सूर्यसिद्धान्तः

[[सूर्यसिद्धान्तः Source: EB]]

[

SURYASIDDHANT

(Under the Project of content Generation with a view to develop E-Databank,

E-Learning and E-Sources of Sanskrit Text.)

Chief Director

Prof. Radha Vallabh Tripathi

Vice Chancellor

Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,

National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)

Principal Investigator

Prof. Sarva Narayan Jha

Department Of Jyotish

Rashtriya Sanskrit Sansthan,

(Deemed University)

Lucknow Campus, Lucknow

सूर्यसिद्धान्त

सम्पादकः
प्रो. सर्वनारायण झा

प्राक्कथनम्
श्री गणेशाय नमः

अथेदं जगत्प्रसिद्धं वर्तते यत् खगोलविज्ञानस्य विकासे प्राक्काले भारतवर्षस्य महत्त्वपूर्णमवदानं बभूव। भारतीयाः सम्पूर्णमपि विश्वं सिद्धान्तज्योतिषं पेठुरित्यत्र नास्ति सन्देहस्यावसरः। ज्योतिषशा-स्त्रमिदं सम्पूर्णं विज्ञानमिति दृष्ट्या अस्य स्थानं वेदाङ्गेषु ददुः। यद्यपि वेदाङ्गज्योतिषनाम्ना लगधप्रणीतो यो ग्रन्थोऽद्यत्वे प्राप्यते तस्मिन् वर्णिता विषया न तथा महत्त्वपूर्णा यथा तस्य स्थानं वर्तते। तत्र केचन एव सिद्धान्तःकथयांचक्रिरे। इतोऽधिका विषयास्तु वेदादिषु अन्यस्मिन् प्रसड्गे वर्णिता दृश्यन्ते। तथापि षडङ्गो वेदोऽध्येय इति श्रद्धया वेदपाठिनो वेदाङ्गज्योतिषस्यैव पाठं कुर्वन्ति। सन्दर्भेऽस्मिन् विदुषामभिमतं यत् पाठं कर्तुं सौविध्यमभिलक्ष्यास्य ग्रन्थस्य समासेन रचना चक्रे। अस्यापि ग्रन्थस्य समावेश आचार्यपरम्पराया ग्रन्थेषु विद्यते। अस्यां परम्परायां आर्यभट- (आर्यभटीयस्य रचयिता), लाभदेव- (रोमकपौलिशसिद्धान्तयोः रचयिता), वराहमिहिर-ब्रह्मगुप्त-लल्ल -मुञ्जाल-श्रीपति-भास्करद्वितीयप्रभृतीनामाचार्याणां ग्रन्थास्समायान्ति।

आर्षपरम्परायां तु सूर्यः पितामहो व्यासो वशिष्ठोऽत्रिः पराशरः। कश्यपो नारदो गर्गो मरीचिर्मनुरड्ङ्गिराः॥लोमशः पौलिशश्चैव च्यवनो यवनो भृगुः। शौनकोऽष्टादशाश्चैते ज्योतिः शास्त्र-प्रवर्त्तकाः॥ इत्येते शास्त्रप्रवर्त्तकाचार्यास्सन्ति। तत्र सर्वप्रथमः सूर्यः। वस्तुतो वास्तविक इतिहासस्तु सूर्यसिद्धान्तादेव प्रारब्धः। सूर्यसिद्धान्तः सर्वाधिकः प्रामाणिको लोकप्रियश्चवर्तते। प्रायःसर्वेषु महाविद्यालयेषु विश्वविद्यालयेषु चायं ग्रन्थः ज्योतिषविषयस्य पाठ्यक्रमेऽद्यापि पाठ्यते।

प्राचीनकाले भारतीयाः संस्कृतज्ञा विद्वांसो ज्योतिषस्य (ग्रहगणितस्य) अध्ययनाध्यापनानुसन्धाने यथा सर्वतोऽग्रे वभूव न तथा सम्प्रति। प्राचीनभारतीयसंस्कृतविदुषः खगोलविज्ञानसन्दर्भे यद् गौर-वास्पदं स्थानमासीत् तस्य परिकल्पनमपि न कर्तुं शक्यतेऽद्य। वस्तुतो भारतीयं खगोृलविज्ञानमद्या-पि प्रासङ्गिकं विद्यते। तत्र वर्णिताः सिद्धान्ताःअद्यापि प्रयोगसिद्धास्सन्ति। कालान्तरत्वात् संशोधन-मपेक्षत इति श्रूयते। सूर्यसिद्धान्तद्वारा गणितसाधनस्य परम्परा लुप्तैव प्रतिभाति। अद्यतनपरिप्रेक्ष्ये सूर्यसिद्धान्तस्य गणितं दृक्सिद्धं भवति न वेति केवलं श्रूयते। न कश्चिदपि ज्योतिर्विद् गणितं कृत्वा प्रदर्शयति। सर्वत्र सूत्रस्योपपत्तिः पाठ्यते। गणितस्याध्यापनं न क्रियते। गणितं विनोपपत्तिर्वाग्विलास एवास्तीति प्रतिभाति। यद्यपि सिद्धान्तस्य ह्रासोजातस्तथाप्युपपत्तिज्ञानन्त्वद्यापि बहूनां विदुषां वर्तते। किन्तु ये विद्वांस उपपत्तिं जानन्ति तेष्वपि कथञ्चित् केषाञ्चिदेव प्रायोगिकस्य गणितस्य ज्ञानं विद्यते।

इत्यत्र हेतुः कः ? अद्यत्वे ये संस्कृतं जानन्ति तेषां गणिते तथा प्रवेशो नास्ति। येषां गणिते प्रवेशस्ते संस्कृतं न जानन्ति। यद्यप्यस्य ग्रन्थस्याङ्ग्लभाषायामनुवादः प्राप्यते किन्त्वनुवादोऽपि वस्तुतोऽनु-वाद एव। तथाप्याधुनिक युगे आङ्ग्लभाषामाध्यमेनैतादृशस्य कठिनसिद्धान्तस्य प्रचारं प्रसारं च कर्तुं धन्यवादमर्हन्ति सर विलियम जोन्स, कोलब्रूक, बेल्ली, प्लेफेयर बेन्टली, वर्नाड, थिबोट्वर्जेस, विट्ने, वेबर महाशयाः प्रभृतयः। अस्य ग्रन्थस्य ई संस्करणं कर्तुं नैकेषां विदुषां सम्पादनमदर्शम्। तत्र गूढार्थप्रकाशिका, सौरवासना, सुधावर्षिणी, तत्त्वामृतटीका, विज्ञानभाष्यम्, ई. वर्जेश महोदयस्य आङ्ग्लानुवादः वापूदेवशास्त्रिथिबोटमहोदययोश्चाङ्ग्लानुवादः प्रामुख्यं भजते। एतदतिरिक्तं वराहमिहिरस्य पञ्चसिद्धान्तिकास्थं सूर्यसिद्धान्तमप्यदर्शम्। डा. सुधीकान्त भारद्वाज महोदयस्य Astro Linguistic Study नामक संस्करणमपि दृष्टवान्। उपरिलिखितं सर्वमपि संस्करणं प्रपश्य मनसि संकल्पो जातो यदस्य सिद्धान्तस्य गूढार्थप्रकाशिकया टीकया सह गणितप्रयोगस्यापि ई बुक रूपे प्रकाशनं भवतु। इदानीं प्रथमचरणे गूढार्थप्रकाशिकया टीकया सह मूलस्य प्रकाशनं क्रियते। अवसरं प्राप्य पश्चादुदाहरणस्यापि प्रकाशनं करिष्यते।
अस्याः परियोजनाया मुख्यनिदेशकाः राष्ट्रियसंस्कृतसंस्थानस्य विद्वांसः कुलपतयो माननीयाः प्रो. राधावल्लभत्रिपाठिमहाशया न केवलं पदेन मुख्यनिदेशकाः अपितु कर्मणा परियोजनाया मुख्यनि-देशकेन सह प्रधानसम्पादकस्यापि दायित्त्वं निर्वहन्ति। श्रीमन्तः त्रिपाठिमहाशयाः सम्बद्धकार्यशा-लायामाध्यक्ष्यं निर्वहन्तः किं वा प्रसंगवशाच्चर्चायाः क्रमे न केवलमुत्साहमवर्धिषतापितु अपेक्षितं मार्गदर्शनमप्यकार्षुः। अतस्ते सम्मानं, श्रद्धां धन्यवादञ्चार्हन्तीति सश्रद्धं सविनयं प्रणामं विहाय कि-मन्यत्समर्पयितुं क्षमः। परियोजनायाः सञ्चालने श्रद्धेया डा. शुक्ला मुखर्जी महाशया सर्वदैव साहा-य्यमाचरितवतीति नूनमेव सा धन्यवादार्हा। निदेशकत्वेन स्थानीयपरिसरस्य प्राचार्याः श्रीमन्तः एन्. आर. कण्णन् महाशयाः सर्वविधसौविध्येनास्माकं साहाय्यमाचरितवन्त इति तान् सादरं प्रणमामि। अन्ये च गुरुकल्पाःविद्वांसः येषां ग्रन्थानधीत्य कार्यमिदं पूर्णतां याति तेभ्यः सर्वेभ्योऽसकृत् प्रणामाः। संस्थानस्यान्येषामधिकारिणां पुरतः येषां प्रत्यक्षं परोक्षं वा साहाय्यं परियोजनायां वर्तते सादर सविनयं कार्त्तग्ज्ञं निर्वहामि।

विनयावनतः

सर्वनारायण झा

सूर्यसिद्धान्तः

मध्यमाधिकारः - 1

मङ्गलाचरणम्

अचिन्त्याव्यक्तरूपाय निर्गुणाय गुणात्मने।

समस्तजगदाधार-मूर्तये ब्रह्मणे नमः ॥1॥

गूढार्थप्रकाशिका—

यत् स्मृत्याभीष्टकार्यस्य निर्विघ्नांसिद्धिमेष्यति।

नरस्तं बुद्धिदं वन्दे वक्रतुण्डं शिवोद्भवम्॥1॥

पितरौ गोणिवल्लालौजयतोऽम्बाशिवात्मकौ।

याभ्यां पंचसुता जाता ज्योतिःसंसारहेतवः ॥2॥

सार्वभौमजहाँगीरविश्वासास्पदभाषणम्।
यस्य तं भ्रातरं कृष्णं बुधं वन्दे जगद्गुरुम् ॥3॥

नानाग्रन्थान् समालोच्य सूर्यसिद्धान्तटिप्पणम्।

करोमि रङ्गनाथोऽहं तद्रूढाथर्प्रकाशकम्॥4॥

अथ ग्रहादिचरितजिज्ञासून् मुनींस्तत्प्रश्नकारकान् प्रति स्वविदितं यथातत्त्वं सूर्यांशपुरुषमयासुरसं-वादं वक्तुकामः कश्चिदृषिः प्रथममारम्भणीयतत्कथननिर्विध्नसमाप्त्यर्थं कृतं ब्रह्मप्रणाममङ्गलं शिष्य-शिक्षायै निबध्नाति। ब्रह्मणे बृहत्वादपरिच्छिन्नत्वाज्जगद्व्यापकाय ईश्वराय तस्मात् वा एतस्मादात्मन आकाशः सम्भूत इत्यादि श्रुतिप्रतिपाद्यायेत्यर्थः। नमः कायवाक् चेष्टोपपलक्षितेन मानसेन्द्रियबुद्धवि-शेषेण मत्तस्त्वमुत्कृष्टस्त्वत्तोऽहमपकृष्ट इत्यादिरूपेण नतोऽस्मीत्यर्थः। ननु व्यापकत्वेनाकाशस्यैव सिद्धिरत आह। समस्तजगदाधारमूर्तय इति। समस्तस्य स्थावरजङ्गमात्मकस्य जगत उत्पत्तिस्थिति-विनाशवत् आधारा आश्रयभूता ब्रह्मविष्णुशिवरूपा मूर्तयः स्वरूपाणि यस्य तस्मै ब्रह्मविष्णुशिवात्म-कायेत्यर्थः। आकाशस्य तदात्मकत्वाभावान्न सिद्धिरिति भावः। नन्वेतादृशस्य स्वरूपध्यानं कर्तुं स-मुचितमित्यत आह। अचिन्त्याव्यक्तरूपायेति। अचिन्त्यश्चासावव्यक्तरूपस्तस्मै। अचिन्त्यो ध्याना-विषयः। अत्र हेतुरव्यक्तरूपः। न व्यक्तं प्रकटं रूपं स्वरूपं तथा च स्वरूपध्यानासम्भवान्नमस्कार एव समुचित इति भावः। नन्वव्यक्तरूपः कथमित्यत आह। निर्गुणायेति। निर्गता गुणाः सत्वरजस्त-मोरूपा यस्मात् तस्मै गुणातीतायेत्यर्थः। तथा च गुणात्मकस्य व्यक्तरूपत्वेनायं तदभावादव्यक्त-रूप इति भावः। नन्वेवमस्यारूपित्वमेव फलितं नाव्यक्तरूपित्वमित्यत आह। गुणात्मन इति। गुणा नित्यज्ञानसुखादय आत्मगुणा आत्मस्वरूपं यस्य तस्मै नित्यज्ञानसुखाय। सत्यं ज्ञानमनन्तं ब्रह्मेति श्रुतेरित्यर्थः। तथा चास्य रूपित्वमसिद्धमिति भावः। साक्षान्निर्गुणाय परम्परया गुणात्मने। कथमन्यथा जगत्कर्तृत्वं सम्भवति। प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः। भूतग्राममिमं कृत्स्नमवशः प्रकृतेर्व-शात् ॥ इति भगवदुक्तेरित्यन्ते ॥1॥

सूर्यसिद्धान्तस्य कालः। मयासुरस्य तपः।
अथ स्वोक्तस्य स्वकल्पितत्वशङ्कावारणाय तत्संवादोपक्रमं विवक्षुः प्रथमं मयासुरेण तपस्तप्तमिति श्लोकाभ्यामाह—

अल्पावशिष्टे तु कृते मयो नाम महासुरः।

रहस्यं परमं पुण्यं जिज्ञासुर्ज्ञानमुत्तमम् ॥2॥

वेदाङ्गमग्य्रमखिलं ज्योतिषां गतिकारणम्।

आराधयन् विवस्वन्तं तपस्तेपे सुदुश्चरम् ॥3॥

मयेति नाम यस्यासौ मयाख्यो महादैत्यः कश्चित्। तपोऽभिमतदेवताप्रीतिकरजपहोमध्यानादिना स्वशरीरादिक्लेशनियमरूपं तेपे कृतवान्। दैत्यानां तपश्चरणं पुराणेषु प्रतिपदं सुप्रसिद्धम्। ननु तत्र तेषां तपश्चरणस्य देवताविशेषमभिमतमुद्दिश्य प्रसिद्धेरनेन कं देवमुद्दिश्य तपस्तप्तमित्यत आह। विवस्वन्तं सवितृमण्डलाधिष्ठातारं नारायणं सेवयन्। ननु दैत्यारिः एनं स्वशत्रुं ज्ञात्वापि कथं स्वाभि-मतसिद्ध्यर्थमारराध। न हि स्वशत्रुतः स्वहितसिद्धिरन्यथा शत्रुत्वव्याघात इत्यतस्तपोविशेषणमाह। सुदुश्चरमिति। सुतरां दुःखैरत्यन्तक्लेशैश्चरितुं कर्तुं शक्यमित्यर्थः। तथा च भक्तजनैकवत्सलतया ता-दृशतपश्चरणसुप्रसन्नो दैत्यानामप्यभिमतं पूरयतीति पुराणेषु शतशःप्रसिद्धम्। अतस्तत्प्रतीत्याराध-यन्निति भावः। ननु पुराणेषु दैत्यानां तपश्चरणोक्तिप्रसंगे क्वचिदप्यस्यानुक्तेस्तत्तपश्चरणं कथं प्रमाणं ज्ञेयमित्यत आह। अल्पावशिष्ट इति। कृते कृताख्ये युगचरणे तुकारात्सन्ध्या सन्ध्यांशसहित इत्यर्थः, तेन सन्ध्यासन्ध्यांशसमेतकेवलकृतरूपाभिमतकृतचरणे। न ग्रन्थान्तरोक्तकेवलकृत इति पर्यवस-न्नम्। अल्पकालेन सन्ध्यांशान्तर्गतेन शेषिते। समाप्त्यासन्नाभिमतकृतयुगे मयासुरेण तपस्तप्तमित्य-र्थः। तथा च साम्प्रतमेव मयासुरेण तपस्तप्तमिति सर्वजनावगतप्रत्यक्षप्रमाणसिद्धं नागमान्तरप्रामा-ण्यमपेक्षत इति भावः। ननु मयासुरेण किमर्थं तपस्तप्तं न हि प्रयोजनमनुद्दिश्य मन्दोऽपि प्रवर्त्तत इत्यतो मयासुरविशेषणमाह। ज्ञायतेऽनेनेति ज्ञानं शास्त्रं ज्ञातुमिच्छुः। तथा न शास्त्रज्ञाननिमित्तं तेन तपस्तस्तमिति भावः। किं तच्छास्त्रमित्यतो ज्ञानविशेषणमाह। ज्योतिषामिति। प्रवहवायुस्थानां ग्रह-नक्षत्राणां गतिकारणम्। ये गत्यर्थास्ते ज्ञानार्था इति गतेः संस्थानचलनमानादिज्ञानस्य कारणं प्रति-पादकं ज्योतिः शास्त्रं जिज्ञासुरिति फलितम्। ननु ज्योतिः शास्त्रज्ञानार्थमयमायासो न युक्तस्तस्य सर्वज्ञेयत्वेनादूरूहत्वादित्यत आह। अखिलमिति। समग्रं ज्योतिः शास्त्रमित्यर्थः। तथा चर्षीणां मानु-षत्वेनैभ्यो मम ज्ञानमखिलं यथार्थं वा न भविष्यतीति दैत्यबुद्धया मत्वा निःशेषज्योतिःशास्त्रस्य दुरू-हस्य विदिततत्त्वं भगवन्तमप्रतारकं सर्वज्ञं महागुरूंसेवयामासेति भावः। ननु तस्यासुरस्य ज्योतिः-शास्त्रप्रवृत्तिर्न युक्ता फलाभावादित्यत आह। वेदाङ्गमिति। वेदस्याङ्गम्। तथाचाटिगनो यत् फलं तदेवागज्योतिः मोक्षरूपफलसद्भावादत्र प्रवृत्तिः युक्तेति भावः। अतएव पुण्यं पुण्यजनकं पुराण-न्यायेत्यादिचतुर्दशविद्यान्तर्गतत्वात्। नन्विदं वेदाङ्गं कुत इत्यत आह। परममिति।
कालोऽयं भगवान् विष्णुरनन्तः परमेश्वरः। तद्वेत्ता पूज्यते सम्यक् पूज्यःकोऽन्यस्ततो मतः। इत्युक्तेः कालप्रतिपादकत्वेनोत्कृष्टमतो वेदाङ्गम्। एतेन पुराणादीनां निरास इति भावः। ननु व्याक-रणादीनां षण्णां वेदाङ्गत्वादस्मिन्नेव प्रवृत्तिः कथमित्यत आह। अग्रमिति। षण्णां वेदाङ्गानां मध्ये श्रेष्ठम्। कुत इत्यत आह। उत्तममिति। मुख्याङ्गं नेत्रमित्यर्थः। तथा च नेत्ररहितस्याकिञ्चत्करत्वादिदं ज्योतिःशास्त्रं वेदाङ्गेषु श्रेष्ठमिति भावः। ननु तथाप्येतस्य ज्ञानार्थमेतावानायासो न युक्त इत्यत आह। रहस्यमिति।

विद्या ह वै ब्राह्मणमाजगाम गोपायमाशेवधिष्टेऽहमस्मि।

असूयकायानृजवेऽयताय न मां ब्रूयादवीर्यवती तथा स्याम्॥

इति श्रुत्युक्तेः गोप्यमित्यर्थः। तथा चास्य शास्त्रस्य अदेयत्वेन निश्चितत्वादनेन तत्प्राप्त्यर्थमेतावानपि आयासः कृत इति भावः॥2-3॥

