्। अस्य प्रदानात्सकला मम सन्तु मनोरथाः ॥७॥ एकपूगं सदा श्रेष्ठं द्विषूगं निष्फलं भवेत्। अतिश्रेष्ठं त्रिषूगं च ह्यधिकं नैव दृश्यते ॥८॥ द्वात्रिंशत्पर्णकं चैव दद्यात्सर्वे महीभुजे। चतुर्विंशतिपर्णं च सामन्तानामनुस्मृतम् ॥९॥ दशाष्टपर्णकं देयं जामातॄणां विशेषतः। द्वादशपर्णं विदुषे240 वधूनांदशपर्णकम् ॥१०॥ अष्टवर्णं च सर्वेषां सामान्ये तुर्यपर्णकम्।त्रिवर्णं तु न दातव्यमेकपर्णं तथैव च ॥११॥ षट्पर्ण चैव दातव्यं रिपूणां च विशेषतः। एकाद्वेत्रिचतुःपञ्चषड्भिः पूगीफलैः क्रमात् ॥१२॥ लाभालाभौ सुखं दुःखमायुर्मरणमेव च। पर्णमूले भवेद्याधिः पर्णाग्रे पापसंभवः ॥१३॥ चूर्णपर्णं241 हरत्यायुः शिरा बुद्धिविनाशिनी। ऊर्ध्वाग्रं विटकं धार्यं पर्णमेकं तथैव च ॥१४॥अङ्गुष्ठचूर्णलेपं च चर्वितं धनदायकम्। पर्णाग्रं पर्णमूलं च चूर्णपर्णं द्विपर्णकम् ॥१५॥ अनिघाय मुखे पर्णे षूगं खादति यो नरः। सप्तजन्मदरिद्रत्वमन्तेविष्णुं न विन्दति ॥१६॥तर्जन्या चूर्णमादाय ताम्बूलं न तु सादयेत्। यादे वा

खादयेन्मूढो रौरवं नरकं व्रजेत् ॥१७॥कनिष्ठानामिकामध्यातर्जन्यङ्गुष्ठयोगतः।शोको हानिस्तथा मृत्युरनैश्वर्यायुषी तथा ॥१८॥ वामहस्तेन ताम्बूलं स्त्रीहस्तेनतथैव च। यदि वा खादयेन्मूढस्तस्य लक्ष्मीर्विनश्यति ॥१९॥ अङ्गुष्ठेन तु लेपञ्चेत्सर्वसिद्धिप्रदायकः।जयस्त्रीवस्त्रलाभादि भविष्यति न संशयः ॥२०॥ दिवाखदिरसारेण ताम्बूलं तु सुशोभितम्। रात्रौ खदिरसारेण शक्रस्यापि श्रियं हरेत् ॥२१॥ ताम्बूलं कटु तिक्तमुष्णमधुरं क्षारं कषायान्वितं वातघ्नं कृमिनाशनंकफहरं कायाग्निसंदीपनम्। वक्त्रस्वाऽऽभरणं विशुद्धिकरणं दुर्गन्धिनिर्नाशनं ताम्बूलस्य सखे त्रयोदश गुणाः स्वर्गेऽपि ते दुर्लभाः ॥२२॥ प्रातःकाले फलाधिक्यं चूर्णाधिक्यं तु मध्यतः। निशि पर्णाधिकं भक्षेत्तस्य लक्ष्मीर्विवर्धते ॥२३॥क्रमुकसारं त्रिवारं च द्विवारं पर्णसारकम्।खदिरेण सहैकं च ह्युत्क्षिपेत्सर्वदाबुधः ॥२४॥

अथ दीपविधिः।

सूर्यास्ते चैव संदीप्यो यावत्सूर्योदयो भवेत्।तावद्दीपस्तु संदीप्य आयुरारोग्यसंपदे ॥१॥ पूर्वप्रदीपे पशुवर्धनं च याभ्यप्रदीपे गृहनाशनं च। प्रत्यक्प्रदीपेपशुधान्यवृद्धिरुदक्प्रदीपे बहुराज्यता च ॥२॥ एकदीपःसदा श्रेष्ठो द्वितये राज्यसंपदः। त्रितये हानिरोगौ च दारिद्र्यं हीनदीपतः ॥३॥घृतेन दीपःसंदीप्यो देवब्राह्मणतृप्तिदः।अलाभे तिलतैलेनसदा कुर्वीत वै द्विजः ॥४॥ उरुवूकस्य तैलेन यस्तु दीपं प्रदीपयेत्। पतिताः पितरस्तस्य यायदाभूतसंप्लवम्॥५॥ दीपे242 प्रलोभिते पुंसा कूष्माण्डच्छेदनेस्त्रिया। अचिरेणैव कालेन वंशच्छेदो भविष्यति ॥६॥ मुखोद्भवेन वातेनहस्तसंभवनात्तथा। कञ्चुकोत्थेन मरुतादीपं नैव निवारयेत् ॥७॥ विसृजेति समुच्चार्य लोपयेद्दीपमञ्चलात्।तावच्च तूष्णीं स्थातव्यं यावच्छेषं प्रशाम्यति ॥८॥ ज्योतिर्विरहितं पात्रं घर्मलिप्तं च कञ्चुकम्। पादुकोपानहौ खट्वांस्पृष्ट्वाऽऽचम्य विशुध्यति ॥९॥ दीपेनाऽऽत्मतनुच्छाया भर्तुर्ह्युपरि चेत्पतेत्।तौदंपती दरिद्रत्वमाप्नुवन्ति विनिश्चितम् ॥ १० ॥

अथ स्त्रीसंभोगः।

कुहूषूर्णेन्दुसंक्रान्तिचतुर्दश्यष्टमीषु च। नरश्चाण्डालयोनिः स्यात्तैलस्त्रीमांससेवनात् ॥१॥ विष्णुपुराणे— चतुर्दश्यष्टमी चैव द्य्रमावास्या च पूर्णिमा। पर्वाण्येतानि राजेन्द्र रविसंक्रान्तिरेव च ॥२॥ तैलस्त्रीमांससंभोगी पर्वस्वेतेषु वै पुमान्। विष्णूत्रभोजनं नाम नरकं प्रतिपद्यते ॥३॥ कामाशास्त्रे-पक्षान्निदाघे

हेमन्ते नित्यमन्यर्तुषु त्र्यहात्। स्त्रियं कामयमानस्य जायते न बलक्षयः ॥४॥इदं वात्स्यायने प्रोक्तं वाग्भटोक्तमथोच्यते। त्र्यहाद्वसन्तशरदोः पक्षाद्वर्पनिदाधयोः ॥५॥ सेवेत कामतः कामं हेमन्ते शिशिरे बली। एतद्विधानंकेऽप्याहुः सुगर्भाधानहेतवे ॥६॥ अव्यङ्गो रूपवान्पुष्टो गर्भः स्यान्नान्यथा यतः। आयुर्वेदविदः प्राज्ञा ऊचिरे वेगधारणात्। शुक्रविष्णूत्रपूर्वाणां(र्णानां)देहधातुपरिक्षयम् ॥७॥ व्रती योगी मिताशी च रोगी व्यायामकृत्तथा। न सेवेत स्त्रियं तेषां बीजरोधो न बाधकः ॥८॥ आचारसारे—यथाकामं स्त्रियं गच्छेच्छक्तः कामी युवा गृही। श्यामां कान्तां विशेषेण सुखसंभोगहेतुतः ॥९॥ नीतिशास्त्रे— अनिषिद्धं सुखं भोगं कलाभ्यास धनार्जनम्।धर्मंसत्यं च यो जह्वात्स वै मूढोऽथवा पशुः ॥१०॥दीपे प्रदीप्तेसंभोगं करोति मनुजो यदि।वावज्जन्म दरिद्रत्वं लभते नात्र संशयः ॥११॥अप्रजा यदि या नारी पतिसङ्गं समा(नवाऽऽ)चरेत्। आयुष्यं हरते भर्तुः सा नारी नरकं व्रजेत् ॥१२॥ पादलग्नतनुश्चैव ह्युच्छिष्टं ताडनं तथा। कोपो रोषश्च निर्भर्त्सा संयोगे न च दोषभाक् ॥१३॥कञ्चुकेन समं नारी भर्तृसङ्गंसमाचरेत्। त्रिभिर्वर्षैश्चमध्ये वा विधवा भवति ध्रुवम् ॥१४॥ तद्वत्पत्रभिलत्कर्णा दानं वा मैथुनं चरेत्। पञ्चमे सप्तमे वर्षे वैधव्यमिह जायते ॥१५॥ कामातुरेण या भर्त्रा संयोगं यदि याचिता। निवारयति सा नारी बालरण्डा भवेत्सदा ॥१६॥ ऋतुस्नातां तु यो भार्यां संनिधौ नोपगच्छति।घोरायांभ्रूणहत्यायां पितृभिः सह गच्छति ॥१७॥ कुङ्कुमं चाञ्जनं चैव ताम्बूलंसिन्दूरं तथा। धौतवस्त्रं च कुसुमं संयोगे च शुभावहम् ॥१८॥ नमस्कृत्यभर्तृपादौपश्चाच्छय्यासमाविशेत्। सा नारी सुखमाप्नोति न भवेद्दुःखभागिनी ॥१९॥ गलत्ताम्बूलवदनां नग्रामाक्रन्दतीं तदा। दुर्मुखां च क्षुधायुक्तांसंयोगे परिवर्जयेत् ॥२०॥ दक्षकर्णे च सूत्रे तु पुरीषे वामकर्णके।धारयेद्ब्रह्मसूत्रं तु मैथुने ह्युपवीतवान् ॥२१॥ भर्त्रुच्छिष्टंसदा भोज्यमन्नं ताम्बूलमेव च। उच्छिष्टं न तु भुञ्जीत गृहस्थो ह्यवरं विना ॥२२॥

अथ नवान्नभोजनम्।

पुष्याश्विनीकमलयोनिशशाङ्कपोष्णहस्तादिपञ्चभगणेषु गुणान्वितेषु।वारेगुरुद्धभृगुशीनगुभास्कराणां नव्यान्नभोजनमभीष्टकरं नराणाम् ॥१॥

अथ पात्रम्।

सुभोज्यान्नसुधासिद्धौघटयेद्वा समाहरेत्। तत्रान्नप्राशने प्रोक्ते कालेभाजनमाचरेत् ॥१॥

अथ मैत्री।

भार्गवेऽस्ते गुरौलग्ने मन्देऽस्ते भार्गवोदये। रिपौ मन्दे सिते लग्नेत्रयोयोगाःसुमित्रदाः ॥१॥

अथ दासी।

दासीदासादिभृत्यानां कुर्यात्संग्रहणं बुधः। स्थिरलग्ने शुभैर्दृष्टे मन्दवारे विशेषतः ॥१॥

अथ सेतुः।

स्वातीयुक्ते मन्दवारे वृषलग्ने शुभेक्षिते। सेतूनां बन्धनं कुर्याद्ध्रुवभेवाऽकिंजीवयोः ॥१॥

अथ सर्वकर्म।

महादोषान्परित्यज्य प्रोक्ते धिष्ण्ये तिथौ दिने।शुभकर्माणि कुर्वीत सुलग्नेच विशेषतः ॥१॥ मृदुध्रुवैः स्थिरं कर्म चरक्षिप्रैश्चरं तथा। मिश्रैर्मिश्रं च तीक्ष्णोग्रैरुदग्रं चैव तद्गुणैः ॥२॥ रौद्रसार्पेन्द्रयाम्याग्नित्रिपूर्वा न शुभावहाः। शेषास्ताराः शुभाख्याः स्युः सर्वकर्मसु शोभनाः ॥३॥ मृद्ध्रुवचरक्षिप्रैः सद्वारेसत्तियौतदा। ससौम्यैः स्वस्य कृत्ये तु योज्यं नूतनसाधनम् ॥४॥ धातुलोहाश्ममृत्काष्ठनिर्मितं यत्क्रियार्थतः। साधनं तद्बुधाः प्राहुस्तृणपर्णादिकं तथा ॥५॥ सर्वे ग्रहाः शुभे कार्ये रन्ध्रगा न शुभावहाः। द्वादशे मध्यमा ज्ञेया लग्नेशोऽष्ठारिगो न सन् ॥६॥ पापेन्दू लग्नगौ त्याज्यौ सर्वेषु शुभकर्मसु। अक्षीणं कर्किगोजस्थं केऽप्याहुर्लग्नगं शुभम् ॥७॥ व्रतान्नोद्वाहसीमन्तगृहारम्भाभिषेचने।त्याज्योऽरिभावगश्चन्द्रः शेषकर्मसु शोभनः ॥८॥

अथ रोगमुक्तिदिवसाः।

वसिष्ठः—पूर्वात्रये स्वातिभुजंगरौद्रसुरेश्वरर्क्षेषु च यस्य रोगः।स्याद्रक्षितुंदेवचिकित्सकोऽपि क्षितावशवतः खलु रोगिणं तम् ॥१॥ कृच्छ्रात्स्फुटं प्राणिति मैत्रपौष्णवेश्वेषु मासाच्छशिनश्चधिष्ण्ये। रोगस्य मुक्तिः पितृदैवधिष्ण्ये वारे भवेद्विंशतिभिस्तु नूनम् ॥२॥ पक्षाद्द्विदैवेन्द्रकरेषु भेषु मूलाश्विनाग्नित्रितये नवाहात्। तोयेशचित्रान्तकविष्णुभेषु नैरुज्यमेकादशभिर्दिनैश्च ॥३॥ पुष्ये त्वद्दिर्बुध्न्यपुनर्वसौ च ब्राह्मार्थमर्क्षेषु च सप्तरात्रात्। ऋक्षेशरूपं कनफेन कृत्वा तल्लिङ्गमन्त्रैश्च सुगन्धिपुष्पैः ॥४॥ वस्त्राक्षतैर्गुग्गुलधूपदीपैर्नैवेद्यताम्बूलफलैश्च सम्यक्। पूजां च कृत्वाऽऽमयनाशनाय द्विजाय दद्यादतुलं शिवाय ॥५॥

अथ दुर्गादीनां यजनम्।

साधारणे दारुणभे तथोग्रेरिक्तातिथौ सूर्यकुजाकिंवारे।दुर्गादिकानां यजनं प्रशस्तं क्षेत्राधिपस्यापि सुरासवाद्यैः ॥१॥

अथ भूषणनिर्माणम्।

क्षिप्राबलचलमृदुभे रिक्तामावर्जितेषु दिवसेषु। निखिलेषु च वारेषु त्रिपुष्करेभूषणं कार्यम् ॥१॥

अथ मणिधारणम्।

क्षिप्रमृदुध्रुवचरभे शशिसितयोर्वासरेषु तल्लग्ने।मुक्ताफलरजतमयं भूषणमखिलं सवज्रकं धार्यम् ॥१॥

इति शूरमहाठश्रीशिवराजविनिर्मिते। ज्योतिर्निबन्धसर्वस्वेलग्नाध्यायः समर्थितः॥

_____

अथ शान्त्यध्यायः।

तत्राऽऽदौ गण्डजातफलम्।

शौनकीयसूत्रे—पुत्रो यदि पितुर्गण्डे दिवा चैव प्रजायते। कन्यकाजननं रात्रौमातृगण्डे तथैव च ॥१॥ संध्ययोर्धनगण्डे च प्रसूतिर्यदि जायते। विनाशोजायते शीघ्रं मध्यमं तद्विपर्यये ॥२॥ पवनः— यत्र गण्डं क्रूरयुतं महादोषकरंभवेत्। शुभग्रहसमायोग ईषच्छुभकरं भवेत् ॥३॥ दिनक्षये व्यतीपाते व्याघाते विष्टिवैधृतौ। शूले गण्डातिगण्डे च परिधे यमघण्टके ॥४॥ ब्रह्मदण्डेमृत्युयोगे प्राप्ते गण्डदिने शिशुः। जातो हन्ति कुलं सर्वंतस्मात्कुर्वीत शान्तिकम् ॥५॥ धनगण्डे दरिद्रोऽपि शान्तिं कुर्यात्स्वशक्तितः। अन्यथा नाशमाप्नोति चाभुक्तर्क्षेविशेषतः ॥६॥ माण्डव्यः—जातो न जीवति नरो मातुरपथ्योभवेत्स्वकुलहन्ता। यदि जीवति गण्डान्ते बहुगजतुरगो भवेद्भूषः ॥७॥ गर्गः—नाक्षत्रं मातरं हन्ति तिथिजं पितरं तथा। लग्नोत्थंजातकं हन्ति तस्माद्गण्डान्तमुत्सृजेत् ॥८॥ बादरायणः—दिवाजं पितरं हन्ति रात्रिजं मातरं तथा। संध्ययोर्जातमात्मानं गण्डजं नो निरामयम् ॥९॥ ज्योतिष्प्राकाशे—संध्यारात्रिदिवाभागे धिष्ण्यगण्डोद्भवः शिशुः। आत्मानं मातरं तातं ध्रुवं हन्तियथाक्रमम् ॥१०॥मातरं तातमात्मानं तिथिगण्डान्तजस्तथा। लग्नगण्डान्तजस्तद्वत्तातमात्मान(नं)मातरम् ॥११॥ सर्वेषां गण्डजानानां परित्यागोविधी-

श्रीशिवराजविनिर्मितो-

यते। अथवाऽदर्शनंतस्य मासषट्कंन कारयेत्‌ ॥१२॥ राजमार्तण्डे—गण्डप्रसूतंपुरुषंशुभमाहुरपश्यताम्‌। अन्ये तु होमपूर्वण दानेन दशनं शुभम्‌ ॥१३॥ प्रश्नप्रदीपे–विवाहादौभवेन्मृत्युजातके कुलनाशनम्। यात्रायां सर्वनाशश्चकार्यनाशोऽन्यकर्मणि ॥१४॥

इति गण्डजातफलम्‌।
अथ गण्डदोषशान्तिः।

तत्रराजमार्तण्डेब्रह्मपुराणोक्त—कांस्यपात्रंप्रकुर्वीत पलैःषोडशभिर्बुधः। अष्टभिर्वा चतुर्भिवाद्वाभ्यां वा शोभनंसमम्‌ ॥१॥ तन्मध्ये स्थापयेद्देवं नवनीतप्रपूरितम्‌। राजतंचन्द्रमभ्यर्च्यसितपुष्पसहस्त्रकैः॥२॥ दैवज्ञःसोपवासश्चशुक्लाम्बरधरः शुचिः। सोमोऽमिति संचिन्त्य कुर्यादेवमतन्द्रितः ॥३॥ जपेत्साहस्त्रिकंमन्त्रं श्रद्दधानः समाहितः। दद्याद्वैदक्षिणामिष्टांगण्ड- दोषोपशान्तये ॥४॥ शुद्ध चामीकरं दद्यात्ताम्रपात्रंतिलान्वितम्‌। गण्डदोषोपशान्त्यर्थेज्योतिर्वेदविदे शुचिः॥५॥ॐ अमृतात्मने नमः। अयं मन्त्रः। कुंकुमंचन्दनं कुष्ठंगोरोचनमथापि वा। घृतपूर्णेषु कुन्भेषु चतुर्षुप्रक्षिपेत्क्रमात्‌ ॥६॥ सहस्राक्षेण मन्त्रेण बालकंस्नापयेत्ततः। पितुयुक्तंदिवाजातंमातृयुक्तंच रात्रिजम्‌ ॥७॥ स्नापयेत्पितृमातृभ्यां संध्ययोरुभयोरपि। कांस्यपात्रंघृतैःपूर्णेगण्डदोषोपशान्तये ॥८॥ सक्षीरं मौक्तिकंशंखंश्वेतवस्त्रयुगं शुभम्‌। यजुर्वेदविदे दद्याद्गण्डदोषापनुत्तये ॥९॥ दद्याद्धेनुं हिरण्यं च ग्रहांश्चापि प्रपूजयेत्‌। आयुर्वेदकरंजप्त्वाकुर्योद्ब्राह्मणतर्पणम्‌ ॥१०॥ॐ सहस्राक्षेण शतशारदेनेत्यादिवह्वृचानाम्।

इति गण्डदोषशान्तिः।

अथाभुक्तमुलविचारः।

तत्र प्यवनः—अभुक्तमूलसंभवंपरित्यजेच्चबालकम्‌। समाष्टकंपिताऽथवा न तन्मुखंविलोकयेत्‌ ॥१॥ वृद्धवसिष्ठः—ज्येष्ठान्तेघटिका चैकामूलादौघटिकाद्वयम्‌। अभुक्तमुलमित्याहुम्न्त्रजातंत्यजेच्छिशुम्‌ ॥२॥ बृहस्पतिः—ज्येष्ठान्त्यघटिकार्धे तु मूलादौघटिकार्धकम्। तयोन्तर्गता नाटीप्रभुक्तं

मुलमुच्यते ॥३॥ अभुक्तमूलंगण्डान्ते नाडिकानां चतुष्टयम्‌। तच्चैन्द्रान्त्यघटी द्वन्द्वंमूलाद्यंद्वन्द्वमेव च॥४॥

इत्यभुक्तमूलविचारः।

. अथ मूलसार्पजातफलम्‌।

कात्यायनसूत्रे—मूलस्य प्रथमेंऽशेजातः पितुरनिष्टोद्वितीये मातुस्तृतीये च धनस्य चतुर्थेकुलशोकावह आत्मनः पुण्यभागीस्यादिति। वसिष्ठः—जातापत्ये पितरमथवाऽऽत्मानमाद्येच पादे युग्मे धात्रींहरति च धनं भ्रातरं वा तृतीये। पादे तुर्ये शुभमतितरांराज्यसाम्राज्यलक्ष्मींमूलेजातं वितरति तथा काद्रवेयेप्रतीपम्॥१॥ ब्रह्मपुराणे—मूलांशेप्रथमेमातुर्द्वितीये च पितुस्तथा। तृतीये धनधान्यस्य नाशस्तुर्ये धनागमः ॥२॥ रत्नमालायां—तदाद्यपादके पिता विपद्यते जनन्ययो। धनक्षयस्तृतीयके चतुर्थके शुभावहः ॥३॥ गर्गः— गृहंक्षेत्रंधनं धान्यं गृहोपकरणादिकम्‌। पशुवस्त्रादिकंचेति धनमित्युच्यते बुधैः॥४॥ जयार्णवे—मूले सप्त ७ घटीषुमूलहननंस्तम्भेऽष्ट८ सौख्यक्षयस्त्वग्दिग्१० बन्धुविनाशनं च विटपे रुद्रैः११ हेतो मातुलः। पत्रऽकेः १२ सुकृती तु बाण ५ कुमुमेमन्त्री फलेसागरै४ राजावह्नि३ शिखाल्पमायुरिति सन्मूलांघ्रिषेस्यात्फलम्॥५॥ मूलंस्तम्भस्त्वचाशाखा पत्रंपुष्पं फलंशिखा। तत्राङ्गाष्टदशेशार्कपश्चाब्ध्यग्निघटीफलम्‌ ॥६॥ मूले स्वामिविनाशः स्तम्मे हानिस्तवाचि च सहमनाशः। जननीनाशः कन्ये दले मङ्गलकृन्नृपप्रियेपुष्ये ॥७॥ सचिब। फले शिखायां मृत्युयवाप्नोति भूपो या। हासपिन्यूेनापिरपद्या हासर्धिर्न्युनाधिकष्ट्या स्यादत्र नाडिकामानम्‌ ॥८॥ भूपावल्लभे—मूलस्य घटिकान्यासो मूर्ध्नि पच्च नृपो भवेत्‌। पुखे सप्त मृतिः पित्रोः स्कन्धोवेदो महावलः ॥९॥ बह्णोरष्टौबली पाण्योस्तिस्रोदस्तान्वितो भेत्‌। हृदि गेया भूषमन्त्री नामौद ब्रह्मविद्भवेत्‌ ॥१०॥ गुह्येदेशेऽतिकामी स्याज्जाुनोः पष्महामपतिः।पादयोः पष्मृतिस्तस्येत्युक्तवान्कमलासनः ॥११॥ सहदेवः—मूर्धा वक्त्रंतथायाहू हृन्नाभी च कटिद्वयम्। गुह्यंपादौ दशस्थानं कट्यां पटूं क्रमात्फलम्‌ ॥१२॥ मूर्ध्निघातोमुखेक्षेमं भृत्यमातुलयोःकरौ। हृदये शुभसौख्यंच नाभ्यां स्वामिविधातकः ॥१३॥ करद्वये मातृहन्ता गुह्येतस्कर एवच। पादयोर्धनहानिः स्पान्मूलचक्रफलंविदुः ॥१४॥ मूर्ध्नि

पञ्च सुराज्याप्तिर्मुखे सप्त पितृक्षयः। नेत्रेद्वेजननीनाशो ग्रीवायांत्रिषुलम्पटः ॥१५॥ स्कन्धेवेदा गुरोर्भक्तोहस्तेऽष्टो च बलीभवेत्‌। हृद्येकांदशभिश्चाऽऽत्मघाती संजायते नरः ॥१६॥ स्त्रीवान्नाभौभ्रमी षड्भिर्गुदे नव तपोधनः। पादे पञ्च धनं हन्ति सार्पादेतत्फलंक्रमात्॥१७॥ रूद्रयामले—फलं युष्पं दलंशाखा त्वग्लता स्कन्ध एव च। सार्पवल्या दशाक्षाङ्कस्वरविश्वार्कसागराः ॥१८॥ नाडिकास्तद्भवेवालेफलं कुर्र्युर्यथाक्रमम्‌। श्रीःश्रीराजभयं हानिर्मातृपित्रात्मसंक्षयः ॥१९॥ भास्करव्यवहारे—सार्पांशे प्रथमेराज्यंद्वितीये च धनक्षयः। तृतीये जननीनाश्चतुर्थे मरणं पितुः ॥२०॥

इति मूलसार्पजातफलम।

अथ मूलसार्पजातस्यपवादः।

वादरयणः—सार्पनैर्ऋतगण्डान्तविषकन्यादियोगजाः। न स्पुरुक्तफला लग्नेयदि तद्भङ्गदाः खगाः ॥१॥ सारावल्यां—गण्डान्तमूलजाता विषकन्याख्या भवन्ति नोक्तफलाः। यदि जन्मलग्नखेटास्तद्दोषस्यापहन्तारः ॥२॥ यवनः—मूलसार्पादिजोदोषःस्यादपश्यति लग्नपे। सक्रूरेऽब्जेच विवले शुभदृष्टिविवर्जिते ॥३॥ ब्रह्मर्षिसंहितांशं—पितरं हन्ति मूलाद्यपादेऽन्यत्र च मातरम्‌। पितृमातृग्रहौन स्तोयद्योजसमराशिगौ ॥४॥ बृहज्जातके—दिवाऽर्कशुक्रौ पितमातृसंज्ञितौशनैश्चरेन्दूनिशि तद्विपर्ययात्‌। पितृव्यमातृष्वसृसंज्ञितौच तावथोजयुग्मर्क्षगतौ तयोः शुभौ ॥५॥ कूर्मयामले—आद्यःषष्ठस्त्रयोर्विंशोद्वितीयोनवमोष्टमः। अष्टाविंशश्चमूलस्य मुहूर्तादुःखदा जनौ ॥६॥ पातालेज्ये फवे(व्यये) मार्गे स्वर्गेभावाश्विमाघके243। पौपश्रवोर्जचैन्नेषुस्थितिर्मूलस्य भूतले ॥७॥ रवियुक्ताश्विनी सौम्यादित्यहस्तादिकत्रयम्‌। मैत्रंच रेवती ज्येष्ठातदा मूलंन दोषकृत्‌ ॥८॥ तृतीया दशमी षष्ठी शनिभौमसमन्विता। शुक्लाचतुर्दशी मूलेजातःसंहरते कुलम्‌ ॥९॥

इति मूलसार्पजातस्यापवादः।

अथ शिशुमुखदर्शनादर्शने।

रद्रयामले—शाक्रे पक्षेच गण्डान्तमूलयोर्वत्सराष्टकम्।मासानां नवकंसार्पंत्यजेत्संदर्शनंशिशोः ॥१॥ भुक्तमूलर्क्षजंवालंषण्मासं नावलोकयेत्‌। ततः

संदर्शनं कुर्याद्विधिवच्छान्तिपूर्वकम् ॥२॥ भुक्तमूलभवं बालं दिनानि सप्तविंशतिः। पित्रा नाऽऽलोकनं कार्यंततः शान्तिं समाचरेत् ॥३॥ गण्डान्तमूलसार्पेन्द्रपातवैधृतिदर्शजे। पौत्रोपरागजे शान्तिं कुर्यात्तत्तद्दिने बुधः ॥४॥ एतददृष्टपूर्वशिशोर्वेदितव्यम्। सद्वारे सत्तिथौभे च गुरुपुष्यादिके शुभे। सुलग्नेऽब्जवलं लब्ध्वा मूलाद्युत्थभयच्छिदे ॥५॥ विधेयं शान्तिकं यच्च यथावित्तानुसारतः।काले दर्शनयोग्ये वा मासान्ते द्वादशेऽह्नि वा ॥६॥ उत्पलाचार्यविवृत्तौ—मूलाद्युत्थं दुष्टफलं परित्यागाद्विलीयते। शिशोरदर्शनाद्वाऽपि दानहोमजपैरपि ॥७॥

इति शिशुमुखदर्शनादर्शने।

अथ मूलशान्तिः।

रत्नमालायां—शतौषधीमूलमृदम्बुरत्नैः सबीजगर्भैःकलशैः समन्त्रैः। कुर्याज्जनित्रीपितृबालकानां स्नानं शुभार्थी सह होमदानैः ॥१॥ पुराणे—बर्हिःशिखा १ हरिक्रान्ता २ सहदेवी ३ पुनर्नवा ४। शरपुङ्खा५ वराही च ६ काकजङ्घा ७ सुलक्ष्मणा ८ ॥२॥ तुम्बिका ९ चैव कर्कन्धूः १० कर्पूरी ११ कारवल्लिका १२। कर्कोटी चैव १३ चक्राङ्का१४ श्वेतार्को १५ व्याघ्रपत्रिका १६ ॥३॥ रुदन्ती १७ चाश्वगन्धा च १८ मुसली १९ गिरिकर्णिका २०।इन्द्रवारु २१ ण्यपामार्गः२२ शङ्खपुष्पी २३ कुमारिका २४ ॥४॥ शल्लकी २५ चाथ गन्धारी २६ निर्गुण्डी २७ वेददारिका २८।वटः २९ शमी ३० तथा प्लक्षः ३१ पालाशो ३२ ऽश्वत्थ ३३ एव च ॥५॥ चूत ३४ श्चोदुम्बरो ३५ जम्बू ३६ र्नन्दिवृक्षोऽ ३७ थ वेतसः ३८। पुंनागो ३९ ऽथार्जुनो ४० ऽशोको ४१ वकुलो ४२ ऽशमन्तकस्तथा ४३ ॥६॥ शाल ४४ स्ताल ४५ स्तमालश्च ४६ पाटलः ४७ शतपत्रिका ४८।मधूकश्च४९ शिरीषश्च ५० श्रीवृक्षो ५१ वृहतीद्वयम् ५२। ५३ ॥७॥ वला ५४ चातिबला ५५ चैव पाठा ५६ नागवला ५७ तथा। जाती ५८ बकुलकश्चैव ५९ केतकी ६० कदली ६१ तथा ॥८॥ मातुललिङ्गी६२ जयन्ती च ६३ यावनी ६४ पुण्ड्रिका ६५ तथा। द्रोणपुष्पी ६६ तथा कुम्भी ६७ श्रीपर्णी ६८ मदन६९ स्तथा ॥९॥ चम्पकः ७० पद्मकश्चैव ७१ तथा काञ्चनपुष्पिका ७२। सिद्धेश्वरी च ७३ बदरी ७४ राजवृक्षो ७५ धवस्तथा ७६ ॥१०॥ कुन्दश्च ७७

मुचुकुन्दश्च७८ गोजिह्वा ७९ क्षीरकन्दुका ८०। दाडिमी ८१ बीजपूरी च ८२ ब्राह्मी ८३ चाऽऽमलकी ८४ तथा ॥११॥ भृङ्गराजो ८५ ऽधोमुखी ८६ च मत्स्याक्षी ८७ चाटरूपिका ८८। तरङ्गिणी ८९ गुडूची च ९० निशाह्वा९१ शतमूलिका ९२ ॥१२॥ वाकुची ९३ काकजङ्घाच ९४ वर्वरी ९५ तुलसी ९६ तथा। कुशः ९७ काश ९८ श्रेक्षुमूलं ९९ तथा सर्षपमूलकम् १०० ॥१३॥ अलाभे चोक्तवृक्षाणां सद्वृक्षाणां समाहरेत्। एवं मूलशतं ग्राह्यं ततः कुम्भे विनिक्षिपेत् ॥१४॥ अश्वस्थानाद्गजस्थानाद्वल्मीकात्सङ्गमाद्भदात्। राजद्वाराच्चगोष्ठाच्च मृद् ग्राह्या कुम्भके क्षिपेत् ॥१५॥ वज्रमौक्तिकवैदूर्यपुष्परागेन्द्रनीलकम्। पञ्चरत्नमिदं प्रोक्तं मन्त्रैःकुम्भे विनिक्षिपेत् ॥१६॥ गोमूत्रं गोमयं क्षीरं दधि सर्पिः समाहरेत्। पञ्चगव्युमिदं कुम्भे क्षिपेद्गजमदान्वितम् ॥१७॥ रजतं काञ्चनं ताम्रं विद्रुमं तीर्थवारि च। निक्षिपेद्धेममूलं च दशाष्ट्यवनिर्मितम् ॥१८॥ देवदारुं च शैलेयं पद्मं नीलोत्पलं तथा। वचां लोध्रंप्रियङ्गु चजलं244 च श्वेतसर्पपान् ॥१९॥ धात्रीफलं च तगरुं निशामांसीं पुनस्तथा। उशीरं चन्दनं कुष्ठं शतच्छिद्रे घटे क्षिपेत् ॥२०॥ वंशपात्रोपरिन्यस्तशतच्छिद्रघटोदकैः। पितृमातृशिशूनां तन्मन्त्रैः स्नानं तु कारयेत् ॥२१॥ मूलरूपं विधातव्यं श्यामं कुणपवाहनम्। खड्गखेटधरं चोग्रंद्विभुजं च वृकाननम् ॥२२॥ स्थापयेत्तं ग्रहांश्चैव वस्त्रगन्धादिभिर्यजेत्। चरुं च श्रपयेत्तत्र नैर्ऋतं दुष्टचारिणाम् ॥२३॥ जुहुयादाज्यभागान्तं पायसं नैर्ऋतं ततः। पुण्यस्नानोक्तमन्त्रैश्च स्नापयेद्दंपती शिशुम् ॥२४॥ प्रच्छादनोर्णवस्त्रादिदद्याद्धेनुं च काञ्चनम्। दानान्ते होमयेद्विप्रःसर्वमूलानि तत्र च ॥२५॥ सावित्रसौम्यनैर्ऋतमन्त्रैर्होमश्चशक्तितो दानम्। स्नानं कुम्भाम्भोभिर्द्विजभोज्यंशान्तिकृद्भवति ॥२६॥

इति मूलशान्तिः।

अथाऽऽश्लेषाशान्तिः।

आश्लेषायां तु जातानां शान्तिं वक्ष्याम्यतः परम्। जातस्य द्वादशाद्देच शान्तिं होमं समाचरेत् ॥१॥ असंभवे तु जन्मर्क्षे अन्यस्मिन्वाशुभे दिने। स्नानाभ्यङ्गादिभिस्तस्मिन्वरयेत्तु द्विजोत्तमान् ॥२॥ विभवे पञ्च कुम्भास्तु द्वयं वा तदलाभतः। देवतास्थापने चैकमेकं रुद्राभिमन्त्रिणे ॥३॥ नागप्रति-

कृतिं कुर्यात्सौवर्णी पलमानतः। अथवा शक्तितः कुर्याद्वित्तशाठ्यं विवर्जयेत् ॥४॥ मूले यत्तुविधानं स्यात्तत्समं सर्पदैवते। कद्रुद्राय प्रचेतस इति मन्त्रोविशेषतः ॥५॥ नैवेद्यं ह्यामिषं चास्ति पूजादानकृतिः समा। अयुतं हवनं ह्यत्र तिलैःसाज्यैः प्रधानतः। ब्रह्मवृक्षस्य समिधः शतमष्टोत्तरं शुभाः ॥६॥ शुभाइति द्वादशाङ्गुलयुताः साम्रा अवक्राः सत्वचोऽत्रणाः। अन्यत्सर्वे मूलविधानवत्॥

इत्याश्लेषाशान्तिः।

अथ वृद्धगार्ग्योक्ताज्येष्ठाशान्तिः।

नारदः— ज्येष्ठान्त्यपादजो ज्येष्ठं हन्ति बालो न बालिका। नबालिका तु मूलर्क्षंमातरं पितरं तथा ॥१॥ ज्येष्ठोत्पन्ना नरा नार्यो घ्नन्ति चन्द्रे बलोज्झिते। कुलवृद्धं पितुर्मातुः पक्षनं तु दिवा निशि ॥२॥ ज्येष्ठाद्यपादजो वृद्धं बन्धुवर्गे द्वितीयजः। धनं तृतीयजो हन्ति तथाऽऽत्मानं चतुर्थजः ॥३॥ ज्येष्ठन्त्यपादजातस्य पितुः स्वस्य विनाशनम्। जायते नात्र संदेहो दशाहाभ्यन्तरेयतः ॥४॥ ज्येष्ठर्क्षे कन्यका जाता हन्ति शीघ्रं तथाऽग्रजम्। तस्माच्छान्तिं प्रवक्ष्यामि गण्डदोषप्रशान्तये ॥५॥ सुदिने शुभनक्षत्रे चन्द्रताराबलान्विते। सूतकान्तेऽथवा कुर्याज्ज्येष्ठाशान्तिं विधानतः ॥६॥ कर्षमात्रसुवर्णेन कर्पार्धेनाथपादतः। तद्विधानं प्रकुर्वीत वितशाठ्यं न कारयेत् ॥७॥ वज्राङ्कुशधरं देवमैरावतगजान्वितम्। कुर्याच्छचीपतिं रम्यं देवेन्द्रंसुरनायकम् ॥८॥ शालितण्डुलसंपूर्णकुम्भस्योपरिपूजयेत्। इन्द्रायेन्दो मरुत्वत इति मन्त्रेण वाग्यतः ॥९॥ ग्रन्ध्रपुष्पैर्धूपदीपैननाभक्ष्यसमन्वितैः। पूजयेद्विधिना विप्रो लोकपालगणान्त्रितम् ॥१०॥ रक्तवस्त्रद्वयोपेतं पूजयेत्सुरनायकम्। तत्र संस्थापयेत्कुम्भांश्चतुर्दिक्षु विशेषतः ॥११॥ तन्मध्ये स्थापयेत्कुम्भं शतच्छिद्रसमन्वितम्। पुण्योदकसमायुक्तान्वस्त्रयुग्मेण वेष्टितान् ॥१२॥ कुम्भेषु विन्यसेद्धीमान्पञ्चगव्यं समन्त्रकम्।पञ्चामृतं पञ्चरत्नं मृत्तिकाः पञ्चसंख्यकाः ॥१३॥ पञ्चवृक्षकषायांश्च पञ्च पल्लवकांस्तथा। सुवर्णकुशदूर्वाश्च शतौषधीर्विनिक्षिपेत् ॥१४॥ पूजयेद्वारुणैर्मन्त्रैः कुम्भान्धीमान्प्रयत्नतः। त्वं नो अग्ने जपेदादौ स त्वं नोऽपि द्वितीयकम् ॥१५॥ समुद्रज्येष्ठामन्त्रेणेमं मे गङ्गे चतुर्थकम्। पूजयेद्वस्त्रपुष्पाद्यैश्चतुरःकलशानपि ॥१६॥ जपं कुर्यात्प्रयत्नेन मन्त्रैरेभिर्द्विजोत्तमः। आनोभद्राजपं चाऽऽदौभद्रा अग्ने द्वितीयकम् ॥१७॥ तृतीयं पौरुषंसूक्तं कद्रुद्राय

चतुर्थकम्। आचार्यो मूलमन्त्रेण जपं कुर्याद्विशेषतः ॥१८॥ इन्द्रसूक्तं रुद्रजपं मृत्युंजयजपं ततः। इत्थं संपूज्य देवेशं वरुणं कुम्भसंस्थितम् ॥१९॥ सुसंकल्पविधानेन होमकर्म ततश्चरेत्। समिद्भिर्ब्रह्मवृक्षस्य शतमष्टोत्तरं तथा ॥२०॥ सर्पिषाचरुणा चैव मूलमन्त्रेण वाग्यतः। हुनेज्जाप्यं च तेनैव यत इन्द्र भयेति च ॥२१॥ तिलान्व्याहृतिभिर्दुत्वा शतमष्टोत्तरं पृथक्। भार्याशिशुसमोपेतं यजमानं विशेषतः ॥२२॥ अभिषेकं प्रकुर्वीत सूक्तैर्वारुणसंज्ञकैः। समुद्रज्येष्ठादिमन्त्रैरिमं मे वरुणस्तथा ॥२३॥ घोषशान्त्यादिभिर्मन्त्रैरभिषेकं समाचरेत्। अभिषेकनिवृत्तौ तु यजमानः समाहितः ॥२४॥ शुक्लाम्बराणि धृत्वाऽथ कुर्यादाज्यावलोकनम्। रूपंरूपेतिमन्त्रेण चित्रं तच्चक्षुरेव च ॥२५॥देवतापुरतः स्थित्वा धूपदीपनिवेदनम्। दद्यादाचमनं सम्यक्ताम्बूलार्ध्यं तथैव च ॥२६॥ नमस्ते सुरनाथाय नमस्तुभ्यं शचीपते। गृहाणार्ध्यं मया दत्तं गण्डदोषशान्तये ॥२७॥ आचार्याय च गां दद्यात्सुशीलां च पयस्विनीम्। रक्तवर्णांवस्त्रयुतां सर्वालंकारसंयुताम् ॥२८॥ वस्त्रयुग्मं विधानं च यथाविभवसारतः। यक्षगन्धर्वसिद्धैश्च पूजितोऽसि शचीपते ॥२९॥ दानेनानेन देवेश गण्डदोषंविनाशय। अष्टोत्तरशतसंख्यं कुर्याद्ब्राह्मणभोजनम् ॥३०॥ तेभ्योऽपि दक्षिणां दत्त्वा प्रणिपत्य क्षमापयेत्। इमां कृत्वा ज्येष्ठाशान्तिं यथाविध्युक्तमार्गतः ॥३१॥ ज्येष्ठानक्षत्रसंभूतगण्डदोषप्रशान्तये।अज्ञानाद्वा यथाज्ञानाद्वैकल्याद्वा धनस्य च। यन्न्यूनमतिरिक्तं वा तत्सर्वंक्षन्तुमर्हसि ॥३२॥

इति वृद्धगार्ग्योक्ता ज्येष्ठाशान्तिः।

अथैकनक्षत्रजननशान्तिः।

समानभे यदा देवि पितापुत्रौ च सोदरौ। भगिन्यौ वा स्ववन्धू वा तदा पूर्वस्य नाशनम् ॥१॥ एकस्मिन्नेव नक्षत्रे पुत्रयोः पितृपुत्रयोः। प्रसूतयोस्तयोर्मृत्युर्भवेदेकस्य निश्चयः ॥२॥ विधानं तत्र कर्तव्यं जन्मनक्षत्रपूजनम्। नक्षत्रदेवता पूज्या त्वधिप्रत्यधिपूर्वकम् ॥३॥ यदृक्षस्य च यद्रव्यं दक्षिणाविधिमन्त्रकम्। तस्य तच्च विधातव्यमृक्षदैवततुष्टये ॥४॥ गृह्योक्तेन विधानेन हवनं तत्र कारयेत्। भक्त्या हरिहरौदेवौस्वर्णरूप्यमयौशुभौ ॥५॥ तत्र मूर्तिदानमन्त्रः—विविधस्यास्य विश्वस्य पितरौ विश्वतोमुखौ। प्रीयेतांमूर्तिदानेन देवौहरिहरावुभौ ॥६॥ दानं होमविधेः पश्चाद्दानादन्वभिषेचनम्।

अभिषेचनपूर्वाऽत्र विप्रपूजा स्मृता शिवे ॥७॥ ततोऽभिगम्य गोविन्दशूलिनोश्चनिकेतनम्। तूर्याणां च निनादेन जयघोषेण पार्वति ॥८॥ पूजाविधिंसमाप्यैवं सर्वोपस्करसंयुतम्। प्रार्थयेद्देवदेवेशौ लक्ष्मीशैलसुतेश्वरौ ॥९॥ दण्डवत्प्रणिपातेन वन्दनीयौ पुनःपुनः। ततः स्वगृहमागत्य ब्राह्मणान्भोजयेत्सुधीः ॥१०॥ तोषयेद्दक्षिणादानैर्यथाशक्ति वरानने। एवं कृते विधाने तु विघ्ननाशो भवेद्ध्रुवम्। तुष्टिदं पुष्टिदं नृृणां विधानं तत्र सुन्दरि॥११॥

इत्येकनक्षत्रजननशान्तिः।

अथ कृष्णचतुर्दशीशान्तिः।

मन्दरस्थं सुखासीनं गर्गं वरमुनिं शुभम्। नमस्कृत्य तु पप्रच्छ शौनकोमुनिपुंगवः ॥१॥ शान्तिकर्माणि सर्वाणि त्वत्तो जानाम्यहं पुरा। अधुना श्रोतुमिच्छामि कृष्णपक्षचतुर्दशीम् ॥२॥ दिवा वा यदि वा रात्रौप्रसूतेः किं फलं वद। कृष्णपक्षे चतुर्दश्यां मसूतेः षड्विधं फलम् ॥३॥ चतुर्दशीं च षड्भागां कुर्यादादौ शुभं स्मृतम्। द्वितीये पितरं हन्ति तृतीये मातरं तथा ॥४॥ चतुर्थे मातुलं हन्ति पञ्चमे वंशनाशनम्। षष्ठे तु धनहानिः स्यादात्मनो वंशनाशनम् ॥५॥ तस्मात्सर्वप्रयत्नेन शान्तिं कुर्याद्विधानतः। आचार्यं वरयेद्धीमान्पुत्रदारसमन्वितम् ॥६॥ स्वकर्मनिरतं शान्तं श्रोत्रियं वेदपारगम्। सर्वालंकारसंयुक्तं सर्वलक्षणसंयुतम् ॥७॥ ब्राह्मणानृत्विजश्चैव स्वस्तिवाचनपूर्वकम्। रुद्रोऽधिदेवता तस्याः कर्षमात्रसुवर्णतः ॥८॥ तदर्धार्धेन वा कुर्याद्वित्तशाठ्यं न कारयेत्। प्रतिमां कारयेच्छंभोः सर्वलक्षणसंयुताम्। वृषभे च समासीनं वरदाभयपाणिनम् ॥९॥ शुद्धस्फटिकसंकाशं श्वेतमाल्याम्बरान्वितम्। त्र्यम्बकेण च मन्त्रेण पूजां कुर्याद्विधानतः ॥१०॥ स्थापयेच्चतुरः कुम्भांश्चतुर्दिक्षु यथाक्रमम्। पुण्यतीर्थजलोपेतान्धान्यस्योपरि विन्यसेत् ॥११॥ तन्मध्ये स्थापयेत्कुम्भं शतच्छिद्रसमन्वितम्। पञ्चमृत्पञ्चरत्नानि पञ्चत्वक्पञ्च पल्लवान् ॥१२॥ पञ्चधान्यं सुवर्णंच तत्तन्मन्त्रैर्विनिक्षिपेत्। शतौषधानि निक्षिप्य श्वेतवस्त्रैश्च वेष्टयेत् ॥१३॥ सर्वे समुद्राः सरितस्तीर्थानि जलदा नदाः। आयान्तु यजमानस्य दुरितक्षयकारकाः ॥१४॥ शेषं मूलशान्तिवत्॥

इति कृष्णचतुर्दशीशान्तिः।

अथ सिनीवालीशान्तिः।

सिनीवाल्यां प्रसूता स्याद्यस्य भार्या पशुस्तथा। गजाश्वमहिषी(पि) चैव शक्रस्यापि श्रियं हरेत् ॥१॥ ये सन्ति सकलाश्चान्ये स्वप्रसादोपजीविनः। वर्जयेत्तानशेषांस्तु पशुपक्षिमृगादिकान् ॥२॥ कुहूप्रसूतिरत्यर्थं सर्वदोषकरी मता। यस्य प्रसूतिरेतस्यां तस्याऽऽयुर्धनवर्धनम् ॥३॥ सर्वगण्डसमस्तत्र दोषस्तु प्रबलो भवेत्। शान्तिं विना विशेषेण परित्यागो विधीयते ॥४॥ परित्यागात्तत्र शान्तिं कुर्याद्धीमान्विचक्षणः। तत्फलं तत्क्षणार्धेन पुनरेवानुपालनम् ॥५॥ न त्यजेत्पण्डितो मोहादर्थादज्ञानतोऽपि वा। तद्योगो नाशयेर्त्किचित्तत्स्त्रीवा नाशमश्नुते ॥६॥ कल्पोक्तशान्तिः कर्तव्या शीघ्रं दोषापनुत्तये। रुद्रः शक्रश्च पितरः पूज्याः स्युर्देवताः क्रमात् ॥७॥ कर्षमात्रसुवर्णेन तदर्घार्धेन वा पुनः। अथवा शक्तितः कुर्याद्वित्तशाठ्यं न कारयेत् ॥८॥ प्रतिमां कारयेच्छंभोश्चचतुर्भुजसमन्विताम्। त्रिशूलखड्गवरदाभयहस्तां यथाक्रमात् ॥९॥ श्वेतवर्णांश्वेतपुष्पांश्वेताम्बरवृषस्थिताम्। त्र्यम्बकेण च मन्त्रेण पूजां कुर्याद्यथाविधि ॥१०॥ इन्द्रचतुर्भुजो वस्त्राङ्कुशचापः सुसायकः। रक्तवर्णो गजारूढो यत इन्द्रेति मन्त्रतः ॥११॥ पितरः कृष्णवर्णाश्च चतुर्हस्ता विमानगाः। यष्ट्यक्षसूत्रकमण्डल्वभयांश्चैव धारिणः ॥१२॥ ये सत्या इति मन्त्रेण पूजां कुर्यादनन्तरम्। आग्नेयीं दिशमारभ्य कुम्भान्कोणेषु विन्यसेत् ॥१३॥ कल्पोक्तशान्तिः कर्तव्या कुर्याच्छीघ्रं स्वशक्तितः। गोदानं वस्त्रदानं च सुवर्णं चोर्वरांशुभाम् ॥१४॥ दशदानानि चोक्तानि क्षीरमाज्यं गुडस्तथा। आज्यावेक्षणमेतानि तत्तन्मन्त्रैश्च कारयेत् ॥१५॥ समिदाज्यचरोर्होमं तिलमाषैश्च सर्षपैः। अश्वत्थप्लक्षपालाशसमिद्भिः खादिरैः शुभैः ॥१६॥ अष्टोत्तरशतं मुख्यं प्रत्येकं जुहुयाद्द्विजः। त्र्यम्बकेणेति मन्त्रेण तिलान्व्याहृतिभिः पुमान् ॥१७॥ चतुर्भिःकलशैर्युक्तं वृहत्कुम्भसमन्वितम्। शान्तिवत्कलशे कार्यमभिषेकं च कारयेत् ॥१८॥ पितृमातृशिशूनां च ह्यभिषेकं तु वारुणैः। शंकरस्याभिषेकं च कुर्याद्ब्राह्मणभोजनम् ॥१९॥ अन्येषां चैव सर्वेषां ब्राह्मणानां च तर्पणम्। तथा शक्त्यनुसारेण द्विजवाचनपूर्वकम् ॥२०॥

इति सिनीवालीशान्तिः।

अथ गोप्रसवविधिरुच्यते।

गर्गः—प्रणिपत्य रविं वक्ष्ये प्रायश्चित्तमनुस्मरन्। सर्वारिष्टविनाशाय यदुक्तं शान्तिसागरे ॥१॥ पित्ररिष्टे सुनारिष्टे मात्ररिष्टे तथैव च। प्रायश्चित्तं तदा

कुर्यात्तत्तदोषस्य शान्तये ॥२॥ पूषाश्विनां गुरोः सार्पमघाचित्रेन्द्रमूलभे। एषु ऋक्षेषु जातस्य कुर्याद्वीजननं तथा ॥३॥ जन्मर्क्षे वा त्रिजन्मर्क्षे शुभे वारे शुभे दिने। कृत्वाऽभ्यङ्गादिकं सर्वे गृहालंकारपूर्वकम् ॥४॥ गोमयेनोपलिप्याथ गृहस्येशानकोणके। पङ्कजं कर्णिकायुक्तं रजोभिः श्वेतवर्णकैः ॥५॥ ब्रीहीस्तत्र विनिक्षिप्य यथावित्तानुसारतः। नवशूर्पं तु तन्मध्ये रक्तवस्त्रं प्रसारयेत्245 ॥६॥ स्नापयित्वा शिशुं तत्र पुनः सूत्रेण वेष्टयेत्। प्राङ्मस्तकमवाक्पादं तिलगर्भगतं शिशुम् ॥७॥ गौमुखं246 दर्शयित्वा तु पुनर्जातं तु गोमुखात्। विष्णुयोर्निर्मिति सूक्तेन गव्येन स्नापथेच्छिशुम् ॥८॥ गवामङ्गेषु विप्रेण गवामङ्गेषु संस्पृशेत्। विष्णोः श्रेष्ठेति मन्त्रेण गोः प्रसूतं तु बालकम् ॥९॥ साचार्यस्तं समादाय पश्चान्मात्रे ददत्पिता। माता जवन्यभागस्थं शिशुमानीय तन्मुखात् ॥१०॥ ततः पित्रे तदा दद्यात्ततो मात्रे प्रदापयेत्। वस्त्रे स्थाप्य पिताऽस्याथ पुत्रस्य मुखमीक्षयेत् ॥११॥ गोमूत्रं गोमयं क्षीरं दधि सर्पिश्चसंयुतम्। आपोहिष्ठादिभिर्मन्त्रैरभिषिञ्चेत्ततः शिशुम् ॥१२॥ मूर्ध्निचाऽऽघ्राच तत्पुत्रं तन्मन्त्रेण तदा पिता। अङ्गादङ्गात्संभवसि हृदयादभिजायसे ॥१३॥ आत्मा वै पुत्रनामाऽसि स जीव शरदां शतम्। मूर्ध्नि त्रिवारमाघ्रायतं शिशुं स्थापयेत्ततः ॥१४॥ पुण्याहं वाचयेत्पश्राद्ब्राह्मणैर्वेदपारगैः।दरिद्रायाथ विप्राय तांगां चाभ्यर्च्य दापयेत् ॥१५॥ गोवस्त्रस्वर्णधान्यादि दद्यादर्षादितः क्रमात्। यथाशक्ति धनं दद्याद्ब्राह्मणेभ्यस्तदापिता ॥१६॥ ततो होमं प्रकुर्वीत स्वस्वशाखोक्तमार्गतः। उल्लेखनादिकं कृत्वा चाऽऽज्यभागान्तमाचरेत् ॥१७॥ होमस्येशानदिग्भागे धान्योपरि घटं शुभम्। पञ्चगव्यं घरे स्थाप्य तिलांस्तत्र विनिक्षिपेत् ॥१८॥ क्षीरद्रुमकपायांश्चपञ्चरत्नानि निक्षिपेत्। वस्त्रयुग्मेण संस्थाप्य गन्धादिभिरथार्चयेत् ॥१९॥ विष्णुं वरुणमभ्यर्च्य प्रतिमां च विधानतः। यत इन्द्रादिभिर्मन्त्रैः कुम्भं स्पृष्ट्वाऽभिमन्त्रयेत् ॥२०॥ दधिमध्वाज्ययुक्तेन होमं कुर्याद्विधानतः। आपो हि ष्ठेति तिसृभिरप्सु मे सोम इत्यथ ॥२१॥ तद्विष्णोः परमं पदमक्षीभ्यां ते च सूक्ततः। ऋग्भिराभिः प्रत्यूचं वाऽष्टाविंशतिसंख्यया ॥२२॥ अशक्तश्चाष्टसंख्यं वा दधिमध्वाज्यसंयुतम्। आदित्यादिग्रहाणां च होमं कुर्यात्समन्त्रकम् ॥२३॥

इति गोप्रसवविधिः।

अथ व्यतीपातादिशान्तिः।

अथातः संप्रवक्ष्यामि शान्तिं शौनक उत्तमाम्। वैधृतौ च व्यतीपाते महादोेषोऽभिजायते ॥१॥ कुमारजन्मकाले तु व्यतीपातश्च वैधृतिः। संक्रान्तिश्चरवेस्तत्र जातो दारिद्र्यकारकः ॥२॥ दरिद्राणां महादुःखं सर्वनाशकरो भवेत्। शान्तिर्वा पुष्कला कार्या तत्र दोषो न कश्चन ॥३॥ गोमुखमप्रसवंकुर्याच्छान्ति कुर्याच्च यत्नतः। जपाभिषेकदानैश्च होमाद्यपि विशेषतः ॥४॥ नवग्रहमखं कुर्यात्तस्य दोषप्रशान्तये। प्रथमं गोमुखाज्जन्म ततः शान्ति समाचरेत् ॥५॥

इति व्यतीपातादिशान्तिः।

अथ सदन्तोत्पन्नशान्तिः।

पुष्कर उवाच— कथयस्व मुनिश्रेष्ठः महर्षे भार्गव प्रभो। शुभाशुभं च तच्छान्तिं वद जन्मफलं शिशोः ॥१॥ भार्गव उवाच—उपरि प्रथमं यस्य जायन्ते च शिशोर्द्विजाः। दन्तैर्वा सह यस्य स्याज्जन्म तद्बालकं न सत् ॥२॥ मातरं पितरं खादेदात्मानं चाऽपि मातुलान्। सदन्तं बालकं विद्याद्राक्षसं स्वकुलान्तकम् ॥३॥ यदि दन्तैः समं जन्म यदि वा दशनाः शिशोः। स्युर्मध्ये सप्तमासानां कुलनाशस्तदा ध्रुवम् ॥४॥ अष्टमासादिमासेषु दन्तोत्थानं शुभावहम्। अथ तद्दोषनाशाय विधानं शृणु सत्तम ॥५॥ प्रथमं पूजयेत्तत्र देवदेवं च केशवम्। अग्निंसंस्थाप्य जुहुयाद्घृतेन चरुणा पृथक् ॥६॥ देवदेवं केशवं च वह्निं सोमं समीरणम्। धातारं च विधातारं कुलदेवं नव ग्रहान् ॥७॥ यजेत्तल्लिङ्गजैर्मन्त्रैर्नानामन्त्रैरथापि वा। यथाशक्तिं सहस्रं वा शतं वाऽप्यष्टविंशतिः ॥८॥ ऋत्विग्भ्यो दक्षिणा देया ततः स्नानं शिशोर्मतम्। भद्रासने निवेश्यैनं मृद्भिः सर्वौषधैःफलैः ॥९॥ सर्वैर्मनोरथैर्गन्धैःस्नापयेत्तर्थिवारिणा। तदनु ब्राह्मणा भोज्याः सुवासिन्यः सुहृदुणाः ॥१०॥ विष्णुवर्मोत्तरे— गजपृष्ठगतं बालं नौस्थं वा स्नापयेद्गुरुः। तद्भावेकाञ्चनेन निर्मिते च वरासने ॥११॥ सर्वौषधैःसर्वगन्धैर्बीजैःपुष्पैः फलैः शुभैः। पञ्चगव्यैश्चरत्नैश्चच्छत्रंशिरसि धारयेत् ॥१२॥ विप्रभोज्यं ततः कुर्याच्छक्त्यादद्याच्च दक्षिणाम्। अकालदन्तजे दोषेशान्तिरेवं विधीयते ॥१३॥ चुम्बन्कुमारं त्रिवारं प्रायश्चित्तमिदं स्मृतम्। मृदं वाऽङ्कारन्भक्तंदधिसीधु मुखे क्षिपेत् ॥१४॥ नौकामारोहयेद्बालं सह धात्र्याऽथवाऽग्रजम्।स्वर्णंदद्याद्द्विजा भोज्याः सर्पिषा

पायसेन च ॥१५॥ नागार्जुनसंहितायां—सदन्तं बालकं दद्याद्ब्राह्मणाय सदक्षिणम्। वत्सस्य मधुलाजानां प्राङ्मुखं दधिदीपियोः ॥१६॥

इति सदन्तोत्पन्नशान्तिः।

अथ247 धनिष्ठापञ्चकविचारः।

दैवज्ञवल्लभे—कुर्यान्न दारुतृणसंग्रहमन्तकाशायानं मृतस्य दुहनं गृहूगोपनं च। शय्यावितानमिह वासवपञ्चके च केचिद्वदन्ति परतो वसुदैवतार्धात् ॥१॥ रत्नमालायां—वासवोत्तरदलादिपञ्चके याम्यदिग्गमनगेहगोपने। प्रेतदाहतृणकाष्ठसंग्रहं शय्यकावितननं च वर्जयेत् ॥२॥ ज्योतिःसागरे— छेदनं संग्रहं चैव काष्ठादीनां न कारयेत्। श्रवणादौ बुधः षट्के न गच्छेद्दक्षिणां दिशम् ॥३॥ अग्निदाहोभयं रोगो राजपीडा धनक्षयः। संग्रहे तृणकाष्ठानां कृते वस्वादिपञ्चके ॥४॥ राजमार्तण्डे— गृहार्थंतृणकाष्टादिसंग्रहादग्निभीःकलिः। रोगो दण्डोऽर्थहानिः स्यात्क्रमाद्वस्वादिपञ्चके ॥५॥ गर्गः—धनिष्ठापञ्चके चन्द्रे सूर्ये पैत्रादिपञ्चके। छेदनादि न कर्तव्यं गृहार्थंतृणकाष्ठयोः ॥६॥ पूर्वार्धंनातिदोषाय दारुतक्षणसंग्रहे। यानगोपनशय्यासुसंपूर्णंवासवं त्यजेत् ॥७॥ केऽप्याहुःसंकटे घोरे पञ्चके पञ्च नाडिकाः। त्याज्याः क्रमातृतीयाद्यव्यन्त्यपादावसानगाः ॥८॥

इति धनिष्ठापञ्चकविचारः।

अथ पञ्चकशान्तिः।

गरुडपुराणे—श्रीकृष्ण उवाच। प्रेतदाहो न कर्तव्यः कुम्भमीनगते विधौ। न जलं दीयते तेषामशुभं जायते भृशम् ॥१॥ पञ्चकाभ्यन्तरे नैव कार्या प्रेतादिकी क्रिया। पुनर्मृत्युभयं तस्मात्पञ्चकानन्तरं शुभा ॥२॥ कारिकायां— सद्योदाहादिकंकार्यंपञ्चकर्क्षमृतस्य च। वक्ष्यमाणविधानेन प्रायश्चित्तपुरःसरम् ॥३॥ चत्वारः पुत्तला दर्भमयाः शवसमीपतः। तन्मन्त्रैर्मन्त्रिताः स्थाप्यास्ततो दाहस्तु तैः सह ॥४॥ सूतकान्ते तु पुत्राद्यैःकार्यंशान्तिकमुक्तवत्। कांस्यपात्रं घृतं दद्यात्कुर्याद्ब्राह्मणभोजनम् ॥५॥ प्रेतमञ्जर्यां—पञ्चके तु मृतो योऽसौ गतिं न लभते नरः। तिलान्गां च हिरण्यं च तस्योद्देशे घृतं ददेत्॥६॥ तेन विघ्नः शमं याति स प्रेतो लभते गतिम्। विधानं यो न कुर्वीत विघ्नस्तस्य पदेपदे॥७॥ वासवे मरणं यस्य गृहे याति पुनर्मृतिः। तद्दोषशान्तये देयं वस्त्रस्वर्णादिकं द्विजे॥८॥शतोद्वुनिंगुडंदद्यान्मृतदुः

खोपशान्तये। अजपादे नरो यस्तु पञ्चत्वमुपगच्छति ॥९॥ काञ्चनं वेदविप्राय दद्यात्तत्कुलशान्तये। उत्तराभाद्रनक्षत्रे मृतिः स्याद्यस्य कस्यचित् ॥१०॥ गोद्वयंसतिलं दद्याद्धनहानिप्रशान्तये। अन्तिमे मरणं यस्य गृहे यदि पुनर्मृतिः। सुवर्णदक्षिणां दद्यात्कृष्णवस्त्रमथापि या ॥११॥

इति पञ्चकशान्तिः।

अथ त्रिपुष्करयोगः।

भूपालवल्लभे—रविमन्दभौमवारे भद्रा तिथिस्त्रिपादके धिष्ण्ये। योगास्त्रिपुष्कराख्यस्त्रिपादके यमलनामा स्यात् ॥१॥ रत्नकोशे— गुरुभौममन्दवारे भद्रायां विषमपादर्क्षे।योगस्त्रिपुष्करोऽयं त्रिगुणफलो यमलभे द्विगुणः ॥२॥ गर्गः— पञ्चभे पञ्चगुणितं त्रिगुणं च त्रिपुष्करे। यमले द्विगुणं सर्वं हानिवृद्ध्यादिकं भवेत् ॥३॥ तिथिर्भद्रा त्रिपादर्क्षं जीवार्कारैस्त्रिपुष्करः। योगस्त्रिगुणफलदो वृद्धौ नष्टे हृते मृते ॥४॥ ज्योतिष्प्रकाशे— नष्टं दृष्टं मृतं घातं कलहो डिम्भ एव च। उपागतश्चयोऽत्र स्यात्त्रिदिनं सोऽनुवर्तते ॥५॥

इति त्रिपुष्करयोगः।

अथ त्रिपुष्करशान्तिः।

त्रिपुष्करे त्रयः कार्याः पुत्तला द्वौद्विपुष्करे। मृतस्य च समीपे तु स्थाप्याः पिष्टमयास्ततः ॥१॥ कार्यो दाहस्तु तत्सार्धंसूतकान्ते तु शान्तिकम्। कृत्वा गाश्चहिरण्यं च दद्याद्दानंच शक्तितः ॥२॥ प्रेतखण्डे—त्रिपुष्करमृते दद्याद्गोत्रयं मूल्यमेव च। द्विपुष्करे च गोयुग्मं ततो दाहो न दोषकृत् ॥३॥

इति त्रिपुष्करशान्तिः।

अथ भावकाष्टकम्।

वैशाखेकृष्णपक्षे स्यादष्टमी तिथिरूत्तमा। नवमी दशमी तद्वत्तिथिरेकादशी तथा ॥१॥ द्वादशीतत्परा चैत्र भूतामा न विशेषतः। ज्येष्ठस्याऽऽद्या शुभा तद्वद्भूतमातृमहोत्सवः। सूतकं विद्यते चात्र लोकस्य सफलस्य च ॥२॥ धनिष्ठापञ्चकं यद्वद्वर्जनीयं शुभेष्सुभिः। तथैवाष्टासु तिथिषु वर्जनीयं प्रयत्नतः ॥३॥ विवादमङ्गलादीनि कुर्यात्कर्माणि मानवः। श्राद्धादिसकलं कार्यं नाग्रकार्या विचारणा ॥४॥

इति भावकाष्टकम्।

अथ पल्लीपतनफलम्।

पल्लीस्पर्शफलं वक्ष्ये यदुक्तं ब्रह्मणा पुरा। ब्रह्मस्थाने भवेदाज्यं248 भाल ऐश्वर्यवर्धनम् ॥१॥ कर्णयोर्भूषणावाप्तिर्नेत्रयोः प्रियदर्शनम्। नासिकायां सुगन्धाप्तिर्मुखे मिष्टान्नभोजनम् ॥२॥ कपोलयोर्भवेत्सौख्यं हनुदेशे महद्भयम्।ग्रीवायां विग्रहश्चैव कण्ठे वा व्यजनागमः249 ॥३॥ कलिर्वंशे सुखं पृष्ठे दक्षे वामे गदादिभीः। दक्षांसे विजयो नित्यं वामांसे शत्रुजं भयम् ॥४॥ इष्टलाभोभुजे दक्षे कूर्परे मणिबन्धके। दक्षे करतले द्रव्यं तत्पृष्ठे सव्द्ययो भवेत् ॥५॥ वामे भुजे कूर्परे च मणिबन्धे धनक्षयः। वामे करतले हानिस्तत्पृष्ठे चार्थनष्टता ॥६॥ हृदये राजसन्मानः सौभाग्यं दक्षिणे स्तने। दक्षपार्श्वे च भोगाप्तिः स्तने वामेयशोभयम् ॥७॥ वामपार्श्वे भवेत्पीडा वामकुक्षौ शिशोस्तथा। दक्षकुक्षौ सुतावाप्तिरुदरे च विशेषतः ॥८॥ वस्त्राप्तिर्दक्षकट्यां च वामकट्यां सुखक्षयः। नाभ्यां मनोरथावाप्तिर्वस्तौ गर्भच्युतिर्भवेत् ॥९॥ गुह्ये मृत्युर्गुदे रोगो दक्षोरौप्रीतिवर्धनम्। वामोरौमृत्युतो दुःखं दक्षजानौसुवाहनम् ॥१०॥ पशुहानिर्वामजानौदक्षिणे जघने सुखम्। क्लेशः स्याद्वामजङ्घायां स्फिजि दक्षेऽर्धवद्धिकृत् ॥११॥ स्फिजि वामे स्त्रीवियोगो दक्षे गुल्फे प्रियागमः। उपप्लवो

___________________________________________________________________________________________

काकमैथुनशान्तिपर्यन्तं रूपुस्तकप्रन्थक्षैत्रम्—

अथ पल्लपितनफलम्।

अथातः संप्रवक्ष्यामि शृणु शौनक यत्नतः।पल्लयाःप्रपतने चैव सरदस्य प्ररोहणे ॥१॥ पल्ली च प्रथमे यामे मस्तके सुखदायिनी। मुखे मिष्टान्नभोजी स्यात्पादयोर्मरणं ध्रुवम् ॥२॥ मध्याह्नेपतिता पल्ली दक्षिणे सुखसंपदः। वामाङ्गे कुरुते व्याधिं ब्रह्मद्वारे च वस्त्रदा ॥३॥ पल्ली तृतीययामे तु पृष्ठावासाच रोगदा।करे च कुरुते व्याधिं ब्रह्मद्वारे च वस्त्रदा ॥४॥ संध्ययोः पतिता पल्ली मस्तके स्वामिमृत्युदा।करे तु दक्षिणे व्याधिं पादे हानिकरी तथा ॥५॥

अथ देहाङ्गफलानि।

कपोले कुरुते सौख्यं जङ्घायां क्लेशदायिनी। शीर्षे राज्यश्रियः प्राप्तिर्ललाटे धनवर्धनम् ॥१॥ कर्णयोर्भूषणप्राप्तिर्नेत्रयोर्भयवर्धनम्।नासिकायां च सौभाग्यं मुखे मिष्टान्नभोजनम् ॥२॥ कण्ठे नित्यं श्रियः प्राप्तिः स्कन्धयोर्विजयो भवेत्। धनलाभो बाहुयुग्मे करयोः सुखसंपदः ॥३॥ स्तनयुग्मे तु सौभाग्यं हृदये सौख्यवर्धनम्।पृष्ठे नित्यं महाभाग्यं गुह्येमृत्युसमागमः ॥४॥ कटियुग्मे वस्त्रलाभः पार्श्वयोर्भयदर्शनम्।जघनेऽर्थक्षयो नित्यं गुदे रोगभयं तथा ॥५॥ उरुयुग्मे वाहनाप्तिर्जानुयुग्मेऽर्थसंग्रहः। निरुद्यमोजद्वयोश्च

वामगुल्फे पादयोर्गमनं भवेत् ॥१२॥ पुरोभागे च दुर्वार्ता नष्टवार्ता च पृष्ठतः। वामे हानिर्धनं दक्षे परितो भ्रमणं क्षतिः ॥१३॥ वामदक्षविभागेन यत्फलं कथितं नृणाम्।विपर्ययेण तत्स्त्रीणां ज्ञेयं शेषेद्वयोः समम् ॥१४॥ इत्थं पल्लयाः प्रपातस्य फलं ज्ञेयं विचक्षणैः। एतदेव फलं विद्यात्सरटस्य प्ररोहणे ॥१५॥ पल्ल्याःप्ररोहणे चैव पतने सरटस्य तु। तयोः फलस्य व्यत्यासात्तद्वदेव प्रजायते ॥१६॥ पल्ल्याःप्ररोहणं रात्रौ सरटस्य प्रपातनम्।नातिदुष्टफलं विद्याव्याधिमुग्रं विपर्यये ॥१७॥ पतनानन्तरं तस्य रोहणं यदि जायते। पतने फलमुत्कृष्टं रोहणेऽल्पफलं भवेत् ॥१८॥ मृत्युयोगे च जन्मर्क्षे विष्ट्यां पाते च वैधृतौ। चन्द्रेऽष्टमे च क्रूरे च लग्ने विघ्नः प्रजायते ॥१९॥ अङ्गं दक्षिणमारुह्य वामेनोत्तरति स्फुटम्। तदा हानिकरा ज्ञेया व्यत्ययेन तु लाभदा ॥२०॥ चरणादूर्ध्वगा भूयः सद्यो रोहति शीर्षकम्। प्राज्यं राज्यं तदा दत्ते पल्ली श्वेता विशेषतः ॥२१॥ चिन्तिताभ्यधिकं लाभं स्थिता भोजनभाजने।पादाङ्गलीषुसंपाताद्धानिश्च महती भवेत् ॥२२॥ शीर्षस्योपरि पतिता शुभाय पल्लीसिता च यदि नान्या।सितगृहगोधा स्पर्शे सर्वेष्वङ्गेषु शोभना ज्ञेया ॥२३॥ म (क) र्कटिका गृहगोधा दक्षाङ्गे समारोहति पुंसाम्। वामाङ्गे तु स्त्रीणां राज्यं