मयाय ज्योतिषशास्त्रज्ञानप्रदानम्।
ततस्तुष्टोऽर्को मयाय इदं दत्तवानित्याह—

तोषितस्तपसा तेन प्रीतस्तस्मै वरार्थिने।
ग्रहाणां चरितं प्रादान्मयाय सविता स्वयम् ॥4॥

स्वयं स्वतः प्रीतः सुखरूपः। यद्वा शोभनोऽयं प्रत्यक्षः पीतः सन्तुष्टोऽपि सन् सविता सवितृमण्डल-मध्यवर्ती। तेन सुदुश्चरेण तपसाराधनेन तोषितः अत्यन्तं सन्तुष्टः। तस्मै असुराय मयनाम्ने वरार्थिने, वरं स्वाभिमतं ज्योतिःशास्त्रमर्थयते ज्ञातुमिच्छते तस्मै ज्योतिःशास्त्रजिज्ञासवे ग्रहाणां प्रवहवायुस्थग्र-हताराणाम् चरितं ज्ञानं प्रादात् प्रकर्षेण साकल्येन यथार्थतत्त्वे अदात् दत्तवान् ॥4॥
कालाश्रितस्य ग्रहचरितस्य मयाय ज्ञानप्रदानम्।

नन्वयं सूर्यः स्वकार्यार्थं शरणागतमपि स्वशत्रुं प्रति कथमिदमुक्तवानित्यतो मयं प्रति साक्षात् सूर्येणोक्तस्य वचनस्यानुवादार्थमुद्यतः प्रथमं तत्सङ्गतिप्रदर्शकमेतदाह—

विदितस्ते मया भावस्तोषितस्तपसा ह्यहम्।
दद्यां कालाश्रयं ज्ञानं ग्रहाणां चरितं महत् ॥5॥

श्री सूर्य उवाच इति। तेजःसमूहैर्देदीप्यमानोऽर्को मयासुरं प्रत्यवददित्यर्थः। अन्यथा चतुर्थप-ञ्चमश्लोकयोः सङ्गत्यनुपपत्तेः किमुवाचेत्यतस्तद्वचनमनुवदति। हेमायासुर! ते तव भावो मनोरथो ज्योतिः शास्त्रजिज्ञासारूपःमया सूर्येण विदितस्त्वदकथितोऽपि स्वतो ज्ञातः। ततः किं न ह्येतावता मम तत्सिद्धिरत आह। अहमिति। ते इत्यस्यावृत्तेस्ते तुभ्यं ज्ञानं शास्त्रं कालाश्रयं कालप्रधानम् ग्रहा-णां प्रवहवायुस्थानां महदरिमेयं चरितम् माहात्म्यम्। ग्रहस्थितिचलनादिप्रतिपादकं ज्योतिःशास्त्रमि-ति फलितार्थः। अहं सूर्यमण्डलस्थः दद्यां दास्यामि। ननु मां दैत्यं प्रतीदं वाक्यं प्रतारकं भविष्यतीत्य-तः स्वविशेषणमप्रतारणपूर्वकं तत्कथने हेतुभूतमाह। तोषित इति। हि यतस्तपसा त्वत्कृताराधनेन अत्यन्तं सन्तुष्टोऽतो दद्यामित्यर्थः। तथा च त्वत्कर्मवश्येन मया भक्तजनवत्सलतया जातिवैरमुपेक्ष्य अनुकम्पितप्रह्लादवत् त्वमप्रतार्योऽनुकम्पित इतिभावः॥5॥

सूर्यांशपुरुषद्वारा मयायज्ञानप्रदानस्य प्रसङ्गः।

ननु सूर्यस्य सदा जाज्वल्यमानतया तत्सन्निधौ श्रवणकालपर्यन्तं मयःस्थातुं कथं शक्तः कथं वा अनवरतभ्रमस्य तस्य मयसंवादार्थं भ्रमणविच्छेदः सम्भवति। अतो दानासम्भवात् कथं दद्यामित्यु-क्तमित्यतस्तद्वचनान्तरमनुवदति—4

न मे तेजःसहः कश्चिदाख्यातुं नास्ति मे क्षणः।
मदंशः पुरुषोऽयं ते निश्शेषं कथयिष्यति ॥6॥

हेमय! ते तुभ्यमयमग्रस्थः पुरुषो निःशेषं सम्पूर्णज्योतिःशास्त्रं कथयिष्यति। नन्वयं तथ्यं न वदिष्यतीत्यत आह। मदंश इति। मम सूर्यस्यांशः सम्बन्धी मदुत्पन्न इत्यर्थः। तथा च मदनुकम्पितं त्वां अयं तथ्यमेव वदिष्यतीति भावः। एतेनाहं स्वांशद्वारादास्यामीत्यर्थो दद्यामिति पूर्वद्योक्तस्य प्रक-टीकृतः। ननु त्वयैव वक्तव्यमित्यत आह। नेति। कश्चिदपि जीवो मे सूर्यमण्डलस्थस्य तेजः सहस्ते-जो धारको न। तथा च बहुकाल मत्समीपे स्थातुमशक्तस्त्वं कथं मत्तः श्रोष्यसीति भावः। ननु स्वत-पःसामर्थ्येनाहं त्वत्समीपे बहुकालं स्थातुं शक्तस्त्वत्तः श्रोष्यामीत्यत् आह। आख्यातुमिति। मे सूर्यम-ण्डलस्थस्य प्रवहवायुना अनवरतं भ्रमणावसानासम्भवेनैकत्र स्थित्यसम्भवात्। तथा च स्थिरस्य तव बहुकालं मत्सङ्गासम्भवान्मत्तः श्रवणमसम्भावि। न हि त्वमपि मत् स्थानमधिष्ठातुं शक्तो येन मत्तः श्रवणं तव सम्भवति। ईश्वरनियोगाभावादिति भावः॥6॥

सूर्यांशपुरुषमयासुरसंवादः।

अथ सूर्यवचनानुवादमुपसंहरन् सूर्यांशपुरुषमयासुरसंवादोपक्रममाह—

इत्युक्त्वाऽन्तर्दधेदेवः समादिश्यांशमात्मनः।
स पुमान् मयमाहेदं प्रणतं प्राञ्जलिस्थितम् ॥ 7 ॥

देवःसूर्यमण्डलस्थःइति पूर्वोक्तमुक्त्वाकथयित्वा आत्मनः स्वस्यांशमग्रस्थमंशपुरुषं समादिश्य त्वं मयं प्रति सकलं ग्रहमाहात्म्यं कथय इति आज्ञाप्य विनाज्ञां स मयं प्रति कथं कथयेत्। समुच्चया-र्थश्वकारोऽनुसन्धेयः। अन्तर्दधे। अन्तर्द्धानं सूर्यांशपुरुषं मयनेत्रागोचरतां प्राप्तवान्। प्रकृतमाह। स इति। सूर्याज्ञप्तः सूर्यांशपुरुषो मयासुरं प्रति इदं वक्ष्यमाणमवदत्। ननु नापृष्टो वदेदित्युक्तेर्मयसुरा-पृष्टोऽयं कथं मयं प्रति अवदत् इत्यतो मयः विशेषणद्वयमाह। प्रणतं प्राञ्जलिस्थितमिति। प्रकर्षेण भ-क्तिश्रद्धातिशयेन नतं नम्र स्वनमस्कारकारकम्। प्रकृष्टो मानसचेष्टाद्योतको योऽञ्जलिः कराग्रयोः सम्पुटीकरणं तत्र चित्तैकाग्येण अवस्थितम्। एतेन अवनतशिरः करसम्पुटसंयोगः कायिकनमस्कार इति स्पष्टमुक्तम्। तथा च स्वामिन्नहं त्वां नतोऽस्मि मामनुगृहाण इदं कथय इत्युक्तिद्योतकनमस्का-रोक्तेर्मयपृष्टोऽयं मयं प्रति अवददिति भावः॥ 7॥

सूर्यांशपुरुषद्वारा प्रदत्त ज्योतिषशास्त्रज्ञानं सावधानतया श्रोतुं मयं प्रति निर्देशः।
अथ प्रतिज्ञाततत्संवादानुवादे मयं प्रति ज्ञानं वक्तुकामः सूर्यांशपुरुषःसावधानतया मदुक्तं श्रृणु त्वम् इति आह-

श्रृगुष्वैकमनाः पूर्वं यदुक्तं ज्ञानमुत्तमम्।

युगे युगे महर्षीणां स्वयमेव विवस्वता ॥ 8॥

हेमय!एकस्मिन्नेव मनो यस्य असौ अन्यविषयेभ्यो मनः समाहृत्य मदुक्ते मनो ददानस्त्वं तज्ज्यो-तिःशास्त्रं श्रृणुष्व। श्रोत्रद्वारा आत्मनः संयोगेन प्रत्यक्षं कुरु इत्यर्थः। ननु त्वं स्वकल्पितं वदिष्यसि इ-त्यतस्तच्छब्दसम्बन्धमाह। पूर्वमित्यादि। यदुत्तमं नेत्ररूपं ज्ञानं शास्त्र ज्योतिः शास्त्रमित्यर्थः। बहु-कालान्तरेण पूर्वकाले कदेत्यत आह। युगे युगे इति। प्रतिमहायुगे महामुनीनां तान् प्रतीति तात्पर्या-र्थः। सूर्येण स्वयमद्वारकेण साक्षादित्यर्थः। एवकारो तथा त्वां प्रति अहं द्वारं साक्षात् कथनासम्भवात् तथा तान् प्रति अहमन्यो वा द्वारमित्यस्य वारणार्थः, तेषां स्वतपः समाजवशीकृतेश्वराणां तत्प्रसादा-धिगताप्रतिहतेच्छानां सूर्यमण्डलाधिष्ठानसम्भवात्। उक्तम् उपदिष्टम्। तथा च सूर्योक्तं त्वां प्रति क-थ्यते न स्वकल्पितमिति भावः ॥8॥

मयं प्रति प्रदत्तस्य ज्ञानस्य कालभेदकथनम्।

ननु प्रतियुगं सूर्योक्तस्यैक्याभावात् त्वया किं युगीयशास्त्रमुपदिश्यते।अन्यथैकदोक्त्या युगे युगे इत्यस्यानुपपत्तेरित्यत आह—

शास्त्रमाद्यं तदेवेदं यत्पूर्वं प्राह भास्करः।
युगानां परिवर्तेन कालभेदोऽत्र केवलः ॥9॥

इदं मया तुभ्यं वक्ष्यमाणं ज्योतिःशास्त्रं तत् सूर्योक्ताभिन्नत्वेन त्वां प्रति अनुवादो न क्वचित् स्वकल्पनान्तरेणेत्यर्थः। आद्य प्राक्काले सूर्येणोक्तम्। ननु आसन्नयुगीयसूर्योक्तस्यापि पूर्वकालोक्त-स्याद्यत्वसम्भव इत्यतस्तत्पदापेक्षितमाद्यपदवरणरूपमाह। यदिति। शास्त्र सूर्यः पूर्वं प्रथमं यस्मात् पूर्वमनुक्तमित्यर्थः। प्राह प्रकर्षेण विस्तरेण मुनीन् प्रति उक्तवान्। तथा च प्रथमातिरेके कारणाभा-वात् प्रथमस्य विस्तृतत्वाच्चानन्तरोक्तं पूर्वोक्ते गतार्थतया संक्षिप्तमुपेक्ष्य प्रथमयुगीयशास्त्रमुपदि-श्यत इति भावः। ननु तर्हि अनन्तरयुगीयशास्त्राणां सूर्योक्तानां वैयर्थ्यप्रसङ्ग इत्यत आह। युगानामि-ति। महायुगानां परिवर्तेन पुनः पुनरावृत्या अत्र सूर्योक्तशास्त्रेषु कैवलं स्वभिन्नाभावस्तन्मात्रमित्यर्थः। कालभेदःकालकृतमन्तरम्। पूर्वशास्त्रकालादनन्तरशास्त्रकालो भिन्न इत्येषु भेदो न शास्त्रोक्तरी-तिभेद इत्यर्थः। तथा च कालवशेन ग्रहचारे किञ्चिद्वैलक्षण्यं भवतीति युगान्तरे तत्तदन्तरं ग्रहचारेषु प्रसाध्य तत्कालस्थितलोकव्यवहारार्थं शास्त्रान्तरमिव कृपालुरुक्तवानिति नानन्तरशास्त्राणां वैयर्थ्य-म्। एवञ्च मया वर्तमानयुगीयसूर्योक्तशास्त्रसिद्धग्रहचारमङ्गलीकृत्याद्यसूर्योक्तशास्त्र-सिद्धं ग्रहचारं च प्रयोजनाभावादुपेक्ष्य तदुक्तमेव त्वां प्रति उपदिश्यत इतिभावः। एवञ्चयुगमध्येऽप्यवान्तरकाले ग्रहचारेषु अन्तरदर्शने तत्तत्काले तदन्तरं प्रसाध्य ग्रन्थांस्तत्कालवर्तमानाभियुक्ताः कुर्वन्ति। तदिद-मन्तरं पूर्वग्रन्थ बीजमित्यामनन्ति। पूर्वग्रन्थानां लुप्तत्वात् सूर्यर्षिसंवादोऽपीदानीं न दृश्यत इति तद-प्रसिद्धः आगमप्रामाण्याच्च न आशङ्कया ॥9 ॥

कालवर्णनम्।
अथ कालभेद इत्यनेनोपस्थितं कालं प्रथमं निरूपयिषुस्तावत् कालम् विभजते—

लोकानामन्तकृत् कालः कालोऽन्यः कलनात्मकः।
स द्विधा स्थूलसूक्ष्मत्वान्मूर्तश्चामूर्त उच्यते ॥10॥

कालो द्विधा तत्रैकः कालोऽखण्डदण्डायमानः शास्त्रान्तरप्रमाणसिद्धः। लोकानां जीवानामुपल-क्षणादचेतनानामपि अन्तकृद्विनाशकः। यद्यपि कालस्तेषामुत्पत्तिस्थितिकारकस्तथापि विनाशस्या-नन्तत्वात् कालत्वप्रतिपादनाय चान्तकृदित्युक्तम्। अन्तकृदित्यनेनैवोत्पत्तिस्थितिकृदित्युक्तमन्यथा नाशासम्भावात्। अतएव। कालः सृजति भूतानि कालः संहरति प्रजाः। इत्याद्युक्तं ग्रन्थान्तरे। अ-न्यो द्वितीयः कालः खण्डकालः। कलनात्मको ज्ञानविषयस्वरूपः। ज्ञातुं शक्य इत्यर्थः स द्वितीयः क-लनात्मकः कालोऽपि द्विधा। भेदद्वयात्मकः। तदाह। स्थूलसूक्ष्मत्वादिति। महत्वाणुत्वाभ्याम्। मूर्तः। इयत्तावच्छिन्नपरिमाणः अमूर्तस्तद्भिन्नः कालतत्वविदिभः कथ्यते। चकारो हेतुक्रमेण मूर्तामूर्तक्रमा-र्थकः। तेन महान् मूर्तःकालोऽणुरमूर्तः काल इत्यर्थः ॥10॥

कालभेदः। मूर्त्तकालः। अमूर्त्तकालः
अथोक्तं भेदद्वयं स्वरूपेण प्रदर्शयन् प्रथमभेदं प्रतिपादयिषुस्तदवान्तरभेदेषु भेदद्वयमाह—

प्राणादिः कथितो मूर्तस्त्रुट्याद्योऽमूर्तसंज्ञकः।
षडभिःप्राणौर्विनाडी स्यात्तत्षष्टया नाडिका स्मृता॥11॥

प्राणःस्वस्थसुखासीनस्य श्वासोच्छ्वासान्तर्वर्ती कालो दशगुर्वक्षरोच्चार्यमाण आदिर्यस्य एतादृशः प्राणान्तर्गतो मूर्त काल उक्तः। त्रुटिराद्या यस्य एतादृशःकाल एकप्राणान्तर्गतस्त्रुटितत्परादिकोऽमू-र्त्तसंज्ञः।अथामूर्त्तस्यमूर्त्तादिभूतस्य व्यवहारायोग्यत्वेनाप्रधानतयानन्तरोद्दिष्टस्य भेदप्रतिपादनमुपेक्ष्य मूर्त्तकालस्य व्यवहारयोग्यत्वेन प्रधानतया प्रथमोद्दिष्टभेदान् विवक्षुः प्रथमं पलघट्यावाह। षड्भिरि-ति। षट्प्रमाणैरसुभिः पानीयपलं भवति पलानां षष्ट्या घटिकोक्ता कालतत्त्वज्ञैः॥11॥

नाक्षत्रमहोरात्रम्। सावनदिनम्।

अथ दिनमासावाह—

नाडीषष्ट्या तु नाक्षत्रमहोरात्रं प्रकीर्तितम्।
तत् त्रिंशता भवेन्मासःसावनोऽर्कौदयैस्तथा॥ 12॥

घटीनां षष्ट्याहोरात्रं नाक्षत्रमुक्तम्। तुकारादहोरात्रस्य नाक्षत्रत्वोक्त्या उक्तघट्या अपि नाक्षत्रत्वमु-क्तम्। एतत् पष्टिघटीभिर्भचक्रपरिवर्तनात्। नाक्षत्रदिनानां त्रिंशत्संख्यया मासो नाक्षत्रः। मासानामने-कत्वेन सावनमासस्वरूपमाह। सावन इति। तथा त्रिंशदहोरात्रैः सूर्योदयसम्बद्धैस्तदवधिकैः सूर्योदयासूर्योदयान्तकालरूपैकाहोरात्रमानमापि-तैरित्यर्थःसावनोमासः ॥12॥
चान्द्रमासः। सौरमासः। दिव्यदिनम्।

अथचान्द्र सौरमासनिरूपणपूर्वकं वर्षं वदन् दिव्यदिनमाह—

ऐन्दवस्तिथिभिस्तद्वत् संक्रान्त्या और उच्यते।
मासैर्द्वादशभिर्वर्षं दिव्यं तदह उच्यते ॥13॥

तद्वत् त्रिंशता तिथिभिश्चान्द्रो मासस्तत्र दर्शान्तावधिकः पूर्णिमान्तावधिकश्च शास्त्रे मुख्यतया प्रतिपादितः। अत्र शास्त्रे तु दर्शान्तावधिक एव मुख्यः। इष्टतिथ्यवधिकस्तु मासो गौणः। संक्रान्त्या संक्रान्त्यवधिकेन कालेन सौरो मासो मानज्ञैः कथ्यते। संक्रान्तिस्तु सूर्यमण्डलकेन्द्रस्य राश्यादिप्रदे-शसञ्चरणकालः। द्वादशभिर्मासैर्वर्षम्। यन्मानेन मासास्तन्मानेन वर्षं ज्ञेयम्। तद्वर्षं सौरमासस्यासन्न-त्वात् सौरम्। अहः अहोरात्रं दिव्यम्। तद्वर्षं सौरमासस्यासन्नत्वात् सौरम्। अहः अहोरात्रं दिव्यम्। दिवि भवम्। सौरवर्षं देवानामहोरात्रमानं मानतत्त्वज्ञैः कथ्यत इत्यर्थः॥13॥

देवासुराणामहोरात्रम्। देवासुराणां वर्षम्।
ननु देवानां यथाहोरात्रमुक्तं तथा दैत्यानामहोरात्रं कथं नोक्तमित्यतस्तदुत्तरं वदन् दैवासुरयोर्व-र्षमाह-

सुरासुराणामन्योन्यमहोरात्रं विपर्ययात्।
तत्षष्टिःषड्गुणा दिव्यं वर्षमासुरमेव च॥14॥

देवदैत्यानां बहुत्वाद्वहुवचनम्। अन्योऽन्यम् परस्परं विपर्ययात् व्यत्यासात्। अहोरात्रम्। अयमर्थः। देवानां यद्दिनं तदसुराणां रात्रिः। देवानां या रात्रिस्तदसुराणां दिनम्। दैत्यानां यद्दिनं तद्दे-वानां रात्रिः। दैत्यानां या रात्रिस्तद्देवानां दिनमिति। तथा च देवदैत्ययोर्दिनरात्र्योरेव व्यत्यासाद् भेदो न मानेनेति। तयोरहोरात्रस्यैक्याद् दैवाहोरात्रमानकथनेनैव दैत्याहोरात्रमानमुक्तमिति भावः। युगक-थनार्थं दिव्यवर्षं परिभाषया सुगममपि विशेषद्योतनार्थ प्रकारान्तरेणाहतत्षष्टिरिति। दिव्याहोरात्रष-ष्टिः दैवर्त्तुरूपा वर्षर्त्तुभिः षड्भिर्गुणिता दिव्यमासुरं दैत्यसम्बन्धि। च समुच्चये। तेन द्वयोरित्यर्थः। व-र्षम्। एवकारस्तयोर्दिनरात्र्योर्भेदः स्यादिति मन्दशङ्कानिवारणार्थम्॥14॥

महायुगम्। सत्ययुगादिमानस्याधारः।
अथ कल्पमानं विवक्षुः प्रथमं युगमानमन्यदपि श्लोकाभ्यामाह—

तद्द्वादशसहस्राणि चतुर्युगमुदाहृतम्।
सूर्याब्दसङ्ख्यया द्वित्रिसागरैरयुताहतैः॥15॥
सन्ध्यासन्ध्यांशसहितं विज्ञेयं तच्चतुर्युगम्।

कृतादीनां व्यवस्थेयं धर्मपादव्यवस्थया ॥ 16 ॥

तेषां दिव्यवर्षाणां द्वादशसहस्राणि चतुर्युगम्। चतुर्णां युगानां कृतत्रेताद्वापरकल्याख्यानां समाहारो योगस्तदात्मकं महायुगमित्यर्थः। एतद्योतनार्थं चतुरित्ययुक्तिरन्यथा युगमित्युक्त्या तद्वैयर्थ्यापत्तेः। मानाभिज्ञैरुक्तम्। अथ सौरमानेन तत्संख्यां विशेषं चाह-सूर्याब्दसंख्ययेति। तद्देवासुरमानेनोक्तं च-तुर्युगं द्वादशसहस्रवर्षात्मकंमहायुगंसन्ध्या-सान्ध्यांशसहितम्। युगचरणस्याद्यन्तयोःक्रमेण प्रत्येकं सन्ध्यासन्ध्याशाभ्यां युक्तं तदेव सन्ध्यासन्ध्यांशौ अन्तर्गतौ न पृथक् यत्र एतादृशम् सौरवर्षप्रमाणेन द्वित्रिसागरैः। अङ्कानां वामतो गतिरित्यनेन द्वात्रिंशदधिकैः चतुःशतमितैः। अयुतेन दशसहस्रेण गु-णितैः। खचतुष्कद्वात्रिंशच्चतुर्भिः परिमितं ज्ञेयम् इत्यर्थः। अथ चतुर्युगान्तर्गतयुगाङ्घ्रीणां विशेषतो मानश्रवणात् समं स्यादश्रुतत्वादिति न्यायेन प्रत्येकं महायुगचतुर्थांशो मानमिति चतुर्युगमित्यनेन फ-लितं निषेधति। कृतादीनामिति। कृतत्रेताद्वापरकलियुगानाम्। धर्मपादव्यवस्थया धर्मचरणानां स्थि-त्या। इयं वक्ष्यमाणा व्यवस्था स्थितिर्ज्ञेया न तु समकालप्रमाणंस्थितिःअयमर्थः। कृतयुगे चतुश्चरणो धर्म इति तस्य मानमधिकम्। ततः त्रेतायां धर्मस्य त्रिपादयत्वात् तदनुरोधेन त्रेतामानं न्यूनम्, एवं द्वापरकल्योर्धर्मस्य क्रमेण द्वयेकचरणवत्यात्। कृतत्रेतामानाभ्यां क्रमेणोक्तानुरोधान्यूनमानम्। न तु समं मानमिति॥15-16॥
सत्ययुगादिमानस्य उपपत्तिः। सन्धिमानम्।
अथ सर्वधर्मचरणयोगेन दशमितेन महायुगं भवति तर्हि स्वस्वधर्मचरणैः किमित्यनुपातेन पूर्वोक्तफलितेन कृतादियुगानां मानज्ञानं सविशेषमाह—

युगस्य दशमो भागश्चतुस्त्रिद्व्येकसंगुणः।
क्रमात्कृतयुगादीनां षष्ठांशःसन्ध्ययो स्वकः ॥17॥

प्रागुक्तदिव्यवर्षद्वादशसहस्रमितस्य युगस्य दशमो भागो दशांश इत्यर्थः। चतुर्द्धा क्रमेण चतुस्त्रिद्व्यैकैर्गुणितः। गुणक्रमात् कृतयुगादीनां कृतत्रेताद्वापरकलियुगानां मानं स्यात् इति शेषः। ननु मनुग्रन्थे कृतादिमानं दिव्यवर्षप्रमाणेन 4000, 3000, 2000, 1000, अत्र तु तन्मानं तद्वर्षप्रमाणेन 4800, 3600, 2400, 1200, इति विरोध इत्यत आह-षष्ठ इति। स्वकः स्वसम्बन्धी षष्ठो विभागः सन्ध्ययोः आद्यन्तसन्ध्ययोः ऐक्यकाल इति शेषः। तथा च मदुक्तमानानि 4800, 3600, 2400, 1200, एषां षडंशाः 800, 600, 400, 200, एते स्वस्वयुगानाम् आद्यन्तयोःसन्ध्योर्योगा इत्येषामर्थं सन्धिकालः। प्रत्येकमाद्यन्तयोः सन्धिकालः 400, 300, 200, 100, अनेन प्रत्येकं मदुक्तमान न्यू-नीकृतं ग्रन्थान्तरोक्तं केवलं मानं भवति न स्वसन्धिभ्यां सहितम्। यथा कृतादिसन्धिः 400, कृतमा-नम् 4000 कृतान्तसन्धिः 400, त्रेतादिसन्धिः300, त्रेतामानं 3000, त्रेतान्तसन्धिः 300, द्वापरादि-सन्धिः200, द्वापरमानं 2000, द्वापरान्तसन्धिः200, कल्यादिसन्धिः 100, कलिमान 1000 कल्य-न्तसन्धिः 100 एवं च स्वसन्धिभ्यां सहितं मयोक्तं स्वसम्बन्धात् सन्ध्ययोस्तदन्तर्गतत्वाच्चेति न विरोध इति भावः ॥17॥

मनुमानम्। जलप्लवः।

अथ कल्पमानार्थे मनुमानं तत्सान्धिमानं चाह—

युगानां सप्ततिः सैका मन्वन्तरमिहोच्यते॥
कृताब्दसंख्या तस्यान्ते सन्धिः प्रोक्तो जलपल्वः ॥18 ॥

युगानां सैकासप्ततिरेकसप्ततिर्महायुगमित्यर्थः। इह मूर्त्तकाले मन्वन्तरं मन्वारम्भ तत्समाप्ति-कालयोरन्तरकालमानामित्यर्थः। मूर्त्तकालमानभेदाभिज्ञैः कथ्यते। तस्य मनारेन्ते विरामे जाते सति कृताब्दसङ्ख्या मदुक्तकृतयुगवर्षमिति सन्धिः कालविद्भिः प्रकर्णेण द्वितीयमन्वारम्भपर्यंतं भूतभा-विमन्वोरन्तिमादिसन्धिरूपैककालेन कथितः। तत्स्वरूपमाह- जलपल्लव इति। जलपूर्णा सकला पृथ्वी तस्मिंल्लोकसंहारकाले भवति॥ 18॥

कल्पमानम्।

अथ कल्पप्रमाणं सावशेषमाह—

ससन्धयस्ते मनयः कल्पे ज्ञेयाश्चतुर्दश॥
कृतप्रमाणः कल्पादौ सन्धिः पञ्चदशःस्मृतः ॥19 ॥

ते एकसप्ततियुगरूपा मनवःस्यायभुवाद्याः ससन्धयः स्वस्वसन्धिसहिताश्चतुर्द्दशसंख्याकाः कल्प्क्ज्ञल् ज्ञातव्याः। स्वसन्धियुक्तचतुर्द्दशमनुभिः कल्पःस्यादित्यर्थः। ननु ग्रन्थान्तरे कल्पमानं युग-सहस्रं त्वया तु युगमानमेकसप्ततिगुणं मनुमानम् 30167 20000 कृताब्द 1728000 युक्तसस-न्धिमनुमानम् 308448000 \। इदं चतुर्द्दगुणं कल्पप्रमाणं कृतोनं युगसहस्रमित्यत आह-कृतप्रमाण इति। कल्पादौ प्रथममन्वारम्भेकृतयुगवषर्मितो मनोश्चतुर्दशत्वेऽप्याद्यः पञ्चदशकः सन्धिः कालज्ञैरु-क्तः। तथाच कृतवर्षानन्तरं प्रथममन्वारम्भ इति तद्वर्षयोजनेनाविरोध इति भावः ॥19 ॥

ब्रह्मणः दिनरात्र्योःमानम्।

अथ कल्पप्रमाणं सावर्शषमाह—

इत्थं युगसहस्रेण भूतसंहारकारकः।
कल्पो ब्राह्ममहः प्रोक्तं शर्वरी तस्य तावती ॥20॥

इत्थं पूर्वोक्तप्रकारसिद्धेन युगसहस्रेण भूतसंहारकारको ब्राह्मलयात्मकः कल्पकालो ब्राह्मां ब्रह्मणःसम्बन्ध्यहो दिनं कालज्ञेरुक्तम्। तस्य ब्रह्मणस्तावती दिनपरिमिता शर्वरी रात्रिः कल्पद्वयं तदहोरात्रीमति फलितार्थः ॥20॥

ब्रह्मणः परमायुः।

अथ ब्रह्मण आयुः प्रमाणमतीतवयः प्रमाणं च आह—

परमायुः शतं तस्य तयाऽहोरात्रसङ्ख्यया।
आयुषोऽर्धमितं तस्य शेषकल्पोऽयमादिमः॥21॥

परम परं श्रृणु पूर्वोक्तं त्वया श्रुतमपरं च वक्ष्यमाणं श्रृणु त्वम्। यद्वा परमैति दैत्यवरार्थकं सम्बोधनम्। त्वं तस्य ब्रह्मणस्तया पूर्वोक्त्या अहोरात्रमित्या कल्पद्वयरूपया शतं शतवर्षपरिमितमा-युः शरीरधारणकालं जानीहि। एतदुक्तं भवति। अहोरात्रमानात्पूर्वपरिभाषया मासमानं तस्मात् पू-र्वोक्तपरिभाषया ब्रह्मणो वर्षमानमेतत् शतसंख्यया ब्रह्मायुरिति। न तु यथा श्रुतार्थेन कल्पशतद्वयमा-युः कीटादीनामपि दिनसंख्यया आयुषोऽसम्भवात्। “निजेनैव तु मानेन आयुर्वर्षशतं स्मृतम्। ”इति विष्णुपुराणोक्तेश्च। एतेन परमायुरिति निरस्तम्। ब्रह्मणोऽनियतायुर्दायासम्भवात्। तस्य ब्रह्मण आयुः शतवर्षरुपमस्यार्द्धं पंचाशद्वर्षपरिमितमितं गतम्। अयं वर्तमान आदिमः प्रथमः शेषकल्पः शेषायु-र्दायस्य ब्रह्मदिवस उत्तरार्द्धस्य प्रथमदिवसो वर्तमान इति फलितार्थः॥ 21॥

सूर्यसिद्धान्तस्य समये कियन्तः मनवः गताः।

अथ वर्तमानेऽस्मिन् दिवसेऽप्येतद्गतमित्याह—

कल्पादस्माच्च मनवः षड्व्यतीताः ससन्धयः॥

वैवस्वतस्य च मनोर्युगानां त्रिघनो गतः ॥ 22 ॥

अस्माद्वर्त्तमानात्कल्पाद्ब्रह्मदिवसात् षट्संख्याका मनव एकसप्तति युगरूपाःससन्धयः सप्तभिः सन्धिभिः कृतयुगप्रमाणैः सहिता व्यतीता गताः। चकार आयुषोऽर्द्धमितमिति प्रागुक्तेन समुच्चयार्थ-कः। वर्तमानस्य सप्तमस्य मनोर्वैवस्वताख्यस्य युगानां त्रिघनः त्रयाणां घनः स्थानत्रयस्थिततुल्यानां घातः सप्त विंशतिसंख्यात्मको गतः। सप्तविशतियुगानि गतानि इत्यर्थः। चः समुच्चये ॥22॥

अथ वर्तमानयुगस्यापि गतमेतदिति वदन् अभिमतकालेऽग्रतो वर्षगणः कार्य इत्याह—

अष्टाविंशाद्युगादस्मादाद्यामेतत् कृतं युगम्।
अतः कालं प्रसङ्ख्याय सङ्ख्यामेकत्र पिण्डयेत् ॥23॥

अष्टाविंशतितमाद्वर्त्तमानात् एतत् अल्पकालेन पूर्वकाले साम्प्रतं स्थितं कृतं युगं गतम्। अतः कृत-युगान्तानन्तरमभिमतकाले कालं वर्षात्मक प्रसंख्याय गणयित्वा संख्यां पंचस्थानस्थितां भिन्नाम् ए-कत्रैकस्थाने पिण्डयेत् सङ्कलनविषयां कुर्यात्। सर्वेषां गतानां योगं कुर्यादित्यर्थः ॥23॥

ग्रहादिभचक्रनियोजनकालः।

अथ कल्पादितो ग्रहादिभचक्रनियोजनकालं ग्रहगतिप्रारम्भरूपमाह—

ग्रहर्क्ष-देव-दैत्यादिसृजतोऽस्य चराचरम्।

कृताद्रिवेदा दिव्याब्दाः शतघ्ना वेधसो गताः॥ 24॥

अस्य वर्तमानस्य ब्रह्मणो ग्रहनक्षत्रदेवदैत्यमानवराक्षसभूपर्वतवृक्षादिकं चराचरं जङ्गमस्थावरात्म-कं जगत् सृजतः सृजतीति सृजन् तस्य जगन्निर्मायकस्य शतसंख्यागुणिताः चतुः सप्तत्यधिकचतुःश-तसंख्या दिव्याब्दा गताः एभिर्दिव्यवर्षैः ग्रहसृष्ट्यादि प्रवहवायुनियोजनान्तं कर्म ब्रह्मणा कृतमिति फलितार्थः॥24॥

ग्रहाणां प्राग्गतित्त्वस्य कारणम्।

अथ ग्रहपूर्वगत्युत्पत्तौ कारणमाह—

पश्चाद् व्रजन्तोऽतिजवान्नक्षत्रैः सततं ग्रहाः।
जीयमानास्तु लम्बते तुल्यमेव स्वमार्गगाः ॥25॥

पश्चादनन्तरं पुनरावृत्या पश्चात् पश्चिमदिगभिमुखं नक्षत्रैःतारकादिभिः सह ग्रहाः सूर्यादयोऽति-जवात् प्रवहवायुसत्वरगतिवशात् सततं निरन्तरं व्रजन्तो गच्छन्तः स्वमार्गगाः स्वकक्षावृत्तस्था जीय-माना नक्षत्रैः पराजिता नक्षत्राणामग्रे गमनात्। अतएव लज्जयेव गुरुभूता इति तात्पर्यार्थः। तुल्यं स-मम्। एवकारादधिकन्यूनव्यवच्छेदः। लम्बन्ते स्वस्थानात् पूर्वस्मिन् लम्बायमाना भवन्ति। यथा ल-ज्जितः पश्चाद् भवति नाग्रे। तुकारात् अधोऽधः कक्षाक्रमानुरोधेन शन्यादिग्रहाणां चन्द्रान्तानां गुरुता-पचयःशनिरतिगुरुभूतस्तस्मात् किञ्चन्न्यूनो गुरुस्तस्मादपि भौम इत्यादि यथोत्तरम्। यस्य कक्षा मह-ती तस्य गुरुत्वाधिक्यं यस्य लघ्वी तस्य तदनुरोधेन गुरुताल्पत्वमिति। एतदुक्तं भवति। ब्रह्मणा प्रव-हवायौ नक्षत्राधिष्ठितो मूर्तोगोलः स्थापितः तदन्तर्गताः स्वस्वाकाशगोलस्थाःशन्यादयो नक्षत्राधिष्ठि-तमूर्तगोलस्थक्रान्तिवृत्तस्थरैवतीयोगतारासन्नरूपमेषादिप्रदेशसमसूत्रस्थाःस्थापिताः। क्रान्तिवृत्तं तु मेषतुलास्थाने विषुववृत्तलग्नसम्पातात् त्रिभान्तरितक्रान्तिवृत्तप्रदेशौ स्वासन्नविषुवद्वृत्तप्रदेशाभ्यां च-तुर्विंशत्यशान्तरेण दक्षिणोत्तरौ मकरकर्कादिरूपौ तदेव द्वादशराश्यात्मक वृत्तं ग्रहचारभूतम्। विषु-वदवृत्तं तु ध्रुवमध्यस्थं निरक्षदेशोपरिगतम्।
तत्र प्रवहवायुना स्वाघातेन मूर्तोनक्षत्रगोलो नाक्षत्रषष्टिघटीभिः परिवर्त्यते। तदन्तर्गतवायुभिः त-दाघातेन वा ग्रहा भ्रमन्त्यपि नक्षत्रगोलस्थितक्रान्तिवृत्तीयमेषादिप्रदेशेन समं न गच्छन्ति वायूनां स्व-ल्पत्वात् तदाघातस्यापि अल्पत्वाद्विम्बानां गुरुत्वाच्च। अतस्तत् स्थानाद् ग्रहाणां लम्बनं दृश्यते। अ-तएव नक्षत्रोदयकाले तेषां द्वितीयदिने न उदयः, किन्तु ग्रहो लम्बितप्रदेशेन वायुना तदनन्तरमूर्ध्व-मागच्छतीति अनन्तरमुदयः। लम्बनं तु शन्यादीनां कक्षानुरोधेन गुरुत्वाद्वायूनां तद्-घातानां वा क-क्षानुरोधेन बह्वल्पत्वात् तुल्यम्। यद्यपि वायोर्ध्रुवानुरोधेन सत्वाद् ग्रहावलम्बनं विषुवद्वृत्ते भवितुम् उचितं न क्रान्तिवृत्ते। तथा च-वक्ष्यमाणक्रान्त्यनुपपत्तिः क्रान्तिवृत्तस्थद्वादशराशिभोगेन वक्ष्यमाणानां भगणानामनुपपत्तिश्च। तथापि वायुना अवलम्बितो ग्रहो विषुवन्मार्गगोऽपि तद्विषुवप्रदेशासन्नक्रान्ति-वृत्तप्रदेशेन ग्रहाकाशगोल एव स्वसमसूत्रेण आकृष्यत इति न अनुपपत्तिः। अतएव स्वमार्गगा इति क्रान्तिवृत्तानुसृतस्वाकाशगोलस्थकक्षामार्गगता इत्यर्थमुक्तम् इति संक्षेपः॥ 25॥

अथात एव ग्रहाणां लोके प्राग्गतित्वं सिद्धमित्यत आह—

प्राग्गतित्वमतस्तेषां भगणैः प्रत्यहं गतिः।
परिणाहवशाद् भिन्ना तद्वशाद् भानि भुञ्जते ॥ 26॥