________________________________________________________________________________________

पादयोर्भ्रमणं भवेत् ॥६॥ एवं पल्लीप्रपातस्य फलं ज्ञेयं विचक्षणैः। एवं तदेव हि फलं विद्यात्सरटरोहणे ॥७॥ पल्ल्याः प्रपतने चैव सरटस्य प्ररोहणे।पल्ल्याःप्ररोहणे चैव सरटपतने तथा ॥८॥ यद्वत्फलं च संप्रोक्तं तद्वदेव प्रजायते। पल्ल्याःप्ररोहणं रात्रौपतनं सरटस्य च ॥९॥ निघनार्थाय हि भवेव्द्याधिपीडा विपर्यात्। पतनानन्तरं यस्य रोहणं यदि जायते ॥१०॥ पतने फलमुत्कृष्टं रोहणे निष्फलं भवेत्। आरोहणं चोर्ध्ववक्रमधोवक्रंप्रपातनम् ॥११॥ भवेदादौ सुशीघ्रेण तत्फलं जायते ध्रुवम्। स्थानात्स्थानफलं युक्तं गर्गेण कथितं पुरा ॥१२॥

अथ तिथिफलम्।

प्रतिपद्रोगसंप्राप्तिर्द्वितीया राज्यमेव च। तृतीया च भवेल्लाभश्चतुर्थी रोग एव च ॥१॥ पञ्चमी च तथा षष्टी सप्तमी च धनागमः। अष्टमी नवमी चैव दशमी मरणं ध्रुवम् ॥२॥ एकादशी पुत्रलाभो द्वादशी धनलाभदा। त्रयोदशी चतुर्दशी पौर्णमासी धनागमः ॥३॥

अथ वारफलम्।

वयः सोमे बुधगुरुशुक्राचार्याः सदा शुभाः।शेषाः सर्वेऽशुभाः प्रोक्ता, वाराणां फलमादिशेत् ॥१॥

अथ नक्षत्रफलम्।

अश्विन्यां क्षेममारोग्यं भरणी रोगकारिणी।कृत्तिका धनलाभश्चरोहिण्यां च मृगे धनम् ॥१॥ आर्द्रा तु मृत्युदा चैव पुष्पादिती च लाभदे।आश्लेषा

दत्ते भृगुर्वदति ॥२४॥ पल्लीसरटयोर्वाऽपि युग्ममङ्गे शुभे पतेत्।दंपत्योर्जायते प्रीतिर्निन्द्यभागे वियोगिता ॥२५॥

अथ सरटपतनफलम्।

नाशः शीर्षे मुखे हानिः पृष्ठे लाभो भयं हृदि। दक्षेरोगः शुभं वामे सरटस्य प्रपातनात् ॥१॥हंसाद्या उत्तमा जीवाः कोपाविष्टास्तु राज्यदाः। सरटाद्यधमा शीर्षे पतिता विघ्नदाःस्मृताः ॥२॥ गोधाकुक्कुटसरटोलूका घ्वाङ्क्षाः कपोतका वाऽपि। निष्कारणं नरस्य मस्तकचटितौ क्षतिं कुर्युः ॥३॥ पल्लीसरटगोधाद्याःशकृन्मूत्रं च कुर्वते। शरीरे यस्य तस्याऽऽशुदुःखं चैव महद्भयम् ॥४॥ कृकलासः पतेद्यस्य मूर्ध्नि तद्विघ्नशान्तये। मृतसंजीवनी विद्यां जपेन्मुण्डितमस्तकः ॥५॥

अथ पल्लीशब्दफलम्।

वित्तं ब्रह्मणि कार्यसिद्धिरतुला शक्रे हुताशे भयं याम्ये मित्रवधः क्षयश्च निर्ऋतौ लाभः समुद्रालये। वायव्यां वरवस्त्रमन्नमतुलं सौम्येऽर्थलाभो ध्रुवं चैशान्यां गृहगोधिकाऽर्थजननी त्रासस्त्वधःशब्दिता ॥१॥

_________________________________________________________________________________________

मरणं प्रोक्तं मघा तु क्षेमदा भवेत् ॥२॥ पूर्वा तु मरणं चैव उत्तरा हस्त एव च। चित्रा स्वातिश्च शुभदा विशाखा धननाशनम् ॥३॥ अनुराधा राज्यदा स्याज्ज्येष्ठायांकष्टमेवच। मूले चैवतथा राज्यं पूर्वापादातथा शुभा ॥४॥ उत्तरा रोगमायावि ह्यभिजिद्धनसंपदः। श्रवणे पुत्रलाभश्च धनिष्ठा राज्यमेव च॥ वारुणेधनहानिः स्याद्रोगो दुःखं भयं तथा। पूर्वोत्तरा रेवतीषुहानिश्चैव प्रजायते ॥६॥

अथ लग्नफलम्।

मेषे च शुभदा प्रोक्ता वृषेहानिस्तथैव च। मिथुने रोगसंप्राप्तिःकर्के कलह एव च ॥१॥ सिंहे स्यात्फललाभाय कन्यायां तु धनक्षयः। तुलायां धनलाभश्चधनलाभश्च वृश्चिके ॥२॥धने ज्ञानमवाप्नोति मकरे वस्त्रलाभदा। कुम्भे हानिश्च विज्ञेया मीने शोकः प्रजायते ॥३॥ नैधने चैव जन्मर्क्षे [ संभोक्ता] विपनाद्विका।क्रूरलग्नेलग्नफलमिति प्रोक्तं शुभाशुभम् ॥४॥

अथ पल्लीसरटशान्तिः।

मृत्युयोगे दग्धदिने क्रूरेऽह्नियमकण्टके।चन्द्रेऽष्टमे नैधने च जन्मर्क्षेविपनाडिका ॥१॥ क्रूरग्रहेक्रूरलग्नेक्रूरैर्यदि निरीक्षते। अष्टमस्थेक्रूरयुते विष्टिवैधृतिसंयुते। स्पर्शमात्रे तयोः सद्यः सचैलं स्नानमाचरेत्॥२॥ दुर्निमित्तेतयोर्जातंनिष्फलं जायते ध्रुवम्। पञ्चगव्यं प्रागयित्वा कुर्यादाज्यावलोकनम् ॥३॥ अशक्तो चाऽपि शक्तोवा यदीच्छेदात्मनः शुभम्।पुण्याहवाचनं कृत्वा शान्तिकर्म समाचरेत् ॥४॥प्रतिरूपं सुवर्णेन कुर्याद्वेत्तानुसारतः। रक्तवस्त्रेण संवेष्ट्य गन्यपुष्पैः

अथ पल्लीसरटयोः शान्तिः

पल्लीसरटयोः स्पर्शे सचैलं स्नानमाचरेत्। पञ्चगव्यं प्राशयित्वा कुर्यादाज्यावलोकनम् ॥१॥ शक्ते वाऽप्यथवाऽशक्ते यदीच्छेदात्मनः सुखम्। पुण्याहवाचनं कृत्वा शान्तिकर्म समारभेत् ॥२॥ प्रतिरूपं सुवर्णेन कुर्याद्वित्तानुसारतः। रक्तवस्त्रेण संवेष्ट्य गन्धपुष्पैः प्रपूजयेत् ॥३॥ तदग्रेमृन्मयं रम्यं कलशं जलपूरितम्।वस्त्रमाल्यैरलंकृत्य स्थापयेत्तण्डुलोपरि ॥४॥ पञ्चामृतं पञ्चगव्यं पञ्चरत्नानि शक्तितः। पञ्चवृक्षकषायानि (णि) निक्षिप्याऽऽवाहयेत्ततः ॥५॥ पूजयेद्गन्धपुष्पाद्यैर्लोकपालान्क्रमेण च। अग्निसंस्थापनं कृत्वा होमकर्मं समारभेत् ॥६॥ मृत्युंजयेन मन्त्रेण चैधोभिः खादिरैः शुभैः। तिलर्व्याहृतिभिर्होममष्टोत्तरसहस्रकम् ॥७॥ अष्टोत्तरशतं वाऽपि कुर्याद्वित्तानुसारतः।अभिषेकं ततः कृत्वा यजमानस्य च द्विजैः ॥८॥ पुण्यवारुणसूक्तैश्च दोषशान्त्यैःद्विजोत्तमः।धौताम्बराणि धृत्वाऽथ स्वर्णवस्त्रातिलान्हरेत् ॥९॥ ब्राह्मणान्भोजयेदित्थं शान्तिकर्मं करोति यः। तस्याऽऽयुर्विजयो लक्ष्मीः कीर्तिवृद्धिः शुभं भवेत् ॥१०॥ पल्लीसरटयोः शान्तिः कथिता भृगुणा पुरा। शौनकाय मुनीन्द्राय लोकानुग्रहकारिणे ॥११॥

इति पल्लीसरटयोः शान्तिः।

प्रपूजयेत् ॥५॥ तस्याग्रे मृन्मयं रम्यं कलशं जलपूरितम्।वस्त्रमाल्यैग्लंकृत्य स्थापयेत्तण्डुलोपरि ॥६॥ पञ्चामृतं पञ्चगव्यं पञ्चपल्लवसंयुतम्। पञ्चवृक्षकषायाणि निक्षपेत्कलशोत्तमे ॥७॥ पूजयेद्गन्धपुष्पाद्यैर्लोकपालान्क्रमेण तु।स्वेनस्वेनैव मन्त्रेण मृत्तिकादि विनिक्षिपेत् ॥८॥ इन्द्रादिलोकपालांश्चतत्तन्मन्त्रस्तु पूजयेत्।अग्निस्थापनकं कृत्वा होमं कृत्वा ततः परम् ॥९॥ मृत्युंजयेति मन्त्रेण चैषोभिः खादिरैः शुभैः। तिलैर्व्याहृतिभिर्दोममष्टोत्तरसहस्रकम् ॥१०॥ अष्टोत्तरशतं वाऽपि कृत्वा सम्यक् समाचरेत्। यमायेति च मन्त्रेण जपुं होमादि कारयेत्॥११॥ अभिषेकं ततः कुर्यात्सुरास्त्वांमन्त्रवारुणैः। द्यौः शान्त्यादिशुभैर्मन्त्रैःपुराणोक्तक्रमेण तु ॥१२॥ इत्थं कृत्वाऽभिषेकं च विधानाद्यर्चनंततः। धौताम्बराणि पृत्वाऽय कुर्यान्नीराजनाविधिम् ॥१३॥ स्वर्णदानं वस्त्रदानं तिलदानं स्वशक्तितः। दोषोपशमनार्थाय कुर्यादाज्यावलोकनम् ॥१४॥ अभिषेकं शंकराय ततोऽश्वत्थप्रदक्षिणम्। अतःपरं प्रवक्ष्यामि कुर्याद्ब्राह्मणभोजनम् ॥१५॥ एतद्विधानं यः कुर्याद्गण्डदोषो विनश्यति। एवं कृत्वा विधानेन सौभाग्यारोग्यसंपदः ॥१६॥सौभाग्यशान्तिमाप्नोतिसत्यं सत्यं न संशयः।कथितं वृद्धगर्गेण पहीदोषनिवृत्तये ॥१७॥ कपोतपल्लीकृकलासकाकाःशीर्षस्थिताश्चाग्निवनाय नूनम्। स्थानाद्वहिस्तत्क्षणं एवं गच्छेद्वासांसि दद्याद्द्विजपुंगवेभ्यः ॥१८॥

इति पल्लीसरटशान्तिः।

अथ काकमैथुनशान्तिः।

नारदः— उत्पाता विविधा लोके दिव्यभौमान्तरिक्षजाः। तेषां नामानि शान्तिं च सम्यग्वक्ष्ये पृथक्पृथक् ॥१॥ दिवा वा यदि वा रात्रौ यः पश्येत्काकमैथुनम्। स नरो मृत्युमाप्नोति यदिवा स्थाननाशनम् ॥२॥ यदा काकयुगं दृष्टं विदधीतार्कवत्सरम्।पितृदेवद्विजान्भक्त्या प्रत्यहं चाभिवादनम् ॥३॥ जितेन्द्रियः शुद्धमनाः सत्यधर्मपरायणः। तद्दोपशमनार्थाय शान्तिकर्मं समाचरेत् ॥४॥ स्वगृह्योक्तविधानेन तत्र स्थाप्य हुताशनम्।मुखान्ते समिदाज्यान्नैर्हुदष्टोत्तर शतम् ॥५॥ प्रतिमन्त्रं त्र्यम्बकेण ह्यपमृत्युद्वयेन च। व्याहृतिभिर्व्रीहितिलैर्जपाद्यन्तं प्रकल्पयेत् ॥६॥ पूर्णाहुतिं च जुहुयात्कर्ता शुचिरलंकृतः।स्वर्णशृङ्गी रौप्यखुरी कृष्णधेनुः पयस्विनी ॥७॥ वस्त्रालंकारसहिता निष्कद्वादशसंयुता। तदर्थेन तदर्धेन तदर्थार्थेनवा युता ॥८॥ तथा वित्तानुसारेण तन्यूनाधिककल्पना। आचार्याय श्रोत्रियाय तां गां दद्यात्कुटुम्बिने ॥९॥ ब्राह्मणेभ्यो विशिष्टेभ्यो यथाशक्तिः च दक्षिणाम्। ब्राह्मणाम्भो- -जयेत्पाच्छान्विवाचनपूर्वकम्। एवं यः कुरुते सम्यक् स तद्दोपात्प्रमुच्यते ॥१०॥

इति काकमैथुनशान्तिः।

अथ कपोतशान्तिः।

आरोहेत गृहे यस्य प्रविशेद्वा कंपोसकः। स्थानहानिर्भवेत्तस्य यद्वाऽनर्थपरम्परा ॥१॥ दोषाय धनिनां गेहे दरिद्राणां शिवाय च। तस्य शान्ति प्रकुर्वीत जयहोमविधानतः ॥२॥ ब्राह्मणाम्बरयेतत्रस्वास्तेवापसपूर्वकम्। षोडश द्वादशाष्टौ वा श्रौतस्मार्तक्रियापरान्॥३॥देवाः कपोत इत्यादिऋग्भिःस्यात्पञ्चभिर्जपः। कुण्डं कृत्वा प्रयत्नेन स्वगृद्योक्तविधानतः ॥४॥ ऐशान्यांस्थापयेद्वर्हि मुखान्तेऽष्टोत्तरं शतम्। प्रत्येकं समिाज्यान्नैःप्रतिप्रवणवपूर्वकम् ॥५॥ यत इन्द्रः भयामहे स्वस्तिदाधोरमन्त्रकैः। त्रिभिमन्त्रैश्चजुहुयात्तिलान्न्वाहृतिभिस्ततः ॥६॥ जपार्द्य ततो भक्त्या कुर्यात्पूर्णाहुतिं स्वयम्। विप्रेभ्यो दक्षिणां दद्याद् घोपशान्ति तनो जपेत् ॥७॥ ब्राह्मणाम्भोजयेत्पश्चात्स्वयम्भुञ्जीत बन्धुभिः। एवं यः कुरुते सम्यगुक्तदोषात्प्रगुच्यते॥८॥ पिङ्गलस्य स्वरेऽप्येवंमधुवल्पीकयोगपे। संपूर्णमन्दिरे हानि शून्यसद्मान्द्य-

मङ्गलम् ॥९॥ प्राकारे च पुरद्वारे प्रासादाद्येषु वीथिषु। तत्फलं ग्रामपस्यैवं सीम्निसीमाधिपस्य च। शान्तिकर्माखिलं कार्यं पूर्वोक्तेन क्रमेण तु ॥१०॥

इति कपोतशान्तिः।

( +250 अथोलूकादिशान्तिः। )

उलूक [इष्टो] दृष्टो नेष्टो गृहमागतो भवति।रटमानोऽपि दक्षिणे च मरणाय भवति भूतानाम् ॥१॥ दिवान्धोऽपि यदा पक्षी यं हि ग्रामं समाविशेत्। निर्जनं कुरुते ग्रामं मरणं भूभृतामपि ॥२॥ तदा शान्तिः प्रकर्तव्या यथोक्ता सार्वकामिकी। अनिमित्तेषु सर्वेषु ह्यादौ रुद्रं प्रपूजयेत् ॥३॥ प्रदद्याद्गां वस्त्राणि घृतं सद्यः प्रदापयेत्।तुण्डं रूप्यमयं कार्यं चञ्चुर्लोहमयी तथा ॥४॥ उ (औ) दुम्बरास्तथा पादाश्चत्वारोऽथक्रमेण तु।कांस्यौ पक्षौ प्रकर्तव्यौ सर्वावयवसंयुतौ ॥५॥ हैरण्यं धर्मराजं च सर्वावयवसंयुतम्। होमस्थलादुत्तरतः स्थापयेत्स्थण्डिले शुभे ॥६॥ प्रतिष्ठा तत्र कर्तव्या वेदोक्तमन्त्रपूर्वकम्। रुद्राध्यायं ततः पश्चाच्छान्त्यध्यायं तथैव च ॥७॥ काकाध्यायेन सर्वेण पूजा कार्या च पक्षिणः।कलशं स्थापयेत्तत्र सर्वौषधिसमन्वितम् ॥८॥ शान्त्यध्यायं जपेत्तत्र वह्निस्थापनपूर्वकम्। ततो होमं प्रकुर्वीत पायसेन क्रमेण तु ॥९॥ आदौ तु चक्षुषी दद्यात्पश्चात्यायसकेन तु। प्रथमा तु ह्युलूकाय दिवान्धाय तथाऽपरा ॥१०॥ तृतीया द्रुदुशब्दाय चतुर्थी चिरजीविने। ततः स्विष्टकृतं दद्यात्पश्चात्कर्मं समापयेत् ॥११॥ अभिषेकः ततः कुर्याद्गीतवादित्रनिःस्वनैः।पश्चाद्दानानि व दद्यात्तथा वित्तानुसारतः ॥१२॥ प्रभूतं कनकं दधात्तिलाश्चैवतु वाससी। सप्तधान्यं प्रदातव्यं लोहदण्डः क्रमेण तु। वित्तशाठ्यं न कुर्वीत शान्तिमिच्छन्कदाऽपि हि। अन्नहीनं दहेद्राष्टं मन्त्रहीनं तु ऋत्विजः। यजमानमदाक्षिण्यं नास्ति यज्ञसमो रिपुः ॥१३॥ श्येनगृध्रप्रवेशेऽपि शान्तिरेषैत्र कीर्तिता ॥१४॥ दिवान्धस्याऽऽहुतिंतत्र वर्जयेच्च यथाक्रमम्।अरण्यवासिने तत्र गृध्रायाऽऽहुतिरुच्यते ॥१५॥ श्येनाय वयसां राज्ञे प्रदद्याच्च यथाक्रमम्।विधानं च प्रकुर्वीतं कल्पाणं चोपपद्यते ॥१६॥

इत्युलूकादिशान्तिः।

अथ मधुजालशान्तिः।

मधुजालं गृहे यस्य दृश्यते पुरुषस्य च। मरणं तस्य जानीयात्कुलान्तो वा भवेदतः ॥१॥ तत्र शान्तिः प्रकर्तव्या साध्वी वै वायुदैवता।वायुं च पूजयेत्तत्र ऋग्जपं तु यथायथम् ॥२॥ होमं तत्र प्रकुर्वीत श्रपयित्वा तथा हविः। अभिषेकं प्रकुर्वीत शान्त्यध्यायेन सर्वदा ॥३॥ ततो वह्निं प्रतिष्ठाप्य चरुश्रपणपूर्वकम्।आदौ च चक्षुषीदद्यात्पश्चान्मधुमतीस्तथा ॥४॥ वसन्तेन मधुना च पुपचं चरुणा जपेत्। ततः स्विष्टकृतं दद्यात्पश्चात्कर्मं समापयेत् ॥५॥ दानानि तत्र दद्याञ्च मधुकुम्भं सदक्षिणम्। क्षौमवस्त्रं प्रदातव्यं तिलांश्चैव क्रमेण तु। ब्राह्मणाम्भोजयेत्पश्चादेवं कर्मं समापयेत् ॥६॥

इति मधुजालशान्तिः।
—————————

अथान्नशान्तिः।

एवमन्नस्य विकृतौ शान्तिं कृत्वा प्रयत्नतः। तदा सर्वमवाप्नोतिआरण्यं प्राप्नुयात्तु यः ॥१॥ अनिष्टं नाशमायाति ह्यैन्द्रीशान्तिविधानतः।उपसर्गाः क्षयं यान्ति शक्रस्य प्रीणनात्ततः ॥२॥

इत्यन्नशान्तिः।
—————

अथान्निशान्तिः।

भृगुरुवाच—क्षि(हि) माग्निर्दहते राष्ट्रं तत्र शान्तिं च कारयेत्। वक्ष्यमाणविधानेन त्वं तदेकमनाः शृणु ॥१॥ भवनाधारदहने कुम्भप्रज्वलने तथा।अङ्गवस्त्रस्य दहने देशभङ्गं समादिशेत् ॥२॥ पैशाचाग्निश्चैव सप्तसप्तार्चिर्मेपवाहनः। वेदोक्तेनैव मन्त्रेण ह्यग्न्युत्तारं तु कारयेत् ॥३॥ होमकुण्डा [ च्च ]पूर्वे तु स्थाप्यो वै स्थण्डिले शुभे। रक्तवस्रसमाच्छन्नोमन्त्रेणाग्निर्मेषेण तु ॥४॥ कलशस्तत्र संस्थाप्यः सर्वौषधिसमन्वितः।जपस्तत्र प्रकर्तव्यो रुद्रजाप्यपुरःसरः ॥५॥ त्यामग्ने वय [ ] मग्ने स्वंपुरीप्यति (?)।इत्यपि मध्वायज्ञंनरक्षसो तनूपाअग्ने आसे (?) ॥६॥ अथातो वैश्वानरं च ब्राह्मणं च जपेत्ततः। सोमाय रुद्राद्धले द्यावापृथिवी अधर्वणं जपेत् ॥७॥ जपान्ते सुसमिद्धं च वह्निंकृत्वा यथाक्रमम्।होमस्तत्र कर्तव्यो हविर्धानपुरःसरः ॥८॥ लोहितैस्तण्डुलैश्चैवचरुश्रपणपूर्वकम्। आदौचाग्निमुखे दद्यात्पश्चाच्चाऽऽज्याहुनीर्ददेत्॥९॥ उशिकपावको अरतित्वा-

मग्ने अङ्गिरास्तथा। अग्निर्ज्योतिस्तृतीया तु चतुर्थी त्याने तथा ॥१०॥ प्रथममग्निर्मूर्धातु होमं पूर्वं तु कारयेत्। आज्यहोमं विधायैवं चरुहोमं ततः परम् ॥११॥ कफे (?) स्वाहेति वाऽऽद्यं तु आधायेति द्वितीयकम्। तृतीयं हव्यवाहेति चतुर्थंजातवेदसे ॥१२॥ ततः स्विष्टकृतं दद्यात्पश्चात्कर्मं समापयेत्। अभिषेकस्ततः कार्यो मन्त्रैर्वरुणदैवतैः ॥१३॥ शान्त्यध्यायं पठेत्पश्चादभिपिश्चेत्ततो नृपम्।ततश्चदक्षिणां दद्यात्कृष्णां मां काञ्चनं महीम्।तिलाः कृष्णाः मदातव्या भृंगोश्चवचनं तथा ॥१४॥

इत्यग्निशान्तिः।)
—————

अथ शिथिलीजननशान्तिः।

नारदः—उत्पाता मिखिला नृृणामगम्यागमसूचकाः। तथाऽपि सद्यः फलदं शिथिलजिननं महत् ॥१॥ शिथिलीजनने ग्रामे सेतौवा देवतालये। तत्फलं ग्रामपस्यैव सीम्नि सीमाधिषस्य च ॥२॥ शिथिलीजनने हानिः सर्वस्थानेषु दिक्षु च। तद्दोपप्रशमायैव शान्तिकर्मं समाचरेत् ॥३॥ स्वर्णेन मृत्युप्रतिमां कृत्वा वित्तानुसारतः। रक्तवर्णं यमं दण्डधरं महिषवाहनम् ॥४॥ नववस्त्रेण संवेष्ट्य तण्डुलोपरि पूजयेत्। तल्लिङ्गेन च मन्त्रेण नैवेद्यान्तं यथाविधि ॥५॥ पूर्णकुम्भं तदैशान्यां रक्तवस्त्रेण वेष्टितम्। पञ्चत्वकपल्लवैर्युक्तंजलमन्त्रैः समर्चयेत् ॥६॥ अग्निसंस्थापनं प्राच्यां स्वगृह्योक्तविधानतः। प्रत्येकमष्टोत्तरशतमघोरेणैवद्दोमयेत् ॥७॥ मन्त्रेण समिदाज्यान्नैःशेषं पूर्ववदाचरेत्। द्विजाय प्रतिमां दद्यात्सर्वदोषापनुत्तये ॥८॥ जलमन्त्रेण संप्रोक्ष्यतत्स्थानं कुम्भवारिभिः। एवं यः कुरुते सम्यक्स तद्दोपात्प्रमुच्यते ॥९॥

इति शिथिलीजननशान्तिः।
——————————

अथेन्द्रलुप्तशान्तिः।

श्रीरग्निर्बन्धुनाशश्चवित्तहानिर्महद्यशः। वन्धुलाभः पुत्राहानिस्त्रीचिन्ता महती गदः ॥१॥ पूर्वादीनि फलान्येपामिन्द्रलुप्ते च मस्तके। दन्तच्छेदे काकदृते सरटीपतनेऽपि च ॥२॥ पञ्चत्वकपल्लस्वर्णपञ्चामृतफलोदकैः। अभ्यङ्समन्वितैर्मन्त्रैः स्नानादोषं विमुञ्नति ॥३॥ एवमेवाग्निदाहेऽपि मस्तके मल-

दूषिते। आशिषो वाचनं कृत्वा ब्राह्मणाम्भोजयेच्छुचिः ॥४॥ लाभदा कुड्यगोधाऽत्र शुभद्रा व्यत्यये व्ययः ॥५॥

इतीन्द्रलुप्तशान्तिः।
————————

अथ नानाविधेत्पातशान्तिः।

नारदः— देवता यत्र नृत्यन्ति पतन्ति प्रज्वलन्ति वा। मुहू रुदन्ति गायन्ति प्रस्त्रिद्यन्ति हसन्ति च ॥१॥ वमन्त्यग्निंतथा धूमं स्नेहं रक्तं पयो जलम्। अधीमुखाश्च तिष्ठन्ति स्थानात्स्थानं व्रजन्तिवा ॥२॥ एवमाद्याश्च दृश्यन्ते विकाराः प्रतिमासु च। गन्धर्वनगरं चैव दिवा नक्षत्रदर्शनम् ॥३॥ महोल्कापतन काष्ठतृणरक्तमप्रवर्षणम्। गन्धर्वगेहं दिग्धूमं भूमिरम्पं दिवा निशि ॥४॥ अनग्नौ च स्फुलिङ्गाः स्युर्ध्वलग्नंच विनेन्धनम्। निशीन्द्रचापं मण्डुकःशिखरे श्वेतवायसः ॥५॥ दृश्यन्तेविस्फुलिङ्गाश्चगोगजाश्वोष्ट्गावतःगानतः। जन्तवो द्विविशिरसो जायन्ते वा वियोनिषु ॥६॥ प्रतिसूर्याश्चतसृषु स्युदिक्षु युगपद्रवेः। जम्बूफग्रामसंवेशः केतूना च प्रदर्शनम् ॥७॥ काकानामाकुल रात्रौकपोतानां दिवा यदि। अकाले पुष्पिता वृक्षा दृश्यन्ते फलिता यदि ॥८॥ कार्यं तच्छेदनं तत्र ततः शान्तिर्मनीषिभिः। एवमाद्या महोत्पाता वहवः स्थाननाशदाः ॥९॥ केचिन्मृत्युप्रदाः केचिच्छपुभ्यश्च भयप्रदा। मभ्याद्भयंयशो मृत्युः क्षयः कीर्तिः मुखासुखम् ॥१०॥ऐश्वर्यं धनहानिश्च मधुच्छदंच बल्मि(ल्मी)म्। देवालये स्वगृहे वा ह्यैशान्यां पूर्वतोऽपि वा ॥११॥ तुष्टं लक्षणसंयुक्तं यल्पवेन्मेखलायुतम्। गृह्योक्तविधिना तत्र स्थापयेश्चहुताशनम् ॥१२॥ जुहुयादाज्यभागान्तं पृथगष्टोत्तरं शतम्। यत इन्द्रः भयामहे स्वस्तिदायोरमन्त्रकैः। समिदाज्यचरत्रीहितित्रैर्व्याहुतिभिस्तथ॥१३॥फोटिहोमं तदर्थंवा लक्षहोममयापि वा।तथा वित्तानुसारेण तन्न्यूनाधिकल्पना ॥१४॥ एतविंशतिगोत्रंवा पक्षं पक्षार्धमेव वा। पञ्चरात्रंविराग्रंया होमकर्मं समारभेत् ॥१५॥ दक्षिणां च ततो दद्यादाचार्याय कुटुम्बिने।गणेशक्षेत्रपालादुर्गाक्षोण्यङ्गदेवताः॥१६॥ तासांप्रीन्धैः जयः कार्यः शेषंपूर्वावदाचरेत्। ऋत्विग्भ्यो दक्षिणां द्यात्पोडशभ्यःस्वशक्तितः ॥१७॥

इति नानाविधोत्पानशान्तिः।

अथोल्कालक्षणम्।

नारदः— स्वर्गच्युतानां रूपाणि यान्युल्कस्तानि वै भुवि। धिष्ण्योल्काविद्युदशनिस्ताराः पञ्चविधाः स्मृताः ॥१॥ सम्यक् पञ्चविधानं च वक्ष्यते लक्षणं फलम्। पाचयन्ति त्रिभिः पक्षैर्धिष्ण्योल्काशनिसंज्ञिताः ॥२॥ विद्युत्पङ्भिरहोमिश्चतारा तद्वत्फलप्रदा। फलपाककरी तारा धिष्ण्याख्याऽर्धफलप्रदा ॥३॥ उल्काविद्युशन्याख्याः संपूर्णफलदा नृणाम्। अश्वेभोष्ट्रपशुनृषु वृक्षक्षोणीषु च क्रमात् ॥४॥ विदारयन्ति (न्ती) पतिता स्वनेन महताऽशनिः। जनयित्री च संत्रासं विद्युद्योग्नि ततः स्फुटम् ॥५॥ वक्रा विशाला ज्वलिता पतन्ती वनराजिषु। धिष्ण्या सपुच्छा पतति ज्वलिताङ्गारसंनिभा ॥६॥ हस्तद्वयप्रमणा सा दृश्यतेऽतिसमीपतः। ताराब्जतनुवच्छुक्लाहस्तदीर्घाम्बुजारुणा ॥७॥ ऊर्धं यात्यथवा तिर्यगधो वा गमनान्तरे। उल्का शिरोविशाला तु पतन्ती वर्धते त(येत्त) नूम् ॥८॥ दीर्घपुच्छा भवेत्तस्या भेदाः स्युर्वहवस्तथा। पीडाश्चोष्ट्राहिगोमायुखरगोगजदंष्ट्रिकाः॥९॥ कपिगोधाधूमनिभा विविधाः पापदा नृणाम्। अश्वे भचन्द्ररजतवृषहंसध्वजोपमाः ॥१०॥ वज्रशङ्खस्वस्तिकाब्जरूपाः शिवसुखाप्रदाः। निपतन्ती स्वराद्वह्नौ(?) राजराष्ट्रक्षयाय च ॥११॥ यद्यम्बरे निपतति लोकस्याप्यतिविभ्रमम्। यद्यर्केन्दूसंस्पृशति तत्तद्भूमिप्रकम्पनम् ॥१२॥ परचक्रागमभयं जनानां क्षुद्भयंजलात्। अर्केन्द्वोरपसव्योल्का पौरेतरविनाशदा ॥१३॥ उदयास्तमयेऽर्केन्द्रोः परतोल्का शुभप्रदा।सितरक्ता सिता पीता सोल्का हन्ति द्विजादितः ॥१४॥सितोदितोभये पार्श्वे पुच्छे दिक्षु दिनादिषु। पतितोल्का
ऋक्षनिभा विप्रादीनामनिष्टदा ॥१५॥ तारा कुम्भनिभा स्निग्वा भूभुजां तु शुभप्रदा। नीला श्यामाऽरुणा चाग्निवर्णाऽशुभभयप्रदा॥१६॥ संध्यायां वह्निपीडा च दलिता राज्यनाशनम्। नक्षत्रग्रहभेदे च तद्वर्णानामनिष्टदा ॥१७॥
चरधिष्ण्येषु पतिता स्त्रीणां चोल्का भयप्रदा। क्षिप्रभेषु विशां पीड़ा भूपतीनां स्थिरेषु च ॥१८॥ मृदुभेषु द्विजातीनां दारूणां दारुणेषु च।उग्रभेषु च शूद्राणां परेषां मिश्रभेषु च ॥१९॥ राज्यराष्ट्रविनाशाय प्रासादप्रतिमासु च। गृहे तत्स्वामिनां पीडा नृपाणां पर्वतेषु च ॥२०॥ दिक्षु तत्ताद्दिगीशानां कर्मकाणां स्थलेषु च।प्राकारे परिखे वाऽपि द्वारि तत्पौ(त्पु)रमध्यमे ॥२१॥ परचक्रागमभयं राज्यपौरजनक्षयः। गोष्ठे गोस्वामिनां पीडा शिल्पकानां जलेषु च ॥२२॥ राजहन्त्री तन्तुनिभा इन्द्रध्वजसमाऽथवा।प्रतीपगा राजपत्नीं तीर्थगा च चमूपतिम् ॥२३॥ अधोमुखी नृपं हन्ति ब्राह्मणानुर्ध्वगा तथा। वृक्षोपमा पुच्छनिभा जनसंक्षोभकारिणी ॥२४॥ प्रसर्पिणी या सर्पव-

त्साऽङ्गनानामनिष्टढ़ा। वर्तुलोल्का पुरं हन्ति च्छत्राकारा पुरोहितम् ॥२५॥ वंशगुल्मलताकारा राष्ट्रविद्रावणी तथा। सूकरव्यालसदृशा खण्डाकारा च पापदा। इन्द्रचापनिभा राज्यं खे नता हन्ति तोयम् ॥२६॥

इत्युल्कालक्षणम्।
—————

अथ परिवेषलक्षणम्।

नारदः–किरणा वायुनिहता मूर्छिता मण्डलीकृताः। नानावर्णाकृतयस्ते परिवेषाः शशीनयोः ॥१॥ ते रक्तनीलपाण्डुरकपोताभ्राभकापिलाः। सपीतः— शुक्लवर्णाश्चप्रगादिदिक्षु वृष्टिदाः ॥२॥ मुहुर्मुहुः प्रलीयन्ते न संपूर्णफलप्रदाः। शुभास्त्वविकलाः स्निग्धाः क्षीरतैलाम्बुसंनिभाः ॥३॥ चापशृङ्गाटकपृथुक्षतजारुणभाः शुभाः। अनेकवृत्तवर्णश्च परिवेषो नृपान्तकृत् ॥४॥ अशोकपुष्पसंकाशो धूमाभः कलहप्रियः। मयूरपत्रसंकाशः पीतवर्णोऽतिवृष्टिकृत् ॥५॥ अहर्निशं प्रतिदिनं चन्द्रार्कावरुणौ यदा। परिविष्टौ नृपवधं कुरुतो लोहितौयदा ॥६॥ द्विमण्डलश्चमूनाथनृपघ्नोयस्त्रिमण्डलः। परिवेषगतः सौरिः क्षुद्रधान्यविनाशकृत् ॥७॥ रणकृद्भूमिजो जीवः सर्वेषामामयप्रदः। ज्ञः सम्यहानिदः शुक्रा नृपाणां कलहमदः ॥८॥ परिवेषगतः केतुर्दुर्भिक्षकलहप्रदः। पीडां नृपवधं राहुर्गर्भच्छेदं करोति च ॥९॥ द्वौ ग्रहो परिवेषस्थौक्षितीशकलहप्रदौ। कुर्वन्ति कलहानर्घं परिवेषगतास्त्रयः ॥१०॥ चत्वारः परिवेषस्था नृपस्य मरणप्रदाः। परिवेषगताः पञ्च जलप्रलयदा ग्रहाः ॥११॥ एवं वक्रग्रहास्तेषामेवं फलनिरूपणम्। नृपहानिः कुजातीनां परिषेपे पृथक् फलम् ॥१२॥ परिवेषेऽपि धिष्ण्यानां फलमेघं द्वयोस्त्रिषु। परिवषोद्विजादीनां नेष्टः प्रतिपदादिषु ॥१३॥ पश्चन्यादिषु तिसृषु ह्यशुभो नृपतेस्तदा। अष्टम्यां युवराजस्य परिवेषोऽप्यनिष्टदः ॥१४॥ ततस्तिसृषु तिथिषु नृपाणामशुभप्रदः। पुरोहितस्य द्वादश्यां विनाशाय भवेदसौ॥१५॥ सैन्यक्षोभस्त्रयोदश्यां नृपरोधो ह्यथापि वा। राजपत्न्याश्चतुर्दश्यांपरिवेषो गदप्रदः ॥१६॥ परिवेषः पञ्चदश्यां क्षितीशानामनिष्टदः। परिवेषस्य मध्ये वा वाह्येरेखा भवैद्यदि ॥१७॥ स्थायिनां मध्यमा नेष्टा यायिनां पार्श्वसंस्थिता। प्रावृडृतौ च शरदि परिवेषोजलप्रदः ॥१८॥ प्रायेणान्येषुऋतुषु तदुक्तफलदायिनः ॥१९॥

इति परिवेषलक्षणम्।
————————

अथेन्द्रचापलक्षणम्।

नानावर्णांशवोभानोःसाभ्रवायुविघट्टिताः। सद्व्योम्निचापसंस्थानमिन्द्रचापं प्रचक्षते ॥१॥ अथवा शेषनागेन्द्रदीर्घनिश्वास-संभवम्। विदिक्षुजं दिक्षुजं च तद्दिङ्नृपविनाशनम् ॥२॥ पीतपाटलनीलैश्च वह्निशस्त्रास्त्रभीतिदम्। वृक्षजं व्याधिजं चापं भूमिजं सस्यनाशनम् ॥३॥ अवृष्टिदं जनोद्भूतं वल्मीके युद्धभीतिदम्। अवृष्टौ वृष्टिदं त्वेन्द्र्यां दिशि वृष्टाववृष्टिदम् ॥४॥ सदैव वृष्टिदं पश्चाद्दिशोरितरयोस्तथा। रात्राविन्द्रधनुः प्राच्यां नृपहानिर्भवेद्यदि ॥५॥ याम्यां सेनापतिं हन्ति पश्चिमे नायकोत्तमम्। मन्त्रिणं सौम्यदिग्भागे सचिवं कोणसंभवम् ॥६॥ रात्राविन्द्रधनुः शुक्रवर्णाभं विप्रपूर्वकम्।हन्ति यद्दिग्भवं स्पष्टं तद्दिगीशनृपोत्तमम् ॥७॥ अवनीगाढमच्छिन्नं प्रतिकूलं धनुर्द्वयम्।नृपान्तकृद्यदि भवेदानुकूल्यं च तच्छुभ्रम्॥८॥

इतीन्द्रचापलक्षणम्।
————————

अथ गन्धर्वनगरलक्षणम्।

नारदः— गन्धर्वनगरं दिक्षु दृश्यतेऽनिष्टदं क्रमात्। भूभुजां च चमूनाथसेनापतिपुरोधसाम् ॥१॥ सितरक्तपीतकृष्णं विप्रादीनामनिष्टदम्। रात्रौ गन्धर्वनगरं धगधीशविनाशनम् ॥२॥ इन्द्रचापाग्निधूमाभं सर्वेषामशुभप्रदम्। चित्रवर्णं चित्ररूपप्राकारध्वजतोरणम्।दृश्यते चेन्महायुद्धमन्योन्यं धरणीभुजाम् ॥३॥

इति गन्धर्वनगरलक्षणम्।
—————————

अथ प्रतिसूर्यलक्षणम्।

नारदः— प्रतिसूर्यः सूर्यनिभः स्निग्धः पार्श्वे शुभप्रदः।वैदूर्यसदृशः स्वच्छः शुक्लोवाऽपि सुभिक्षकृत ॥१॥ पीताभो व्याधिदः कृष्णो मृत्युदो युद्धदोऽरुणः। माला चेत्प्रतिसूर्याणां शश्वच्चोरभयप्रदा॥२॥ जलदोदक्प्रतिसूर्यो भानोर्याम्येऽनिलमदः। उभयस्थोऽम्बुभयदो नृपहोपर्यधोनृहा ॥३॥ यदा भवन्ति तीक्ष्णांशोः प्रतिसूर्याः समन्ततः। जगद्विनाशमाप्नोति तथा शीतद्युतेरपि ॥४॥

इति प्रतिसूर्यलक्षणम्।
————————

अथ निर्घातलक्षणम्।

नारदः— वायुनाऽभिहतो वायुर्गगनात्पततिः क्षितौ।यदा दीप्तःस्वगुरुतः स निर्वातोऽतिदोपकृत् ॥१॥ निर्वातोऽर्कोदये नेष्टःक्षितीशानां विनाशकः। आयामात्माकपौरजनशूद्राणांचैत्र हानिदः ॥२॥ आमध्याह्लात्तु विप्राणां नेष्टोराजोपजीविनाम्। तृतीययामे वैश्यानां जलजानामनिष्टदः ॥३॥ चतुर्थे चार्थनाशाय संध्यायां हन्ति संकरा्न।आद्ये यामे सस्पहानिर्द्वितीये तु पिशाचकान् ॥४॥ हन्त्यर्थरात्रेतुरगांस्तृतीये शिल्पिलेखकान्। चतुर्थयामे निर्वातः पतन्हन्ति तरुञ्जनान्॥५॥ भीमजर्जरशब्दः स यत्र तत्र दिगीश्वरम् ॥६॥

इति निर्धातलक्षणम्।
————————

अथ दिग्दाहलक्षणम्।

नारदः— दिग्दाहःपीतवर्णश्वेत्क्षितीशानां भयप्रदा। देशनाशायाग्निवर्णोऽरुगवर्णोऽनिलप्रदः ॥१॥ धूम्रःसस्यविनाशाय कृष्णः शस्त्रभयमदः। प्राग्दादः क्षत्रियाणां च नरेशानामनिष्टः ॥२॥ आग्नेय्यां युवराजस्य शिल्पिनामशुभप्रदः। पीडांव्रजन्ति याम्यायां मूर्खपैश्यनराधमाः ॥३॥ नैर्ऋत्यां दिशि चोराश्चपुनर्भूप्रमदागणाः। प्रतीच्यां कृषिकारश्चवायव्यां पशुजातयः ॥४॥ सौम्ये विप्रादिग्रीनाश्चवैश्याः पाखण्डिनोऽखिलाः। निर्मलंस्वमृक्षगणं प्रदक्षिणगतोऽनिलः ॥५॥ दिग्दाहः स्वर्णवर्णाभो लोकानां मङ्गलप्रदः ॥६॥

इति दिग्दाहलक्षणम्।
————————

अथ रजोलक्षणम्।

नारदः— सितेन रजसा छन्ना दिग्ग्रामवनपर्वताः। यदा तदाभवन्त्येते निधनं यान्ति भूमिषाः॥१॥ धूमः सप्तुद्भवेद्यम्यां तस्यां दिशिविनाशनम्। तत्रतत्रस्थजन्तूनां हानिः शस्त्रकोपदः ॥२॥ मन्त्रिजनपदानां च व्याविदं चासितं रजः। अर्कोदयेविजृम्भेतगगनं स्थगयेदपि॥३॥ दिनद्वयं च त्रिदिनमत्युग्रभयदं रजः। रजो भवेदेकरात्रंनृपं हन्ति निरन्ताम् ॥४॥ परचक्रागमो न स्याद्द्विरात्रं सततं यदि। क्षामं दमरस्मानङ्कस्त्रिगत्रंसततं यदि॥५॥ ईनिर्दुर्भिक्षमतुलं यदिरात्रिचतुष्टयम्। निरन्तरं पञ्चरात्रं महागजविनाशनम्। ऋतावन्यत्रशिशिरात्संपूर्णफलदंरजः ॥६॥

इति रजोलक्षणम्।
————————

अथ भूकम्पलक्षणम्।

भूभारखिन्ननागेन्द्रशेषविश्रामसंभवः। भूकम्पः सोऽपि जगतामशुभाय भवेत्तदा ॥१॥ यामक्रमेण भूकम्पो द्विजातीनामनिष्टदः।अनिष्टदः क्षितीशानां संध्ययोरुभयोरपि ॥२॥ अर्यमाद्यानि चत्वारि दस्रेन्द्रदितिभानि च। वायव्यमण्डलं त्वेतदस्मिन्कम्पो भवेद्यदि॥३॥ नृपसस्यवणिग्वेश्याशिल्पिवृष्टिविनाशनः। पुष्यद्विदैवभरणीपितृ- -भाग्याजपाग्निमम्॥४॥ आग्नेयमण्डलं त्वेतदस्मिन्कम्पोभवेद्यदि। नृपवृष्टचर्वनाशाय हन्ति शावरदङ्कणान् ॥५॥ अभिजिद्धातृवैश्वेन्द्रवप्तुवैष्णवमित्रभम्। वासवं मण्डलं त्वेतदस्मिन्कम्पोभवेद्यदि ॥६॥ राजनाशाय कोषाय हन्ति गुर्जरदर्दुरान्। मूलाहिर्बुध्न्यवरुणपौष्णाप्यार्द्राहिभानि च ॥७॥ वारुणं मण्डलं त्वेतदस्मिन्कम्पो भवेद्यदि राजनाशकरो हन्ति पौण्ड्रचीनपुलिन्दकान् ॥८॥ प्रायेण निखिलोत्पाताः क्षितीशानामनिष्टदाः। षड्भिर्मासैश्चभूकम्पो द्वाभ्यां दाहः फलप्रदः। अनुक्तं पञ्चभिर्मासैस्तदानीं फलदंरजः ॥९॥

इति भूकम्पलक्षणम्।
————————

अथ कदलीदुष्टप्रसवशान्तिः।

उमोवाच—प्रथमः प्रसवो देव रम्भायां दृश्यते यदा।दक्षिणाभिमुखो दृष्टो विवाति फलं स किम्। भूपाले वा कृपाणे वा फलं कस्मिंस्तु जायते ॥१॥ श्रीमहे— श्वर उवाच–यदा याम्यमुखा देवि कदली तु प्रसूयते। तदा ग्रामपतेर्नाशं विदधाति न संशयः ॥२॥ एवं विघ्ने समुत्पन्ने विधानं तत्र कारयेत्। सूतकी चोपचर्या सा कदली हितमिच्छता ॥३॥ दर्शे तु जागरं कार्यं होमं कुर्यात्ततः परन्। कदलैर्हवनं कार्यमन्यैर्वा समुदाहृतैः ॥४॥ सहस्रं प्रयतो वाग्ग्मी जपच्छान्तीरनेकशः।विष्णुस्तु देवता तत्रतल्लिङ्गो मन्त्र उच्यते ॥५॥विप्रेभ्यः सप्त धान्यानि देयानि विधियत्ततः। दद्यात्तां कदलीं राजा विप्रवर्याय धीमतो॥६॥ एवं कृते विधाने च विशान्तिस्तु जायते। पूजिते विप्रवर्ये च कर्ता सुखमवाप्नुयात् ॥७॥

इति कलीदुष्टप्रसवशान्तिः।
—————————

अथाङ्गस्फुरणफलम्।

मूर्ध्नि स्फुरत्याशु पृथिव्यवाप्तिः स्थानमवृद्धिश्चललाटदेशे। भ्रूघ्राणमध्ये प्रियसंगमःस्यान्नासाक्षिमध्ये च सहायलाभः ॥१॥ दृगन्तमध्यस्फुरणेऽयं संपत्सोत्कण्ठता स्यात्स्फुरिते दृगर्थे। जयीदृशोऽधःस्फुरणे रणे स्यात्प्रियश्रुतिः प्रस्फुरित च कर्णे ॥२॥ योपित्समृद्धिः स्फुरिते च गण्डे घ्राणे तु सौख्यं हि भवेत्सदैव। भोज्येष्टसङ्गावधरोष्ठयोश्चस्कन्धे गले भोगविवृद्धिलाभौ ॥३॥ स्पन्दो भुजस्येष्टसमागमाय स्पन्दः करे स्याद्द्रविणाप्तिहेतुः। स्पन्दश्चपृष्ठस्य पराजयाय स्पन्दो जयायोरसि मानवानाम् ॥४॥ पार्श्वप्रकम्पे भवति प्रमोदः स्तनप्रकम्पे विषयस्य लाभः। कटिप्रकम्पेऽपि चलप्रमोदो नाभिप्रकम्पे निजदेशनाशः ॥५॥ धनर्धित्रप्रभवेत्प्रकम्पे दुःखं धनान्तो हृदयस्य चान्ते। स्फिक्या (चः) प्रकम्पे धनवाहनाप्तिर्वराङ्गकम्पे वरयोपिदाप्तिः ॥६॥ मुष्कप्रकम्पे तनयस्य जन्म वस्तौ प्रकम्पे युवतिप्रवृद्धिः। दोषः प्रकम्पे पुनरूरुपृष्ठ उरःपुरः स्यात्समुदायलाभः ॥७॥ स्याज्जानुकम्पेऽरिवरेण सधिर्जङ्घाप्रकम्पेऽपि च लाभनाशाः। स्थानाप्तिरूर्ध्वं चरणस्य प्रकम्पे यात्रा सलाभाऽङ्घ्रितलप्रकम्पे ॥८॥ पुंसां यदा दक्षिणदेहभागे स्त्रीणां तु वामावयवेषु जातः। स्पन्दः फलानि प्रदिशत्यवश्यं निहन्ति चोक्ताङ्गविपर्ययेण ॥९॥ व्रणपिटकतिलकलाञ्छनमत्स्यादय- -स्त्वेवमुपदिष्टाः। कण्डूयनं नरपति(ते)र्दक्षिणपादे जयायेति॥१०॥ चिन्तामणौ—अङ्गन्स्फुरणवज्ज्ञेयमावर्तानांफलंः वुधैः। बह्लावर्तशिराः प्रायीनिःस्वश्चाल्पत्युरन्यथा ॥११॥ आवर्ता वामभागे तु स्त्रीणां संहारवृत्तयः। न शुभास्तुशुभा भाले दक्षिणाङ्गे तु सृष्टितः ॥१२॥

इत्यङ्गफुरणफलम्।
————————

अथसद्योवृष्टिलक्षणम्।

वर्षाप्रश्ने शशिन्याप्यराशिगे लग्नगेऽपि वा। केन्द्रगे या शुक्लपक्षे चातिवृष्टिः शुभेक्षिते ॥१॥ अल्पवृष्टिः पापदृष्टे प्रावृद्काले चिराद्भवेत्। चन्द्रवद्भार्गवेसर्वमेतविधगुणान्विते ॥२॥ प्रावृपीन्दुः सिवात्सप्तराशिगः शुभवीक्षितः। मन्द्रात्रिकोणसप्तस्थोयदि वृष्टिकृद्भवेत् ॥३॥ सद्योवृष्टिकरः शुक्रोयदा युधसमीपगः। तयोर्मध्यगते भानौ तदा वृष्टिविनाशनम् ॥४॥ मद्यादिपञ्चधिष्प्यस्थः पूर्वे स्वातित्रये परे। प्रवर्षणं भृगु कुर्याद्विपरीतेन वर्षणम् ॥५॥

पुरतः पृष्टतो मानोर्ग्रह्ययदि समीपगाः। तदा वृष्टिं प्रकुर्वन्ति नचेत्ते प्रतिलोमगाः ॥६॥ वसिष्टः— अग्रगाः पृष्टगा वाऽपि खेटाः संनिहिता रवेः। तदा वृष्टिं प्रकुर्वन्ति न चेन्नीचादिराशिगाः ॥७॥ सौम्यमार्गगतः शुक्रो वृष्टिकृन्न तु याम्यगः। उदयास्तेषु वृष्टिः स्याद्भानोरार्द्राप्रवेशने ॥८॥ विपत्तिः सस्यहानिः स्यादहन्यार्द्राभिप्रवेशने। संध्ययोः सस्यवृद्धिः स्यात्सर्वसंपन्नृणां निशि ॥९॥ स्तोकवृष्टिरनर्धः(र्थः)स्यादवृष्टिः सस्यसंपदाः।आर्दोदयेप्रभिन्ने चेद्भवेदीतिर्न संशयः ॥१०॥ चन्द्रेज्ये ज्ञऽथवा शुक्रे केन्द्रे त्वीतिर्विनश्यति। पूर्वापाढां गतो भानुर्जीमूतैः परिवेष्टितः ॥११॥ वर्षत्यार्द्रादिमुलान्तं प्रत्यक्षं प्रत्यहं तथा। वृष्टिश्चेत्यौग्णभे तरमाद्दशर्क्षेषु न वर्षाति ॥१२॥ सिंहे भिन्ने कुतो वृष्टिरमिन्ने कर्कटे कुतः। कन्योदये प्रभिन्ने चेत्सर्वदा वृष्टिरुत्तमा ॥१३॥ अहिर्बुध्न्येपूर्वसस्यपरसस्या च रेवती। भरणी सर्वसस्या च सर्वनाशाय चाश्विनी ॥१४॥ वसिष्टः— दस्रादिकर्क्षद्वयगे दिनेशे वृष्टिर्भवेत्क्षेमकरी जनानाम्। वह्न्यर्क्षसंस्थे यदि वृष्टिरीतिर्ब्राह्मद्वयर्क्षे त्वतुलं सुभिक्षम् ॥१५॥॥ कश्यपः—आर्द्राप्रवेशे वृष्टिः स्यात्सार्धमारामवर्षणम् ॥१६॥ वसिष्ठः– प्रवेशकाले यदि रौद्रभस्य वृष्टिर्भवेतिरनर्घताच।शेषेषु पादत्रितयेषु भीतिरत्यल्पवृष्टिर्महती गदा वा ॥१७॥ नारदः— गुगेः सप्तमराशिस्थः प्रत्यग्रो
भुगुजो यदा।तदाऽतिवर्षणं भूरि प्रावृट्काले बलोज्झिते ॥१८॥ आसन्नम(न्ना हा)र्शशिनोः परिवेषगतोत्तरा। विपुला पूर्णमण्डूकस्वना वृष्टिर्भवेत्तदा ॥१९॥ यदा प्रत्युद्गता मेघाः स्वसद्मोपरि संस्थिताः। पतन्ति दक्षिणस्था वा अवेद्वृष्टिस्तदाऽचिरात् ॥२०॥ नखैर्लिखन्तो मार्जाराश्चावनिर्लोहसंयुता।रथ्यायां सेतुबन्धाः स्युर्वालानां वृष्टिहेतवः ॥२१॥ पिपीलिकाश्रेप्यच्छिन्ना खद्योता यहवस्तदा। द्रुमाधिरोहःसर्पाणां प्रतीन्दुर्वृष्टिर्भवेत्तदा ॥२२॥ उदयास्तमये काले विकर्णोऽर्कोथवा शशी।मधुवर्णोऽतिवायुश्चेदतिवृष्टिर्भवेत्तदा ॥२३॥ वराहः—आर्द्रद्रव्यं स्पृशति यदि वा वारि तत्संज्ञकं वा तोयासन्नो भवति यदि वा तोयकार्योन्मुखो वा।प्रष्टा वाच्यः सलिलमचिरादस्ति निःसंशयेन पृच्छाकाले सलिलमिति वा श्रूयते यत्र शब्दः ॥२४॥ विरसमुदकं गोनेत्राभं वियद्विमला दिशो लवणविकृतिः काकाण्डाभं यदा च भवेन्नभः।पवनविगमः पोष्णूयन्ते झपाः स्थलंगामिनो रसनमसकृन्मण्डूकानां जलागमहेतवः ॥२५॥ गिरयोऽज्जनचूर्णसंनिभा यदि वा वाप्पनिरुद्धकन्दराः। कृकवाकुहिलोचनोपमाः परिवेषाः शशिनश्चवृष्टिदाः ॥२६॥ प्रायो ग्रहाणामुदयास्तकाले समागणे मण्डलसंक्रमे च। पक्षक्षध्ये तीक्ष्णकरायनान्ते वृष्टिर्गतेऽर्केनियमेन चार्द्राम् ॥२७॥ समागमे

पतति जलं ज्ञशुक्रयोर्ज्ञजीवयोर्गुरुसितयोश्चसंगमे। यमारयोः पवनहुताशजं भयं ह्यदृष्टयोसहितयोश्चसद्ग्रहैः॥२८॥

इति सद्योवृष्टिलक्षणम्।
—————————

अथ सप्तनाडीचक्रम्।

कृ रो मृ पु पु पू चि स्वा वि
प्र ज्ये मू पू श्र पू रे

अथातः संप्रवक्ष्यामि यच्चक्रं सप्तनाडिकम्।येन विज्ञातमात्रेण वृष्टिं जानन्ति साधकाः ॥१॥ कृत्तिकादि लिखेद्भानि साभिजिति (न्ति) क्रमेण च। सप्तनाडीव्यवस्तत्रकर्तव्यः पन्नगाकृतिः ॥२॥ ताराचतुष्के वेधेन नाड्येकैका प्रजायते। तासां नामान्यहं वक्ष्ये तथा चैव फलानि च ॥३॥ कृत्तिका च विशाखा च मैत्राख्यं भरणी तथा। ऊर्ध्वाख्या शनिनाडी सा चण्डवाताभिधामता ॥४॥ रोहिणी स्वातिर्जेष्टाश्विर्द्वितीया नाडिका मता। आदित्यप्रभवा नाडी वायुनाम्नीतथैव च ॥५॥ सौम्यं चित्रा तथा मूलं षौष्णमूक्षं चतुर्थकम्। तृतीयाऽङ्ङ्गारका नाडी दहनाख्या तथैव च ॥६॥ रौद्रं हप्तस्तथा पूर्वापादा भाद्रपदोत्तरा।चतुर्थी जीवनाडी सा सौम्यनाडी प्रकीर्तिता ॥७॥ पुनर्वसूत्तरा फल्गुन्युत्तरापादतारका।पूर्वाभद्रा चशुक्रेशा पञ्चमी नीरनाडिका ॥८॥ पुष्यश्चफल्गुनी पूर्वा अभिजिच्छततारका।षष्ठी नाडी च विज्ञेया बुधेशा
जलनाडिका ॥९॥ आश्लेषा च मया कर्णो घनिष्ठामं तथैव च।अमृताख्या हि सा चान्द्री सप्तमी सा रसातला ॥१०॥ मध्यमार्गस्थिता सौम्या नाडी तस्याग्रपृष्टतः।सौम्ययाम्यगताज्ञेयं नाडिकानां म्निकं विकम् ॥११॥ क्रूरा यान्यगता नाडयः सौम्याः सौन्यदिगाश्रिताः। मध्यनाडी च मध्यस्था ग्ररूपफलप्रदा॥१२॥ एकनाडीगता द्व्याद्या ग्रहाः क्रूराः शुभा यदि। ततो नाडीफलं वाच्यं शुभं वा यदि वाऽशुभम् ॥१३॥ ग्रहाः कुर्युर्महावातं महावाताख्यनाडिकाः।वायुनाडीगता वायुं ढहन्यां दाहगा यदि ॥१४॥ सौम्यनाडीगता मध्या नीरस्या मेघवाहकाः। जलायां वृष्टिदा चन्द्रनाडीगास्तेऽतिवृष्टिदाः ॥१५॥ एकोऽप्यतत्फलं धत्ते स्वनाडीसंस्थितो गृहः। भूसुतः सर्वनाडीषु धत्ते नाडीभवं फलम् ॥१६॥ प्रावृट्काले समायाते रौद्राद्यृक्षगते रवौ। नादीवेगसमागोमे जलयोगान्नदाम्यहम् ॥१७॥ यत्र नाडीस्थितश्चन्द्रस्त-

त्रस्थाःखेचरा यदि। क्रूरसौम्यविमिश्राश्च तद्दिनेवृष्टिरुत्तमा ॥१८॥ एकर्क्षे तु समायोगो जायते यदि खेचरैः। तत्र काले महावृष्टिर्यावत्तस्यांशगः शशी ॥१९॥ केवलैः सौम्यपापैर्वा ग्रहैर्विद्धो यदा शशी। तदाऽतितुच्छं पानीयं दुर्दिनं भवति ध्रुवम् ॥२०॥ यस्य ग्रहस्य नाडीस्थचन्द्रमास्तद्ग्रहेण च। दृष्टो युक्तः करोत्यम्बुयदि क्षीणो न जायते ॥२१॥ पीयूपनाडीगश्चन्द्रस्तत्र खेटाः शुभाशुभाः। त्रिचतुष्पञ्च पानीयं दिनान्येकत्रिसप्तकम् ॥२२॥ एवं जलाख्य नाडीस्थे चन्द्रे मिश्रग्रहान्विते।दिनार्धदिवसाः पञ्च दिनानिजायते जलम् ॥२३॥ नीरनाडीस्थिते चन्द्रे तत्रस्थैः पूर्ववद्ग्रहैः। यामं दिनार्धकं त्रीणि दिनानि जायते जलम् ॥२४॥ अमृतादित्रये यत्र भवन्ति सर्वखेचराः। तत्र वृष्टिः क्रमाज्ज्ञेया धृत्यर्करसवासरैः॥२५॥ सौम्यनाडीगताः सर्वे वृष्टिदास्ते दिनत्रयम्।शेषनाडी महावाता दुष्टवृष्टिप्रदाग्रहाः ॥२६॥ निर्जला जलदा नाडी भवेद्योगे शुभाधिके। क्रूराधिकसमो योगो जलदाऽप्यम्बुदाहिका ॥२७॥ याम्यनाडीस्थिताः क्रूरा अनावृष्टिप्रसूचकाः। शुभयुक्ता जलांशस्थास्त्वतिवृष्टिप्रदा ग्रहाः ॥२८॥ एकनाडीसमारूहौ चन्द्रमोधरणीसुतौ। यदि तत्र
भवेज्जीवस्तदा जलमयी मही ॥२९॥ वृधशुक्रौ यदैकत्र गुरुणा च समन्वितौ। चन्द्रयोगे तदा काले जायते वृष्टिरुत्तमा ॥३०॥ जलयोगे समायाते तदा चन्द्रसितौ ग्रहो। कुरेर्दृष्टौ युतौ वाऽपि तदा मेत्रोऽल्पवृष्टिदः ॥३१॥ उदयास्तमये मार्गे वक्रे युक्तौ च (क्ताश्च) संक्रमे।जलनाडीगताः खेटा महावृष्टिप्रदा मताः ॥३२॥

इति सप्तनाडीचक्रम्।
—————————

अथ सस्योत्पत्तिविचारः।

वृश्चिकवृशप्रवेशेभानोर्यंवादरायणमोक्ताः। ग्रीष्मशरत्सस्यानां सदसद्योगाः कृतास्त इमे ॥१॥ भानोरलिप्रवेशे केन्द्रैस्तस्माच्छुभग्रहाक्रान्तैः। वलवद्भिः सौम्यर्वा निरीक्षितैर्ग्रैष्मिका वृद्धिः ॥२॥ अष्टमराशिगतेऽर्के गुरुशशिनोः कुम्भसिंहसंस्थितयोः। सिंहघटस्थितयोर्वा निष्पत्तिर्ग्रीष्मसस्पस्य ॥३॥ अर्कात्सिते द्वितीये बुधेऽथवा युगपदेव संस्थितयोः। व्ययगतयोर्वा तद्वन्निष्पत्तिरतीवगुरुदृरया ॥४॥ शुभमध्येऽलिनि सूर्याद्गुरुशशिनीः सप्तमे परा संपत्। अल्पादिस्थे सवितरि गुरौ द्वितीयेऽर्धनिष्पत्तिः ॥५॥ लाभहिव्रुकार्ययुक्तैः सूर्याद्लिगात्सितेन्दुशशिपुत्रैः।सस्यस्य परा संपत्कर्मणि जीवेऽथवा चाऽऽद्या ॥६॥

कुम्भे गुरुर्गावि शशी सूर्योऽलिमुखे कुजार्कजो मकरे। निम्पत्तिरास्ति महती पश्चत्परचक्ररोगभयम् ॥७॥ मध्ये पापग्रहयोः सूर्यः सत्यं विनाशयत्यलिगः। पापः सप्तमराशौ जातं जातं विनाशयति ॥ ८ ॥ अर्थस्थाने क्रूरः सौम्यैरनीक्षितः प्रथमजातम्। सस्यं निहन्ति पश्चादुप्तं निष्पादयेद्व्यक्तम् ॥ ९ ॥ जामित्रकेन्द्रसंस्थौक्रूरी सूर्यस्य वृश्चिकस्थस्य। सस्यविपत्तिं कुरुतः सौम्यैर्दृष्टो न सर्वत्र ॥ १० ॥ वृश्चिकसंस्थादर्कात्सप्तमषष्ठापगौयदा क्रूरौ। भवति तदा निष्पत्तिः सस्यानामर्घपरिहानिः ॥ ११ ॥ विधिनाऽनेनैव रविर्वृषप्रवेशे शरत्समुत्थानाम्। विज्ञेयः सस्यानां नाशाय शिवाय वा तज्ज्ञैः ॥१२॥ त्रिषु मेषादिषु सूर्यः सौम्ययुतो वीक्षितोऽजपे वा विचरन्। ग्रैष्मिकसस्यं कुरुते समर्थमुभयोपयोगं च ॥१३॥ कार्मुकमृगघटसंस्थः शारदसस्यस्य तद्देव रविः। संग्रहकाले ज्ञेयो विपर्ययः क्रूरदृग्योगात् ॥ १४ ॥

**इति सस्योत्पत्तिविचारः। **

इति शूरमहाठश्रीशिवराजविनिर्मिते। ज्योतिर्निबन्धसर्वस्वे

शान्त्युत्पाताः समीरिताः ॥
—————————

अथ जानकाध्यायः।

तत्र राशिभेदाः।

अधानुभवसंसिद्धं कथ्यते जन्मजं फलम्। गर्गानुकृतशास्त्रानुसारं प्रीतिकरं विदाम् ॥ १ ॥ होरामकरन्दे— निजानि भाग्यान्यवगन्तुमुच्चैरापत्पयोराशिमपि प्रतर्तुम्। द्रव्यं तथोपार्जयितुं जनानां होरां विना नान्य इहास्न्युपायः ॥ २ ॥ वर्णावली या लिखिता विधात्रा ललाटपट्टे भुवि मानवानाम्। होरादृशा निर्मलया यथावत्तां देवविद्वाचयतीह नान्यः ॥ ३ ॥ यद्न्यजन्मन्यशुभं शुभं वा कर्मार्जितं तस्य विषक्तिमेतत्। व्यनक्ति शास्त्रं हि दशाक्रमेण घटादिजातं तमसीव दीपः ॥ ४ ॥ लघुजातके— यदुपचितमन्यजन्मनि शुभाशुभं तस्य कर्मणः प्राप्तिम्। व्यञ्जयति शास्त्रमेतत्तमसि द्रव्याणि दीप इव ॥ ५ ॥ यवनजातके— या पूर्वकर्मप्रभवस्य धात्री घात्रा ललादे लिखिता प्रशस्तिः। तांशास्त्रमेतत्प्रकटी विधत्ते दीपो यथा वस्तु घनेऽन्धकारे ॥ ६ ॥ बृहज्जातके मत्स्यो घटी नृयुगलं सगदं सवीणं चापी नरोऽश्वजनो मकरो मृगास्यः। तौली च सस्पदहना प्लवगा च कन्या शेषाः स्त्रनामसदृशाः समसंचराः स्युः ॥ ७ ॥ लघुजातके— अरुणसितहरितपाटलपाण्डुविचित्राः सितेतरपिशङ्गौ। पिङ्गलकर्वुरबभ्रुकमलिना रुचयो यथासंख्यम् ॥ ८ ॥ शीर्षमुखबाहुहृदयोदराणि कटिवस्तिगु-

ह्यसंज्ञानि। ऊरू जानू जङ्घेचरणाविति राशयोऽजाद्याः ॥ ९ ॥ पुंस्त्रीक्रूराक्रूरचरस्थिरद्विस्वभावसंज्ञाश्च। अजवृषमिथुनकुलीराः पञ्चमनवमैः सहेन्द्राद्याः ॥ १० ॥ चत्वारः सिंहतः कुम्भो युग्मं शीर्पोदया इमे। शेषाः पृष्ठोदया ज्ञेया मीन एवोभयोदयः ॥ ११ ॥ जातकाततिलके— निशावला गोजधनुर्मृगयुग्माख्यकर्किणः। त एव मिथुनं मुक्त्वा ग्रहाः पृष्ठोदयाभिधा॥ १२ ॥ मेषाद्याश्चत्वारः सवन्विमकराः क्षपावला ज्ञेयाः। पृष्ठोदया विमिथुनाः शिरसाऽन्ये शुभयतो मीनः ॥ १३ ॥ सिंहकन्यातुलाकुम्भवृश्चिका द्युबलाह्लयाः। शीर्षोदयाःसयुग्मास्ते मीन एवोभयोदयः ॥ १४ ॥ लघुजातके— अजवृषभमृगाङ्गनाककिंमीनवणिजौऽशकेष्विनाद्युच्चाः। दस १० शिख्य ३ षष्ठविंशति २८ तिथी १५ न्द्रिय ५ त्रिधन २७ विंशेषु २० ॥ १५ ॥ जातकोत्तते— उच्चनः सप्तमं नीचं प्रोक्तांशैः परनीचता। इह कार्यः सायनाशैः खेचरैः फलनिर्णयः ॥ १६ ॥ स्वामिनो मेषपूर्वाणां भौमः शुक्रो बुधः शशी। सूर्यो बुधः सितो भौमो गुरुर्मन्दः शनिर्गुरुः ॥ १७ ॥ सपञ्चनवमो मेषो मेषादिर्मकरस्तथा। नकादिः कर्कटायश्च कर्कितौली तुलादिकः ॥ १८ ॥ जातकतिलके— वृषकुम्भालिसिंहाद्यावृषादिषु नवांशकाः। इत्येतन्मतमेवात्र प्रमाणं फलदर्शनात् ॥१९॥ नवांशराश्योरेकत्वे शुभो वर्गोत्तमाभिधः। तत्स्थो ग्रहो नरं कुर्यात्स्यफलेनतिविथुनम् ॥ २० ॥ स्वगृहोच्चत्रिकोणानामेकमे भागकल्पना। स्वबुद्धवा कैश्चिदुक्ताया न सा पूर्वर्पिभाषिता ॥ २१ ॥ गृहं होरात्रिभागश्च नवांशो द्वादशांशकः। त्रिंशांशश्चेति षड्वर्गः शुभः स्वस्य शुभस्य च ॥ २२ ॥ क्रुरमित्रभवो मध्यो मिश्रैर्मिश्रकलश्चतैः। सौम्यः स्वमित्रजः श्रेष्ठीरिपुक्रुरभवोऽशुभः ॥ २३ ॥ राश्यन्तपरमोच्चत्रं प्रोचुर्ग्रहविदस्तथा। दिग्भाग्निपिण्डतिथ्यर्क्षनवांशैःपरमोच्चता ॥ २४ ॥ जातकतिलके— कर्मलाभारिदुश्वित्रया अत्रचौपचयाभिवाः। चतुर्थी दशमाश्वात्र चतुरस्राभिधीमतः ॥ २५ ॥ अष्टमे चतुरस्रत्वंयुक्तियुक्तं न दृश्यते। ताजिकेन तत्तश्चोक्ता दशमे चतुरस्रता ॥ २६ ॥ जामित्रंसप्तमं द्यूनंत्रिकोणं नवपञ्चकम्। दशमस्य तथा संज्ञा खाद्यमेपूरणास्पदाः॥ २७ ॥ व्ययस्य शुभारिम्फान्तास्त्रित्रिकोणं तपः शुभे। लग्नतुर्यास्तवं केन्द्रं कष्टकं च चतुष्टयम् ॥ २८ ॥ केन्द्रात्परं पणफरं तस्मादापोक्लितं मनम्। तेषु सेवाः फलं दधुः पूर्णाद्याङ्घ्रिफलं क्रमात् ॥ २९ ॥ लघुजातके— नृचतुष्पदकीटाप्या बलिनः प्राग्दक्षिणापरोत्तरगाः। रोध्याद्युगविवलिनःकीटा नृचतुष्पदाः साध्याः ॥ ३० ॥ अविप-