अतोऽवलम्बनादेव तेषां ग्रहाणां प्राग्गतित्वंप्राच्यां दिशि गतिर्येषां ते प्राग्गतयस्तद्भावः प्राग्गतित्वं सिद्धम्। लम्बनस्वरूपा एवं ग्रहाणां पूर्वगतिरुत्पन्ना लौकेःकारणानभिज्ञैः प्रत्यक्षावगततया तच्छ-क्तिजनिता कल्पिता इत्यर्थः। या कियतीत्यत आह-भगणैरिति। वक्ष्यमाणभगणैः प्रत्यहं प्रतिदिनं ग-तिःप्राग्गमनरूपा भगणानांगत्युत्पन्नत्वाद् भगणसम्बन्धिवक्ष्यमाणदिनैः सूर्यसावनैर्ग्रहभगणा लभ्य-न्ते तदा एकेन दिनेन केत्यनुपातात् ज्ञेया। ननु ग्रहभगणानां तुल्यत्वाभावात् प्रतिदिनं ग्रहगतिर्भिन्नेति पूर्वं लम्बनरूपा ग्रहगतिःअयुक्तोक्ता ग्रह लम्बनस्य अभिन्नत्वादित्यत आहपरिणाहवशादिति। प-रिणाहः कक्षापरिधिस्तद्वशात् तदनुरोधादियं ग्रहगतिर्भिन्ना तुल्या। अयमभिप्रायः। ग्रहाणां लम्बनं तु-ल्यप्रदेशेन परन्तु स्वस्वकक्षायां तत्प्रदेशे तुल्ये या कलाः ताः गतिकलाः वास्तु महति कक्षावृत्तेऽल्पा लघुकक्षावृत्ते बहव्यः सर्वकक्षापरिधीनां चक्रकलांकितत्वात्। भगणास्तु गतिवशादेव यस्य कक्षावृतं महत् तस्य अल्पा यस्य च लघु कक्षावृतं तस्य बहवस्तदुत्पन्ना गतिरपि तथेति न विरोधः। ननु एक-रूपगतिं विहाय भिन्नरुपागतिः कथमङ्गीकृता इत्यत आह-तदवशादिति। भिन्न गतिवशाद् भानि रा-शीन् नक्षत्राणि भुञ्जते ग्रहा भुञ्जन्ति इत्यर्थः। तथा च ग्रहराश्यादिभोगज्ञानार्थमियमेव गतिरूपयुक्ता न एकरूपेति भावः ॥26॥

भगणस्वरूपम्।

अथ भभोगे विशेषं वदन् वक्ष्यमाणभगणस्वरूपम् आह—

शीघ्रगास्तान्यथाऽल्पेन कालेन महताऽल्पगः।
तेषां तु परिवर्तन पौष्णान्ते भगणः स्मृतः ॥ 27॥

अथशब्दः पूर्वोक्ते विशेषसूचकः शीघ्रगतिग्रहः तानि भानि अल्पेन कालेन भुनक्त्यल्पगतिग्रहो बहुकालेन भुनक्ति तुल्यराश्यादिभोगो मन्दशीघ्रगतिग्रहयोः तुल्यकालेन न भवति इति विशेषार्थः। तेषां राशीनां परिवर्तेन भ्रमणेन। तुकाराद् ग्रहादिगतिभोगजनितेन भगणः प्राज्ञैरुक्तः। क्रान्तिवृत्ते द्वादशराशीनां सत्वात् तद्भोगेन चक्रभोगसमाप्तेर्यत् स्थानमारभ्य चलितो ग्रहः पुनस्तत् स्थानमाया-ति स चक्रभोगःपरिवर्तनसंज्ञोऽपि द्वादशराशिभोगाद् भगण इत्यर्थः। ननु क्रान्तिवृत्ते सर्वप्रदेशेभ्यः परिवर्तनसम्भवात् अत्र कः परिवर्तनादिभूतः प्रदेश इत्यत आह-पौष्णान्त इति। सृष्ट्यादौ ब्रह्मणा क्रान्तिवृत्ते रेवतीयोगतारासन्नप्रदेशे सर्वग्रहाणां निवेशितत्वात् तदवधितो ग्रहचलनाच्च। पौष्णस्य रे-वतीयोगताराया अन्ते निकटे प्रदेशे तथा च रेवतीयोगतारासन्नाग्रिमस्थानमेव आद्यन्तावधिभूतम् इ-ति भावः ॥27॥

ननु परिवर्त्तस्य भगणसंज्ञा तु अयुक्ता त्रयादिराशीनामपि भगणत्वादित्यतः परिभाषाकथनच्छलेन भगणस्वरूपमाह—

विकलानां कला षष्ट्या तत्षष्ट्या भाग उच्यते।
तत्त्रिंशता भवेद्राशिर्भगणो द्वादशैव ते ॥28॥

यथा मूर्त्तकाले प्राणकाल आदिभूतस्तथाक्षेत्रपरिभाषायांविकलाः सूक्ष्मादिभूतास्तासां षष्ट्यैका कला कलानां षष्ट्या भागोंऽश क्षेत्रपरिभाषाभिज्ञैः कथ्यते। भागत्रिंशता राशिः स्यात्। ते राशयः स-कला द्वादश। एवकारस्त्रिचतुरादीनां निरासार्थम्। तथा च साकल्ये गणपदप्रयोगाद् भगणस्य भोगे-ऽपि भगणव्यवहाराच्च पूर्वोक्तं युक्तमिति भावः ॥28॥

युगे सूर्यबुधशुक्राणां भगणाः। युगे कुजार्किगुरुशीघ्रोच्चानां भगणाः।

अथ भगणान् विवक्षुः प्रथमं सूर्यबुधशुक्राणां भौमगुरुशनिशीघ्रोच्चानां चभगणानाह-

युगे सूर्यज्ञशुक्राणां खचतुष्करदार्णवाः।

कुजार्किगुरुशीघ्राणां भगणाः पूर्वयायिनाम्॥ 29 ॥

महायुगे सूर्यबुधशुक्राणां खानां चतुष्कमेकस्थानादिसहस्रस्थानान्तचतुः स्थानस्थितानि शून्यानि ततोऽयुतादिप्रयुतस्थानपर्यन्तं दन्तसमुद्रास्तथा च युगसौरवर्षाणि खाभ्रखाभ्रद्विरामवेदमितानि भग-णा द्वादशराशिभोगात्मकपरिवर्त्तानां संख्या भवन्तीति शेषः। भौम-शनि-बृहस्पतीनां यानि शीघ्राणि शीघ्रोच्चानि तेषामेतन्मिता भगणाः। चकारःसमुच्चयार्थकोऽनुसन्धेयः। अत्र कक्षाक्रमेण चारक्रमेण वा गुरोः खलमध्यगता भवतीति न तथोद्दैशः। स्वतन्त्रस्य नियोगार्हत्वाद्वा। ननु आकाश एषां विम्बा-भावादवलम्बनासम्भवेन गत्यभावात् कथं भगणा उक्ता इत्यत आह। पूर्वयायिनामिति पूर्वगामिना-म्। तथा च तेषाम् अदृश्यरूपाणां पूर्वगतिसद्भावाद् भगणोक्तौ न क्षतिः। एषां स्वरूपादिनिर्णयस्तु स्पष्टाधिकारे प्रतिपादयिष्यते ॥29॥

चन्द्रमङ्गलयोःभगणाः।
अथ चन्द्रभौमयोर्भगणानाह—

**इन्दो रसाग्नित्रित्रीषु सप्तभूधरमार्गणाः।
दस्रत्र्यष्टरसाङ्काक्षिलोचनानि कुजस्य तु ॥30॥ **

पूर्वश्लोकोक्तभगणा इत्यत्राग्रिमश्लोकेषु अपि अन्वेति। भूधराः सप्त न तु पर्वतस्य धराभिधान-त्वात् एकसप्ततिः। मार्गणाः शरास्तथा च चन्द्रस्य भगणाःषडग्निदेवपञ्चसप्रसप्तपञ्चमिताः। भौमस्य तुकारात् आकाशस्थबिम्बात्मकस्य इति पुनरुक्तिभ्रमवारणार्थं दन्ताष्टषडङ्कातिमिताः॥30॥

बुधशीघ्रोच्चगुर्वोर्भगणाः।
अथ बुधशीघ्रोच्चगुर्वोर्भगणानाह –

बुधशीघ्रस्य शून्यर्तुखाद्रित्र्यङ्कनगेन्दवः।
बृहस्पतेः खदस्राक्षि-वेदषड्वह्नयस्तथा॥31॥

बुधशीघ्रोच्चस्य अदृश्यरूपस्य पूर्वगतेर्भगणाःषष्टिसप्ततित्र्यङ्कात्यष्टिमिताः।बृहस्पतेस्तथाविम्बा-त्मकस्य इति पुनरुक्तिभ्रमवारणाय नखद्विवेदषड्राममिताः॥31॥

शुक्रशीघ्रोच्चशन्योर्भगणा।
अथ शुक्रशीघ्रोच्चशन्योर्भगणानाह-

सितशीघ्रस्य षट्सप्तत्रियमाश्विखभूधराः।
शनेर्भुजङ्गषट्पञ्चरसवेदनिशाकराः॥ 32॥

शुक्रशीघ्रोच्चस्य अदृश्यरूपस्य पूर्वगतेर्भगणाः षट्स्प्तत्रिद्विद्विखसप्त। एतेन भूधरा इत्यस्य ए-कसप्ततिरेकादशवार्थोनिरस्तः।शनैर्विम्बात्मकस्य अष्टषट्पञ्चरसेन्द्रमिताः ॥32॥

चन्द्रस्योच्चपातयोर्भगणाः।
अथ चन्द्रस्योच्चपातयोर्भगणानाह—

चन्द्रोच्चस्याग्निशून्याश्विवसुसर्पार्णवा युगे।
वामं पातस्य वस्वग्नियमाश्वि-शिखिदसकाः ॥33॥

चन्द्रमन्दोच्चस्य पूर्वगतेरदृश्यरूपस्य भगणा महायुगे रामनखाष्टाष्टवेदमिताः। पातस्य चन्द्रशब्दस्य सन्निहितत्वात् चन्द्रपातस्य अदृश्यरूपस्य वामं पश्चिमगत्या द्वादशराशिभोगात्मकपरिवर्त्तरूपभगणा महायुग अष्टरामाकृतिरामद्विमिताः। अत्र युगग्रहणं वक्ष्यमाणग्रहोच्चपातभगण-सम्बन्धिकल्पकाल-वारणार्थम्। ग्रहोच्चपातभगणास्तु युगे युगे नोत्पन्ना इति अस्मिन् युगसम्बन्धिप्रसङ्गेनोक्ताः। मन्दोच्च-पातस्वरूपादिनिर्णयस्तु स्पष्टाधिकारे व्यक्तो भविष्यति ॥33॥

युगे नक्षत्रभगणाः।
अथ युगे नाक्षत्रदिवसांस्तत्त्स्वरूपावगमाय ग्रहसावनदिनस्वरूपं स्वसंख्याज्ञानहेतुकञ्च आह-

भानामष्टाक्षिवस्वद्रित्रिद्विद्वयष्टशरेन्दवः।
या भगणैः स्वैः स्वैरूनाः स्वस्वोदया युगे ॥34॥


भानां नक्षत्राणां स्वतो गत्यभावेऽपि प्रवहवायुना परिभ्रमणात् तत्संख्यातुल्या भगणाः स्वदिनतु-ल्याः। अतएव अत्र वाममिति पूर्वोक्तस्य युक्तोऽन्वयः। अष्टद्वयष्टनगाग्निजातिगजदिनमिताः। ननु ग्र-हाणामपि प्रवहवायुना परिभ्रमणेन उदयसद्भावात् तेषां दिवसाः कथं ज्ञेया इत्यत आह-भोदया इ-ति। उदयो यस्मिन् अहनि स्वाद्यान्तावधिरूप इति व्युत्पत्योदयशब्देन दिनम्। तथा च भोदया नाक्ष-त्रदिवसा एत उक्ताःस्वैः स्वैः स्वकीयैःभगणैःप्रागुक्तैः वर्जिताः सन्तः स्वस्वोदया निजनिजसावन-दिवसा युगे भवन्ति। युग इत्यनेन अभीष्टकाले नाक्षत्रदिवसा ग्रहगतभोगादिना भगणादिनोना ग्रह-सावनदिवसा अभीष्टा भवन्ति। परन्तु राशीन् पञ्चगुणितानंशादिकं दशगुणतं कृत्वा घट्यादिस्थाने हीनं कार्यमन्यथा विजातीयत्वादन्तरानुपपत्तेरिति सूचितम्। अत्रोपपत्तिः। यदि ग्रहाणां प्राग्गमनाव-लम्बनं न स्यात् तर्हि ग्रहोदयनक्षत्रोदययोः एकहेतुत्वात् नाक्षत्रसावनदिवसयोरभेदः स्यात्। अतो ग्र-हाणां लम्बनेन नाक्षत्रदिवसेभ्यः सावनदिवसानामन्तरितत्वात् अवलम्बनजभगणान्तरेण युगे नाक्षत्र-दिवसा न्यूना भवन्ति। प्रवहेण भगणतुल्यपश्चिमग्रहतुल्यानामकरणादित्युपपन्नं भोदया इत्यादि। अ-नेन एव भगणसावनयोगो नाक्षत्रदिवसा इत्यपि अर्थसिद्धम् ॥34॥

चान्द्रमासः। अधिमासः।
अथ वक्ष्यमाणचान्द्रदिवसाधिमासयोः संख्याज्ञानहेतुकं स्वरूपमाह–

भवन्ति शशिनो मासाः सूर्येन्दुभगणान्तरम्।
रविमासोनितास्ते तु शेषाः स्युरधिमासकाः॥ 35॥

सूर्यचन्द्रभगणयोरन्तरं चन्द्रस्य मासा भवन्ति ते चान्द्रमासा रविमासोनिताः। अत्र प्रथमं तुकारान्वयाद् द्वादशगुणितरविभगणरूपवक्ष्यमाणार्कमासैरूनिताः सन्तः शेषा अवशिष्टा ये चान्द्र-मासास्तेऽधिमासा एव भवन्ति न अन्ये। अनेन चान्द्रत्वमधिमासानां स्पष्टीकृतम्। अत्रोपपत्तिः त्रिंश-त्तिथ्यात्मकस्य रवीन्दुयुतिकालरूप-दर्शान्तावधेःचान्द्रमासस्य द्वादशराशिमितेन सूर्येन्द्वन्तरेण एव सिद्धिः। कथमन्यथा दर्शान्ते जातस्य मन्दशीघ्रयोः सूर्येन्द्वोर्योगस्य पुनर्दर्शान्ते सम्भवः। द्वादशराश्यन्तरं तु एकं भगणान्तरमतो भगणान्तरेण चान्द्रो मासः सिद्धः। सौरमासापेक्षया यदन्तरेण चान्द्रमा-सानामधिकत्वं त एव अधिमासा इति स्वरूपमेव वक्ष्यमाणोपयोगात् परिभाषितम्॥ 35॥

तिथिक्षयः। सावनदिनम्।
अथ वक्ष्यमाणावमसूर्यसावनयोः स्वरूपमाह -


सावनाहानि चान्द्रेभ्यो द्युभ्यः प्रोज्झ्य तिथिक्षयाः।
उदयादुदयं भानोर्भूमिसावनवासरः॥36॥

चान्द्रेभ्यो द्युभ्यो वक्ष्यमाणचान्द्रदिवसेभ्यः सकाशादित्यर्थः। सावनाहानि सावनदिनानि प्रोज्झ्य त्यक्तावशेषं तिथिक्षयाः। तिथिषु चान्द्रदिनेषु सावनदिनानामवशेषतुल्यः क्षयो न्यूनत्वम्। यद्वा तिथि-शब्देन सावनो दिवसस्तस्य चान्द्रदिवसात् क्षय इति स्वरूपमेव वक्ष्यमाणोपयोगात् परिभाषितम्। ननु भोदया भगणैः इत्यादिना पूर्वं सर्वेषां सावनदिवसा उक्ता इत्यत्र कस्य ग्राह्य इत्यतः सूर्यसावन स्वरूपकथनच्छलेन उत्तरमाह उदयादिति। सूर्यस्य उदयकालमारभ्य अव्यवहित तदुदयकालपर्य-न्तं यः कालः स एको दिवसः। इति ये दिवसास्ते भूमिसावनवासराः। भूदिवसा उदयस्य भूसम्बन्धेन अवगमात्। सावनदिवसाश्च इत्यर्थः। तथा च निरुपपदसावनभूमिशब्दाभ्यां सूर्यस्य वासरा एव न अ-न्येषां सोपपदत्वाभावादितिभावः ॥36॥

युगे सौरदिनानि। युगे चान्द्रदिनानि।
ते कियन्त इत्यतस्तत्प्रमाणं चान्द्रदिनप्रमाणञ्च आह-

वसुद्वयष्टाद्रिरूपाङ्कसप्ताद्रितिथयो युगे।
चान्द्राः खाष्टखखव्योमखाग्निखर्तुनिशाकराः॥37॥

अष्टाश्विगजसप्तभूगोनगसप्तपञ्चभूमिता युगे सूर्यसावनदिवसाः। चान्द्रदिवसा युगतिथय इत्यर्थः। अशीतिशून्य चतुष्कत्रिखनृपा एते त्रिंशदभक्ताश्चान्द्रमासा उक्तप्रायाः। अनेन एव चान्द्रदिवसानामु-पपत्तिःसूर्यचन्द्रयोर्भगणयोः अन्तररूप चान्द्रमासास्त्रिंशद्गुणिता इति स्पष्टीकृता॥37॥

युगे अधिमाससंख्या। युगे क्षयतिथिसंख्या।

अथाधिमासावमयोः संख्यामाह -

षड्वहिनत्रिहुताशाङ्कतिथयश्चाधिमासकाः।
तिथिक्षया यमार्थाश्वि-द्वयष्टव्योमशराश्विनः॥38॥

अधिमासकाः प्रागुक्तस्वरूपाः चकाराद्युगे षड्देवरामगोशरेन्दुमितास्तिथिक्षया दिनक्षया अव-मानीत्यर्थः। अर्थाः पञ्च। एवं द्विशराकृत्यष्ट खतत्त्वानि ॥38॥

युगे सौरमाससंख्या। युगे सावनदिनसंख्या।
ननु सूर्यमासानुक्तेः अधिमाससंख्या कथं ज्ञाता इत्यतो रविमाससंख्यां स्वरूपेण क्वहांश्चआह-

खचतुष्कसमुद्राष्ट-कुपञ्च रविमासकाः।
भवन्ति भोदया भानुभगणैरूनिताः क्वहाः॥39॥


सूर्यमासा द्वादशगुणितरविभगणानुरूपाः शून्यखाभ्रखवेदधृतिशरमिताः। ननु सावनदिवससंख्या प्रागुक्ता कथमवगतेत्याह-भवन्तीति। भोदया नाक्षत्रदिवसाः प्रागुक्ताः, सूर्यभगणैः प्रागुक्तैर्वर्जिताः सन्तः क्वहा भूवासरा भवन्ति। भोदया इत्यादिप्रागुक्तेः॥39॥

ननु सूर्यादिमन्दोच्चभौमादिपातानां युगे भगणानुत्पत्तेः कल्पभगणकथनमावश्यकमतस्तत्पङ्क्त-यां प्रागुक्ताः एते भगणादयः कल्प एव कथं न उक्ता इत्यत आह-

अधिमासोनरात्र्यर्क्षचान्द्रसावनवासराः।
एते सहस्रगुणिताः कल्पे स्युर्भगणादयः॥40॥


एते प्रागुक्ता भगणादयो भगणादयः कल्प एव कथं न उक्ता इत्यत आह। एते प्रागुक्ता भगणा-दयो भगण आदिर्येषां ते भगणादयः। अधिमासोनरात्र्यर्क्षचान्द्रसावनवासरा अधिमासाःषड्वह्नीत्यादि तिथिक्षया इत्याद्यूनरात्रयोवमानि। ऋक्षचान्द्रसावनानां प्रत्येकं वासर सम्बन्धः। नाक्षत्रदिवसा भाना-मित्यादि। चान्द्रदिवसाश्चान्द्राः खाष्टेत्यादि। सावनदिवसा वसुद्वयष्टाद्रीत्यादि। अत्र सौरमासा अपि खचतुष्केत्यादि ग्राह्याः। सहस्रगुणिताः कल्पे भगणादय उक्ता भवन्ति युगसहस्रस्य कल्पत्वात्। त-था च लाघवार्थं युग उक्ता इति भावः॥40॥

अथ श्लोकाभ्यां रविचंद्रसूर्यादिग्रहाणां मन्दोच्चभगणान्वदन्पातभगणान्प्रतिजानीते-


प्राग्गतेः सूर्यमन्दस्य कल्पेसप्ताष्टयह्नयः।

कौजस्य वेदखयमा बौधस्याष्टर्तुवह्नयः॥41॥

खखरन्ध्राणि जैवस्य शौक्रस्यार्थगुणैषवः।
गोऽग्नयः शनिमन्दस्य पातानामथ वामतः॥42॥
मनुदस्रास्तु कौजस्य बौधस्याष्टाष्टसागराः।

कृताद्रिचन्द्रा जैवस्य त्रिखाड्का तथा भृगोः॥43॥

शनिपातस्य भगणाः कल्पे यमरसर्तवः।

भगणाः पूर्वमेवात्र प्रोक्ताश्चन्द्रोच्चपातयोः॥44॥


अथ श्लोकाभ्यां विचन्द्रसूर्यादिग्रहाणां मन्दोच्चभगणान् वदन् पातभगणान् प्रतिजानीते। प्राग्गतेः कल्प इत्यनयोः शनिमन्दान्तं प्रत्येकं सम्बन्धः। पूर्वगतेःसूर्यमन्दोच्चस्य कल्पे सप्ताष्टराममिताः शनिपातस्य भगणा इति वक्ष्यमाणस्य भगणा इति पदमत्र प्रत्येकमन्वेति। कौजस्य कुजसम्बन्धिनः सूर्यमन्दस्य इत्यस्य एकदेशो मन्दस्य इति मन्दोच्चस्य इत्यर्थकमत्रान्वेति। तथा च भौममन्दोच्चस्य चतुरधिकं शतद्वयम्। बौधस्य बुधमन्दोच्चस्य अष्टषष्टत्रिमिताः। जैवस्य गुरु सम्बन्धिनः। अत्र शनिम-न्दस्येति वक्ष्यमाणस्य एकदेशो मन्दस्य इति मन्दोच्चस्य इत्यर्थकमन्वेति एकवृत्तस्थत्वात्। यद्वा आ-द्यन्तयोर्मन्दस्य इत्युक्त्यैव मध्यस्थानामन्वयः सूपपन्न इति। तथा च गुरुमन्दोच्चस्य नवशतं शौक्रस्य शुक्रमन्दोच्चस्य पञ्चत्रिंशदधिकपञ्चशतं शनिमन्दोच्चस्य एकोनचत्वारिंशत्। अथ अनन्तरं पातानां भौमादिपातानां वामतः पश्चिमगत्या भगणा उच्यन्त इति शेषः॥41-42॥
** **तान् श्लोकाभ्यामाह। कुजसम्बन्धिनः। तुकारात् पातस्य भौमपातस्य कल्पे भगणाश्चतुर्दशाधिकं शतद्वयम्। बौधस्य बुधसम्बन्धिनः शनिपातस्य इत्यस्य एकदेशःपातस्य इत्यत्रान्वेति। बुधपातस्य द्वादशोना पञ्चशती। जैवस्य गुरुपातस्य चतुः सप्तत्यधिकं शतम्। भृगोः शुक्रस्य तथा सम्बन्धिनश्च-कारात् पातस्य शुक्रपातस्य इत्यर्थः। त्र्यधिका नवशती। शनिपातस्य द्विरसषट्का भगणाः कल्पे भ-वन्ति। ननु अस्मिन् प्रसङ्गे चन्द्रस्य उच्चपातयोर्भगणाः कथं न उक्ता इति मन्दाशङ्कापाकरणाय पूर्वोक्तं स्मारयति। भगणा इति। चन्द्रोच्चपातयोः चन्द्रस्य मन्दोच्चपातयोर्भगणा अत्र अस्मिन् अधि-कारेपूर्वग्रहयुगभगणकथने। एवकारो विस्मरणनिरासार्थकः प्रोक्ताश्चन्द्रोच्चस्य इत्यादिश्लोकेनो-क्ताः॥43-44॥


अथाभिमतकाले ग्रहगतभोगानयनं विवक्षुस्तदुपजीव्याहर्गणसाधनार्थं प्रवृत्त ग्रहचारकालाद्गताब्द-ज्ञानोपजीव्यं कृतयुगान्तीयगताब्दज्ञानं श्लोकत्रयेणाह—

षण्मनूनां तु सम्पीड्य कालं तत्सन्धिभिः सह।

कल्पादिसन्धिना सार्धंवैवस्वतमनोस्तथा॥45॥

युगानां त्रिघनं यातं तथा कृतयुगं त्विदम्।

प्रोज्झ्य सृष्टेस्ततः कालं पूर्वोक्तं दिव्यसङ्ख्यया॥46॥

सूर्याब्दसङ्ख्यया ज्ञेयाः कृतस्यान्ते गता अमी।

खचतुष्कयमाद्र्यग्निशररन्ध्रनिशाकराः॥47॥


षण्मनूनां कालं सौरवर्षात्मकं तत्सन्धिभिः षण्मनूनां कृतयुगप्रमाणैः षड्भिः सन्धिभिः सह सार्द्धं कल्पादिसन्धिना कृतप्रमाणःकल्पादौ इत्यनेन कल्पप्रारम्भसम्बद्धकृतयुगमितसन्धिना सार्द्धं सम्पी-ड्यैकृत्य तुकारात् आयुषोऽर्द्धमितं तस्य इत्यस्य निरासः। वैवस्वतमनोः वर्तमानसप्तम- वैवस्वता-ख्यस्य मनोर्युगानां त्रिघनं यातं युगसप्तविंशतिगतां तथैकीकृत्येदमष्टाविंशतियुगान्तर्गतं तुकारात् साम्प्रतं स्थितं कृतयुगं तथा गतत्वेनैकीकृत्य ततः सिद्धाङ्कात् सृष्टेः कालं सृष्टिकरणार्थं यः कालो वर्षात्मकस्तंदिव्यमानेन पूर्वोक्तं कृताद्रिवेदा दिव्याब्दाः शतघ्ना इत्यनेनोक्तम्। सूर्याब्दसंख्यया सौरवर्षमानेन षष्ट्यधिकशतत्रयगुणितं कृत्वा इति तात्पर्यार्थः। एतेन प्रागुक्तैकीकरणं सौरवर्षप्रमा-णेन न दिव्यवर्षप्रमाणेन इति व्यक्तीकृत्य च समुच्चयार्थोऽनुसन्धेयः। अमी अवशिष्टाब्दाः खाभ्रखा-भ्रद्विसप्तत्रिशरातिधृतयः कृतयुगचरणस्य अवसाने गता अतीता ज्ञातव्याः। ननु कल्पादस्माच्च मनव इत्यादिपूर्वोक्तसम्पीडितकालोक्त्येदं षण्मनूनामित्यादि पुनरुक्तमाभाति। न पूर्वं ब्रह्मगतवयः प्रमा-णज्ञानार्थमिदानीं च ग्रहसाधनार्थम्। अन्यथा गतब्रह्मवयः प्रमाणाद् ग्रहसांधनापत्तेरिति वाच्यम्। ब्र-ह्मगतवयः प्रमाणादेव ग्रहसाधनस्य युक्त्तत्वादिष्टापत्तेः। अन्यथा ग्रहचक्रादेर्ब्रह्मोत्पत्तिस्तदवसानपर्यृ-न्तं सत्वाद्ब्रह्मदिनाधिककाले गताब्दज्ञानाभावाद् ग्रहसाधनानुपपत्तिरिति चेन्न। युगसहस्रण भूतसंहा-रकारकः कल्प इत्यनेन ब्रह्मदिनान्ते ग्रहचक्रादिनाशोक्तेः तद्दिनादौ ग्रहचक्रोत्पत्तैश्च ब्रह्मदिवस एव तदादिगताब्दा ग्रहचारोपजीव्या न ब्रह्मगतायुः प्रमाणाब्दाः। ग्रहासत्वे ग्रहसाधनापत्तेः। अतः पुनर्ग-ताब्दा ग्रहचारोपजीव्या ब्रह्मदिनादितो ग्रहचारप्रवृत्तिकालपर्यन्तं यः सृष्टिविलम्बितकालस्तदूना ब्रह्म-दिनादिगताब्दाः सृष्टिगताब्दा ग्रहसाधनोपजीव्या इति तथोक्तम्। अन्यथा सृष्टयन्तर्गतकाले ग्रहचा-रासत्वे तत्साधनापत्तेः सृष्टिकालकथनानुपपत्तेश्चइति दिक्। यथा दिव्याब्दस्य सौरवर्षाणि 360 द्वादशसहस्रगुणितानि महायुगम् 4320000 इदमेकसप्ततिगुणं मनुमानम् 306720000 इदं ष-ड्गुणितं षण्मनुमानम् 1840320000 इदं स्वसन्धिभिः कृतयुगप्रमाणैः सप्तभिरेभिः 12096000 युतम् 1852416000 एतत् सप्तविंशतियुग 116640000 सहितम् 1969056000 कृतयुग 1728000 युक्तं जातानि कल्पगतवर्षाणि 197078400 सृष्टिदिव्याब्दैः 47400 खषडग्निगुणितैरे-भिः 17064000 हीनं सृष्टिगताब्दा ग्रहचारोपजीव्याः कृतयुगान्ते खचतुष्केत्यादि उपपन्नाः 1953720000 ॥45-47॥

अहर्गणसाधनम्। वारेशसाधनम्।
अथाभीष्टकालेऽहर्गणसाधनंततो दिनमासाब्दपप्रतिज्ञां वासरेश्वरज्ञानं चश्लोकचतुष्टयेन आह—


अत ऊर्ध्वममी युक्ता गतकालाब्दसङ्ख्यया।

मासीकृता युता मासैर्मधुशुक्लादिभिर्गतैः॥48॥

पृथक्स्थास्तेऽधिमासघ्नाः सूर्यमासविभाजिताः।

लब्धाधिमासकैर्युक्ता दिनीकृत्य दिनान्विताः॥49॥

द्विष्ठास्तिथिक्षयाभ्यस्ताश्चान्द्रवासरभाजिताः।

लब्धोनरात्रिरहिता लङ्कायामार्धरात्रिकाः॥50॥

सावनो द्युगणः सूर्याद्दिनमासाब्दपास्ततः।
सप्तभिःक्षयितः शेषःसूर्याद्यो वासरेश्वरः॥51॥


अतः कृतयुगान्तादूमुपरि अनन्तरमित्यर्थः।अभीष्टकाले यो गतकालस्तस्य सौरवर्षसंख्यया अमी कृतयुगान्तीयसृष्ट्यब्दाः खचतुष्केत्यादि पूर्वोक्ता युक्ता अभीष्टकालेसौरगताब्दा भवन्ति। एते मा-सीकृता द्वादशगुणिता इत्यर्थः। अभीष्टकाले मधुशुक्लादिभिः चैत्रशुक्लाद्यवधिभूतैः गतैः मासैयुर्ताः। अत्र गतमासान्तर्गतोऽधिमासश्चैन्न ग्राह्यस्तस्योत्तरमासाह्वयत्वेन तदन्तर्गतत्वात् तन्मासस्य षष्टिदिना-त्मकत्वाच्च। ते सिद्धाः पृथक्स्था युगाधिमासगुणिता युगसूर्यमासभक्ताः प्राप्ताधिमासकैः निरग्रैः सि-द्धाः युक्ताः। अत्र यदा स्पष्टोऽधिमासः पतित आनयने न लब्धस्तदानयनप्राप्ताधिमासैःसैकैर्युक्ताः। यदा तु स्पष्टोऽधिमासो न पतित आनयने प्राप्तस्तदानयनप्राप्ताधिमासैः निरेकैर्युक्ताः। अन्यथाभीष्ट कालसाधिताहर्गणस्य त्रिंशद्दिनान्तरितत्वापत्तेरिति ध्येयम्। एते सिद्धा दिनीकृत्य त्रिशता संगुण्येत्य-र्थः। दिनान्विता वर्तमानमासस्य शुक्लप्रतिपदादिगततिथिभिर्युक्ता इत्यर्थः। एते द्विष्ठाः स्थानद्वये स्थाप्या एकत्र युगावमैः गुणिता युगचान्द्रदिनैर्भक्ताश्च प्राप्तावमैः निरग्रैः अपरत्र हीनाः सन्तो लङ्कादे-शेऽर्द्धरात्रकालिकः सावनोऽहर्गणः स्यात्। ततः साधिताहर्गणात् सूर्यात् सूर्यमारभ्य दिनमासाब्दपा वासरेश्वरमासेश्वरवर्षेश्वरा भवन्ति। तत्र वासरेश्वरज्ञानमाह। सप्तभिरिति। अयमहर्गणः सप्तभिः क्षयि-तो भक्त्वा शेषितः कार्यः। स शेषोऽवशिष्टः सूर्याद्यः सूर्यवारादिको वासरेश्वरो वारस्वामी गतो भव-ति। तदग्रिमो वर्तमानो वारेश इत्यर्थसिद्धम्। अत्रोपपत्तिः। सौरवर्षाणां मासकरणे सृष्टयाद्यधिमा-सा-न्तकालसम्बन्धिसावयवसौरमासा अव्यवहितपूर्वपतिता अधिमासान्तकालदिस्वाभीष्ट चैत्राद्यन्तका-लसम्बन्धिसावयवचान्द्रमासाः तयोर्गोगःचैत्रादौ द्वादशगुणितसौरवर्षाणि जातानि कुत इति चेत् श्रृ-णु। द्वादशगुणित सौरवर्षादौ सौरमासा इति तु निर्विवादम्। ते स्वानीताधिमासैः सावयवैर्युताः चा-न्द्राः सावयवाः सौरवर्षादौ। एतेऽवयवहीनाः चैत्रादौ निरवयवाश्चान्द्रमासाः। अवयवस्य चैत्रादिसौरव-र्षाद्यन्तरकालरूपाधिशेषत्वात्। तेनिरग्राधिमासोनाश्चैत्रादौ अधिमासोनचान्द्रा द्वादशगुणितसौरवर्ष-रूपा उक्तयोगस्वरूपाः सिद्धाः। कथमन्यथा निरग्राधिमासयोजनेन एषा चैत्रादौ चान्द्रमासमानत्व-सम्भवः। एते स्वाभीष्टमासादि कालसिद्ध्यर्थं चैत्रशुक्लादिगतमासैर्युक्ताः।एतेन द्वादशगुणितसौर-वर्षमितसौरमासानां चैत्रादिगतचान्द्रमासाःकथं योजिता एकजातित्वाभावादिति दूषणाङ्गीकारो नि-रस्तः। उक्तरीत्या तत्र चान्द्रमासानामपि सत्वादेकजातीयत्वेन योगसम्भवात्। न हि पूर्वयोगोऽस्मा-भिः कृतो येन विजातीययोगो दूषणं तस्य द्वादशगुणितसौरवर्षरूपत्वेन स्वतः सिद्धत्वात्। अथ एषां निरग्राधिमासा योज्या इति सृष्ट्यादिपूर्वपतिताधिमासान्तकालावधि ये सौरमासाः क इत्यनुपातेन निरग्राधिमासाश्चान्द्रा भवन्ति सौरभ्यः साधितत्वात्। अथाभीष्टकालेऽधिमासावयवज्ञानार्थं युगचान्द्र-मासैर्युगाधिमासास्तदा पूर्वपतिताधिमासान्तका-लाभीष्टमासाद्यन्तरस्थितचान्द्रमासैः सावयवैरेभिः क इत्यनुपातेनाधिमासाभावात् तदवयवः सौरआयाति चान्द्रात्साधितत्वात्। परन्तु अवयवावयविनोः एकजातित्त्वासिद्धिरतःतत्सम्पादनार्थमधिमासावयवस्यउक्तसौरस्ययुगसौरमासैर्युगचान्द्रमासास्त-दाउक्तसौराधिमासावयवेन किमित्यनुपातेन युगचान्द्रमासा गुणो युगसौरमासा हर इति तुल्ययोर्गु-णहरयोर्युगचान्द्रमासयोर्नाशादिष्टचान्द्रमासानां युगाधिमासा गुणो युगसौरमासा हरइति फलमधि-मासावयवश्चान्द्रः। अथ तादृशेष्ट सौरचान्द्रमासयोः पृथगज्ञानादधिमासतदवयवयोर्ज्ञानमशक्यमपि ए-को हरश्चेद्गुणकौ विभिन्नौ इत्यादिरीत्येष्टतादृश सौरचान्द्रमासयोर्योग एव अयं ज्ञातोयुगाधिमासगु-णितो युगसूर्यमासभक्तः फलममिधमासाः। शेषात् तदवयवोऽहर्गणानयनेऽनुपयुक्तः। तत्र केवल-धिमासानामेव न्यूनत्वेन तेषामेव योजनावश्यकत्वात्। अयं सृष्ट्यादित इष्टमासादिपर्यन्तं चान्द्रमास-गणः सिद्धः। बहवस्तु द्वादाशगुणितसौरवर्षरूपसौरमासानां सौरवर्षादितोऽभीष्टकालपर्यन्तं सौरमा-सानामज्ञानाज्ज्ञातचैत्रादिगत-चान्द्रमासा एव योजिताः परमिष्टसौरमासेषु अधिमासशेषमधिकं त-च्चाधिमासानयनेऽधिशेषत्यागेन केवलाधिमासयोजने निरन्तरं भवति। अधिमासानयनं च चान्द्रमिष्ट-सौरमासत्वेनैव अधिशेषाधिकेष्टसौरमासानामङ्गीकारादित्याहुः। तच्चिन्त्यम्। केवलेष्टसौरमासानी-ताधिमासान निरग्राणामधिशेषाधिकसौरेष्टमासेषु योजनेनैव निरन्तरितत्वसिद्धेः। अन्यथाधिशेषगुणि-तयुगाधिमासेभ्यो युगार्कमासभक्ताप्तफलेनाधिशेषमधिकमायातीति परमासन्नाधिशेषस्य अधिकत्वे भवद्रीत्यनुपातानयनेन एकाधिकाधिकमासलब्ध्या योजितेन चान्द्रमासगण एकाधिकः स्यादिति। अथाभीष्टमासादिसिद्धचान्द्रदिनकरणार्थं त्रिंशद्गुणिता अभीष्टदिने तत्सिद्ध्यर्थं शुक्लादिगततिथयो-ऽत्र योजिता अभीष्टतिथ्यादौ चान्द्राहर्गणः। युगचान्द्रदिनैः युगावमानि तदा अनेन किमित्यनुपाताग-तावमैः सावयवैःहीनाश्चान्द्राहर्गणस्तिथ्यन्ते सावनोऽहर्गणो यमकोटिदेश सूर्योदयकाले ग्रहचारस्य प्र-वृत्तेस्तदादितो निरवयवाहर्गणसिद्ध्यर्थं तिथ्यन्ततत्कालयोः अन्तरमवमावयवरूपं योज्यमतः पूर्वमे-वावमावयवोऽनुपयुक्तोऽत्र न गृहीतोऽतः चान्द्राहर्गणः स्वानीतावमैः निरग्रैःहीनोऽहर्गणः सावनो निरवयवो यमकोटिदेशीयसूर्योदयकाले तत्र तद्देशस्य अप्रसिद्धतया प्रसिद्धलङ्कादेशार्द्धरात्रस्य तद्रूप-स्योक्तिः कृता। सृष्ट्यादौ अर्कवारसद्भावात् तदाद्या दिनमासवर्षेश्वराः। ग्रहाणां सप्तसंख्यत्वात् स-प्ततष्टोऽहर्गणः शेषं गतवारः॥48-51॥

मासेशसाधनम्। वर्षेशसाधनम्।
अथ प्रतिज्ञातयोर्मासवर्षपयोरानयनमाह—

मासाब्ददिनसङ्ख्याऽप्तंद्वित्रिघ्नं रूपसंयुतम्।
सप्तोद्धृतावशेषौ तु विज्ञेयाौमासवर्षपौ॥52॥