युतो दृष्टो वा वुघजीवनिरीक्षितश्चयो राशिः। स भवति बलवान्न यदा युक्तो दृष्टोऽपि वा शेषैः ॥ ३१ ॥ जातकतिलके— तनुर्धनं भ्रातृबन्धू पुत्रोऽरिः पत्न्यथो मृतिः। धर्मकर्मायव्ययाख्या भावाश्चिन्त्यास्तनोः क्रमात् ॥ ३२ ॥ कन्याद्या इह चत्वारो दीर्घा हस्वा झषादयः। कुलीरसिंहमकरकुम्भाः स्यू राशयः समाः ॥ ३३ ॥

इति राशिभेदाः।
———————

अथ ग्रहस्वरूपक्षेदाध्यायः।

कालात्माऽर्कोमनश्चन्द्रः सत्त्वं भौमो बुधो गिरः। जीवो ज्ञानं मुखंशुक्रो मदनो दुःखकर्मजः॥ १ ॥ आत्मादयो जन्मखगैर्वलिभिर्बलिनो नृणाम्। विवला विवलैस्तेषु शनिर्व्यस्तफलप्रदः॥ २ ॥ मधुपिङ्गलदृक् सूर्यो रक्तश्यामोऽल्पमूर्धजः। कौसुम्भवासाः पित्तास्थिसारः स्याच्चतुरस्रकः॥ ३ ॥ सुदृङ्मधुरवाक् प्रांशूरक्तसारः सिताम्बरः। गौरो वृत्तः कृशः प्राज्ञो बहुवातकफः शशी ॥ ४ ॥ पिङ्गाक्षस्तरुणो हिंस्रो रक्तगौरोऽरुणाम्बरः। हस्वस्वरोऽपटुर्मज्जापित्तसारः कुजश्चल ॥ ५ ॥ पालाशवासास्त्वक्सारः क्लिष्टवाग्बहुहास्यकृत्। दूर्वाश्यामस्त्रिदोषात्मा वृत्तोऽतिनिपुणो बुधः ॥ ६ ॥ मेदःसारो बृहत्कायः पिङ्गकेशेक्षणः सुधीः। क्षमी कफात्मा धर्मज्ञो गौरः पीताम्बरो गुरुः ॥ ७ ॥ शुक्रसारः सुखी कान्तः सुदृग्वातकफात्मकः। कुष्टलम्बासितकचः श्यामो रक्ताम्बरो भृगुः ॥ ८ ॥ दीर्घोऽनिलात्मा दुर्दन्तः स्नायुसारोऽलसः कृशः। रोमशो मलिनो मूर्खः शनिः कृष्णोऽसिताम्बरः ॥ ९ ॥ रूपाणि स्वगृहस्थानामेतान्यथ पुनश्च ते। मित्रस्वयुक्तराशीशवलानुगुणतद्गुणैः ॥ १० ॥ क्षीणेन्द्रर्कार्किभौमाःस्युः पापाः सौम्योऽपि तद्युतः। राहुकेतू पापतरौ पापः पापयुतस्तथा ॥ ११ ॥ रविशुक्रकुजा राहुशनिचन्द्रज्ञसूरयः। प्रागादीशा अथैतेषां तदाशाचारिणो गुहाः ॥ १२ ॥ जीवार्करा नरा ज्ञार्की क्लीवा चन्द्रसितैस्त्रियौ। सत्वं गुर्विन्दि्वनाः शुक्रज्ञौ रजोऽसृक्शनी तमः ॥ १३ ॥ लघुजातके– दशमतृतीये नवपञ्चमे चतुर्थाष्टमे कलत्रं च। पश्यन्ति पादवृद्ध्या फलानि चैवं प्रयच्छन्ति ॥ १४ ॥ ताजिके– तृतीयैकादशे तुर्यदशमे नवपञ्चमे। पादवृद्ध्या पिवन्त्येषु पूर्णं चाऽऽवर्यारसूरयः ॥ १५ ॥ युक्ताः परस्परं पूर्णं तद्वत्पश्यन्ति खेचराः। सर्वेऽपि सप्तमं चेति पूर्णदृक् ताजिकोदिता ॥१६॥ जीवो बुधैज्यौ शुक्रज्ञौव्यर्का व्यारा विविध्विना (?)। वीन्द्वनाराद्रनादीनां (?) मित्राण्यन्ये तु

शत्रवः ॥॥ १७ ॥ स्फुटो मित्रारिभावोऽयं सर्वैरुक्तो महर्षिभिः। नवो लोकप्रसिद्धस्तु न प्रत्यक्षफलो यतः ॥ १८ ॥ जातकतिलके— होराशास्त्रेषु सर्वेषु ज्ञसितर्क्षे गुरुः शुभः। जीवस्य ज्ञसितौ शत्रू यदि तद्युज्यते कथम् ॥ १९ ॥ अशुभो ज्ञो रविक्षेत्रे रविः क्लेशकरो ज्ञभे। यदि मित्रगृहस्थौ स्तः कथमत्राशुभं फलम् ॥ २० ॥ इत्यादि बहुधा चैतद्युक्तियुक्तं न दृश्यते। अधिमित्रारियुक्तिश्च नैषापूर्वीपभाषिता ॥ २१ ॥ लघुजातके– बलवान्मित्रस्वगृहोच्चनवांशके(शे)प्वीक्षितः शुभैश्चापि। चन्द्रसितौ स्त्रीक्षेत्रे पुरुषक्षेत्रोपगाः शेषाः ॥ २२ ॥ अहनि सितार्कसुरेज्या द्युनिशं ज्ञो नक्तमिन्दुकुजसौराः। स्वदिनादिष्वशुभशुभा बहुलेतरपक्षयोर्वलिनः ॥ २३ ॥ प्राच्याद्या जीवबुधौ सूर्यारौ भास्करिः शशाङ्कसितौ। उदगपने शशिसूर्यौ वक्रेऽन्ये स्निग्धविपुलाश्च॥ २४ ॥ मन्दारसौम्यवाक्पतिसितचन्द्रार्का यथोत्तरं वालिनः। नैसर्गिकवलमेतलसा- -म्येऽस्मादधिकचिन्ता ॥ २५ ॥ जातकतिलके— युक्तो दृष्टोऽशुभैः खेटो वली मित्रैश्चतैः परम्। पापेः क्लेशकरस्तैस्तु मित्रैः स क्लेशदैन्यकृत् ॥२६॥ चन्द्रेण संयुताः सर्वे सर्वत्रैव वलोत्कटाः। भार्धान्तरस्था अवलाःक्रमात्पापैर्युताः समाः॥२७ ॥ अर्केणास्तंगतास्तद्वत्तेन ‘मुक्ताः क्रमाच्छुभाः। सौम्याः पापोज्झिताश्चैवं सौम्य- -योगेशुभं भवेत् ॥ २८ ॥

इति ग्रहस्वरूपभेदाध्यायः।
——————————

अथाऽऽधानचिन्ता।

चन्द्रे251 तूपचयर्क्षस्थे स्त्रीणां कुजनिरीक्षिते। यद्रजो दृश्यते तत्स्याद्गर्भग्रहणयोग्यकम् ॥ १ ॥ पुंसामुपचयस्थोऽब्जोगुरुणा यदि दृश्यते। स्त्रीपुंसीश्च तदा योगं चन्द्रे नैवान्यथा तयोः ॥ २ ॥ शुक्रार्कौबलिनौस्त्रांशे पुंसामुपचयस्थितौ। यदा स्त्रीणां कुजेन्दू वा तदा स्माद्गर्भसंभवः ॥ ३ ॥ बराहः— आधानेऽस्तगृहं यत्तच्छीलो मैथुने पुमान्भवति। स्त्रावासमसद्युतवीक्षितं विदग्धं शुभैरस्तम् ॥ ४ ॥ जातकतिलके—शुक्रार्कभौमशनिभिः स्वांशोपचयगैस्तथा। त्रिकोणपालग्नगे वेज्ये सबले गर्भसंभवः ॥ ५ ॥ स्त्रीपुंसोस्तु मनोभावो यथा गर्भस्तथा रते। पुंसोऽर्काद्रोगदौ द्यूने मन्दारौ चेन्दुतः स्त्रियाः॥ ६ ॥ मन्दारमध्यगे सूर्ये पुंसो मृत्युर्विधौ स्त्रियाः। मन्देनाऽऽरेण चाब्जेऽर्के दृष्टे युक्तेमृतिस्तयोः ॥ ७ ॥ शनीन्दूपितृमात्राख्यौ निश्यद्निरविभार्गवौ। ओजयुग्मर्क्षगौस्वर्क्षस्थितौच

शुभदौ तयोः ॥ ८ ॥ होरामकरन्दै— क्रूरान्तरस्थौ युगपत्पृथग्वा विलग्नचन्द्रौ भवतो निषेके। शुभग्रहालोकनवर्जितौचेत्तदा सगर्भैव विपद्यते स्त्री ॥ ९ ॥ इन्दुतो यदि बिलग्नतोऽथवा बन्धुगैरशुभदैः कुजेऽष्टमे। बन्धुरिष्फगतयोः कुजार्कयोः स्यात्कृशे शशिनि पूर्ववन्मृतिः ॥ १० ॥ गर्गः—शनियुक्तेक्षितः शुक्रः पञ्चमस्थो निशाकरात्। सपापः कर्मगो वाऽर्कोभवेन्मातुरनिष्टदः ॥ ११ ॥ चन्द्रास्त्तिकोणगो मन्दः कुर्यान्मातृवधं निशि। भृगुपुत्रात्तथैवाऽऽरो दिवसे पापवीक्षितः ॥ १२ ॥ मृगाङ्कजातके— क्षीणऽब्जे पापसंयुक्ते मातुर्मृत्युरिने पितुः। पापैदृष्टे भवेद्व्याधिर्मिश्रैर्मिश्रं शुभैः शुभम् ॥ १३ ॥ गर्गः— क्लेशो मातुः सुखास्तस्थैः पापैर्वा चन्द्रसंयुतैः। मरणं जायते क्रूरैः शशाङ्कात्सप्तमस्थितैः ॥ १४ ॥ होराप्रदीपे— सूर्यात्सप्तमराशौ यदि युक्तो सूर्यलोहितौ प्रसवे। सोम्यैर्दृष्टौनिधनं कुर्यातां सद्य एव पितुः ॥ १५ ॥ चन्द्रादष्टमराशौ नवमे वा सप्तमेऽपि वा पापाः। सर्वेऽन्यतमेहन्युर्वाल जातं सह जनन्या ॥ १६ ॥ बादरायणजातके—रुधिरसहितस्तु सौरश्चरभवने रात्रिजन्मनि नरस्य। कथयति पितरमवीत परदेशे नात्र संदेहः ॥ १७ ॥ यत्रस्थस्तत्र स्यात्स्वपुत्ररुधिराङ्गसंयुतः सूर्यः। प्राग्जन्मनो निवृत्तं कथयति पितरं प्रसूतस्य ॥ १८ ॥ होराप्रदीपे—जन्माष्टषष्ठकामद्वादशभवनस्थितेषु पापेषु। माता सुतेन सार्धं म्रियते नैवात्र संदेहः ॥ १९ ॥ बादरायणः—जीवति मातरिम्रियते सूनुः षष्ठान्त्यगेषु पापेषु। जन्माष्टसप्तमेषुजीवति सूनों म्रियेत तन्माता ॥ २०॥ होरामकरन्दे— स्मरतनुगतयोर्दिनकरकुजयोः। भवति हि निधनं प्रहरणजनितम् ॥ २१ ॥ जातकतिलके—कललाण्डकशाखा- -स्थित्वग्रोमोद्गमचेतनाः। क्षुत्तृपा चाष्टमे मासि निर्गमोद्वेगितागमः ॥२२॥ शुक्रारेज्यार्किसोमार्कज्ञलग्नेशेन्द्विनाःक्रमात्। मासेशा बलवत्खेटाः स रजोदोहृदः स्त्रियाः ॥ २३ ॥ होरामकारन्दे—विक्रमशालिनि मासपतौस्याद्गर्भविवृद्धिरथोच्चगते वा नीचगते कलुषेऽस्तगते वा पापयुते खलु गर्भनिपातः ॥२४॥ जातकोत्तमे— प्राग्लग्नस्थौ मन्दभौमौनिषेके नारीगर्भस्रावहेतु भवेताम्। तत्संदृष्टे तद्गृहस्थे हिमांशौयद्वा स्त्रीणां जायते गर्भपातः ॥ २५ ॥ जातकतिलके—ओजर्क्षेविषर्माशस्यैर्लेग्नेज्यार्केन्दुभिः पुमान्। समे समांशकैःस्त्री स्यादाघाने प्रसवेऽपि वा ॥ २६ ॥ गुर्ववोजमांशस्थौ गुर्वर्कौ पुंजनुःकरौ। शुक्रेन्द्वाराःसमर्क्षांशे बलिनः स्त्रीजनुःकराः ॥ २७ ॥ गुर्वर्कावोजमांशके वुधदृष्टयोः। पुंद्वयं स्यात्सिताराब्जैस्तद्वत्स्त्रीझपगैः स्त्रियौ ॥ २८ ॥ लग्नं विनौजभांवस्थे मन्दे पुंजन्म जायते। बली वा नृखगः केन्द्रे नृदृष्टश्चावलोऽन्यथा ॥ २९ ॥ ओजेऽब्ज-

लग्नेऽसृग्दृष्टे चन्द्रज्ञौ वा समौजगौ। ओजांशे शुक्रलग्नार्काःक्लीवजन्मकरास्तथा ॥ ३० ॥ समौजभस्थौ लग्नार्कावन्योन्यं यदि पश्यतः। ज्ञार्कीचा रविभौमौ वा तद्वत्क्लीवकरौमतौ ॥ ३१ ॥ लग्ने धन्वंशके दृष्टे बलिना ज्ञेन वाऽर्किणा। सर्वैर्धन्वंशगैः खेटैगंर्भरु्याधिकजन्तुकः॥ ३२ ॥ जातकोत्तमे—भौमदृक्काणगे चन्द्रे सौम्यैरायधनस्थितैः। सूर्यस्तद्वेष्टितस्तद्वत्पापलग्ने विनिर्दिशेत् ॥ ३३ ॥ अशुभैर्द्वादशर्क्षस्थैःशुभदृष्टिविवर्जितैः। आधानलग्नेमरणं योषितः प्रवदेद्बुधः ॥ ३४ ॥

इत्याधानचिन्ता।
———————

अथ जन्माध्यायः।

आधानकालविज्ञाने योगानुक्तान्विचिन्तयेत्। प्रश्नतः सूतिकालाद्वा युक्त्या तत्फलसंविदः ॥ १ ॥ होरामकरन्दे–निषेकतो द्यूनगृहं स्वभं वा जन्मर्क्षमेतन्न मतं बहूनाम्। द्विपट्कभागे शशभृद्धि यस्मिंस्तस्मिन्प्रसूतिः पुरतो मृगाङ्गे ॥ २ ॥ प्रश्ने यद्धे शशी तस्मात्पञ्चमं जन्मभं वदेत्। इत्याह भगवान्गर्गः सप्तमं वादरायणः ॥ ३ ॥ तत्काले चन्द्रमा यस्मिन्द्वादशांशे व्ययस्थितः। पुरस्ताद्राशिगे चन्द्रे प्रसवं तस्य निर्दिशेत् ॥ ४ ॥ जातकोत्तमे– गर्भाधाने चरे भानौ दशमे मासि सूयते। स्थिरे चैकादशे मासि द्वादशे द्विस्वभावगे ॥ ५ ॥ आधाने प्रश्नकाले वा शन्द्यंशेसप्तमे शनौ। त्रिभिरब्दैःप्रसूतिः स्याच्चन्द्रे वास्तेऽर्कवत्सरैः ॥ ६ ॥ वृद्धयवनः— यो यस्य मासस्य भवेद्धि नाथः संयोगमेतं तु यदा प्रयाति। अर्वाग्विधाने स तदाऽस्य जन्म वीर्येण हीनो यदि वाऽऽत्मजैन ॥७॥ गर्गः– बलहीनैर्ग्रहैः सर्वैर्नवपञ्चमगे बुधे। द्विगुणाङ्घ्रिशिरोहस्तो भवत्येकोदरस्तथा ॥ ८ ॥ चतुष्पदर्क्षगे सूर्ये द्विस्वभावर्क्षगैः परैः। सवलैर्यमलौ स्यातामेककोशाभिवेष्टितौ ॥ ९ ॥ यवनजातके–शनैश्चरे मूर्तिगते शशाङ्कजे व्ययस्थिते नीचगते प्रभाफरे। विलोमजन्म प्रवदन्ति भूमिजे सभार्गवे नालविवर्जिश्च ॥ १० ॥ होरामकरन्दे– सदन्तौ सौम्यभांशस्थौ कुरुतो मन्दभूमिजौ। कर्कलग्नेविधुः कुब्जंसूते मन्दारवीक्षितः ॥ ११ ॥ वराहः–कुलीरालिझपान्तस्थैःपापेश्चन्द्रे वृषोपगे। मूकः पापेक्षिते सौम्पर्दृष्टे गीःस्पाच्चिरेण तु ॥ १२ ॥ जातकतिलके– सिंहाजघनुरन्तस्थैःपापैर्दृष्टे वृषेविधौ। मूकः स्याच्छुभदृष्टे तु चिरेण लभते गिरम् ॥ १३ ॥ पापैः सिंहाजधन्वंशे जडरतल्लग्नगेविधौ। मीनलग्नेऽर्कमन्दारैर्दृष्टैः पद्गुःशुभैर्विना ॥ १४ ॥ मन्दन्द्विनेक्षिते लग्नेमृगङ्केवामनो।

भवेत्। धीधर्मलग्नदृक्काणैःसपापैरभुजाङ्घ्रिकः ॥ १५ ॥ सिंहलग्नस्थितार्केन्दोः कुजसूर्यजदृष्टयोः। अन्धः शुभाशुभैर्दृष्टोतौ चेद्वुद्वुलोचनः॥ १६ ॥ व्ययेऽब्जेवामनेत्रोनो दक्षिणाक्षिवियुग्रवौ। पापैः स्यरशुभा योगाः शुभाः शुभखगेक्षणात् ॥ १७ ॥

इति जन्माध्यायः।
———————

अथ सूतिकाध्यायः।

जातकतिलके— शीर्षोदये जन्मलग्नेमूर्ध्नोत्तानः प्रसूयते। पृष्ठोदयेऽन्यथाऽङ्घ्रिभ्यां हस्ताभ्यामुभयोदये ॥ १ ॥ वक्रिते लग्नभांशेंऽशे लग्नस्थे विग्रहो भवेत्। सक्लेशं व्यस्तगं जन्म शुभदृष्टे तनौसुखम् ॥ २ ॥ चन्द्रो नावेक्षते लग्नं परोक्षः स्थात्पिता जनौ252। खाद्धष्टे चरमे सूर्ये तस्मिल्लग्नेविदेशगः ॥ ३ ॥ लग्ने मन्दे कुजेऽस्ते वा चन्द्रे वा ज्ञसितान्तरे। परोक्षस्य पितुर्जन्म सम्यग्योगेऽन्यथान्तरे ॥ ४ ॥ सारावल्यां— द्युनिशोरर्कसितयोः कुजेन संदृष्टयोः पितुरभावः। चरराशौ परदेशे युक्तेक्षितयोस्तु तत्र मृतः ॥ ५ ॥ जातकतिलके—सिंहगोजतनौ253सौरः सार्को वा नालवेष्टितः। लग्मांशलक्षितेऽङ्गे स्यात्कालपूरुपपाठतः254 ॥ ६ ॥ यदि क्रूरक्षगौपापौसूर्याद्धर्मसुतास्तगौ। वद्धः स्थिरादिभस्थेऽर्केपिता स्वविपयादिषु ॥ ७ ॥ सारावल्यां—कुजसौरयोस्त्रिकोणे चन्द्रेऽस्तगते विसृज्यते मात्रा। दृष्टे सुरेन्द्रगुरुणा सुखान्विते दीर्घजीवी च ॥ ८ ॥ म्रियते पापैष्टे शशिनि बिलग्ने कुजेऽस्तगे युक्तः। लग्नास्तलाभगतयोर्वसुधासुतमन्दयोरेवम् ॥ ९ ॥ जातकतिलके— क्रूरैः सुखास्तगैर्मातुःक्लेशः स्यादिन्दुसंयुतैः। चन्द्रात्सुखास्तगैःक्रूरैः क्लेशःक्षीणात्तथा मृतिः ॥ १० ॥ वृहज्जातके— न लग्रमिन्दुं च गुरुर्निरीक्षते न वा शशाङ्कं रविणा समागतम्। सपापकोऽर्केण युतोऽथवा शशी परेण जातं प्रवदन्ति निश्चयात् ॥ ११ ॥ जातकोत्तमे— गुरुद्दष्टे तनौवाऽब्जे गुरुवर्गोज्झितेऽपि वा। सपापार्कयुते वेन्दौजारजातः प्रसूयते ॥ १२ ॥ गर्गः— गुरुक्षेत्रगते चन्द्रे तद्युक्तेवाऽन्यराशिगे। तद्दृक्काणेतदंशे वा न परैर्जातमादिशेत् ॥ १३ ॥ लघुजातके— अदृढं नवमथ दग्धं चित्रं सुदृढं मनोरमं जीर्णम्। गृहमर्काद्यैर्वीयात्प्रतिवेश्मनि संनिकृष्टैश्च॥ १४ ॥ गुरुरुच्चेदशमस्थो द्वित्रिभूमिकं करोति गृहम्। धनुषि सबले त्रिशालं द्विशालमन्येषु यमलेषु ॥ १५ ॥ बृहज्जातके–मन्दर्क्षाशेशशिनि हिव्रुकेमन्ददृष्टेऽब्जगे वा तद्युक्ते वा तमसि शयनं नीचसंस्थैश्चभूमौ ॥ १६ ॥

यद्वद्राशिर्व्रजतिहरिजं गर्भमोक्षश्चतद्वत्पापैश्चन्द्रात्स्मरसुखगतैः क्लेशमाहुर्जनन्याः ॥ १७ ॥ होराप्रकाशे—जीवो यदा बन्धुगतः स्वभागेगो नभस्थलस्थो भृगुनन्दनस्तथा। चन्द्रोऽस्तगो मूर्तिगतः शनैश्चरस्तदा वृतं वस्त्रवरैस्तु मन्दिरम् ॥ १८ ॥ लघुजातके– द्वारवास्तुनि केन्द्रोपगाद्ग्रहादसति वा विलग्नर्क्षात्। दीपोऽर्कादुदयाद्वर्तिरिन्दुतः स्नेहनिर्देशः ॥ १९ ॥ गर्गः– कुजदृष्टे वलिन्यर्केदीपाः स्युर्ब्रहवो जनौ। सवलैर्व्ययगैरन्यैर्ग्रहैर्ज्योतिस्तृणैर्भवेत् ॥ २० ॥ जातकतिलके– लग्नोक्तदिशि खट्वायाः शिरोङ्गानि धिया ततः। लग्नं पश्यन्ति ये खेटास्तद्वस्त्रास्तरणं व्रजेत् ॥ २१ ॥ लघुजातके– पट्त्रिनवान्त्याः पादाः खट्वाङ्गान्यन्तरालभवनानि। जनितत्त्वं यमलर्क्षे क्रूरैस्ततुल्य उपधातः ॥ २२ ॥ लग्नाब्जान्तर्गतैः खेटैस्तुल्याः स्युरूपसूतिकाः। दृश्यचक्रार्धगैर्वाह्या गृहान्तरथा अदृश्यमैः ॥ २३ ॥ शुभैस्तैः सूतिका रम्याः क्रूरै रूपादिनाऽन्यथा। तत्तद्ग्रहबलोत्कर्षप्रभावा बहवः स्मृताः ॥ २४ ॥ लघुजातके– अर्कादिनाम्रमणिंहेमशुक्तिरजतादि मौक्तिकं लोहम्। वक्तव्यं वलवद्भिः स्वस्थाने हेम जीवेऽपि ॥ २५ ॥ जातकसारे– दीपाम्व्वग्न्यन्नभूपादि- -शय्यावस्करवालकम्। सूतिकास्थानमर्कादिदिग्भागे कथयेज्जनैः ॥ २६ ॥ रिक्तं भाण्डं सपापेऽब्जेमौक्तिकादिकम्। ताम्बूलादि सिते जीवे दैवे शास्त्रं वदेदगौ ॥ २७ ॥ भर्तृपित्रादिखेटेषुयो वली तद्गृहे जनिः। एकर्क्षगैर्न दृष्टौ चेल्लग्नेन्दू विजने तदा ॥ २८ ॥ जातकतिलके– लग्नायनवमांशेऽशो यादृग्वा सवलो ग्रहः। तद्वन्मूर्तिर्भवेद्वर्णश्चन्द्र- -युक्तांशनाथवत् ॥ २९ ॥॥ त्रिंशांशे यस्य भानुः स्यात्तद्वत्सत्त्वादिभिर्युतः। ससतारसरातायाः(?) स्मृताः सूर्यादितो गुणाः ॥ २९ ॥ क्रूरसौम्ययुतर्क्षाङ्गं कालपूरूषवत्कृशम्। सवलेऽर्के समः पित्रा जननीसदृशो विधौ ॥ ३१ ॥ जातकोत्तमे–अत्रजातिं कुलं देशं वुद्ध्वा वर्णादिकं वदेत्। दृश्यो भागोऽत्र चामाङ्गमदृश्यो विद्धि दक्षिणम् ॥ ३२ ॥

इति सूतिकाध्यायः।
—————————

अथ व्रणादिज्ञानम्।

बृहज्जातके– के दृक्श्रोवनसाकपोलहनवो वस्त्रं च होरादयस्तै कण्ठांसकबाहुपार्श्वहृदयं क्रोडं च नाभिस्ततः। वस्तिः शिश्रगुदे ततश्चवृषणावूरू ततो जानुनी जङ्वाङ्घ्रीत्युभयतवाममुदितैर्दृक्काणभागैस्त्रिधा ॥ १ ॥ तस्मिन्यापयुतेव्रणः

शुभयुते दृष्टे च लक्ष्माऽऽदिशेत्स्वर्क्षांशस्थिरसंयुते तु सहजः स्यादन्यथाऽऽगन्तुकः255। मन्देऽश्यानिलजोऽग्निशस्त्रविषजो भौमे ज्ञपापे कुजः सूर्ये काष्टचतुष्पदादणुविधौशृङ्ग्यब्जजोऽन्यैः शुभम् ॥ २ ॥ जातकतिलके– यदा ज्ञाद्यास्त्रयः खेटाःशुभा क्रूराश्चतेष्वपि। यो चली स्वदशायां सतिष्ठेत्यापो व्रणादिकृत् ॥३ ॥ लग्नात्पष्ठो व्रणस्तद्वद्व्रणकृच्चाथ पष्ठकम्। कालाङ्गरीत्या यत्राङ्गेतत्र वा तद्विधो व्रणः ॥ ४ ॥ शुभदृष्टस्तु पष्ठोऽसौ कुर्याद्वा तिलकं मशम्। लक्ष्मकृच्छुभयुक्तश्चेच्छुभाश्चप्यत्र दुष्फलाः ॥ ५ ॥ कालपूरुषतुल्येऽङ्गे यत्र स्पातां च संगतौ। चन्द्रार्कौतत्र लक्ष्मापि मशकाद्यमिहाऽऽदिशेत् ॥ ६ ॥

इति व्रणादिज्ञानम्।
————————

अथानिष्टाध्यायः।

होरामकरन्दे– वंशोत्सादकरः शशाङ्कभृगुजः क्रूरैः स्वसप्ताम्बुणैः शिल्पी केन्द्रगतार्किणा बुधयुतस्त्र्यंशे तनौ वीक्षिते। अन्त्ये देवगुरौ दिनेश्वरसुतस्यांशे च दासीसुतो नीचः कामगयोः खरांशुशशिनोःसौरेण संदृष्टयोः ॥ १ ॥ साराघल्याम्–उदये दिनकरपुत्रे मन्दे त्रिकोणे कुजे च सोन्प्रादः। क्षीणे शशिनि ससौरे जीवे वा व्ययगृहे जातः ॥ २ ॥ जातकतिलके– चन्द्रेऽलिकर्कटांशस्थे सपापे गुह्यरुग्भवेत्। हीनाङ्गो वेशिगे मन्दे कर्मगेऽब्जेकुजेऽस्तगे ॥ ३ ॥ मन्दारयुतदृष्टेऽब्जेचापमध्यनवांशगे। मृगवीनाजकवर्यंशे स्थिते वा कुष्ठनान्भवेत् ॥ ४॥ गर्गः–क्रूरयुक्तेक्षितो लग्नात्पञ्चमो नमोऽथवा। गोकर्क्यलिमृगाख्यश्चेद्राशिः स्यात्कुष्ठवास्तदा ॥ ५ ॥ जातकतिलके– पापयोर्मध्यगे चन्द्रे रवौमकरराशिगे। श्वासगुल्मक्षयप्लीहविद्रधिव्याधिपीडितः॥ ६ ॥ अन्योन्यक्षेत्रगौस्यातामथवा भवनांशगौ। चन्द्रार्कौचेता जातः क्षयरोगी भवेन्नरः ॥ ७ ॥ व्ययारिधनमृत्युस्थाःस्वेच्छयाऽऽर्किकुजेन्द्विनाः। अन्धं कुर्युर्वली तेषु यस्तत्प्रकृतिदोषतः ॥ ८ ॥ धीधर्मायतृतीयस्थाः पापाः सौम्यारवीक्षिताः। कर्णघातकरास्तेतु द्यूनस्था दन्तदूषिणः ॥ ९ ॥ सारावल्यांमध्ये पापग्रहयोश्चन्द्रे मदनस्थितेऽर्कजे जन्तोः। श्वासक्षयविद्रधिना गुल्मप्लीहादिपाडितस्य भवः ॥ १० ॥ बृहज्जातके–उदयत्युदुपेऽसुरास्यगे स पिशाचोऽशुभयोस्त्रिकोणयोः। सोपप्लवमण्डले रवौ चेदुदयस्थे नयनापवर्जितः ॥ ११ ॥ होरामकरन्दे– मन्दारवर्गे भृगुजेऽस्तसंस्थे कुजार्किदृष्टेपरदारगः स्यात्। तथैव सेन्टू कुजसूर्यजौचेज्जा-

यापती तौ कुलटौ भवेताम् ॥ १२ ॥ बृहस्पतिः– पञ्चमे नवमे द्यूने समेतौ सितभास्करौ। यस्य स्यातां भवेद्भार्या तस्यैकाङ्गविवर्जिता ॥ १३ ॥ वराहः–लग्नाद्व्ययारिगतयोः शशितिग्मरश्म्योः पत्न्या सहैकनयनस्य वदन्ति जन्म। द्यूनस्थयोर्नवमपञ्चमसंस्थयोर्वा शुक्रार्कयोर्विकलदारमुशन्ति जातम् ॥ १४ ॥ सारावल्याम्– भौमे कलत्रसंस्थे नित्यं वियुतो भवेत्स्त्रिया पुरुषः। म्रियते वा शनिदृष्टे योषिदवश्यं न दृष्टेऽन्यैः ॥ १५ ॥ लग्नस्थे रवितनये गण्डान्ते भार्गवे कलत्रस्थे। बन्ध्यापतिस्तथा स्याद्यदि न सुतर्क्षं शुभैर्दष्टम् ॥ १६ ॥ बादरायणः– व्ययरन्ध्रलग्नसंस्थैः क्रूरैः क्षीणे क्षपाकरे धीस्थे। स्त्रीहीनो भवति नरः पुत्रैश्च विवर्जितो नूनम् ॥ १७ ॥ जातकतिलके– पातकी स्याद्विलनस्थे गुरौद्यूनगते शनौ। सोन्मादो लग्नगे जीवेद्यूनस्थे भूसुते भवेत् ॥ १८ ॥ पापैर्दृष्टे गोजचापे लग्ने विकृतदन्तवान्। चापे गव्यशुभर्क्षे वाखल्वाटः पापवीक्षिते ॥ १९ ॥ धीधर्मगे रवौ पापदृष्टे स्याददृढेक्षणः। तद्वच्छनौ बहुव्याधिर्हीनाङ्गस्तु कुजे भवेत् ॥ २० ॥ व्ययपुत्रार्थधर्मस्थैः पापैर्वन्धनभाग्भवेत्। धनुर्वृपाजलग्नेतु वन्धनं तच्च रज्जुजम् ॥ २१ ॥ युग्मकन्यातुलाकुम्भे लग्नस्थे निगडोद्भवम्। कर्किसिंहझपे दुर्गे रोधः स्याद्भूगृहेऽलिनि ॥ २२ ॥ मन्दार्कारैः शुभादृष्टैःकर्कस्थैर्भृतको भवेत्। ग्रहेणैकेन स श्रेष्ठो द्वाभ्यां मध्योऽषमस्त्रिभिः ॥ २३ ॥

इत्यनिष्टाध्यायः।

अथारिष्टाध्यायः।

जातकतिलके–पापेक्षिते शुभैर्दृष्टे पापभांशगते विधौ। रन्धारिगे मृतिः सद्यः शुभदृष्टे समाष्टकृत् ॥ १ ॥ शुभपापेक्षित तस्मिन्मृतिर्वर्षचतुष्टयात्। एवं शुभाशुभर्क्षंशेतद्दृष्टे चानुपाततः ॥ २ ॥ सद्भे पापेक्षिते मासाच्चन्द्रे रन्ध्रारिगे मृतिः। शुभे तद्वच्छुभैर्दृष्टे वक्रिपापेक्षितेऽथवा ॥ ३ ॥ होरामकरन्दे– निधनरिपुगृहस्थः पापदृष्टः शशाङ्को झदिति निधनकारी सौम्यदृष्टोऽष्टवर्षात्। अशुभशुभसमानालोकनीब्दैश्चतुर्भिर्भवति खलु विमिश्रश्चानुपातो विधेयः ॥ ४ ॥ षष्टाष्टमगताः सौम्याः क्रूरैर्वक्रिभिरीक्षिताः। शुभदृष्टिविहीनास्ते मासेनान्तफराः स्मृताः ॥५॥ होराप्रदीपे–वर्षादयनान्मासात्सद्योऽब्जोऽष्टारिगो मृर्तिःकुर्यात्। एकादिपादवृद्ध्या दृष्टः पापैःक्रमाद्रलिभिः ॥ ६ ॥ संध्यायां भान्तगैःक्रूरैर्होरायां शशिनो मृतिः। चन्द्रे केन्द्रेऽन्यकेन्द्रेषु सपापेषु तथा शिशोः ॥ ७ ॥ होरामकरन्दे–त्रिकोणरन्ध्रास्ततनुव्ययेषु चन्द्रे सपापेम्रियते मनः। वीर्यान्वितैर्जीवबुधास्कु-

जिद्भिर्नाऽऽलोकितश्चेन्नयुतोऽथवा स्यात् ॥८ ॥ सारावल्यां– क्षीणशरीरश्चन्द्रो लग्नस्थः क्रूरवीक्षितः कुरुते। स्वर्गगमनं हि पुंसां कुलीरगोजान्परित्यज्य ॥ ९ ॥ होराप्रदीपे– अस्ते विधौ सपापे लग्ने रन्ध्रे कुजेऽत्र जातस्य। मात्रा सदैव मरणं तद्वत्सूर्येण शस्त्रेण ॥ १० ॥ बादरामणः– लग्ने वा चन्द्रे वा पापा बलिनस्त्रिकोणरन्ध्रेषु। सौम्यैरमिश्रदृष्टाः सद्योमरणाय निर्दिष्टाः ॥ ११ ॥ सारावल्यां– द्युनगतेऽर्के लग्ने यमे कुजे वा विपर्यये वाऽपि। अन्यतरेण युतेऽब्जे शुभैरदृष्टे शिशुर्म्रियते ॥ १२ ॥ होरामकरन्दे–क्रूराश्चक्रस्य पूर्वार्धे पश्चार्धे च शुभग्रहाः। प्रसूतिर्निधनायैव कुलीरालिसमुद्गमे ॥ १३ ॥ जातकतिलके–क्षीणचन्द्रे व्ययगते पापैस्तनुमृतिस्थितैः। केन्द्रवाह्यैःशुभैर्मृत्युलग्नेऽब्जे वाऽस्तगैःशुभैः ॥ १४ ॥ केन्द्रमृत्युगतैः पापैः क्षीणेऽब्जे लग्नगेमृतिः। सुखास्ताष्टगते वाऽब्जे क्रूरान्तस्थेऽथवा भवेत् ॥ १५ ॥ चन्द्रे लग्नपतौ वाऽपिविवले क्रूरसंयुते। क्रूरेक्षिते शुभैदृष्टेतद्वत्क्रूरेक्षिते मृतिः ॥ १६ ॥ बक्री शनिः कुजर्क्षस्थःकेन्द्रादिनिधनस्थितः। कुजेन बलिना दृष्टो यदि वर्षद्वयान्मृतिः ॥ १७ ॥ जीवेऽष्टमे कुजर्क्षस्थे मन्दारेन्द्विनवीक्षिते। शुभदृष्टे मृतिस्त्र्यव्दैर्नवभिः सेन्द्विने शनौ ॥ १८ ॥ शत्रुभस्यैरिनार्क्यारैर्मासादष्टमगैर्मृतिः। ज्ञे वाऽरिभे चतुर्वर्षैररिदृष्टेऽरिरन्ध्रमे ॥ १९ ॥ रन्धारिव्ययगे शुक्रे सर्वपापेक्षितेऽरिभे। षड्भिरब्दैर्मृतिर्वर्षात्पापेचैवंविधेऽष्टमे ॥ २० ॥ मन्दोऽस्तगः कुजोऽम्बुस्थो मृणालितनुगः शशी। युक्तः सौम्येषु केन्द्रेषु मृत्युर्वारिष्फगैः शुभैः ॥ २१ ॥ होरामकरन्दे–क्रूरयुक्तस्तु होरेशः पञ्चतामेव यच्छति। मासेन जन्मपस्तद्वच्छिद्रे सौम्यैर्न वीक्षितः ॥ २२ ॥ गर्गः– रिपुव्ययगतैः पापैरथवा धनमृत्युगैः। लग्ने वा पापमध्यस्थे तद्वद् द्यूनेऽपिवा मृतिः ॥ २३ ॥ जातकतिलके–पापर्क्षगेऽर्केव्योमस्थे बहुपापेक्षिते मृतिः। यदृक्षे केतुरुदितस्तज्जो मासद्वयात्तथा ॥ २४ ॥ पाशाहिपक्षनिगडा दृक्काणा लग्नगा यदि। स्वक्रूरा स्वाधिपा दृष्टा मृत्युर्वर्षैस्तु सप्तभिः ॥ २५ ॥ रिष्फारिरन्धगैःसौम्यैः पापैः केन्द्रत्रिकोणगैः। सूर्योदये मृतिः सद्यो लग्नेऽब्जेवाऽस्तगैः शुभैः ॥ २६ ॥ चन्द्राधिष्ठितराशीशे लग्नेशे वाऽर्कसंयुते। रन्ध्रारिव्ययगे मृत्युवर्षैर्भप्रमितैःशिशोः॥ २७ ॥ सार्कारेऽब्जे शुभैर्दृष्टेनवमेऽब्जेसुतस्थिते। मृत्युर्वा सेन्द्वनेशुक्रे गुरुदृष्टपथातिगे ॥ २८ ॥ लग्नादर्काद्वियोः पापा बलिनोऽष्टत्रिकोणगाः। शुभैर्न युक्ता नो दृष्टाः सद्योमृत्युकराः शिशोः ॥ २९ ॥ जीवेन्द्विनज्ञैरेकस्थैःशुक्रार्केन्दुकुजैस्तथा। मन्देन्द्विनारैरथवा मृत्युर्वर्षैस्तु सप्तभिः ॥ ३० ॥ पापदृष्टःशनिर्लग्नेहन्ति षोडशभिर्दिनैः। मासेन पावसंयुक्तः केवलोऽब्देनचालकम् ॥ ३१ ॥ सेन्ब्दनो ज्ञः शुभादृष्टो हन्त्येकादशहायनैः। पापयुक्तेक्षितश्चन्द्रो हन्त्य-

मायां समाद्वयात् ॥ ३२ ॥ लग्नान्मन्दाररविभिः शत्रुभे सप्तमे विधौ। क्षीणेन दृष्टे गुरुणा मृत्युर्वषैस्तु सप्तभिः ॥३३ ॥ मृगालिगोऽसितो ज्ञो वा सुखस्थोऽसृग्यमेक्षितः। मृत्युरन्ध्राधिपो वाऽस्ते क्षीणेऽब्जेपापलग्नगे॥ ३४ ॥ पापे लग्नाधिपेऽब्जांशेक्रूरैर्दृष्टे व्यये विधौ। मृत्यू राहौ तनौ दृश्यैः शुभैः पापैरदृश्यगैः॥ ३५ ॥ सुखेऽब्जे कर्मगैः पापैः खेऽब्जे वा सुखगैः खलैः शुभैरापोक्लिमैः केन्द्रैश्चन्द्रपापयुतैर्मृतिः ॥ ३६ ॥ होराप्रदीपे– मासैःषोडशभिर्हन्यात्स्वत्र्यंशे लग्नगोऽर्कजः। अब्दैर्द्वादशभिः पापैर्दृष्टो विगतरश्मिभिः ॥ ३७ ॥ मन्दो लग्ने स्वांशे यावति च प्रथमतः शुभायोगे। तावद्भिरेव वर्षैर्मृत्युकरो भवति जातस्य ॥ ३८ ॥ कर्मस्परजलतनुगाः क्रूराः सौम्यावलोकनवियुक्ताः। मासैर्द्वादशसंख्यैःकुर्वन्ति शिशुं विगतजीवम् ॥ ३९ ॥ सारावल्यां–राहुः सप्तमभवने शशिसूर्यनिरीक्षितो न शुभदृष्टः। दशभिर्द्वाभ्यां सहितैरब्दैर्जातं तु नाशयति ॥ ४० ॥ क्षीणं यदा शशाङ्कं पश्येद्राहुः समागतं क्रूरैः। मारयति तदा दिवसैर्निर्व्याजैः कतिपयैरेव ॥ ४१ ॥ राहुश्चतुष्टयस्थो मरणाय निरीक्षितो भवति पापैः। वर्षैर्वदन्ति दशभिः षोडशभिः केचिदाचार्याः ॥ ४२ ॥ होरामकरन्दे– आदावभ्युदितः केतुर्निर्घातोल्कानिला अनु। रौद्रे सार्पेमुहूर्ते वा जातो याति यमालयम् ॥ ४३ ॥ सारावल्यां– घटसिंहवृश्चिकोदयकृतस्थितिर्जीवितं हरति राहुः। पापैर्निरीक्ष्यमाण सप्तमितैर्निश्चितं वर्षैः॥ ४४ ॥ होरामकरन्दे–नागैर्नन्दैर्यमलनयनैःसमीरैः क्षोण्या वेदैर्दहननयनैर्नागचन्द्रः स्वदस्रैः। मेषादीनां शशिधरकरैर्जन्मकालेऽब्जयुक्तैर्भागर्दिग्भिर्भवति मरणं वत्सरैर्भागतुल्यैः ॥ ८। ९। २२। २२। ५। १। ४। २३। १८। २०। २१। १० ॥ ४५ ॥ यवनः–द्वादशस्थोयदा सौरिर्जन्मसंस्थश्चभूसुतः। चतुर्थःसैहिकेयश्चेदृश मासान्न जीवति ॥ ४६ ॥ द्वादशस्थोरविर्भौमस्तनुस्थौ शशिसूर्यजौ। सौम्यैर्न दृश्यते लग्नं स याति यममन्दिरम् ॥ ४७ ॥ षष्टेऽष्टमे तनौ वाऽपि भौमो बुधयुतो यदि। तस्करक्रूरकर्मत्वात्खञ्जपादं करोति वा ॥ ४८ ॥ लग्नभावे यदा राहुः केन्द्रे स्यादणुरत्रिजः। शिशोर्मृत्युर्भवेत्सद्यः क्रूरदृष्टो विशेषतः ॥ ४९। पातालस्थो यदा राहुश्चन्द्रः षष्ठोऽष्टमोऽपि वा। पापदृष्टो विशेषेण सद्यः प्राणहरः शिशोः॥ ५० ॥ जन्मलने यदा राहुः षष्ठो भवति चन्द्रमाः। जातो मृत्युमवाप्नोतिक्रूरदृष्ट्याऽपमत्युना ॥ ५१ ॥ शनिक्षेत्रे यदा भानुर्भानुक्षेत्रे यदा शनिः। बालो विंशतिमे वर्षे म्रियते दुष्टभावगौ ॥ ५२ ॥ षष्ठेऽष्टमेवा शीतांशुर्बुधयुक्तो यदा भवेत्। अश्वदोषाद्भवेन्मृत्युर्यद्वा व्याघ्रविदारणात् ॥ ५३ ॥ दशमार्किगृहे भानुर्मात्रा सार्धंशिशोर्मृतिः। भौमे

शत्रुगृहे स्वस्थेपित्रा सार्धं तथा मृतिः ॥ ५४ ॥ बादरायणः–वक्रशनैश्चरमध्ये होरायुक्तो निशाकरो हन्यात्। जननीमपत्यसहितां सौम्यैर्न निरीक्षितः सद्यः ॥ ५५ ॥ पापग्रहमध्यगतश्चन्द्रो होरागतोऽष्टमे सूर्यः। शस्त्रविदारितगर्भस्तत्र विशल्या भवेन्नारी ॥ ५६ ॥ पश्यन्ति यदा सौम्या होरास्थं पापमध्यमं चन्द्रम्। न भवति मातृविनाशो गर्भविनाशो न संदेहः ॥ ५७ ॥ प्रसवसमयेऽष्टमस्थो निशाकरः पापवीक्षितः क्षीणः। गर्भविपत्तिं कुर्यात्सक्रृरोमातरं हन्यात् ॥ ५८ ॥ क्षीणस्तु वक्रसहितो होरायां चन्द्रमा भवति। जामित्रे वा युगपत्सद्यो जातस्य मरणकारी ॥ ५९ ॥ होरायां वा निधने रिष्फे वा क्रूरखेचराः सर्वे। क्षीणनिशाकरदृष्टाः सद्योनिधनं शिशोः कुर्युः ॥ ६० ॥ पञ्चमनवमव्ययगे निधने वा सप्तमे सहिताः। रुधिरनिशाकरसौराः सौम्यैस्त्यक्ताः शिशुं इन्युः ॥ ६१ ॥ सूर्यादष्टमराशौ भवतः शनिलोहितौप्रसवकालं। सौम्यैर्दृष्टौमरणं सद्यः कुर्यातां पितुर्घोरम् ॥ ६२ ॥ वृद्धयवन–पापग्रहावेक्षणसंगमाद्यैश्चन्द्रोऽर्दितः सद्भिरवीक्षितश्च। करोति मातुः स्तनपानहानि प्रीणाति राशीश्वरजैः स्वभावैः ॥ ६३ ॥ सारावल्यां– तीव्रफलराजयोगा यवनाद्यैर्ये विनिर्मितास्तेषु। वक्तव्यं दैवविदा खलकुलजातस्य रिष्टमिति ॥ ६४ ॥ लग्नाधिपे पापयुतेऽस्तसंस्थे राहुश्चकेन्द्रे मृतिमेति तद्वत्। क्रूरैः सुतस्थैरपि केन्द्रसंस्थैर्म्रियेत जातः सगदोऽथवा स्यात् ॥ ६५ ॥ पापातियुक्तदृष्टोऽपि पापः पाके मृतिप्रदः। अतिनीचारिसंस्थोऽपि शुभदृष्टिविवर्जितः ॥ ६६ ॥ लग्नस्थितो भावसमोऽरिदृष्टः पापोऽष्टषष्ठोऽपि निहन्ति पाके। पोपेष्टमे स्याद्विधवाऽपि नारी द्वित्रिव्ययास्तोपगतैश्च दुष्टैः ॥ ६७ ॥ जातकतिलके– योगकरणखेटेषु वली जन्मानि यद्गृहे। तद्गतोऽब्जो वली हन्ति पापदृष्टोऽब्ज(ष्टस्तु)मध्यमः ॥ ६८ ॥ लग्नं वा जन्मभं चन्द्रः प्राप्तो हन्ति तथाविधः। अनुक्तविधियोगेषु प्रौढेऽप्येष विधिमृषा ॥ ६९ ॥ शेषेष्वनुक्तविधिषु चिरात्तत्तद्दशासु वा। विवलस्य सपापस्य दशायां वा मृतिर्भवेत् ॥ ७० ॥ अर्कश्चन्द्रः कुजःसौरिर्लग्नेतिष्टति पञ्चमे। पितरं मातरं हन्ति भ्रातरं च शिशुं कमात् ॥ ७१ ॥ ताताम्बिकामातुलसोदराश्च मातामहीमातृपिता च सूनुः। सूर्यादिखेटाःखलु पञ्चमम्यानिघ्नन्ति सर्वे क्रमशः प्रसूतौ ॥ ७२ ॥

इत्यारिष्टाध्यायः।
————————

अथ चन्द्रारिष्टभङ्गः।

जातकतिलके– कृष्णपक्षे ह्यदृश्यश्चदृश्यः पूर्णःसिते निशि। शुभाशुभेक्षितश्चन्द्रो न हन्ति रिपुरन्ध्रगः ॥ १ ॥ गर्गः–रात्रौ जातः सिते पक्षे दिवा जातः सितेतरे। चन्द्रारिष्टं न तस्य स्यात्पितृवत्तंस रक्षति ॥ २ ॥ आपूर्यमाणमूर्तिश्चच्चन्द्रः सर्वग्रहेक्षितः। अरिष्टहारी पूर्णो वा सुहृद्भावेऽसितेक्षितः ॥ ३ ॥ जातकतिलके– परमोच्चगतो रिष्टं शुक्रदृष्टः शशी हरेत्। क्षीणोऽपि शुभवर्गस्थो हरेद्वा शुभवीक्षितः ॥ ४ ॥ षष्ठसप्ताष्टमाच्चन्द्राद्विपापा वलिनः शुभाः। घ्नन्ति रिष्टं शुभैर्युक्तास्तदंशस्थो विधुस्तथा ॥ ५ ॥ शुभद्वादशभागस्थः पूर्यमाणतनुः शशी। रिष्टहृच्छुभभस्थो वा लग्नेशेनैव वीक्षितः ॥ ६ ॥ क्रूरवर्गस्थिश्चन्द्रो रिष्टहृद्वर्गपेक्षितः। जन्मभेशो बली दृष्टः शुभैर्मित्रश्चरिष्टहृत् ॥ ७ ॥ लग्नस्थो जन्मराशीशो रिष्टहृन्निखिलेक्षितः। लग्नेशाद्द्वादशे षट्त्रिसुखस्वाये शुभेक्षितः ॥ ८ ॥ ज्ञसितौ द्वादशे चन्द्राल्लाभे क्रूरो गुरुश्चस्वे। रिष्टघ्नो जन्मभेशीवा शुभदृष्टो बलोत्कटः ॥ ९ ॥ होराप्रकाशे– आये तृतीये षष्ठे वा तुलाघटझपाश्रितः। यदि केतुर्भवेल्लग्नात्तदा रिष्टं न जायते ॥ १० ॥ सारावल्यां– सर्वैर्गगनभ्रमणैर्दृष्टश्चन्द्रो विनाशयति रिष्टम्। आपूर्यमाणमूर्तिर्यथा नृपः स्वन्तया दृष्टः ॥ ११ ॥ चन्द्रः संपूर्णतनुः शुक्रेण निरीक्षितः सुहृद्भागे। कष्टहराणां श्रेष्ठो वातहराणां यथा वस्तिः ॥ १२ ॥ परमोच्चेशिशिरतनुर्भुगुतनयनिरीक्षितो हरति रिष्टम्। जलमिव महातिसारं जातीफलवल्कलक्कथितम् ॥ १३ ॥ सप्ताष्टमषष्ठस्थाः शशिनः सौम्या हरन्ति कष्टफलम्। पापैरमिश्रचाराः कल्याणघृतं यथोन्मादम् ॥ १४ ॥ दृष्टः शुभैः समस्तैस्तेषां त्र्यंशे शशी हरति रिष्टम्। लवणश्रुतिपूरणवन्नयनभवं दारुणं शूलम् ॥ १५ ॥ आपूर्यमाणमूर्तिर्द्वादशभागे शुभस्य यदि चन्द्रः। रिष्टंनयति विनाशं तक्राभ्यासो यथा गुदजान् ॥ १६ ॥ सौम्यक्षेत्रे चन्द्रो होरापतिना विलोकितो हन्ति। रिष्टं न वीक्षितोऽन्यैः कुलाङ्गना कुलमिवान्यगता ॥ १७ ॥ क्रूरभवने शशाङ्को भवने शनिरीक्षितस्तदनुवर्गे। रक्षति शिशुं प्रजातं कृपण इव धनं प्रयत्नेन ॥ १८ ॥ जन्माधिपतिर्वलवान्सुहृद्भिरभिवीक्षितः शुभैर्भङ्गम्। रिष्टस्य करोति सदाऽभीरुरिवप्राप्तसङ्ग्रामः॥ १९ ॥ जन्माधिपतिर्लग्नेसर्वेषां गोचरे पतितः। हन्ति निशाफररिष्टं यथैव शूलं कुवेराक्षः ॥ २० ॥ स्वोच्चस्थः स्वगृहेऽथवाऽपि सुहृदां वर्गेऽथ सौम्येऽपि या संपूर्णःशुभवीक्षितः शशधरो वर्गे स्वकीयेऽथवा। शत्रूणामवलोकने न पतितः पापैरयुक्तेक्षितो रिष्टं हन्ति सुदुस्तरं दिनपतिः प्रालेयराशिं यथा ॥ २१ ॥ शाशिनिगते बुधसितयोराये क्रूरेषु

वावपतौगगने। त्वरितं चातुर्थिक इव नश्यति मुनिकुसुमरसनस्यैः ॥ २२ ॥ लग्नेश्वरात्तुचन्द्रः षट्त्रिदशायहिव्रुकेषु शुभदृष्टः। मारयति चन्द्ररिष्टंसिंह इव महागजं क्रुद्धः ॥ २३ ॥ होरामकरन्दे– दस्रभेऽनलभे पुष्ये शीतरश्मिस्त्रिपुष्करे। वर्गोत्तमे वा पूर्णाङ्गः स्वीयरिष्टापहःस्मृतः ॥ २४ ॥ द्वितीये वा तृतीये वा पादे पुष्पस्य चन्द्रमाः। रोहिणीषु द्वितीये स्यात्कष्टशान्त्यैः शुभेक्षितः ॥ २५ ॥ होराप्रकाशे–रिष्टं घ्नन्ति त्रिकोणस्थाःशुक्रज्ञेज्याः परस्परम्। निरन्तरमदृश्येऽर्धे वलिनो वाऽखिलग्रहाः ॥ २६ ॥ भद्राभरे व्यतीपाते गण्डान्ते वैधृतौतथा। संध्यायामपि जातस्य रिष्टं जातु न जायते ॥ २७ ॥

इति चन्द्रारिष्टभङ्गः।
——————

अथ सर्वारिष्टभङ्गः।

जातकतिलके– गुरुदर्दीप्तो बली केन्द्रे विशेषाल्लग्नगो हरेत्। पापदृष्टोऽखिलंरिष्टंतद्वज्ज्ञसितलग्नषाः॥ १ ॥ लग्नं शुभगृहं पापा विवलाः सवलाः शुभाः। घ्नन्तिं रिष्टं त्रिषष्ठाये राहुर्वाऽपि शुभेक्षितः ॥ २ ॥ शुभैः सद्वर्गैर्दृष्टाः पापास्तु शुभवर्गणाः। रिष्टघ्नाः प्रकृतिस्था वा सर्वे शीर्षोदयर्क्षगाः ॥ ३ ॥ शुभस्तत्कालविजयी रिष्टहृच्छुभवीक्षितः। सप्तर्पीणां समुदये तत्काले कुम्भजस्य च ॥ ४ ॥ परिविष्टो गगनगैःक्रूरैरपि विलोकितः। कष्टंहरति राहुर्वा कर्किगोजबिलग्नगः ॥ ५ ॥ परस्परं चतुर्थस्था ग्रहाः सर्वे सराहवः। रिष्टं हरन्ति वा तद्वदेकभस्थाः शुभांशगाः ॥ ६ ॥ होरामकरन्दे–मृदुर्विवस्वान्विरजस्कमम्बरं बलाहकाः स्निग्धरुचो दिवौकसः। शस्ता मुहूर्ता यदि सुप्रशस्ताः पापं तदा याति विनाशमाशु ॥ ७ ॥ जीवज्ञास्फुजितामेकःकण्टके पूर्णविक्रमः। रिष्टहृत्संभवेकेन्द्रे क्रूरोऽजि परमोच्चगः ॥ ८ ॥ राहुस्त्रिषष्ठलाभेलग्नात्सौम्यैर्निरीक्षितः सद्यः। नाशयति सर्वदुरितं मारुत इव तूलसंघातम् ॥ ९ ॥ शीर्षोदयेषु राशिपु सर्वे गगनाधिवासिनः सूतौ। प्रकृतिस्था वा रिष्टं विलीयते घृतमिवाग्निस्थम् ॥ १० ॥ यत्रेतिभङ्गपरैः सरोजदामभिः स्वयं कुरुते। भञ्जनकष्टमनिष्टं समनष्टदेशे यथा करभः ॥ ११ ॥ बहवो यदि शुभफलदा योगास्तत्रापि भज्यते रिष्टम्। सूर्यात्रिकोण इन्दौ यथा हि यात्राऽमरेन्द्रस्य ॥ १२ ॥ लग्नपगुरुशुक्रविदामेकोऽपि यदि केन्द्रमाश्रितो बलवान्। रिष्टं नश्यति सद्यो यथा मृगाङ्कः क्षयव्याधिम् ॥ १३ ॥ होरामकरन्दे–लग्नेश्वरोऽतिवलवाञ्छुभवन्धुदृष्टो रिष्टं

श्रीशिवराजविनिर्मित—

हरत्यहिमरश्मिरिवान्धकारम्। निःशेषखचरदृशां यदि सोऽपि पात्रं जातो गतोऽङ्गभवनं निधनं निहन्ति \।\। १४ \।\। मित्रक्षेत्रगताः पापास्त्रिकोणस्थाः शुभग्रहाः \। नाशं नयन्ति पापानि श्रुतिपाठादिवाकुलम् \।\। १५ \।\। मेपगः कर्किगश्चन्द्रो ग्रस्तोऽपि शुभवीक्षितः। केन्द्रगो दुरितं हन्ति चण्डानिल इवाम्बुदम् \।\। १६ \।\। सौम्यद्वयान्तरगतः संपूर्णः स्निग्धमण्डलश्चन्द्रः \। निःशेषं रिष्टहन्ताऽऽशु ( ष्टघ्नो ) भुजंगलोकस्य गरुड इव ॥ १७ ॥

इति सर्वारिष्टभङ्गः।
———————

अथ नियतायुः।

गर्ग**—** दीर्घायुषोऽपि ये योगाः प्रोक्ता जन्मविधौ मया। बलं ततस्तथा ज्ञेयाश्छेदकारिष्टभङ्गदाः ॥१ ॥ होर मकरन्दे - चतुष्टये पूर्णबलः शुभवेद्वयोमौकसां मृत्युपदं विहीनम् \। त्रिंशत्तदायुः कथितं मुनीन्द्रैर्देशाधिकं तद्यदि सौम्यदृष्टः ॥ २ ॥ कुलीरलग्ने वचसामधीशः केन्द्रे कविस्तत्र भवेच्छतायुः। गुरुः स्वराशौ निजदृक्कगश्चेत्सप्ताधिका विंशतिरायुरत्र256 \।\। ३ \।\। शुभस्थिताः शुभखगा निजकेन्द्रयाते चन्द्रे तनौ वलिनि जीवति वर्षपष्टिः। सौम्यास्त्रिकोणभवनेषु गुरौ स्वतुङ्गे लग्ने स्थिते स्फुटमिहाऽऽयुरशीतियुक्तम् ॥ ४ ॥ होराप्रदीपे-लग्ने सनिधने257 शून्ये चन्द्रे वीर्याश्रिते गुरौ। शुभस्थानस्थितैः शेषैर्जन्म विद्याच्छतायुपाम् ॥ ५ ॥ योगजातके**—** जीवे लग्ने शुभे केन्द्रे निघने ग्रहवर्जिते\। लग्नचन्द्रौ न दृष्टौ चेत्पापैर्जीवति सप्ततिम् ॥ ६॥ सौम्याः खेऽस्ते स्वभे चन्द्रे लग्ने जातोऽत्र षष्टिकः। गुरौ भृगौ च केन्द्रस्थे जीवेद्वर्षशतं नरः ॥ ७ ॥ होराप्रकाशे–केन्द्र- त्रिकोणनिधनेषु न यस्य पापा लग्नाधिपः सुरगुरुश्च चतुष्टयस्थः। भुङ्क्ते शुभानि विविधानि सुपुण्यकर्मा जीवेच्च वत्सरर्शतं स विमुक्तरोगः \।\। ८ \।\। बादरायणः**—** मृगवदनपश्चिमार्धे भूनन्दनचन्द्र संयुते लग्ने। केन्द्रगते सुरपूज्ये जीवति जातोऽष्टवर्षशतम् ॥९॥ स्वोच्चे लग्ने भृगुजे सौम्यैर्दृष्टेऽष्टमेऽपि चन्द्रमसि\। सुरमन्त्रिणि केन्द्रगते जातः शतजीवितो भवति ॥ १० ॥ निधनोपगते सौम्यग्रहे शुभनिरीक्षिते। चन्द्रोऽपि यद्यनिष्टः स्याच्छतायुः केन्द्रगे गुरौ ॥ ११ ॥

इति नियतायुः।
———————

अथ परमायुः \।

यवनजातके – अनिमिषपरमांशके विलग्ने शशितनये गवि पञ्चवर्गलिप्ते। भवति परमायुषःप्रमाणं यदि सहिताः सकलाः स्वतुङ्गभेषु \।\।१ \।\। होराप्रदीपे**—**धनुषोऽन्तगते लग्ने परमोच्चगतैर्ग्रहैः समस्तैश्च। गवि पञ्चवर्गलिते सौम्ये परमायुराप्नोति \।\।२\।\। बादरायणः – एकादशधामगतः शशभृत्केन्द्रोपगतौ च गुरुशुक्रौ। विंशतिशतं समानां जीवयुतो नरपतेिर्जातः॥ ३ ॥

इति परमायुः \।
——————

अथामितायुः।

गर्गः**—**जीवेन्दुकर्किगो लग्ने केन्द्रे भृगुसुतेन्दुजो \। क्रमारिलाभगाः क्रूराः कुर्युर्जन्मामितायुषाम् ॥ १ ॥ जातकतिलके - तुलालग्नस्थिते शुक्रे स्वोच्चस्थगुरुभौमयोः। अश्विनीसहितेऽब्जे स्यादमितायुर्महीपतिः ॥ २ ॥ कर्किलग्ने सगुर्विन्दौकेन्द्रस्थ बुधशुक्रयोः। त्रिपडायगतैः शेषैरमितायुः क्रमं विना ॥ ३ ॥ शुद्धे रन्ध्रे सिते केन्द्रे कर्किलग्ने गुरौ विधौ\। वह्वायुः कर्किलेग्नेऽब्जे शेषैर्याति शुभर्क्षगैः ॥ ४ ॥ परमोच्चगतैश्चन्द्रशुक्रारैर्लग्नेगुरौ\। मेषगोधनुरंशस्थैरविज्ञेज्यैश्चिरायुषः ॥ ५ ॥

इत्यमितायुः।
———————

अथाऽऽयुर्दायविवरणम् \।

जातकतिलके**—सूर्योदयैः स्वाङ्गगुणैर्वर्षमैकमिह स्मृतम्। परमायुर्मनुष्याणां खार्काः कश्चिदेच्छतम् ॥ १ ॥ दन्तेन्दवोऽब्दानागस्य वाहस्य यमबह्लयः। शरपक्षाः खरोष्ट्रस्य जिनो258 गोर्महिषस्य च। शुनो द्वादश मेषादेः परमायूरसेन्दवः ॥ २ ॥ माण्डव्यःप्रासाद्कूपसरसीपु सहस्रमेकमायुर्युगंपुरवरेषु महत्सु विधात्। ग्रामेषु चायुतमुदीरितमुत्तमेषु वृक्षेषु पञ्च च शतानि हि कीर्तितानि॥ ३॥ ज्योतिर्विवरणे—**सपञ्चदिवसाः पूर्णयमचन्द्रमिताः समाः। परमायुर्मनुष्याणां केचिदूनू रदेन्दवः ॥ ४ ॥ सत्त्वाद्यायुर्मनुष्यायुर्यदावत्साध्यमेव तत्। निघ्नन्स्वेनाऽऽयुषातेन खार्काप्तं प्रस्फुटं भवेत् ॥ ५ ॥ एवमायुर्बुधैः प्रोक्तं योगजं वाऽत्र कल्पयेत्। देवयोन्यवताराणामायुरग्रं (त्र्यं) क्वचिद्भवेत् ॥ ६॥ अग्रं

(यं) स्वायुस्तुरीयांशं प्रोच्यतेऽथ युगान्तरे। पूर्वपूर्वमिदं ज्ञेयं दिग्घ्नं दिग्घ्नं यथोत्तरम्॥ ७ ॥

इत्यायुर्दायविचरणम्।
——————

अथाऽऽयुर्दायानयनम्।

जातकतिलके—सायनांशस्य लग्नस्य राशींस्त्यक्त्वा लवादिकम्। सूर्यनन्दै - १२\।९\। र्हतं तत्स्याल्लग्नस्याऽऽयुर्दिनादिकम् \।\।१\।\। खेन्दुगोक्षामिकेन्द्राङ्गराशीन्सूर्यादिषु त्यजेत्। सायनांशेषु तच्छेषं षड्भाल्पं भगणात्त्यजेत् ॥ २ ॥ स्ववर्षगुणितं तत्स्यादायुर्मासादिकं स्फुटम्। व्ययभावस्थपापस्य व्ययपापान्तरांशकैः \।\। आयुर्निघ्नंरिप्फलग्नान्तराशार्धहृतं स्फुटम् \।\। ३ \।\। ताजिकसारे**—** भान्ते प्रोक्तं परं तुङ्गपरमायुः समा रवेः। गोब्जाअब्जस्य तत्त्वाब्दा भौमगुर्वोः शरक्षमाः ॥ ४ ॥ विदः सूर्याः सितस्येन्दुयमा मन्दस्य खाश्विनाः। १९। २५। १५। १२ \। २१ \। २० \।\। सलग्नार्कादिदायैक्यं ज्ञेयमायुरिदं म्फुटम् \। जन्मारिष्टैर्देशारिष्टैर्न्यूनं तत्राऽऽदिशेन्मृतिम् ॥ ५ ॥

इत्यायुर्दायनयनम्।

अथ दशाविभागः \।

यस्ययावग्रहस्याऽऽयुर्दशा स्यात्तत्र तावती\। जन्तोर्जातस्य तत्राऽऽद्या लग्नस्याऽऽयुर्मिता दशा ॥ १ ॥ लग्नकेन्द्रादिगानां स्युस्तत्र आपोक्लिमावधि\। दशाक्रमेण खेटानां तेष्वल्पांशस्य पूर्वगाः \।\। २ \।\। तत्तद्ग्रहस्थितानां स्युस्ततद्ग्रगता दशाः। न चला चलवत्खेटदशाः भावपश्चिमा ध्रुवम्॥ ३ ॥

इति दशाविभागः।

अथ दशाफलपाकनिर्देशः।

दशा लग्नस्य तत्र्यंशेश्चैरैः श्रेष्ठा समाऽधमा। व्युत्क्रमाद्विस्वभावस्य स्थिरस्योनेष्टमध्यमा \।\। १ \।\। बलानुरूपमत्रापि लग्नेशस्य दशाफलम्। संयोज्य धीमाल्लग्नस्य दशायाः फलमादिशेत् ॥ २ ॥ संक्षिप्तजातके- मित्रोच्चस्वगृहांशोपगतानां शोभना दशाः सर्वाः। स्वोच्चाभिलाषिणामपि ननु कथितं तद्विपर्ययस्थानाम् ॥ ३ ॥ गर्गः- यद्यद्द्रव्यं गुणाच्छायाः स्वभावाः प्रकृतिः स्थितिः। यस्य

यस्य ग्रहस्योक्तं तत्तयोज्यं दशास्वपि ॥ ४ ॥ दशायांसबलस्यार्थलाभमारोग्यमादिशेत्। विवलस्य रुजं हानिंमिश्रं समबलस्य च ॥ ५ ॥ जातकतिलके—यस्य ग्रहस्य यद्द्रव्यं कर्माऽऽजीवं च यस्य यत्। भभावदृष्टियोगोत्थं फलं तत्स्वदशासु च \।\। ६ \।\। दिग्बलाद्योनिजं देशं नीत्वा दद्याद्धनं सुखम् \। नीचस्थः स्व259प्नचिन्ताद्यैराज्याद्यफलपाककृत् ॥ ७ ॥ बालभावे पितुः स्यातां लाभालाभौ दशोद्भवौ\। सुखक्लेशौ स्वयं भुङ्क्ते तारुण्ये त्वखिलं फलम् ॥ ८ ॥

इति दशाफलपाकनिर्देशः।

अथान्तर्दशाविभागः।

दशाविपस्त्रिकोण260स्थस्तृतीयांशं तथाविधम् \। चतुरस्रगतः पादंसप्तमः सप्तमांशकम् ॥ १ ॥ ते चेदन्तर्दशादाया वहवोऽप्येकभावगाः। तद्भावनिकटः पूर्वदद्यातां दूरगस्तथा \।\।२\।\। एवं लग्नदशायां च लग्नमन्तर्दशा निजम्\। दद्याद्ग्रहदशायां च दद्युरन्तर्दशा ग्रहाः \।\। ३ \।\। न्यसेद्रूपं दशेशस्य ततस्त्वन्तर्दशा भवेत्। स्वान्स्वानंशान्क्रमेणोक्तान्यथालाभं च रक्ति सः ॥ ४ ॥ अन्योन्यच्छेदघातोत्थो गुणकाख्यः प्रजायते। गुणकोऽसौ पृथक्छेदैर्भक्तो लब्धैक्यजो हरः ॥ ५ ॥ दशाप्रमाणं वर्षाद्यं गुणकघ्नंहरोद्धृतम् \। लब्धं दशापतेराद्या वर्षाद्यन्तर्दशा भवेत् \।\। ६ \।\। तदेकर्क्षादिगानां सा पृथगन्तर्दशांऽशकैः। विहिताऽन्तर्दशायाः स्युर्मानान्यंशक्रमात्ततः ॥ ७ ॥ दशाधिपस्यैकगृहे बाणेन्द्वंशान्तरस्थितः। तद्न्तेऽन्यान्तर्दशाभूतं तद्दशायां च तद्बलम् \।\। ८ \।\।

इत्यन्तर्दशाविभागः \।

अथान्तर्दशाफलम् \।

दशैशान्तर्दशानाथमित्रारित्वाच्छुभाशुभम्\। फलं तयोर्बलवतः प्रौढमन्यस्य हीयते ॥ १ ॥ नष्टस्यान्तर्दशा दैन्यं कुर्यान्नीचस्य नीचताम् \। लग्नजन्मेशयोः शत्रोः शत्रुभीतिं सुखक्षयम् \।\। २ \। क्रूरस्यान्तर्दशा क्रूरदशायां विशती नृणाम्। तयोर्विशेषाच्छत्रुत्वेप्राणसंदेहकारिणी \।\। ३ \।\। मन्दारान्तर्दशे मृत्यौ दशयोः कुजमन्दयोः। परस्परं त्रिकोणस्थौ तौ चेत्तत्र विशेषतः ॥ ४ ॥ मृत्युदाऽन्तर्दशा लग्नदशायां लग्नपारिजा। रिष्टं पूर्ण समांशत्वे दशेशान्तर्दशशयोः॥ ५ ॥ अन्त-

र्दशेशो बलवाञ्छुभयोगेक्षणादिभिः। दशेशे विवले चात्र क्लेशाय न तु मृत्यवे ॥ ६ ॥

इत्यन्तर्दशाफलम्।
————————

अथ भावविचारः।

जातकतिलके–स्वस्वामिना सुसंदृष्टो भावः सर्वोऽपि सत्फलः।क्रूरेक्षितः कष्टफलो निष्फलो दृष्टिवर्जितः ॥ १ ॥ सर्वग्रहेक्षितो भावो ग्रहो वा मङ्गलप्रदः। क्षमः स्यात्स्वफलं दातुं लग्नेन्दू राज्यदौतथा ॥ २ ॥ पद्धतौ-पुष्णन्ति सौम्या रिपुराशिवर्जंघ्नन्तीतरेऽष्टव्ययशत्रुवर्जम्\। सूर्यादिका नात्र मृतिव्ययस्थाः पापाः प्रदुष्टा इतरे तु किंचित् \।\। ३ \।\। उच्चस्थः स्वगृहस्थो वा मन्दो राज्यप्रदो भवेत्। वृषफर्कटमेषस्थो राहुरारोग्यकृत्ततः \।\। ४ \।\। लग्नगे कर्किगे चन्द्रे धनी स्यादन्य-
राशिषु \। विकलाङ्गो जडो दीनः कृष्णपक्षे विशेषतः ॥ ५ ॥

अथ धनचिन्ता।

शुभा धनस्थिताः कुर्युर्वाग्ग्मिनं मिष्टभोजनम्। क्रूराः प्रोक्तविरोधेन कदन्नंबहुभाषिणम् ॥ १ ॥

अथ सहजचिन्ता।

सहजे सर्वपापाढ्येपापर्क्षे भ्रातरो न हि।नाशयेत्सहजंजातं मन्दो भौमेक्षितोऽनुजम् ॥ १ ॥ नवांशा भ्रातृभावस्था यावन्तोऽब्जकुजेक्षिताः। तत्संख्याः सहजा ज्ञेया दृष्टा अन्यैस्तु योषितः ॥ २॥

अथ सुहृच्चिन्ता।

जीवेक्षिते शुभं शुक्रेब्रजारद्दष्टे सुहृत्क्षयः। सुखे क्रूरयुते मातुः क्लेशकृत्सु शुभे शुभम् ॥ १ ॥

अथ सुतचिन्ता।

पुत्रभावोपभुक्तांशतुल्याः संख्याः शुभांशके।द्विघ्नाः शुभेक्षिते क्लिष्टाः पापाशे पापवीक्षिते ॥ १ ॥ ताजिकतिलके -पापर्क्षे पञ्चमे राशौ पापैर्वलिभिरन्विते। सौम्यग्रहैरसंदृष्टे पुत्राभावो भवेन्नृणाम् \।\। २ \।\। पुत्रभावे कुतःपुत्रं जातं जातं विनाशयेत् \। गुरुशुक्रेक्षित्वाद्यंन च सर्वग्रहेक्षितः \।\। ३ \।\। लग्नादशमगे चन्द्रे भार्गवेसप्तमे स्थिते। अशुभेषु सुखस्थेपु वंशच्छेदोऽस्य जायते ॥ ४ ॥

अथारिचिन्ता।

शनिदृष्टेऽरिभावस्थे कुजे स्युर्वहयोऽरयः। शुभयुक्तेक्षिते त्वल्पास्ते च क्षेत्र, ग्रहोन्मिताः ॥ १ ॥

अथ कलत्रचिन्ता \।

द्यूनेशान्यतर्मेऽशे स्याद्यावन्तो द्यूनपक्षकाः। तावत्यः स्युः स्त्रियो नृणामेकैवाऽऽकिंकुजांशके \।\। १ \।\। शनैश्चरे विलग्नस्थे भसंधिस्थे सितेऽस्तगे\। पुत्रभावे शुभैर्युक्ते जातो वन्ध्यापतिर्भवेत् ॥ २ ॥ पापर्क्षे पापसंयुक्ते कलत्रे पापसंयुते। विभार्योमृतदारो वा शुक्रेन्द्विज्ययुधैः शुभम् \।\। ३ \।\। लग्नान्त्यमन्दगैः पापैः क्षीणे धीस्थे निशाकरे \। पुत्रजायाविहीनस्य जायते जन्म निश्चितम् ॥ ४ ॥

अथ मृत्युचिन्ता \।

स्वोच्चे स्वोच्चनवांशे च शुभवर्गे च नीचभे \। नीचांशे क्रूरषड्वर्गे मित्रभे सुहृदंशके \।\। १ \।\। वर्गोत्तमेऽरिभेऽर्येशेस्वर्क्षे द्वादशधा क्रमात्। निर्याणं ग्रहयोगाख्यं कथ्यते यवनोदितम् \।\। २ \।\। भुक्तितोऽग्निप्रवेशेन जनहीतः प्रमादतः। वनाग्निना दम्भकृत्याद्दीपनेन विपादनात् \।\। ३ \।\। बन्धान्निशितलोहाच्च रक्तकोपात्तथैव च \। कफात्कासात्स्त्र्यपराधान्मृत्युर्मृत्युगते रवौ॥ ४ ॥ जलप्रवेशाद्धस्ताभिघातांद261शनिपाततः। सीहस्तात्पित्तकफतो दोषत्रयभवामयात्262 ॥ ५॥ ज्वराद्धृदयरोगाच्च पशुपादाभिघाततः। गुदरोगाच्छृङ्गघातारक्षयाच्चन्द्रेऽष्टमे मृतिः ॥ ६ ॥ सङ्ग्रामाद्दोग्रहणतः स्वहस्तान्त्रिजशत्रतः\। द्विजशापादश्मघातात्काष्ठात्कूपात्ममादतः ॥ ७ ॥ भृगुपाताद्गुप्तरोगाद्विषभक्षणतस्तथा। चौरप्रहरणाद्भौमे मृत्युः स्यान्मृत्युभावगे ॥ ८ ॥ ज्वरात्कफविकारेभ्यो वातरोगाद्व्रणेन च। महाभयेन प्रियजवियोगाद्वदनामयात् \।\। ९ \।\। नेत्ररोगात्पायुरोगाद्वन्धनेनोदरामयात् \। पादव्रणाद्धुधे मृत्युत्युभावगते क्रमात् ॥ १० ॥ नानारोगैर्मूलरोगात्कर्णरोगात्तथैव च। स्वजनाच्च विषूचीतोऽतिसारानिजभृत्यतः ॥ ११ ॥रक्तकोषात्तुरगतः स्वकेशान्मूर्ध्नि कोपतः। बहुभाषणतो मृत्युर्जीवेस्यान्मृत्युभावगे॥ १२॥ तृषया मुखरोगाच्च दन्तदुःखात्रिदोषतः। विपूच्या वनसत्त्वेन भुजगाद्विषभक्षणात् \।\। १३ \।\। लूतयाविपकण्ठेन सुरतोत्थमकोपतः। बहुदुःखाद्भवेन्मृत्युर्मृत्युभावगते सिते \।\।१४\।\। बुभुक्षया लङ्घनेन तथा प्रायोपवेशनात्। बन्धुवर्गादरिकरात्क्षयेण पृथुदद्रुतः ॥ १५ ॥ पिटकैर्व्रणकोपेन हयपाताभिघा-

श्रीशिवराजविनिर्मितो-

ततः\। हस्तितः खरतो मृत्युर्मन्दे स्यान्मृत्युभावगे \।\। १६ \।\। चरभे परदेशे स्यान्मृत्युभे स्वगृहे स्थिरे \। द्वयङ्गे पथि मृतिश्चाथसंग्रहे भावजं फलम् ॥ १७ ॥ खेऽर्केसुखे कुजे मृत्युर्भवेच्छैलाग्रपातजः \। धीधर्मस्थौ शुभादृष्टौ263क्रूरौ चेद्वन्धनान्मृतिः ॥ १८ ॥ कन्यास्थौ पापदृष्टौ चेत्सूर्येन्द्र स्वजनान्मृतिः। पापयोर्मध्यगे चन्द्रे कुजर्क्षस्थेऽग्निशस्त्रतः ॥ १९ ॥ मृत्युः सुखे कुजेऽर्के वा खे शनौ शूलभेदतः। भौमे क्षीणेन्दुद्दष्टेऽस्ते यन्त्रोत्पीडनया मृतिः ॥ २० ॥

अथ गतिज्ञानम् \।

पापत्र्यंशे मृत्युभावेवह्निना दह्यते शवम्। शुभयुक्तेक्षिते तस्मिन्दृक्काणे शोष्यते च तत् ॥ १ ॥ सर्पत्र्यंशे शवं गृध्रशृगालाद्यैस्तु भुज्यते। शुभत्र्यंशेक्लिश्यते तत्पापयुक्ते तु शोष्यते ॥ २ ॥ शुक्रेन्दूपितृलोकेशौ शनिज्ञौनरकाधिपौ। तिर्यग्लोकस्य सूर्यारौस्वर्गस्याधिपतिर्गुरुः \।\। ३ \।\। रवीन्द्रोर्बलवान्यस्य दृक्काणे तस्य लोकतः। आगतः प्राग्जनौ चासौतुङ्गादिस्थस्य तत्समः ॥ ४ ॥ मृत्युशात्रवभावस्थत्रिंशयोर्यो वली जनौ \। तन्नाथस्य व्रजेल्लोकं मृत्योर्जन्तुरसंशयम् ॥ ५ ॥ केन्दारिमृत्युगो जीवः स्वोच्चस्थो यस्य जन्मनि। शेषा ग्रहाश्चेदबलास्तस्य मोक्षो मृतस्य हि \।\। ६ \।\। चक्रावसानलग्नस्थो गुरुः शुभनवांशगः \। यस्य जन्मानिशेपाश्चेदवलाः स विमुच्यते ॥ ७ ॥ एवमुक्तास्तु ये योगाः स्वर्गादिगतिकारकाः।मृत्युकालेऽपि जन्तोस्ते तथा स्युस्तत्फलप्रदाः॥ ८ ॥

अथ भाग्यचिन्ता \।

लग्नाद्विधोर्वा नवमं भाग्यस्थानं भवेत्ततः \। भाग्यं हि चिन्त्यते नृणां तत्तत्पतिबलाबलात् \।\। १ \।\। स्वस्वामिना युक्तदृष्टं स्वदेशे फलदायकम्। तदन्ययुदृष्टं तत्परदेशे फलप्रदम् \।\। २ \।\। गुरुर्भाग्ये भवेन्मन्त्री महाभाग्योऽखिलेक्षिते। अवलेऽपि शुभे खेटे भाग्यस्थे धार्मिकोत्तमः ॥ ३ ॥ शनिः कुजोऽथ वा द्वौ वा भाग्ये पूर्णेन्दुसंयुते। सर्वे वा स्वोच्चगे भाग्ये भवन्ति नृपजन्मनि ॥ ४ ॥ भाग्ये रवीन्द्रोः स्वल्पायुः कुजेन्द्रोर्मातुरन्तकृत्। हीनः पितृभ्यां प्राणतो द्वेप्यो हिंस्रः कुजेन्द्विनैः ॥ ५ ॥ गर्गः— अदृश्ये भाग्यनाथे गते जन्म यदा भवेत्। लग्नपे च विशेषेण यावज्जीवं समृद्धिमान् ॥ ६ ॥

अथ कर्मचिन्ता \।

अर्थाप्तिः पितृतो मातुः शत्रोर्मित्रात्सद्दोत्थतः। स्त्रिया भृत्यादिनाद्यैः स्याल्लमेन्द्रोः कर्मगैः क्रमात् ॥ १ ॥ यावन्तो लग्नतश्चन्द्राद्ग्रहाः कर्मस्थितास्तु ते।

ज्योतिर्निबन्धः।

तत्तत्फलप्रदाः सर्वे स्वदशायां विशेषतः \।\। २ \।\। हेमोपघादिभिः सूर्ये कृषियोषाश्रयैविधौ\। धात्वस्त्रसाहसैर्भौमे ज्ञेकलाकाव्यलेखनैः ॥ ३ ॥ धर्मक्रियादिभिर्जीवेपशुरत्नादिभिः सिते \। नीचशिल्पादिभिर्मन्दे वृत्तिरस्य स्वनाथवत् \।\।४\।\।

अथाऽऽयचिन्ता \।

आयैशेऽर्केनृपालाभस्तत्स्थेपश्यति वा तथा \। चन्द्रे स्त्र्यम्बुहरिमायं धनं भौमेऽस्त्रसाहसैः॥ १ ॥ काव्यलेखनजं ज्ञेस्यात्स्वर्णयज्ञाश्वजं गुरौ\। शुक्रेगानगमस्त्रीजं शनौ ग्रामादिकर्मजम् ॥ २ ॥ सारावल्यां- होरागतैरथा-ऽऽयगृहस्थितैस्तैर्विचिन्तयेद्द्रव्यम् \। बलसंयुतैर्ग्रहेन्द्रैरनैकधा दृष्टमाचार्यैः ॥ ३ ॥

अथ व्ययचिन्ता \।

क्षीणेऽब्जे वा रवौरिष्फे धर्म पुसां नृपो हरेत् \। बहुधाऽर्थक्षयो भौमे ज्ञदृष्टेऽन्येषु सद्व्ययः ॥ १ ॥

अथ ग्रहभावफलम्।

जातकोत्तमे– लग्नेऽर्केऽल्पकचः शूरो मेषे तिमिरलोचनः। स्फोटाक्षः कर्कटे सिंहेनिशान्धो निर्धनोघटे \।\। १ \।\। मुखरुग्विक्रमी नित्योद्विग्नो वितनयोरिहा\। स्त्रीजितोऽन्धोऽर्थवान्मान्यो धनी पापी धनादिगे ॥ २ ॥ लग्ने चन्द्रे जडोजातः क्षीणेन्दौ रोगवान्भवेत्\। कर्कटे रूपवान्मेशेपुत्रवान्वृषभेऽर्थवान् ॥ ३ ॥ धनादिगे धनी स्वार्थपरोभोक्ता सुपुत्रवान्। रोगभाक्कामुकोऽल्पायुर्दाता श्रीमान्सुखी विदृक् \।\। ४ \।\। लग्ने भौमे नरोल्पायुः क्षमी स्वर्क्षे मृगेऽर्थवान्। धनादिस्थे कदन्नाशी शूरो यानोज्झितोऽप्रजः ॥ ५ ॥ पूज्यो दुःखी व्यसुर्मानी शूरः श्रीमान् वली क्रमात्। दीर्घायुर्मतिमान् भूरिसहजो वाहनादियुक् ॥ ६ ॥ विद्वान्वादिजितो धर्मी चिरंजीवी धनान्वितः \। सकलारम्भको भोगी प्राज्ञो लग्नादिगे बुधे ॥ ७ ॥ दीर्घजीवी महाभोगी कृपणो वाहनार्थयुक् \। मन्त्रज्ञः स्त्रीजितो वक्ता दीर्घायुः सर्वशास्त्रवित् ॥ ८ ॥ राजमान्योधनी दोनो गुरौ लग्नादिभावगे। वह्वायुः सर्वभोगाढयः स्वार्थनिष्ठो यशोर्थभाक् ॥ ९ ॥ मन्त्रवेत्ता वधूद्वेषी सुभगः परमायुषी। सुखी मानी धनी कान्ताजीवीलग्नादिगेकवौ॥ १० ॥ गतायुर्लग्नगे मन्दे घटे नक्रेमहानृपः। कुम्भे तु मण्डलाधीश्चाग्रेमीने पुराधिपः ॥ ११ ॥ भ्रमी दाताऽऽमयी मूर्खः शुरोनीचो व्रणार्दितः।

श्रीशिवराजविनिर्मितो-

द्वेषी ग्रामेश्वरो भोगी पातकी स्वादिगे शनौ ॥ १२ ॥ रोगी निःस्वः सुधीर्दुःखी दुर्भगः श्रीयुतोऽशुचिः। गतायुर्विकलो मानी घनी पापी ततः क्रमात् ॥ १३ ॥ विगतायुः खलः शूरो दुःखी मूर्खोऽर्थवान्भ्रमी। क्षताङ्गो दुर्भगः श्रेष्ठः ख्यातो भ्रष्टः शिखी क्रमात् \।\। १४ \।\। अल्पायुर्विधवा मान्या द्वेष्यवन्ध्या कुलाधिका \। पतित्यक्ता च विधवा धूर्ता साध्वी धनान्विता ॥ १५ ॥ सरोगा स्याद्रवौ मन्दे कुजे लग्नादिभावगे। दीर्घायुः सधना श्रेष्ठा भोगिनी पुत्रिणी खला ॥ १६ ॥ भर्तुः प्रिया सती साध्वी सुभगा धनगर्विता \। दुष्टा लग्नाच्छभैरत्र चन्द्रे त्वष्टगते व्युसः \।\। १७ \।\। विधवा मलिना धन्या सुखहीना मृतप्रजा \। सती पत्युज्झिता वन्ध्या दुर्भगा बहुभाषिणी ॥ १८॥ सुभगा कर्कशा राहौकेतौ त्वन्तादिभावगे। केचिन्मतमिदं ज्ञेयं यतश्चस्त्रीफलं नृवत् ॥ १९ ॥

इति ग्रहभावफलम् \।
——————

अथ स्त्रीजातकाध्यायः।

लघुजातके— स्त्रीपुंसोर्जन्मफलं तुल्यं किंचित्त॒ चन्द्रलग्नस्थम्। तद्बलयोर्बपुरा- कृति [कृती]श्च(च) सौभाग्यमस्तमये ॥ १ ॥ गर्गः— वैधव्यं निधने चिन्त्यं शरीरं जन्मलग्नभात् \। सप्तमे पतिसौभाग्यं पञ्चमे प्रसवस्तथा ॥ २ ॥ वराहः**—**पुंसो जन्मफलं यन्न घटति वनितासु पतिषु तत्तासाम् \। वक्तव्यं राज्याद्यं वृषणविनाशादिवापायम् \।\। ३ \।\। जातकतिलके-लग्नेन्दोः समभे जाता स्वोचिनाकारशीलभाक्। ओजभेषु रुपाकारा दुःशीला दुःखिता वधूः \।\। ४ \।\। लग्नेऽब्जे वा युते दृष्टे शुभैः सच्छीलभूपणा \। दुःशीला निर्गुणा पापैर्लग्नेन्द्वोर्युतदृष्टयोः ॥ ५ ॥ शुभैरदृष्टे विवले द्यूनभेग्रहवर्जिते। जाताया इस कान्ताया भवेत्सा पुरुषाकृतिः ॥ ६ ॥ प्रवासी चरभे धूने स्वगृहस्थ स्थिरे पतिः। द्वयङ्गे चिरप्रवासी च क्लीवोऽस्ते बुधमन्दयोः \।\। ७ \।\। कुजेऽस्ते विधवा बाल्ये पतित्यक्ताऽस्तगे रवौ। वृद्धत्वं याति कन्यैव पापदृष्टेऽस्तमे शनौ \।\। ८ \।\। विधवा द्यूनगैः क्रूरैः पुनर्भूस्तैर्युताऽन्वितैः। नीचैव्ययस्थैरशुभै्दुर्वत्ता च स्मरातुरा \।\। ९ \।\। धूनमे चिवले क्रूरे शुभग्रहयुतेक्षिते \। जायते स्वपतिं त्यक्त्तवा पुनरन्यकुटुश्विनी ॥ १० ॥ धूने शुक्रे गृहेशे वा सुरूपः सुभगः पतिः \। बोधे तु निपुणो विद्वांन्द्रे कान्ततरेामृदुः ॥ ११ ॥ ऐणे तु कर्मकृतीक्ष्णो गुणी जैवे जितेन्द्रियः \। स्त्रीलोलोऽकर्मकृत् कौजे मन्दे मूर्खो जरन्नपि ॥ १२ ॥ क्र्रेऽष्टमस्थे वैधव्यं शुभदृष्टिविवर्जिते। यस्यांशे निधनाधीशस्तदशायां विनिर्दिशेत् \।\। १३ \।\। शुभो धनगतो यस्याः क्रूरो निधनगोऽपि

वा। मृत्युगस्य दशायां सा म्रियते विधवैव सा ॥ १४ ॥ कन्यालिवृपसिंहस्थे शशाङ्केऽल्पसुता वधू \। पापेऽस्ते नवमस्थे स्यात्प्रवज्यां यात्यसंशयम् ॥ १५ ॥ बलिनो ज्ञेज्यशुक्राराः समभंजन्मसंज्ञकम्\। स्यात्तदाऽनेकशास्त्रज्ञा ख्याता स्त्रीब्रह्मवादिनी \।\। १६ \।\। पापद्वयमध्यगते चन्द्रे लग्ने च कन्यका जाता। निजपितृकुलं समस्तं श्वशुरकुलं हन्ति निःशेषम् \।\। १७ \।॥ बादरायणः — उन्मृष्टा स्याद्भानौभौमे विधवा नवोढेव \। कन्यैव पापदृष्टे भानुसुते याति वैधव्यम्॥ \।\। १८ \।\। लग्ने सौरी रविः पुत्रे धर्मस्थो धरणीसुतः। अस्मिन्योगे प्रजाता स्त्री सा भवेद्विषकन्यका ॥ १९ ॥ रिपुक्षेत्रगतौद्वौतु लग्नेयत्र शुभग्रहो \। क्रूरश्चैकस्तदा जाता भवेत्स्त्री विषकन्यका \।\। २० \।\। यवनः— भद्रातिथिर्यदाऽऽ-श्लेषा शतभिषक् कृत्तिकाऽथवा\। मन्दाररविवाराश्चविषकन्या बुधैर्मता \।\।२१\।\। गर्गः— द्वादशी वारुणंसूर्यो विशाखा सप्तमी कुजे \। मन्दे श्लेषा द्वितीया च विपयोगास्त्रयो मताः ॥ २२ ॥ त्रैलोक्यप्रकाशे - व्ययाष्टगे कुजे क्रूरयुते राहौ च लग्नगे। रण्डाऽथ लग्नगे सूर्ये भौमे वा दुर्भमा शनौ ॥ २३ ॥ मूर्ती राह्वर्क- भौमेषुरण्डा भवति कामिनी। एषु शुक्रद्वितीयेषु पतिमन्यं चिकीर्षति ॥ २४ ॥ रन्ध्रगौ सूर्यमन्दौ चेद्विलग्नान्निजराशिगौ \। बन्ध्याऽथ चन्द्रमाः सौम्यः काकवन्ध्या तदा भवेत् \।\।२५\।\। मृतापत्या च शुक्रेज्यौ सारौ गर्भस्त्रवाभवेत्। तस्माज्जन्मनि चिन्तायां रन्द्रं भव्यं ग्रहोज्झितम् ॥ २६ ॥ अस्यापवादः— लगाद्विधोर्वा यदि जन्मकाले शुभग्रहो वा मदनाधिपश्च। द्यूनस्थितो हन्त्यनपत्यदोषंवैधव्यदोषं च विषाङ्गनाख्यम् \।\। २७ ॥

इति स्त्रीजातकाध्यायः ॥
—————————

अथ राजयोगाध्यायः।

जातकतिलके— वर्गोत्तमांशगे लग्ने चन्द्रे वा चतुरादिभिः\। अर्धचन्द्रैर्वेलिभिः खेटेर्दृष्टो भूपो भवेध्द्रुवम् ॥ १ ॥ स्वोच्चमार्केज्यमन्दारैः सकलैरथ वा त्रिभिः \। तदेकतमयुग्लग्नंस्वर्क्षेचन्द्रे तथा नृपः ॥ २ ॥ लग्नेशनौकुजे स्वोच्चेचापे चन्द्रार्कयोर्नृपः \। चापे रवौ कुजे सेन्दौमृगलग्नेगते नृपः \।\। ३ \।\। मीनलग्नगते शुक्रे कन्यालग्नेबुधे तथा। चापे चन्द्रयुतेजीवे भौमः स्वोच्चे भवेन्नृपः ॥ ४ ॥ मृगसिंहघटस्थेषु भौमभास्करसौरिषु\। मीनलगते चन्द्रे जातो भवति भूपतिः॥५॥ मेषलग्नगते भौमे गुरौस्वोच्चगते नृपः \। कुलीरलग्नगे जीवे भौमे मेषगते

श्रीशिवराजविनिर्मितो

नृपः ॥ ६ ॥ गुरौ कुलीरलग्नस्थे भास्करे मेषराशिगे। लाभस्थैचन्द्रशुक्रज्ञैर्भूपो विक्रमवान्भवेत \।\। ७ \।\। बुधे कन्याविलग्नस्थे कुजशन्योः सुखस्थयोः। कलत्रस्थे सजीवेऽब्जे कर्मस्थे भार्गवे नृपः ॥ ८ ॥ अपि दासकुलोद्भूतो योगैरुक्तैरिमैर्नृपः \। नृपजा वक्ष्यमाणैः स्युरन्यजास्तु नृपोपमाः ॥ ९ ॥ एकोऽपि बलवानखेटो भूपकृत्परमोच्चगः। केन्द्रादिशुभभावस्थो विशेषात्रय उच्चगाः ॥ १० ॥लग्नस्थयोर्भौमशन्योः सुखस्थेऽब्ऽजेस्तगे गुरौ। कर्मगेऽर्केबुधे लाभे शुक्रे धर्मस्थिते नृपः ॥ ११ ॥ लघुजातके— एकोऽपि नृपतिजन्मप्रदो ग्रहः स्वोच्चगः सुहृद्दृष्टः। वलिभिः केन्द्रोपगतै- स्त्रिप्रभृतिभिरवनिपालभवः ॥ १२ ॥ वर्गोत्तमगतचन्द्रे चतुराद्यैवक्षिते विलग्नेवा\। नृपजन्म भवति राज्यं नृपतियोगे बलवति दशायाम् \।\। १३ \।\। सासवल्याम् – एक एव ग्रहः स्वोच्चे वर्गोत्तमगतो यदि। बलवान्मित्रसंदृष्टः कुरुते स महीपतिम् \।\। १४ \।\। केन्द्रे विलग्ननाथःसुहृद्भिरभिवीक्षितो यदा विहगैः। लग्नस्थितैश्चसौम्यैर्भूपतिरिह जायते नियतम् ॥ १५ ॥ मृगसिंहौ परित्यज्य स्थितो लग्ने बृहस्पतिः। करोत्यवश्यं नृपतिं बह्वश्वपरिवारितम् ॥ १६ \।\। न्यूनोऽपि कुमुदबन्धुर्नृपकुलजं पार्थिवं करोत्युच्चैः। किंपुनरखण्डमण्डलकरतः प्रकटितदिगन्तः ॥ १७ ॥ जातकोत्तमे— जन्मेशो वा विलग्नेशः केन्द्रस्थः पूर्णविक्रमः \। संपूर्णोवा शशी तद्वत्कुरुते पृथिवीश्वरम् ॥ १८ ॥ देवमन्त्री कुटुम्बस्थो भार्गवेण समन्वितः। जनयेद्वसुधापालं निर्जितारातिमण्डलम् ॥ १९ ॥ यवनः—घने व्यये यदा लग्ने सप्तमे भवने ग्रहः\। छत्रयोगस्तदा नीचकुलोऽपि नृपतिर्भवेत् ॥ २० ॥ त्रिभिश्छत्रं महाछत्रंपञ्चभिश्चौतिसंज्ञकम्। सप्तभिस्तुर्यपङ्क्त्यन्तग्रहैश्छत्रादिनिर्णयः ॥ २१ ॥

इति राजयोगाध्यायः।
—————————

अथ राजयोगभङ्गः।

अवर्गोत्तमगे लग्ने ग्रहैर्दृष्टेभूपतिः। त्रिशङ्कुभोदयोत्पातव्यतीपाततैश्च जन्मतः ॥१॥ जीवेऽर्के गतिनीचस्थे त्रिभिरर्कगतैर्ग्रहैः। क्रूरे कर्मगते चैत्र कुम्भलग्ने च नो नृपः \।\। २ \।\। चन्द्रे परमनीचस्थे शुक्रेऽर्के वा न भूपतिः। केमद्रुमे च शून्येषु कण्टकेष्वर्कजे तनौ॥ ३ ॥

इति राजयोगभङ्गः।

अथ राजयोगनिर्णयः \।

राजयोगद्विजो विद्वान्क्षत्रियो नृपतिर्भवेत्। वैश्योलक्षेश्वरः शूद्रो राजसेवाप्ररः शुचिः ॥ १ ॥

अथ चन्द्रयोगः \।

विवाऽर्के व्ययगे श्चन्द्रादनका नुनफाखगैः। व्ययस्वर्गैर्दुरुधराऽन्यथा केमद्रुमो भवेत् ॥ १ ॥ प्रभुः सुवेषोनीरोगः ख्यातिशीलः सुखान्वितः। निर्वृत्तश्चानफा योगे भोगी वाग्ग्मी धनी भवेत् ॥ २ ॥ भूपोभूपतमो वा स्यात्सघनः ख्यातिधर्मवान् \। आत्मार्जितधनः कान्तः सुनफायांसुखी गुणीं ॥ ३ ॥ धनवाहनसौख्याप्तिस्त्यागी वाञ्छितभोगभाक् \। ख्यातो दुरुधरायोगे वाग्ग्मी सद्भृत्य- शक्तिमान् \।\। ४ \।\। वलवग्रहजेरेते योगेः पूर्ण निशाकरे\। यथोक्तफरूभाजः स्युर्नृपाश्चनृपवंशजाः \।\।५\।\। मलिनो दुःखितो नीचो निःस्वः प्रेप्यः खलो भवेत्। केमद्रुमे नृपोत्थोऽपि लोकविद्विष्टवृत्तिभाक् \।\। ६ \।\। भनफादित्रये भूपो भूपवंशभवो भवेत्। इतरोधनवान्केमद्रुमजो निर्धनोऽशुचिः ॥ ७ ॥ केमद्रुमफलाभाव- चन्द्रे सर्वग्रहेक्षिते। सग्रहेऽब्जेऽथवा केन्द्रे केमद्रुमफलाल्पता \।\। ८ \।\। सारावाल्यां- कुमुद्गहनबन्धो वीक्ष्यमाणे समस्तैर्गगनगृहनिवासैर्दीर्घजीवी विनाश्य। फलमशुभसमुत्थं यथ केमद्रुमस्थं भवति मनुजनाथः सार्वभौमो जितारिः ॥ ९ ॥ हित्वेन्दुं धनगैरकार्द्वेशिस्थानं बुधैर्मतम्। यच्चेष्टमहसंयुक्तं योज्यं यानेऽर्थसिद्धिदम्॥ १०॥

अथ म्लेच्छयोगः \।

मूर्तौसप्तमगाः क्रूराः सचन्द्रा वा पदस्थिता। \। रक्षोभे जायते म्लेच्छो धर्मे पापत्रयान्विते \।\। १ \।\। शनिराहुकुंजाधर्मे यद्वालन्ने स्मरे पदे। सचन्द्रा वा पृथक् प्रोक्ता भावेषु म्लेच्छर्ता वजेत् ॥ २ ॥

अथ राशिलग्नयोः फलम्।

अस्थिरविभूति मित्रं चलमटने स्खलितनियममपि घरभे\। स्थिरभेतद्विपरीतंक्षमान्वितं दीर्घसूत्रं च ॥ १ ॥ द्विशरीरे त्यागयुतं कृतज्ञमुत्साहिनं विविधचेष्टम्। ग्रामारण्यजलोद्नराशिषु जातास्तथाशीला \। \।\। २ \।\। रागी सुखी कविघोषी मानी यतिर्धनी \। गुणग्राही ग्रही धर्मी कुटिला मेषराशितः \।\। ३ \।\। तस्करभोवतृविचक्षणधाननृपतिनपुंसकाभयदरिद्रा। खलपापोयोत्कृष्टा मेषा- दीनां नवशिभवाः ॥ ४ ॥

अथ प्रव्रज्यायोगः \।

वराहः-चतुरादिभिरेकस्थैः प्रव्रज्यां स्वां ग्रहः करोति वली। बहुभिवीर्यैर्बह्वयः प्रथमा वीर्याधिकस्यैव ॥ १ ॥ तापसवृद्धश्रावकरक्तपटाजीविभिक्षुचरकाणाम्। निर्ग्रन्थानां चार्कात्पराजितैः प्रच्युतैर्बलिभिः \।\। २ \।\। दिनकरलुप्तमयूखैर-दीक्षिता. भक्तिवादिनस्तेषाम् \। याचितदीक्षा बलिभिः पराजितैरन्यदृष्टैर्वा \।\। ३ \।\। जातकोत्तमे – वन्याशी शिवभक्तश्चोपासको योगविद्यतिः। विष्णुभक्तश्च दिग्वासाः प्रव्रज्या भानुतः क्रमात् ॥ ४ ॥ अन्यच्च ज्ञानवान्वीतरागी चोपासको विवराश्रमी \। तीर्थकृच्छ्राद्धकृद्यज्ञीदुस्तपस्वी क्रमाद्रवेः ॥ ५ ॥

**इति शूरमहाठश्री शिवदासविनिर्मिते।
ज्योतिर्निबन्धसर्वस्वे संपूर्ण जातकं स्फुटम् ॥ १ ॥
**——————————

अथ नानाविधप्रश्नप्रकरणम्।
तत्राऽऽदौ शुभाशुभज्ञानम्।

ग्रहभावफलोत्पातशकुनस्वरवर्णनम् \। पृच्छाजातकमाचार्यैरधिकाराष्टकं मतम् ॥ १ ॥ अधिकारेषु सर्वेषु प्रश्नतन्त्रं शिरःस्थितम्। यस्माच्छुभाशुभं सर्वे सद्यैःप्रत्ययकारकम् ॥ २॥ संपूज्य खचरान्साङ्गान्दैवज्ञं स्वक्रियापरम्। श्रद्धायुक्तः पूर्णपाणिः पृच्छेदव्याकुलः पुमान् ॥ ३ ॥ कर्मणा येन येनेह प्रेरितोऽभ्येति प्रच्छकः। जन्मपृच्छारम्भलग्नेर्युक्त्या तस्य फलं वदेत् ॥ ४ ॥ क्षुद्रपाखण्डधूर्तेषु श्रद्धाहीनोपहासके। ज्ञानं न तथ्यतामेति यदि शंभुः स्वयं वदेत् \।\।५\।\। भक्तार्तदीनवदनेदैवज्ञो नाऽऽदिशेद्यदि \। विफलं भवति ज्ञानं तस्मात्तेभ्यः सदा वदेत् ॥ ६ ॥ स्वस्थचित्तं सकृत्पृच्छेदार्तः पूर्वाह्न एव तत् \। सत्यं स्यादपराह्नेतु मध्यं रात्रौ तु निष्फलम् \।\।७\।\। प्राची प्रतीची माहेशी कौवेरी दिक् सुखप्रदा \। अवाची राक्षसी दुष्टा शून्याऽऽग्नेयी च मारुती \।\। ८ \।\। अङ्गुष्ठकर्णवदनस्तनहस्तकेशकट्यंसपादतलगुह्यशिरांसि गण्डम्। ओष्ठं च संस्पृशति वक्ति शुभानि यद्वा प्रष्टातदा कलयति ध्रुवमिष्टसिद्धिम् ॥ ९ ॥ अधीतगणितो यः स्याज्जातकेषु कृतश्रमः \। सोऽधिकारी भवेदऽत्रप्रश्नशास्त्रेनिराकुलः॥ १०॥ पूर्णनाडीस्थितः पृच्छेच्छुभं स्यादन्यथा क्षतिः। श्वासप्रवेशे संपूर्णे निर्गमेऽल्पफलं वदेत् ॥ ११ ॥ सौम्ये विलग्नेयदि वाऽस्य वर्गे शीर्षोदये सिद्धिमुपैति कार्यम्। अतो विपर्यस्तमसिद्धिहेतुः कृच्छ्रेण संसिद्धिकरं विमिश्रम् ॥ १२ ॥

प्रश्नवर्णा रसैर्निघ्नागजाढ्याःसप्तभाजिताः। शेषे सौम्योदये शस्तं नेष्टं पापोदये वदेत् \।\। १३ \।\। दूतोक्तवर्णसंख्याङ्को द्विगुणो भाज्यते त्रिभिः। यद्येकः. शेषतां याति तच्छुभं नान्यथा पुनः ॥ १४॥

इति शुभाशुभज्ञानम् \।
————————

अथ लग्नादिभावविचारः \।

रूपलक्षणवर्णानां क्लेशदुःखसुखायुषाम्। वय प्रमाणं जानानां तनुस्थाने नियोजयेत् ॥ १ ॥ मणिमुक्ताफलस्वर्णरत्नधातुकदम्बकम्। क्रयाणकानि सर्वाणि धनस्थाने नियोजयेत् ॥ २ ॥ भगिनीभ्रातृभृत्यानां दासकर्मकृतामपि। कुर्वीत वीक्षणं विद्वान्सम्यग्दुश्चिक्यवेश्मनि\।\। ३ \।\। वाटिकाग्रामगेहादिवृद्धिस्थानं गमागमौ\। प्रवेशं मातरं क्षेत्रं विधिमन्त्रौषधं सुखे ॥ ४ ॥ गर्भाप— त्यविनेयानां मन्त्रसंधानयोरपि। विद्याबुद्धिप्रधानानां सुतस्थानाद्विनिर्णयः ॥ ५ ॥ महिष्याद्यरियुग्युद्धगवाक्षक्रूरकर्मणाम्। मातुला264तकलङ्कानां रिपुस्थानाद्विनिर्णयः \।\। ६ \।\। वाणिज्यं व्यवहारं च विवादं चौरकर्म च। गमागमं कलत्राद्यं पश्येत्प्राज्ञः कलत्रतः ॥ ७ ॥ नद्युत्तारेऽध्ववैषम्ये दुर्गे शात्रवसंकटे नष्टेदृष्टे रणे व्याधौ छिद्रे छिद्रं निरीक्षयेत् ॥ ८ ॥ वापीकूपतडागादिप्रषादेवगृहांणि च। दीक्षायात्रां मठंधर्म गुरुं धर्मे निरीक्षयेत् ॥ ९ ॥ राज्यं मुद्रां पदं स्थानं पुण्यं मानं पितुः स्थितम्\। वृष्टयादिव्योमवृत्तान्तं व्योमस्थाने निरीक्षयेत् ॥ १० ॥ सस्यकाञ्चकन्यानां गजयानाश्ववाससाम् \। लाभे विद्यार्थयोर्लाभं लक्षयेत्क्रयविक्रयौ॥ ११ ॥ त्यागे भागे विवाहेषु दानेषु कृषिकर्मणि। युद्धे व्ययेषु सर्वेषु विद्धि विद्वन्व्ययं व्ययात् ॥ १२ ॥ यो यो भावः स्वामिदृष्टो युतो वा सौम्यैर्वा स्यात्तस्य तस्यास्ति वृद्धिः। पापैरेवं तस्य भावहानिर्निर्देष्टव्या प्रश्नतो जन्मतो वा ॥ १३ ॥ यत्र दृक्कषट्कसद्भावस्तत्र पूर्णफलं वदेत्। चन्द्रदृष्टया विशेषेण तद्विनाऽल्पधिया पुनः ॥ १४ ॥ चन्द्रदृष्टि विनाऽन्यस्य शुभस्य यदि दृग् भवेत्। शुभं प्रयोजनं किंचिदन्यदुत्पद्यते तदा \।\। १५ \।\। लग्नं लग्नेश्वरः पश्येद्भावं पश्यति भावपः \। तावुभौ भावगौ स्यातां तदा तत्सिद्धिमादिशेत् ॥ १६ ॥ संपूर्णे सबलैःखेटैःशुभं चाशुभमल्पकम्। विवलैरशुभं पूर्णे नान्यद्वयस्तं व्ययाष्टमे \।\। १७ \।\। केन्द्रे सर्वग्रहाः पुष्टास्त्रैकालिक—

श्रीशिवराजविनिर्मितो-

फलप्रदाः। कार्ये पणफराद्भाविज्ञेयमापोक्लिमाद्गतम् \।\।१८\।\। पृच्छालग्नेषु सर्वेषु लग्नाधिपवलावलात्। समस्तं फलमादेश्यं स्थानदृष्टिमभावतः ॥ १९ ॥

इति लग्नादिभावविचारः।
—————————

अथ ग्रहबलाबलम् \।

· उच्चस्वराशिमित्रस्थः शुभदृष्टियुतोदितः। वली स्यात्पापयुग्दृष्टो नष्टो नीचारिगोऽफलः ॥ १ ॥ क्रूरदृष्टोयुतो वाऽपि क्रूराक्रान्तो त्रिरश्मिकः। स विनष्टो ग्रहो ज्ञेयोविपरीतस्तु पुष्टिमान् \।\। २ \।\। लग्गनाथे विनष्टे स्याद्विनष्टावयवो नरः। द्वेजोवर्णाधिकं नष्टं ब्रूयादिदमशङ्कितः\।\। ३ \।\। यदि लग्नेश्वरः षष्ठः स्वयमेव रिपुर्भवेत्\। रन्ध्रेशो मृत्युकारी स्याद्द्वादशस्योव्ययप्रदः ॥ ४ ॥ भावप्रान्तगतः खेटः परभावफलप्रदः। आसीनोऽन्त्यघटीं यावद्विवाहादौ फलप्रदः ॥ ५ ॥

अथ धात्वादिचिन्ता।

धातुर्मूलं जीव इत्योजराशौ युग्मे विद्यादेतदेव प्रतीपम्। लग्ने योंऽशस्तत्क्रमाद्गण्यमेवं संक्षेपोऽयं विस्तरात्तत्प्रभेदः \।\।१\।\। ऊर्ध्वदृष्ट्या भवेज्जीवो ह्यधोंदृष्ट्या च मूलकम् \। समावलोकनाद्धातुं मिश्रंमिश्रदृशा वदेत् ॥ २ ॥

अथ बहुप्रश्ने विशेषः।

स्लग्नादाद्यात्तुरीयात्तु द्वितीया सप्तमात्परा\। चतुर्थी दशमाञ्चिन्ता पञ्चम्यादिततो भवेत् ॥ १ ॥ ततोऽपि पञ्चमात्पश्चाद्रन्ध्राल्लाभाद्यथाक्रमम्। षण्नवान्त्याच्च पृच्छैव पृच्छा द्वादश संस्मृतरः॥ २ ॥ धनादिभावं लग्नंस्यात्तस्मादपि धनादितः। शतं वेदाब्धिसहितं प्रश्नानामिह जायते ॥ ३ ॥ भद्रार्धयामकुलिकव्य- तीपातेषु वैधृतौ। क्रान्तिसाम्ये संक्रमणे ग्रहणे चेन्न सिद्धये॥ ४ ॥

अथ लाभालाभविचारः

लग्नलाभपती लग्ने लाभे पा लग्नलाभपौ\। लग्ने लाभाधिषो वा स्यालाभे लाभाधिपो भवेत् ॥ १ ॥ एकोऽपि हि यदा योगस्तदा लाभः सुनिश्चतम्। चन्द्रयुक्तो विशेषेण पूर्णमायुश्च यच्छति ॥ २ ॥ लग्नलाभपयोर्दृष्टिलाभे लाभकरी मता \। लाभः सर्वखगैर्दृष्टो लाभः पूर्णो भवेत्तदा \।\। ३ \।\। धनादिसर्वलाभेषु वाच्यमेवं यथा तथा। निष्फलाः कथिता योगा यदि चन्द्रो न पश्यति ॥ ४ ॥ तिर्यग्योनौ गते लग्नेद्वितृतीयगतेऽथवा \। शुभग्रहेण युक्तश्चेत्पशुलाभस्तदा भवेत् ॥ ५ ॥ केन्द्रगो या लग्नेशः शुभो दृष्टः शुभैरपि। लग्नषोवा त्रिकोण

स्थश्चन्द्रोक्षेमकारकः ॥ ६ ॥ लग्नगो यदि कर्मेशो दृष्टो लग्नाधिपेन तु। नृपाल्लाभस्तदा वाच्यचन्द्रदृष्टोविशेषतः ॥ ७ ॥ चन्द्रो लग्नपतिर्वाऽपि धनपस्याग्रगो भवेत् \। तदा न धनलाभः स्याद्धनहानिर्ध्रुवं भवेत् \।\। ८ \।\। धने265 लाभपतिर्लग्नेवित्तपो धनलाभकृत्। धने शुक्रेन्दुगुरवो धनेशो वाऽतिलब्धये ॥ ९ ॥ त्रिपञ्चलाभास्तमयेषु सौम्या लाभप्रदा नेष्टफलाश्च पापाः। घटोऽथ कन्यामिथुनो घटश्चनृराशयस्तेषु शुभं वदन्ति ॥ १० ॥ इन्दुं द्विसप्तनवमायारिपुत्रिसंस्थं पश्येद्गुरुः शुभफलं प्रमदाकृतः स्यात्। लग्नत्रिधर्मसुतनैधनगास्तु पापाः कार्यार्थनाशभयदाः शुभदाः शुभाः स्युः ॥ ११ ॥ लाभे लाभेशसंदृष्टे लाभे शुक्रे गुरौ विधौ \। लाभो भवति तत्कालं स्वस्यान्यस्य श्रिया सह ॥ १२ ॥ चरे लग्ने शुभर्युक्ते लाभे चन्द्रे बलाधिके। त्रिकोणकेन्द्रगैः सौम्यैर्लाभो भवति निश्चितम् ॥ १३ ॥ मेषेलाभो वृषेलाभो मिथुने लाभ इष्यते। नास्ति कर्काटके लाभः सिंहे लाभस्तु शीतलः ॥ १४ ॥ कन्यायां च घटे लाभो न लाभो वृश्चिके मतः। धनुपि स्यादाशु लाभो मृगे कार्ये तु शीतलम् \। कुपुत्रस्तु भवेत्कुम्भे मीने लाभः शुभो भवेत् ॥१५॥

अथ नष्टलाभविचारः।

राशिदृक्काणांशाश्चला हितं निथला मतिभ्रंशम्\। उभयशरीराः पातं दिशन्त्यमी द्रव्यजातस्य ॥ १ ॥ नृपसिंहवृश्चिकघटैर्वृद्धिस्थानं गमागमौन स्तः। न मृतं न चापि नष्टं न रोगशान्तिर्न चाभिभवः ॥ २ ॥ तद्विपरीतं तु चरैद्विशरीरैमिश्रितं फलं वाच्यम् \। लग्नेन्द्वोर्वक्तव्यं शुभदृष्ट्या शोभनमतोऽन्यत् \।\। ३ \।\। होरास्थितः पूर्णतनुः शशाङ्‌को जीवेन दृष्टो यदि वा सितेन \। क्षिप्रंप्रनष्टस्य करोति लब्धिंलाभोपयातो वलवाञ्छुभश्च\।\। ४ \।\। पूर्णः शशी लग्रगतः शुभो वाशीर्मोदये सौम्यनिरीक्षितश्च। तदाऽऽशु नष्टस्य करोति लाभं तथैव पूर्वोदितलाभयोगैः ॥ ५ ॥ स्थिरोदये स्थिरांशे वा वर्गोत्तमगत्तेऽपि वा। स्थितं तत्रैव तद्द्रव्यं स्वकीयेनैव चोरितम् \।\। ६ \।\। यस्मिन्नाशौ भवेच्चन्द्रस्तद्राशेरधिपेन चेत्। दृश्यते चन्द्रमाः प्रश्ने नष्टं च लभ्यते तदा ॥ ७ ॥ चन्द्रे क्रूरयुते नष्टं चक्रिणि द्यूनपे तथा। न लभ्यतेऽस्तपे नष्टे चौर्येशोऽपि मरिष्यति ॥ ८ ॥ सक्रूरे द्यूनपः केन्द्रे चोराप्तिः सशुभोऽन्यथा। सूर्यलुप्तो धनेशश्चेच्चोराप्तिर्न ह्रतं धनम् ॥ ९ ॥ लग्नपे द्यूनमायाते नष्टं कष्टेन लभ्यते। धूनपे लग्नमायाते स्वयं चोरः प्रयच्छति॥ १० ॥ विषौ व्ययगते वस्तु ह्रतं भुक्तं तु तस्करैः। स्थिरेऽस्तपे स्थितं

श्रीशिवराजविनिर्मितो-

तत्र ग्रामान्तरगमश्चरे॥ ११ ॥ उच्चगो यदि सप्तेशः स्वामी चौरः स्ववेश्मगः। चौरस्यापि वयोजातिरूपं सप्तेश्वराद्वदेत् \।\। १२ \।\। नीतं चौरिकया वस्तु घृतं चौरेण कुत्रचित्। कीटमर्कटमीनेषु चतुर्थे जलसंनिधौ ॥ १३ ॥ मेषसिंहहये भूमौ हयस्यैव विनिर्दिशेत्। नृयुग्मेच तुलाकुम्भे नानाकारे गृहे भुवि ॥ १४ ॥ क्षेत्रमध्ये तु कन्यायां मकरे वृश्चिके भुवि। वृषभच्छागयोर्गेहे यद्वा तत्स्थग्रहाद्वदेत् ॥ १५ ॥ सूर्ये गृहेशशय्यायां चन्द्रे तोयसमीपतः। दग्धस्थाने कुजे ज्ञे तु चित्रगेहे गुरौ तथा ॥ १६ ॥ देवालये भृगौ क्रीडागृहे मन्दे मलाश्रये। लग्नाच्चन्द्रो भवेद्यत्र तत्र चौरगृहं वदेत् \।\। १७ \।\। चौरः खेटस्तु तद्राशिं त्यक्त्वा याति द्वितीयकम्। तदानीं नगराच्चौरो निर्गतो वर्त्म चांशकात् ॥ १८ ॥ ब्राह्मणः क्षत्रियो वैश्यः शूद्रोऽथ स्वजनाङ्गना \। भ्राता पुत्रोऽथ भृत्यश्च दासः स्यान्मूपकोऽप्यभूः ॥ १९ ॥ पूर्वराशिं यदा वक्री समागच्छति लग्नपः। तदा ग्रामान्तराच्चौरः स्वयमेवाऽऽगमिष्यति \।\। २० \।\। मेषादिषुक्रमाच्चौरनामैषांराशिसादृशम्। मेषेवृषे च दिक्पूर्वा आग्नेयी मिथुने स्मृता ॥ २१ ॥ दक्षिणा कर्कटे ज्ञेया सिंहेऽप्येवं विजानता \। कन्यायां नैर्ऋती ज्ञेया पश्चिमा घटवृश्चिके ॥ २२ ॥ मारुती धनुषि ज्ञेया उत्तरा मृगकुम्भयोः। मीनराशौतथैशानी दिशालक्षणमीदृशम् \।\। २३ \।\। चरे दूरं विजानीयात्स्थिरे गृहगतं वदेत्। द्विशरीरे भवेद्बाह्येगृहं त्रिविधमादिशेत् ॥ २४ ॥ चरे वै गृहकोणेषु स्थिरे मृन्मयभाजने। द्विशरीरे भवेत्क्षेत्रे स्थिरे गृहगतं वदेत् \।\। २५ \।\। मेषेऽरण्ये वृषे क्षेत्रे युग्मे ग्रामेऽथ कर्कटे \। नद्यांसिंहे तडागे च कन्यायां तु निजे गृहे ॥ २६ ॥ घटेऽन्तरिक्षेलो वह्नौचापे क्षेत्रे मृगे जले \। कुम्भे भूमिगतं मीने पथि नष्टादिकं वदेत् ॥ २७ ॥ कुमारिकां वालशशी बुधश्चवृद्धां शनिः सूर्यगुरू प्रसूताम्। स्त्रीः कर्कशा भौमसितो व्यधत एवं वयः स्यात्पुरूपेषु चैवम् \।\।२८\।\। विस्मृतं यन्मया वस्तु तत्प्राप्तिं यदि पृच्छति। वस्तुस्थानं तृतीयं तु ग्राहक सुखवेश्मकः ॥ २९ ॥ धातुवादे रणे चौर्ये पर- स्वहरणेऽपि वा। शुभपापसमायोगाल्लग्नस्यैवं विचारणा ॥ ३० ॥ चन्द्रलग्नपती षष्ठे वलिनो ऋणलाभदौ। लाभयोगे तु लाभः स्यादन्यो लाभस्तु लाभतः ॥३१॥

इति नष्टलाभ विचारः।
———————

अथ गर्भपृच्छा \।

स्नाता योषिद्यदा पृच्छेद्यत्रस्यादष्टमाधिपः \। अङ्गे दिनाानितावन्ति याद

च्छिद्रात्परे ततः ॥ १ ॥ लग्नेपुत्राधिषः पुत्रे लग्नेशो यदि संस्थितः। भावीपुत्रस्तदा प्रश्ने वक्तव्यमिति निश्चितम् \।\। २ \।\। पुत्रेश्वरोयदा लग्ने पुत्रपञ्चेन्दुनायुतः। भृगुभूमिसुतौ पश्येच्चन्द्रो गर्भेसुतां वदेत् ॥ ३ ॥ लग्ने शुभे शुभे पुत्रे लाभे पुत्रे स्वर्गे गुरौ। प्रश्ने समुदितं वाच्यं सुतो गर्भेऽन्यथाऽन्यथा ॥ ४ ॥ पञ्चमे सुभगे गर्भो गर्भस्थो नीरुजस्तथा। सोपद्रवः सपापे तु गर्भस्रावोऽथवा मृतिः ॥ ५ ॥ लग्नं विना चरे राशौ विषमे पुत्रकृच्छनिः। समे स्त्री राहुरेवं चैज्जातमृत्युकरो मतः ॥ ६ ॥ सपापश्चन्द्रमाश्छिद्रे षष्ठे वा शुभदृग्विना \। राहुश्चतुष्टये वा स्यात्सद्योमृत्युकरो मतः ॥ ७ ॥ गर्भग्रन्थिः शनौ राहौकुजे गर्भस्त्रिमासिकः। वातग्रन्थि शनीन्दुभ्यां राहिन्दुभ्यां जलोदरम् \।\। ८ \।\। चन्द्रादृष्टेऽधमैर्युक्ते क्रूरदृष्टे च पञ्चमे \। नीचस्थेऽस्तमिते गर्भे नवापत्यं प्रजायते ॥ ९ ॥ चन्द्रो वा यदि वा लग्ने पञ्चमे भवने स्थितः। सौम्येक्षितो यदाऽवश्यं गर्भिणीति तदा वदेत् \।\।१०\।\। हरिवृषवृश्चिककन्यापञ्चमगाश्चन्द्रतोविलग्नाद्वा। पृच्छाकालेवाच्यं स्वल्पापत्या भवेद्योपिन् \।\। ११ \।\। पुंवर्गे लग्नगते पुंग्रहदृष्टे वलान्विते पुरुषः \। युग्मे स्त्री ग्रहदृष्टे स्त्रीबुधयुक्ते तु गर्भयुता ॥ १२ ॥ प्रसूतावाऽप्रसूता वा षष्ठेशः पुत्रपोऽथवा \। ज्ञगुरू व्योम्निशुक्रो वा प्रसूता सा न चान्यथा॥ १३ ॥ सुतेशलग्नाधिपती स्त्रीपुंभे स्त्रीसुतप्रदौ। सूर्यनाडयां सुतचन्द्रे सुता क्लीवस्तु संक्रमे ॥ १४ ॥ लग्नचक्रे तु चत्वारि ग्रहयुग्माणि चेत्तदा। यमलं जायते तत्र चरे त्रीणि स्वपक्षतः ॥ १५ ॥ लग्नात्पुत्राद्भृगुर्यत्र तावन्मासान्गतान्वदेत्। यद्वा भुक्तांशका लग्नेगतमासास्तु तत्समा ॥ १६ ॥ यावत्संख्ये द्वादशांशे शीतरश्मिर्व्यवस्थितः। तत्संख्यो यस्ततो राशिर्जन्मेन्दौ तद्गतं वदेत् ॥ १७ ॥ शनौ द्यूने जनिरत्र्यब्दैश्चचन्द्रे कामेऽर्कवत्सरैः। पञ्चमः सप्तमो वा स्यात्तद्राशिश्चन्द्रतः शिशोः \।\।१८\।\। दिवालग्नेदिनस्वामी दिने जन्म निशापतिः। निशालग्नेनिशि ज्ञेयं सायं जन्मान्यथा ध्रुवम् ॥ १९ ॥ वीक्षितं यमवक्राभ्यां पञ्चमं परवल्लभा। सेन्दुरर्कः सपापश्चेत्तथैवेज्यो न पश्यति ॥ २० ॥

इति गर्भपृच्छा \।
———————

अथ विवाहपृच्छा \।

लग्नादिन्दुस्तृतीयास्तपञ्चकर्मायगो यदि \। गुरुणा वीक्षितस्तर्हिभवेत्संवन्धकारकः ॥ १ ॥ तुलावृषकुलीरेषु संयुतेप्वीक्षितेषु च। निशानायकशुक्राभ्यां कन्यालाभो भवेद्वम् \।\। २ \।\। व्ययेशो यदि लग्नस्थो लग्नेशो व्ययगो भवेत्। तदा विवाहकर्ता स्याद्वरातिर्विषमशनौ॥ ३ ॥

अथ विवाहे शुभाशुभम्।

यदि लग्नगतः क्रूरस्तस्मात्सप्तमगः कुजः \। विज्ञेयं भर्तृमरणं सप्तमाब्दान्तरे यदि \।\। १ \।\। लग्नात्पञ्चमगः क्रूरः शत्रुदृष्टः स्वनीचगः \। मृतपुत्रा तदा नारी कुलटा वा न संशयः ॥ २ ॥ यदि लग्नगतञ्चन्द्रस्तस्मात्सप्तमगः कुजः। मासेऽष्टमे व्यतीते तु भवेन्मृत्युर्वरस्य च \।\। ३ \।\। आयुर्लग्ने सुते पुत्रान्द्यूने वित्तं गुरुर्बुधः। ददातीह विवाहोक्तं योज्यं स्त्रीजातकोदितम् ॥ ४ ॥

अथ संभोगः \।

अस्ते रविसितवक्रौपरजायांस्वांगुरौवेश्याम् \। चन्द्रे च वयः शशिवत्प्रवदेत्सौरेऽन्त्यजातीनाम् ॥ १ ॥ सप्तमे वाऽष्टमे शुक्रे रतं स्वाभाविकं भवेत्। बुधेन गुरुणा वाऽपि शुक्रे युक्ते महत्सुखम् \।\। २ \।\। सचन्द्रे सुरता योषित्सकुजे कलहो भवेत्। कटिशूलः ससौरे स्यात्सार्के मिथ्या रतं गतम् ॥ ३ ॥ सराहौ तामसो भोगः सकेतौ कलहैर्युतः। लग्ने जीवे द्यूने चन्द्रे तुर्ये या क्रीडनं महत् ॥ ४ ॥ सुखद्यूनगतैः क्रूरैः सुरतं प्रेतवद्भवेत्। स्त्रीलाभयोगैःसंभोगो भविष्यति नचान्यथा ॥ ५॥

अथ गमनम्।

चरलग्ने चरभागे मध्याद्भ्रष्टे प्रवासचिन्ता स्यात्। भ्रष्टः सप्तमभवनात्पुनर्निवृत्तो यदि न वक्री स्यात् ॥ १ ॥ स्थित्वा विदिक्षु गमनं पृच्छति गन्ता चरोदये शुद्धे। ब्रूयाद्यात्रासिद्धिं शिवं तथा चार्थलाभं च ॥ २ ॥ उदयगते चरराशौगुरुबुधभास्करेषुचैकतमः। गमनमुपदिशन्ति पुंसां निवर्तनं वक्रसंस्थितो वाऽपि ॥ ३ ॥ स्थिरराशिस्थे चन्द्रे स्थिरोदये गन्तुमिच्छतो गमनम्। नास्तीति वक्ति शास्त्रं तथा चरे स्थातुकामस्य ॥ ४ ॥ सुखे व्योम्निस्थिते सौम्ये तदा न गमनं भवेत्। तत्रैव गमनं पापे वक्री खेटो यदा न हि ॥ ५ ॥ भाग्यपो लग्नपो वा स्याच्चन्द्रगो वा विशेषतः \। चन्द्रलग्नेश्वरौ भाग्ये गमस्तत्राप्यचिन्तितः \।\। ६ \।\। चन्द्रो लग्नपतिर्वाऽपि केन्द्रे खेटैःसहाग्रनः। सिद्धेऽपि गमने प्रष्टुर्गमनं नेति निश्चितम् ॥ ७ ॥ शुभे मूर्तौशुभं देहे दशमे कार्यसिद्धिकृत्। सप्तमे तु शुभैर्युक्ते गतो यत्र शुभं ततः ॥ ८ ॥ चतुर्थे सशुभे कृत्वा कार्ये स्वागमनं भवेत्। अत्राशुभेषु तद्धानिर्मिश्रैर्मिश्रफलं भवेत् ॥ ९ ॥ स्थिरोदये जीवशनैश्चरेक्षिते गमागमौनैव वदेच्च पृष्टतः \। त्रिपञ्चपष्ठा रिपुसंगमाय पापाचतुर्था विनिवर्तनाय \।\। १० \।\। ग्रहः सर्वोत्तमबलो लग्नाद्यस्मिन्गृहे स्थितः \। मासै-

स्तत्तुल्यसंख्याकैर्निवृत्तिंयातुरादिशेत्‌ ॥ ११ ॥ चरांशस्थेग्रहेतस्मिन्कालमेवं विनिर्दिशेत्‌ \। द्विगुणं स्थिरभागस्थेत्रिगुणं द्वयात्मकांशके ॥ १२॥ चन्द्रो याति यदा लग्नेजीवो वाऽप्यथवा कविः।सूर्यो वाऽस्तं तुलग्मेशोलर्ग्नाशोवा तदाऽऽगमः ॥ १३ ॥ सप्तमेशीतगौशुक्रेमार्गेऽपि गच्छतां नृणाम्‌। स्रीसंभोगो भवेत्स्नेहान्मिथुनादिषुमूर्तिषु ॥ १४ ॥ गमनप्रश्ने नवमस्थाने गते द्यूनपे भवेद्गमनम्‌ \। लग्नाज्जामित्रपतिःकालेनाऽऽप्नोति यावता वक्रम्‌। अयर्न266वृत्तिरथवाविनिवृत्तिस्तेन कालेन ॥ १५॥ \।

इतिगमनपृच्छा \।
————————

अथाऽऽगमनम्।

द्वितीये वा तृतीये वाविलग्नादथवा सुखात्।सौम्यः करोति नष्टाप्तिं चाऽगमे च प्रवासिनः ॥ १॥ ब्रह्मयामले—प्रश्नाक्षराणि षड्घ्नानि शशियुक्तानि सप्तभिः। हरेच्छेषात्फलं प्रष्टुःप्रस्थानं १ पथ २ आगमः ३\। गृहागमः ४ सिद्धि ५ रोगौ ६ मृत्युः स्या ७ त्फलमीदृशम्‌ ॥ २ ॥ लग्नात्सौम्योहिबुके शीघ्रागमनंचरे लग्ने।धनसुतसहजारिस्थाः सौम्याः शीघ्रागमाय निर्दिष्टाः॥ ३ ॥ अकृतार्थःसमभ्येति धनेशो यदि वक्रितः। वक्राभिलाषिणि स्थायी प्रोषितः परिकीर्तितः ॥ ४ ॥ दूरगतस्याऽऽगमनं सुतधनसहजस्थितैर्ग्रहैविलग्नात्‌(१)। सौम्यैनष्टप्राप्तिर्लघ्वागमनंगुरुसिताभ्याम्‌ ॥ ५॥ जामित्रेऽप्यथवा षष्ठे ग्रहः केन्द्रेच वाक्पतिः। प्रोषितागमनं विद्याञ्त्रिकोणे ज्ञेसितेऽपि वा ॥ ६ ॥ अष्टमस्थेनिशानाथेकण्टकैःपापवर्जितैः\। प्रवासी सुखमायाति सौम्यैर्लाभसमन्वितः ॥ ७ ॥ केन्द्राद्द्वितीये खचरों यदा याति तदाऽऽगमः \। गन्तुकामं ग्रहं दृष्टवावाच्यमेतन्न चान्यथा ॥ ८ ॥ केन्द्राच्चन्द्रोऽग्रिमं याति तदाऽऽगन्ता तु मार्गगः \। नायं सप्तमकेन्द्रे स्यादग्रिमादग्रिमं तथा॥ ९ ॥ मार्गस्थं पथिकं ब्रूते द्यूने चन्द्रो व्यवस्थितः। मार्गनाथः परेऽर्धेचेत्पथिकागमनं तदा ॥ १० ॥ चरलग्नेचरांशेवा चतुर्थे चन्द्रमाः स्थितः। ब्रूते प्रवासिनं व्यक्तं समायातं स्ववेश्मनि ॥ ११ ॥ गृहप्राप्तःप्रवासी स्याच्चतुर्थे स्वामिसंयुते \। शुभयुक्ते दिनान्येवंभुक्तं भोंग्यं च तद्वशात्‌ \। १२ ॥ शनिः सपापोदशमे विदेशे पथिकः सरुक्‌। पापा रन्ध्रेरुजंकुर्युःसचन्द्रास्ते मृतिप्रदाः ॥ १३ ॥ पृष्ठोदये पापनिरीक्षिते वा पापास्तृतीये रिपुकेन्द्रगावा \। सौम्यैर्नदृष्टावधबन्धदाःस्युर्नष्टाविनष्टामुपिताश्च

वा स्युः ॥ १४ ॥ मन्दः पापसमेतो लग्नान्नवमे त्वशुभसंदृष्टः। रोगार्तः परदेशेऽष्टमगोवा मृत्युकर एव ॥ १५ ॥ सप्तमे यदि वा षष्ठे खेचरः कण्टके गुरौ। प्रवासी सुखमायाति ज्ञे शुक्रे वा तृतीयगे ॥ १६ ॥ गृहमागतो न यदाऽसौ किं बद्धः किं नु हत इति प्रश्ने। मूर्तौक्रूरौ267यदि तन्निहतो बद्धोऽथवा पुरुषः ॥१७॥ सप्तमगोऽष्टमगो वा चेत्क्रूरस्तद्धतोऽथ बद्धो वा मूर्तौसमेऽपि च [यदा] यद्वा लग्नेऽष्टमे च भवेत् ॥ १८ ॥ ग्रहो विलग्नाद्यतमे ग्रहे स्यात्तेनाऽऽहता द्वादश राशयस्तु। तावाद्दिनान्यागमनस्य विद्यान्निवर्तनं वक्रगते ग्रहे च ॥ १९ ॥ गुरौ लग्नेऽथवा शुक्रे शत्रुतस्करसंकटे। न प्रहारोऽथवा हानिर्वक्तव्या पथि गच्छतः ॥ २० ॥ न विश्रामश्चरे लग्ने द्वौविश्रामौ स्थिरात्मके। विश्रामत्रितयं प्रोक्तं द्विस्वभावे त्रिचक्षणैः ॥ २१ ॥

इत्यागमनपृच्छा।

अथ परचक्रागमः।

नाऽऽगच्छति परचक्रं यदाऽर्कचन्द्रौ चतुर्थभवनस्थौ। गुरुबुधशुक्राहिवुके यदा तदा शीघ्रमायाति ॥ १ ॥ सुतशत्रुगतैः पापैः शत्रुर्मार्गान्निवर्तते। चतुर्थगैरपि प्राप्तः शत्रुर्भग्नोनिवर्तते ॥ २ ॥ झपालिकुम्भकर्कटा रसातले यदि स्थिताः। रिपोः पराजयस्तदा चतुष्पदैः पलायनम् ॥ ३ ॥ मेषधनुःसिंहवृषायद्युदयस्था भवन्ति हिदुके या। विनिवर्तते तदारिर्ग्रहसहिता वा वियुक्ता वा ॥ ४ ॥ लग्नादेवं स्मरस्थाने निवृत्तिः स्यात्प्रवासिनः। शुभयुक्तेक्षिते तद्वन्नप्रवासोऽस्ति कर्मणि ॥ ५ ॥ द्वितीये वा तृतीये वा गुरुशुक्रौ यदा तदा। तदाऽऽश्वागच्छते सेना प्रवासो वा न संशयः ॥ ६ ॥ नवमे तु यदा पापाः पञ्चमे तु शुभाः स्थिताः रिपुरायाति देशस्थः कुरुते च पराभवम् ॥ ७ ॥ आयाति द्यूनपे वक्रे राशिचक्रे तु निश्चितम्। सीमान्तं धिष्ण्यचक्रे च मार्गे वक्रागमो ध्रुवम् ॥ ८ ॥ स्थिरे तु लग्नमागते द्विरात्मके तु चन्द्रमाः। निवर्तते रिपुस्तदा सुदूरमागतोऽपि सन् ॥ ९॥ चरे शशी लग्नगतो द्विदेहः पथोऽर्धमागत्य निवर्ततेऽरिः। विपर्यये चाऽऽगमनं हि शत्रोः पराजयः स्यादशुभेक्षिते तु ॥ १० ॥ स्थिरे चन्द्रश्चरं लग्नंयदि चेत्स्यात्परागमः। लग्नंस्थिरं चरे चन्द्रस्तदा नास्ति परागमः ॥ ११ ॥ चरगौ स्थिरगौद्व्यङ्गराशिगौतनुशीतगू। आगमो नाऽऽगमः शत्रोः क्रमान्मार्गान्निवर्तनम् ॥ १२ ॥ बली क्रूरोयदा लग्ने मार्गे स्याद्गच्छतो मृतिः। यद्दृष्टौ धर्म-

लग्नेशावन्यस्याऽऽगमकारकौ ॥ १३ ॥ स्थिरराशौयद्युदयेशनिः स्थिरे स्यात्तदाऽऽयातुः। उदये रविर्गुरुर्वा चरराशौ स्यात्तदाऽऽशु गमः ॥ १४ ॥ द्विशरीरगते लग्ने चरराशिगते विधौ। पन्थानमर्वमागत्य स्वयं शत्रुर्निवर्तते ॥ १५॥ चन्द्रोऽधिष्ठितभं लग्नाद्यावत्संख्ये स्थितो भवेत्। रिपुरायाति तावद्भिर्दिनैर्मध्ये खगो न चेत् ॥१६ ॥

इति परचक्रागमः।

अथ युद्धपृच्छा।

युद्धं भावि न [वा] चेत्प्रश्ने लग्नेशसप्तमाधीशौ। शत्रू स्यातां तु तदा युद्धं भवतीति वक्तव्यम् ॥ १ ॥ लग्नं लग्नस्य पूर्वंवा यदि पापसमाश्रितम्। तदा घोरं भवेद्युद्धं पापो वेक्षेत पापकम् ॥ २ ॥ लग्नास्तनाथयोर्योगेरणं दीर्घंसमादिशेत्। मन्दे वक्रे स्वल्पबले केन्द्रेऽल्पं बहुभिर्दिनैः ॥ ३ ॥ स्वगृहोचस्थे तु कुजे महारणं दशमगे भवति। लग्नस्थे मध्यतरं द्यूनस्थे सद्मनि प्रचुरम् ॥ ४ ॥ लग्नद्यूनपती पापौ पापांशस्थौतु युद्धदौ। तावेव कलितौकेन्द्रे षष्ठषोवा तथाविधः ॥ ५ ॥ कर्तर्यां यदि चन्द्रार्कौसंहारः सैन्ययोर्द्वयोः। निकटे निकटं युद्धं दूरे दूरं च प्रच्छके ॥६ ॥ सिंहादि मकरान्तं हि सूर्यक्षेत्रमुदाहृतम्। कुम्भाद्याः कर्किपर्यन्ताश्चन्द्रक्षेत्रं विदुर्बुधाः ॥ ७ ॥

इति युद्धपृच्छा।

अथ जयपराजयौ।

लग्नं च दशमं वाऽस्तं सौम्याढ्यं स्थायिनो जयः। तृतीये नवमे षष्ठे पापाश्चेद्यायिनोजयः ॥ १ ॥ उदयचतुर्थैःक्रूरैः सप्तमदशमस्थितैः सौम्यैः। विजयो भवति हि युद्धे द्यूनोदयगैः शुभैश्चापि ॥ २ ॥ सौभ्यास्तृतीयभवनाद्धर्माद्वा यायिनः शुभैःशुभदाः। व्ययदशमा ये पापाःपुरस्य नेष्टाः शुभा यातुः ॥ ३ ॥ लग्नेशे द्यूनगेऽन्त्ये वा भवेत्प्रष्टुः पराजयः। लग्नेशे वाऽस्तपे षष्ठे शत्रोरेव पराजयः ॥ ४ ॥ लग्नेशशिनि कुजेऽस्ते विलोमतो वा तयोर्नाशः। स्वपतौलग्ने प्रष्टुस्तुर्येशेऽस्ते रिपोः सहायबलम् ॥५॥ लग्ने क्रूरे प्रष्टुर्विजयोऽस्ते च विद्विषो विजयः। लग्नेशेऽस्ते यायी निवध्यते लग्नगेऽस्तपे स्थायी ॥ ६ ॥ विवाहे शत्रुहनने रणे संकटके तथा। क्रूरे मूर्तौजयो ज्ञेयः क्रूरदृष्ट्या पराजयः ॥७॥ उभयोः को विजयीति प्रश्ने लाभे तथा धर्मे। बुधगुरुशुक्रादित्याः स्थाने विजयं समा-

प्नोति॥८॥ चन्द्रसौम्यान्तरगता राशयस्तु समा यदि। तदा बहुतरं सैन्यं शत्रोः स्यादन्यथाऽल्पकम् ॥९॥ क्रूराक्रान्तानि यावन्ति मध्ये भानीन्दुलग्नयोः। तावन्तः प्राणिनो वध्या द्वित्रिघ्नाः स्वांशकादिकैः॥१०॥ ज्ञेयो लग्नपतिर्यायी पौरो जायापतिः स्मृताः। वक्री व्यावर्तकः प्रोक्तो मार्गी मार्गगतिस्तयोः ॥ ११ ॥ द्यूने पापो धनं दत्त्वा यायिनोः पुरुषःसुखी। शुभैः कर्मगतैर्दत्वा धनं यायी व्रजेद्गृहम् ॥१२ ॥ लग्नादेकादशेऽप्येको गुरुज्ञसितभानुषु। नागरस्य जयं ब्रूते नवमे लाभमुत्तमम् ॥ १३ ॥ सूर्ये चन्द्रे च सूर्यांशे संस्थिते स्थायिनां जयः। चन्द्रे सूर्ये च चन्द्रांशे संस्थिते स्थायिनां जयः ॥ १४ ॥ सूर्ये सूर्यांशसंयुक्ते चन्द्रे चन्द्रांशसंस्थिते। एवं योगे भवेत्संधिर्युद्धमेव विपर्यये॥ १५ ॥