अहर्गणात् द्विष्ठादेकत्र मासदिनानां संख्यया त्रिंशता भक्तादाप्तं फलम्। अपरत्र वर्षदिनानां संख्यया षष्टयधिकशतत्रयेण भक्तादाप्तं फलम्। शेषयोरनुपयोगात् त्यागः। क्रमेण फलद्वयं द्वाभ्यां त्रिभिर्गुणितमुभयत्र एकसंख्यायुक्तं सप्तभागहारेण भक्तात् फलत्यागेन अवशिष्टौ क्रमेण मासस्वा-मिवर्षस्वामिनौज्ञातव्यौतुकारात् यत्क्रमेण वारेश्वरगणना तत्क्रमेण अनयोर्गणना परमत्र वर्तमानेत्य-र्थः। अत्रोपपत्तिः। सृष्टयादित्रिंशहदोरात्राणामेकः सौरसावनमासस्तस्य सूर्योऽधिपतिर्मासादि दिनेऽ-र्कस्याधिपतित्वात्। एवं द्वितीयमासादौ भौमस्य दिनाधिपतित्वाद्भौमो द्वितीयमासेश्वर इति प्रतिमासं मासेश्वरयोरन्तरं द्वयम्। त्रिंशद्दिनानां सप्ततष्टतया द्वयवशेषात्। एवं षष्टयधिकशतत्रयाहोरात्राणामेकं सौरसावनवर्षं तस्याधिपोऽर्कः। वर्षादिदिनेऽर्कस्याधिपतित्वात्। एवं द्वितीयसावनवर्षादौ बुधस्य दिनाधिपतित्वाद् बुधो द्वितीयवर्षेश्वर इति प्रतिवर्षं वर्षेश्वरयोरन्तरं त्रयं षष्ट्यधिकशतत्रयदिनानां सप्ततष्टतया त्र्यवशेषात्। तथा च वर्तमानकाले तद्गणनया कियन्तो मासा गताःकियन्ति च वर्षाणि गतानीति ज्ञानार्थमहर्गणस्त्रिंशद्भक्तः फलं गतमासाः षष्ट्यधिकशतत्रयभक्तः फलं गतवर्षाणि। ए-कमासे द्वौ वारौ तदा गतमासैः क इति गतमासवारा वर्त्तमानार्थं सैकाः। एवम् एकवर्षे त्रयो वारास्त-दा गतवर्षैः क इति गतवर्षवारा वर्त्तमानार्थं सैका वाराणां सप्तसंख्यत्वात् सप्ततष्टौ शेषौ सूर्यादिकौ मासवर्षेश्वरौ ॥52॥

ग्रहानयनम्।
अथ ग्रहानयनमाह-

यथा स्वभगणाभ्यस्तो दिनराशिःकुवासरैः।
विभाजितो मध्यगत्या भगणादिर्ग्रहो भवेत्॥53॥

दिनराशिरहर्गणो यथास्वभगणाभ्यस्तो यत्कालिकनिजोक्तभगणैर्गुणितो युगभगणैः कल्पभगणैः वा इत्यर्थः। तथा कुवासरैस्तात्कालिकसावनदिनैर्युगसावनैः कल्पसावनैर्वा इति यथायोग्यमित्यर्थः। भक्तः फलं यस्य ग्रहस्य भगणा गुणनार्थं गृहीताः स ग्रहो भगणादिर्भगणराशिभागकलाविकलात्म-कभोगात्मकः। मध्यगत्या मध्यगतिमानेन न प्रतिदिनविलक्षणस्फुटगतिप्रमाणेन अग्रे तत्प्रमाणेन ग्रहभोग-ज्ञानस्योक्तेः। मध्यमो ग्रहः स्यादित्यर्थः।
अत्रोपपत्तिः।युगादिसावनैर्युगादिभगणास्तदा एकेन दिनेन केति प्राप्ता मध्यमगतिस्तत एकेन दिनेन इयं गतिस्तदेष्टाहर्गणेन केति रूपयोस्तुल्यत्वेन विकाराजनकत्वाच्चनाशादुपपन्नमानयनम्।यद्यपियुगादिसावनैर्युगादिभगणास्तदेष्टशहर्गणेन किमित्येकानुपातेनानयनमुपपन्नं लाघवात् तथापि मध्यगत्येत्यस्य प्रदर्शनार्थमनुपातद्वयं गुरुभूतमपि प्रदर्शितम् ॥53॥

अथामुं प्रकारमुच्चपातयोरानयनायातिदिशति-

एवं स्वशीघ्रमन्दोच्चा ये प्रोक्ताः पूर्वयायिनः।
विलोमगतयः पातास्तद्वच्चक्राद् विशोधिताः ॥54॥

ये पूर्वयायिनः पूर्वदिग्गतयः स्वशीघ्रमन्दोच्चाः स्वेषां ग्रहाणां शीघ्रोच्चमन्दोच्चा ग्रहबहुत्वेन शीघ्रो-च्चमन्दोच्चयोर्बहुत्वात् बहुवचनम्। प्रोक्ताःपूर्वं भगणोक्त्या कथितास्तेऽप्येवं ग्रहानयनरीत्या सा-ध्याः। ननु पूर्वयायिन एवं साध्यास्तर्हि पश्चिमगतयः पाता कथं साध्या इत्यत आह। विलोमगतय इ-ति। पश्चिम गतयःपाता अपि तद्वद्ग्रहानयनरीत्या अत्र चन्द्रोच्चपातौ ग्रहानयनवत् युगकल्प भगणसा-वनाभ्यां सिद्धौ भवतोऽन्येषामुच्चपातौ तु कल्पसावनदिनहरेणेति ध्येयम्। ननु तर्हि पूर्वपश्चिमगत्योः को विशेष आनयन इत्यत आह। चक्रादिति। आगता राश्यादिपाता द्वादशराशिभ्यः शोध्याःपाता भवन्ति। एतावानेव विशेष इति भावः।अत्रोपपत्तिः। पूर्वयायिनोमेषवृषमिथुनादिक्रमेण गच्छन्ति पश्चिमगतयस्तु मेषमीनकुम्भेत्याद्युत्क्रमेण गच्छन्ति। तत्रोत्क्रमगणनाया लोकेऽनभ्यासाद्राशिक्रमेण तज्ज्ञानार्थं द्वादशराशिभ्यः शोधिताःपूर्वगतिपङ्क्तिस्था भवन्ति॥54॥

अथ संवत्सरानयनमाह –

द्वादशघ्ना गुरोर्याता भगणा वर्तमानकैः।
राशिभिः सहिताः शुद्धाः षष्ट्या स्युर्विजयादयः॥55॥

अहर्गणानीतस्य भगणादिकस्य बृहस्पतेर्याता गता भगणा उपरिस्था द्वादशगुणिता वर्त्तमानकैः यस्मिन् अधिष्ठितः स वर्तमानस्तत्सहितैः एकयुक्तैः इत्यर्थः। राशिभिर्गणितागतराशिभिर्यद्राशौ तिष्ठ-ति तस्य मेषादिसंख्यया इति फलितार्थः। युताः षष्ट्या शुद्धा भागावशेषिताः फलं भागाधिकं च अ-नुपयोगात् त्याज्यम्। विजयादयः संवत्सरा वर्तमानसहिता भवन्ति। अत्रोपपत्तिः। मध्यगत्या सभोगेन गुरोर्गौरववत्सराः।

इति लघुवशिष्ठसिद्धान्तोक्तेः गुरुमध्यराशिभोगकाल एकःसंवत्सर इति सृष्टयाद्यानीतभगणादिगु-रोः सम्पूर्णराशिज्ञानार्थं भगणा द्वादशगुणा वर्तमानराशिसंख्यायुताः षष्टितष्टाःशेषं विजयादिकः सं-वत्सरो वर्तमानो भवति। संवत्सराणां षष्टिसंख्यत्वात्। सृष्ट्यादौ विजयसंवत्सरसद्भावाच्च॥55॥

अथोक्तमुपसंहरन् लाघवेन ग्रहानयनमाह –

विस्तरेणैतदुदितं संक्षेपाद् व्यावहारिकम्।
मध्यमानयनं कार्यं ग्रहाणामिष्टतो युगात्॥56॥

एतत् षण्मनूनान्तु सम्पीड्येत्यादि विस्तरेण गणितक्रियाबाहुल्येन उदितमुक्तं व्यावहारिकं लोक-व्यवहारोपयुक्तमिदं ग्रहानयनं संक्षेपादल्पगणितप्रयासात् ज्ञेयम्। तदाह। मध्यमानयनमिति। ग्रहा-णां मध्यमानयनं मध्यमानेन गणितमिष्टतो वर्त्तमानात् त्रेताख्यात् युगात् महायुगस्यचरणात् त्रेतायुगा-दितो गताब्दैः अल्पभूतैः एवोक्तरीत्याहर्गणमानोक्तरीत्या मध्यग्रहा कार्या इत्यर्थः॥56॥

कृतयुगान्तीयग्रहस्थितिः। 22-23
ननु सृष्ट्यादितो ग्रहचारप्रवृत्तेस्तदादित आनीतस्य ग्रहस्य वास्तवत्वेन तत्तुल्योऽयं ग्रहः कथमवगत इत्यत आह–

अस्मिन् कृतयुगस्यान्ते सर्वे मध्यगता ग्रहाः।
विना तु पातमन्दोच्चान् मेषादौ तुल्यतामिताः ॥57॥

अस्मिन्निदानीन्तने कृतयुगस्य अवसानसमये सर्वे सप्तग्रहाः सूर्यादयो मध्यगता मध्यमा मेषादौ मेषादिप्रदेशे तुल्यतां समानतां गणितागतराश्यादिभोगेनेताः प्राप्ताः। पातमन्दोच्चान् विना पातम-न्दोच्चास्तु न तुल्या न वा मेषादौ। तथा न ग्रहाणां शीघ्रोच्चानाञ्च भगणपूर्तित्वात् त्रेतादिसमयावगत-कालादागतराश्यादयः सृष्ट्यादिगतकालावगतराश्यादिभिः तुल्या भगणानाञ्च प्रयोजनाभावादिति भावः॥57॥

अथ उच्चपातयोर्विशेषमाह-

मकरादौ शशाङ्कोच्चं तत्पातस्तु तुलादिगः।
निरंशत्वं गताश्चान्ये नोक्तास्ते मन्दचारिणः॥58॥

चन्द्रस्य मन्दोच्चं तदानीं मकरादौ अस्ति तत्पाश्चन्द्रपातस्तुलादिस्थोऽस्ति। तुकारात् अतस्तयोस्त्रे-तादित आनयनं नवषड्राशियोजनविशेषेण सुगममित्यर्थः। ननु एवमन्येषामपि यद्राश्यादिस्थत्वं त-त्कथनेन तेषामपि आनयनं सुगमं भविष्यतीत्यत आह। निरंशत्वमिति। अन्येऽवशिष्टा मन्दोच्चपाता ये मन्दचारिणोऽल्पगतय उक्ताः पूर्वं भगणोक्तया कथितास्ते चकारात् अस्मिन् कृतयुगान्ते निरंश-त्वमंशाभावतां न प्राप्ताः। तथा च तेषां राश्यादिकथने गौरवं मन्दगतित्वात् एकदानीताः सहस्रवर्षप-र्यन्तमुपयुक्ता भवन्तीति निरन्तरं तत्साधनावश्यकताभावात् तेषाम् आनयनं त्रेतादिगताब्देभ्य उपे-क्षितमिति भावः। यदि च तत आनीयन्ते तदा स्वस्वक्षेपयुक्ताः कार्याः। क्षेपकास्तु रविमन्दोच्चं रा-श्यादिकं 0, 7, 28, 12, भौमस्य 3, 3, 14, 24, बुधस्य 5, 4, 4, 48 गुरोः0, 9, 0, 0, शुक्रस्य 11, 13, 21, 0 शनेः4, 20, 13, 12, भौमपातस्य 9, 11, 20, 12, बुधस्य 8, 11, 16, 48, गुरोः 8, 8, 56, 24 शुक्रस्य 4, 17, 25, 48, शनिपातस्य 4, 20, 13, 12 एवमिष्टकालादपि ग्रहाः साध्याः स्वस्वक्षेपयोजनपूर्वम्॥58॥

मध्यमभूपरिधिः।
अथ ग्रहाणां देशान्तरफलानयनार्थं भूपरिधिः स्वोपजीव्यभूव्यासकथनपूर्वकमाह—

योजनानि शतान्यष्टौ भूकर्णो द्विगुणानि तु।
तद्वर्गतो दशगुणात् पदं भूपरिधिर्भवेत्॥59॥

अष्टौ शतानि द्विगुणानि षोडशशतं योजनानि भूकर्णो भुवो भूगोलस्य कर्णो वृत्तपरिधिमध्यभागसू-त्रं परिध्यर्धमितचापस्य ज्यारूपं द्विगुणं इत्यनेन शतानि अष्टौ केन्द्रात् परिधिपर्यन्तम् ऋजुसूत्रस्य मानमिति सूचितम्। कक्षाव्यासार्द्धस्य कर्णव्यवहारवदस्य अपि भूकर्णव्यवहारः। तुकारात् पुराण विरुद्धोऽपि प्रत्यक्षसहकृतागमप्रमाणसिद्धः। अस्मात् परिधिज्ञानमाह। तद्वर्गत इति। भूव्यासवर्गात् तुल्ययोः घातरुपाद्दशगुणान्मूलम्। कस्यायं समद्विघात इति तन्मूलं तत्प्रकारश्च ग्रन्थान्तरेप्रसिद्धः भूपरिधिःस्यात्। अत्रोपपत्तिः। गजाग्निवेदराममित 3438 त्रिज्यायाःकक्षाव्यासार्द्धत्वाद्द्विगणत्रिज्या रूपव्यासे चक्रकलातुल्यः परिधिः 21600 तदेष्टव्यासे क इति गुण 21600 हरौ 6876 हरेण अप-वर्तितौ हरस्थाने रूपं गुणस्थाने सार्द्धाष्टावयवयुताः त्रयः तथा च व्यासोऽनेन गुणितः परिधिर्भवति। तत्र भगवता गुणस्य एकस्थानकरणार्थं वर्गः कृतः 9, 52, 12 अत्र स्वल्पान्तराद्दश गृहीताः। वर्गेण वर्गं गुणयेदित्युक्तवात् व्यासवर्गो दशगुणितस्तन्मूलं व्यासो मूलरूपगुणगुणितः सिद्धो भवति। यद्यपि वर्गस्थाने दशग्रहणेन स्थूलमिदमानयनं तथापि परमवेदमङ्गलविश्वरूपमितव्यासस्य 11384 परिधिर्गणितागतः प्रत्यक्षेण खखखरसराममितः 36000 अत्र पूर्वोक्तरीत्यापवर्तनेगुणः 3, 9, 44 पदोनदशावयवयुतं त्रयमस्य वर्गो दशप्रायः9, 59, 59 इत्युपपन्नमुक्तम्॥59॥

स्पष्टभूपरिधिः।
अथ स्फुटपरिध्यानयनं देशान्तरफलानयनं तत्संस्कारञ्च श्लोकाभ्यामाह -

लम्बज्याघ्नस्त्रिजीवाप्तः स्फुटोभूपरिधिः स्वकः।
तेन देशान्तराभ्यस्ता ग्रहभुक्तिर्विभाजिता॥60॥
कलादि तत्फलं प्राच्यां ग्रहेभ्यः परिशोधयेत्।
रेखाप्रतीचीसंस्थाने प्रक्षिपेत् स्युः स्वदेशजाः॥61॥

द्वादशपलभयोर्वर्गयोगमूलमक्षकर्णः। अनेन द्वादशगुणिता त्रिज्या भक्ता फलं लम्बज्या। अनया गुणितो भूपरिधिस्त्रिज्यया गजाग्निवेदराममितया भक्तः फलं स्वकः स्वदेशसम्बन्धी स्पष्टो भूपरि-धिःस्यात्। ग्रहस्य गतिर्देशान्तराभ्यस्ता स्वरेखादेशस्वदेशयोरन्तरयोजनानि देशान्तरपदवाच्यानि तैर्गुणिता तेन स्पष्टेन भूपरिधिना भक्ता फलं कलादिकं तत् फलं प्राच्यां स्वरेखादेशात् स्वदेशस्य पू-र्वदिग् भागस्थितत्वे ग्रहेभ्यः कलादिस्थाने परिशोधयेत् वर्जयेत् हीनं कुर्यात इत्यर्थः। रेखाप्रतीचीसं-स्थाने स्वरेखादेशात् पश्चिमदिग्भागस्थिते स्वदेशे ग्रहेभ्यः कलादिस्थाने प्रक्षिपेत् योजयेत् युक्तं कु-र्यात् गणक इति शेषः। ते सिद्धा ग्रहाः स्वदेशजाः स्वदेशीया भवन्ति। पूर्वमहर्गणस्य लङ्कादेशीयत्वे-न तदुत्पन्नग्रहाणां लङ्कादेशीयत्वात्। अत्रोपपत्तिः- यद्यपि भूमेः कन्दुकाकारत्वेन सर्वत्राभिन्नः परिधि-रिति स्फुटपरिध्यसम्भवस्तथापि निरक्षदेशस्य मध्यत्वकल्पनेन उक्तो भूपरिधिः तद्देशानामेव तदन्य-त्र तदनुरोधेन वृत्तानां लघुत्वसम्भवेन उत्तरोत्तरं न्यूनपरिधिः स्वदेशे स्फुटसंज्ञः। एवं नवत्यक्षांशे मे-रूस्थाने वडवास्थाने च परिध्यभावः। निरक्षदेशे परम उक्तः परिधिः अतो यत्र आक्षांशाः परमा नव-तिः। लंबांशाभावः। यत्र अक्षांशाभावस्तत्र लंबाशाःपरमा नवतिः। लम्बांशाक्षांशौ तु वक्ष्यमाणस्वरू-पौ। तथा च लम्बांशह्रासानुरोधेन परिधेःअपि ह्रास इति परमलम्बांशैः नवतिमितैः उक्तो भूपरिधि-स्तदा स्वदेशीयलम्बांशैःक इत्यनुपात उपपन्नोऽपि वृत्ताश्रितांशेभ्योऽनुपातानामसम्भवेन सर्वैः उपे-क्षितत्वाच्च ज्यानुपातस्य सर्वैःअङ्गीकृतत्वात् प्रमाणस्थाने प्रमाणांशज्या परमा त्रिज्या। इच्छास्थाने इच्छांशानां ज्या लम्बज्या इति युक्तमुक्तम् उपपन्नं स्पष्टपरिध्यानयनम्। देशान्तरोपपत्तिस्तु लङ्कादे-शीयो ग्रहः स्वदेशतः समसूत्रेण यो दक्षिणोत्तरयोःनिरक्षदेश आसन्नस्तत्र कार्यः। तदर्थं लङ्कादेशस्व-निरक्षदेशयोः अन्तरयोजनज्ञानम् आवश्यकम्। एतत् तु अस्मादृशामशक्यम् इति परिध्यपचयवत् तदन्तरतोपचितं लङ्कोत्तरदक्षिणसूत्रस्थस्वरेखादेशस्वदेशयोः अन्तरं स्वपरिधिस्थं गणनया ज्ञातम्। अस्मात् स्वपरिधिनेदमन्तरं योजनात्मकं तदोक्तपरिधिना किमित्यनुपातेन लङ्का स्वनिर-क्षदेशयोः अन्तरमुक्तपरिधिस्थं ज्ञातम्। ततोऽर्कोदयद्वयान्तरकालेन अर्को भूपरिधिं क्रामति तत्र ग्रहाः स्वां स्वां गतिं कलात्मिकामतिक्रामन्ति अत उक्तपरिधिना ग्रहगतिकलाः तदा प्राक्सिद्धलङ्कास्वनिरक्षदेशा-न्तरयोजनैः केत्यनुपातेन उक्तपरिध्योः गुणहरयोः तुल्यत्वेन नाशात् स्वरेखादेशस्वदेशयोः अन्तरयो-जनानि ग्रहगतिगुणितानि स्वपरिधिभक्तानि फलं ग्रहस्यान्तरकलाः। यद्यपि स्वपरिधिना गतिकला-स्तदा स्वरेखादेशस्वदेशयोरन्तरयोजनैः केत्येकानुपातेन एव देशान्तरफलमुपपन्नं भवति तथापि नि-रक्षदेशपदार्थं सम्बन्धाभावात् इदमुपपन्नं फलं निरक्षदेशीयं कथमिति आग्रहनिरतातिमन्दस्य बोधा-र्थं गुरुभूतमपि अनुपातद्वयमुक्तम्। तद्धनर्णोपपत्तिस्तु लङ्कादेशात् स्वनिरक्षदेशस्य पूर्वभागस्थितत्वे लङ्कादेशार्द्धरात्रात् स्वनिरक्षदेशार्द्धरात्रमर्वाग्भवति। तदुदयकालात् प्रवहानिलवेगेन पूर्वोदयात्। अ-तोऽग्रिमकालीनग्रहस्य पूर्वकालिकत्वसिद्ध्यर्थं तत्फलं न्यूनं कार्यम्। एवं निरक्षदेशस्य लङ्कातः पश्चि-मस्थत्वे लङ्कोदयानन्तरोदयसद्भावात् लङ्कार्द्धरात्रात् अग्रिमकालेऽर्द्धरात्रमतः पूर्वकालिकग्रहस्य अ-ग्रिमकालिकत्वसिद्धार्थं तत्फलं योज्यम्। चक्रशोधितपातस्य अयं संस्कारो विपरीत इति ज्ञेयम्। स्व-निरक्षदेशस्य लङ्कातः पूर्वापरभागस्थत्वं स्वरेखादेशात् स्वदेशस्य पूर्वापरभागस्थस्य अनुरोधेन इति स्वनिरक्षदेशस्वदेशयोर्याम्योत्तरैक्यादर्द्धरात्रयोः अभिन्नत्वात् स्वदेशार्द्धरात्रयोः अभिन्नत्वात् स्वदेशा-र्द्धरात्रेऽपि स्वनिरक्षदेशार्द्धरात्रकालिका एव ग्रहा अविकृता इति सर्वमुक्तमुपपन्नम्॥60-61॥