इति जयपराजयौ।

अथ संधिविग्रहो।

नृराशिसंस्था उदये शुभाः स्युर्व्ययायसंस्थाश्च यदा भवन्ति। तदाऽशु संधिंप्रवदेन्नृपाणां पापैर्द्विदेहोपगतैर्विरोधम् ॥ १ ॥ केन्द्रोपगताः सौम्याः सौम्यैर्दृष्टा नृलग्नगाःप्रीतिम्। कुर्वन्ति पापदृष्टाः पापास्तेष्वेव विपरीतम् ॥२॥ संधिं कुर्या त्सुहृद्द्दृष्टि-र्लग्नेशास्तपयोर्मिथः। पृच्छायां लग्नगेक्रूरे संधिर्जातोऽपि नश्यति ॥३॥ लग्नं विना विधुः केन्द्रे त्रिकोणे वा बलान्वितः। संधिकृद्द्वेषिणोर्यद्वा पदेलग्नेश्वरो बली ॥ ४ ॥ नृभे त्रिषट्तपोरिष्फे संधिकृत्स्याच्छुभग्रहः। द्यूने लग्नपशत्रुत्वे संधिर्विश्लिष्यते स्वयम् ॥ ५ ॥ पुत्रगेहे तदीशो वा साधनं सबलं ध्रुवम्। आयेऽपि सबले संधिर्विवले विग्रहो भवेत् ॥ ६॥

इति संधिविग्रहौ।

अथ दुर्गभङ्गः।

सबलेदुर्वले वाऽपिक्रूरलग्नगते ग्रहे। न भवेत्कोटभङ्गोऽत्र शुभे व्यरतमवक्रिते ॥ १ ॥ द्यूने लग्नेयदा पापाः संस्थितो लग्नषोव्यये। षष्ठेधनेऽथवा छिद्रे दुर्गभङ्गस्तदा न हि ॥ २ ॥ लग्ने भौमोऽथवा राहुः क्रूरो रन्ध्रे न भङ्गकृत्। यदि सप्तमगो राद्दुदुर्गभङ्गो भवेद्ध्रुवम् ॥ ३ ॥

इति दुर्गभङ्गः।

अथ वेष्टितदुर्गभङ्गपृच्छा।

वेष्टितं वा न वा प्रश्नेधने रिष्फेसपापके। तदा तद्वेष्टितं दुर्गं वाच्यं ग्रामादिकं परैः ॥ १ ॥ दुर्गं वैरिजनैस्तु वेष्टितमिति प्रश्नेद्वितीयान्त्यगैःपापैर्वेष्टितमस्ति किं तु न गतं त्वेकादशभ्रातृगैः। एवं स्यात्सभयं तथाऽम्बुरखगतैः पापैरतीतं भयं यातं नेति च केन्द्रगैः खलखगैर्दुर्गंगृहीतं परैः ॥ २ ॥ लग्ने मध्येऽस्ते वा पितृभज्येष्ठे यदा भवतः। दुर्गस्थानां विजयं सौख्यं शुभदृग्युते विशेषेण ॥३॥ शुभोऽम्बुनाथस्तनुषं बलान्वितः स्वोच्चस्थितः स्नेहदृशा प्रपश्येत्। दुर्गस्थितानां च शुभं तथैवं चेत्सप्तमं स्याच्छुभदं हि शत्रोः ॥ ४॥ धने लाभे यदि क्रूरावेष्टितः सभटो गडः। सुखे द्यूनेयदा पापाः स्वयमुद्वेष्टितः परैः ॥ ५ ॥ मृत्युनाथः सौभमश्चेदसंख्याता मृतास्तथा। कण्टके सूर्यपुत्रश्चेद्वद्धाःस्युर्वहवो जनाः ॥ ६ ॥ लाभव्योमसुतस्थौ चेद्गुरुशुक्रौ तदा परः। त्यक्त्वा याति स्वकं देशं स्वास्थ्यं तत्कोटवासिनाम् ॥ ७ ॥ लग्नेशःशुभदः केन्द्रे कोटस्थानां शुभप्रदः। लग्ने पैत्रेन्द्रतिष्यश्चेत्कोटस्थैर्वाध्यते परः ॥ ८॥ वेष्टितोऽपि गडःप्रश्ने ग्रहीतुं शक्यते यदा। पापः केन्द्रगतश्चेत्स्यात्कोटोऽसौ ॥ ९ ॥ लग्नपापान्तरा भागा यावन्तस्तात्रता दिनैः। मासैर्वर्षैश्चरादिस्थे लग्ने तद्गृह्यते स्फुटम् ॥ १० ॥ देशकालानुमानेन दिनाद्यं तत्र चेद्वुधे। द्रोहात्खण्ड्याःशनौ भौमे युद्धाद्राहौविपादितः ॥ ११ ॥

इति वेष्टितदुर्गभङ्गपृच्छा।

अथ परदुर्गाप्तिपृच्छा।

परदुर्गंयदाऽस्माभिर्गृह्यते तत्र लग्नषे। सवले दुर्बलेऽस्तेशेलग्ने क्रूरयुतेऽपि च ॥ १ ॥ यायिनां जयदैर्योगैर्यद्वामध्यगतैः खलैः। लग्नक्रूरान्तरांशोक्तकाले तत्कोटमाप्यते ॥ २ ॥

अथाऽऽत्मदुर्गपृच्छा।

आत्मदुर्गंपरःकिं268 नु गृह्यते तत्र लग्नषे। सवले लग्नषे क्रूरे स्थायिनां बलमा (आ) गते ॥ १ ॥ तदा दुर्गंन यात्येव द्यूनेक्रूरग्रहो यदि। विवले लग्नषे यायिवले दुर्गंप्रयच्छति ॥ २ ॥

अथान्यदुर्गभङ्गपृच्छा।

दुर्गमन्यत्तथा चान्ये ग्राहकास्तत्र चाऽऽदिमम्। वचनं तत्स्वपक्षोऽत्र ज्ञात्वा पूर्वोक्तवदेत् ॥ १ ॥

इत्यन्यदुर्गभङ्गपृच्छा।

अथ मन्त्रभेदपृच्छा।

लग्नमध्यगतैः सौम्यैर्द्यूने षष्टेऽथवा गृहे। भेदेविचिन्त्यमानेऽत्र शीघ्रं भेदः प्रसिध्यति ॥ १ ॥ शुभे लाभादियोगेऽपि भेदे सिद्धिरुदाहृता। तथा वलिनि लग्नेशे सप्तमे विवले ध्रुवम् ॥ २ ॥ भेदस्य शत्रुराशिर्यस्तेनासौ भिद्यते द्रुतम्। सखिवश्यादिराशिर्यस्तद्द्वारा भिद्यतेऽथवा ॥ ३ ॥

अथ विवादः।

विवादे मरणे युद्धे लग्ने पापो जयावहः। न सौम्यः सौम्यदृक् शस्ता पापा दृष्टिर्न शोभना ॥ १ ॥ लग्ने क्रूरे जयी वादी प्रतिवादी तथास्तगे। उभयत्रापि चेत्क्रूरो दीर्घरोषः प्रजायते ॥ २ ॥ वलवल्लग्ननाथेन द्यूनपो हन्यते रणे। वलवान्द्यूनपो हन्यालग्ननाथं सुनिश्चितम् ॥ ३ ॥ लग्नं द्यूनं मुक्त्वा परस्परं क्रूरयोः सकलदृष्टौ। वादान्ते वादियुगं छुरिकाभ्यां प्रहरति तदैव ॥ ४ ॥ विवादे शत्रुसंघाते द्यूने युद्धे ममोपणे। पुरघातेऽभिचारे व ज्ञेयमेव जयादिकम् ॥ ५ ॥

अथ सेवापृच्छा।

स्वामिचित्तं शुभैर्दृष्टमपि लग्नपसप्तमौ। शुभस्वामीन्दुयुग्दृष्टौ शुभं व्यस्तेऽन्यथा भवेत् ॥ १ ॥ यदा पृष्ठोदये लग्ने द्यूनेशीर्षोदयो भवेत्। सेव्यसेवकयोर्वैरं ब्रूयात्प्रीतिर्विपर्यये ॥ २ ॥ धननाशो धने पापे विभ्रमः सप्तमे तथा। मरणं मृत्युयोगे स्यात्सौम्ये संपत्सुखं महत् ॥ ३ ॥ सेव्यसेवकयोः प्रीतिः प्रश्ने युग्मतुलालिनि। लग्ने प्रीतिस्तयोर्वाच्या कन्यालग्ने च मध्यमा ॥ ४ ॥ द्वितीयद्यूनरन्ध्रेषु सौम्याः प्रीत्यर्थसौख्यदा। पापा भवन्ति तेष्वेव सेव्यसेवकविघ्नदाः ॥ ५ ॥ यदा लग्नपतिर्लग्ने जायेशः सप्तमे यदि। तदा प्रीतिर्द्वयोर्वाच्या समानैव परस्परम् ॥ ६ ॥

अथाऽऽश्रयः।

भवति स आश्रयणीयः प्रश्ने धनसमाष्टमेषु चेत्वापाः। हिवुकेऽपि तस्य नाशं कुर्यः सौम्याः सुखं दद्युः॥ १ ॥ एषस्वामी भव्योऽन्यो वा स्थानं यदि प्रश्ने। लग्नपतौमकबूले स्वामी भव्योऽस्तपे तथाऽन्येशः ॥ २ ॥ अन्येशो

भविता वा मगेति केन्द्रे यदा विलग्नेशः। षष्ठान्त्यपमुथशिलगस्तदाऽन्यनाथो न हि प्रष्टुः ॥ ३ ॥ केन्द्रस्थे लग्नपे क्रूरदृष्ट्या क्रूरनिरीक्षिते। षष्ठे वाऽन्यः पतिर्न स्याद्वक्रीचेदपरं वदेत् ॥ ४ ॥

अथ नृपदर्शनम्।

नृपदर्शनं भवेन्नो पृच्छायांलग्नषस्य सवितुर्वा। गगने चरमुथशिलतो दशमस्थित्याऽर्थंदृष्ट्या वा ॥ १ ॥ दशमस्वामी लग्ने पश्यति लग्नाधिपं नृपाल्लाभः। राज्ञश्चित्तं कीदृक् तत्रापि विचिन्तयेदेवम् ॥ २ ॥ अमात्यस्नेहपृच्छायां योगो लग्नास्तनाथयोः। स्नेहदृष्ट्या दिशेत्प्रीतिंवैरं वैरदृशा पुनः ॥ ३ ॥

अथ गौरवम्।

नृपतेर्गौरयलाभो मे स्यादिति लग्नपापपत्योश्च। स्नेहदृशा शीघ्रं स्याद्रिषुदृष्ट्या बहुदिनैरेव ॥ १ ॥ आयेशे केन्द्रस्थे शशियुतदृष्टे च फलमस्ति। स्थिरराशौ परिपूर्णं चरेऽल्पमर्धं भवेन्मिश्रे ॥ २ ॥ मन्दे क्रूरोपहते भूत्वा चाऽऽशुप्रणाशमुपयाति। क्रूराच्छुद्धे सशुभेऽप्यधिकतरा प्राप्तिरेव स्यात् ॥ ३ ॥

अथ पदलाभपृच्छा।

स्वस्थावस्ये नमोनाथे तुङ्गादिस्थे शुभेक्षिते। धनकेन्द्रत्रिकोणस्थे राज्यादिपदलब्धयः ॥ १ ॥ लग्ननाथोऽभ्रनाथेन तुङ्गादिस्थेन वीक्षितः। करोत्येव पदप्राप्तिं लग्ने लग्नाधिपोऽथवा ॥ २ ॥ स्थिरोदये पदप्राप्तिः शुभस्वामियुतेक्षिते। इत्यमेव पदस्थाने सा स्वल्पा किं तु वृश्चिके ॥ ३ ॥ पदेशश्चत्पदं पश्येत्पदं चैव स्थिरं भवेत्। मध्यपे सशुभे राज्यं राज्यभ्रंशः सपापके ॥ ४ ॥ सूर्येऽम्बरे गुरौ लग्ने चन्द्रे कामेऽथवा सुखे। न लभेत्सद्य एवार्थात्राज्यं खेऽर्के तनौ गुरौ ॥ ५ ॥ लग्ननाथनभोनाथौचन्द्राद्वयोम्नि पदप्रदौ। राजयोगेषु सर्वेषु पदप्राप्तिस्तु निश्चितम् ॥ ६ ॥ वैशादियोगवितये सुनफादित्रये तथा। पदप्राप्तिर्भवेच्छीर्षोदये लग्ने शुभान्विते ॥ ७ ॥ सप्तमे चाष्टमे शुक्रे पदलाभः स्वभावतः। शुभयुक्ते पदं प्रीत्या सपापे विग्रहादिभिः ॥ ८ ॥

अथाधिकारः।

पदस्थाने यदा चन्द्रः शुभो वा सरविर्भवेत्। पदेशो वा विलग्नेशो मुद्राप्राप्तिस्तदैव हि ॥ १ ॥ पदप्राप्तिकरैर्योगैर्मुद्राप्राप्तिः प्रजायते। सिंहोदयेऽर्कसंदृष्टे साम्राज्यं प्रच्छको वदेत् ॥ २ ॥

अथ पदनिर्वाहपृच्छा।

राज्यं स्थिरं चलं वा प्रश्ने तनुपखेशयोर्मुथशिलिनि। यदि मन्दः स्यात्केन्द्रे तत्स्थिरमन्यथा चलं भवति ॥ १ ॥ लग्नेशे निजनीचाधिपकृतमुथशिले स्वनीचधिया। राज्यभ्रंशः शेषैस्तदृिशि देशं समुद्वसं कुरुते ॥ २ ॥ तुङ्गे सौम्योऽथवा पापो लग्ने धर्मे त्रिकोणगे। निर्वाहप्राप्तिरादेश्या नीचे नष्टे खपेच्युतिः ॥ ३ ॥

अथ स्थानमाप्तिः।

सबले दशमे सौम्ये सहजे वाऽपि केन्द्रगे। स्थानाप्तिर्व्योमकामस्थौ शुभौ वा धीविलग्नगौ ॥ १ ॥

अथ धातुवादः।

लग्नेशाज्जायते धातुः संप्तमो269धातुवादकृत्। चन्द्रार्कौलाभकर्तारौ धनात्सिद्धिस्तु तद्बलात् ॥ १ ॥ सौम्याः केन्द्रे च वलिनो लाभे वाऽपि समाश्रिताः। धातुवादी विजानाति धातुवादं च नान्यथा ॥ २ ॥ लग्ने पापः शुभः प्रोक्तः पापदृष्टिर्न शोभना। शुभदृष्टिः शुभां प्रोक्ता शुभयोगो न शोभनः ॥ ३ ॥ लग्ने रिष्फेरिपौछिद्रे लग्नपः शुभदृग्विना। हानिं भ्रंशं बन्धनं च मृत्युं कुर्याद्यथाक्रमम् ॥ ४ ॥ अरिष्टाल्लाभतश्चौर्याद्यात्रायोगैर्वदेत्सुधीः। वादिनो मरणं लाभो धनहानिः पलायनम् ॥ ५ ॥

अथ चौर्यपृच्छा।

चौरागमनपृच्छायां लग्ने पापस्तु सिद्धिकृत्। न शुभा दृक् शुभो मूर्तौन शुभः शुभदृक् शुभा ॥ १ ॥ मेषे वर्गोत्तमे लग्ने वृधयुक्ते विशेषतः। चौर्यसिद्धिर्भवेदत्र यदि वाऽऽरयुतेक्षिते ॥ २ ॥ रणचौर्यादिहननधातुवादादिकर्मसु। शुभपापसमायोगादसिद्धिः सिद्धिरुच्यते ॥ ३ ॥

अथ सौख्यपृच्छा।

यदा क्रूरग्रहोलग्ने नीचः शत्रुगृहे स्थितः। तदा तस्य शुभं वाच्यं ग्रहराश्यनुरूपतः ॥ १ ॥ भूतं द्वादशतश्चिन्त्यं वर्तमानं तु लग्नतः। भविष्यं तु धनस्थानात्सौम्यक्रूरयुतेक्षणात् ॥ २ ॥

अथ भयपृच्छा।

उत्पन्नभीतेर्भविता विनाशो न वेति पृष्ठे तनुपो विलग्नम्। पश्येत्तदा नैव

भयं न पश्येद्भयं भवेत्क्रूरयुते विशेषात् ॥ १ ॥ भयमर्को लग्नगतः सौरो व्याधिं धरासुतो घातम्। मरणं वैफल्यं वा चन्द्रः कुरुते विलग्नस्थः ॥ २ ॥

अयाग्निभयम्।

सर्पाग्निशस्त्रवन्तं दृक्काणं वीक्षते रविर्वलवान्। भौमो वा मध्याह्ने ब्रूयाद्भयमग्निसंभूतम् ॥ १ ॥

अथ नदीपूरणपृच्छा।

राशीश्वरो द्वितीये दुश्चिक्ये वा शुभग्रहोपगते। भवतीह नदीपूरः सप्तविंशे दिने वाच्यम् ॥ १ ॥

अथ कालवृष्टिपृच्छा।

अम्बरगं शुभयुग्मं दृष्ट्यै प्रभवेद्विवाहादौ। लग्ने शुभत्रयस्य तु योगे महती भवेद्वृष्टिः ॥ १ ॥

अथ स्त्रीविग्रहः।

पीयूपांशौपापयुक्तेक्षिते वा स्त्रीभिः सार्धं विग्रहः कीर्तनीयः। पापैर्यद्वा मन्मथस्थानयातैस्तैरेवाम्बुस्थानगैर्वा स वाच्यः॥ १ ॥

अथ घृताविवाहितापृच्छा।

क्रूरिते च चतुर्थे स्यात्परिणीता नितम्बिनी। सप्तमे क्रूरिते च स्याद्धृतैव हि कुटुम्बिनी ॥ १ ॥ उभये सौम्यतां प्राप्तेद्वे स्तो घृतविवाहिते। उभये क्रूरतां प्राप्ते न धृता न विवाहिता ॥ २ ॥ लग्नलग्नेशचन्द्राश्चनिर्दोषास्त्री चरर्क्षगाः। अदृष्टपुरुषा साध्वी परैर्भुक्ता चरर्क्षगाः ॥ ३ ॥

अथ बन्धनपृच्छा।

सारे दृक्काणे वा भुजंगपरिवेष्टितेऽथवा लग्ने। शशिसौराभ्यां दृष्टे बन्धनमिति वाच्यमादेशे ॥ १ ॥ पापक्षेत्रेषु यमे त्रिकोणचतुरस्रसप्तमेषु गते। क्रूरैर्निरीक्ष्यमाणे बद्धोऽस्तीत्यादिशेत्क्षिप्रम् ॥ २ ॥

अथ मृत्युयोगः।

स्परै व्यये धने क्रूरो लग्ने मृत्यौरिपौ शशी। सद्योमृत्युकरोयोगः क्रूरे वा चन्द्रपार्श्वगे ॥ १ ॥ लग्नेस्वौ स्मरे चन्द्रे भवेद्योगोऽयमेव हि। एतेषु रोगिणो मृत्युः सद्यः स्यातस्य चा(दथवा)ऽऽपदः ॥ २ ॥ लग्नपौमृत्युपश्चापि मृत्यौ स्यातामुभौ यदि। स्थितौ दृक्काण एकस्मिन्सदा मृत्युं ध्रुवं वदेत् ॥ ३ ॥ छिद्रलग्ने-

श्वरौ छिद्रे सचन्द्रौमृत्युकारकौ। सपापे रिपुभे मृत्यौ चन्द्रे मृत्युस्तथा खले ॥ ४ ॥ वर्गोत्तमगते मूर्तोमतीशे चन्द्रसंयुते। वित्ते भौमेऽथवा राहौ तद्दिने ह्यसितो वधः ॥ ५॥

अथ मृत्युभङ्गः।

उदिते लग्नपे वाऽपि च्छिद्रपेऽस्तमुपागते। मृत्युयोगेऽपि नो मृत्युर्वाच्यो मृत्युरतोऽन्यथा ॥ १ ॥

अथ गतप्राप्तिपृच्छा।

सप्तमस्थे यदा पापे वृद्धा ह्यानीयते गतः। सौम्येऽस्तगे च न प्राप्तिःशुक्रे प्राप्तिस्तथा चिरात् ॥ १ ॥ लग्नपः केन्द्रनाथेन योगकृद्गतलब्धये। अस्तं गतोऽस्तपो लग्ननाथदृष्टस्तथाऽऽप्तये ॥ २ ॥

अथ मृताप्तिपृच्छा।

पापसंवन्धगे चन्द्रे लब्धिः सौम्यते न हि। स चेद्वक्री विनष्टो वा तदाऽसौ लभ्यते मृतः ॥ १ ॥

अथ हृतनष्टविस्मृतिस्थापितवस्तुप्राप्तिपृच्छा।

वस्तु मे वदति नेति पृच्छति द्युनलग्नपतियोगतोऽर्पयेत्। एतयोर्यदि परस्तु संचरेदेन्यहस्तवशतस्तदेष्यति ॥ १ ॥ लग्नपेऽस्तयुजि प्रच्छकस्तदा द्यूनपे तनुगतेऽर्थवान्परः। क्रूरसौम्यखगयोगतस्तयोः साध्वसाधुपरिकल्पना तयोः ॥ २ ॥

अथ चोरो भवति न वेति पृच्छा।

एषचोरो न वेति स्यात्प्रश्ने लोकश्रुतोरिव। चन्द्रो मुथाशिलःक्रूरैः सत्यं चोरोऽन्यथा न हि ॥ १ ॥ अनेनैव कदा चौर्यं कृतं नो वेति लग्नपः। इन्दुर्वां मुशरीफःस्यात्कस्यचित्तेन तत्कृतम् ॥ २ ॥

अथ कोऽयं नर इति पृच्छा।

कोऽयं नरश्चेदिति पृच्छतेतदा मध्ये स्वराशौ खचरः स तत्रजः। उच्चे महान्विश्रुत एवमन्यवर्गेऽन्यथा हीननरः पुमांश्च॥ १ ॥

अथास्य को देश इति पृच्छा।

व्योम्नि स्थितोऽर्कतो यस्यां दिशि तद्विषयोद्भवः। न चेत्तत्र ग्रहो मध्यपतेः प्राग्यद्दिशं वदेत् ॥ १ ॥

अथ मित्रप्रीतिपृच्छा।

मित्रेण सह प्रीतिर्भविता लग्नेश्वरायपत्योश्च। प्रियदृष्ट्या मुथशिलतः प्रीतिर्वाऽन्योन्यगृहयानात् ॥ १ ॥

अथ कोऽश्वो विजयीति पृच्छा।

वह्वश्वानां मध्ये को विजयी लग्नलाभगगनेषु। होरेश्वरे परे वा तद्वर्णात्तज्जयो वाच्यः ॥ १ ॥ अस्याभावे होरालग्नपतिभ्यां ततश्चिन्त्यम्। चन्द्रस्तद्राश्यविपवशाश्च जातिं वदेत्प्रष्टुः ॥ २॥

अथ मेलकः।

द्युननाथः स्थितः केन्द्रे तस्मिन्ग्रामे मिलिष्यति। अन्यग्रामे पणफरे न मेलः स्यादपोक्लिमे ॥ १ ॥

अथ वस्तुग्रहणम्।

गृह्णाम्यहमिदं वस्तु सति प्रश्ने त्वमूदृशि। वलशालि विलग्नंचेद्गह्यते तत्क्रयाणकम् ॥ १ ॥ तस्मात्क्रयाणकाल्लाभः प्रष्टुर्भवति निश्चितम्। विक्रेताऽऽयपतिः क्रेता लग्नेशस्तद्बलात्पुनः ॥ २ ॥

अथ वस्तुविक्रयः।

विक्रीणाम्यमुकं वस्तु प्रश्नं एवंविधे सति। आयस्थाने वलवति विक्रेतव्यं सुलाभकृत् ॥ १ ॥

अथ क्रयविक्रयमध्ये कस्माल्लाभः।

वलवल्लग्नलग्नेशे गृह्यते वस्तु लाभकृत्। वलवल्लाभलाभेशे विक्रयो लाभकृन्मतः ॥ १ ॥ मूर्तिं पश्यति मूर्तीशे क्रेतव्यं विक्रयोऽन्यथा। बलहीने धनेशे तु समर्घंव्यत्ययेऽन्यथा ॥ २ ॥

अथ वस्तुसंग्रहणाल्लाभोऽस्ति न वेति पृच्छा।

वस्तुसंग्रहणं कुर्याल्लाभयोगे महत्यपि। गुरुस्तद्वस्तुतो लाभो भविष्यत्यन्यथा न हि ॥ १ ॥

अथ कृतसंग्रहस्य वस्तुनः कदा विक्रयः।

संपूर्णो लाभयोगश्चेत्प्रश्नकाले यदा तदा। शीघ्रं तद्विक्रयं कुर्यादन्यथा वस्तु रक्षयेत् ॥ १ ॥

अथ वर्षेऽस्मिन्कथं स्यात्।

समर्घंवा महर्घंवा वर्षेऽस्मिन्किं भविष्यति। तनुद्वये तदधिपेपुष्टापुष्टे समं वदेत् ॥ १ ॥ लग्ने लग्नेश्वरे पुष्टे विक्रयः क्रियते तदा। द्यूने द्यूनेश्वरे धान्यसंग्रहो ह्युभये द्वयम् ॥ २ ॥

अथ साटिः।

द्यूनलग्नपती मित्रे मित्रसाटिरिहेप्यते। वैरभावे तयोः साटिर्वैरित्वं कपटेन च ॥ १ ॥

अथानयोः कः सत्यः।

विक्रेता सत्यवादी स्यात्सौम्यलग्ने तथा धने। क्रेता सत्य इनेन्दू चैच्छुभदृष्टौ सुशोभनौ॥ १ ॥

अथ दिनचर्या।

सबले लाभलामेशे महर्घंस्यात्क्रयाणकम्।अवले लाभलाभेशे समर्घंमिश्रके समम् ॥ १ ॥

अथ धान्यनिष्पत्तिः।

प्रश्ने धान्यस्य निष्पत्तौ चतुर्थे सद्ग्रहा यदि। केन्द्रे वा धान्यनिष्पत्तिः पापैर्धान्यक्षतिर्भवेत् ॥ १ ॥

अथ सुभिक्षपृच्छा।

स्वस्वामिशुभयुक्तेषु दृष्टेषु च चतुर्ष्वपि। केन्द्रेषु च सुभिक्षं स्यादुर्भिक्षं क्रूरखेचरैः ॥ १ ॥ यत्केन्द्रं विवलं तत्र दुर्भिक्षं तद्दिशि ध्रुवम्। महर्घं क्रूरमध्यस्थं मिश्रं मिश्रैर्युतोक्षितम् ॥ २ ॥

अथ दुर्भिक्षम्।

केन्द्रस्थौ राहुमन्दौचेच्चतुर्थे वा विशेषतः। शुष्फलग्ने तदा वाच्यं दुर्भिक्षं निश्चयादिति ॥ १ ॥

अथ वृष्टिपृच्छा।

कुम्भवकर्कटगोमीनमकरालितुलाधराः। सजला राशयाप्रोक्ता निर्जलाःशेषराशयः ॥ १ ॥ रविभौमार्कजाः शुष्काःसजलौचन्द्रमार्गवौ। बुधवाचस्पती ज्ञेयौसजलौजदराशिगौ॥ २ ॥ सौम्या जलराशिस्यास्तृतीयधनकेन्द्रगाः सिते पक्षे। चन्द्रे या लग्नगते दलराशिस्थे वदेदृष्टिम् ॥ ३ ॥ जललग्नेऽम्बुखेटैश्च

युक्ते भौमयुते तथा।विद्युद्गर्जनसंयुक्ता वृष्टिः सौरयुतेऽपि च ॥ ४ ॥ लग्ने चरे शुभे द्विस्थे जलं मासात्स्थिरे पुनः। चतुर्विंशद्दिनैर्द्व्यङ्गे दिनैःषड्विंशता भवेत् ॥ ५ ॥ चरलग्ने खगाः सर्वे तदा सार्धदिनाज्जलम्। शुष्के शुष्कग्रहैर्युक्ते नाम्भो मिश्रग्रहैश्चिरात् ॥ ६ ॥ लग्ने सुखे द्युने व्योम्नि शुभस्वामियुतेक्षिते। आषाढादिषु मासेषुवृष्टिः स्यादन्यथा न हि ॥ ७ ॥ सजलो विजलेनाऽऽढ्यःपूर्वमम्भोऽन्यथोपरि। विजलः सजलेनाऽऽढ्योनाम्भःपूर्वं परं बहु ॥ ८ ॥ प्रावृष्यब्जःसितादस्ते शुभदृष्टोऽम्बुकृत्तदा। शनैस्त्रिकोणगो वाऽपि सोमोजलकरो भवेत् ॥ ९ ॥ जलार्थपृच्छासमये रौद्य्रां प्राच्यामथापि वा। सुस्वरं कुरुते काकःसुवृष्टिर्जायते तदा ॥ १० ॥ आर्द्रद्रव्यं पूर्णकुम्भं तोयार्द्राङ्गं च प्रच्छकम्। तोयासन्नं तोयशब्दं श्रुत्वा दृष्ट्वाजलं वदेत् ॥ ११ ॥

अथ कूपपृच्छा।

लग्ने सुखेऽम्बुखेटश्चेत्ससौम्योऽम्भस्तदा बहु। पापैः शुष्कर्क्षगैर्नाम्बु कूपवाप्यादिके स्फुटम् ॥ १ ॥ सुखेवाऽब्जसितौ तोयं सुस्वादु निकटं वदेत्। लग्नाम्बुस्थितखेटेषु वलिनः स्वादु चाऽऽदिशेत् ॥ २ ॥ तथाऽर्कतो नरैरष्टवेदाशाङ्कानद्रिपञ्चभिः। कुनैत्रैर्जलमन्यत्र करैरम्बुविधोः शिरः ॥ ३ ॥

अथ नौका।

मृत्युर्धरणकं नौश्चफलेन सदृशं त्रयम्। म्रियते येन योगेन तेन योगेन मुध्यते ॥ १ ॥ क्षेमेण नौः समायाति मृत्युयोगे समागते। आमयावी च म्रियते बद्धः शीघ्रेण मुच्यते ॥ २ ॥ नेक्षते लग्नषोलग्नं मृत्युषो270नेक्षते मृतिम्। यानपात्रस्य वक्तव्यं निश्चितं मज्जनं तदा ॥ ३ ॥ तावुभौ सप्तमे चेद्वा तदा तज्जलगामि च। पापाः सुखाष्टमेऽङ्गेशेऽस्तं गते नापैतेर्मृतिः ॥ ४ ॥ लग्नेशचन्द्रनाथं च चन्द्रं वा मृत्युषो यदि। पश्येत्क्रूदृशा नावा समं नश्यति नौपतिः ॥ ५॥ मार्गाद्व्याकृत्य नौरेति लग्नषेतद्भवेऽनुजौ। रन्ध्रेसौम्ये तरी सार्था समेतीन्दौचरे द्रुतम् ॥ ६ ॥ मिथो रिपुदृशेक्षेतां लग्नेशशशिराशिषौ। तत्रान्योन्यविरोधेन व्यवहारो विनश्यति ॥ ७॥

अथ रोगपृच्छा।

शुभग्रहाः सौम्यनिरीक्षिताः स्युर्विलग्नसमाष्टमपञ्चमस्थाः। त्रिषट्दशाये च निशाकरः स्याच्छुभं वदेद्रोगनिपीडितानाम् ॥ १ ॥ स्थिरलग्ने यदा जीवः शुभो

वा केन्द्रकोणगः ॥ रोगप्रश्नेवदेत्स्वस्थं व्यस्तं दृष्टोदये खलैः॥ २ ॥ चरलग्नेचतुर्थे वा चन्द्रः षष्ठाष्टमेम्बरे ॥ कुजे स्याद्रोगिणो मृत्युः पापैर्लनाष्टसप्तमे ॥ ३ ॥ लग्नात्षष्ठाष्टमे चन्द्रे रिपुदृष्ट्या खलेक्षिते। युक्ते या स्यान्मृतिस्तस्मिन्सौम्यदृष्टिविवर्जिते ॥ ४ ॥ लग्नाधिपेवलयुते विवले मृतीशे तौचेत्तनौभवत एव सुखी तदा स्यात्। यदा मृतीशस्तनुभागमेति तदाऽऽतुरो याति यमालयं हि ॥ ५ ॥ लग्ने छिद्रे शशी पापो द्वितीये सप्तमे व्यये। सद्योमृत्युकरोयोगश्चन्द्रो वा क्रूरमध्यगः ॥६ ॥लग्नं वैद्यो द्युनं रोगो मध्यं रोगी खमौषधम्। तद्बलाद्बलमादेश्यं सौम्यैः क्रूरैर्युतेऽन्यथा ॥ ७ ॥

अथ रोगनाशकयोगः।

मान्द्यात्प्रवर्तते मान्द्यंक्रूरे सप्तमसंस्थिते। सप्तमे त्वथवा सौम्ये स रोगी नौषधं भिषक् ॥ १ ॥ वैद्यौपध्येर्वलाधिक्ये बलत्वे रोगरोगिणोः। रोगी जीवति निर्विघ्नं विपरीते विपर्ययः ॥ २ ॥ वैद्यस्य रोगिणो मैत्रं मैत्रमौषधरोगयोः। व्याधेरुपशमो वाच्यः प्रकोपस्तद्विपर्यये ॥३ ॥ लग्नस्वामिबलत्वे च केन्द्रसौम्यग्रहेऽपि वा। उच्चस्थे च त्रिकोणे च रोगी जीवति मानवः ॥ ४ ॥ रोगप्रश्नेक्रूरो लग्ने रोगोऽधिको वैद्यात्। तत्रैव यदि शुभः स्याद्भूरिगुणं भवति वैद्योक्तम् ॥ ५ ॥ दशमे क्रूरो यदिचेद्रोगो वर्धेत भेषजैस्तत्र। तत्रैव शुभः स्वीयैर्भैषज्यैः रोगनाशकरः ॥ ६ ॥

अथ स्वस्थो रोगी वा।

नीरुजः सरुजो वेति चन्द्रो वा लग्नषोरिपौ। षष्ठेशसहितो वाऽपि रोगयुक्तो न चान्यथा ॥ १ ॥ षष्ठे चरे स्थितो रोगी संचरन्गृहमध्यतः। उपविष्टः स्थिरे द्व्यङ्गेसुप्तो दुःखी सुखी गृहे ॥ २ ॥

अथ क्व मृत्युः।

छिद्रे चरे स्थिरे द्व्यङ्गे परे स्वेपथि च व्यसुः। शुभे वाऽर्के चरे रन्ध्रे तीर्थे वा केन्द्रगैःशुभैः ॥ १ ॥

अथ मुक्तिर्भविष्यतिन वा।

शुक्रेन्दूपितृलोकेशौशनिज्ञौ नरकाधिपौ।तिर्यग्लोकस्य सूर्यारौस्वर्गस्याधिपतिर्गुरुः ॥ १ ॥ केन्द्रारिमृत्युगो जीवः स्वोच्चस्थो वा स्वराशिगः ॥ पृच्छायां मृत्युकाले वा तस्य मोक्षो मृतस्य हि ॥ २ ॥ पृच्छायां सप्तमस्थश्चेद्ग्रहोया मृतिशत्रुगः।बलवान्यदि तल्लोकं मृतो जन्तुरवाप्नुयात् ॥ ३ ॥

अथ कस्माल्लोकादागतोऽयम्।

रवीन्द्वोर्बलवान्यस्य दृक्काणे तस्य लोकतः। आगतोऽस्तीति वक्तव्यं प्रश्नलग्नाच्च जन्मतः ॥ १ ॥

अथ रोगज्ञानम्।

रोगप्रश्नेऽष्टमस्थाने ग्रहयोगाद्रुजं वदेत्। चन्द्रशुक्रावतीसारं वातं शनिभुजंगमौ॥ १ ॥ भौमार्कौ रुधिरोद्रेकं शुक्रभौमौ वलक्षयम्। सक्रूरेज्ये त्रिदोषः स्यात्सग्रहार्कौ तु चित्ररूक् ॥ २ ॥ राह्वर्कौकुष्ठरोगश्च कन्पःपापयुते शनौ। रक्तपित्तंतु सूर्येन्दूश्लेष्माजीर्णकरो बुधः ॥ ३ ॥ संनिपातकरो जीवः सेन्दुः पापद्वयं गतः। अस्तंगते कुजे छिद्रे ब्रूयाल्लिङ्गादिदूषणम् ॥ ४ ॥ स्त्रीनिमित्तं कृते प्रश्ने वाच्यं तद्योनिदूषणम्। कुजार्कौसप्तमे पापं कुजे मान्द्यंबुधे भ्रमम् ॥५॥ शिरोव्याधिं गुरौं शुक्रे कफंवायुं शनित्रिके। रन्ध्रेऽर्काद्यैर्युतेदृष्टे व्याधिं तद्धातुतो वदेत् ॥ ६ ॥

अथ दोषपृच्छा।

छिद्रे व्यये रवौ दोषोयक्षिणीक्षेत्रपालजः। जलमातृभवश्चन्द्रे डाकिनीजःकुजे तथा ॥ १ ॥ बुधे भौतो गुरौपैत्रः खेचरासुरजः सिते। कुलदेवीकृतो मन्दे राहौप्रेतकृतस्तथा ॥ २ ॥ छिद्रे क्रूरग्रहैर्युक्ते कर्मणः स्त्रीनरोद्भवात्। शुभपापयुते दोषःस्त्रीणामेवान्यथा नृणाम् ॥ ३ ॥ विबलग्रहजो दोषः साध्योऽसाध्योऽन्यथा मतः। ज्ञेयोऽत्र कर्मजो दोषोरन्ध्रेऽन्त्ये च वलोज्झिते ॥ ४ ॥ स्वीयसंबन्धभावोत्थं शेषभावोत्थतः परम्। यदि स्यात्पैतृको दोषस्तदा तन्मृत्युरुच्यते ॥ ५ ॥ मृत्युषेशनिसंयुक्ते मातङ्गैस्तु हतो नरः। धर्माधिपोऽथ धर्मे वा गुरुस्तीर्थपथे मृतिः ॥ ६ ॥ क्रूरेऽष्टमेऽभिचागच्च सूर्यात्सर्पाम्बुशस्त्रत। अग्निना कण्ठपाशेन पशुगुप्तिविषादिभिः ॥ ७ ॥ शल्यज्ञानं तु वास्तुप्रकरणे लिखितमस्ति।

अथ निधिपृच्छा।

मुखस्थाने यदा चन्द्रः सौम्यो वा बलसंयुतः। निधीशोवाऽपिलग्नेशो निधिरस्ति सुखप्रदः ॥ १ ॥ जीवेन्दूकेन्द्रगौ स्यातां सुखे वा जीवभार्गवौ। निधिरस्ति भवेल्लाभः कृते यत्नेऽत्र वत्सरे ॥ २ ॥ चन्द्रज्ञगुरुशुक्राणामेकोऽपि यदि वेश्मगः। स्वयं वा परकीयं वा सदसद्बलवन्निधिम् ॥ ३ ॥ यद्येते चेत्स्थिरा रन्ध्रे लभ्यते पैतृकं धनम्। यावत्संख्यासु खे खेटास्तावत्संख्या निधेर्भवेत् ॥ ४ ॥ यथा भूमिगतं द्रव्यं परहस्तगतं तथा। तद्वदेव परिज्ञेयं

विस्मृतं पैतृकं धनम् ॥ ५ ॥ धनं भूमिमध्येऽस्ति नो वेति पृष्टे विलग्ने शुभे सौम्यदृष्टेऽस्ति तस्मिन्। यदि क्रूरदृष्टेखनित्वा तु नीतं बहु स्वल्पमस्तीति वाच्यं हि तस्मात् ॥ ६ ॥ निधीशोऽभ्यन्तरे राशौ गृहमध्ये निधिः स्थितः। बाह्यराशौवहिःष्ठः स्याज्ज्ञेयो वा फणिचक्रतः ॥ ७ ॥ अगौ लग्नेचोरवाधा भूतवाधा शनौ व्यये। राजवाधा पापलग्ने स्वस्थयोः शनिभौमयोः ॥ ८ ॥ रव्यारावष्टमे लोष्टं तुपाद्यं वा व्यये शनौ। राहौ वा विवले मन्दे लग्नगेऽङ्गारकान्वदेत् ॥ ९ ॥ केन्द्रकोणेषु पापेषु रिक्तकुम्भस्य दर्शनम्। स्वोच्चे शशिनि केन्द्रस्थे सौम्ये वा प्रतिमासु च ॥ १० ॥ अथाहिवलग्नंवक्ष्ये स्फुटज्ञानकरं निधेः।तत्रैवौदयिकौ कार्यौचरौ तात्कालिकौततः ॥ ११ ॥ गतर्क्षाब्धिहतिर्यातघटीतिथ्यंशसंयुता। द्विघ्ना त्र्याप्ता लवादिन्दुः। षङ्गुणोऽष्टघटीयुनः ॥ १२ ॥ चन्द्रवत्साधयेत्सूर्यं चन्द्रभे यदिचेदुभौ। निधिरस्ति तदा सत्यं क्रूरेऽब्जे च न लभ्यते ॥ १३ ॥ सूर्यभे चेत्तदा शल्यं वदेत्तौचेत्स्वधिष्ण्यगौ। निधिः शल्ययुतोऽस्तीति व्यस्तगौ शून्यमादिशेत् ॥ १४ ॥ सशुक्रेऽब्जेनिधिप्राप्तिः पूर्णे पूर्णो निधिर्विधौ। यन्त्रेन्दुः स्यान्निधिस्तत्र क्षीणे चन्द्रेऽल्पकं धनम् ॥ १५ ॥ स्वर्णं रौप्यं च ताम्रंरत्नं कांस्यायसी त्रपु। नागं चन्द्राद्वदेत्तद्वद्भास्करादिग्रहैः क्रमात् ॥ १६ ॥ हेमराजतताम्रारपापाणं मृन्मयायसम्। सूर्यादिग्रहगे चन्द्रे द्रव्यभाण्डं विनिर्दिशेत् ॥ १७ ॥ अश्विन्यादित्रये काष्ठं लोहमार्द्रादिपञ्चके। ताम्रमाप्यचतुष्के स्यादस्थि षौष्णाजपादयोः ॥ १८ ॥ भुक्तराश्यंशमानेन भूमानं काम्बिकैः (कथितं ) करैः। नीचे निम्नं परेऽम्बुस्थमूर्ध्वस्थे तुङ्गगे विधौ ॥ १९ ॥ दस्रात्रयं पञ्च रौद्रात्पूर्वाषाढाचतुष्टयम्। षौष्णाजपादभे चन्द्रः शेषेषु स्याद्रविः प्रभुः ॥ २० ॥ सहस्रलक्षकोट्यादि गुणयेद्ग्रहसंख्यया। दायवत्साधयेत्संख्यां राशिमानेन वा धिया ॥ २१ ॥

अथ मृगया।

बलहीने द्युने पापैर्युद्धयोगैर्जयान्वितैः। पापैरिष्टकरैर्योगैःसिद्धिः स्यान्मृगयादिके ॥ १ ॥ तस्मिन्नहनियो वारस्तिथियुक्तो विरूपकः। वर्गितो दलितो भाप्तः शेषं वध्यमितिर्भवेत् ॥ २ ॥ द्यूनलग्नपयोर्योगे सिद्धिः सौम्येऽत्र लग्नषे। पापे द्यूनेश्वरे ज्ञारौ पापर्क्षांशेऽन्यथा न हि ॥ ३ ॥ क्रूरयोगैरनिष्टैश्च मृगयासिद्धिरिष्यते। द्यूने क्रूरैर्वलभ्रष्टैर्युद्धयोगैर्वलप्रदैः ॥ ४ ॥ दर्शविष्टिव्यतीपातक्रूरपञ्चाङ्गिके तिथौ। कथिता मृगयासिद्धिः क्रूरयोगैःपरैरपि ॥ ५ ॥ भौमज्ञौमृगयाधीशौ तन्वीशौ मृगयाच्युतिः। शुभे लग्नपतौ सिद्धिः क्रूरेद्यूनपतौ सति ॥ ६ ॥

पापाद्धिजलजासिद्धिर्जलक्षेत्रे जलग्रहैः। लग्नास्तभावगैर्योगैर्बहुवृष्टिफलप्रदैः॥ ७ ॥ क्रूराक्रान्तानि यावन्ति मध्ये भानीन्दुलग्नयोः। तावन्तः प्राणिनो वध्या द्विविघ्नाः स्वांशचक्रयोः ॥ ८ ॥

अथ बन्धमोक्षौ।

सौरे दृक्काणे वा भुजंगपरिवेष्टितेऽथवा लग्ने। शशिसौराभ्यां दृष्टे बन्धनमस्तीति सप्तमाष्टगते ॥ १ ॥ द्यूने लग्ने भवेत्पापस्तदा बद्धो भवेन्नरः। लग्नाष्टमगतः पापस्तदा मारित एव सः ॥ २ ॥ द्यूने लग्ने भवेत्क्रूरश्छिद्रे लग्नेऽथवा भवेत्। मुच्यते पुरुषो बद्धो मूर्तौपापः शुभागमः ॥ ३ ॥ निधनारिष्टयोगैश्च क्षिप्रंबद्धोविमुच्यते। चतुर्थे धनषोदीर्घं बन्धनं कुरुते दृढम् ॥ ४ ॥ लग्ने सप्ताष्टमे क्रूरास्तदा वद्धोऽपि मुच्यते। द्वितीये बन्धनं पापे व्ययगे मरणं भवेत् ॥ ५ ॥ मुक्तिप्रश्ने यदा केन्द्रे केन्द्रेशाः स्युर्न मोक्षदाः। तस्मिन्वर्षेऽथ लग्नेशे व्यये बद्धः पलत्यसौ (लायते) ॥ ६ ॥ लग्नेशेऽस्तमितेऽस्बुस्थे कुजदृष्टे भवेन्मृतिः। गुप्त्यांमृतिर्विधौकेन्द्रे मन्दयुक्ते निरीक्षिते ॥ ७ ॥ दीर्घपीडा च भामेन युग्दृष्टे बन्धताडने। त्रिधर्मेशे व्यये लग्नस्वामियोगात्पलायनम् ॥ ८ ॥ मेषेघटे च शीघ्रं स्यात्कर्के नक्रे सुकष्टतः। स्थिरे चिराद्विधौ लग्ने द्व्यङ्गे मोक्षोऽस्य योगतः ॥ ९ ॥ यावच्छुक्रोवली लग्ने तावच्चोरो वलाधिकः। अस्तं गते तनौ शुक्रे बन्धमोक्षादिसंशयः271 ॥ १० ॥ चरोदये शुभे शीघ्रं मोक्षयोगैस्तु लाभदैः। स्थिरे मोक्षो विलम्बेन बन्धः शुक्रे स्थिरे स्थिरः ॥ ११ ॥ अधिरेण चरे मन्दे दीर्घकालेन तु स्थिरे। मध्यमेन द्विमूर्तिस्थोमोचयेद्वन्धनं स्थिरम् ॥ १२ ॥

अथ लिखितपृच्छा।

पूर्णः शुभैर्युतश्चन्द्रो वीक्षितो वा शुभा लिपिः। क्षीणः पापयुतो वाऽपि चन्द्रो वार्ता त्वशोभना ॥ १ ॥ प्राप्तौन वा पृच्छति लेखवाहकस्तदा विलग्नाधिपतिः शशी वा। अस्तेऽथवा तत्पतिना सुयोगे प्राप्तस्तथैकर्क्षगतौयुतिः स्यात् ॥ २ ॥ सक्रूरज्ञयुते चन्द्रे ससौरे वाऽमृते लिपिः। शुभा272 सेज्ये कलिः सारे नृपाज्ञाऽर्काद्भगोः273प्रियम् ॥ ३ ॥ लेखोत्तरं ग्राहकादेष्यतीति प्रश्नेऽस्तपान्मूसरिफः शशी स्यात्। लग्नाधिपो वाऽपि च तौ तु केन्द्राद्द्वितीयगो वा पथिवर्तते सः ॥ ४ ॥ शशिलग्नेशयोर्योगे ये मध्यांशास्तु तत्समैः। क्षणवासरमासा-

ब्दैर्युक्त्या तस्याऽऽगमं वदेत् ॥ ५ ॥ बुधाब्जयोः खेशयोगात्करे लेखश्चटी(खः पति)ष्यति। नान्यथा केन्द्रगे चन्द्रे स्थिरभेऽन्यादरं वदेत् ॥ ६ ॥ सौम्यैर्योगं बुधः प्राप्यशुभा वार्ताऽन्यथा खलैः। तस्मिन्मूर्त्यादिभावस्थे वार्ता तदनुयायिनाम् ॥ ७ ॥

अथ वार्तापृच्छा।

चन्द्रो लग्नपतिर्वापि यदि केन्द्रे शुभान्वितः। किंवदन्ती तदा सत्या स्यादसत्या विपर्यये ॥ १ ॥ शुभा शुभान्विते सत्या तथा दुष्टा खलान्विते। लग्ने तदीश्वरे शुक्रे स्यात्सत्याऽग्रे जनश्रुतिः ॥ २ ॥

अथ हन्तुं गमनम्।

रिपुं हन्तुं गमिष्येऽद्य लग्ने क्रूरयुते जयः। लग्नेन्दू स्वेशदृष्टौ वा जयः प्रष्टुर्न चान्यथा ॥ १ ॥ स्वस्वामिना स्नेहदृशाऽवलोकितस्तदा रिपुर्निगृहीतोऽपि मुच्यते। चेत्क्रूरदृष्ट्या युधि नश्यतेऽसौ यदैकभे तौविधृतः पलायते ॥ २ ॥ मूर्तौसुखे च चन्द्रे चरभस्थे चेत्पराभवः प्रष्टुः। सशुभेऽब्जे संतोषः सक्रूरे निःसृतो ध्रियते ॥ ३ ॥

अथाभिचारः।

बलवल्लग्नषे सिद्धिरभिवारेऽस्य जायते। गुरौ लग्नेरवौखस्थ इन्द्रजालं प्रसिध्यति ॥ १ ॥

अथ योगसिद्धिः।

लग्ने वा दशमे सूर्यो यद्वा सौम्यग्रहो भवेत्। योगसिद्धिस्तदा वाच्या प्रव्रज्यायोगतोऽथवा ॥ १ ॥

अथ विद्याभ्यासः।

सौम्यैः केन्द्रत्रिकोणायस्थितैः शीर्षोदयो भवेत्। विद्याप्तिरथ वेतालसिद्धियोगैर्जयावहैः ॥ १ ॥

अथ काव्यम्।

लग्नेशचन्द्रपुत्रेशाः प्रबन्धे ज्ञानकाव्ययोः। कारणं तद्वलं प्रश्नेज्ञात्वा तेभ्यः फलंवदेत् ॥ १ ॥

अथ दीक्षा।

एकराशिगताः खेटाश्चचतुराद्यायदा तदा। बलवद्ग्रहजा दीक्षा नृणां वाच्याऽत्र युक्तितः ॥ १ ॥ सूर्यादिभिर्ग्रहैर्दृष्टःषढदो दशमे गुरुः। पृच्छायां जन्मकाले वा धर्मे धर्मप्रदो भवेत् ॥ २॥

अथ स्वप्नः।

शुभयोगैःशुभः स्वप्नोदुःस्वप्नःपापयोगतः। अनिष्टारिष्टयोगैश्चस्वप्नो दुःखफलप्रदः ॥ १ ॥ शुभैः केन्द्रत्रिकोणस्थैर्विशुद्धे चाष्टमे सति। दुःस्वप्नाअपि शस्ताः स्युर्दुर्निमित्तानि च स्फुटम् ॥ २ ॥

अथ भोजनम्।

स्थिरे विलग्ने सकृदेव भोजनं द्विदेहके द्वीश्वरभे बहूनि। विलग्रतुर्यादिचतुष्टयस्थे लग्रस्य वीर्येण रसस्तु वाच्यः ॥ १ ॥ चन्द्रः स्वनाथदृष्टस्तदा शुभं नेक्षितस्तदा कष्टम्। चन्द्रो यस्य मुथाशिलस्तस्य विशेषं वदेद्भुक्तौ ॥ २ ॥ लग्नेराहौमन्दे रविदृष्टे भोजनाभावः। सूर्यादृष्टे सायं कदन्नमपि नीचगेऽरिगृहे ॥ ३ ॥ पृच्छायां यो बली भावो लग्नाद्यस्तस्य भावतः। स्वीयादिसदने वाच्यं भावि भूतं च भोजनम् ॥ ४ ॥ लाभे वेश्मनिलग्ने च शुभदृष्टे सुभोजनम्। जीवे लग्नेभृगौ वाऽपि स्वगृहेऽन्यगृहे धिया ॥ ५ ॥ चन्द्रे लग्नेसुखे वाऽपिक्षीराक्तं मधुरं शुभम्। कालहोराधिपो लग्ने स्वेच्छया शीघ्रभोजनम् ॥ ६ ॥ सूर्यात्तिक्तं चन्द्राल्लवणं भौमात्कटूष्णमांसयुतम्। बुधगुरुशुक्रैर्मधुरंक्रीडायुक्तं शनैः कदन्नं च ॥ ७ ॥ सबलः पश्यतां(ति) लग्नं करोति रससंग्रहम्। भोजने लग्रसंस्थानामथवा केन्द्रगामिणाम् ॥ ८ ॥ क्रूरैः सौम्यर्क्षगैः श्रेष्ठं विपरीतं स्ववेश्यनि। बलयुक्ते रवौतीक्ष्णं क्षारं चन्द्रे शुभैः शुभम् ॥ ९ ॥ क्रूरैः क्रूगे रसो वाच्यो मिश्रैर्मिश्रं रसायनम्। मिश्रैर्मिश्रो रसो ज्ञेयः शत्रुभर्विरसैर्युतम् ॥ १० ॥

अथ भुक्तियानम्।

प्रश्नेऽस्मिन्भुक्तियाने तु भौमो वाऽऽर्किःशशीयुतः। तदा भुक्तौन गन्तव्यं सप्तौम्येऽब्जे तु गम्यताम् ॥ १ ॥

अथ वाटिका।

लाभो वाटिकयाऽनया मम भवेत्प्रश्नने विलग्ने शुभे तद्भावाश्चसहायिनः खलखणे चौरस्तु वक्रेऽन्यगः। सौम्यैस्त्वष्टमगैः शुभं तु दशमे सौम्ये शुभे पादपाः

श्रेष्ठाः सत्फलदायिनः स्वपतिना दृष्टेऽन्यथा तद्विना ॥ १ ॥ स्वेशोद्द्वयोर्लभ्यं द्रुमा नश्यन्ति खे कुजे। शुभेऽम्बुमे बहुफलास्तद्वद्भेशात्फलं वदेत् ॥ २॥

अथर्धपृच्छा।

सबले दुर्बले लग्ने स्यात्समर्घंमहर्घकम्। दिनार्धे शुभदृष्टेऽब्जेमहर्षे व्यत्ययेऽन्यथा ॥ १ ॥ तिलकोद्रवकङ्गूणां चणकश्यामवस्तुषु। शनिः स्वामी रसेष्विन्दुः स्नेहगन्धाम्भसां रविः ॥ २ ॥ शुक्रस्तु पूर्वसस्यानां विदलानां प्रभुर्बुधः। यवसर्पपगोधूमशालीक्षूणां प्रभुर्गुरुः ॥ ३ ॥ अरुणानां प्रभुभौमस्ततो यस्यास्ति संक्रमः।तल्लग्नं सवलांशोऽपि तत्तद्वस्तु समर्धकम् ॥ ४ ॥ पूर्वात्रिवारे तुर्यर्क्षे समर्घंसूर्यसंक्रमात्। पूर्वात्रितयपञ्चर्क्षेतुर्यवारे महर्घकम् ॥ ५ ॥ मासर्क्षात्पूर्णिमा हीना समा वा यदि वाऽधिका। समर्घंच समत्वं च महर्घेच विनिर्दिशेत् ॥ ६ ॥

अथ देशभङ्गपृच्छा।

यदिकेन्द्रगताः क्रूरास्तदा सर्वत्र विद्रुतम्274। सौम्यायेत्सर्वतः क्षेमं विशेषः कर्मचक्रतः ॥ १ ॥ लग्नाद्यस्यां दिशि क्रूरो मन्दो राहुर्यतोऽयवा। तत्रं दुर्भिक्षतो भङ्गने रव्याराब्जैःपरागमात्275 ॥ २ ॥ सस्वामिभाद्गृहेग्रामे स्वर्क्षाद्देशे नृपर्क्षतः। मध्याद्दिक्षु शनिर्यत्र तत्र दुर्भिक्षविद्वरे (देत्) ॥ ३ ॥

अथाऽऽयुष्पृच्छा।

आयुष्प्रश्नेमृत्युयोगे प्रष्टुर्मृत्युं समादिशेत्। तद्भङ्गे सति कष्टं स्याज्जातफोक्तं च कल्पयेत् ॥ १ ॥ उद्गतकलासमूहं परमायुस्ताडितं समुद्धृत्य। मण्डलकलाभिराप्तो वर्षादिरिहाऽऽयुषः कालः ॥ २ ॥ शङ्खेष्टकाकपालोर्वीछत्रध्वजादिकं विधोः। स्वर्णलोहितधात्वादि क्षितिसूनोरुदाहृतम् ॥ ३ ॥ वैकृतं तु गुरुहारकाचान्तं चन्द्रजस्य तु। पीतं धातुमणिजातप्रमुखं कथितं गुरोः ॥ ४ ॥ वैदूर्यस्फटिकाम्भोजरजताद्यं विदुर्भुगोः। सीसाञ्जनेन्द्रनीलाख्यं पूर्ववत्कथितं शनैः ॥ ५ ॥ राहोरपि शनिप्रोक्तं यस्य राहुरधिष्ठितः। देशकालाकृतिद्रव्यजातिवर्णमुसंग्रहैः।युक्त्या विचार्य वक्तव्यं पौनःपुन्पेन हौरिकैः ॥ ६ ॥

अथ नष्टजन्म।

लग्नत्रिकोणराशीनां जन्मराशिर्वलाधिकः। शीर्पादि संस्पृशन्प्रष्टा पृच्छेत्तद्राशिमादिशेत् ॥ १ ॥ गुरुर्लग्ने पितोत्पन्नो राहुकेतू तु शात्रवः। शनिर्लग्ने पूर्वमित्रं तन्मृत्युः शस्त्रतः पुरा ॥ २ ॥ बुधे तोयात्कुजे त्वाजौमृत्युः शुक्रेरितः पितुः ॥ ३ ॥

अथ दुर्दिने लग्नज्ञानम्।

रमंशुबुगुशंचन्द्रा276 वर्गेशाः प्रश्नवर्णतः। लग्नं तत्र ग्रहादीनामोजे चौजंसमे समम् ॥ १ ॥ तल्लग्नाद्ग्रहयोगैश्चपूर्वोक्तैःफलमादिशेत्। प्रच्छकोच्चारिताङ्केभ्यो लग्रांशांस्तत्र कल्पयेत् ॥ २ ॥

अथ चिन्तामुष्टिकज्ञानम्।

कुजार्कौधातुसंज्ञौंतु मूलसंज्ञौशशीनजौ। जीवाख्यौ जीवशुक्रौ च योनिर्यस्यांशके बुधः ॥ १ ॥ यल्लग्नं यस्य खेटस्य तस्मादारभ्य यावति। योनिग्रहो भवेत्तस्मात्ततो योनिविनिर्णयः ॥ २ ॥ लग्नोदितनवांशे वा चन्द्रे वाऽप्येवमेव हि। केन्द्रगैर्वा ग्रर्हैर्योनिर्लूका मुष्टिश्चकथ्यते ॥ ३ ॥ चन्द्रार्कौमृत्युलोकेशौज्ञेज्यौ स्वर्गाधिपौ मतौ। स्मृताः पाताललोकेशाः सौरारभृगुरादयः ॥ ४ ॥

अथ फलकालनिर्णयः।

लग्नेशो वीक्षते लग्नं कार्येशः कार्यमीक्षते। कार्यसिद्धिर्भवेदिन्दुः कार्यमेति तदा स्फुटम् ॥ १ ॥ लग्नेशो वीक्षते कार्यं कार्येशो लग्नमीक्षते। तदा कार्यस्य संसिद्धिन्दुिर्लग्नं यदैति च ॥ २ ॥ कार्यकार्येशमध्यांशास्तन्मितैर्वर्षमासकैः। दिनैर्दण्डैर्यथायोग्यं योज्याः कार्यस्य सिद्धये ॥३॥ अयनक्षणदिवसर्तुमासः पक्षः समार्कतो ज्ञेयः। लग्ननवांशपतुल्यः कालो लग्नोदितांशसमसंख्यः ॥ ४ ॥

इति शूरमहाठश्रीशिवराजविनिर्मिते।

ज्योतिर्निबन्धसर्वस्वे प्रश्नाध्यायः समीरितः ॥

अथ स्वरशास्त्रसारम्।

तत्राऽऽदौ स्वरशास्त्रप्रशंसा।

विलोक्य स्वरशास्त्राणि शिवोक्तानाममानपि। स्वानुभूत्याऽत्र तत्सारं ब्रुवे

भूपालवल्लभे॥ १ ॥ त्रिस्तनी गौर्यथा निन्द्या त्रिपदं यद्वदासनम्।विप्रहीना यथा वर्णास्त्रयः स्कन्धाः स्वरैर्विना ॥ २ ॥ चतुरङ्गेण सैन्येन यत्कार्यं नैव सिध्यति। तत्साधयति दैवज्ञो हेलयैव नृपेप्सितम् ॥ ३ ॥ जयचर्यायां— पत्त्यश्वरथभूपालैः संपूर्णा यदि277वाहिनी। तथापि भङ्गमायाति नृपो हीनः स्वरोदये ॥ ४ ॥ पुष्पैरपि न योद्धव्यं यावद्धीनः स्वरोदये। स्वरोदयवले प्राप्ते योद्धव्यं शस्त्रकोटिभिः ॥ ५ ॥ जपार्णवे— यस्यैकोऽपि गृहे नास्ति स्वरशास्त्रस्य278पारगः। रम्भास्तम्भोपमं राज्यं निश्चितं तस्य भूपतेः ॥ ६ ॥ जयचर्याया— स्वरशास्त्रे कृताभ्यासः सत्यवादी जितेन्द्रियः। तस्याऽऽदेशस्य279 यः कर्ता जयश्रीस्तं नृपं भजेत् ॥ ७ ॥ विजयभैरवे—ग्रहज्ञःशकुनज्ञश्चस्वरज्ञो मन्त्रपारगः। केरलज्ञस्तथा प्रोक्तं भूभृतां रत्नपञ्चकम् ॥ ८ ॥ भूपालवल्लभे—सर्वत एवाऽऽत्मानं गोपाये [दि] ति श्रुतिः प्राह। तद्रक्षणं विनै[वै]तच्छास्त्रं स्यात्कथं सुकरम् ॥ ९ ॥ मानवीये धर्मशास्त्रे— प्रजानां रक्षणं राज्ञां परमो धर्म इष्यते। दुष्टान्न निर्जित्य कथंस संभवितुमर्हति ॥ १० ॥ भुपालवल्लभे— सप्ताङ्गानां नृपो मूलं सर्वधमार्थपालकः। अतः संरक्षिते राज्ञि तत्सर्वं रक्षितं भवेत् ॥ ११ ॥ पुराणसारे— ये वर्णाश्च स्वधर्मेषु निरतास्तान्नृपस्तु यः। पालयेत्तं च यो रक्षेद्युद्धे राज्ञः फलं भवेत् ॥ १२ ॥ नीतिशास्त्रे— निषिद्धाऽपि क्षितीशाज्ञा पालनीया द्विजैरपि। न दूषणं भवेत्तेषां विष्ण्वंशो भूपतिर्यतः ॥ १३ ॥ भूपालवल्लभे— यत्किंचिदुच्यते पुण्ये शास्त्रेऽस्मिन्नाभिचारिकम्। तत्पापमपि नो पापं येन धर्मोऽभिरक्ष्यते ॥ १४ ॥ आज्ञासिद्धमिदं शास्त्रं भवान्यै शम्भुनोदितम्। न देयं पापलुब्धाय देयं स्वाचारवर्तिने ॥ १५ ॥ उपरोभाद्भयाल्लोभाद्योददाति दुरात्मने। स याति नरकं घोरं शिवाज्ञेति सनातनी ॥ १६ ॥ जयार्णवे— स्वरचक्राणि चक्राणि भूवलानि बलानि च। एतैरङ्गः क्रमाच्छत्रुंदुर्बलं वीक्ष्य घातयेत् ॥ १७ ॥ बलादिस्वरचक्राणि भद्रादीनि पराणि च। भूवलानिप्रसिद्धानि घातादीनि बलानि च॥ १८ ॥ जयार्णवे— अभङ्गे चाप्यभेदे न स्थानसैन्याधिके रिपौ। दुःसाध्ये दुर्जये कार्यं मन्त्रयन्त्रादिकं बलम् ॥ १९ ॥

इति स्वरशास्त्रप्रशंसा।

अथ स्वरोदयः।

लाभालाभौ सुखं दुःखं जीवितं मरणं तथा। जयः पराजयश्चेति सर्वंज्ञेयं स्वरोदये ॥ १ ॥ शत्रुपराभवे–अकछडधभषा नेन्दातिथित्रयेतिथित्रये भानुभौमयोः क्षेत्रे। उदिता अन्त्यात्सप्तर्क्षेक्रियगोयुग्मांशपट्के स्युः ॥ २ ॥ इसजढनमशा280 भद्रात्रितये बुधचन्द्रयोः क्षेत्रे। आदित्यर्क्षात्पञ्चसु मिथुनान्त्ये कर्कटे सिंहे ॥ ३ ॥ उगझतपयषा281 जयात्रितये गुरुगृहे भवन्त्युदिताः। अर्यमधिष्ण्यात्पञ्चसु फन्यायां तुलिनि वृश्चिकत्रिलवे ॥ ४ ॥ एघटथफरसा वर्णा रिक्तात्रितये गृहे भृगोरुदिताः। मैत्रात्पञ्चसु वृश्चिकशेषे चापे मृगस्य लवपट्के282॥ ५ ॥ ओचठदवलहवर्णाः283 पूर्णातिथित्रये गृहेऽर्कतनयस्य। उदिताः श्रुतिपञ्चके मृगशेषे कुम्भभे च झपे ॥ ६ ॥ भूपालवल्लमे— द्वादशाब्दादिनाड्यन्ताः स्वस्थानेषु स्वकालतः। उदयन्ति284 स्वभोगेन तथैकादशधा स्वराः ॥ ७ ॥ कूर्मयामले— पाच्यादिदिक्षु मध्ये च नन्दादितिथिषु क्रमात्। आदयो ह्युदयन्त्यस्मात्पञ्चम्यामस्तगामिनः ॥ ८ ॥ तिथिभुक्तघटीसंख्या षष्ठिघ्ना भगुणोद्धृता ३२७। लब्धं पञ्चहतं285 शेषं स्वरस्तत्कालजो भवेत् ॥ ९॥ शत्रुपराभवे— उदितस्वरस्य नाम्नः पञ्चावस्थाः क्रमात्स्वातथिभोगात्। बालकुमारप्रौढस्थविरास्तमिताश्चविज्ञेयाः ॥ १० ॥ रद्रयामले— स्वनामाद्यक्षरं यत्र कोष्ठे तस्मादनुक्रमात्। बालस्वरः कुमारश्चतरुणः स्थविरो मृतः ॥ ११ ॥ किंचिल्लाभकरो बालः कुमारस्त्वर्धलाभदः। युवा सर्वार्थदः प्रोक्तो वृद्धे हानिर्मृते क्षयः ॥ १२ ॥ जयचर्यायां— युद्धे वादे च यात्रायां नष्टे दृष्टे रुजान्विते। बालस्वरो भवेद्दुष्टो विवाहादौ भवेच्छुभः॥ १३ ॥ सर्वेषु शुभकार्येषु यात्राकाले विशेषतः। कुमारः कुरुते वृद्धिंसङ्ग्रामे286 सक्षतो जयः ॥ १४ ॥ शुभाशुभेषु कार्येषु यन्त्रयन्त्रादिसाधने। सर्वसिद्धिं युवा दत्ते याने युद्धे विशेषतः ॥ १५ ॥ दाने देवार्चने दीक्षाविधौ मन्त्रमकल्पने। वृद्धस्वरो भवेद्रव्यो रणे भङ्गो287भयं गमे ॥ १६ ॥ विवाहादिशुभं सर्वं सङ्ग्रामाद्यशुभं तथा। न कर्तव्यं नरैः किंचिज्जाते मृत्युस्वरोदये ॥ १७ ॥ भूपालबल्लभे—यो यस्य पञ्चमस्थाने स स्वरो मरणमदः।तृतीये सर्वसिद्धिः स्याच्छेपे मध्यफलोदयः ॥ १८ ॥ मृत्युर्हीनस्वरे288 नाम्नि जयो नाम्नि स्वराधिके। समनाम्नि भवेत्साम्यं

संधिर्जयपराजयौ ॥ १९ ॥ रुद्रयामले—शत्रोर्मृत्युस्वरे प्राप्ते यूनि प्राप्ते स्वकीयके। तत्काले कुर्वतां युद्धं विजयो जायते ध्रुवम् ॥ २० ॥ वर्णस्वरवले सर्वंकर्तव्यं च शुभाशुभम्। सिद्धिदं सर्वकार्येषु युद्धकाले विशेषतः ॥ २१ ॥जयार्णवे– तिथिर्वारश्चनक्षत्रं पूर्ववद्यत्प्रसाधनम्। वर्णस्वरो भवेद्यत्र तत्तस्याधः स्थितं कुरु ॥ २२ ॥ जयचर्यायां–यस्य नामादिमो वर्णस्तिथिवारर्क्षसंयुतः। तद्दिनं वर्जयेत्तस्य हानिमृत्युकरं यतः ॥ २३ ॥

इति स्वरोदयः।

अथ तत्कालस्वरचिन्ता।

ब्रह्मयामले— प्रच्छकस्तदिदं289 पश्यन्स्थित्वा वा तत्र पृच्छति। हानिर्मृत्युर्भयंभङ्गो जायते नात्र संशयः ॥ १ ॥ तिथ्यादावुदयं याति तिथिस्वराद्घटीत्वरः। बालस्वरादिकं प्रश्ने फलं तस्य वदाम्यहम् ॥ २ ॥ बालोदये यदा पृच्छा लाभार्थे स्वल्पदा भवेत्। रुजार्ते चिररोगः स्याद्गमे हानिः क्षयो रणे ॥ ३ ॥ कुमारोदयवेलायां लाभो भवति पुष्कलः। रुजो नाशो जयो युद्धे यात्रा सर्वत्र सिद्धिदा ॥ ४ ॥ युवोदये लभेद्राज्यं क्लेशच्छेदश्च तत्क्षणात्। सङ्ग्रामे भङ्गमायाति यात्रायां न निवर्तते ॥ ५ ॥ मृतोदये तु मृत्युः स्मात्सङ्ग्रामादौ विशेषतः। ओजस्वरा नरा नार्यो युग्माःस्वोदयतः फलम् ॥ ६ ॥ गर्भार्थे पुंस्वरे पुत्रः कन्या कन्यास्वरोदये। युग्मे युग्मं क्षयो नष्टे मातुर्मृत्युश्च संक्रमे ॥ ७ ॥ रुद्रयामलेएकपक्षाक्षरे चैकः स्वरद्योधयोर्द्वयोः। स्वो गौरो जयी शुक्ले कृष्णो दीर्घे जयी परे ॥ ८ ॥ एकस्वरोदये290 यायी स्थायी यूनि कुमारके। सङ्ग्रामादौजयी बालो बालवृद्धान्तिमस्वरे ॥ ९ ॥ नरपतिजयचर्याया—पञ्चाणेडः291(ओ) स्वराः (रा) [ स्ते ] कछडवभवमुखेष्वङगञव्यञ्जनेषु स्युर्नन्दादेस्तिथेस्तेतिथिकपिलवतोऽप्यन्तरा भोगभाजः। नाम्नो बालः कुमारो युवसजरमृताः स्त्रादिवर्णस्वरात्तेसिद्धयुत्कर्षो युवान्तोपचय इतरयोर्युध्यतां द्विण्मृतानि ॥ १० ॥ बालकुमारयोर्मध्यमं ज्ञेयम्।

**वर्णस्वरचक्रम् **
वा कृ यु ष्ट मृ
**राशिस्वरचक्रम् **
मे.९ मि. ३ क. ९ वृ.६ म. 3
वृ. ९ क. ९ तु. ९ ध. ९ कुं. ९
मि. ६ सि. ९ तृ. ३ म. ६ मी. ९
वा. कु. यु. वृ. मृ.
**नक्षत्रस्वरचक्रम् **
अ. इ. उ. ए. ओ.
रे. पु. उ. अनु. श्र.
अ. पु. ह. ज्ये. ध.
भ. आ. चि. मू. श.
कृ, रो. म. स्वा. पू. पू.
मृ. आ. पू. वि. उ. उ.
**मासस्वरचक्रम् **
अ. इ. उ. ए. ओ.
भा. आश्वि. चै. ज्ये. माघ
मार्ग. श्रा. पौ. का. फा
वै. आपा.
४३ ४३ ४३ ४३ ४३
३८ ३८ ३८ ३८ ३८
**ऋतुस्वरचक्रम् **
अ. ई. उ. ए. ओ.
व. ग्री. वपो. श. हैमन्त
४८ ३६ २४ १२
ग्री वपा. श. हेमं. शिशिर
१२ २४ ३६ ४८
वा. कु. यु. वृ. मृ.
**द्वादशवार्षिकस्वरचक्रम् **
अ. इ. उ. ए. ओ.
प्र. प्र. ख. शो. रा.
१२ १२ १२ १२ १२
वा. १
मा.१
दि.२
व. ४३ ४३ ४३ ४३ ४३
प. ३८ ३८ ३८ ३८ ३८
वा. कु. यु. वृ. मृ.