मध्यरेखा।

अथ रेखास्वरूपं तद्देशांश्च कांश्चिदाह—

राक्षसालयदेवौकः शैलयोर्मध्यसूत्रगः।
रोहीतकमयन्ती च यथा सन्निहितं सरः ॥62॥


राक्षसालयः लङ्कादेवानां गृहरूपः पर्वतो मेरुःअनयोः मध्ये ऋजुसूत्रं तत्र स्थिता देशा रेखाख्या लङ्कादक्षिणसूत्रस्थास्तु अनुपयुक्ताः तत्र मनुष्या गोचरत्वादिति न उक्ताः। ज्ञानार्थम् उदाहरति। रो-हीतकमिति। यथा रोहीतकं नगरमवन्ति उज्जयिनी सन्निहितं सरः कुरुक्षेत्रम्। चकारस्तथा इति अ-व्ययपरः। तथा अन्यानि परस्परं सन्निहिततया ज्ञेयानि ॥ 62 ॥

देशान्तरज्ञानम्।
ननु येन स्वस्थानं रेखापुरात् पूर्वतोऽपरत्र वा कियत् योजनान्तरेण अस्तीति न ज्ञायते तेन देशान्त-रफलादिकं कथं कार्यमित्यतः श्लोकत्रयेण आह—

अतीत्योन्मीलनादिन्दोर्हक्सिद्धिर्गणितागतात्।

यदा भवेत् तदा प्राच्यां स्वस्थानं मध्यतो भवेत् ॥63॥

अप्राप्य च भवेत् पश्चादेवं वापि निमीलनात्।

तयोरन्तरनाडीभिर्हन्याद् भूपरिधि स्फुटम् ॥ 64 ॥

षष्ट्या विभज्य लब्धैस्तु योजनैः प्रागथापरैः।

स्वदेशपरिधिर्ज्ञेयः कुर्याद्देशान्तरं हितैः ॥ 65 ॥


चन्द्रस्य सर्वग्रहणान्तर्गतोन्मीलनकालात् विना देशान्तरं गणितागतात् चन्द्रग्रहणोक्तप्रकार गणि-तज्ञानात्। अतीत्य तत्कालस्य अतिक्रमण कृत्वा पश्चदनन्तरकाले मन्दबोधार्थमिदम्। अन्यथातीत्य पश्चादिति अनयोःएकतरस्य वैयर्थ्यापत्तेः। तच्चन्द्रविम्बस्य उन्मीलनं यदा यदि इत्यर्थः। स्वाभिमत-स्थानं मध्यतो मध्य रेखादेशात् पूर्वदिशि भवेत् तिष्ठति इत्यर्थः। पश्चात् तदित्यत्र दृक्सिद्धमिति पाठे तु प्रत्यक्षम् उन्मीलनमित्यर्थः। अप्राप्य तदतिक्रमणमकृत्वा पूर्वकाल एव। चकारात् चन्द्रोन्मीलनं यदि स्यात् तर्हि मध्यरेखातः स्वस्थानम् इत्यर्थः। पश्चात् पश्चिमदिग्भागे भवेत् तिष्ठतीत्यर्थः। ननु चन्द्रस्य स्पर्शमोक्षसम्मीलनोन्मीलनकालेषु उन्मीलनकाल एव कथं गृहीत इत्यत आह। एवमिति। वा प्रकारान्तरेण निमीलानाच्चन्द्र सम्मीलनकालात्। एवं चन्द्रग्रहणाधिकारोक्तगणितप्रकारज्ञानाद-नन्तरकाले सम्मीलनं तर्हि मध्यरेखादेशात् स्वस्थानं पश्चिमादिग्भागे तिष्ठति इत्यर्थः। अपिशब्दो नि-श्चयार्थे। तेन उन्मीलन सम्मीलनकालयोर्भिन्नरीतिव्युदासः। तथा च उन्मीलनग्रहणम् उपलक्षणार्थं त-त्रापि स्पर्शमोक्षयोः ग्रहणाद्यन्तरूपयोःअनिश्चयत्वसम्भावनयोक्तिमुपेक्ष्य ग्रहणमध्यस्थयोः सम्मील-नोन्मीलनयोः निश्वयत्वेनोक्तिः कृतेति भावः। अथ देशान्तरयोजनपुरःसरं देशान्तरफलं सिद्धमित्या-ह। तयोरिति। प्रत्यक्षोन्मीलानकालगणितागतोन्मीलनकालयोः सम्मीलनकालयोस्तादृशयोर्वा अन्तर-घटीभिर्भूपरिधिं स्पष्टं स्वदेशभूपरिधिं लम्बज्याघ्न इत्याद्यवगतं हन्याद्गुणयेत् तादृशं गुणितस्पष्टपरि-धिं षष्ट्या भक्ता लब्धैः प्राप्तैः योजनैः पूर्वभागयोजनैः। अथ अथवा अपरैःपश्चिमविभागस्थितैः योजनैः स्वदेशपरिधिः स्वदेशस्य परिधिरवधिः स्वदेशस्थानमण्डलरूपस्तुकारात् रेखादेशादन्तरित इत्यर्थः। ज्ञेयो गणकेनेति शेषः। स्वरेखा स्वदेशयोरन्तरयोजनानि फलमिति फलितार्थः। तैः अन्तर-योजनैः देशान्तरं तेन देशान्तराभ्यस्तेत्यादि प्रागुक्तप्रकारेण ग्रहाणां देशान्तरफलं कलात्मकं कुर्या-द्गणक इति शेषः। हिकारात् तत्संस्कारोऽपि अभिन्नप्रकारत्वात् अभिन्न इत्यर्थः।

अत्रोपपत्तिः। विना देशान्तरसंस्कारं ग्रहगणितं स्वरेखादेशीयं भवति। अतो गणितसाधितोन्मील-नसम्मीलनादिकालाः स्वरेखादेशे सिद्ध्यन्ति। स्वदेशे पूर्वविभागस्थेप्रथमं स्वस्य सूर्योदयादिकला-स्तदनन्तरं रेखाया इति चन्द्रग्रहणस्य सर्वदेशे युगपत् सम्भवात। गणितागतकालात् रेखादेशस्थाद-नन्तरं स्पर्शादिकालो भवति। एवं स्वदेशे पश्चिमविभागस्थे प्रथमं रेखादेशेऽर्कोदयादिकालास्तदन-न्तरं स्वदेश इति रैखास्थगतागतस्पर्शादिकालादधट्यात्मकात् पूर्वमेव स्पर्शादिकालोभवति।अतःसम्यगुपपन्नमतीत्येत्यादि सार्द्धश्लोकोक्तम्। स्वदेशरेखादेश सूर्योदयाद्यवधिकघट्यात्मकका-लयोरन्तरं देशान्तरघटिकाः सिद्धाः सूर्योदयद्वयान्तरकालेन अर्को भूपरिधिं क्रामतीति षष्टिसावनघ-टीभिर्भूपरिधियोजनानि स्वदेशीयानि तदातत्कालान्तररूपदेशान्तरघटिभिः कानि इत्यनुपातेन स्व-रेखादेशस्वदेशयोरन्तरयोजनानि। ज्ञातेभ्यः एभ्यः पूर्वदिशैव देशान्तरं भवति, सूर्यग्रहणस्य सर्वदेशे युगपद् सम्भवात् तदुन्मीलनकालादिना उक्तदिशा न एतज् ज्ञानमित्यनुक्तिरिति ध्येयम्॥63-65 ॥

वारप्रवृत्तिः। 27

अथ वारप्रवृतत्तिकालज्ञानमाह—

वारप्रवृत्तिः प्राग्देशे क्षपार्धेऽभ्यधिके भवेत्।

तद्देशान्तरनाडीभिः पश्चादूने विनिर्दिशेत् ॥66॥

रेखातः पूर्वभागस्थितस्वाभिमतदेशे तद्देशान्तरनाडीभिः पूर्वप्रकारज्ञातदेशान्तरनाडीभिः अभ्यधि-केऽर्द्धरात्रसमयेऽर्द्धरात्रे युक्तार्द्धरात्रसमयेऽर्द्धरात्रादनन्तरं देशान्तरघटिकाल इत्यर्थः। वारप्रवृत्तिः कालः स्यात्। रेखातःपश्चिमभागस्थदेशे पूर्वप्रकारज्ञातदेशान्तरघटीभिरूनेऽर्द्धरात्रेऽर्द्धरात्रात् पूर्व-मेव देशान्तरघटीकाले वारप्रवृत्तिं विनिर्दिशेद् गणकः कथयेत्।
अत्रोपपत्तिः। यमकोटिसूर्योदयकालो लङ्कार्द्धरात्रसमयरूपो ग्रहचारप्रवृत्तिरूपः स्वदेशेकदेति रेखातःपूर्वापरभागयो स्वार्द्धरात्रकालादनन्तरं पूर्वक्रमेण तदर्द्धरात्रं देशान्तरघटीभिर्भवति। स्वनिर-क्षदेशस्वदेशार्द्धरात्रयोः युगपत् सम्भवात्। अत उपपन्नं वारप्रवृत्तिरित्यादि। ननु एतत्कालज्ञानं किम-र्थमुक्तं प्रयोजनाभावादिति। चेत् न। अहर्गणोत्पन्नग्रहस्य तात्कालिकत्वात् तत्कालज्ञानेन स्वार्द्धरात्र-समयस्य तत्कालस्य च यदन्तरं तेन तात्कालिकस्य ग्रहस्य चालने कृते सति स्वार्द्धरात्रसमये ग्रहः पूर्वसाधित एव भवतीति मन्दप्रत्ययस्य एव प्रजोनत्वात्। तत्कालज्ञानेन ग्रहस्य देशान्तरसंस्काराकर-णमिति लाघवाच्च। अतएव समनन्तरमेव ग्रहस्य इष्टकालि-कत्वसिद्ध्यर्थं चालनोक्तिः सङ्गच्छते। एतेन तत् ततोऽर्द्धरात्रात् क्षपार्द्धेनिरक्षरात्र्यर्द्धे पञ्चदशघटिकात्मककालउत्तरगोलेऽर्कोदयाच्चरणी-मिताग्रिमकालेदक्षिणगोलेऽकदयाच्चरघटीमितपूर्वकाल इति फलितम्। पूर्वपश्चिमदेशयोर्देशान्तर-घटीभिरधिको काले क्रमेण वारप्रवृत्तिरिति व्याखानं लङ्कासूर्योदयकालरूपवारप्रवृत्तिबोधकमपा-स्तम्। तच्छब्दस्य पूर्वपरामर्शकत्वादर्द्धरात्रादित्यस्य अनुपपत्तेः पञ्चदशघटिका कालस्य क्षपार्द्धश-ब्देन असिद्धेश्च। श्री भगवताहर्गणस्य लङ्कायामार्द्धरात्रिक इत्यनेन लङ्कार्द्धरात्रकालिकत्वोक्तेः स्वदे-शे तत्कालरूपवारप्रवृत्तिकालज्ञानस्योक्तस्यसङ्गत्यनुपपत्तेः।व्यवहारयोग्यलङ्कासूर्योदयकालवार प्रवृत्तेरत्र सङ्गत्यभावाच्च॥66॥

ग्रहस्य तात्कालिकीकरणम्।

अथ ग्रहस्य तात्कालिकीकरणमाह—

इष्टनाडीगुणा भुक्तिः षष्ट्या भक्ता कलादिकम्।

गते शोध्यं युतं गम्ये कृत्वा तात्कालिको भवेत् ॥ 67 ॥

यत्कालिको ग्रहस्तत्कालात् पूर्वमपरत्र अभीष्टकाले या इष्टघट्यस्ताभिर्गुणिता ग्रहमध्यगतिः षष्ट्या भक्ता फलं कलादिकं गते गताभीष्टकाले पूर्वकालेऽभीष्टे सतीत्यर्थः। शोध्यं ग्रहेहीनं गम्येऽग्रिमाभी-ष्टकाले सति ग्रहे युतं कृत्वा गणकेन विधाय तात्कालिकःस्वाभीष्टसामयिको ग्रहो भवेत्। गणकेन ज्ञातो भवेत्।

अत्रोपपत्तिः। षष्टिसावनघटीभिर्गतिकलास्तदाभीष्टगतैष्यघटीभिः का इत्यनुपातेन अवगतकलात्म-कचालनेन ग्रहः क्रमेण युतोनस्तात्कालिको ग्रहो भवति। चक्रशोधितपातस्य विपरीतमिति ज्ञेयम्। चालितस्पष्टग्रहापेक्षया चालितमध्यग्रहः स्पष्टः कृतश्चेत् सूक्ष्म इति सूचनार्थमत्र ग्रहचालनमुक्तम्॥67॥
चन्द्रस्य परमविक्षेपमानम्।

अथ चन्द्रस्य परमविक्षेपमानमाह—

भचक्रलिप्ताशीत्यंशं परमं दक्षिणोत्तरम्।

विक्षिप्यते स्वपातेन स्वक्रान्त्यन्तादनुष्णगुः ॥ 68 ॥

अनुष्णगुश्चन्द्रःस्वक्रान्त्यन्ताद्विषुवदवृत्तानुकारेणअवलम्बितश्चन्द्रः स्वासन्नक्रान्तिवृत्त-प्रदेशेनाकृ-ष्यते तथा तत्स्थानात् स्वभोगमितरेवत्यासन्नाद्यवधिका- भीष्टस्थानभूतक्रान्तिवृत्तप्रदेशादपि स्वपातेन चन्द्रपातेन दक्षिणोत्तरं दक्षिणस्यामुत्तरस्यां वा तत् सूत्रेण विक्षिप्यते त्यज्यते स्वभोगस्थानक्रान्तिवृत्त-प्रदेशे चन्द्रविम्बं स्थातुं पातेन न दीयते, ततोऽपि चन्द्रविम्बं स्थलान्तरे दक्षिणोत्तरसूत्रेण किञ्चिदन्त-रेण त्यज्यत इत्यर्थः। एतेन सूर्यस्य पाताभावात् स्वभोगस्थानीयक्रान्तिवृत्तप्रदेशे विम्बं भवति न वि-क्षिप्तमित्यनुष्णगुरित्यनेनापि सूचितम्। परमविक्षेपणं दक्षिणोत्तरमित्यस्य विशेषणान्याह। भचक्रेति द्वादशराशिकलानां षट्शताधिकैकविंशतिसहस्रमितानामेषां 21600 अशीतिभागः खसप्तयमक-लामितः परमं यस्य तद्दक्षिणोत्तरमित्यर्थः। चन्द्रस्य परमो विक्षेपः खभमित इति फलितम्। केचित् अत्र सूर्यस्य शराभावात् तत्कक्षातो भचक्रस्य पञ्चमकक्षत्वात् ततोऽपि चन्द्रकक्षाया अष्टमत्वात् तत्र दक्षिणोत्तररूपदिग्द्वये चन्द्रस्य विक्षेपणात्पञ्चाष्टद्विघातरुपाशीत्यंशोभचक्रलिप्तानां परमचन्द्रवि-क्षेपइत्युपपत्तिमाहुः॥68॥
मंगलादीनां परमविक्षेपमानम्।
अथैवं भौमादयोऽपि स्वपातैःविक्षिप्यन्त इत्येषामपि परमविक्षेपानाह—

तन्नवांशं द्विगुणितं जीवस्त्रिगुणितं कुजः।

बुधशुक्रार्कजाः पातैर्विक्षिप्यन्ते चतुर्गुणम् ॥ 69 ॥

तन्नवांशं तस्य चन्द्रपरमविक्षेपस्य नवभागं त्रिंशतं द्विगुणितं षष्टिकलामितं परमेण तदन्तरेण इ-त्यर्थः। पातेन गुरुर्दक्षिणोत्तरयोः क्रमेण विक्षिप्यते। भौमः पातेन त्रिगुणितं त्रिंशतं नवति कलामितप-रमान्तरेण विक्षिप्यते। चतुर्गुणं त्रिंशतं विंशत्यधिकशतकलामितपरमान्तरेण बुध शुक्रशनैश्चराः स्व-स्वपातैः प्रत्येकं विक्षिप्यन्ते स्वभोगक्रान्तिवृत्तप्रदेशात् त्यज्यन्ते। केचित् अत्रापि त्रयस्त्रिंशत्कलावि-म्बात् चन्द्रान्नवांशद्विगुणेन सत्र्यंशकलासप्तकस्य गुरुविम्बस्य तदरूपं विक्षेपणं युक्तमस्माद्भौम-स्याधस्तत्वात् त्रिगुणं परमविक्षेपणम् अस्मादपि बुधशुक्रयोः लघुपृथुविम्बयोः अधःस्थत्वात् चतुर्गुणं परमविक्षेपणं तुल्यं न अल्पाधिकमेवंशनेरुच्चकक्षास्थत्वेऽपिमन्दत्वात् बुधशुक्रविक्षेपणतुल्यं पर-मविक्षेपणं युक्तमित्युपपत्तिमाहुः॥69॥

ननु एषामत्र कथने का सङ्गतिरित्यतः पूर्वोक्तमुपसंहरन्नाह—

एवं त्रिघनरन्ध्रार्करसार्कार्का दशाहताः।

चन्द्रादीनां क्रमादुक्ता मध्यविक्षेपलिप्तिकाः ॥ 70 ॥

एवं पूर्वश्लोकाभ्यां त्रिघनः सप्तविंशती रन्ध्राणि नवद्वादशषट्वादशद्वादशैते दशगुणिताः क्रमादु-क्तांकक्रमात् चन्द्रादीनां वारक्रमात् चन्द्रभौमबुधगुरुशुक्रशनीनां विक्षेपकला मध्या अग्रे परमशर-कलानामनियतत्वेन उक्तेः। कथिता। तथा च मध्यत्वेन एषामत्र प्रसङ्गसङ्गत्या कथनमिति भावः॥ 70॥

अथ पूर्वापरग्रन्थयोः असङ्गतिनिवारणायाधिकारसमाप्ति फक्किकया आह—
मयं प्रति सूर्याशंपुरुषेण सूर्योक्तस्यैव कथनादेतत् उक्तस्यापि सूर्यसिद्धान्तत्त्वम्। तत्र मध्यममाने-न गणितमधिक्रियते यस्मिन् एतादृशो ग्रन्थैकदेशः परिपूर्तिमाप्त इत्यर्थः॥

रङ्गनाथेन रचितसूर्यसिद्धान्तटिप्पणे। मध्याधिकारः पूर्णोऽयं तद्गूढार्थप्रकाशके॥

इति श्रीसकलगणकसार्वभौमबल्लालदैवज्ञात्मजरंगनाद्यैगणकविरचिते गूढार्थप्रकाशके मध्यमा-धिकारः पूर्णः ॥1॥