[TABLE]

[TABLE]

*292

१० ११
१० १६ २१ २७ ३२ ३८ ४३ ४९ ५४ ६०
२७ ५४ २१ ४९ १६ ४३ १० ३८ ३२
१६ ३२ ४८ २१ ३८ ५४ १० २७ ४३

इति वर्णस्वरादिचक्रोद्धारः

——————

अथ राहुकालानलम्।

अथातः संप्रवक्ष्यामि ख्याता या ब्रह्मयामले।राहुकालानली यात्रा संघःप्रत्ययकारिणी ॥ १ ॥ ग्रहयोगवशाद्यात्रा ज्योतिशास्त्रेषु भाषिता। सा यात्रा शुभकार्येषु फलं नैव तु संगरे ॥ २ ॥ जयचर्यायां— यस्य च्छायाप्रभावेण च्छाद्येते शशिभास्करौ। तस्य राहोःप्रभावं च वक्ष्येऽहं रणकर्मणि ॥ ३ ॥ केचिन्मूर्खा वदन्त्येवं ग्रहो राहुरकारणम्। यतो वर्षे दिने लग्नेऽप्याधिपत्यं न दृश्यते ॥ ४ ॥ वेदागमपुराणेषु ख्यातो राहुः खगेश्वरः। तस्य माहात्म्यमज्ञात्वा मिथ्या जल्पतिमूढयोः ॥ ५ ॥ दुष्टरिष्टेषु सर्वेषु जातकादिषु गण्यते। सद्यःप्रत्ययदोराहुर्जये स्यादेककारणम् ॥ ६ ॥ यत्रधिष्ये स्थितो राहुर्मुखं तन्मृतिपक्षगम्।गुदं ततः पञ्चदशेजीवाङ्गे संस्थितं तु तत् ॥ ७ ॥ राहुभुक्तानि

धिष्ण्यानिजीवपक्षे त्रयोदश। त्रयोदशैव भोग्यानि मृतपक्षः प्रकीर्तितः ॥ ८ ॥ जयार्णवे293— जीवो ग्लावमृते हंसोऽथवा द्वौ जीवपक्षगौ। तदा यात्रा शुभा ज्ञेया वैपरीत्ये तु हानिद्रा ॥ ९ ॥ चन्द्रे वदनगे यायी नश्येत्स्थायी गुदस्थिते। जीवपक्षे जयी यायी मृत्युगे स्थायिनो जयः ॥ १० ॥ ब्रह्मयामले— जीवपक्षगते चन्द्रे कार्यं स्यादमृतोपमम्। मृतपक्षे मृतं ज्ञेयं यतश्चन्द्रबले बलम् ॥ ११ ॥ ज्योतिष्यकाशे— नन्दषट्कं भूषषट्कं त्रिकमन्त्यं गमे न सत्। राहुभाच्छेपधिष्ण्यानि दशाङ्गे नो शुभानि च ॥ १२ ॥ जयभैरवे— युद्धकाले यदा शीघ्रंयात्रायोगो न लभ्यते। उत्पाद्येते तदा शीघ्रं तत्कालेन्दुदिवाकरौ ॥ १३ ॥ जयचर्यायाम्— इष्टा नाड्यो हता धिष्ण्यैः षष्टिभागाप्तशेषके। अश्विन्यादीन्दुभक्तेन युक्ते तत्कालचन्द्रमाः ॥ १४ ॥ यथा चन्द्रस्तथा सूर्यः कर्तव्यश्चेष्टकालिकः। यतोऽहोरात्रमध्ये तौभ्रमन्तौ धिष्ण्यमण्डले ॥ १५ ॥

इति राहुकालानलम्।

अथचन्द्रार्ककालानलम्।

सिंहारषट्कं रविक्षेत्रं चन्द्रक्षेत्रं घटादिकम्। चन्द्रक्षेत्रे चन्द्रसूर्यौस्थायिनो जायते वधः ॥ १ ॥ स्वक्षेत्रगौचन्द्रसूर्यौसंधिर्युद्धं विपर्यये। कर्तर्यांयदि चन्द्रार्कौ संहारः सैन्ययोर्द्वयोः॥ २ ॥ चन्द्रसूर्यौ रविक्षेत्रे यातुर्भङ्गोऽन्यथा जयः। यात्रायां युद्धकाले च चान्द्रस्थौ स्थायिनां शुभम् ॥ ३ ॥

इति चन्द्रार्ककालानलम्।

अथ रिक्तपूर्णचक्रम्।

भानुभाद्भानुसंक्रान्ते रिक्तः पूर्णोविधुः क्रमात्।चन्द्रे रिक्ते जयी पौरः पूर्णे यायी जयी गमे ॥ १ ॥

इति रिक्तपूर्णचक्रम्।

अथ कुलाकुलचक्रम्।

जयचर्यायाम्—द्वितीया दशमी षष्ठी कुलाकुलाः प्रकीर्तिताः। विषमा अकुलाः सर्वाः शेषाश्च तिथयः कुलाः ॥ १ ॥ रविश्चन्द्रो गुरुर्मन्दश्चत्वारो यकुला मनाः। भाौमशुक्रौ कुलाख्यौच बुधवारःकुलाकुलः ॥ २ ॥ वारुणार्द्राभिजिम्मूलं कुला-

कुलमुदीरितम्। कुलानि294 समधिष्ण्यानिशेषभान्यकुलानि च ॥ ३ ॥ तिथौ वारे च नक्षत्रे ह्यकुले यायिनो जयः। कुलाख्ये स्थायिनो नूनं संधिश्चैव कुलाकुले ॥ ४ ॥

[TABLE]

इति कुलाकुलचक्रम्।

————

अथ लोहज्ञानम्।

दस्रादिसप्तकेऽरण्ये पुण्यात्पष्ठे पुगन्तिके। चित्रादिसप्तके तोये क्षेत्रे वैश्वाच्चतुष्टये ॥ १ ॥ लोहं वर्षति मार्गेषु पूर्वा(र्व)भाद्रपदात्रये। तिथिः पञ्चगुणा कार्या दिनभेन समन्विता ॥ २ ॥ त्रिभिर्भक्ता शेषमेकं जले लोहं विनिर्दिशेत्। द्वाभ्यां ग्रामे तथाऽऽकाशे शेषंशून्यं यदा भवेत् ॥ ३ ॥ ब्रह्मयामले— तिथिः पञ्चगुण्णाभाढ्या त्र्याप्ता रूपादिशेषके। लोहंजले स्थले व्योम्निव्रुयान्नष्टस्थितिस्तदा ॥ ४ ॥ तिथेः प्राग्घटिकाः पञ्चदशोर्ध्वं वीक्षते शिवा। दश वामे दिशो दक्षे दशधाऽग्रेतिथिः क्रमात् ॥ ५ ॥ सहदेवमते— ऊर्ध्वदृक्तिथयः पादे दश वामभुजे दश। दक्षे च दश योगिन्यास्तिथिनाड्यस्तु संमुखम् ॥ ६ ॥ यत्रास्ति भैरवी दृष्टिस्तत्र लोहं प्रवर्षति। एतत्सर्वे प्रविज्ञाय तत्तत्स्थानं विवर्जयेत् ॥ ७ ॥ तिथिःपञ्चगुणा मासयुक्ता वसुभिरुद्धृता। शेषसंमितदिग्भागं गृह्णीयाद्ग्रामगेद्दयोः ॥ ८ ॥ तिथिर्द्विघ्नाभयुक् त्र्याप्ता शेषैके चलनं न हि। द्वाभ्यामर्धपथं

यानंशत्रोः शून्येर्नसत्वरम् ॥ ९ ॥ सूर्यभाद्दिनभे सप्तभक्तेऽप्येकादिलब्धितः। द्वयोर्युतिर्भवेन्मन्दा रौदी वक्रास्थिरा क्रमात् ॥ १० ॥ तिथिः पञ्चगुणा कार्या दिनभं तत्र विन्यसेत्। वह्निभिस्तु हरेद्भागं शेषे यात्रां विनिर्दिशेत् ॥ ११ ॥ एकेनार्धपथं यावद्द्वाभ्यां सीमावधेरतः। पूर्णेन पुरपर्यन्तं गमनं वाच्यते ध्रुवम् ॥ १२ ॥ वह्निभाद्दिनभं वह्निभिर्हृच्छू(हृतं शू)न्यादिशेषके।घातादनुविलम्बश्च लग्ने मार्ग इति क्रमात् ॥१३॥ भूपालवल्लभे— द्वितीयो दशमः षष्टश्चतुर्थो द्वादशोऽष्टमः। राशयश्च तथा चन्द्रा295युद्धे विजयदायकाः ॥ १४ ॥ एकादशे तृतीये वा चन्द्रे राशौ क्षतं विदुः। नवपञ्चमजन्मस्थः सप्तमो भङ्गन्दायकः ॥ १५ ॥ वारे शुक्रज्ञचन्द्राणां होरावेला तनौ जयी। अग्राह्या त्वथ जीवार्कभौमार्किणां च पश्चिमः ॥ १६ ॥ तिथिनक्षत्रवाराणामैक्यं वेदसमन्वितम्। अष्टभिस्तु हरेद्भागं खण्डःशेषदिशि स्मृतः ॥ १७ ॥

इति लोहज्ञानम्।

अथ कविचक्रम्।

कविचक्रं प्रकर्तव्यं चतुरस्रं त्रिनाडिकम्। वह्निभास्त्रिन्निधिष्ण्यानि प्रवेशे रुद्रकोणतः ॥ १ ॥ निर्गमे त्रीणि धिष्ण्यानि कविचक्रमिदं भवेत्। सौम्याःप्रवेशभे चक्रात्तदिशि स्यात्प्रवेशनम् ॥ २ ॥ सौम्ये चक्रान्निर्गमर्क्षे तद्दिशो निर्गमः शुभः। निर्गमर्क्षस्थिते क्रूरे क्रूरखेटैर्वहिः स्थितैः। निशीथे वेष्टकान्सुप्तान्निहन्युः पौरवासिनः ॥ ३ ॥ जयचर्यायाम्—हीनसैन्यः सदा स्थायी यायी सैन्याधिकस्तथा। चतुरस्रं त्रिनाडीक स्थानभादीशतो296 न्यसेत् ॥ ४ ॥ यदि नामोज्झिते स्थाने शत्रुसैन्यं व्यवस्थितम्। तत्र चक्रं समालेख्यं सेनाध्यक्षर्क्षपूर्वकम् ॥ ५ ॥ क्रूरे297 शीघ्रे प्रवेशर्क्षे यत्र तत्र विशेद्रणम्। वक्रस्थे निर्गमे सौम्ये वद्दिशा निर्गमंकुरु ॥ ६ ॥ प्रवेशर्क्षे प्रवेशश्चनिर्गमे निर्गमस्तथा। भूवलं पृष्ठतः कृत्वा मोक्तः कविरणे जयः ॥ ७ ॥ कृत्तिकादिरयं न्यासः प्रोक्तो बहुमतान्मया। केऽप्याहुः पुरभात्केचिद्दुर्गभाच्चार्कभात्परे ॥ ८ ॥

इति कविचक्रम्।

अथ कोटचक्रम्।

सूर्यचन्द्रभगर्भस्थे298 स्थानाप्तिर्विजयो भवेत्। चन्द्रभात्स्थानभं गर्भे वेष्टनं

ग्रामदुर्गयोः ॥ १ ॥ स्थानभाच्छत्रुभं मध्ये शत्रुभङ्गः प्रजायते। चन्द्रभाच्छत्रुभङ्गर्क्षेशत्रोर्भवति बन्धनम् ॥ २ ॥ ग्रामभात्कोटमात्स्वाभिधिष्ण्याद्वा क्रूरखेचराः। भङ्गं गर्भस्थिताः कुर्युः सौम्या गर्भे जयप्रदाः ॥ ३ ॥ भुपालवल्लभे—क्रूरा गर्भे पुरं घ्नन्ति प्रकारे खण्डिकारकाः।वहिष्ठा वेष्टके सैन्ये मृत्युदा नात्र संशयः॥ ४॥ मध्ये क्रूरा बहिःसौम्या गृह्यते निश्चितं पुरम् \। सौम्या मध्ये बहिः क्रूरा दुःसाध्यं दुर्गमुच्यते ॥ ५ ॥ प्राकारे संस्थिताः क्रूरा मध्ये सौम्या ग्रहा यदि \। दुर्गभङ्गे समुत्पन्ने भङ्गमायान्ति वेष्टकाः ॥ ६ ॥ प्राकारे खेचराः सौम्या मध्ये क्रूरचतुष्टयम् \। भेदाङ्गो भवेत्तत्र विना युद्धेन गृह्यते॥ ७ ॥ वक्रगाः पुरमध्यस्था यदि स्युः करखेचराः। पुरं मुक्त्वा पलायन्ते दुर्गस्था नात्र संशयः॥ ८ ॥ दुर्गमध्ये गते सूर्ये जलशोषः प्रजायते। चन्द्रे भङ्गः कुजे दाहो बुधे बुद्धि शुभाह्लया ॥ ९ ॥ गुरौ सुभिक्षं सबलं बलं शुक्रे शनौ रुजः।राहौभङ्गो भयं भेदः केतौविषभयं प्रभोः ॥ १० ॥

अथ लग्नबलम्।

लग्नस्थितेन चन्द्रेण यात्रायां वैरिभिर्भवेत्। युद्धे भङ्गो विवाहे तु वैधव्यं जायते ध्रुवम् ॥ १ ॥ यत्र लग्नस्थितः सूर्यश्चन्द्रमा सिंहिकासुतः। केतुर्मन्दश्च भौमश्चतस्य मृत्युर्न संशयः ॥ २ ॥ ज्ञेन शुक्रेण जीवेन यदा युक्ता भवन्ति ते। तदाऽसौ सक्षतो जीवेद्रणे रोगे तु मूर्छितः ॥ ३ ॥ यथा दुष्टफलाःक्रूरास्तथा सौम्याः शुभप्रदाः।सर्वकालमिदं ज्ञेयं युद्धकाले विशेषतः ॥ ४ ॥ द्वौयदा वैकनक्षत्रौसमानाक्षरनायकौ। हस्वो गौरो जयी शुक्ले कृष्णे कृष्णोऽतिदीर्घकः ॥ ५ ॥

इति लग्नबलम्।

अथ कालबलम्।

जयार्णवे— अवर्गाद्यष्टकं ज्ञेयं पूर्वाद्याशास्वनुक्रमात्। स्ववर्गात्पञ्चमस्थाने खण्डिर्भङ्गस्तुजायते ॥ १ ॥ दुर्गवर्गस्य ये भक्ष्यास्तावन्नामाक्षरा नराः। तद्दुर्गे ते रणे त्याज्या न कार्या दुर्गनायकाः ॥ २ ॥ ग्रहाश्चन्द्रेण ये यान्ति देिशन्त्यर्केण संगरे(रम्)। भूवलं पृष्ठतः कृत्वा स जयी स्यान्न संशयः ॥ ३ ॥ गरुद्धौतुहरिश्वाहिमूषकैणशशाः क्रमात्। वर्गेशास्तेऽर्कवारादौभङ्गमायान्ति संगरे ॥ ४ ॥ तिथिभोगादिके कार्यांपृष्ठतो वाहनाभिधा।भभोगाधिकतस्तद्वत्पुरतो जयदा गमे ॥ ५ ॥

इति कालबलम्।

अथ वडवानली भूमिः।

जयार्णवे– एकतः सर्ववीर्याणि भूवलं चैकतः स्मृतम्। तस्मात्सर्वप्रयत्नेन जयार्थी भूवलं श्रयेत् ॥ १ ॥ जयचर्याया मासाख्या चतुरङ्गाख्ये दिनाख्या कविसंगरे। मासाख्या कोटसङ्ग्रामे सूक्ष्माख्या खलके रणे ॥ २ ॥ आदियामले—कल्पादावभवद्युद्धममरासुरयोर्महत्। तत्र भग्नाः सुराश्चोग्रं तपश्चक्रर्जयार्थिनः ॥ ३ ॥ तेन शस्त्रास्त्रभृद्रुद्रो निर्गतो वडवानलात्। तद्बलं कथयामास देवेभ्यः शत्रुविच्छिदे॥ ४ ॥ द्वित्रिवेदैःपृथग्युक्ता तिथिर्भक्ता गजैः क्रमात्। पात्रवृ(द्द)क्कार्तिके त्यक्ता राज्ञां भूर्वडवानली ॥ ५ ॥ इयं पृष्ठस्थिता यस्य जयश्रीस्तस्य संमुखी। भङ्गः पाशश्चघातश्च तन्मुखानांक्रमाद्रे॥ ६ ॥ रसाघाते दिशः पाते नखाः काले जिनाः पले। वर्तमाना तिथिर्योज्या गजाप्ता तद्दियो मता ॥ ७ ॥ पलाद्बलीभवेत्कालःकालात्पातोबलान्वितः। पाताच्च बलवान्वा-

तस्तस्मात्तान्परिवर्जयेत् ॥ ८ ॥ घातः पातं ग्रसत्युग्रं पलःकालं निकृन्तति। घातकालस्थयोस्तस्माल्लोहपातात्त्ववःस्थिते ॥ ९ ॥

इति वडवानली भूमिः।

तत्र मन्त्रः– पञ्चवक्त्रं दशभुजं त्रिनेत्रं शूलधारिणम्। जटाधरं वृषारूढं ध्यायेद्रुद्रं जयप्रदम् ॥ १ ॥ चैत्रात्संहारमार्गेण पूर्वादिदिक्चतुष्टये। दक्षे पृष्ठे जयो युद्धे जयो विष्णुविनिर्मते ॥ २ ॥

अथ क्षेत्रपाली।

विलोमं पूर्वतो मासाश्चैत्राद्या दिक्चतुष्टये। महरा[:]न्स(स)व्यमार्गेणमासस्थानादि गण्यते॥ १ ॥ चतुरङ्गे कवौ कोटे जयदा पृष्ठदक्षिणे। क्षेत्रपाली महाभूमिर्भूपालानां जयोत्कटा ॥ २ ॥

अथ पक्षभूमिः।

पूर्वोत्तरदिशोः शुक्ले कृष्णेऽन्तकजलाशये। जयदा पक्षभागेण गौरी काली क्रमेण च ॥ १ ॥

अथ कालभूमिः।

पूर्वाह्णे पावके कोणे पराह्णे वायुगोचरे। इयं गुह्याभिधाभूमिर्जयदा पृष्ठदक्षिणे ॥ १ ॥

अथ बिम्बभूमिः।

जयचर्यायां—– पराह्णःपूर्वदिग्भागे ततः सव्येन मन्दगः। यत्र स्यात्तत्र कालः स्यात्पाशस्तस्य तु संमुखः ॥ १ ॥ दक्षिणस्थः शुभः कालः पाशो वामदिगाश्रितः। यात्रायां समरे श्रेष्ठस्ततोऽन्यत्र न शोभनः ॥ २॥ भूपालवल्लभे—पूर्वस्यांदिनपं कृत्वा पृष्ठे वारान्न्यसेत्क्रमात्। यत्र मन्दस्तत्र कालस्तन्मुखो भङ्गमाप्नुयात् ॥ ३ ॥ अज्ञातभूबलो योधः शीघ्रं सङ्ग्रामकर्मणि। जयमुद्रां समासाद्य युद्धं कुर्वञ्जयी भवेत् ॥ ४ ॥ जिह्वाग्रंविन्यसेत्तालौ पृष्ठे कृत्वा समीरणम्। वामाङ्गुष्ठं क्षिपेन्मुष्टौ जयमुद्राऽभिधीयते ॥ ५ ॥ दक्षपृष्ठे रवेर्विम्बं जयदं समराङ्गणे। चन्द्रविम्बंतथा रात्रौ पुरो वामे च शोभनम् ॥ ६ ॥

अथ लग्नभूमिः।

सूर्यराश्यादितः सव्येलग्नंतत्कालसंभवम्। पृष्ठदक्षिणगं कृत्वा जयो युद्धे न संशयः ॥ १ ॥

अथ राहुभूमिः।

इन्द्रवायुयमे रुद्रे तोयाग्निशशिराक्षसे। यामार्धमुदितो राहुर्स्रमत्येव दिगष्टके ॥ १ ॥ सर्वेषां भूवलानां च राहुभुः प्रवरा स्मृता। तस्यां स्थित्वा विशेषेण चतुरङ्गे जयो भवेत् ॥ २ ॥ रावेः सोमः कुजः सौम्यो गुरुः शुक्र शनिस्तमः। ऐन्द्रादीशानपर्यन्तमयामोदयाःक्रमात् ॥ ३ ॥ अर्धयामोदयः खेटः स्थाप्यःप्राच्यां ततः शनिः। यत्राऽऽस्ते तद्दिशि ज्ञेयंबुधैः कुलिकजं तमः ॥ ४ ॥ संमुखी वामसंस्था वा यस्यैषा राहुमण्डली। पराजयो भवेत्तस्य वादतरणादिषु॥ ५ ॥

कुलिकराहुचक्रम्।

[TABLE]

इति राहुभूमिः।

अथ योगिनी।

पूउआनैदपत्राईदिक्षु मागादितः क्रमात्। योगिनी संमुखा त्याज्यासातु द्यामार्धभुक्तितः ॥ १ ॥ भ्रमत्येषा तु भयदादक्षपृष्ठस्थिता सदा। प्रागुत्तराग्निनैर्ऋत्येयमतोयानिलेश्वरे। सूर्यादिषु च बारेषु पर्यटन्वारयोगिनी ॥ २ ॥

इति योगिनी।

अथ वारकालः।

क्षम्यर्कजीवभौमेषु मध्ये कालः प्रकीर्तितः। वाह्ये शुकेन्दुसौम्येषु वर्जनीयः सदारणे ॥ १ ॥

वारयोगिनीचक्रम्।

[TABLE]

इति वारकालः।

अथ तिथिकालः।

मध्यबाह्यक्रमाद्दिक्षु वामं प्रतिपदादिषु। वर्तमानतिथौकालं वर्जयेदाश्रयद्वये॥ १॥

तिथियोगिनीचक्रम्।

[TABLE]

इति तिथिकालः।

अथ वायुभूमिः।

दक्षपृष्टस्थितो वायुर्जयदो भवति ध्रुवम्। वामाङ्गे भयदः प्रोक्तः सर्वयुद्धेषु सर्वदा ॥ १ ॥

इति वायुभूमिः।

अथ भूबलम्।

युद्धार्णवे– युद्धकाले यदा चन्द्रः स्थायी जयति निश्चितम्। यदा सूर्यप्रवाहस्तु यायी विजयते ध्रुवम् ॥ १ ॥ पार्थिवेसक्षतं युद्धं संधिर्भवति वारुणे। विजयो वह्णितत्वेन वायौ भने मृतिस्तु खे॥ २॥ पूर्णनाडीगतं पृष्ठे शून्यमङ्गं तदग्रतः। शून्यस्थानकृतः शत्रुर्म्रियते नात्र संशयः ॥ ३ ॥ पूर्वोत्तरदिशोश्चन्द्रो भानौ पश्चिमयाम्ययोः। स्थितस्तत्र जयी युद्धे स्थायी यायी क्रमेण च ॥ ४ ॥ एतेषां भूवलानां तु भूरिमेलापको वली। प्रमुक्तं यद्दिने सर्वे तद्वद्रात्रौप्रकल्पयेत् ॥ ५ ॥

इति भूवलम्।

अथ घातचक्रम्।

जयचर्यायां– नराकारं लिखेच्चक्रमष्टावयवसंयुतम्। येन विज्ञातमात्रेण ज्ञायते घातनिर्णयः ॥ १ ॥ मुखैकं मस्तके त्रीणि हस्ते पादे चतुश्चतुः। हृदि पञ्च त्रिकं कण्ठे साभिजिद्भानि विन्यसेत् ॥ २ ॥ कृत्वा योधभमादौ तु मुखे शिरसि वामयोः। हस्ताङ्घ्र्येर्हृदये दक्षकराङ्घ्रयोर्गणयेत्क्रमात् ॥ ३ ॥ यत्राङ्गे भानुभौमार्किराहवो धिष्ण्यसंस्थिताः। तत्र घातं विजानीयाञ्चन्द्रयोगे विशेषतः ॥ ४ ॥ ग्रहभुक्तिप्रमाणेन नवांशकक्रमेण वा। प्रहरोजायते तत्र चक्रे त्रिगुणसंख्यया ॥ ५ ॥ निजभोच्चऽर्धघातं च पादोनं मैत्रभे ग्रहे। उदासीने भवेत्सर्वंद्विगुणं शत्रुभे वदेत् ॥ ६ ॥ एकोऽप्यनेकघातांश्च करोति भूवलोज्झिते।भूवलस्थे भटेखेटाः स्थिता वातं न कुर्वते ॥ ७ ॥ क्रूराघातं न कुर्वन्ति पृष्टदक्षिणगे रवौ। संमुखा वामगा ये ते योधाङ्गे घातकारकाः ॥ ८ ॥ दक्षिणाङ्गं गताः क्रूराः सौम्या वामाङ्गसंस्थिताः। शिरश्छेदेऽसंजाते कवन्धं संमुखं व्रजेत् ॥ ९ ॥ यस्य वामाङ्गगाःक्रूराः सौम्यखेटास्तु दक्षिणे। स मृत्युं नूनमायाति यद्यपि स्यान्महाभटः ॥ १० ॥

अथ द्वितीया घातवटी।

भूपालवल्लभे— नामधिष्ण्यं मुखे दद्याद्वेनेत्रे त्रीणि मूर्धनि। वेदा वाह्वोःपञ्च हृदिपृथक् चत्वारि पादयोः ॥ १ ॥ मुखं नेत्रं शिरी वामहस्तो वामपदं च हृत्। याभ्यहस्तस्तथा पादः क्रमाद्यत्रेन्दुयुक्खलाः ॥ २ ॥ तत्र घातो विनिर्देश्यो घाताद्घातस्तु केतुतः। यत्राङ्गे विवलाःसौम्यास्तत्र घातेऽपि जीवति ॥ ३ ॥ ऊर्ध्वदृष्टी कुजादित्यावधोदृष्टी तमःशनी। समदृष्टी जीवचन्द्रौ निर्यग्दृष्टी ज्ञभार्गवौ ॥ ४ ॥ दृष्टिभावाद्भवेद्घातो भुक्तांशाङ्गुलसंमितः। भोग्यांशाङ्गुलविस्तारस्त्रिगुणो वक्रगाद्ग्रहात् ॥ ५ ॥ देहस्थं कुलनक्षत्रमकुलं वाह्यसंस्थितम्। देहस्थपापवातेन स्वल्पेनापि मृतिर्भवेन् ॥ ६॥

अथ तृतीया घातवटी।

विजयलतायां— नराकारचक्रे मुखे योधधिष्ण्यं न्यसेन्मस्तके त्रीणि चत्वारि वामे। करेऽङ्घ्रौच पञ्चोदरे हृद्यथोडुत्रयंकण्ठके बाहुपादेऽष्ट सव्ये ॥ १ ॥ सपापेन्द॒युक्ते वदेद्घातमङ्गे सुधीःखेटभुक्तांशतुल्याङ्गुलं तु। भवेन्नैव वातो बलात्खेटभूमेर्भटस्य स्थितस्यापि वक्ष्येऽग्रतस्ताम् ॥ २ ॥ रुद्रयामले— रविनक्षत्रतः शीर्षे त्रयं चैकं मुखे स्थितम्। करयोः पादयोरष्टौहृदये पञ्चकं ततः ॥ ३ ॥ त्र्यं कण्ठे ततस्तत्र विन्यसेद्ग्रहसंहतिम्। यत्र चन्द्रस्तत्र घातः पादयुक्ते महान्भवेत् ॥ ४ ॥ उदितांशकतुल्या स्याद्घाते तत्राङ्गुलप्रमा। संपूर्णार्धाधिका भेदा इह ज्ञेयास्तु पूर्ववत् ॥ ५ ॥ सहदेवमते— गततिथ्याऽऽहलग्नैक्यं जन्मभाद्दिनभान्वितम्। नवाप्तं शेषसंख्यस्य वातं खेटस्य चाऽऽदिशेत् ॥ ६ ॥ शिरस्यग्निर्मुखे चन्द्रो वामकक्षासु भूमिजः। ज्ञौवामकुक्षौ पृष्ठे च वाह्योर्घातपतिंर्गुरुः ॥ ७ ॥ कट्योर्वा पादयोः शुक्रो दक्षकक्षासु वक्षसि। शनिर्नाभ्युदरे राहुर्मणिबन्धाग्रयोः शिखी ॥ ८ ॥ सरसारे— जन्मभात्सप्तगोभानुर्नेष्टोद्विर्द्वादशे कुजः। चतुर्थे दशमे मन्दस्त्रिकोणे गुः शिखी मृतौ ॥ ९ ॥ मुखशीर्षोदरे भानुर्भौमो हृद्भुजनाभिषु। राहुस्कन्धे चकक्षायां पृष्ठे बक्षसि मन्दगः ॥१०॥ केतुर्दण्डे विधा हन्ति चन्द्रादाने विशेषतः। अथेन्दोः पापयुक्तस्य घातो वाच्योऽत्र जन्मतः ॥ ११ ॥ भाले भुजे हृदि क्रोडे पृष्ठे कट्यांकरे ततः।वस्तौ पांसुलिके संधौ गुह्यऽशे च क्रमेणतु ॥ १२ ॥

घातचक्रम्।

योधाभात् नामभात् सूर्यभात्
मुखे १ हृदये५ मुखे१ वामपा०४ शिर०३ हृदये५
शिरसि२ कण्ठे ३ नेत्र० २ हृदये ५ मुखे १ कण्ठे ३
वामकरे ४ ट० क० ४ शिर०३ ट० क० ४ वामक० ४ ट० क० ४
चामच० ४ द० च० ४ वामह० ४ द० पा०४ वामपा०४ द० पा०४

इति घातचक्रम्।

अथ जाग्रत्सुषुप्तचक्रम्।

वसुवाणरसाम्भोधिसप्तचन्द्राग्निवाहवः। वर्गाङ्कैक्यं नगैर्भक्तं जयः शेषेऽधिको भवेत् ॥ १ ॥ दस्रादितुर्यतुर्यर्क्षे नन्दा पूर्णेन्दुभार्गवौ। एतल्लग्रसमायोगे वालयोगः प्रजायते ॥ २ ॥ याम्यादितुर्यतुर्यर्क्षे भद्राभौमार्कचन्द्रजाः। एतल्लग्नसमायोगे युवयोगः प्रजायते ॥ ३ ॥ कुमारे सुशुभं कार्यं शुभे कार्ये विधीयते। युवाख्ये तु विवादश्च द्यूतमद्याटिकर्मं च ॥ ४ ॥ वृद्धयोगे प्रकुर्वीत ऋणरोगारिघातनम्। द्यूतोग्रदारुणं कर्मं वाले ग्रामप्रवेशनम् ॥ ५ ॥ न नष्टं दृश्यते वस्तु रोगग्रस्तो न जीवति। ऋणं न दीयते तस्य परद्रव्यं तु गृह्यते ॥ ६ ॥ ज्योतिष्प्रकाशे— वृद्धयोगे मृत्युयोगे पातोपग्रहविष्टिषु \। उग्रकमार्स्तजन्मस्थेचन्द्रे तीक्ष्णोग्रामिश्रभे ॥ ७ ॥ भूपालवल्लभे—वहिर्वामपदे पाणौशीर्षे याम्यकरे पदे। वहिरेकैकशः कुर्यात्सूताख्ये नृचतुष्टये ॥ ८ ॥वहिर्नास्ति पदेयाति वन्धनं वामपाणिगे।शीर्षे मृत्युर्याम्यकरे युद्धं चन्द्रेऽरिभाद्भवेत् ॥ ९ ॥

इति जाग्रत्सुषुप्तचक्रम्।

अथ सेनाचक्रम्।

सेनाचक्रं प्रवक्ष्यामि यदुक्तं रुद्रयामले। तत्रैकं299 के पापयोगाद्भङ्गश्छत्रपताकयोः ॥ १ ॥ कर्णे300 द्वे हेरचाराणां नेत्रे द्वे स्वरवेदिनाम्। एकं घ्राणे प्रभोर्भङ्गो जिह्वायां भूश्चमन्त्रिणाम् ॥ २ ॥ मान्त्रिकाणां रदेष्वब्धिः पृष्ठे वाद्यभृतां द्वयम्।

स्कन्धयोर्द्वे मतङ्गानां रथानां भुजयोर्द्वयम् ॥ ३ ॥ धन्विनामङ्गुलीषुद्विर्वाहिनां हृदये द्वयम्। खङ्गिनामुदरे रूपं गुह्येसेनापतेस्तथा ॥ ४ ॥ पादयोर्द्विःपदातीनां रोम्णि भूरुपकर्तृणाम्। एवं क्रूरा यदङ्गन्स्थास्तदङ्गं हन्यते परैः ॥ ५ ॥ यदङ्गसंस्थिताः सौम्यास्तदङ्गं जयमाप्नुयात्। यदङ्गे सकलाःपापास्तदङ्गं मृत्युमेति च ॥ ६ ॥ अग्निभात्तुर्यतुर्यर्क्षेजयोरिक्तांशमङ्गगुः। एतल्लग्नसमायोगे वृद्धयोगः प्रजायते ॥ ७ ॥ मिश्रैर्मिश्रफलं सौम्या भङ्गन्दाः स्युर्यदाऽस्तगाः। शिरोक्षिघ्राणगे मन्दे राज्ञा शस्त्रेण वध्यते ॥ ८ ॥ अत्रैव चेत्तमःकेतू राज्ञो वन्धनकारकौ। सक्षतं वन्धनं भौमस्तथैवार्कः पलायनम् ॥ ९ ॥ मूर्ध्नि प्रस्थानभं देयं सेनाचक्रे तदा वुधैः। युद्धकालेऽपि केऽप्यादुर्वीक्ष्य तात्कालिकैर्ग्रहैः ॥ १० ॥ स्थानेऽर्कस्य रथैर्भङ्गस्तथा रथपदातिभिः। राहोर्गजैः शनेरश्वैः केतोः सर्वैश्चजायते ॥ ११ ॥

सेनाचक्रम्।

शिरसि १ छत्रध्वजादीनाम् भुजयोः२ रथानाम्
कर्णयोः २ हेरचाराणाम् अङ्गुल्योः २ धन्विनाम्
नेत्रयोः २ स्वरविदाम् हृदये २ अश्वानाम्
घ्राणे १ प्रभोर्भङ्गः उदरे १ खड्गिनाम्
जिह्वायां १ सचिवानाम् गुह्ये १ सेनापतेः
दन्तेषु ४ मान्त्रिकाणाम् चरणे२ पदातीनाम्
पृष्ठे २ वाद्यभृताम् रोम्णि १ उपकरणानाम्
स्कन्धयोः २ गजानाम्

इति सेनाचक्रम्।

अथ द्वन्द्वयुद्धम्।

समरसिंहे–द्वन्द्वंदुर्गंकविश्रातुरङ्गं युद्धं चतुर्विधम्। प्राधान्यमेषां द्वन्द्वस्य युद्धस्येति तदुच्यते ॥ १ ॥ दुर्गे भीताः कवौ सुप्ता निर्वैराश्चातुरङ्गके।इन्यन्ते तत्रयंनिन्धंद्वन्द्वमेवोत्तमं विदुः ॥ २ ॥ स्वामिविप्रसुहृत्राणे गोभूस्त्रीस्वयशोहतौ।येषांनास्त्रग्रहो भानुस्तांस्तान्दृन्द्वाऽर्कमीक्षते ॥ ३ ॥ वैरं सुहृद्धनं मानो विपदः स्त्री यशः सुहृत्। अङ्कस्य कारणान्यष्टौनिर्णयोऽत्रैव कल्पते ॥ ४ ॥ साफूतं वीक्षणं हासःस्पर्शनं वा तदिङ्गितम्। युद्धस्य कारणं तस्मिन्सद्यो द्वन्द्वेन युध्यते ॥ ५ ॥ शब्दो द्विधाध्यनिःस्पष्टो जातोऽसौ लोपलम्भनात्।

तत्र पक्षोऽवधिर्युद्धे भसंख्यानि दिनानि च ॥ ६ ॥ अक्षराणां मानहानिः शब्दो मासे रणेऽवधिः। वृत्तिर्भोजनमानश्च वारेण षष्टिवासराः ॥ ७ ॥ ताम्बूलहनने केशच्छेदने च कशाहतौ। उपानत्तलपादादिघाते कालस्त्रिमासिकः ॥ ८ ॥ विरुदच्छत्रचामरवारणे माश्चतुष्टयम्। ऋणदासीभृत्यशास्त्रहरणे मासपञ्चकम् ॥ १ ॥ पक्तिगेहारामहृतौन्यूनः षाण्मासिकोऽवधिः। षण्मासात्प्रथमे सूडेप्रतिसूडे तु वत्सरः ॥ १० ॥ शस्त्रे पतद्ग्रहे वादे पीठे न्यासे त्रिवत्सराः। अज्ञानाद्भुञ्जते वित्तमवधिर्दशवार्षिकः ॥ ११ ॥ स्त्रीहृतौवृत्तिहरणे विरुदे चान्वयागते।नैवावेधिः क्वापि राज्ञामतस्ते पूर्ववैरिणः ॥ १२ ॥ वर्षाणां विंशतिर्भूमेर्भागवृद्धिरुदीरिता।स्त्रीबालानामशक्तानां त्रिंशदब्दा मतोऽवधिः ॥ १३ ॥ जले नक्रो वने सिंहःकाकोऽह्णिनिशि कौशिकः। बली तद्वद्बलं देशात्कालात्तस्मात्स्वरं श्रयेत्॥ १४ ॥ अवलस्य बलोपायो मणिमन्त्रौपधादिकः। यतो द्यूतं च युद्धं च जायते न विना बलात् ॥ १५ ॥ भीतं व्यस्त्रं पलायन्तं विश्वस्तं शरणागतम्। रिपुं शक्तोऽपि नो हन्यात्तथा कूटविषाग्निभिः ॥ १५ ॥

इति द्वन्द्वयुद्धम्।

अथ च्छुरिकायुद्धम्।

षष्ठाङ्गुष्ठात्म(डङ्गुलम) भृतितो ज्ञातव्याश्छुरिका नत्र। वाली कुमारी चामुण्डा कालिका महाकालिका ॥१ ॥ भैरवी योगिनी चैत्र वैष्णवी शान्तिकारिका। पुनस्तिथ्यङ्गुलादूर्ध्वंज्ञातव्याः प्रथमादितः ॥ २ ॥ पञ्चाङ्गुला वा कटिका द्विगुणा यमदृष्ट्रिका। चण्डा पवित्रिका टोणा301त्र्यङ्गुलोर्धृप्रकीर्तिता ॥ ३ ॥ चतुर्विंशार्धाङ्गुलकं कोपा गुप्ती च दीर्घकम्। अत ऊर्ध्वं च यच्छस्रं तज्ज्ञेयं खड्गबहुधैः॥ ४ ॥ होना शहरीतक्योः स्फुटिता विष्णुना कृता। न दृङ्मनोनुकूला च निन्द्याशस्त्री परा शुभा ॥ ५ ॥ शस्त्राङ्गुलं षट्समेतं सप्तहृच्छेपकोऽधिपः। शस्त्रस्वामीशयोर्वैःमृत्युकार्यन्यथा शुभम् ॥ ६ ॥ लक्षणसमुच्चये—स्वनाम्नोक्तविधानेन शस्त्र्याजीवकलां न्यसेत्। स्वाभिधानं तु नत्यन्तं स्मरेद्युद्धे जयाय वै ॥ ७ ॥ मुष्टिं विहाय सर्वोपयोगित्वाद्गणितोदितैः। अङ्गुलेर्गुणयेद्यद्वास्वाम्यङ्गुष्ठान्त्यपर्वणा ॥ ८ ॥ कर्तुर्दक्षिणहस्तस्य मध्यायामध्यायाः मध्यर्वणः। प्रमाणमङ्गुलस्योक्तं शस्त्रमूल्यादिकर्मसु ॥ ९ ॥ नाकारणं विवृणुयान्मूल्यं देशं च नो वदेत्। नेक्षेताऽऽस्यं लङ्घयेन्न स्पृशेन्नैवाशुचिर्नरः ॥ १० ॥ कणिते मरणं कोशात्प्रवर्त्तेस्यात्पराजयः। ज्वालते विजयः302 कोशायुद्धं निर्ग-

च्छति स्वयम् ॥ ११ ॥ न च्छेद्योऽसौ विनिष्पन्नोनिकषैःकारयेत्समम्। मूले छिन्ने प्रभोर्मृत्युश्छिन्नेऽग्रे संततेर्मृतिः॥ १२॥ समरसिंहे— रक्तपानाच्छ्रियः प्राप्तिः सुताप्तिर्घृतपानतः। जलपानाद्भवेद्वित्तं सिद्धिरश्वोष्ट्रदुग्धतः ॥ १३ ॥ झपपित्तमृगाजाश्वदुग्धैस्तैलयुतैर्दृढा। अर्कदुग्धं मेषशृङ्गं मपीयुक्तं तथा पुनः ॥ १४ ॥पारावताखुशकृता छुरिकां प्रविलेपयेत्। ततस्तैलेन मथिता तैलपीता भवेद्दृढा॥ १५ ॥ रम्भाक्षारे तक्रयुते पायिता या दिनोपिता।शिता सम्यक्कुण्ठिता सा न गच्छति शिलास्वपि ॥ १६ ॥ छुरिकाख्ये न्यसेदर्काज्जन्मभोद्वाऽष्टाविंशतिः। एकमग्रेऽहिवलना धृतिरस्त्रेनवान्तरे ॥ १७ ॥ पापग्रहोऽथवा चन्द्रः पापयुक्तोऽथवा बुधः। यत्राऽऽस्ते तत्र घातः स्याद्ग्रहभुक्ताङ्गुलप्रमः ॥ १८ ॥

अथ च्छुरिकोपास्तिः।

अथोपास्तिककल्पेऽत्र छुरिकाया जयाय वै। परितोष्य गुरुं मन्त्रं गृह्णीयात्तत्प्रसादतः ॥ १ ॥ शुचिर्भूत्वा प्रतिदिनं त्रिसंध्यं तं समभ्यसेत्। अर्चयेद्गन्धपुष्पाद्यैर्ध्यायन्भगवतीं पराम् ॥ २ ॥ आर्भट्याशशिखण्डमण्डितजटाजूटां भुशुण्डस्रजं वन्धूकप्रसुनारुणाम्बरधरां प्रेतासनाध्यासिनीम्। तांध्यायेत्नुचतुर्भुजां त्रिनयनामापीनतुङ्गस्तनीं मध्ये निम्नवलित्रयाङ्किततनुं रौद्रीं कृपाणेश्वरीम् ॥ ३ ॥

अथ मन्त्रः।

अस्य श्रीछुरिकामन्त्रस्य शंभुर्ऋषिर्गायत्री छन्दः श्रीभगवतीदेवता छ्रीं वीजं छौं शक्तिर्जयार्थेजपे विनियोगः।ॐ छ्रां हृदयाय नमः। ॐ छ्रींशिरसे स्वाहा। ॐ छ्रूंशिखायै वपद्। ॐछ्रैंकवचाय हुम्। ॐ छ्रौंनेत्रत्रयाय वौपट्। ॐ छ्रःअस्त्राय फट्। इति कृत्वा ध्यात्वा मन्त्रमयुतं जपेत्। तिलाज्येन सहस्रं जुहुयात्। सिद्धो भवति। ॐ छ्रांछ्रींछ्रूंछ्रैछ्रौंछ्रः। नमो भगवत्यै कात्यायन्यै छुरिकायै नमः। अथवा। ॐछ्रांछ्रींछ्रूंछ्रैछ्रौंछ्रः। षडक्षरो मन्त्रः।

इति च्छुरिकायुद्धम्।

अथ व्यूहरचना।

रत्नकोशे— दण्डोरगौ रविसुतस्य रवेश्चचक्रं शुक्रस्य पद्मसरटौगरुडो बुधस्य। व्यूहौ च सूचिमकरौधरणीसुतस्य श्येनो गुरोः शिशिरगोरपि303 मण्ड-

लाख्यः ॥ १॥ रुद्रयामले— स्वानुकूलग्रहव्यूहः कर्तव्योयुद्धकर्मणि। रिपूणां प्रतिकूलस्य कार्यो व्यूहो ग्रहस्य वा ॥ २ ॥ भूपालवल्लभे— बलाकापङ्क्तिवद्व्युहो बलाकाख्यः कृतोरणे। काकव्यूहः काफसंघो बलाकाव्यूहभञ्जकः ॥ ३ ॥ तावुभावपि भज्येते श्येनव्यूहेन निश्चितम्। एको रथोऽप्रे कर्तव्यः पश्चाद्द्विरदसप्तकम् ॥ ४ ॥ त्रिंशदश्वाः खड्गिशतं पार्श्वे कुन्तथरास्तथा। मध्येऽष्टौरथिनस्त्रिंशदश्वाः पश्चाद्गजद्वयम् ॥ ५ ॥ ततः सर्वगतं सर्वं श्येनव्यूहः स उच्यते। अग्रे द्वौपृष्ठगाश्चान्ये क्रौञ्चव्यूहः स उच्यते ॥ ६ ॥ वलाककाकौक्रौञ्चेनक्रौञ्चः श्येनेन भज्यते। अग्रे रथद्वयं पश्चाद्गजाः सप्त व्यवस्थिताः ॥ ७ ॥ तत्पृष्ठे विंशतिरियभाःपञ्चाशद्वाजिवाहकाः। सप्त सप्त रथाः पार्श्वे गजौ द्वौ द्वौ ततः स्थितौ ॥ ८॥ तत्प्रमाणै रथैर्वेदी वहिस्तद्वद्गजाः स्थिताः।मध्ये पदातयो वाहाःपार्श्वयोश्च तुरङ्गमाः ॥ ९ ॥ विज्ञेयः शकटव्यूहो न भेद्यस्त्रिदशैरपि। अग्रे रथत्रयं पृष्ठे गजाकारी गजव्रजः ॥१० ॥स्यन्दनाः पञ्च पञ्चैव पार्श्वकोणचतुष्टये। मध्यं प्रपूरयेदश्वैर्लाङ्गुलगजमालिका ॥ ११ ॥ मध्ये खड्गिधनुष्मन्तः पार्श्वयोरथिनो गजाः। पृष्ठतः सकला सेना सिंहव्यूहः स जायते ॥ १२ ॥ शकटव्यूहकालेन सूचीब्यूहेन भिद्यते। पत्रव्यूहस्तु सिंहेन सूचीकाकेन भिद्यते ॥ १३ ॥ गजषोडशकं मध्ये वृत्ताकारण कल्पयेत्। बाह्यतो रथिभिर्वेष्ट्यं तद्वाह्ये कुन्तधारकौ(काः) ॥ १४ ॥ शरचापधरा वाह्येखड्गचर्मधरास्तनः। बाह्यतोऽश्वैः समावेष्ट्य पङ्क्तित्रितयतः क्रमात् ॥ १५ ॥ पुनःपुनः प्रकुर्वीत यावद्भवति वाहिनी। चक्रव्यूहः स विज्ञेयो दुर्भेद्यस्त्रिदशैरपि ॥ १६ ॥ अन्तरे रथमेकैकं स्थानपृष्ठेषु कल्पयेत्। तदन्तरे गजान्यञ्चनवाश्वान्स्थापयेत्ततः ॥ १७ ॥ ततः पत्तीन्पञ्चदश पत्रे पत्रे प्रकल्पयेत्। तन्मध्ये स्यन्दनान्सप्त गजांश्चैव त्रयोदश ॥ १८॥ एकोनविंशतिहयान्पदातिश्चाष्टविंशतिः। गजैरश्वैः पूरणीया पद्ममध्यस्थकर्णिका ॥ १९ ॥ तन्मध्ये गजमारूढश्चमूषो वाऽथवा नृपः। अन्तरे द्रोणिकायां तु रथद्विरदवाजिनः ॥ २० ॥ त्रयस्त्रयश्चसर्वत्र त्रयस्त्रिंशत्पदातयः। पद्मव्यूहः स विज्ञेयः पद्माकारकृतोयदा ॥ २१ ॥ रथं गजं हयं पत्तिंमालाकारेण विन्यसेत्। पुनः पुनः श्रेणिवन्धान्मालाव्यूहः स उच्यते ॥ २२ ॥ चतुर्दिक्षु रथौद्वौद्वौ तत्पृष्ठे द्विरदा दश। चतुर्विंशतिरश्वाश्चत्रिंशत् खड्गधरास्तथा ॥ २३ ॥ शरचापधराश्चैव दश वा खेटधारिणः। तेषां पृष्ठे कुन्तधरा यन्त्रधरास्तथैव च ॥ २४ ॥ वेद्याकाराः पूरणीया गजैरश्वैःपदातिभिः। अग्रे नृपः स विज्ञेयो व्यूहः पुष्करणीति व॥ २५ ॥सर्पाकारं रथेनाश्वैःपूरयेत्सैनिकैरपि। सर्पव्युहः स विज्ञेयः

कृतास्तो युद्धकर्मणि ॥ २६ ॥ सप्तधा स्युः सप्त रथा गजवाजिपदातयः। रथेभाश्वपत्तयश्चसप्त सप्तगुणाः क्रमात् ॥ २७ ॥ अवोऽधः कल्पयेदेवमग्निव्यूहः स उच्यते। सर्वोत्तमोऽयं व्यूहानामग्निवन्नाशकारकः ॥ २८ ॥ चतुरेखाङ्कितांसेनां वैद्याकारां प्रकल्पयेत्। रथैर्हेयैर्गजैः षड्भिः क्रमेणैव चतुर्दिशः ॥ २९ ॥ ततश्चतुर्षुद्वारेषु रथौद्वौ द्वौ तथा गजौ।अश्वावपि पदाती च चतुर्दिक्षु प्रकल्पयेत् ॥ ३० ॥ तन्मध्ये नृपतिस्तिष्ठेद्वेद्याकारेऽन्तरे सुधीः। विज्ञेयः रूलकव्यूहः खलकौद्वारवस्थितौ ॥ ३१ ॥ सौपर्णःश्येनवत्कार्यस्तत्संख्या द्विगुणा पुनः। शकटोऽग्निश्चक्रसंज्ञो व्यूहेषु वलवत्तराः ॥ ३२ ॥ दण्डाकरो भवेद्दण्डो मकरो मकराकृतिः। सूचीव्यूहः समः सूच्याः स्वनामसदृशाः परे ॥ ३३ ॥

इति व्यूहरचना।

अथ सूक्ष्मस्वरप्रकरणम्।

पवनविजये— नतिथिर्न च नक्षत्रं न वारो नैन्दवं बलम्। सर्वसिद्धिकरं ज्ञानं कथयस्व महेश्वर ॥ १ ॥ शृणु पार्वति देहस्थं रहस्यं ज्ञानमुत्तमम्। येन विज्ञातमात्रेण सर्वज्ञत्वं प्रजायते ॥ २ ॥ कन्दादूर्ध्वमस्तिर्यग्व्याप्य देहं समन्ततः। चक्रवत्तु भ्रमन्त्येता नाड्यः प्राणसमाश्रिताः ॥ ३ ॥ योगरहस्ये— इडा वामा विधोर्नाडी पिङ्गला दक्षिणा रवे। सुषुम्णा मध्यमा वह्णेस्तिस्रो हंसस्वरूपकाः ॥ ४ ॥ जयार्णवे— एकैकस्य कलाः पञ्च क्रमेणैवोदयन्ति च। पृथिवी सलिलं तेजो वायुराकाशमेव च ॥ ५ ॥ ऊर्ध्वमग्निरधश्चाऽऽपरितर्यगस्ति प्रभञ्जनः। धरामध्ये विजानीयान्नभः सर्वत्र संस्थितम् ॥ ६ ॥ अष्टाङ्गुलो वहेद्वायुरनलश्चचतुरङ्गुलः। षोडशाङ्गुलमानस्तु पृथिवी द्वादशाङ्गुला ॥ ७ ॥ स्वरोदये— रक्तं तेजो मही पीता नीलो वायुर्जलं सितम्। कृष्णवर्णं नभो ज्ञेयं चन्द्रः कृष्णोरविः सितः ॥ ८ ॥ वायुश्चापाकृतिस्तेजस्त्रिकोणं वर्तुलं जलम्। चतुरस्रा मही ज्ञेया निराकारं नभः सदा ॥ ९ ॥ तीक्ष्णं तेजः कटुर्वायुर्वारुणं मधुरं मतम्। कषाया भूः स्वमस्वादंक्षारा भूर्वाऽऽम्लको मरुत् ॥ १० ॥ जले वायौजीवचिन्ता मूलचिन्ता भुवि स्मृता। धातुचिन्ताऽग्नितत्त्वे च शून्यं खे तद्द्वये द्वयम् ॥ ११ ॥ अनु शीघ्रं भवेल्लाभः पृथिव्यां बहुभिर्दिनैः। वायौभङ्गोऽनले हानिराकाशे निष्फलं सदा ॥ १२ ॥ चरं तोपे स्थिरं भूम्यां मरणोच्चाटनेऽनिले। तेजसा मिश्रमुत्रं च न किंचित्खे विधीयते ॥ १३ ॥ पृथ्वीजलाभ्यांतु सुतः कन्यका तु प्रभञ्जने। तेजसा गर्भपातःस्यान्नभसा च।

नपुंसकम् ॥ १४ ॥ गर्भप्रश्ने यदा दूतः पूर्णे पुत्रः प्रजायते। शून्ये कन्या युगे युग्मं गर्भपातस्तु संक्रमे ॥ १५ ॥ अन्तर्वत्न्याःसुतं सूर्ये वदेच्चन्द्रे तु कन्यकाम्। अशून्ये शून्यके स्थाने शून्ये वा तपनं वदेत् ॥ १६ ॥ योधद्वये कृतप्रश्नेपूर्णस्थे प्रथमो जयी। रिक्तेऽन्योऽथ विधौ स्थायी जयी यायी रवौभवेत् ॥ १७ ॥ पृथ्वीतत्त्वे सकृद्युद्धं संधिर्भवति वारुणे।विजयो वह्णितत्त्वेन वायौभङ्गोऽन्वरे मृतिः ॥ १८ ॥ पूर्वोत्तरदिशोचन्द्रे भानौ पश्चिमयान्ययोः। स्थितस्तत्र जयी युद्धे स्थायी यायी क्रमेण च ॥ १९ ॥ शुभकार्ये शुभश्चन्द्रः क्रूरकार्ये रविः शुभः। वाहनाद्यथ पादेन गच्छत्सिद्धिमवाप्नुयात् ॥ २० ॥ यात्रादाने विवाहे च वस्त्रालंकारभूषणे। सुहृत्मेलेप्रवेशे च स्थिरकार्ये शुभादिषु॥ २१ ॥ गृहप्रवेशने स्वामिदर्शने वीजवापने। देवतायाः प्रतिष्ठासु शान्तिके पौष्टिके तथा ॥ २२ ॥ आरामेऽथ तडागादौ निधिनिक्षेपसंग्रहे। भार्यास्नेहे च कर्तव्या वामा सर्वत्र पूजिता ॥ २३ ॥ विद्यारम्भेषु दीक्षायां सेवावाणिज्यकर्पणे। शस्त्राभ्यासे विवादे च द्यूते खेटकचौर्यके ॥ २४ ॥ सङ्ग्रामे भेजे जाप्ये विषभूतानिलग्रहे। क्रयविक्रयपण्येषु स्नानभोजनमैथुने ॥ २५ ॥ वाहने गजवाहादिरथयन्त्रादिशिल्पके। लिपिलेखकवाहादौ मन्त्रदीक्षाभिचारके ॥ २६ ॥ विग्रहोद्धारदानेषु सूर्यः सर्वत्र पूजितः। उदये जायते चन्द्रः सूर्योऽस्ते शुभकृत्तदा। सर्वत्र सर्वकार्येषु जीवः शस्तोऽन्यथा न सन् ॥ २७ ॥ समरसिंहे—पूर्णनाडीगतं पृष्ठे शून्यमङ्गं तदग्रतः। शून्यस्थानगतः शत्रुः क्रियते नात्र संशयः ॥ २८ ॥ प्रश्ने प्रारम्भणे वाऽपि कार्याणां वामनासिका। पूर्णवायोः प्रवेशश्च तदा सिद्धिर्न चान्यथा ॥ २९ ॥

इति सूक्ष्मस्वरप्रकरणम्।

अथ तत्त्वगुणाः।

उमामहेश्वरसंवादे— अस्थि मांसं त्वचा भेदस्तथा रोम च पञ्चमम्। क्षितेः पञ्च गुणाः प्रोक्ता ज्ञातव्यास्तत्त्वदर्शिभिः ॥ १ ॥ क्षुधा तृषातथा निद्रा व्याधिरालस्यमेव च। तेजसस्तु गुणाः पञ्च सामान्यास्ते प्रकीर्तिताः ॥ २ ॥ धावनं चलनं चैवकुञ्चनं व प्रसारणम्। निरोधश्चेति विज्ञेया वायोः पञ्च गुणा बुधैः ॥ ३ ॥ रागोद्वेगौतथा लज्जा भयं मोहस्तथैव च। व्योम पञ्चगुणं प्रोक्तं देहस्थं सर्वदा बुधैः॥ ४ ॥ मूत्रं श्लेष्मा च रक्तं च शुक्रं स्वेदश्च पञ्चमः। आपः पञ्चगुणाः प्रोक्ता ज्ञातव्यास्तत्त्वदर्शिभिः ॥ ५ ॥ वश्यमार्षणं पुष्टिं

शान्तिंकुर्वन्ति पूरके। कुम्भके स्तम्भनं कुर्याद्भयरक्षाविवर्धनम् ॥ ६ ॥ रेचके मारणं कुर्याद्विषमोच्चाटनं तथा। आश्लेष्मान्तं च रुद्धेन नसा ज्ञानं कथं भवेत् ॥ ७ ॥ मुखनासाक्षीणि कर्णौ द्य्वङ्गुलीभिर्निरोधयेत्। तत्त्वोदयमिदं ज्ञेयं षण्मुखीकरणं प्रिये ॥ ८ ॥ क्षणं वामे क्षणं दक्षे यदा वहति मारुतः। विषुवेण समो ज्ञेयःसर्वकार्यविनाशकः ॥ ९ ॥ व्यवहारे खलेवादे विपदाने च कर्मणि। कुपितः स्वामिचौराद्याः पूर्वस्थाः स्युर्भयंकराः ॥ १० ॥ लग्नर्क्षतिथियोग- -क्षैर्भक्तस्तत्त्वं धरादिकम्। याने लाभः सुखं कीर्तिर्भङ्गो हानिः फलं क्रमात् ॥ ११ ॥

इति शूरमहाठश्रीशिवदासविनिर्मिते। ज्योतिर्निबन्धसर्वस्वे स्वरशास्त्रविचारणा ॥

**अथ प्रश्नोत्तराध्यायः। **

तत्राऽऽदौ भिन्नमतयोः किं प्रमाणमिति प्रश्नः—नैकस्मिन्समये सर्वशास्त्रोक्तं शुभमाप्यते। संहितास्वरशास्त्राद्यं भेदैर्भिन्नं यतः स्मृतम् ॥ १ ॥ अस्योत्तरं— तेष्वेकमुररीकृत्य तदधिष्ठानदेवताम्। समाराध्य ततः कुर्यात्कर्माभीष्टसिद्धये ॥ २ ॥ सुगन्धैर्भूर्जपत्रादौ कार्यंभेदयुतं लिखेत्। सदेवं तत्समभ्यर्च्यकादौ धृत्वेष्टमारभेत् ॥ ३ ॥ तिथ्यादिग्रहदिङ्मासदेवताः प्रागुदीरिताः। भूचक्रस्वरपूर्वाणां304 ज्ञेयाः स्वाभिजनेश्वराः305 ॥ ४ ॥ एवं दोषेसमुत्पन्ने विधानं क्रियते बुधैः। स एवोपशमं याति तथा रोगः सदौषधैः॥ ५ ॥ तदुक्तं यामले रौद्रे तन्मयाऽत्र गुरोर्मुखात्। श्रुतं प्रकाशितं तच्च दृष्टमाधुनिकैः स्फुटम् ॥ ६ ॥ ज्योतिर्विवरणे—ग्रहयोगोद्भवं शस्तं दुष्टं चापि फलं क्वचित्। न नश्यति यथोष्णत्वं रवेःशैत्यमनुष्णगोः ॥ ७ ॥ संहितोक्तं शुभं मुख्यं युद्धादौस्वरशास्त्रजम्। शकुनाद्यंपरे प्राहुः कार्ये साधारणे सदा ॥ ८ ॥

**अथाष्टकवर्गप्रश्नोत्तरम्। **

अष्टवर्गफलमेव जातके306 नास्य किं परिणयेऽपि मुख्यता। सत्यमुद्वहनजन्मशास्त्रयोरन्यथा मुनिभिरेव संस्मृतम् ॥ १ ॥ क्रूरमष्टममनिष्टमिष्टदं सप्तमं शुभमुशन्ति जन्मनि। नेयमुद्वहनरीतिरित्यसावत्र गोचरपथो रथोद्धतः ॥ २ ॥

अथ प्रलयप्रश्नोत्तरम्।

सिद्धान्तशिरोमणौ– वृद्धिर्विधेरहि भुवः समन्तात्स्याद्योजनं भूभवभूतिपूर्वैः।

ब्राह्मे लयेयोजनमात्रवृद्धेर्नाशेभुवःप्राकृतिकेऽखिलायाः ॥ १ ॥ दिने दिने यन्म्रियते हि भूतैर्दैर्नदिनं तत्प्रलयं वदन्ति। ब्राह्मं लयं ब्रह्मदिनान्तकाले भूतानि यद्ब्रह्मतनुं ब्रजन्ति ॥ २ ॥ ब्रह्मात्यये यत्प्रकृतिं प्रयान्ति सर्वाण्यतः प्राकृतिकं कृतीन्द्राः। लीनान्यतः कर्मपुटान्तरत्वात्पृथक्क्रियन्ते प्रकृतेर्विकारैः ॥ ३॥ज्ञानाग्निदग्धाखिलपुण्यपापा मनः समाधाय हरौ परेशे। सद्यो-गिनो यान्त्यनिवृत्तिमस्मदात्यन्तिके चेति लयश्चतुर्धा॥ ४ ॥

अथ दासीजातकफलप्रश्नोत्तरम्।

शुभलक्षणसंयुक्ता दास्यो दासाश्च कुञ्जराः। तिष्ठन्ति सदने येषां तेषां श्रीर्वर्धतेऽन्वहम्307 ॥ १ ॥ जातकोत्तमे—दासीदासोद्भवः कश्चिद्राजलक्षणलक्षितः। जायते राजयोगेन भर्तुस्तत्फलमादिशेत् ॥ २ ॥ चरादिस्थितलग्नेन्दू जन्मनि ग्रहजं फलम्। प्रसादोत्थं च कुर्यातां स्वामिनोऽन्यस्य भाववत् ॥ ३ ॥ यस्या308 दा(स्माद्दा)स्याश्चपादौ द्वौभूम्यां वैसुप्रतिष्ठितौ ॥ ४ ॥

अथ स्वप्नप्रश्नोत्तरम्।

निद्रादुष्टमनोजन्यं स्वप्नमाहू रतान्वितम्। तत्फलं सदसत्केन हेतुना कीर्तितंबुधैः ॥ १ ॥ निद्रायां निश्चलीभूते चित्तेऽभीष्टं प्रविश्य तत्। भाव्यं सूचयति स्वप्नःसद्यः प्रत्यक्षतो यतः ॥ २ ॥ निवृत्तानि यदाऽक्षाणि विषयेभ्यो मनः पुनः। न निवर्तेत वीक्ष्यन्ते तदा स्वप्नाःशरीरिभिः ॥ ३ ॥

अथाऽऽक्षेपपरिहाराः।

अथोच्यन्ते विदांप्रीत्यैकियन्तः परिहारकाः। आक्षेषाणांसमालोक्य नानाशास्त्राणि यत्नतः ॥ १ ॥ तत्र प्रथम सज्जनदुर्जनयोर्दृष्टान्तः— अतिजातस्य या मूर्तिः शशिनः सज्जनस्य हि। क्व सा वै रात्रिजातस्य तमसो दुर्जनस्य च ॥ २ ॥ जानन्ति हि गुणान्वक्तुं तद्विधा ये च तादृशम्। वेत्ति विश्वंभरा भारं गिरीणां गरिमाश्रयम् ॥ ३ ॥309

अथ प्रसङ्गेन कवेः प्रशंसा।

प्रसन्नाः कान्तिहारिण्यो नानाश्लेषविचक्षणाः। भवन्ति कस्यचित्पुण्यैर्मुखे वाचो गृहे स्त्रियः ॥ १ ॥ किं कवेस्तेन काव्येन किं काण्डेन धनुष्मतः। परस्य

हृदये लग्नं न घूर्णयति यच्छिरः ॥ २ ॥ रोहणं सूक्तिरत्नानांवृन्दे वृन्दे विषश्चिताम्। यन्मध्ये पतितो नीचः काचोऽप्युच्चैर्मणीयते ॥ ३ ॥ अप्रगल्भाः पदन्यासे जननीरागहेतवः। सन्त्येके बहुलालापाः कवयो वालका इव ॥ ४ ॥ वाचः काठिन्यमायान्ति भङ्गश्लेषविशेषतः। नोद्वेगस्तत्र कर्तव्यो यस्मान्नैको रसः कवेः ॥ ५ ॥ काव्यस्याऽऽम्रफलस्यापि कोमलस्येतरस्य च। वन्वच्छायाविशेषेण रसोऽप्यन्यादृशो भवेत् ॥ ६ ॥ ग्रन्थे मदीये लिखितानि यानि मुदेगुरूणां सफलानि तानि। लोकप्रसिद्धं जगतीतलेऽस्मिन्पिण्डस्य मातुः स्खलितं सुखाय ॥ ७ ॥ ग्रहचन्द्रिकायाम्— अहो पूर्वमुत्प्रेक्ष्य कंचिद्विशेषं स्वमत्या स्वकाव्ये तु ये नो वदन्ति। ग्रहज्ञानगर्वान्वितास्तत्र कस्माद्वृथानूतनं शास्त्रमुत्पादयन्ति ॥ ८ ॥ अथान्यः—स्वर्णे यदि सुगन्धित्वंचन्द्रश्चन्दनकोटरे। द्राक्षाफलानि चेदिक्षौराज्ञि वस्तुविवेकिता ॥ ९ ॥ प्रियायां धर्मतात्पर्यंप्रभुत्वेच कृपालुता। विद्वत्सु च सदाचारो निस्पृहत्वं तपस्विनि ॥ १० ॥ संपत्तौयदि दातृत्वं विद्यायां चेन्निगर्वता। आक्षेपपरिहारौचेच्छास्त्रेकिं स्यादतः परम् ॥ ११ ॥ आक्षेपो द्विविधः प्रोक्तो निर्मूलश्चसमूलकः। बालाद्यैःप्रथमो ज्ञेयः कार्यकारणतः परः ॥ १२ ॥ स्वपुष्पं कच्छपीदुग्धं शशशृङ्गादिकारणम्। य पृच्छति पिशाचोऽसौ वक्तावानितरां ततः ॥ १३ ॥

अथ कर्माभावे सृष्ट्युत्पत्तिविषयक आक्षेपः।

कल्पादौ कर्मशेषाणां सर्जनं चेत्करोति कः। तर्हि कि प्रथमे कल्पे कर्माभावे कथं सृजिः ॥ १ ॥

अथास्य परिहारः।

कर्माभावेऽपि सृष्ट्यर्थमुत्तमाधममध्यमाः। जीवाः स्वावयवेभ्यस्तु तद्विधेभ्यो विनिर्मिताः ॥ १ ॥ यतो व्यवहृतिर्लोके वर्णैः संकरजातिभिः। पशुभिः पक्षिभिः सम्यक् भवत्येभिर्विना न तु ॥ २ ॥ पद्मपुराणे— त्वमेको जगतां कर्ता गोप्ता हर्ता स्वयं प्रभुः। नान्यः कर्तुमकर्तुंवाऽन्यथाकर्तुं स्वयं प्रभुः ॥ ३ ॥ सहस्रशीर्षापुरुषः सदस्राक्षः सहस्रपात्। जगद्योनिस्त्वमेकोऽसि स्वेच्छया कर्तुमर्हसि ॥ ४ ॥ विश्वभरशास्त्रे— निर्मिता मानसाः पुत्राः सनकाद्यामहर्षयः। तथैव प्रथमे कल्पे जीवाः सर्वे स्वयंभुवा ॥ ५ ॥ अन्यथा मन्दवुद्धीनां प्रतिभाति दुरात्मता। कुतर्कज्ञानमुष्टानां तन्मतं नोपपत्तिमत् ॥ ६ ॥

सुरेश्वरवार्तिके— अनादिभावरूपं यदिज्ञानेन विलीयते। तद्ज्ञानमिति प्राज्ञालक्षणं संप्रचक्षते ॥ ७ ॥ अथाऽऽह वाजसनीये— ब्राह्मणोऽस्य मुखमासीद्वाहू राजन्यः कृतः। ऊरू तदस्ययद्वैश्यः पद्भ्यांशूद्रो अजायत ॥ ८ ॥ विश्वभरशास्त्रे— अनन्यपूर्वके कल्पे स्वयंभूश्चतुराननः। स्रष्टा प्रजापतिः पूर्वं देवान्दैत्यांश्च राक्षसान् ॥ ९ ॥ स्वमुखाद्ब्राह्मणाञ्जज्ञे क्षत्रियान्बाहुतस्तथा। ऊरुद्वयात्ततो जज्ञेवैश्याञ्छूद्रांश्चपादतः ॥ १० ॥ ब्रह्मपुराणे— चातुर्वर्ण्यसमुद्भूताः प्रतिलोमानुलोमजाः। तेभ्यश्चये सुता जाता ये चान्ये तत्समुद्भवाः ॥ ११ ॥ वर्णान्यवर्णप्रभवा ज्ञेयास्ते वर्णसंकराः। जाता ये व्रात्यवर्गेभ्यो मिश्रवर्णाः प्रकीर्तिताः ॥ १२ ॥

इति कर्माभावे सृष्ट्युत्पत्तिविषयकाक्षेपपरिहारः।

अथैकस्मिन्काले बहुसंहारे किं कारणमित्याक्षेपः।

एकस्मिन्दिवसे क्षेत्रे बहूनां युगपत्कुतः। संहारो जायते तन्मे कारणं ब्रूहि शास्त्रतः ॥ १ ॥

अथास्योत्तरम्।

जयार्णवे—केचित्कूर्मादिवेधेन योगिनीचक्रतः परे। स्वामिदोष्ट्यवशादन्ये310 प्राहुरेके स्वकर्मणा ॥ १ ॥ एकयोदक्यया नार्या यथा प्लवनसंस्थिताः। निमज्जन्ति जले तद्वद्राज्ञो दौस्थ्येन विग्रहः ॥ २ ॥ उत्कृष्टपापभारेण खिन्ना भूर्योगिनीगणम्। क्रोधेन प्ररयत्युग्रं जनध्वंसस्तदा भवेत् ॥ ३ ॥ शुष्ककाष्ठाश्रयादार्द्रंदावाग्नौयात्यभावताम्। तथा पापाश्रयात्क्वापि पुण्यवानपि नश्यनि ॥ ४ ॥ पुनराक्षेपः— क्षेत्रेशादिवशेन स्याद्यदि चेन्मरणं नृणाम्। तर्हि तत्रापि तन्मध्ये जीवन्ति कतिचित्कथम् ॥ ५ ॥ अस्योत्तरं पुराणसारे— उत्कृष्टपापिनःसत्यभयेऽपिविलयं ययुः। महाविघ्नाम्बुधौ मग्नाःपुण्यभाजस्तरन्ति वै ॥ ६ ॥

अथ यमलग्नोः को ज्येष्ठ इत्याक्षेपस्तस्योत्तरं च।

ज्योतिर्विवरणे— पूर्वशास्त्रानुसारेण भ्रात्रोर्यमलजातयोः। ज्येष्टत्वं च लघुत्वं च वच्मि संसारहेतवे॥ १ ॥ एकं तु जन्मसमयात्मवदन्त्याधानतस्त्वपरे। ज्येष्ठत्वं च लघुत्वं च केचित्साम्यं तयोरुभयोः ॥ २ ॥ बीजप्रक्षेपतो भाति कनीयान्पूर्वसंभवः। पश्चाज्जातस्तथा ज्यायान्मानपात्रस्थधान्यवत् ॥ ३ ॥

वयोन्मानं यतः कालात्तस्माद्यस्य जनिः पुरा। स ज्येष्ठोऽन्यो लघुर्युग्मेनाऽऽधानस्य प्रमाणतः ॥ ४ ॥ इत्यादिवचनैरत्र निश्चयो नैवजायते। महाभागवते प्रोक्तो मया तस्मात्प्रकाश्यते ॥ ५ ॥ तृतीयस्कन्धे— प्रजापतिर्नामतयोरकार्षीद्यः प्राक्स्वदेहाद्यमयोरजायत। तं वै हिरण्यकशिपुं विदुः प्रजा यं तं हिरण्याक्षमसूते साऽग्रतः ॥ ६ ॥ अस्य स्पष्टता सप्तमस्कन्धे— यज्ञान्ते तौदितेः पुत्रौ दैत्यदानववन्दितौ। हिरण्यकशिपुर्जेष्ठो हिरण्याक्षोऽनुजस्ततः ॥ ७ ॥

अथ जीवात्मनोः को भेद इत्याक्षेपपरिहारः।

चैतन्यांशोऽज्ञता माया जीव इत्यभिधीयते। यथाऽग्न्यंशो ज्वलत्काष्ठमङ्गार इति भण्यते ॥ १ ॥ अग्निरङ्गरतां हित्वायथा काष्ठत्वमाव्रजेत्। तथा जीवत्वसंत्यागाच्चैतन्यं ब्रह्म केवलम् ॥ २ ॥ चैतन्यं मायया युक्तं जीव इत्यभिवीयते। उपाधिरहितं तच्च ब्रह्मेति प्रोच्यते बुधैः ॥ ३ ॥ मायाशबलितं चैतन्यं जीवः। निरुपाधिकं चैतन्यं ब्रह्म।

अथ रोगस्नानाक्षेपः।

स्नानं रोगविमुक्तस्य कल्याणाभ्युदयं विदुः। तत्कथं दोषदुष्टेह्निकथितं पूर्वसूरिभिः ॥ १ ॥

अथास्योत्तरम्।

स्वकर्मणः शुभे काले गर्हिते गर्हितस्य च। सिद्धिः प्रत्यक्षतो नूनं दृश्यते हानिरन्यथा ॥ १ ॥ यस्मिन्काले तु यत्कर्म कीर्तितं तिथिभादितः। शुभं चैवाशुभं मिश्रं तत्तथैव फलायते ॥ २ ॥ ज्योतिःशास्त्रमिदं ब्राह्मं दिव्यं ज्ञानमतीन्द्रियम्। प्रत्यक्षफलदं सिद्धं त्रिकालज्ञानकारणम् ॥ ३ ॥ अस्याऽऽगमनप्रमाणस्य शास्त्रस्य फलगौरवम्। जानन्ति मुनयस्तस्मात्तैरुक्तं यत्तु तत्स्फुटम् ॥४॥ अत्र प्रधानं दोषस्य निवृत्तिस्त्वन्यदङ्गकम्। मुख्यं कृत्वोक्ततिथ्यादौ साहचर्यात्परं व्रजेत् ॥ ५ ॥ यथोत्सवविवाहादौ वस्त्रालंकारधारणम्। वपनं व्रतदीक्षादौ रुक्स्नाने शान्तिकं तथा ॥ ६ ॥

अथ रवीन्द्वोः स्थिरचरत्वविषयक आक्षेपस्तत्परिहारश्च।

रविःस्थिरः कथं त्यक्तोगृहीतोऽब्जश्चरः कथम्। गृहारम्भे प्रवेशे च हेतुं जानासि चेद्वद॥ १ ॥ स्थिरत्वं च चरत्वं चन स्तः स्वाभाविके तयोः। द्युभुक्तिवशतःप्रोक्ता संज्ञागोलार्थकोविदैः॥ २ ॥ बृहस्पतिसंहिताया— विशाखाकृ-

त्तिके तारे मृदुतीक्ष्णेमिश्रिते। पापवारयुते क्रूरे ते स्तः सौम्ये शुभेऽहनि ॥ ३ ॥ तथा लल्लोक्तितो भानुः सौम्यभागस्थितो वली। स्थिरे शस्तस्तथा ज्ञेयो यात्रापुष्ट्यादिकर्मसु ॥ ४ ॥

अथ फलपाकाक्षेपस्तत्परिहारश्च।

संहितास्वरशास्त्रादौ लग्नर्क्षग्रहभेदतः। प्रकारैर्वहुभिः प्रोक्तः कर्मकालः पुरात्तनैः ॥ १ ॥ तेष्वेकः कस्यचित्काल शुभोऽपि विफलो भवेत्। फलदः कस्यचित्सोऽपि स्फुटं तत्कारणं वद ॥ २ ॥ ज्योतिष्प्रकाशे— कार्यसिद्धयैमुहूर्ता ये प्रोक्तास्ते यस्य जन्मनि। सानुकूलाः सदा तस्य फलदाः स्युर्न चान्यथा ॥ ३ ॥ विनाऽऽदित्यं ग्रहाः सर्वे दिवसं कर्तुमक्षमाः। न फलन्ति मुहूर्तानि तथेशानुग्रहं विना ॥ ४ ॥

अथ योगाक्षेपस्तत्परिहारश्च।

मोघाः स्युः शिखिना दग्धवीजवद्योगाःकेऽपि शरीरधारिणः। दृढफलोदयाः परे पर्णाकीर्णहुताशराशिवत् ॥ १ ॥ यथा मृगजले बुद्धिर्जलमस्तीति वैपुनः। शुक्तौ रौप्यं तथा ज्ञानमिह ज्ञेयो नयो मुधा ॥ २ ॥

अथ भूमानाक्षेपस्तत्परिहारश्च।

पृथ्वीमानं पुराणेषु यत्प्रोक्तं तेन साम्यता। ज्योतिःशास्त्रे कथं नास्ति तन्मे निःसंशयं वद ॥ १ ॥ बह्वङ्कैःसाधनं कष्टं स्वल्पाङ्कैस्तुसुखावहम्। तेनापवर्तितं मानं घरित्र्याः केचिदूचिरे ॥ २ ॥ अन्ये वदन्ति कृतिनो धर्मादीनां युगे युगे। क्षीणत्वं स्यात्तथा भूमिः स्वतः संकोचतामधियात् ॥ ३ ॥ सैव पृथ्वीति वै सत्यं साधनार्थं दिवौकसाम। भूमानं कल्पितं प्राज्ञैः सूर्येन्द्वोर्विम्बवद्गृहे॥ ४ ॥

अथ भूमानम्।

पुराणेषु क्षितेर्मानं कोटिघ्नाङ्गेषु योजनम्। षट्कोट्यूनं च केऽप्याहुर्मानं कोटिमितं परे ॥ १ ॥

अथ ज्योतिःशाखोकं भूमानम्।

सिद्धान्तशिरोमणौ— प्रोक्तो योजनसंख्ययाकुपरिधिः सप्ताङ्गन्मन्दाब्धय ४९६७. स्तद्व्यासः कुभुजंगसायकभुवः १५८१ सिद्धांशके २४ नाधिकः। पृष्ठक्षेत्रफलं तथा युगगुणत्रिंशच्छराष्टाद्रयो ७८५३०३४ भूमेः कन्दुकजालवत्कुपरिधिर्व्यासाहतेः प्रस्फुटम् ॥ १ ॥ निरक्षदेशात्सिमिषोडशांशे भवेदवन्तीगणितेन

यस्मात्। तदन्तरं षोडशसंगुणं स्याद्भूमानमस्माद्बहु किं तदुक्तम् ॥ २ ॥ श्रृङ्गोन्नतिग्रहयुतिग्रहणोदयास्तच्छायादिकं परिधिना घटतेऽमुना हि। नान्येन तेन [च] गुरूक्तमहीप्रमाणप्रामाण्यमन्वययुजा व्यतिरेककेण ॥ ३ ॥ लङ्कावन्त्योरन्तरयोजनानि311 ३१०। २६। १५ एतत्षोडशगुणितं जातं भूमानं312 ४९६७ तत्क्षेत्रफलं लक्षाः ७८ सहस्राणि ५२ योजनानि २४ ॥

अथ प्रसङ्गेन ब्रह्माण्डमानम्।

सिद्धान्तशिरोमणौ— कोटिन्नैर्नखनन्दषट्कनखभूभूभूद्भजंगेन्दुभिर्ज्योतिःशास्त्रविदो वदन्ति नभसः कक्षामिमां योजनैः। तद्ब्रह्माण्डकटाहसंपुटतटे केनिज्जगुर्वेष्टनं केचित्प्रोचुरदृश्यदृश्यकगिरिं313 पौराणिकाः सूरयः ॥ १ ॥ अन्त्यं १८ शङ्कुः ७१ निखर्वः २० अब्जं ६९ कोटिः २० ॥

अथ314 वैधव्यादियोगे कथं विवाहसिद्धिरित्याक्षेपः।

वैधव्यादिषु योगेषु जन्मकाले मृगीदृशाम्। ब्रूहि वैवाहिकं कर्म कथं तासां विधीयते ॥ १ ॥

अथास्य परिहारः।

संहितासारे— अवैधव्यकरैर्योगविवाहषटलोहितैः। वरायाऽऽयुष्मते देया कन्या वैधव्ययोगजा ॥ १ ॥ प्रारब्धानाम- -नारब्धकर्मणां विरतिर्यथा। आत्मज्ञानात्तथा दोषा नन्दाद्यैर्विलयं ययुः ॥ २ ॥ व्रतखण्डे— सावित्र्यादि- -व्रतानीह भक्त्या कुर्वन्ति याः स्त्रियः। सौभाग्यं सुभगत्वं च भवेत्तासां सुसंततिः ॥ ३ ॥ पुराणान्तरे—बालवैधव्ययोगेऽपि कुम्भद्रुप्रतिमादिभिः। कृत्वा लग्नं रहः पश्चात्कन्योद्वाह्येति चापरेः ॥ ४ ॥ यथा गर्गः— स्वकन्याया वत्सरेण गान्धार्या मेषेणेत्याह। अस्मिन्युगे भास्करो लीलावल्या मणिकेन। अन्न दृष्टान्तः— यथेन्धनस्य- -संस्कारात्ताम्रंकाञ्चनतामियात्। तथा दुष्टफला कन्या विभला स्याद्विधानतः॥ ५ ॥

अथ मूकबधिरयोज्ज्यादिसंस्काराः।

मूकाद्या व्रतमोक्षान्तैः संस्कारैस्तु यथोचितैः। संस्कार्यास्तत्र मन्त्रोक्तिः कर्तव्या गुरुणा सकृत् ॥ १ ॥

इति ज्योतिर्निवन्धसारे सामान्यत आक्षेपपरिहाराः।

अथ तिथिनिर्णयः।

तत्र व्यास—द्विधा त्रिधा चतुर्धा वा पञ्चधा दिवसः स्मृतः। तत्र मायाहृतः पूर्वं पूर्वाह्णः परतः परः ॥ १ ॥ द्युमानस्य त्रिभागेण भास्करोयतः क्रमात्। पूर्वाह्नश्चैव मध्याह्नो ह्यपराह्नः स्मृतः वुधैः ॥ २ ॥ मनुस्मृतौ—पूर्वाह्नः प्रहरः सार्धो मध्याह्नःप्रहरस्तथा। आतृतीयोऽपराह्णः स्यात्सायाह्नश्च ततः परम् ॥ ३ ॥ मुहूर्तत्रितयं प्रातस्तावानेन तु संगवः। मध्याह्नस्त्रिमुहूर्तः स्यादपराह्णेऽपि तादृशः ॥ ४ ॥ सायाह्नस्त्रिमुहूर्तोऽथ क्षणोऽह्नः पञ्चभूलवः। आवर्तनोऽत्रमध्याह्नः पूर्वाह्नः संगवो मतः ॥ ५ ॥ स्कन्दपुराणे— उदयात्प्राक्तनी संध्या घटिकाद्वयमुच्यते। सायं संख्यात्रिघटिका अस्तादुपरि भानुतः ॥ ६ ॥ त्रिमुहूर्तःप्रदोषः स्याद्रावावस्तं गते ततः। महानिशा निशीथस्य मध्यस्थं घटिकाद्वयम् ॥ ७ ॥ आचारसारे— नाडिकाः षट् च पश्चाशत्यातस्त्वेकाधकोऽरणः। उपःकालोऽष्टपञ्चाशच्छेषःसूर्योदयः स्मृतः ॥ ८ ॥ निशीन्दूदयतो राका पूर्णिमाऽनुमतिर्दिवा। दृष्टचन्द्रा सिनीली त्वमा नष्टेन्दुकाकुहूः ॥ ९ ॥

अथ काललक्षणम्।

कर्मप्रदीपे— कर्मणो यस्य यः कालस्तत्कालव्यापिनी तिथिः। तथा कर्माणि कुर्वीत हासवृद्धी न कारणम् ॥ १ ॥ सूर्योदये— जन्मान्ताभ्यङ्गयानाब्धिस्नानदन्तमृजासु च। तिथिस्तात्कालिकी ज्ञेया पारणे लेखने तथा ॥ २ ॥ कालविवेक— माध्याह्नव्यापिनी या स्यादेकभक्ते सदा तिथिः। दिनार्धसमये यस्मादेकभक्तं बुधैः स्मृतम् ॥ ३ ॥ कालनिर्णये—खर्वो दर्वस्तथा हिंसा315 त्रिविधं तिथिलक्षणम्। खर्वोदर्पो परौ पूज्यौ हिंसा स्पात्पूर्वकालिकी ॥ ४ ॥ खर्वो नाम तिथेः साम्यं दर्पो वृद्धिः प्रकीर्तितः। क्षयो हिंसाऽथ तद्वेधे कार्य एव विनिर्णयः ॥ ५ ॥ ततोपवासनियमे घटिकका यदा भवेत्। सा तिथिःसकला ज्ञेया पित्रर्थे चाऽऽपराह्निकी ॥ ६ ॥ नागो द्वादशनाडीभिदिवपञ्चदशभिस्तथा। भूतोऽष्टादशनाधीडीभिर्दूषयत्युत्तरा तिथिम् ॥ ७ ॥ द्वादशनाडीभिः स्कन्दपषष्ठीनिधयम्। पञ्चदशभिनारायणनल्पादिविषयम्। अष्टादशभभिगिति दर्शश्राद्धविषयम्। तिथ्यादौ तु भवेवावद्घ्रासो वृद्धिः परेऽहनि। तावद्ग्राह्यः स पूर्वेगुरदृष्टोऽपि स्वकर्मणि ॥ ८ ॥

अथ साधारणतिथिनिर्णयः।

चि त मगौ - द्वितीया विमुर्द्धनि नवमी याममावतः। दशमी घटिकार्धेन

दूषयत्युत्तरां तिथिम् ॥ १ ॥ नागो द्वादशनाडीभिः सूर्यश्चैव तु सप्तभिः। कामोऽष्टादशनाडीभिर्दूषयत्युत्तरां तिथिम् ॥ २ ॥ स्कन्दपुराणे— प्रदोषव्यापिनी ग्राह्या तिथिर्नक्तव्रते सदा। एकादशीं विना सर्वाः शुक्ले कृष्णे समाः स्मृताः॥ ३ ॥ भविष्योत्तरपुराणे— मुहूर्तोनदिनं नक्तं प्रवदन्ति मनीषिणः। नक्षत्रदर्शनान्नक्तमहं मन्ये गणाधिप ॥ ४ ॥ प्रदोषव्यापिनी न स्याद्दिवा नक्तं विधीयते। तिथौ सास्तमये नक्तं सदैवार्कदिने दिवा ॥ ५ ॥ आत्मनो द्विगुणा छाया मन्दीभवति भास्करे। तन्नक्तं नक्तमित्याहुर्न नक्तं निशि भोजनम् ॥ ६ ॥ एवं ज्ञात्वा ततो विद्वान्सायाह्ने तु भुजिक्रियाम्। कुर्यान्नक्तव्रती नक्तं फलं भवति निश्चितम् ॥ ७ ॥ दीपिकायां— नक्षत्रदर्शनान्नक्तं गृहस्थस्य बुधैः स्मृतम्। यतेर्दिनाष्टमे भागे तस्य रात्रौ निषिध्यते ॥ ८ ॥ कलादर्शे— उदये सोपवासस्316य नक्तस्यास्तमये तिथिः। मध्याह्ने दृश्यते या तु सैकभक्ते त्वयाचिते ॥ ९ ॥ उपवासे तिथिस्त्याज्या सशल्या फलकाङ्क्षिभिः। तथा विहीनशल्याऽपि वृद्धिं याति यदग्रतः ॥ १० ॥

इति साधारणतिथिनिर्णयः।

अथ तिथिनियमनवाक्यानि।

युग्माग्नियुगभूतानां षण्मुन्योर्वसुरन्ध्रयोः। रुद्रेण द्वादशी युक्ता चतुर्दश्या च पूर्णिमा ॥ १ ॥ प्रतिपद्यष्यमावास्या तिथेर्युग्मं महाफलम्। एतद्व्यस्तं महादोषं हन्ति पुण्यं पुराकृतम् ॥ २ ॥ पक्षतिस्तिलकाशोककरवीरव्रते हिता। सद्वितीया तथा भ्रातृद्वितीया प्रतिपद्युता ॥ ३ ॥ ब्रह्मवैवर्ते— रम्भाख्यां वर्जयित्वा तु तृतीया द्विजसत्तम। अन्येषु सर्वकार्येषु गणयुक्ता प्रशस्यते ॥ ४ ॥ चतुर्थीसहिता या तु सा तृतीया फलप्रदा। अवैषव्यकर्म स्त्रीणां पुत्रपौत्रप्रदायिनी ॥ ५ ॥ गणनाथव्रते ग्राह्या तृतीयासहिता सद्य। चतुर्थी त्वन्यदेवस्य व्रते ग्राह्या परान्विता ॥ ६ ॥ षष्ठीयुक्ता सदा कार्या पञ्चमी नागपूजने। स्कन्दषष्ठीतु कर्तव्या पञ्चम्या सहिता बुधैः ॥ ७ ॥ भविष्यपुराणे— कृष्णाष्टमी स्कन्दषष्ठी शिवरात्रिचतुर्दशी। एताः पूर्वयुताः कार्यास्तिथ्यन्ते पारणं भवेत् ॥ ८॥ सप्तमी नाष्टमीयुक्ता न सप्तम्या युत्ताऽष्टमी। सर्वेषु व्रतकल्पेषु न दुर्गा दशमीयुता ॥ ९ ॥ शुक्लपक्षेऽष्टमी चैव शुक्लपक्षे चतुर्दशी। पूर्वविद्धा तु कर्तव्या कर्तव्या परसंयुता ॥ १० ॥ कृष्णपक्षेष्टमी चैव कृष्णपक्षे चतुर्दशी। पूर्वविद्धा तु कर्तव्या परविद्धा न कर्हिचित् ॥ ११ ॥ अष्टमी नवमीविद्धा नवम्या चाष्टमी तथा। अर्धनारीश्वरं प्राप्य उमामाहेश्वरी तिथिः ॥ १२ ॥

अथ जन्माष्टमीनिर्णयः।

सनत्कुमार उवाच— श्रावणस्य तु मासस्य कृष्णाष्टम्यां नराधिप। रोहिणी यदि लभ्येत जयन्ती नाम सा तिथिः ॥ १ ॥ व्यासः—अर्धरात्रे तु रोहिण्यां यदा कृष्णाष्टमी भवेत्। तस्यामभ्यर्चनं शौरेर्हन्ति पापं त्रिजन्मजम् ॥ २ ॥ विष्णुरहस्ये— प्राजापत्यर्क्षसंयुक्ता कृष्णा नभसि चाष्टमी। मुहूर्तमपि लभ्येत सैवोपोष्या महाफला ॥ ३ ॥ व्यासः— जन्माष्टमी रोहिणी च शिवरात्रिस्तथैव च। पूर्वविद्धैव कर्तव्या तिथिभान्ते च पारणम् ॥ ४ ॥ रोहिणीसहिता कार्या पूर्वा वा यदि वा परा। रोहिणीसहिता पूर्वा तदन्ते पारणं भवेत् ॥ ५ ॥ जयन्ती शिवरात्रिश्च कार्ये भाद्राजयान्विते। कृत्वोपवासं तिथ्यन्ते तदा कुर्यात्तु पारणम् ॥ ६ ॥ नारदः— कार्या विद्धाऽपि सप्तम्या रोहिणीसहिताऽष्टमी। तत्रोपवासं कुर्वीत तिथिमान्ते च पारणम् ॥ ७ ॥ व्यासः— तिथ्यृक्षयोर्यदा छेदो नक्षत्रान्तमथापि वा। अर्धरात्रेऽथवा कुर्यात्पारणं त्वपरेऽनि ॥ ८ ॥ पारणं तिथिभान्ते च कुर्यादकस्य वा क्षये। अतोऽन्यथा पारणायां व्रतभङ्गमवाप्नुयात् ॥ ९ ॥ याः काश्चित्तिथयः प्रोक्ताः पुण्या नक्षत्रयोगतः। ऋक्षान्ते पारणं कुर्यादिना श्रवणरोहिणी(ण्यौ) ॥ १० ॥ एतत्संभवाभिमायम्। विष्णुरहस्ये मुहूर्तेनापि संयुक्ता संपूर्णा साऽष्टमी भवेत्। किं पुनर्नवमीयुक्ता कुलकोट्याश्च मुक्तिदा ॥ ११ ॥ व्यासः— दिनद्वयेऽप्यर्धरात्रे योगस्तिथिभयोर्यदा। तदा परदिने कार्य जयन्तीव्रतमुत्तमम् ॥ १२ ॥ स्कन्दपुराणे— उदये चाष्टमी किंचिन्नवमी सकला यदि। लभ्यते बुध संयुक्ता प्राजापत्यसंयुता। अपि वर्षशतेनापि लभ्यते वा नवा विभो ॥ १३ ॥ पद्मपुराणे— प्रेतयोनिगणानां तु प्रेतत्वं नाशितं नरैः। यैः कृता श्रावणे मासि त्वष्टमी रोहिणीयुता ॥ १४ ॥ किं पुनर्बुधवारेण सोमेनापि विशेषतः। किं पुनर्नवमीयुक्ता कुलकोट्याश्च मुक्तिदा ॥ १५ ॥ सूर्योदये— सर्वथा सप्तमीयुक्ता संत्याज्या सर्वर्वैष्णवैः। उपोष्या नवमीयुक्ता तदुक्तं पुष्करे स्फुटम् ॥ १६ ॥ वर्जनीया प्रयत्नेन सप्तमीसंयुताऽष्टमी। सऋक्षाऽपि न कर्तव्या सशल्या सा प्रकीर्तिता ॥ १७ ॥ अत्र निर्णयः—अर्धरात्रे तु योगोऽयं रोहिण्या भवति क्वचित्। तामेवोपवसेन्नान्यामर्धरात्रोपयोगतः ॥ १८ ॥ अष्टम्यां रोहिणीयोगो मध्यरात्रे दिनद्वये। तदोत्तरैव कर्तव्या न पूर्वेत्येष निर्णयः ॥ १९ ॥ जयन्ती बुधवारेण सोमचारेण वा पुनः। लभ्यते दैवयोगेन तामुपोष्य महाफलम् ॥ २० ॥

अथ रामनवमी।

ब्रह्मवैवर्ते— नवमी चाष्टमीविद्वा त्याज्या रामपरायणैः। उपोपणं नवम्यां तु दशम्यामेव पारणम् ॥ १ ॥ श्रीरामजन्मनवमी संपूर्णफलदा सदा। खण्डा चेत्परविद्धैवादितियुक्ता विशेषतः ॥ २ ॥ अष्टम्या नवमी विद्धा कर्तव्या फलकाङ्क्षिभिः। सदुर्गा वा सनन्दा वा कर्तव्या दशमी सदा ॥ ३ ॥

अथैकादशीनिर्णयः।

तत्र नित्यैकादश्युपवासविषयाणि वचनानि।

ऋष्यशृङ्गः— एकादशी न लभ्येत सकला द्वादशी भवेत्। उपोष्या दशमीविद्धा ऋषिरुद्दालकोऽब्रवीत् ॥ १ ॥ भविष्यपुराणे— एकादशी दशायुक्ता परतोऽपि न वर्तते। यतिभिर्गृहिभिश्चैव सैवोपाष्या क्षये तिथिः ॥ २ ॥ ऋष्यशृङ्गः– पारणाहे न लभ्येत द्वादशी सकलाऽपि चेत। तदानीं दशमीविद्धामुपोष्यैकादशी तिथिम् ॥ ३ ॥ हारीतः— त्रयोदश्यां यदा न स्याद्द्वादशी घटिकाद्वयम्। दशम्येकादशीमिश्रा सैवोपोष्या सदा तिथिः ॥ ४ ॥ विष्णुरहस्ये— दशमीशेषसंयुक्ता उपोष्यैकादशी सदा। यदा स्यान्न त्रयोदश्यां मुहूत द्वादशी तिथिः ॥ ५ ॥ भविष्यपुराणे— विद्धाऽप्येकादशी ग्राह्या परतो द्वादशी न चेत्। द्वादश द्वादशीं हन्ति त्रयोदश्यां तु पारणम् ॥ ६ ॥ विद्धाऽप्यविद्धा विज्ञेया परतो द्वादशी न चेत्। अविद्धाऽपि तथा विद्धा परतो द्वादशी यदि ॥ ७ ॥ वराहपुराणे— संपूर्णैकादशी यत्र प्रभाते पुनरेव सा। सर्वैरेवोत्तरा कार्या परतो द्वादशी यदि ॥ ८ ॥ ब्रह्मवैवर्ते— द्वादश्यामुपवासस्तु द्वादश्यामेव पारणम्। वञ्जुली वैष्णवैः कार्या हत्यायुतविनाशनी ॥ ९ ॥

अथ काम्यैकादशीवचनानि।

कालनिर्णये— प्रातर्वेधः कृतयुगे त्रेतायामरुणोदये। द्वापरे तु उषःकाले कलौ सूर्योदये स्मृतः ॥ १ ॥ गरुडपुराणे— उदयात्प्राग्यदा विप्र मुहूर्तद्वयसंयुता। संपूर्णैकादशी नाम तत्रैवोपवसेद्गृही ॥ २ ॥ पुनः प्रभातसमये घटिकैका यदा भवेत्। तत्रोपवासो विहितश्चतुर्थाश्रमवासिनाम् ॥ ३ ॥ कूर्मपुराणे— संपूर्णैकादशी यत्र प्रभाते पुनरेव सा। उत्तरां तु यतिः कुर्यात्पूर्वामुपवसेद्गृही ॥ ४ ॥ विष्णुरहस्ये— दशमीशेषसंयुक्तामुपोष्यैकादशी किल। संवत्सस्कृतेनेह नरो धर्मेण मुच्यते ॥ ५ ॥ वराह यदि दैवात्तु संसिध्येदैकादश्यां तिथित्रयम्। तत्र

क्रततुशतं पुण्यं द्वादशीपारणं भवेत् ॥ ६ ॥ ब्रह्मवैवर्ते—दशमीशेषसंयुक्तां यः करोति स मूढधीः। एकादशीफलं तस्य न स्याद्द्वादशवार्षिकम् ॥ ७ ॥ पितामहः— एकादशी यदा वत्स दिनक्षयतिथिर्भवेत्। तत्रोपोष्या द्वादशी स्यात्त्रयोदश्यां तु पारणम् ॥ ८ ॥ एतत्पुत्रवद्ग्रहिविषयम्। एकादशीदिनक्षय उपवासं करोति यः तस्य पुण्यानि नश्यन्ति मघायां पिण्डदो यथा ॥ ९ ॥ मत्स्य दिनक्षयेऽर्कसंक्रान्तौ ग्रहणे चन्द्रसूर्ययोः। उपवासं न कुर्वीत पुत्रपौत्रसमन्वितः ॥ १० ॥ नारदः— रविवारेऽर्कसंक्रान्तावासितैकादशीदिने। दर्शे पाते कृते श्राद्धे पुत्री नोपवसेद्गृही ॥ ११ ॥ भारते—संकान्त्यामुपवासेन पारणेन युधिष्ठिर। एकादश्यां तु कृष्णायां ज्येष्ठपुत्रो विनश्यति ॥ १२ ॥ वायुपुराणे— उपवासनिषेधे तु भक्ष्यं किंचित्प्रकल्पयेत्। न दुष्यत्युपवासेन उपवासफलं लभेत् ॥ १३ ॥ उदयव्यापिनी ग्राह्या श्रवणद्वादशी बुधैः। शुक्ले पूर्वा परा कृष्णे व्रते ग्राह्या त्रयोदशी ॥ १४ ॥ आभाकापौ सितेपक्षे मैत्रश्रुत्यन्त्यरोहिणी। संयोगे नैव भोक्तव्यं द्वादशीर्हरेत्॥ १५ ॥ मैत्रर्क्ष च कृते त्याज्यं त्रेतायां रेवतीं त्यजेत्। द्वापारे रोहिणी त्याज्या कलौ च श्रवणं त्यजेत् ॥ १६ ॥

अथ शिवरात्रिनिर्णयः।

स्कन्दपुराणे— निशि भ्रमन्ति भूतानि शक्तयः शूलभूद्यतः। अतस्तस्यां चतुर्दश्यां सत्यां तत्पूजनं भवेत् ॥ १ ॥ प्रदोषव्यापिनी ग्राह्या शिवरात्रिः शिवप्रियैः। रात्रौ जागरणं यस्मात्तस्मात्तां समुपोषयेत् ॥२ कालनिर्णये— माघासिते भूतदिनं हि राजन्नुपैति योगं यदि पञ्चदश्या। जयाप्रयुक्तां न तु जातु कुर्याच्छिवस्यरात्रिं प्रियकृच्छिमस्य ॥ ३ ॥ स्मृतिसग्रहे— उपोष्यास्तिथयः सर्वाः सर्वत्र व्रतचारिभिः। तिथ्यन्ते पारणं कुर्याद्विना शिवचतुर्दशीम् ॥ ४ ॥ उपोषणं चतुर्दश्यां चतुदश्यां तु पारणम्। कृतैः सुकृतलक्षैश्च प्राप्यते वा न वा नरैः ॥ ५ ॥ त्रयोदशी दिनास्तान्ता प्रदोषे च चतुर्दशी। निवर्गप्राप्तये कार्या गृहस्थैः शिवतोषिणी ॥ ६ ॥ माघे चतुर्दशी कृष्णा या भवेद्रजनीमुखे। तद्दिने ह्युपवासः स्यात्तिथ्यन्ते पारणं भवेत् ॥ ७ ॥ त्रयोदश्यां युता कार्या शिवरात्रिचतुर्दशी। पारणाहे चतुर्दश्या यद्यस्तं याति नो रविः ॥ ८ ॥ व्यासः— त्रयोदशी यदा देवि दिनभुक्तिप्रमाणतः। जागरे शिवरात्रिःस्यानिशि पूर्णा चतुर्दशी ॥ ९ ॥ शिवरात्रिः पग कार्या यदि रात्रौ त्रयोदशी। अन्यथा तु भवेत्पूर्वा परमा चेद्भुजिक्षमा ॥ १० ॥ तिथ्यन्ते चैव भान्ने प पारणं यन चोदितम्। यामनयो र्वगामिन्यां प्रातरेव हि पारणम् ॥ ११ ॥

अथ पूर्णिमानिर्णयः।

भूतविद्धा न कर्तव्या पूर्णिमा च कदाचन। वर्जयित्वा मुनिश्रेष्ठाः साविनीव्रतमुत्तमम् ॥ १ ॥ रामकौतुके— पूर्वा दूर्वा शिवपुत्रा सावित्री श्रावणी वटः। रम्भा दुर्गा बृहज्जन्म रोहिण्यग्रवलिः स्मरः ॥ २ ॥ वृहदशून्यशयनी द्वितीया। श्रावणी षौर्णमासी च संगवस्पृग्यदा भवेत्। तदैवौदयिकी ग्राह्या नान्यदोदयगा क्वचित् ॥ ३ ॥ कारिकायाम्—उपाकर्मक्रियां कुर्यात्प्रातर्युक्ते तु कर्मणि। श्रुतिद्वययुता कार्या नोत्तराषाढसंयुता ॥ ४ ॥ पवित्रारोपणादौ तु पूर्वा पूर्णा प्रशस्यते। परोपाकर्मणि ग्राह्य ग्रहसंक्रान्तिवर्जिता ॥ ५ ॥ गर्गः— अर्धरात्रात्पुरस्ताच्चेत्संक्रान्तिग्रहणं भवेत्। उपाकर्मं न कर्तव्यं परतश्चेन्न दोषकृत् ॥ ६ ॥ वेदोपाकरणे प्राप्ते कुलीरे संस्थिते रवौ। गर्गः प्राह प्रकर्तव्यं कर्तव्यं सिंहसंस्थिते ॥ ७ ॥ उत्सर्गोपाकृतेर्यश्च प्रारम्भः प्रथमो बुधैः। न कर्तव्योऽस्तमे शुक्रे वाले वृद्धे तथा गुरौ ॥ ८ ॥ कात्यायनः—ग्रहसंक्रान्तिहिताः श्रुतिपर्वकराः क्रमात्। परविद्धा उपादेया ऋग्यजुःसामशाखिनाम् ॥ ९ ॥ विश्वरूपे— मध्याह्नव्यापिनी या च भाद्रे शुक्लचतुर्दशी। सैवानन्तव्रते ग्राह्या पूर्वायुक्ता विशेषतः ॥ १० ॥ चतुर्दव्युत्तरा शुक्ला पूर्वा कृष्णा चतुर्दशी। उदये द्विमुहूर्ताऽपि ग्राह्यानन्तव्रते तिथिः ॥ ११ ॥ स्कन्दपुराणे— जयायोगेन यः कुर्याद्रिक्तायां पूजनं हरेः। वर्षपूजाफलं तस्य वाष्कलेयाय गच्छति ॥ १२ ॥ अतो मुहूर्तमात्राऽपि पूर्णिमायां चतुर्दशी। तस्यामभ्यर्चनं कुर्यादनन्तस्य विशेषतः ॥ १३ ॥ कालादर्शे— प्रतिपद्यावत्सरादौ प्रतिपच्च वलेस्तथा। पूर्वविद्धा न कर्तव्या कर्तव्या परसंयुता ॥ १४ ॥ असिष्ठः— नन्दां संवत्सरादौ तु दर्शविद्धां न कारयेत्। बलेः प्रतिपदं चैव सर्वश्रेयोविनाशिनीम् ॥ १५ ॥ कालनिर्णये— द्वे शुक्ले द्वे च कृष्णे च युगादी कवयोः विदुः। शुक्ले पूर्वाह्णिके ग्राह्ये कृष्णे चैवाऽऽपराह्णके ॥ १६ ॥ ( हेमाद्रौ317 पितामहः— चैत्रे मासि जगद्ब्रह्मा समर्ज प्रथमेऽहनि। शुक्ले पक्षे समग्रं तु तदा सूर्योदये साति ॥ १७ ॥

अथाऽऽन्दोलननिर्णयः।

चैत्रशुक्लतृतीयायां गौरीमीश्वरसंयुताम्। मुहूर्तमात्रसत्त्वेऽपि दिने गौरीव्रतं परे ॥ १ ॥ मात्स्ये— वसन्तमासमासाद्य तृतीयायां जनप्रिये। सौभाग्याय सदा स्त्रीभिः कार्यं पुत्रसुखेप्सुभिः ॥ २ ॥ देवीपुराणे— तृतीयायां मधोः शुक्ले पूजयेद्देवि शंकरम्। कुङ्कुमागरुकर्पूरमणिवत्रसुगन्धकैः ॥ ३ ॥ स्रग्गन्धधूपदीषैश्च दमनेन विशेषतः। आन्दोलयेत्ततो वत्स शिवोमातुष्टये सदा ॥ ४ ॥

अथाक्षयतृतीयानिर्णयः।

प्रचेताः— तृतीयाऽहर्द्वये शुक्ला मध्याह्नं प्राप्य माधवे। प्रथमैव तदा कार्या निष्फला तु परा स्मृता ॥ १ ॥ रोहिणीवुधसंयुक्ता तृतीया माधवे यदि। विशेषफलदा सा तु स्नानदानजपादिषु ॥ २ ॥ नारदीये— गौरी विनायकोपेता जायते यदि भूपते। विनाऽपि रोहिणीयोगात्पुण्यं कोटिगुणं भवेत् ॥ ३ ॥ गरुडपुराणे प्रेतरूपाः पितरश्चण्डशर्माणं मस्यूचुः— वैशाखस्य तृतीयां यः पूर्वविद्धां करोति वै। हव्यं देवा न गृह्णन्ति कथ्यं च पितरस्तथा ॥ ४ ॥ नारदः—पूर्वविद्धादिने दत्तं पितॄणां नोपतिष्ठति। नैवं गृह्णाति वैकुण्ठः पूजां तद्दिनसंभवाम् ॥ ५ ॥ देवीपुराणे—भद्राग्निऋक्षसंयुक्तं यदि कुर्याद्युगादिकम्। रुदन्ति पितरस्तस्य निराशाः पितरो गताः ॥ ६ ॥ भद्रायाः फलमेकं तु तृतीया सकला भवेत्। द्वितीयासहिता कार्या रविपर्वसमं फलम् ॥ ७ ॥ भद्रातिथौ न कर्तव्या यागाश्चैव युगादिषु। चतुर्थीसहिता युक्ता रोहिण्या मनुरघ्रवीत् ॥ ८ ॥ तृतीयायां तु वैशाखे रोहिण्यृक्षं प्रपूजयेत्। उदकुम्भप्रदानेन ब्रह्मलोके महीयते ॥ ९ ॥ जया भद्रातिथिर्मिश्रा प्राजापत्यर्क्षसंयुता। उदकान्नं च मे दत्तं यज्ञकोटिफलं लभेत् ॥१०॥ देवीपुराणे—सिंहस्थे चोत्तमा सूर्ये युदिते कलशोद्भवे। मुहूर्ते रोहिणी पूर्वा पूज्या सुखसुताप्तये ॥ ११ ॥ कन्यागते तु या सूर्ये पूजयेदमृतोद्भवम्। विषकन्या भवेत्सा तु तथैव घटजोदये ॥१२॥ श्रावणे चैव भाद्रेऽपि घटजो नोदयेद्यदि। शुक्ले वा कृष्णपक्षे वा पूजयेदमृतोद्भवम् ॥ १३ ॥ ब्रह्माण्डपुराणे—दूर्वाष्टमी मेघपूजा पवित्रारोपणे हरेः। अगस्तेरुदयादूर्ध्वं निष्फलं जायते ध्रुवम् ॥ १४ ॥ दूर्वा चेद्रोहिणीयुक्ता सैव जन्माष्टमी भवेत्। विरूढात्प्राशनात्स्त्रीणां नोपवासस्तु लुप्यते ॥ १५ ॥ चिन्तामणौमैत्रविद्धा सदा कार्या ज्येष्ठा कामप्रदायिनी। मूलविद्धा न कर्तव्या ज्येष्ठा कामविनाशिनी ॥ १६ ॥ मूलविद्धा कृता ज्येष्ठा पुरा दुर्योधनेन हि। आयुःक्षयं गताः सर्वे तस्मात्तां परिवर्जयेत् ॥ १७ ॥ व्यास मधोः श्रावणमासस्य या शुक्ला च चतुर्दशी। सावित्रीव्यापिनी ग्राह्या नान्या शुक्ला कदाचन ॥ १८॥ पवित्रारोपणं विघ्नाच्छ्रावणे न भवैद्यदि। कार्तिक्यवाधि शुक्लार्के कर्तव्यमिति नारदः ॥ १९ ॥ वैशाखे दमनारोपः स्यान्मधौ विघ्नतो यदि। पवित्रदमनारोपे पूर्वोक्तास्तिथिदेवताः ॥ २० ॥

अथ पर्वनिर्णयः।

तत्राह्नौ द्विधा विभागो ग्राह्यः। कात्यायनः— तिथेः परस्था घटिकास्तु याः

स्युर्न्यनास्तथैत्राभ्याधिकास्तु तासाम्। अर्धं वियोज्यं च तथा प्रयोज्यं हासे च वृद्धौ प्रथमे दिने तत् ॥ १ ॥ पर्वणो यश्चतुर्थांश आद्याः प्रतिपदस्त्रयः। यागकालः स विज्ञेयः प्रातरुक्तो मनीषिभिः ॥ २ ॥ अपराह्नेऽथवा रात्रौयदि पर्वं समाप्यते। उपोष्येतस्मिन्नहनि श्वोभूते याग इष्यते ॥ ३ ॥ उपोप्येत्यन्वाधानादिकर्मम्। त्रिमुहूर्ता द्वितीया चेत्प्रतिपद्यापराह्णिकी। अन्वाधानं चतुर्दश्यां परतः सोमदर्शनात् ॥ ४ ॥ पूर्वाह्णेवाऽथमध्याह्नेयदि पर्व समाप्यते। उपोष्येतत्र पूर्वेद्युस्तदहर्याग इष्यते ॥ ५ ॥ पञ्चमी यत्र संपूर्णा द्वितीया क्षयगामिनी। चरुरिष्टिरमावास्या भूतेकव्यादिकी क्रिया ॥ ६ ॥ यागकालात्तिथिर्द्वैधषट्कला318 यदि दृश्यते। पर्वं तत्रोत्तरं ग्राह्यं हीने पूर्वं प्रकल्पयेत् ॥ ७ ॥ शातातपः— यस्मादह्नस्तृतीयेऽह्नि परे चन्द्रोदयो भवेत्। चन्द्रक्षयः स विज्ञेयः श्रौते च श्राद्धकर्मणि ॥ ८ ॥ संधिश्चेत्संगवादूर्ध्वंप्राक्चैवाऽऽवर्तनाद्रवेः। षौर्णमासीति विज्ञेया सद्यःकालविधौ तिथिः ॥ ९ ॥

अथ श्राद्धतिथिनिर्णयः।

( भृगुः319— मलमासमृतानां तु यच्छ्राद्धं प्रतिवत्सरम्। मलमासे तु तत्कार्यं नान्येषां तु कदाचन ॥ १ ॥ अतो मलमासमृतानां कादाचित्कं प्रत्याब्दिकं मलमासेऽपि (एव) कार्यं श्रा(श)द्धमासमृतानां च प्रथमाब्दिकं तत्र कार्यं द्वितीयाब्दादिकं तु शुद्धमास इति। ) मत्स्यपुराणे— पितृभ्यश्च तिथेर्मूलं सुरेभ्यः प्रातरेव च। प्रदत्तो(त्तं) ब्रह्मणां पूर्वं विधिमेनं न लङ्घयेत् ॥२ ॥ याज्ञवल्क्यः— पूर्वाह्णेदैविकं श्राद्धमपराह्णे तु पार्वणम्। एकोद्दिष्टं तु मध्याह्ने प्रातर्वृद्धिनिमित्तकम् ॥ ३ ॥ गर्गः— अह्नः पञ्चदशो भागो मुहूर्त इति कथ्यते। अष्टमः कुतुपस्तत्र श्राद्धारम्भः प्रशस्यते ॥ ४ ॥ श्राद्धकल्पे— श्राद्धकालस्तु सर्वेषां कुतुपात्क्षणपञ्चकम्। दर्शश्राद्धे तु साग्नीनां सायाह्नोवाऽप्यसंभवे ॥ ५ ॥ पितामहः— सिनीवाली द्विजैः कार्या साग्निकैःपितृकर्मणि। द्विजैरनग्निकैः शूद्रैः स्त्रीभिः कार्या कुहूः सदा ॥ ६ ॥ चन्द्रिकायां— तिथिक्षये सिनीवाली तिथिवृद्धौ कुहूः स्मृता। साम्येऽपि च कुहूर्ज्ञेया दर्शश्राद्धादिकर्मसु ॥ ७ ॥ दक्षः—अपराह्णेत्वमा ग्राह्या श्राद्धकर्मणि सर्वदा। तस्मिन्नमा यदा न स्यात्तदा मध्यंदिने मता ॥ ८ ॥ यो यस्य विहितः कालःश्राद्धस्यात्र स्वयंभुवा। तत्कालव्यापिनी या स्यात्सैव ग्राह्या तिथिर्वुधैः ॥ ९ ॥ दिनद्वयेऽपि संपूर्णा स्वकालव्यापिनी भवेत्। तदा पूर्वा पितृश्राद्धे

मातृश्राद्धे परा स्मृता ॥ १० ॥ असंपूर्णापराह्णातु यायिनी चेद्दिनद्वये। तदा संपूर्णकुतुपव्यापिनी गृह्यते तिथिः ॥ ११ ॥ हारीतः— अपराह्नद्वये चामा यदि स्यात्तत्र याऽधिका। सा ग्राह्या यदि तुल्या स्यादग्रे वृद्धौ परा स्मृता ॥ १२ ॥ निर्णयवचनं— श्राद्धे पराह्णगा ग्राह्मा नचेत्सायाह्नगा तिथिः। द्व्यपराह्णस्पृगाद्या तु पैतृके मातृके परा ॥ १३ ॥ अनल्पकालवर्तिन्यांतिथौ कर्म विधीयते। साम्ये पूर्वा परा वाऽपि क्षये पूर्वा च या परा ॥ १४ ॥ पितामहः— दर्शे च षौर्णमासं च पित्रोः सांवत्सरं दिनम्। पूर्वविद्धमकुर्वाणो नरकं प्रतिपद्यते ॥ १५ ॥ स्वकर्मकालपर्याप्ता तिथिर्न स्याद्यदा तदा। तिथौ सत्यां प्रकुर्वीत प्रारम्भं वा समापनम् ॥ १६ ॥

इति श्राद्धतिथिनिर्णयः।

( अथ320 नवरात्रप्रतिपन्निर्णयः।

ततो नीराजनं कार्यंप्रतिपद्याश्विने सिते। प्रारम्भो नवरात्रस्य हित्वा चित्रां च वैधृतिम् ॥ १ ॥ वैधृतिस्तु तथा चित्रा समग्रा प्रतिपद्दिने। प्रभाते प्रतिपन्नास्ति यदा कुर्यात्तदैव हि ॥ २ ॥ चित्रावैधृतियोगस्तु भवेद्यामत्रयं यदि मातरेव तदा कार्यं नवरात्रं सदा बुधैः ॥ ३ ॥ आद्यास्तु नाडिकास्त्याज्याः षोडश द्वादशाथवा। देवीपूजा प्रकर्तव्या शुद्धसंततिकाङ्क्षिभिः ॥ ४ ॥ वृद्धौ समाप्तिरष्टम्यां क्षयेऽमाप्रतिपन्निशि। प्रारम्भो नवरात्रस्य नवरात्रमथार्थवत् ॥ ५ ॥ )

अथ महानवमीनिर्णयः।

मदनपारिजाते—सप्तमी स्वल्पसंयुक्ता त्याज्येपस्य सिताष्टमी। स्तोकाऽपि सा तिथिः पुण्या यस्यां सूर्योदयो भवेत् ॥ १ ॥ यदा सूर्योदये न स्यान्नवमी वा परेऽहनि। तदाऽष्टमीं प्रकुर्वीत सप्तम्या साहितां नृप ॥ २ ॥ बलिदाने कृतेऽष्टम्यां पुत्रभङ्गो भवेद्ध्रुवम्। नवम्यां तु कृतं राज्ञा देशे राष्टे सुखावहम् ॥ ३ ॥ कालनिर्णये— नन्दायां ज्वालितो बह्निःपूर्णायां पशुपातनम्। भद्रायां गोधनक्रीडा तत्र राज्यं विनश्यति ॥ ४ ॥ सूर्योदये— अश्वयुक्शुक्लनवमी ह्यष्टमी मूलसंयुता। सा महानवमी तस्यां जगन्मातरमर्चयेत् ॥ ५ ॥

इति महानवमीनिर्णयः।

अथ विजयादशमीनिर्णयः।

विश्वरूपनिर्णये— आश्विनस्य सिते पक्षे सीमातिक्रमणोत्सवः। विजयाय मुहूर्तोऽयं कर्तव्यो बिजये क्षणे ॥१॥ नवम्या सहिता कार्या दशम्याश्वयुजः सिता। एकादश्या युता जातु न कार्या जयकाङ्क्षिभिः ॥ २ ॥ पुराणे—नवमीशेषयुक्तायांदशम्यां विजयोत्सवम्। कुरु राम त्वमित्युक्तं वसिष्टेन महात्मना ॥ ३ ॥ कालोत्तरे— या पूर्णा नवमीयुक्ता तस्यां पूज्याऽपराजिता। ददाति विजयं सौख्यं यात्रायां सर्वदिक्षु च ॥ ४ ॥ आश्विनस्य सिते पक्षे दशम्यां सर्वराशिषु। सायंकाले शुभा यात्रा दिवा वा विजयक्षणे ॥ ५ ॥ एकादशो मुहूर्तो विजयः। चिन्तामणौ— आश्विनस्य सिते पक्षे दशम्यां तारफोदये। स कालो विजयो ज्ञेयः सर्वकार्यार्थसिद्धये ॥ ६ ॥ रत्नकोशे— ईषत्संध्यामतिक्रान्तः किंचिदुद्भिन्नतारकः। विजयो नाम कालोऽयं सर्वकार्यार्थसिद्धये ॥ ७ ॥ ईषस्य दशमीं शुक्लां पूर्वविद्धां न कारयेत्। श्रवणेनापि संयुक्तां राज्ञां पट्टाभिषेचने ॥ ८ ॥ सूर्योदये यदा राजन्दृश्यते दशमी तिथिः। आश्विने मासि शुक्लेतु विजयां तां विदुर्बुधाः ॥ ९ ॥ तथा च स्कन्दपुराणे— मार्तण्डस्योदये पुण्या वर्तते दशमी तिथिः। आश्विने शुक्लपक्षे तु सा भवेज्जयदा नृणाम् ॥ १० ॥ निषिद्धमपि कर्तव्यं तैलाभ्यञ्जनमादरात्। अश्वानामपि कर्तव्यं तैलस्नानं नदीजले ॥ ११ ॥ तूर्यघोषसमायुक्तान्पुरं प्रावेशयेद्धयान्। पुष्पमालापरीतांस्तान्हयांश्चन्दनभूषितान् ॥ १२ ॥ चामरैर्वीज्यमानांश्च साधुशब्दैश्च लालितान्। राजद्वारि समाविष्टान्स्त्रीभिर्नीराजितान्हयान् ॥ १३ ॥ सपूज्य विधिवद्राजा नमस्कुर्यात्प्रयत्नतः। भक्ष्यं भोज्यं स्वहस्तेन भोजयेत्तुरगान्नृपः ॥ १४ ॥ वाहाधिकारिणः सर्वान्दानमानैस्तु तोषयेत्। तथैव वारणान्राजा पूजयेञ्चक्रमेलकान् ॥ १५ ॥ नाममन्त्रेण विधिवञ्चतुर्थ्यन्तेन मन्त्रचित्। कृताभ्यङ्गो महाघोषैस्तूर्याणां शुभलब्धये ॥ १६ ॥ ततश्चपूजयेद्देवान्गन्धपुष्पादिकैरलम्। आहूय ब्राह्मणान्सर्वान्वाचयेत्स्वस्ति मङ्गलम् ॥ १७ ॥ ततस्तुरगमारुह्यतूर्यघोषसमन्वितः। बन्दिभिः स्तूयमानस्तु समानशकुनैर्ब्रजेत् ॥ १८ ॥ ज्योतिःशास्त्रोदितां काष्ठां सुहृद्भिः परिवारितः। संप्राप्तस्तु शमीवृक्षमश्मन्तकमथापि वा ॥ १९ ॥ अवतीर्य नृपो वाहाद्वेगात्सह पुरोधसा। संनिपष्णःशमीमूलं विदध्यात्स्वस्तिवाचनम् ॥ २० ॥ कार्योद्देशाजनैः साकं प्रयोगं कुशलैर्वदन्। ततः प्रोक्ष्य शमीमूले भूमिं भूमिपतिर्ध्रुवम् ॥ २१ ॥ उत्कृत्य मृत्तिकां तत्र प्रक्षिपेत्तण्डुलाञ्छुभान्। सपूगं हेम शक्त्या तु ह्यभावे रौप्यमुत्तमम्। ततः प्रदक्षिणं कुर्यात्तस्य वृक्षस्य

भूपतिः ॥ २२ ॥ तत्र मन्त्रः— शमी शमयते पापं शमीशत्रुविनाशिनी। धरित्र्यर्जुनवाणानां रामस्य प्रियवादिनी ॥ २३ ॥ करिष्यमाणा या यात्रा यथाकालं सुखं मया। तत्र निर्विघ्नकर्त्री त्वं भव श्रीरामपूजिते ॥ २४ ॥ अश्मन्तक महावृक्षं महादोषनिवारण। इष्टानां दर्शनं देहि शत्रूणां च विनाशनम् ॥ २५ ॥ ततः शमीतरोर्वाऽस्मन्तकस्य वोभयोः पत्राणि गृहीत्वा तस्यां मृदि तण्डुलहेमानि प्रक्षिप्यगोलकं कृत्वा सर्वकार्यसिद्ध्यर्थं गृह्णाति। ततो वृक्षं नमस्कृत्यं दिग्लिङ्गैर्मन्त्रैः प्राचीपूर्व[क]दिग्जयं गृहीतखड्गः करोति। एवं त्रिचतुःपादकमेण तुलितासिर्दिग्विजयं कृत्वा शत्रवो जिता इति ब्रूयात्। इन्द्रादीन्देवान्विप्रांश्चनमस्कृत्य स्वपुरं प्रविशेत्। ततः सविप्रःस महाद्वारसमीपे पुण्यस्त्रीभिर्नीराजितोद्वारि न्यस्तेषु मञ्चकेषुतूलिकोपरि तण्डुलैःकृतमूर्तिषुशत्रुषु पादंकृत्वा लब्धविप्रानुज्ञो निषण्णो भूत्वा द्रव्यवस्त्रताम्बूलादि सर्वंदद्यात्। एवं कृत्वा विसर्ज्याऽऽशु सर्वान्पारान्निजालयान्। प्रतिवर्षंकृते चैवं सर्वकार्यपरोभवेत् ॥ २६ ॥ एवं सर्वेषु षौरेषु विधिरेषसनातनः। निष्पादितो यथाधर्मंविदधाति सुखं श्रियम् ॥ २७ ॥ एवं कृते विधाने च पुष्टिदे पुष्टिदे नृणाम्। सर्वपारजनः सार्थ विजयं माप्नुयान्नृपः ॥ २८ ॥

इति विजयादशमीनिर्णयः।

अथ दीपोत्सवनिर्णयः।

आश्विनस्यासिते पक्षे लक्ष्मीर्निद्रां विमुञ्चति। सा च दीपावली प्रोक्ता सर्वकल्याणरूपिणी ॥ १ ॥ ईषासितचतुर्दश्यामिन्दुक्षयतिथावपि। ऊर्जादाौस्वातिसंयुक्ते तदा दीपावली भवेत् ॥ २ ॥ तैले लक्ष्मीर्जले गङ्गादीपावालितिथौवसेत्। अलक्ष्मीपरिहारार्थे तैलाभ्यङ्गं तु कारयेत् ॥ ३ ॥ ( स्मृतिदर्पणे319— चतुर्दशी याऽऽश्वयुजस्य कृष्णा स्वात्यर्क्षयुक्ता च भवेत्प्रभाते। स्नानं समभ्यज्य नरैस्तु कार्ये सुगन्धितैलेन विभुतिकामः ॥ ४ ॥ ) भविष्योत्तरे—आश्विनस्यासिते पक्षे चतुर्दश्यां विधूदये। स्नातव्यं तिलतैलेन नरैर्नरकभीरुभिः ॥ ५ ॥ ( सर्वज्ञनारायणः319— तथा कृष्णचतुर्दश्यामाश्विनेऽर्कोदयात्पुरा। यामिन्यां पश्चिमे यामेतैलाभ्यङ्गो विशिष्यते ॥ ६ ॥ कालादर्शे— मृगाङ्कोदयवेलायां त्रयोदश्यां यदा भवेत्। दर्शे वा मङ्गलस्नानं दुःखशोकफलप्रदम् ॥ ७ ॥ हेमाद्रौ— त्रयोदशी यदा प्रातः क्षयं याति चतुर्दशी। रात्रिशेषे त्वमावास्या तदाऽभ्यङ्गेत्रयोदशी ॥ ८ ॥

अमावास्याचतुर्दश्योः प्रदोषे दीपदानतः। यममार्गान्धकारेभ्यो मुच्यते कार्तिके नरः ॥ ९ ॥ ज्योतिषे— तुलासंस्थे सहस्रांशो प्रदोषे भूतदर्शयोः। उल्काहस्ता नराः कुर्युः पितॄणां मार्गदर्शनम् ॥ १० ॥ ब्राह्मे— अपराह्नेप्रकर्तव्यं श्राद्धं पितृपरायणैः। प्रदोषसमये राजकर्तव्या दीपमालिका ॥ ११ ॥ ) अपामार्गं भ्रामयित्वा संकुर्याद्यमतर्पणम्। नरकाय प्रदातव्यो दीपः संपूज्य देवताः ॥ १२ ॥ अमायामाश्विने मासि पितृकर्मं विधाय च। दीपदानं ततः कुर्यात्प्रदोषेच तथोल्मुकम् ॥ १३ ॥ नीराजनं द्वितीयेऽह्निप्रातःकाले विधीयते। द्वितीयायां स्वसा भ्रातुर्विदध्यान्मङ्गलोत्सवम् ॥ १४ ॥ उपस्यभ्यञ्जनं दीपं स्नात्वा नीराजनं ततः। कुर्यात्संलग्नमेतञ्च दीपोत्सव दिनत्रयम् ॥ १५ ॥ आश्विने मासि भूतादितिथयः कीर्तितास्त्रयः दीपदानादिकृत्येषुग्राह्यामध्याह्नकालिकाः॥ १६ ॥ यदि स्युः संगवादर्वग्गाताश्च तिथयस्त्रयः। दीपदानादिकृत्येषु कर्तव्याः पर्वसंयुताः ॥ १७ ॥ कालनिर्णये— वत्सरादौ वसन्तादौ वलिराज्ये तथैव च। प्रतिपत्पूर्वविद्धा नो कर्तव्या तु कथंचन ॥ १८ ॥ वसिष्ठः— मुहूर्तंवर्तते दर्शो माङ्गल्यं तद्दिने भवेत्। वित्तापत्यकलत्रादि तत्सर्वं नश्यति ध्रुवम् ॥ १९ ॥ आश्विने मासि दर्शान्ते नारीनीराजनं यदि। नारीणां तत्र वैधव्यं प्रजानां मरणं तथा ॥ २० ॥ कार्तिके शुक्लपक्षादौ नारीनीराजनं भवेत्। प्रातर्नीराजनं कार्यं सायं मङ्गलमालिका ॥ २१ ॥ अथचेत्प्रतिपत्स्वल्पा द्वितीयायां यदा भवेत्। द्वितीयायां तदा कार्या सायं मङ्गलमालिका ॥ २२ ॥ नन्दायामुदयेऽभ्यङ्गं कृत्वा नीराजनं ततः। सुवेपः सत्कथागीतैर्दानैश्च दिवसं नयेत् ॥ २३ ॥ रत्नावल्या– कार्तिके शुक्लपक्षादौ विधानद्वितयं हितम्। नारीनीराजनं प्रातः सायं मङ्गलमालिका ॥ २४ ॥ दीपविधानम्— आश्विने कृष्णपक्षे तु द्वादशी मुख्यपञ्चसु। तिथिपूक्तः पूर्वरात्रे नृणां नीराजनाविधिः ॥ २५ ॥ कृताभ्यङ्गमहोत्साहाः कृतमाल्यानुलेपनाः। शुचिवस्त्राः शुभाचाराः करे गृहीतदीपिकाः ॥ २६ ॥ नीराजयेयुर्देवांस्तु विप्रान्गाश्चतुरङ्गमान्। ज्येष्ठाञ्छ्रेष्ठाञ्जघन्यांश्च मातृमुख्याश्च योषितः। राजानं सचिवं चापि राजपुत्रानपि ध्रुवम् ॥ २७॥ नीराजनमन्त्रःदापोत्सवे महापुण्ये बलिराज्यं प्रबर्तते। भूयाच्छुभकरं नृृणां कृतनीराजनान्मया ॥ २८ ॥ विरोचनसुतो धीमान्परमं देवकारणम्। बलिर्भूयात्सुखायात्र सर्वेषां प्राणिनामपि ॥ २९ ॥ सुभिक्षमायुरारोग्यं नित्योद्योगपरा जनाः। भवन्त्विह महोत्साहा रात्रौ नीराजनान्मया ॥ ३० ॥ एवं विधानं कर्तव्यं रात्रौ नीराजनात्मकम्। नित्याभ्यङ्गपरैः पुंभिर्हृष्ठैःपुष्टैर्महोत्सवैः ॥ ३१ ॥

श्रीभारते— यो याद्दशानुभावेन321 तिष्ठत्यस्यां युधिष्ठिर। हर्षदैन्यादिरूपेण तद्वद्वर्पं प्रयाति द्दि॥ ३२ ॥ कार्तिके शुक्लपक्षाद्येविधानद्वितयं तिथौ। नारीनीराजनं प्रातः सायं मङ्गलमालिका ॥ ३३ ॥ प्रातःसायाह्नयोः कार्यं सपताकं महार्चनम्। पुष्पाणां मकरं योषाः कुर्युश्चत्त्वरभूमिषु॥ ३४ ॥ दधिदूर्वाक्षतापुष्पप्रकरं चन्दनं तथा। प्रकीर्य सद्मनो द्वारे तोरणैश्च सुसंस्कृते ॥३५ ॥ उपचाराभाञ्छुभाचारान्कुर्याद्बलिदिने सुधीः। मातृप्वसुतादिभ्यो देयं वस्त्रादिभूषणम् ॥ ३६ ॥ ब्राह्मणेभ्यो धनं गाश्चगोभ्यश्चैव तृणं जलम्। भक्ष्यं भोज्यं च सर्वेभ्यः प्राणिभ्यो भूतिमिच्छता ॥ ३७ ॥ देयं बहुतरं सम्यग्विष्णुसंतोषकारकम्। द्यूतक्रीडां ततः कुर्याद्ब्राह्मणप्रमुखो जनः ॥ ३८ ॥ कुर्यात्ताम्बूलदानं च मिथः प्रीतिविचर्धनम्। ततो रात्रौ समभ्यर्च्य पुष्पैः शंकरवल्लभाम्। दीपैर्नीराजयेदन्नैस्तोपयेत्प्रयतो नृपः ॥ ३९ ॥ ततः प्रभाते बिमले भगिनी भ्रातृमन्दिरम्। गत्वा निमन्त्रयेद्धातृृञ्जनकं जननीं तथा। आनीय सकलान्हृष्टाञ्छुभं स्वमन्दिरं प्रति ॥ ४० ॥ अभ्यङ्गं कारयेद्यत्नाच्छुभैर्भोज्यैश्च भोजयेत्। पित्रादिसर्वबन्धुभ्यो दद्याद्वस्रादिभूरिशः। तैश्चताभ्यः प्रदातव्यं वस्त्रालंकारभूषणम् ॥ ४१ ॥

अथ होलिकानिर्णयः।

भविष्यपुराणे— दुर्वासा उवाच। तपस्ये षौर्णमास्यां तु रजन्यां होलिकोत्सवः। न कर्तव्यो दिवा विष्ट्यां रिक्तायां प्रतिपद्यपि ॥ १ ॥ विद्याविनोदे— नन्दायां मरणं घोरं भद्रायां देशनाशनम्। दुर्भिक्षं च चतुर्दश्यां करोत्येव हुताशनी ॥ २ ॥ नारदः— प्रतिपद्भूतभद्रासु याऽर्चिता होलिका दिवा। संवत्सरं च तद्राष्टंपुरं हन्ति च साऽद्भुतम् ॥ ३ ॥ प्रदोषव्यापिनी ग्राह्या पूर्णिमा फाल्गुनी सदा। तस्यां भद्रामुखं त्यक्त्वा पूज्या होला निशामुखे ॥ ४ ॥ होलिकाशान्तिकेकर्म जनारोम्योत्सवाय च। त्यक्त्वा भद्रां निशीथेऽपि ज्वाल्या भद्राऽग्निदाहकृत् ॥ ५ ॥ प्रदोषव्यापिनी न स्यात्तदा पूर्वदिने भवेत्। भद्रामुखं वर्जयित्वा होलिकायाः प्रदीपनम् ॥ ६ ॥ विद्याविनोदे— यामत्रयोर्ध्वयुक्ता चेत्फाल्गुनी तु भवेत्तिथिः। भद्रामुखैपरित्यज्य कार्या होला मनीपिभिः ॥ ७ ॥ कालविवेके— प्रहरद्वयात्परवःफाल्गुनी पूर्णिमा यदि। होलिका तु तदा पूज्या रात्रौ भद्राविशेषतः ॥ ८ ॥ तपस्ये मासि सकायां निशि चन्द्रोदयेऽग्नितः। प्रदक्षिणं प्रकुर्वीत होलिकायाः प्रदीपनम् ॥ ९ ॥ चन्द्रोदये यदा न स्यात्पूर्णिमा

फाल्गुनी तदा। पूर्वेद्युर्मध्यगे चन्द्रे विधेयं होलिकार्चनम् ॥ १० ॥ मधवे— असत्यामपि पूर्णायां वृद्धिरेव होलिकार्चनम्। क्रियमाणं च नन्दायां शान्तिर्भवति नो क्षये ॥ ११ ॥ फाल्गुने मासि संप्राप्ते शुक्लपक्षे सुखास्पदे। पञ्चमीप्रमुखास्ताः स्युस्तिथयोऽनन्तपुण्यदाः ॥ १२ ॥ दश स्युः शोभनास्तासु काष्ठस्तेयं विधीयते। अपत्यैर्वाऽथ वृद्धैर्वा युवभिर्वा दिनात्यये। प्राप्तायां पूर्णिमायां तु कुर्यात्तत्काष्टदीपनम् ॥ १३ ॥ चिन्तामणौ—चण्डालसूतिकागेहाच्छिशुहारित वह्निना। भद्रामुखं परित्यज्य होलाया दीपनं शुभम् ॥ १४ ॥ स्नात्वा राजा शुचिर्भूत्वा स्वस्तिवाचनतत्परः। दत्त्वा दानानि भूरीणि दीपयेद्धोलिकाचितिम्। ग्रामाद्धहिश्चमध्ये वा तूर्यनादसमन्वितम् ॥ १५ ॥ तत्र दीपनमन्त्रः— दीपयान्यद्यते घोरां चितिं राक्षससत्तमे। हिताय सर्वजगतां प्रीतये पार्वतीपतेः ॥ १६ ॥ ततोऽभ्युक्ष्य चितिं सर्वा साज्येन पयसा सुधीः। गन्धपुष्पैः समभ्यर्च्य कृत्वा चैष प्रदक्षिणम् ॥ १७ ॥ नारिकेलादिदिव्यानि वीजपूरफलानि । द्राक्षेक्षुकदलादीनि फलानि च समर्पयेत् ॥ १८ ॥ अर्चयित्वाऽक्षतै रक्तैः कुङ्कुमेन सुसंस्कृतैः। गीतैर्वाद्यैस्तथा नित्यै रात्रिः सा नीयते नरः ॥ १९ ॥ तमानं त्रिः परिक्रम्य शब्दर्लिङ्गभगाङ्किन्तैः। तेन शब्देन सा पापा राक्षसी क्षयमाप्नुयात् ॥ २० ॥ भूतिवन्दनमन्त्रः— वन्दिताऽसि सुरेन्द्रेण ब्रह्माच्युतशिवादिभिः। अतस्त्वं पाहि मां विवाद्विभूते भूतिदा भव ॥ २१ ॥ सायाह्नेहोलिकां कुर्यात्पूर्वाह्णेक्रीडनं गवाम्। दीपं दद्यात्प्रदोषेतु एषधर्मः सनातनः ॥ २२॥ द्वितीया च तृतीया च चतुर्थी पञ्चमी तथा। पष्टी च सप्तमी चैव सेचने तिथयः स्मृताः ॥ २३ ॥ प्रतारणैकनिपुणा हासोत्सवरसेप्सनः। सिन्दूरोलनं कुर्युरन्यद्रविणसंपदा ॥ २४ ॥ पलाशकुसुमो-द्भूतशुभवारिप्रसेचनम्। विधीयते मिथो लोके वसन्तमीतये ध्रुवम् ॥ २५ ॥ जलेन वाऽथ तैलेन दध्ना च पयसाऽपि वा। इक्षूणां च रसेनैव वसन्तस्यप्रसेचनम् ॥ २६ ॥ आदौ देवेषु कर्तव्यं ततो विशेषु बन्धुषु। कर्तव्यं भूमिपालेन सुखसंभोगवृद्धये ॥ २७ ॥ निर्लज्जा मानरहिता गतेर्ष्या गतसाध्वसाः क्रीडेयुः सकला लोका वसन्तस्योत्सवंप्रति ॥ २८ ॥ निवृत्ते चोत्सवेतस्मिन्गुरुममुखतो द्विजान। संपूजयेन्महीपालो वस्त्रालंकारभूषणैः ॥ २९ ॥

इति होलिकानिर्णयः।

अथ नागपञ्चमीविधानम्।

भविष्योत्तरे— श्रावणे मासि पञ्चम्यां सिते पक्षे विधीयते। विधानं नागदेवानांशीलषष्ठ्यास्ततः परम् ॥ १ ॥ नागास्तु मृन्मया ज्ञेया आलेख्याः कुङ्कुमेन वा। चन्दनेनाथवा लेख्यास्तदभावे हरिद्रया ॥ २ ॥ आलेख्याः सदने स्वेन स्वस्मिन्स्वस्मिन्मनीपिभिः। मृन्मयास्तु विधातव्यास्ते पूज्याः पुरवासिभिः ॥ ३ ॥ कर्तारो नापितास्तेषांयंत्रकुत्राऽऽस्पदे शुभे गङ्गावारिणि सुस्नातैर्द्विजाद्यैःपुरवासिभिः ॥ ४ ॥ संस्नाष्यापयसा पूर्वं मन्त्रैस्तल्लिङ्गकैर्ध्रुवम्। दध्नावासर्पिषा चैव मधुना सितया तथा ॥ ५ ॥ ततो गङ्गाजलेनैव ततो गन्धं समर्पयेत्। पूजयेत्कुसुमैर्दिव्यैरपामार्गेण दूर्वया ॥ ६ ॥ विल्वपत्रैच चहुभिर्दशाङ्गेनैव धूपयेत्। दीपैर्नीराजयेत्पश्चान्नैवेद्यं तु समर्पयेत् ॥ ७ ॥ ताम्बूलं क्रमुकैर्युक्त सकर्पूरं मदान्वितम्। ततश्चप्रार्थयेन्नागान्वासुकिप्रमुखान्नव ॥ ८ ॥ नमामि वासुकिनागं नौमि तं तक्षकं विभुम्। नमामि शङ्खनागेन्द्रं कुमुदं प्रणमाम्यहम् ॥ ९ ॥ अनन्तं भुजगश्रेष्ठं नौमि कर्कोटकं विभुम्। पद्मं नमामि नागेन्द्र पुण्डरीकं नमाम्यहम् ॥ १० ॥ नमामि पुलिकं नागं नागलोकनिकेतनम्। इति संप्रणमन्नागान् गृह्णन्नामानि सर्वशः ॥ ११ ॥ सर्वश इति नवानाम्। आरोपयन्पवित्राणि वस्त्राणि विविधानि च। ततः प्रदक्षिणीकृत्य व्रजेदायतनं निजस् ॥ १२ ॥ ब्राह्मणान्भोजयेत्पश्चात्तत्पत्नीश्च यथाविधि। सायंकाले तु भुञ्जीत गृहस्वामी विशेषतः ॥१३ ॥

अथ पारणाहनिर्णयः।

पारणाहेयदा राजन्स्वल्पाचेद्द्वादशी भवेत्। अद्भिस्तु पारणं कुर्यात्पुनर्भुञ्जन्न दोषभाक् ॥ १ ॥ आमध्याह्नानि कर्माणि प्रातरेव विधाय च। स्वल्पायामपि भद्राय पारयेद्र विदर्शने ॥ २ ॥ त्रयोदशीगतं श्राद्धं द्वादश्यामेव कारयेत्। स्वल्पायामपि तत्यातः सर्वे कुर्वन्नदुष्यति ॥ ३ ॥ एतद्वैष्णवविषयम्। अद्भिस्तु पारणं कृत्वा न श्राद्धं कर्तुमर्हति। वैश्वदेवादिकं कर्मं श्रद्धात्पश्चाद्यतः स्मृतम् ॥ ४ ॥ वसिष्टः— एकादशीगतं श्राद्धं कृत्वा शेपान्नमाहरेत्। आध्रायशनसिद्धिः स्यादुपवासो न दुष्यति॥ ५ ॥ एकादश्यां प्रयोदश्यां यच्छ्राद्धं प्रतिवत्सरम्। द्वादश्यां वैष्णवैःकार्यं स्मार्तैरेव मृतेऽहनि॥ ६ ॥ आनुकूल्येनोपवासंकृत्वा श्राद्धं क्षयेऽहनि। यः कुर्यात्त्पितरस्तस्मै वरं दद्युर्यथेप्सितम् ॥ ७ ॥

स्सरे हि सदागते॥इत्यावाह्य पवनं प्रणम्य क्षणमात्रं तिष्ठेत्। यावत्सूर्यदर्शनं के केपांचिन्मत उदयात्षोडश पलानि प्रतीक्षेत्। ततस्तु यद्दिग्विभागाद्वायुरेति तदवलोक्यम्। सुभिक्षं जनभारः स्यात्सुराज्यं धनमूदता। बहुतोयं जयं हर्षंसंतोषंतनुते क्रमात् ॥ अन्यञ्च—पूर्ववायुर्धनोत्कर्षं वह्निवायुर्जनक्षयम्। दक्षिणः पशुनाशं च नैर्ऋतो धान्यहानिकृत् ॥ पश्चिमो मेघवृद्धिं च वायव्यस्त्वीतिमादिशेत्। उत्तरो धनलाभाय रुद्रवायुर्धनप्रदः ॥ अनयोर्द्वयोर्वचनयोर्मध्ये द्वितीयवचनस्यार्थःप्रायेण घटते। सार्धपौरुषमानेन पताकोच्छ्राय इष्यते। तासां कम्पाद्विजानी यात्फलमेतन्महीपतिः ॥ होमधूमशिखायां च प्रेक्षणीयः प्रभञ्जनः। एवं कृत्वा महीनाथो न कुत्रापि च सीदति ॥

इति गर्गोक्तवायुपरीक्षा।

अथ वत्सराधिपपूजा।

यश्चैत्रशुक्लप्रतिपद्विनवारो नृपो हि सः। तस्य पूजा विधातव्या पताकार्तोरणादिभिः ॥ १ ॥ प्रतिगृहं ध्वजाकर्म (जोच्छ्रायः) शक्त्या ब्राह्मणतर्पणम्। निरीक्षणं च कर्तव्य शकुनानां शुभेप्सभिः ॥ २ ॥ रघुवंशे महाकाव्ये श्रीमद्भागवते तथा। सप्तशत्यां स्तुतौ देव्या उपश्रुतिकृतौ तथा। कर्तव्या शकुनेच्छा च समाफलविशुद्धये ॥ ३ ॥

अथ दमनकार्पणम्।

भविष्योत्तरे— चैत्रे मासि सिते पक्षे चतुर्थी नवमी तथा। दशमी द्वादशी चैव तथैव च त्रयोदशी ॥ १ ॥ चतुर्दशी पञ्चदशी श्रेष्ठा दमनकार्पणे। चतुर्थी गणनाथस्य दुर्गाया नवमी तथा ॥ २ ॥ विष्णोस्तु नवमी पुण्या तथैव द्वादशी शुभा। त्रयोदशीश्वरस्यैव श्रेष्ठाऽरण्यानिवासिनः ॥ ३ ॥ भैरवस्यैकवीराया ज्ञेया भूता फलप्रदा। पूर्णिमा सर्वदेवानां पुण्या दमनकार्पणे ॥ ४ ॥ कारुहस्तागतः श्रेष्ठः प्रोक्तो दमनको बुधैः। आनीय मन्दिरं स्नात्वा कृत्वा गन्धादिपूजनम् अर्पयेत्सर्वदेवेभ्यो यथाकालं यथातिथि ॥ ५ ॥ धान्यमावाहनं पूजां तथैव च विसर्जनम्। कृत्वाऽपयेद्दमनकं देवेभ्यः सुसमाहितः ॥ ६ ॥ ( द्वादश्यां322चैत्रमासस्य शुक्लायां दमनोत्सवः। वौधायनादिभिः प्रोक्तः कर्तव्यः प्रतिवत्सरम् ॥ ७ ॥ पारणाहेन लभ्येत द्वादशी घटिकाऽपि चेत्। तदा त्रयोदशी ग्राह्या

पवित्रदमनार्पणे ॥ ८ ॥ हरौ न दमनारोपःस्यान्मधौविघ्नतो यदि। वैशाखे श्रावणे वाऽपि तत्तिथौस्यात्तदर्पणम् ॥ ९ ॥)

इति दमनकार्पणम्।

अथ पुनर्दहनम्।

चतुर्दशी तिथिर्नन्दा भद्रा शुक्रारवासरौ। सितेज्ययोरस्तमयं द्वद्यङघ्रिभं विषमाङ्घ्रिभम् ॥ १ ॥ शुक्लपक्षं च संत्यज्य पुनर्दहनमुत्तमम्। बसूत्तरार्धतः पञ्चनक्षत्रेषु त्रिजन्मसु ॥ २ ॥ पौष्णब्रह्मर्क्षयोः पौनर्दहनात्कुलनाशनम्। दिनोत्तरार्धे तत्कर्तुश्चन्द्रताराबलान्विते ॥ ३ ॥ पापग्रहे बलयुते शुक्रे लग्मांशवर्जिते। पुनर्दाहो मया प्रोक्तः श्राद्धकालमधो द्युवे॥ ४ ॥

अथ सपिण्डयादिश्राद्धप्रकरणम्।

सपिण्डीकरणं कार्यं वत्सरे वाऽर्धवत्सरे। त्रिमासे वा त्रिपक्षे वा मासि वा द्वादशेऽह्निवा ॥ १ ॥ एष्वेव कालेष्वेतानि एकोद्दिष्टानि षोडश। कृत्तिकासु च नन्दायां भृगोर्वारे त्रिजन्मसु ॥ २ ॥ पिण्डदानं न कर्तव्यं कुलक्षयकरं यतः। त्रिजन्मसु त्रिपाद्भेषु नन्दायां भृगुवासरे ॥ ३ ॥ धातृपौष्णभयोः श्राद्धं न कर्तव्यं कुलक्षयात्। सकृन्महालये काम्ये न्यूनश्राद्धेऽखिलेषु च ॥ ४ ॥ अतीतविषये चैवमेतत्सर्वं विचिन्तयेत्। नभस्ये मासि संप्राप्ते कृष्णपक्षे समागते ॥ ५ ॥ तत्र श्राद्धं प्रकुर्वीत सकृद्वा चेदशक्तिमान्। विशिष्टदिवसे कर्तुश्चन्द्रताराबलान्विते ॥ ६ ॥ नन्दाः स्युस्तिययो निन्द्या भूतानां शस्त्रघातिनाम्। द्वितीया मध्यमा ज्ञेया तृतीया भरणीयुता ॥ ७ ॥पूज्या यदि चतुर्थी वा श्रीमदा पितृकर्मणि। आनन्दयोगः पञ्चम्यायाम्यर्क्षस्थे निशाकरे ॥ ८ ॥ भोजयेद्यः पितृंस्तन पुत्रपौत्रधनं भवेत्। यशस्करी सप्तमी स्वादष्टमी भोगदायिनी ॥ ९ ॥ श्राद्धकर्तुश्चनवमी सर्वकामफलप्रदा। सूर्ये कन्यागते चन्द्रे रौद्रनक्षत्रगे यदा। सप्तम्यां वा तथाऽष्टम्यां नवम्यां वा तिथौयुते ॥ १० ॥ योगोऽयं पितृकल्याणःपितृृन्योऽस्मिन्समर्चयेत्। इहसंपदमश्राति पद्यात्स्वर्गमवाप्नुयात् ॥ ११ ॥ दशम्यां पुण्यनक्षत्रे संयोगोऽमृतसंज्ञकः। अर्चयेद्यः पितृृंस्तन नित्यतृप्तास्तु तस्य ते ॥ १२ ॥ सर्वसंपत्प्रदा कर्तुर्द्वादशी तिथिरुत्तमा। त्रयोदशी चतुर्दश्योर्द्दानिर्धनकलत्रयोः ॥ १३ ॥ अनन्तपुण्यफलदा गजच्छाया त्रयोदशी। श्राद्धकर्मण्यमावास्या पक्षश्राद्धफलप्रदा ॥ १४ ॥

अथ चैत्रशुक्लप्रतिपदि काकपिण्डविधानम्।

गर्गसंहिताया— फाल्गुने मासि दर्शस्य मध्यरात्रे पुराद्वहिः। धन्वन्तराणां संवीक्ष्य पञ्चाशत्तरुसंनिधौ ॥ १ ॥ भूमिं संशोध्य यत्नेन निखनेत्कुद्दलादिभिः। कण्टकास्थिशरावाणि खण्डकानि वहिः क्षिपेत् ॥ २ ॥ प्रसिञ्चेतु ततस्तोयैः सरस्यादिभवैरपि। ततः स मार्जयित्वा च धूपयेद्धूपसंचयैः। आलिप्यचन्दनैर्दिव्यैः पुष्पाणि विकिरेत्ततः ॥ ३ ॥ महाफणिमहाभोगदृढाचारकृतालये। प्रसन्ना भव मातस्त्वं कुरु चाद्य जनप्रियम् ॥ ४ ॥ इत्यनेन मन्त्रेण गन्धपुष्पादि निधाय पृथ्वि त्वया धृता लोकेति प्रातःकालविधिं पठन्पूर्वाभिमुखो निपष्णोवर्तेत। प्रातरेवारुणोदयवेलायां दध्योदनपिण्डपञ्चकं सव्यञ्जनं पूर्वादिक्रमेणोत्तरपर्यन्तं निदध्यात्। दधिक्राव्णो अकारिपमिति स्तोक दधि पिण्डोपरि निधापयेत्। ततो दिक्क्रमेणेन्द्रयमवरुणकुबेरेभ्यश्चतुरः पिण्डांस्तल्लिङ्गकैर्मन्त्रैश्चतुर्थ्या समर्पयेत्। नमोन्तमुञ्चर्य ततश्च पञ्चमं पिण्डं ब्रह्मणे समर्पयेत्। ततस्तां सपिण्डभूमि प्रणिपत्य धन्वन्तरसप्तकं भूम्यन्तरं संव्रजेत्। तदनन्तरं काकागमनं निरीक्षेत्। यस्माद्दिग्विभागादागच्छति वायसः कंचित्पिण्डं गृह्णाति साशङ्कं निःशङ्कं वा निर्भयः सन्निति तदवलोकनीयम्। शब्दायमानो वा मौनी ग्रासमात्रं परिगृह्यान्यं काकं पश्यति किंवा न पश्यति यां यां चेष्टां कुरुते तदनुरूपं फलमादिशेत्। तच्चाऽऽह— यतो दिग्विभागादागच्छति तस्मिन्दिग्वभागे दुर्भिक्षं सूचयति। यद्दिग्देशस्थं पिण्डमश्नाति तस्मिन्देशे सुभिक्षं सूचयति। अन्यान्समाहूय तैः सह पिण्डमश्नाति तदाऽत्यन्तं सुभिक्षं सूचयति। मौनेनात्ति तदा सुभिक्षे सति पुनर्दस्युभयमादिशति। साशङ्क समश्नाति तदा तस्मिन्नेवदेशे सुभिक्षं सूचयति स्थाने स्थाने च दुर्भिक्षमादिशति। अपरेण गृहीतमन्नं वलादाहृत्य भक्षयति तदा राजभयमादिशति। तेष्वेव काकेषु विशेषोऽस्ति। शुभ्रकण्ठः काको ब्राह्मणस्तस्य फलं त्रिभिर्मासैः। मयूरपिच्छवर्णाभकण्ठः क्षत्रियस्तस्य फलं षड्भिर्मासैः। शिखाकारं मस्तकं यस्य स वैश्यस्तत्फलं नवभिर्मासैरादेष्टव्यम्। कृष्णकण्डः काकः शूद्रस्तस्य फलं वर्षेण भवाते। पञ्चानां पिण्डानां मध्ये ब्रह्मस्थानगतं पिण्डं गृह्णाति तदा सर्वदेशे सुभिक्षं जायते। यस्य वर्णस्य काको मध्यपिण्डं गृह्णाति तस्यैव वर्णस्य क्षेमं विदधाति। पिण्डं गृहीत्वायां दिशं गच्छति स्वमाससंख्ययामहर्यंविदधाति। तद्दोपशमनाय तत्काल एवं विधानं कार्यम्। पायसं शर्करापूपकारिकाःक्षीरषष्टिकाः। एवमादीनि चान्नानि निक्षिपेत्काकभुक्तये ॥ ५ ॥ आदिशब्देन

घृतमांसम्। उद्दिष्टं च पिण्डमात्रं न गृह्णाति तदा सर्वदेशे जनमारं दिशाति। तदा सर्वेरन्नैर्नरमूर्तिं कृत्वा काकेभ्यो भूतेभ्यः श्वभ्यश्च दद्यात्। श्वचाण्डालपतितभूतवायसग्रहराक्षसभैरववेतालपिशाचेभ्यो बलिं विदधे, इति तत्र मन्त्रः। एवं कृते विधाने च विध्नानश्यन्ति तत्क्षणाद्। नन्दते जगतीलोको नात्र कार्या विचारणा ॥ ६ ॥

अथावटधान्यनिक्षेपविधानम्।

फाल्गुनस्यामावास्यायां दिनात्यये ग्रामात्पूर्वोत्तर समस्थले भूमिशुद्धिविधाय वर्तमानधान्यसंख्ययाऽवटान्कृत्वा तेष्ववटेषु गोमयेन संमार्जनं कृत्वा गन्धपुष्पादिकानुपचारान्विदध्यात्। एकस्मिन्नेकस्मिन्नवटे शतं कृणान्निक्षिपेत्। द्वादशद्वादशैकैकस्य धान्यस्य कर्तव्याः। एकद्वित्रिचतुरङ्गुलं वाऽवटन्तरं कार्यमेवं धान्यमिता अवटपङ्क्तयो भवन्ति। ततः कोणेषु निक्षिप्तेषु मासादिदेवताः पोडशोपचारैरूपचार्याः। नतश्चर्द्रार्कपत्रैरवटमुखान्याच्छाद्य प्रदक्षिणं कृत्वा न्गच्छेत्। पश्चात्प्रातःकाल उत्थाय कृतस्नानादिकः समागत्य पुनस्तेषामवटानामर्चनं कृत्वाऽर्कपत्राणि निःसारयेत्। नतोऽवटगर्भानवलोकयेत्। तत्र धान्यकणानां न्यूनाधिक्यं यस्मिन्यस्मिन्मासावटे दृश्यते तस्मिन्तस्मिन्मासि तस्य तस्य धान्यस्य न्यूनाधिकता ज्ञातव्या। यस्मिन्मासि यस्य धान्यस्य न्यूनता भवति तस्य मासस्याधिदेवताप्रीतये ब्राह्मणतर्पणं कुर्यात्। एकस्य कस्यचिद्व्राह्मणस्य द्वारदेशे शक्तया धान्यराशिं दद्यात्। तस्याष्यभावे स्वेस्वेद्वारदेशे देहलीसमीप उभयतः सर्वधान्यपूजां कृत्वा मासपर्यन्तं समागतेभ्यो भिक्षुकेभ्यः स्तोकं स्तोकं देयम्। एवं कृते विधाने च विघ्नः कोऽपि न जायते ॥

इत्यवटधान्यनिक्षेपविधानम्।

अथ चैत्रशुद्धप्रतिपदि वायुपरीक्षा।

चैत्रे मासि ग्रामाद्वहिः पूर्वपश्चमेवादक्षिणोत्तरे वा समस्थले देशेसंमार्जन कृत्वा तस्य संमार्जितस्य मण्डलस्य चतुर्दिक्षु चतस्रः पताकाः समुच्छ्रिताः कार्याः। तासां मध्ये स्थण्डिलं कृत्वाऽग्निमुखपुरःसरं गणपतिदुर्गाक्षेत्राधिपतिपूर्वकमष्टलोकपालप्रीतये साज्येन पायसेन हवनं कुर्त्यान्मन्त्रैस्तल्लिङ्गैःप्रत्येकमष्टोत्तरशतं तथैव स्विष्टकृतम्। ततो हवने कृते वायुप्रार्थनं कुर्यात्। तत्र प्रार्थनामन्त्र— एह्यात्मन्सर्वभूतानां कुरङ्गपतिवाहन। समादिश फलं चास्मिन्व-

श्रीशिवराजविनिर्मितो—ज्योतिर्निबन्धः।

*323(अमावास्याव्यतीपातपौर्णमास्यष्टकासुच। विद्वाञ्छ्राद्धमकुर्वाणो नरकं प्रतिपद्यते ॥१५॥ विभक्ता वाऽविभक्ता वा कुर्युः श्राद्धं पृथक्सुताः। मधासु च ततोऽन्यत्र नाधिकारः पृथग्विना ॥१६॥ संग्रहे—जातमात्रोऽपि दौहित्रो विद्यमानेऽपि मातुले।कुर्यान्मातामहश्राद्धं प्रतिपद्याश्विने सिते ॥१७॥) दस्रद्वये पुष्यचतुष्टये च हस्तत्रये मैत्रचतुष्टये च।सौम्यद्वये च श्रवणत्रये च श्राद्धप्रदाता धनपुत्रवान्स्यात् ॥ १८ ॥

इति सपिण्डयादिश्राद्धप्रकरणम्।

इति शूरमहाठश्रीशिवराजविनिर्मिते। ज्योतिर्निबन्धसर्वस्वे तिथ्या-
दीनां विनिर्णयः ॥१॥ ज्योतिर्निबन्धे न्यूनं यद्व्यस्तं च कथितं
पुनः।पूरितं तद्यथास्थाने व्यस्तं व्यक्तं च विष्णुना ॥२॥
जातकं स्वरशास्त्रं च प्रश्नाख्यानं यथा तथा। लिखितं
ग्रन्थविस्ता(स्त)रभयेनाज्ञानतो न हि ॥३॥
इति ज्योतिर्निबन्धः संपूर्णः।
श्रीशिवार्पणमस्तु।
शुभं भवतु।

आनन्दाश्रमसंस्कृतग्रन्थावलिः

ग्रन्थाङ्कः ८५

ज्योतिर्निबन्धः।

शूरमहाठश्रीशिवराजविनिर्मितः।

एतत्पुस्तकं वैद्योपनामकसदाशिवसूनुरङ्गनाथशास्त्रिभिः संशोधितम्।

तच्च

वी. ए.इत्युपपदधारिणा

विनायक गणेश आपटे

इत्यनेन

पुण्याख्यपत्तने

आनन्दाश्रममुद्रणालये

आयसाक्षरैर्मुद्रयित्वा

प्रकाशितम्।
___

शालिवाहनशकाब्दाः १८४१
______

ख्रिस्ताब्दाः १९१९
______

(अस्य सर्वेऽधिकारा राजशासनानुसारेण स्वायत्तीकृताः )

मूल्यम् एकाणकन्यूनं रूपकचतुष्टयम्। (३८१५)

आदर्शपुस्तकोल्लेखपत्रिका।

ज्योतिर्निबन्धस्यास्य शोधनार्थमादर्शपुस्तकानि यैः परहितेच्छुभिः प्रहितानि तन्नामानि पुस्तकसंज्ञाश्च मदर्श्यन्ते—

(क.) इति संज्ञितं पुस्तकं–खेडग्रामनिवासि कै० रा. रा. नागुभाऊ वकील इत्येतेषाम्।अस्य लेखनकालः

श०१७०१.

(ख.) इति संज्ञितं पुस्तकं—पुण्यपत्तनस्थ-करवेलकरोपाड रा. रा. गोपालमहादेव इत्येतेषाम्।

(ग.) इति संज्ञितं पुस्तकं—पुण्यपत्तनस्थ वे० शा० सं० रा. रा. राघवाचार्यरामानुज इत्येतेषाम्। त्रुटितमेतत्।

(घ.) इति संज्ञितं पुस्तकं—पुण्यपत्तननिवासिनां वे. शा. सं. रा. रा. विनायकशास्त्री शेवगांवकर इत्येतेषाम्।

काश्यां शिलामुद्रितमेतदस्य मुद्रणकालः संवत् १८३४.

समाप्तेयमादर्शपुस्तकोल्लेखपत्रिका।

श्रीशिवराजविनिर्मितज्योतिर्निबन्धस्य विषयानुक्रमः।

विषयाः विषयाः
शास्त्रोपनयः प्रकारान्तरम्
ज्योतिःशास्त्रप्रशंसा आयव्ययानयनम्
देवज्ञप्रशंसा मासप्रकरणम्
रविचारः तिथिप्रकरणम्
चन्द्रचारः वारप्रकरणम्
कुजचारः योगप्रकरणम्
बुधचारः करणप्रकरणम्
गुरुचारः नक्षत्रप्रकरणम्
शुक्रचारः शुद्धनक्षत्रविचारः
शनिचारः वेधविचारः
राहुचारः पीडितनक्षत्रापवादः
केतुचारः मुहूर्तप्रकरणम्
अगस्त्यचारः उपग्रहप्रकरणम्
सप्तर्षिचारः उपग्रहदोषापवादः
ग्रहयुद्धः चन्द्रतारावलप्रकरणम्
चन्द्रग्रहसमागमः दुष्टतारापवादः
ग्रहशृङ्गाटकम् गोचरप्रकणम्
मानप्रकरणम् पृथक्फलानि
संवत्सरप्रकरणम् गोचरापवादः
प्रभवादिसंवत्सरफलानि ग्रहदानानि
राजादीनां निर्णयः अनिष्टचन्द्रापवादः
राजफलम् सौम्यक्रूरादिविचारः
मन्त्रिफलम् सूर्ये कथं क्रूरत्वादीति प्रश्नोत्तरम्
अग्रधान्येशफलम् लग्नप्रकरणम्
मेघेशफलम् षड्वर्गकरणम्
रसाधिपफलम् अनिष्टवर्गापवादः
पश्चिमधान्येशफलम् तिथ्यादीनां बलविचारः
विश्वानयनम् लग्नबलप्रसंसा
विषयाः विषयाः
चन्द्रबलप्रशंसा भद्रापवादः
चन्द्रलग्नयोर्वलनिर्णयः कालहोरापवादः
लग्नस्थार्कप्राशस्त्यम् पञ्चकदोषः
लग्नस्थचन्द्रनिषेधप्रश्नोत्तरम् पञ्चकापवादः
तात्कालिकविचारः संधिविचारः
सूक्ष्मर्क्षानयनम् उक्तानुक्तदोषापवादः
तिथ्यादिगुणप्रशंसा दोषापवादभङ्गः
त्याज्यप्रकरणम् मौढ्यादिविचारः
दोषफलप्रकरणम् अस्तापवादः.
अपवादप्रशंसा अस्ते तीर्थयात्रानिषेधः
महादोषनिरूपणम् अस्यापवादः
एषा लक्षणानि चन्द्रास्तदोषः
गण्डान्तापवादः मलमासनिर्णयः
कर्तरीविचारः मलमासे कार्याकार्याणि
कर्तर्यपवादः क्षममासनिर्णयः
षडष्टरिष्फचन्द्रदोषः ग्रहणनिर्णयः
षडष्टरिष्फचन्द्रापवादः ग्रहणविधिः
संग्रहदोषः पर्वेशासाधनम्
संग्रहापवादः पर्वेशादिफलानि
अष्टमलग्नदोषः निजराशौ ग्रहणफलम्
अष्टमलग्नापवादः ग्रहणे दानम्
विपनाडीदोषः ग्रहणमाहात्म्यम्
विपनाड्यपवादः ग्रहणे वर्ज्यम्
दुर्मुहूर्तदोषः सिंहस्थगुरुनिर्णयः
वारदोषः संकटेप्रवृत्तिः
कुलिकाघ्रापवादः संक्रान्तिनिर्णयः
एकार्गलादिदोषः संक्रान्तिवाहनादिविचारः
कुनवासः संक्रान्तेः पुण्यकालः
नवांशापवादः पुण्यकालविशेषः
पातदोषनिर्णयः पुण्यकालानयनम्
विषयाः विषयाः
संक्रान्तिस्नानम् कर्णवेधः
संक्रान्तिफलम् निष्क्रमणम्
संक्रान्तिदानानि भूम्युपवेशनम्
जन्मराशिनिर्णयः जीविकापरीक्षणम्
नामराशिनिर्णयः अन्नप्राशनम्
जन्ममासादीनां निर्णयः चूडाकरणम्
व्यवस्थाविकल्पः चौलनिषेधः
जन्ममासप्रवृत्तिः क्षौरनिषेधः
जन्मनक्षत्रविचारः अक्षरारम्भविधिः
सिद्धान्तमीमांसाध्यायः अङ्कुरार्पणम्
अस्य निर्णयः उपनयनम्
आधुनिकमतम् उपाकरणम्
संदेहे विचारः केशान्तकर्म
जातकलग्नयोः प्राधान्यविचारः विद्यारम्भः
अनध्यायाः
शास्त्रार्थशिष्टाचारप्रामाण्यविचारः छुरिकाबन्धनम्
विवाहप्रकरणम्
प्रथमार्तवप्रकरणम् फुलविचारः
तत्र पृथक्फलानि गोत्रप्रवरनिर्णयः
रजस्वलाशान्तिः वरगुणाः
गर्भाधानम् कन्यागुणाः
पुंसषनम् सामुद्रिकलक्षणानि
सीमन्तोन्नयनम् स्वस्थारिष्टानि
जातकर्म दैवज्ञं प्रति पृच्छा
नामकर्म विवाहप्रश्नः
खट्वारोष्टविधिः शुभाशुभज्ञानम्
दुग्धपानविधिः राशिकूटविचारः
चरयोगिनी घटितभेदाः
राहुलक्षणम् वर्णविचारः
रुद्रलक्षणम् वश्यम्
विषयाः विषयाः
ताराः गान्धर्वविवाहशुद्धिः
योनिः विवाहाङ्गादीनां शुद्धिः
ग्रहसख्यम् विवाहभेदाः
गणशुद्धिः दातृनिर्णयः
भमेलः विषकन्याज्ञानम्
नाडीविचारः मूलजादीनां फलम्
नाट्यपवादः वैधव्यादियोगे विवाहः
पुञ्जी समानक्रियाविचारः
वर्गः यमलविशेषः
दूरविचारः प्रत्युद्वाहनिषेधः
धिष्ण्यदूरम् प्रतिकूलविचारः
दुष्टफलपरिहारः तत्र सूतकादौ शान्तिः
गुणविचारः नववधूप्रवेशः
विवाहनिश्चयः अग्न्याधानम्
कन्यावरणम् गृहारम्भप्रकरणम्
विवाहकालविचारः दिक्साधनम्
गुरुशुक्रास्तापवादः शङ्कुन्यासः
रविगुर्वोर्बलविचारः दुर्निमित्तानि
वृहस्पतिशान्तिः स्तम्भः
आदित्यशान्तिः आयः
मासनिर्णयः निषिद्धग्राह्यकाष्ठानि
तिथ्यादिशुद्धिः द्वारनिर्णयः
जामित्रशुद्धिः गृहनियमः
अंशशुद्धिः ग्रामदिङ्नियमः
लग्नशुद्धिः वास्तुनिवेशमुहूर्तविचारः
लग्नगोचरम् गृहायुर्दाययोगाः
भावशुद्धिः गृहप्रवेशः
गोरजःशुद्धिः वास्तुपूजाविधिः
घटीलक्षणं प्रतिष्ठा च सूतिकागृहनिर्माणविधिः
वेदिकालक्षणम् शय्यालक्षणम्
विषयाः विषयाः
राज्याभिषेकप्रकरणम् प्रयाणे कर्तव्यानि
यात्राप्रकरणम् नियमाः
पात्रानिवृत्तिकालः यात्रायां प्रस्थानविधिः
यात्रायां पञ्चाङ्गशुद्धिः यात्रायां शकुनाः
पन्था राहुः अपशकुनाः
यात्रायां दोहदप्रकरणम् अपशकुनविधानम्
लग्नबलविचारः क्षतम्
पृथग्भावफलं-तत्र रविफलम् अश्वेङ्गितम्
चन्द्रफलम् गजेङ्गितम्
भौमफलम् स्वस्थानकृत्यम्
बुधफलम् नानाविधमुहूर्तप्रकरणम्
गुरुफलम् तत्र सुरप्रतिष्ठा
शुक्रफलम् वस्त्रधारणम्
शनिफलम् पृथकफलानि
राहुकेतुफलम् वस्त्रक्षालनम्
यात्रायां समुदायेन पृथक्फलानि दग्धस्फुटितवस्त्रफलम्
वस्त्रारम्भणम्
यात्रायां लग्नांशफलम् तूलिका
यात्रायां प्रतिशुक्रविचारः अलंकृतिः
प्रतिशुक्रापवादः धननिक्षेपः
शुक्रस्तोत्रम् विपणिः
प्रतिशुक्रपूजाविधानम् सेवा
प्रतिशुक्रदानम् व्यभिचारः
योगप्रसंशा आयुष्पुटिकर्म
यात्रायां योगाः रससंग्रहादि
राजयोगभङ्गः संन्यासः
यात्रायामनिष्ठयोगाः ब्रह्मज्ञानोपदेशः
यात्रायां मनोविशुद्धिः दीक्षा
आवश्यके यात्रा श्रुतिस्मृतिप्रारम्भः
यात्रोपयोगि मिश्रकम् नाट्यम्
विषयाः विषयाः
ताराः गान्धर्वविवाहशुद्धिः
योनिः विवाहाङ्गादीनां शुद्धिः
ग्रहसख्यम् विवाहभेदाः
गणशुद्धिः दातृनिर्णयः
भमेलः विषकन्याज्ञानम्
नाडीविचारः मूलजादीनां फलम्
नाड्यपवादः वैधव्यादियोगे विवाहः
पुञ्जी समानक्रियाविचारः
वर्गः यमलविशेषः
दूरविचारः प्रत्युद्वाहनिषेध
धिष्ण्यदूरम् प्रतिकूलविचारः
दुष्टफलपरिहारः तत्र सूतकादौ शान्तिः
गुणविचारः नववधूप्रवेशः
विवाहनिश्चयः अग्न्याधानम्
कन्यावरणम् गृहारम्भप्रकरणम्
विवाहकालविचारः दिक्साधनम्
गुरुशुक्रास्तापवादः शङ्कुन्यासः
रविगुर्वोर्बलविचारः दुर्निमित्तानि
बृहस्पतिशान्तिः स्तम्भः
आदित्यशान्तिः आयः
मासनिर्णयः निषिद्धग्राह्यकाष्ठानि
तिथ्यादिशुद्धिः द्वारनिर्णयः
जामित्रशुद्धिः गृहनियमः
अंशशुद्धिः ग्रामदिङ्नियमः
लग्नशुद्धिः वास्तुनिवेशमुहूर्तविचारः
लग्नगोचरम् गृहायुर्दाययोगाः
भावशुद्धिः गृहप्रवेशः
गोरजःशुद्धिः वास्तुपूजाविधिः
घटीलक्षणं प्रतिष्ठा च सूतिकागृहनिर्माणविधिः
वेदिकालक्षणम् शय्यालक्षणम्
विषयाः विषयाः
भूषणनिर्माणम् पल्लीशब्दफलम्
मणिधारणम् पल्लीसरटयोः शान्तिः
शान्त्यध्यायः -तत्र गण्डजातफलम् काकमैथुनशान्तिः
कपोतशान्तिः
गण्डदोषशान्तिः उलूकादिशान्तिः
अभुक्तमूलविचारः मधुजालशान्तिः
मूलसार्पजातफलम् अन्नशान्तिः
मूलसार्पजातस्यापवादः अग्निशान्तिः
शिशुमुखदर्शनादर्शने उल्कालक्षणम्
मूलशान्तिः परिवेषलणक्षम्
आश्लेषाशान्तिः इन्द्रचापलक्षणम्
ज्येष्ठाशान्तिः गन्धर्वनगरलक्षणम्
एकनक्षत्रजननशान्तिः प्रतिसूर्यलक्षणम्
कृष्णचतुर्दशीशान्तिः निर्घातलक्षणम्
सिनीवालीशान्तिः दिग्दाहलक्षणम्
गोप्रसवविधिः रजोलक्षणम्
व्यतीपातादिशान्तिः भूकम्पलक्षणम्
सदन्तोत्पन्नशान्तिः कदलीदुष्टप्रसवशान्तिः
धनिष्ठापञ्चकविचारः अङ्गस्फुरणफलम्
पञ्चकशान्तिः सद्योवृष्टिलक्षणम्
त्रिपुष्करयोगः सप्तनाडीचक्रम्
त्रिपुष्करशान्तिः सस्योत्पत्तिविचारः
भावकाष्टकम् जातकाध्यायः - तत्र राशिभेदाः
पल्लीपतनफलम् ग्रहस्वरूपभेदाध्यायः
देहाङ्गफलानि आधानचिन्ता
तिथिफलम् जन्माध्यायः
वारफलम् सूतिकाध्यायः
नक्षत्रफलम् व्रणादिज्ञानम्
लग्नफलम् अनिष्टाध्यायः
सरटपतन फलम् अरिष्टाध्यायः
विषयाः विषयाः
राज्योपकरणादीनि प्रथमस्त्रीभोगः
पण्यविक्रयः मद्यारम्भः
धर्मारम्भोऽभिचारश्च व्यालग्रहणम्
संधिः गजकर्म
वेतालसिद्धिः बलकर्म
वापीकूपाद्यारम्भः नृपदर्शनम्
वृक्षाधिरोपः शान्तिः
कृषिः दीपिकाशय्यादि
बीजोप्तिः सूची
धान्यच्छेदनम् दिव्यम्
धान्यसंग्रहः नौका
बीजसंग्रहः क्रूरम्
मेथी शस्त्रनिर्माणम्
धान्यस्थापनम् शस्त्रधारणम्
धान्यनिष्क्रमणम् अभ्यासः
चौर्यम् धनुरभ्यासः
द्रव्यार्पणम् वैदिको बाणमन्त्रः
गोविक्रयादि स्मार्तो बाणमन्त्रः
अश्वविक्रयादि खड्गादिलक्षणम्
नूतनाश्वपल्याणम् ताम्बूलम्
पक्षिकर्म दीपविधिः
स्पलाम्बुवनचारिकर्म स्त्रीसंभोगः
शत्रुवन्धनम् नवान्नभोजनम्
पुष्पफलोचारणम् पात्रम्
औषधनिष्पादन् मैत्री
औषधग्रहणम् दासी
रोगमुक्तिस्नानम् सेतुः
सूतिफास्नानम् सर्वकर्म
शतभिपरस्नानफलम् रोगमुक्तिदिवसाः
तैलाभ्यङ्गः दुर्गादीनां यजनम्
विषयाः विषयाः
भूषणनिर्माणम् पल्लीशब्दफलम्
मणिधारणम् पल्लीसरटयोः शान्तिः
शान्त्यध्यायः -तत्र गण्डजातफलम् काकमैथुनशान्तिः
कपोतशान्तिः
गण्डदोषशान्तिः उलूकादिशान्तिः
अभुक्तमूलविचारः मधुजालशान्तिः
मूलसार्पजातफलम् अन्नशान्तिः
मूलसार्पजातस्यापवादः अग्निशान्तिः
शिशुमुखदर्शनादर्शने उल्कालक्षणम्
मूलशान्तिः परिवेषलणक्षम्
आश्लेषाशान्तिः इन्द्रचापलक्षणम्
ज्येष्ठाशान्तिः गन्धर्वनगरलक्षणम्
एकनक्षत्रजननशान्तिः प्रतिसूर्यलक्षणम्
कृष्णचतुर्दशीशान्तिः निर्घातलक्षणम्
सिनीवालीशान्तिः दिग्दाहलक्षणम्
गोप्रसवविधिः रजोलक्षणम्
व्यतीपातादिशान्तिः भूकम्पलक्षणम्
सदन्तोत्पन्नशान्तिः कदलीदुष्टप्रसवशान्तिः
धनिष्ठापञ्चकविचारः अङ्गस्फुरणफलम्
पञ्चकशान्तिः सद्योवृष्टिलक्षणम्
त्रिपुष्करयोगः सप्तनाडीचक्रम्
त्रिपुष्करशान्तिः सस्योत्पत्तिविचारः
भावकाष्टकम् जातकाध्यायः - तत्र राशिभेदाः
पल्लीपतनफलम् ग्रहस्वरूपभेदाध्यायः
देहाङ्गफलानि आधानचिन्ता
तिथिफलम् जन्माध्यायः
वारफलम् सूतिकाध्यायः
नक्षत्रफलम् व्रणादिज्ञानम्
लग्नफलम् अनिष्टाध्यायः
सरटपतन फलम् अरिष्टाध्यायः
विषयाः विषयाः
चन्द्रारिष्टभङ्गः प्रश्नप्रकरणम्
नियतायुः तत्रादौ शुभाशुभज्ञानम्
अमितायुः लग्नादिभावविचारः
आयुर्दायविवरणम् ग्रहवलावलम्
आयुर्दायानयनम् धात्वादिचिन्ता
दशाविभागः बहुप्रश्नेः विशेषः
दशाफलपाकनिर्देशः लाभालाभविचारः
अन्तर्दशाफलम् नष्टलाभविचारः
भावविचारः गर्भपृच्छा
धनचिन्ता विवाहपृच्छा
सहजचिन्ता विवाहे शुभाशुभम्
सुहच्चिन्ता संभोगः
सुतचिन्ता गमनम्
अरिचिन्ता आगमनम्
कलत्रचिन्ता परचक्रागमः
मृत्युचिन्ता युद्धपृच्छा
गतिज्ञानम् जयपराजयौ
भाग्यचिन्ता संधिविग्रहौ
कर्मचिन्ता दुर्गभङ्गः
आयचिन्ता वेष्टितदुर्गभङ्गपृच्छा
व्ययचिन्ता परदुर्गाप्तिपृच्छा
ग्रहभावफलम् आत्मदुर्गपृच्छा
स्त्रीजातकाध्यायः अन्यदुर्गभङ्गपृच्छा
राजयोगाध्यायः मन्त्रभेदपृच्छा
राजयोगभङ्गः विवादः
राजयोगनिर्णयः सेवापृच्छा
चन्द्रयोगः आश्रयः
म्लेच्छयोगः नृपदर्शनम्
राशिलग्नयोः फलम् गौरवम्
प्रव्रज्ययोगः पदलाभपृच्छा
विषयाः विषयाः
अधिकारः सादिः
पदनिर्वाहपृच्छा अनयोः कः सत्यः
स्थानप्राप्तिः दिनचर्या
धातुवादः धान्यनिष्पत्तिः
चौर्यपृच्छा सुभिक्षपृच्छा
सौख्यपृच्छा दुर्भिक्षम्
भयपृच्छा वृष्टिपृच्छा
अग्निभयम् कूपपृच्छा
नदीपूरणपृच्छा नौका
कालवृष्टिपृच्छा रोगपृच्छा
स्त्रीविग्रहः रोगनाशकयोगः
धृताविवाहितापृच्छा स्वस्थो रोगी वा
बन्धनपृच्छा क्व मृत्युः
मृत्युयोगः मुक्तिर्भविष्यति न वा
मृत्युभङ्गः कस्माल्लोकादागतोऽयम्
गतप्राप्तिपृच्छा रोगज्ञानम्
मृताप्तिपृच्छा दोषपृच्छा
हृतादिवस्तुपृच्छा निधिपृच्छा
चोरोऽयं न वेति पृच्छा मृगया
कोऽयं नर इति पृच्छा बन्धमोक्षौ
अस्य को देश इति पृच्छा लिखितपृच्छा
मित्रप्रीतिपृच्छा वार्तापृच्छा
कोऽश्वो विजयीति पृच्छा हन्तुं गमनम्
मेलकः अभिचारः
वस्तुग्रहणम् योगसिद्धिः
वस्तुविक्रयः विद्याभ्यासः
क्रयविक्रयमध्ये कस्माल्लाभः काव्यम्
वस्तुसंग्रहणाल्लाभोऽस्ति न वा दीक्षा
कृतसंग्रहस्य वस्तुनः कदा विक्रयः स्वप्नः
वर्षेऽस्मिन्कथं भविष्यति भोजनम्
विषयाः विषयाः
भुक्तियानम् क्षेत्रपाली
वाटिका पक्षभूमिः
अर्धपृच्छा कालभूमिः
देशभङ्गपृच्छा विम्वभूमिः
आयुष्पृच्छा लग्नभूमिः
नष्टजन्म राहुभूमिः
दुर्दिने लग्नज्ञानम् कुलिकराहुचक्रम्
चिन्तामुष्टिकज्ञानम् योगिनी
फलकालनिर्णयः वारकालः
स्वरशास्त्रप्रशंसा वारयोगिनीचक्रम्
स्वरोदयः तिथिकालः
तत्कालस्वरचिन्ता तिथियोगिनीचक्रम्
वर्णस्वरचक्रम् वायुभूमिः
राशिस्वरचक्रम् भूबलम्
नक्षत्रस्वरचक्रम् घातचक्रम्
मासस्वरचक्रम् द्वितीया घातवटी
द्वादशवार्षिकस्वरचक्रम् तृतीया घातवटी
ऋतुस्वरचक्रम् घातचक्रम्
वारस्वरचक्रम् जाग्रत्सुपुप्तचक्रम्
दिक्स्वरचक्रम् सेनाचक्रम्
राहुकालानलम् द्वन्द्वयुद्धम्
चन्द्रार्ककालानलम् छुरिकायुद्धम्
रिक्तपूर्णचक्रम् छुरिकोपास्तिः
कुलाकुलचक्रम् मन्त्रः
लोहज्ञानम् व्यूहरचना
कविचक्रम् सूक्ष्मस्वरप्रकरणम्
कोटचक्रम् तत्त्वगुणाः
लग्नबलम् प्रश्नोत्तराध्यायः
कालबलम् अष्टकवर्गप्रश्नोत्तरम्
वडवानली भूमिः प्रलयप्रश्नोत्तरम्

[TABLE]

समाप्तेयंज्योतिर्निबन्धस्य विषयानुक्रमणिका।

ज्योतिर्निबन्धः।

वेदाद्यं यातमर्धेन्दुभालयुग्विन्दुतत्पुनः भायनत्यन्तमङ्गार्णं1मनुर्यस्य नमामि नम् ॥१॥ अभीष्टफलदो देवः सर्वज्ञः परमेश्वरः। आदधातुगणाध्यक्षः स्थितिं मनसि नः सदा ॥२॥ तिथ्यादिकालावयवस्वरूपां जगत्प्रसूत्यादिकहेतुभूताम्। कालत्रयज्ञाना-वधायिनीं तां वन्देऽहमाद्यामिह शास्त्रदेवीम् ॥३॥ नारदः–ब्रह्माऽऽचार्यो2 वसिष्ठोऽत्रिर्मनुः पौलस्त्यरोमशौ। मरीचिरड्गिरा व्यासोनारदः शौनकोभृगुः ॥४॥ च्यवन3ोयवनोगर्गःकश्यपश्च पराशरः।अष्टादशैते गम्भीरा ज्योतिःशास्त्रप्रयोजकाः ॥५॥ वराहमिहिराचार्यः श्रीपतिः सत्यभास्करौ। लल्लःसूरिर्ब्रह्मगुप्तो वैद्यनाथश्च रेणुकः ॥६॥एषांशास्त्राणि सेवीक्ष्य सारमादाय4 यत्नतः। तदुक्तवचनैः कुर्वे फलग्रन्थं मनोरमम् ॥७॥ यथैवारोपयत्येकं श्रेयोर्थी सद्द्रुमं पथि। सत्स्वारामेषु शास्त्रेषु तथैनां विद्धि मत्कृतिम्*5 मदीयम् (यः) ग्रन्थो यस्माव्द्याप्तार्गादिशास्त्रयोक्तं तत्त्वनूनमत्रास्ति नान्यत् ॥९॥”) ॥८॥गर्गः– धूर्तदुर्जनविद्वेषिकृतघ्नानां कदाचन। न प्रकाश्यमिदं शास्त्रं रहस्यं केवलं यतः ॥९॥ तथा च भास्करः–दिव्यं ज्ञानमतीन्द्रियं यद्यपिभिर्ब्राह्मं वसिष्ठादिभिः पारन्पर्यवशाद्रहस्यमवनीं नीतं प्रकाशं यतः। नैतद्द्वेषिदुरुक्त-दुर्जनदुराचाराचिरावासिनां स्यादायुःसुकृतक्षयो मुनिकृतां सीमामिमामुज्झताम् ॥१०॥

]

  1. “१. क. गमन।” ↩︎ ↩︎

  2. “२. ख. जवनावां " ↩︎ ↩︎

  3. “३. ग. नो माठरोगं” ↩︎ ↩︎

  4. “४. ग. माद्यं प्रवक्ष्याते।ग्रन्थं ज्योतेर्निबन्धएवं महाटःश्रीशिवोनूनः।” ↩︎ ↩︎

  5. “*ग. पुस्तके - गङ्गातोयं काचकुप्यादिसस्थं ग्राह्यंयद्वतद्वदेनं(षोडस्म ↩︎ ↩︎

  6. “५. ग. वेदा हियज्ञाथर्मभिप्रवृत्ताः कां।” ↩︎ ↩︎

  7. “१ ग. मनुष्याकृताऽत्र मुख्या । " ↩︎ ↩︎

  8. “२ ग. दाः पुराण।” ↩︎ ↩︎

  9. “३. क. ‘ण श्रुतं।” ↩︎ ↩︎

  10. " क. के जलनिग्रही” ↩︎ ↩︎

  11. “*श्लोकोऽयं ख. ग. पुस्तकयोर्नास्ति।” ↩︎ ↩︎

  12. “*अयमध्यायो ग. पुस्तके नास्ति।” ↩︎ ↩︎

  13. “ख. न्तः सन्नशं ।” ↩︎ ↩︎

  14. “१ ख. ज्यायेनो ज°।” ↩︎ ↩︎

  15. “२ क, पुस्तक एव ग्रन्थान्तरीय. पाठ–°श्वर्ग पा°।” ↩︎ ↩︎

  16. “३ ख. - " ↩︎ ↩︎

  17. “१. स कुलौत° " ↩︎ ↩︎

  18. “२. क. रसग्गृहे।” ↩︎ ↩︎

  19. “१ क. ‘दने प्र°।” ↩︎ ↩︎

  20. “१ ख. °ते सितः सि°।” ↩︎ ↩︎

  21. “१. क. °न पल।” ↩︎ ↩︎

  22. “ख. सस्ततुष।” ↩︎ ↩︎

  23. “१ क. भवके” ↩︎ ↩︎

  24. “२ क. ‘तरोऽभिवृष्टो।” ↩︎ ↩︎

  25. " प. लपातमि।” ↩︎ ↩︎

  26. “* चत्तारः श्लोकाः स. पुस्तके न सन्ति ।” ↩︎ ↩︎ ↩︎ ↩︎

  27. “क. द्युयातं।” ↩︎ ↩︎

  28. “+श्लोकत्रयं ग.पुस्तके नास्ति।” ↩︎ ↩︎

  29. “१. क. ‘राधोर’” ↩︎ ↩︎

  30. “क. ……….” ↩︎ ↩︎

  31. “१ प. ‘स्तद्देशा’” ↩︎ ↩︎

  32. " क. न्मागात्तथा” ↩︎ ↩︎

  33. “क. ख. ग. नाद्युप।” ↩︎ ↩︎

  34. “१. क. स. य. स्वरूप दे० ।” ↩︎ ↩︎

  35. " क ‘स्याद्वया।” ↩︎ ↩︎

  36. “३. क. ‘सुपात्रादि।” ↩︎ ↩︎

  37. “१ ख. ‘नपतौति’। घ, नपतौदिवसाद्द्वि। " ↩︎ ↩︎

  38. “क. यस्ति।” ↩︎ ↩︎

  39. “क. पझपयो।” ↩︎ ↩︎

  40. " ४ क. योश्चमिथुनावलयोर्मृगेन्द्रकौर्प्यौस्तु।” ↩︎ ↩︎

  41. “ग. षष्ठेन्ति” ↩︎ ↩︎

  42. “२. क. ख. घ. ‘र्गलःप.।” ↩︎ ↩︎

  43. “३. ग. ‘नि शुभकर्मसु। अशुभेषु स्थिराण्येव वि।” ↩︎ ↩︎

  44. “क. ‘मवृष्टि।” ↩︎ ↩︎

  45. “प. प्येऽऽभ्यदि।” ↩︎ ↩︎

  46. “१. घ. " ↩︎ ↩︎

  47. “क. ‘तुष्टोसाभिः जच्चग।” ↩︎ ↩︎

  48. “घ. माविदेषैधिः।” ↩︎ ↩︎

  49. “घ. शशिकृती।” ↩︎ ↩︎

  50. “क. ‘तनिश्रु’ ।” ↩︎ ↩︎

  51. “१. क. ण्डोऽथ धृ।” ↩︎ ↩︎

  52. “२ क. ष्ण्यकर्मकु।” ↩︎ ↩︎

  53. “क. घ. ‘न्द्यप्यषः।” ↩︎ ↩︎

  54. “क. स्वाः स्युस्त।” ↩︎ ↩︎

  55. “१. घ. लंतुगो।” ↩︎ ↩︎

  56. “२. क. घग्रहोयु” ↩︎ ↩︎

  57. " ३. ग. व्यक्तिभिः।” ↩︎ ↩︎

  58. " ४. घ. अथा°।” ↩︎ ↩︎

  59. “१. क.मृतमा।” ↩︎ ↩︎

  60. “क. °त्यौद्युनिश.प°। ख. °म्भाशोद्दिनिश. प° ।” ↩︎ ↩︎

  61. “क. °त्यौद्युनिश.प° । ख. °म्भाशोद्दिनिश. प° ।” ↩︎ ↩︎

  62. “क. °ष्टमोमन्दात्षष्ठे।” ↩︎ ↩︎

  63. “घ. °नेश्वराः ।” ↩︎ ↩︎

  64. “घ. भुक्तान् ।” ↩︎ ↩︎

  65. “घ. °ञ्चेश्विभाग्नक्षा ।” ↩︎ ↩︎

  66. “ख. घ. °हः स्वेशेक्षि°।” ↩︎ ↩︎

  67. “घ. °त्यष्टजि° ।” ↩︎ ↩︎

  68. “ख. सिंहाश्वपू°। घ. सिंहश्वपु° ।” ↩︎ ↩︎

  69. “ए. र्यषतो ।” ↩︎ ↩︎

  70. “घ.ददृशम्।” ↩︎ ↩︎

  71. “क. °ध्यर्दृभा°।” ↩︎ ↩︎

  72. “ख. °प्रसज्ञा. ।” ↩︎ ↩︎

  73. “य. पोदिताः” ↩︎ ↩︎

  74. “क. भतरेसो° ।” ↩︎ ↩︎

  75. “घ. °रेहच्छितं।” ↩︎ ↩︎

  76. “क. घ. °दंशंस्वा° ।” ↩︎ ↩︎

  77. “क. घ. ‘रेणोप°।” ↩︎ ↩︎

  78. “क.ख° प्येकश° ।” ↩︎ ↩︎

  79. “क.धात्री।” ↩︎ ↩︎

  80. “क. °राष्ट्राग्नि° ।” ↩︎ ↩︎

  81. “ख. घ. °त्रावितिके°।” ↩︎ ↩︎

  82. “क. ख. °तेकेन्द्रे° ।” ↩︎ ↩︎

  83. “ख. मध्येतु ।” ↩︎ ↩︎

  84. “क. °दिके ज° ।” ↩︎ ↩︎

  85. “क. चोरेनग्नि । घ.चौरैशाग्नि” ↩︎ ↩︎

  86. “घ. भवति क°।” ↩︎ ↩︎

  87. “ख. °षुपाति°।” ↩︎ ↩︎

  88. “घ. °वा । लग्न पश्यति चेत्सद्यो येषाऽथ दोषराशत॥ थ°।” ↩︎ ↩︎

  89. “क. °न्तिगार्ग्याः ।” ↩︎ ↩︎

  90. “क. ख. करयम् ।” ↩︎ ↩︎

  91. " श्लोकश्यं कपस्पकादन्यत्र नास्ति ।" ↩︎ ↩︎

  92. “क. °नामशुभम्° ।” ↩︎ ↩︎

  93. “ख. °स्तौसुभि° ।” ↩︎ ↩︎

  94. “क. ख °षसंस्थे । " ↩︎ ↩︎

  95. “ख. मूल्पापंच ।घ. मूलयाम्यंच ।” ↩︎ ↩︎

  96. “ख. घ. °मपना° ।” ↩︎ ↩︎

  97. “ख. °पप्लुते ।” ↩︎ ↩︎

  98. “घ. °त्रिमुखेते ।” ↩︎ ↩︎

  99. “क. °प्यातुरेष्ट° । ख. ° श्चायाविवृ° ।” ↩︎ ↩︎

  100. “सर्वग्रासेतु सप्तग्रहमश्चैमासेदिनत्रयम्। शिबिरफाल्गुणमासदिनमेक तु वर्जयेत्। घ. पुस्तके।” ↩︎ ↩︎

  101. “क. मवान्° ।” ↩︎ ↩︎

  102. “घ. °मान्नमित्तै, पु° ।” ↩︎ ↩︎

  103. “क. घ. °न्मण्डलव°।” ↩︎ ↩︎

  104. “क°र्वणग्रह°। ख. प्रेग्रहण ।” ↩︎ ↩︎

  105. “क. ख. कर्कादिगो ।” ↩︎ ↩︎

  106. “ख. °समम्° । घ. °सप्तम्° ।” ↩︎ ↩︎

  107. “घ. धनस्य ग्रवादिन° ।” ↩︎ ↩︎

  108. “घ. सभक्ष्यम°।” ↩︎ ↩︎

  109. “इतो द्वादश श्लोकान् सपुस्तकादन्यत्र भवन्ति।” ↩︎ ↩︎

  110. “घ. पुस्तके नाथं श्लोकः ।” ↩︎ ↩︎

  111. “क. °त्रौदाना° ।” ↩︎ ↩︎

  112. “घ.विष्णुपद्या तौ°।” ↩︎ ↩︎

  113. “पद्यमिदं चतुर्थचरणष्यव्यासेनपूर्वमुक्तम्(श्लो. ३८ ↩︎ ↩︎

  114. “ए. ग्रहः वसं° । घ. ग्रहः वसं°।” ↩︎ ↩︎

  115. “क.°तार्दिताऽस्य बिम्ब।” ↩︎ ↩︎

  116. “क. °तैर्थजे° ।” ↩︎ ↩︎

  117. “ख. घ. शार्ङ्गधरः।” ↩︎ ↩︎

  118. “क. °वादेध°।” ↩︎ ↩︎

  119. “ख, घ. °यः। रानमालायां - जन्म°।” ↩︎ ↩︎

  120. “ख. घ. °मिव प्रा° ।” ↩︎ ↩︎

  121. “इतः परं त्रयोदशश्लोकपर्यन्त ग्रन्थो घ. पुस्तके नाऽस्ति ।” ↩︎ ↩︎

  122. “घ. °थार्थेन साम्येऽर्केण वि°।” ↩︎ ↩︎

  123. “क. °र्यभटो° ।” ↩︎ ↩︎

  124. “क. °द्धानिपदानि स°” ↩︎ ↩︎

  125. “ख. °र्वोऽप्यथः क्रमात् । ग. °र्वो पजन्मनः ।” ↩︎ ↩︎

  126. “घ. प्रवर्तते ।” ↩︎ ↩︎

  127. “क.° र्यत्र वयः प्रमाणम् ।” ↩︎ ↩︎

  128. “क. ‘क्षितं’ चात्र पुत्रजम्।” ↩︎ ↩︎

  129. “ख. घ. स्यपिण्गुह° ।” ↩︎ ↩︎

  130. “क. नेषुपु°।” ↩︎ ↩︎

  131. “क. रिपीजिनाम्।” ↩︎ ↩︎

  132. “श्लोकद्वयंखघपुस्तक्योर्नास्ति।” ↩︎ ↩︎

  133. “घ. विष्टिय° ।” ↩︎ ↩︎

  134. “ख. °इष्टेर्केद्विजम्°” ↩︎ ↩︎

  135. “क. °ग्नेऽन्त्वनै° ।” ↩︎ ↩︎

  136. “घ. °वरेस्तीषु ।” ↩︎ ↩︎

  137. “क. घ. °न्दोलितापे°।” ↩︎ ↩︎

  138. “पद्यमिद पपुस्तके ।” ↩︎ ↩︎

  139. “*मासे षष्ठे सप्तमेवाऽष्टमेवा बेध्यौ वर्णौ द्वादशे षोडशे वा। मध्येनाह्व पूर्वभागे न रात्रौनक्षत्रे [च ] द्वे तिथी वर्जनीये॥घपुस्तके।” ↩︎ ↩︎

  140. “क. ०घ्ने पुण्योर्ज०।” ↩︎ ↩︎

  141. “ख. घ. मोश्च कु°।” ↩︎ ↩︎

  142. “क. केन्द्रेषु शु°।” ↩︎ ↩︎

  143. “क. ख. रमन्नं न कु°।” ↩︎ ↩︎

  144. “ख. घ. °त्राच्युते°।” ↩︎ ↩︎

  145. “घपुस्तक इदमधिकम्। विष्णु-षष्ठे तु धनकामस्य विद्याकामस्य सप्तमे। अष्टमे सर्वकामस्य नवमे कान्तिमिच्छतः॥ मनुः—ब्रह्मवर्चसकामस्य कार्यं विप्रस्य पञ्चमे। सप्तमे चाष्टमे वर्षे नवमे दशमे तथा। एकादशे द्वादशे वा ह्युपनेया द्विजातयः।बह्मवर्चसमायुष्यं तेजोपायं तथैन्द्रियम्। पशून्कामयमाना वै प्राप्नुवन्ति यथाक्रमम्।” ↩︎ ↩︎

  146. “क. °वात चैव षो°।” ↩︎ ↩︎

  147. “क. ॰सहोवृ॰।” ↩︎ ↩︎

  148. “क. चारवि॰।” ↩︎ ↩︎

  149. “घ. ॰हौ वृत्तवित्तवि॰।” ↩︎ ↩︎

  150. “ख. ग. ॰वेभानौ।” ↩︎ ↩︎

  151. “ख. तस्मात्संग्रहयु॰।” ↩︎ ↩︎

  152. “क. ख. ॰स्मिन्दिनेवा॰।” ↩︎ ↩︎

  153. “घ. ‘युःक्षेयम॰।” ↩︎ ↩︎

  154. “क. घ. गणेद्धी॰।” ↩︎ ↩︎

  155. “क. द्व्यार्थेभि॰।” ↩︎ ↩︎

  156. “घ. साश्वेत॰।” ↩︎ ↩︎

  157. “घ. ॰मित्रः क्वीञ्चव॰।” ↩︎ ↩︎

  158. “घ. ॰वर्णिजी॰।” ↩︎ ↩︎

  159. “क. ॰स्वनूष॰।” ↩︎ ↩︎

  160. “घ. वैन्याश्वयाश्च।” ↩︎ ↩︎

  161. “क. ॰र्नीचय॰।” ↩︎ ↩︎

  162. “घ. ॰नानुशौ॰।” ↩︎ ↩︎

  163. “घ. निश्छन्दो।” ↩︎ ↩︎

  164. “घ. ॰रीषष्ठी।” ↩︎ ↩︎

  165. “क. ग. वर्णकौ।” ↩︎ ↩︎

  166. “क. चंद्रतरा॰।” ↩︎ ↩︎

  167. “त्रिधविषयम्। वसिष्ठः—आद्येकनाडी कुरुते वियोगं मध्यैकनाडी उभयोर्विनाशम्। च दारिद्द्र्यवतीच दुखं तस्मिंश्च तिस्रःपरिवर्जनीयाः। नाडी कूटे कन्यकाकण्डसूत्रं यस्मिन्नक्षैः पीडितैः पूर्वमेव। मध्या वर्ज्याः सर्वदेशेषु कश्चित्पार्श्वा ग्राह्य गोतमीषाम्यभागे। अथ मुख्य॰ ॰पुस्तक इदमधिकम्॰।” ↩︎ ↩︎

  168. “घ. सिंहाश्वस॰।” ↩︎ ↩︎

  169. “१ . घ. °हे विषुपास्य°” ↩︎ ↩︎

  170. “क. घ. °था दृक्काण° ।” ↩︎ ↩︎

  171. “क. घ.°ये। दृक्कणे° ।” ↩︎ ↩︎

  172. “क. °सुधारतनी ।” ↩︎ ↩︎

  173. “क. द्विचन्द्रिसू° ।” ↩︎ ↩︎

  174. “क. अतः रत्राव ।” ↩︎ ↩︎

  175. “ग. घ. °येद्धरि° ।” ↩︎ ↩︎

  176. “क.°दा यस्त° ।” ↩︎ ↩︎

  177. “क. °पयह°। " ↩︎ ↩︎

  178. “ख. प. °शिसः प्र°” ↩︎ ↩︎

  179. “ख. घ.यःप्रश्नेम°।” ↩︎ ↩︎

  180. “घ. यंत्रेश°।” ↩︎ ↩︎

  181. “घ. अष्टम°।” ↩︎ ↩︎

  182. “घ. रोचितिच्च°।” ↩︎ ↩︎

  183. “घ. °ञ्चनभ°।” ↩︎ ↩︎

  184. “°रंजनुदर्शणव. क्ष° ।” ↩︎ ↩︎

  185. “क. °ष्टिः सन्मासता।” ↩︎ ↩︎

  186. “घ. ख. व. °प्तानामध्यमं° ।” ↩︎ ↩︎

  187. “क. लघ्ववधि° ।” ↩︎ ↩︎

  188. “व. °श ॥३७ ॥ अथहस्तलक्षणं-ग्र° ।” ↩︎ ↩︎

  189. “घ. °लंगृहाय ।” ↩︎ ↩︎

  190. “क. °क्रहृते ।” ↩︎ ↩︎

  191. “घ.°द्गृहोच्छ्रायः ।” ↩︎ ↩︎

  192. “घ. वद्खत्रिंश ।” ↩︎ ↩︎

  193. “क. °तः क्रमात्।भी° ।” ↩︎ ↩︎

  194. “दृग्योगं स्वोच्चभ्” ↩︎ ↩︎

  195. “१. घ. त्कार्येषु निक्षि।” ↩︎ ↩︎

  196. “क. न्मफले विलग्ने।” ↩︎ ↩︎

  197. “श्लोकोऽयं ख. प पुस्तकयोर्नास्ति” ↩︎ ↩︎

  198. “क. ‘त्र्ययुद्धह’” ↩︎ ↩︎

  199. “क. ‘र्कदलं’” ↩︎ ↩︎

  200. “घ. ‘माद्भ्रगु’” ↩︎ ↩︎

  201. “ख. ध. खला। वा’ ।” ↩︎ ↩︎

  202. “ख. तत्त्यजेज्जन्मल।” ↩︎ ↩︎

  203. “ध ‘न्मपतिर्लग्ने’।” ↩︎ ↩︎

  204. “क. ‘ग्ने यदोदयः’” ↩︎ ↩︎

  205. “ख. विशेषकृ।” ↩︎ ↩︎

  206. “घ. ‘तः षष्ठो नि’।” ↩︎ ↩︎

  207. “व. ‘तः षष्ठो नि’ ।” ↩︎ ↩︎

  208. “ख. प. तुखपत्रिकोपारिष्णोमकामसुखमस्ति।” ↩︎ ↩︎

  209. “क. ख. संपृक्त।” ↩︎ ↩︎

  210. “घ. ‘वो जयश्री’ ।” ↩︎ ↩︎

  211. “घ. तव्य व्य।” ↩︎ ↩︎

  212. “घ. चातियो।” ↩︎ ↩︎

  213. “घ. गातियो।” ↩︎ ↩︎

  214. “ध. ‘ध्र श्चेन्दु’।” ↩︎ ↩︎

  215. “घ द्रा ॥ ४५ ॥ वरानवा ।” ↩︎ ↩︎

  216. “* श्लोकद्वयं घपुस्तकं नास्ति।” ↩︎ ↩︎

  217. “+ इतः परं नव श्लोका वपुस्तके न सन्ति।” ↩︎ ↩︎

  218. “क. ‘ष्ठहृद’ ।” ↩︎ ↩︎

  219. “क. ‘ये स्थित’ ।” ↩︎ ↩︎

  220. “ख. ‘योर्याप्य’ ।” ↩︎ ↩︎

  221. “प. जप्त्वादि।” ↩︎ ↩︎

  222. “ग. ‘भिधानवि’।” ↩︎ ↩︎

  223. “ग. ‘म्। सुस्वि’ ।” ↩︎ ↩︎

  224. “°षः शीकरो° ।” ↩︎ ↩︎

  225. “क. पञ्चश°।” ↩︎ ↩︎

  226. “* मपुस्तकेऽधिकोऽयं श्लोकः—तेजोवृद्धिक्षेमवृद्धिदग्वाज्ञाताकारामुश्मत्रादृढाच। आचन्द्रार्क स्थापना स्यान्निनान्त सूर्यदीना वासरेषु प्रतिष्ठा।” ↩︎ ↩︎

  227. “१. . क. कुजार्कदिवसौप°।” ↩︎ ↩︎

  228. “घ. °सा नवांशाः।” ↩︎ ↩︎

  229. “घ. प्तं कुदि°।” ↩︎ ↩︎

  230. “श्लोकत्रयं कपुस्तकएव।” ↩︎ ↩︎

  231. “क. रवौ सु°।” ↩︎ ↩︎

  232. “क. शास्ता।” ↩︎ ↩︎

  233. “क. श्विमूर्धेसु°।” ↩︎ ↩︎

  234. “१. क. ख. पुष्याणि°।” ↩︎ ↩︎

  235. “प. ‘र्मुष्टिःः श°।” ↩︎ ↩︎

  236. “प. °राग्रे र्श्वे।” ↩︎ ↩︎

  237. “क. र्थभूत°।” ↩︎ ↩︎

  238. “घ. °ष्टैर्न शरगीकृ°” ↩︎ ↩︎

  239. “क. °लर्चाय° ।” ↩︎ ↩︎

  240. " °धेयम्धुनां। " ↩︎ ↩︎

  241. “घ. पूर्ण°।” ↩︎ ↩︎

  242. “घ. दीपप्रदीपनपुंसाह°।” ↩︎ ↩︎

  243. “क.भाषाष्विमानके। प, भाषाश्विमा।” ↩︎ ↩︎

  244. “१. क. जलजेश्वे।” ↩︎ ↩︎

  245. “२.क. सादैव।” ↩︎ ↩︎

  246. “३.ख. गोमूत्रं द।” ↩︎ ↩︎

  247. “* इतःपरं पक्षीजवनकलकथनात्पूर्वग्रन्थःस्वपुस्तकेनास्ति।” ↩︎ ↩︎

  248. “१. प. स्थानलाभो ललाटके॥१॥ क.।” ↩︎ ↩︎

  249. “२. क.व्यञ्जना।” ↩︎ ↩︎

  250. “घनुश्चितग्रन्थोऽयं सपुस्तकस्थः” ↩︎ ↩︎

  251. “१. क. ‘न्द्रेऽनुप’।” ↩︎ ↩︎

  252. “१. क.. ‘मी आपातेच’।” ↩︎ ↩︎

  253. " २. क. ज्ञतवो” ↩︎ ↩︎

  254. “३. घ. क्ताप्ताषु।” ↩︎ ↩︎

  255. “१. क. ‘शोषाद’।” ↩︎ ↩︎

  256. “घ नि. ॥ ३॥ स्वभेस्थि” ↩︎ ↩︎

  257. “ख. ‘नेसूर्यच ।” ↩︎ ↩︎

  258. “क. निनागोम” ↩︎ ↩︎

  259. “य. स्वपतीताद्यै” ↩︎ ↩︎

  260. “क . णस्थस्तृ।” ↩︎ ↩︎

  261. “घ. तादिपुनि” ↩︎ ↩︎

  262. “घ त् ॥ ५ ॥ जटराद्दद्रुरो” ↩︎ ↩︎

  263. “घ शुभेर्दृष्टी।” ↩︎ ↩︎

  264. “घ. लान्तफलनानारी ।” ↩︎ ↩︎

  265. “क. ‘नेलग्नप’ ।” ↩︎ ↩︎

  266. “घ. ननिवृ” ↩︎ ↩︎

  267. “१. क. ऐनयः।” ↩︎ ↩︎

  268. “१. क. कितुगुः।” ↩︎ ↩︎

  269. " १. क. प्तपोधा।” ↩︎ ↩︎

  270. “घ °त्युयोगेक्षत°” ↩︎ ↩︎

  271. “१.घ. संश्रयः।” ↩︎ ↩︎

  272. “२. घ. ‘भप्तेज्ये’।” ↩︎ ↩︎

  273. “३. घ. नृपजार्का।” ↩︎ ↩︎

  274. " क. विङ्वरम्।” ↩︎ ↩︎

  275. “ख. त् ॥ २ ॥ खण्डेऽग्निमा । य त् ॥ २ ॥ खण्डेऽपिभाखण्डेयामे ।” ↩︎ ↩︎

  276. “१. क. ‘बुयुसच’।” ↩︎ ↩︎

  277. “१. क. दि मेदिनी ।” ↩︎ ↩︎

  278. “२. क. स्य कोविदः।” ↩︎ ↩︎

  279. “३. क. ‘देशं चयः कुर्याज्जयी ।” ↩︎ ↩︎

  280. “१. घ. जउठ।” ↩︎ ↩︎

  281. “२. ख. ध. गतत।” ↩︎ ↩︎

  282. “३. ख. के ॥ ५॥ आतकवलः।” ↩︎ ↩︎

  283. “४. व. चटवलः।” ↩︎ ↩︎

  284. “जयचयार्यो उदयान्नेस्व।” ↩︎ ↩︎

  285. “५. क. श्चहनं। " ↩︎ ↩︎

  286. “६. ख.मेसंस्कृतो।” ↩︎ ↩︎

  287. “७. घ. ङ्गोद्रमे ।” ↩︎ ↩︎

  288. “८. क. घ. त्युर्दनि।” ↩︎ ↩︎

  289. “पृच्छविपृच्छकः स्थास्नुस्वरस्य, स्तमितांदिशम् । इतिजयचर्या ।” ↩︎ ↩︎

  290. “योधयोः सर्वभेदे क्येस्वायूनिकुमारको यायीजर्यातथास्थायीबालवृद्धान्तिमस्वरे। इतिजयचर्यायाम्।” ↩︎ ↩︎

  291. “श्लोकोऽयं क्व पुस्तकं एवं नान्यत्र। मुद्रितजयचर्यापुस्तके तु नेदंपद्यम्।” ↩︎ ↩︎

  292. “एकत्रकनामादिक नोपदग्धं किन्तु पथास्यातं तत्सग्थापितं शोधकैः सुक्ष्यदंशिभिर्पथादधमतगन्तव्यम्।” ↩︎ ↩︎

  293. “जीवपक्षे क्षपानाथे मृतपक्षे खोत्थातस्मिन्काले शुभा यात्रा विपरीता तु हस्तिदा ॥ इति जयचर्यायाम्।” ↩︎ ↩︎

  294. “१. क. " ↩︎ ↩︎

  295. “१. घ.न्द्राद्युद्गेऽमीज।” ↩︎ ↩︎

  296. “जयचर्यायां- कविचक्रं लिखेद्भुवि। प्रवेशनिर्गमे भानि स्था।” ↩︎ ↩︎

  297. “त्रीणित्रीणि प्रवेशे च ईशादौ विदिशि क्रमात्। निर्गमे च चतुष्कं च पूर्वाशादिक्रमेण च । ईशादौ वाह्यते मध्यं मध्याद्वाह्य तु पूर्वतः। प्रवेशो वाह्यतः कोणे मध्यद्दिक्षु विपर्ययः॥ इति जयचर्यायाम्।” ↩︎ ↩︎

  298. “२. घ. र्यथाच्चन्द्रमा गर्भेस्था।” ↩︎ ↩︎

  299. “१. क. ख. घ. त्रैकपादयोर्योगा ।” ↩︎ ↩︎

  300. “२. क. कर्णाग्रहेरचा ख. कर्णाग्रेहरचापानाने।” ↩︎ ↩︎

  301. “१. ख. घ. टोणीअङ्गुल्यौ द्वेष।” ↩︎ ↩︎

  302. “२. क. विजयः ख. घ. विजया।” ↩︎ ↩︎

  303. “१. क. रश्मि।” ↩︎ ↩︎

  304. “१. ख. प. पूर्णाराज्ञे।” ↩︎ ↩︎

  305. “२. घ. ने स्वराः।” ↩︎ ↩︎

  306. “३. प. के तस्य ।” ↩︎ ↩︎

  307. “१. घ. ‘मिता नारयनो वदेत् ।” ↩︎ ↩︎

  308. “अस्योत्तरार्धोन दृश्यते । " ↩︎ ↩︎

  309. “चम्पूग्रन्थे–उत्फुल्लगलैरालापः क्रियते दुर्मुसेर्मुहुः । जानाति हि पुनः सम्यक् कविरेव कवेःश्रमम् । इदपद्यं स्वधपुस्तक्योः ।” ↩︎ ↩︎

  310. “१. क. दोस्थ्यव।” ↩︎ ↩︎

  311. “१. व. नि ३७०। २६।२६।” ↩︎ ↩︎

  312. “२. घ. ने ४१६० ।” ↩︎ ↩︎

  313. “३. घ. श्यकं प्रिखिरं पो।” ↩︎ ↩︎

  314. “धनुचिह्न तग्रन्थो ग पुस्तकस्थः ।” ↩︎ ↩︎

  315. “य. दिशा नि” ↩︎ ↩︎

  316. “१. घ. सोमवारस्य।” ↩︎ ↩︎

  317. " धनुचिह्नितग्रन्थो घ. पुस्तकस्थः ।” ↩︎ ↩︎

  318. “१. ख. कालतिथिर्वेधषघ. कालतिथेर्दैवेष ।” ↩︎ ↩︎

  319. “धनुश्चिह्नितग्रन्थो घ.पुस्तकस्थः ।” ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  320. “धनुश्चिह्नितग्रन्थो ख. घ. पुस्तक्रस्थः ।” ↩︎ ↩︎

  321. “१. घ.” ↩︎ ↩︎

  322. “* धनुश्चिह्नितग्रन्थोघ. पुस्तकस्थः ।” ↩︎ ↩︎

  323. “धनुश्चिदितग्रन्थो म. पुस्तके।” ↩︎ ↩︎