स्पष्टाधिकारः-2

स्पष्टग्रहसंस्कारप्रयोजनम्।

अथ स्पष्टाधिकारोव्याख्यायते। तत्र ग्रहाणां मध्यमातिरिक्तस्पष्टक्रियायां कारणमाह—

अदृश्यरूपाः कालस्य मूर्तयो भगणाश्रिताः।
शीघ्रमन्दोच्चपाताख्या ग्रहाणां गतिहेतवः॥1॥


शीघ्रोच्चमन्दोच्चपातसंज्ञकाः पूर्वोक्तपदार्थो जीवविशेषाः सूर्यादिग्रहाणां गतिकारणभूताः सन्ति। ननु कालेन एव ग्रहचलनं भवतीति कालो गतिहेतुर्नैते इत्यत आह। कालस्य इति। पूर्वप्रति-पादितकालस्य स्वरूपाणि तथा च एषां कालमूर्तित्वेन ग्रहगतिहेतुत्वं नासम्भवतीतिभावः। ननु का-लस्य घट्यादिमूर्तित्वेन ग्रहगतिहेतुत्वं नासम्भवतीतिभावः। ननु कालस्य घट्यादिमूर्तित्वात् एषां त-दात्मकत्वाभावात् कथं कालमूर्तित्वमित्यत आह। भगणाश्रिता इति। भगोलस्थक्रान्तिवृत्तानुसृतग्रह-गोलस्थक्रान्तिवृत्तप्रदेशाश्रिता राश्यात्मका इत्यर्थः। तथा च ग्रह राश्यादिभोगानां कालवशेन एव उत्पन्नत्वात् तदात्मकानां कालमूर्तित्वमिति भावः। ननु दृश्यन्ते कुतो न इत्यत आह। अदृश्यरूपा इति। वायवीयशरीरा अव्यक्तरूपत्वात् अप्रत्यक्षा इति भावः। एवं च ग्रहाणामुच्चादिसद्भावात् स्पष्ट-क्रियोत्पन्नेति तात्पर्यम्॥1॥

गतिकारणम्।
अथ अनयोरूच्चपातयोर्मध्य उच्चयोः गतिहेतुत्वं प्रतिपादयति-

तद्वातरश्मिभिर्बद्धास्तैः सव्येतरपाणिभिः।
प्राक्पश्वादपकृष्यन्ते यथासन्नं स्वदिङ्मुखम् ॥ 2 ॥


तेषामुच्चसंज्ञकजीवानां वायुरूपा ये रश्मयो रज्जवस्ताभिर्बद्धा विम्बात्मकग्रहास्तैः उच्चसंज्ञक-जीवैः सव्यवामहस्तैःउच्चबहुत्वेन हस्तबाहुल्यात् बहुवचनं हस्ताभ्यामित्यर्थः। स्वदिङ्मुखं यथासन्नं ग्रहविम्बं भवति तथा प्राक् पश्चात् पूर्वपश्चिममार्गाभ्यामित्यर्थः। अपकृष्यन्ते आकर्ष्यन्ते। अयमभि-प्रायः। भचक्रगोलस्थक्रान्तिवृत्तानुसृतग्रहाकाशगोलान्तर्गतक्रान्तिवृत्ते कक्षारूपे स्वस्वप्रदेशे ग्रहोच्च-पातास्तिष्ठन्ति। तत्र विम्बव्यासोनकक्षाकारसूत्रं प्रवहवाय्वतिरिक्तवायुरूपं स्वतोगति स्वस्थाने क-म्पमान ग्रहविम्बव्यासै पूर्वापरेप्रोतमुच्चजीवहस्तद्वयान्तर्गतमस्ति। अथग्रहविम्बमुच्चस्थानात् पूर्व-स्मिन् स्वशक्त्यागच्छन् अपि वामहस्तस्थितसूत्रेण उच्चस्थानात् पश्चात् षड्भान्तरं तयोः अनन्तरं तन्मार्गेण आकर्षणसम्भवात् पूर्वस्मिन् गच्छद् ग्रहविम्बं सव्यहस्रस्थितसूत्रेण उच्चस्थानात् पश्चिम-रूपेण ग्रहस्थानात् पूर्वरूपेण वृहत्सूत्रावयवात्मकेन स्वस्थानात् पूर्वस्मिन् स्वाभिमुखमाकृष्यते स्व-शक्त्या निरन्तरंयावदन्तराभावस्तयोरिति ॥ 2 ॥

विलक्षणगतिकारणम्।
अथात एव एकरूपां पूर्वाधिकारावगतां गतिं त्यक्त्वा प्रत्यहं विलक्षणां गतिं प्राप्ताग्रहा इत्यत आ—

प्रवहाख्यो मरुत् तांस्तु स्वोच्चाभिमुखमीरयेत्।
पूर्वापरापकृष्टास्ते गतिं यान्ति पृथग्विधाम् ॥ 3 ॥


प्रवहाख्यःप्रवहसंज्ञको मरुद्वायुः पश्चिमाभिमुखं भ्रम्नस्तान् ग्रहान् तुकारात् उच्चानि स्वोच्चाभिमुखं स्वस्य प्रवहभ्रमणेन उच्चं भावप्रधान निर्देशादुच्चता यस्यां दिशि तत् स्वोच्चं पूर्वदिक् पूर्वभाग एव ग्रहाणां प्रवहभ्रमेण उच्चगमनदर्शनात् तत्सम्मुखं पूर्वदिशीति तात्पर्यार्थः। ईरयेत् पश्चिमाभिमुखं भ्रमन् सिद्धप्रागुक्तग्रहावलम्बनरूपेण चालयतीत्यर्थः। अतः कारणात् ते ग्रहाः पूर्वापरापकृष्टा उच्च-देवतैः पूर्वपश्चिमदिशोराकृष्टाः पृथग्विधां प्रथमावगतैकरूपभिन्न-प्रकारावगतां प्रतिक्षणविलक्षणां गतिं गमनक्रियां यान्ति प्राप्नुवन्ति। अवलम्बनाकर्षणाभ्यां प्रतिदिनं ग्रहाणां गतैरन्यादृशत्वं तदनुसारे-ण ग्रहचारज्ञानं युक्तमिति ग्रहाणां स्पष्टक्रियोत्पन्नेति भावः। यद्वा। ननु वायुरज्जुभिः कथं ग्रहाणामा-कर्षण सम्भवति तत् रज्जूना विरलतया घनीभूतत्वाभावेन आकर्षणायोग्यत्वादित्यत आह। प्रवहाख्य इति। उच्चदेवाताहस्तद्वयस्थितकक्षाकारसूत्रं वायुः प्रवहवायुसम्बन्धात् प्रवहसंजो न पश्चिमाभिमुख-भ्रमप्रवहात्मकस्तान् ग्रहान्स्वोच्चाभिमुखं स्वोच्चदेवता स्थानसम्मुखमीरयेत् प्रेरयति चालयति। तुकारात् उच्चस्थानात् पूर्वस्मिन् ग्रहे वायुः पश्चिमगत्या ग्रहं चालयति पश्चिमस्थे वायुः पूर्वगत्या ग्रहं चालयतीत्यर्थः। तथा च कक्षाकारसूत्रं तदा तथा तथा भ्रमतीति दैवतैः आकृष्यत इत्युपचारादुच्यत इति भावः। अतएव ग्रहाणां स्पष्टक्रियोत्पन्नेत्याह। पूर्वापरापकृष्टा इति।उच्चदैवतैः पूर्वापरदिशयोः अपकृष्टा ग्रहाः पृथग्विधां मध्यमातिरिक्तप्रकारां गतिं गमनक्रियां यान्ति। अतो न केवलं मध्यक्रिय-या निर्वाहः॥3॥

अथ प्राक् पश्चात् अपकृष्यन्त इत्युक्तं विशदयति –

ग्रहात् प्राग्भगणार्धस्थः प्राङ्मुखं कर्षति ग्रहम्
उच्चसंज्ञोऽपरार्धस्थस्तद्वत्पश्चान्मुखं ग्रहम्॥4॥


ग्रहस्थानात् पूर्वभागस्थराशिषट्कस्थित उच्चसंज्ञो जीवो ग्रहविम्बं पूर्वदिभिमुखं स्वाभिमुखं कर्ष-त्याकर्षति। अपरार्द्धस्थो ग्रहस्थानात् पश्चिमभागस्थराशिषट्कस्थितउच्चसंज्ञो जीवो ग्रहविम्बं पूर्वदि-गभिमुखं स्वाभिमुखं कर्षत्याकर्षति। अपरार्द्धस्थो ग्रहस्थानात् पश्चिमभागस्थराशिषट्कस्थितउच्च-संज्ञो जीव इत्यर्थः। ग्रहविम्बं पश्चान्मुखं पश्चिमदिगभिमुखं स्वाभिमुखं तद्वदाकर्षति इत्यर्थः॥4॥

अथ पूर्वोक्तसिद्धं फलितमाह-

स्वोच्चापकृष्टा भगणैः प्राङ्मुखं यान्ति यद् ग्रहाः।

तत् तेषु धनमित्युक्तं फलं पश्चान्मुखेष्वृणम्॥5॥

स्वोच्चजीवाकर्षिता ग्रहाः पूर्वोक्तसिद्धं फलितमाह। स्वोच्चजीवाकर्षिता ग्रहाः पूर्वाभिमुखं भगणैः राशिभिः भगोलस्थक्रान्तिवृत्तानुसृत- स्वाकाशगोलान्तर्गतक्रान्तिवृत्तै द्वादशराश्यन्तिकै यद् राशिवि-भागैः इत्यर्थः। यद्यत्संख्यामितं गच्छन्ति तत्तत्संख्यामितं भागादिक फलरूपं तेषु पूर्वावगतग्रहरा-श्यादिभोगेषु धनं योज्यम्। पश्चान्मुखेषु पश्चिमाकर्षितग्रहपूर्वावगतराश्यादिभोगेषु तुकारात् यत्सं-ख्यामित फलरूपं पश्चिमतो गच्छति तदित्यर्थः। ऋणं हीनमिति। एतत् पूर्वैः कथितम्॥5॥

अथ पातानां ग्रहविक्षेपरूपगतिहेतुत्वं प्रतिपादयति-

दक्षिणोत्तरतोऽप्येवं पातो राहुः स्वरंहसा।
विक्षिपत्येष विक्षेपं चन्द्रादीनामपक्रमात् ॥ 6 ॥


चन्द्रादीनां विरविग्रहाणामपक्रमात् क्रान्तिवृत्तस्थस्पष्टग्रहभोगस्थानात् दक्षिणोत्तरतो दक्षिणस्याम् उत्तरस्यां वा दिशि। अपि शब्दः पूर्वापराभ्यां समुच्चयार्थकः। एष गणितागतः पातः पातराश्यादि-भोगस्थानम्। अत्रापि अपिशब्द उच्चेन समुच्चयार्थकोऽन्वेति। एवमुच्चेन पूर्वापरयोः फलान्तरं भव-ति तथेत्यर्थः। विक्षेपं विक्षेपणं स्वरंहसात्मवेगेन विक्षिपति करोति विशिष्टवाचकानां पदानां विशेषण-वाचकपद समवधाने विशेष्यमात्रार्थत्वात्। चन्द्रादीन् विक्षिपतीति तात्पर्यार्थः। ननु उच्चेन स्वाधिष्ठि-तजीवद्वारा ग्रहाकर्षणं क्रियते तथा पातेन अचेतनत्वाद्वैगाभावेन ग्रहविक्षेपणं कर्तुमशक्यम् इत्यत आह। राहुरिति। पातस्थानाधिष्ठात्री देवता राहुः जीवविशेषःचन्द्रपातस्तु दैत्यविशेषो राहुः। रहति त्यजति ग्रहमिति राहुरिति व्युत्पत्तेः॥6॥

अथ एतद्विशदयति-

उत्तराभिमुखं पातो विक्षिपत्यपरार्धगः।
ग्रहं प्राग्भगणार्धस्थो याम्यायामपकर्षति ॥7 ॥

अपरार्द्धगो ग्रहस्थानात् पश्चिमविभागस्थित भगणार्धात्मकराशिषट्कस्थितो राहुः ग्रहविम्बं स्वरा-श्यादिभोगस्थानीय प्रदेशादूत्तरदिगभिमुखं विक्षिपति विक्षेपान्तरेण त्यजति। प्राग्भगणार्द्धस्थः त्यज-ति ग्रहस्थानात् पूर्वविभागस्थितराशि षट्कमध्यस्थितो दक्षिणस्यां दिशि अपकर्षति विक्षिपति॥7॥

अथ बुधशुक्रयोः विशेषमाह-

बुधभार्गवयोः शीघ्रात् तद्वत् पातो यदा स्थितः।

तच्छीघ्राकर्षणात् तौ तु विक्षिप्येते यथोक्तवत्॥8॥


बुधशुक्रयोः शीघ्रोच्चात् जात्यभिप्रायेण एकवचनम्। बुध शुक्रयो पातो जात्यभिप्रायेण एकवच-नम्। तद्वत् परार्द्धपूर्वार्द्धभगणार्द्धमध्ये यदा यत्काले स्थितस्तुकारात् तत्काले पाताभ्यामित्यर्थः। तौ बुधशुक्रौ यथोक्तवत् पूर्वार्द्धपरार्द्धक्रमेण दक्षिणोत्तरयोःविक्षिप्येते विक्षेपान्तरेण त्यज्येते। ननु उ-च्चात् तादृगवस्थितपातौ सम्बन्धाभावात् बुधशुक्रौ दक्षिणोत्तरयोः कथं त्यजतोऽन्यथा वैयधिकरण्ये-न अतिप्रसङ्गापत्तेरित्यतः कारणमाह। तच्छीघ्राकर्षणादिति। बुधशुक्रयोः शीघ्रोच्चे तयोः आकर्षणा-भ्यां जात्यभिप्रायेण एकवचनम्। तथा च तदुच्चाभ्यां तादृगवस्थितपातौ तदुच्चजीवौ दक्षिणोत्तरयोः त्यजत इति पूर्वोक्तरीत्या न्यायसिद्धमतस्तदुच्चसूत्रबद्धत्वात् बुधशुक्रयोस्तथा विक्षेपणं न्यायसिद्धमे-व इति भावः। ननु भौमगुरुशनीनामेवं कथं न उक्तमनयोः वा कथमेतदुक्तं सर्वेषामेकरीतिकथनस्य समुचितत्वात्। किञ्जगुरुभौमशनीनामुच्चदेवताः स्वस्वकक्षास्था इति फलमुपपन्नं भवति बुधशुक्र-योः उच्चदेवतयोः कक्षातो दक्षिणोत्तरयोः स्थितत्वेन पूर्वोक्तरीत्या फलानुपपत्तिर्विलक्षणप्रवहवायुसू-त्रस्थदेवतासम्बद्धस्य स्पष्टभूपरिध्याकारत्वेन कक्षाकारत्वाभावात्। विना कक्षाकारतां फलोत्पादन-स्य ब्रह्मणोऽपि अशक्यत्वाच्च। न च विलक्षणप्रवहवायुसूत्रं देवतासम्बद्धग्रहाकाशगोले कक्षाकार-त्वाभावेऽपि अशक्यत्वाच्च। न च विलक्षण प्रवहवायुसूत्रं देवतासम्बद्धं ग्रहाकाशगोले कक्षाकारत्वा-भावेऽपि कक्षातुल्यं स्थानान्तर इति फलोत्पत्तिर्याम्योत्तरान्तरसत्वेऽपि कल्पनया इति वाच्यम्। उ-च्चदेवता स्थानस्य कक्षातो दक्षिणत्वेतत्षड्भान्तरप्रदेशस्यउत्तरत्वावश्यम्भावेनोच्चबुधशुक्रयोः एक-दिग्विक्षेपतुल्यत्वनियमानुपपत्तेः। तत्कथमिदं सङ्गतं भगवदुक्तमिति चेत्। अत्रोच्यते। स्वरुच्या स-ङ्गतार्थमङ्गीकृत्य तद्दूषणोद् घानेन भगवदुपालम्भनकर्त्तुःरसनाच्छेदस्तत्तत्वार्थप्रकाशेन अवश्यं करणीयः। तथाहि स्वशीघ्रोच्चाद् बुधशुक्रयोर्यदन्तरं राश्यात्मकं तद्वत् पातस्तेनान्तरेण युक्तः पूर्वा-नीतपात इत्यर्थः। यथा बुधशुक्रयोः अपरपूर्वार्धक्रमेण स्थितोऽवस्थितस्तुकारात् तथेत्यर्थः। तच्छीघ्रा-कर्षणात् तादृशपाताभ्यां शीघ्रं वेगेन आकर्षणं तस्मात् पातस्थानाधिष्ठातृदेवताभ्यां स्वहस्तस्थितग्रह-सम्बद्धवायुसूत्रस्य अतिवेगाकर्षणरचनादित्यर्थः। तौ बुधशुक्रौ उक्तवदुत्तरदक्षिणक्रमेण विक्षप्यते। अत्र पातशब्देन चक्रशोधितपातो बोध्यः। अन्यथा ग्रहोनशीघ्रोच्चरूपकेन्द्रयोजनस्योपपत्तिसिद्धत्वेन शीघ्रोच्चोनग्रहरूपकेन्द्रयोजनोक्त्यनुपपत्तेः। तथा च सर्वग्रहसाधारणं विक्षेपकथनं पातभेदर्शनार्थं बुधशुक्रयोः पृथगुक्तम्। न हि अन्यस्मिन् पक्षउच्चयोर्विक्षेपणं प्रतीयते येन प्रागुक्तसर्वविलोपाशं-कनं शंकनीयम्। पातभेदोक्तकारणञ्च। येचात्र पातभगणाः कथिता ज्ञभृग्वोस्ते शीघ्रकेन्द्रभगणैर-धिका यतः स्युः। स्वल्पाःसुखार्थमुदिताश्चलकेन्द्रयुक्तौ पातौ तयोः पठितचक्रभवौ विधेयौ। इति भा-स्कराचार्योक्तमिति दिक्॥8॥

स्यादेतत्परमुच्चदेवतयोरविशेषात् सूर्यचन्द्रयोः समं फलं कुतो न भवतीत्यतआह—

महत्वान्मण्डलस्यार्कः स्वल्पमेवापकृष्यते।

मण्डलाल्पतया चन्द्रस्ततो बह्वपकृष्यते॥9॥


सूर्यो मण्डलस्य विम्बस्य महत्वात् गुरुत्ववत्वात् स्वल्पमितरग्रहापेक्षयाल्पं परमफलम्। एवकारो निर्द्धारणेऽपकृष्यते उच्चजीवेनापकृष्यते। चन्द्रो मण्डलाल्पतया विम्बस्य लघुत्वेन ततः सूर्यफलात् बह्वधिकं परमफलमुच्चजीवेन आकृष्यते॥9॥

अथ अतएव भौमादीनामल्पमूर्तित्वादाभ्यां फलाधिकत्वं सम्भवतीत्याह–

भौमादयोऽल्पमूर्तित्वाच्छीघ्रमन्दोच्चसंज्ञकैः।

दैवतैरपकृष्यन्ते सुदूरमतिवेगिताः॥10॥


भौमादयः पञ्चग्रहा अल्पमूर्तित्वात् लघुतरविम्बत्वात् शीघ्रमन्दोच्चसंज्ञकैः शीघ्रोच्चमन्दोच्चसंज्ञैर्दै-वतैः सुदूरमत्यन्तं बह्वपकृष्यन्ते। अत एवातिवेगिता अत्यन्तवेगः सञ्जातो येषां ते विम्बलघुत्वेन उच्च-द्वयाकर्षणेन च बहुपरमफला इत्यर्थः। ननु सूर्यचन्द्रयोः कक्षाकारविलक्षणप्रवहवायुचलनेन फलो-त्पादनं युक्तं भौमादीनां तु प्रत्येकमुच्चद्वयसद्भावात् वायुरश्म्याकर्षणासम्भवेन कक्षाकारप्रवहविल-क्षणवायुचलनेन फलोत्पादनार्थमङ्गीकृतं कथं सम्भवति। उच्चद्वयस्थानस्य एकत्वाभावात्। न हि ए-कमेव वायुमण्डलं युगपद्विरुद्धगत्योराश्रयं स्वतो भवितुमर्हतीति चेन्न भौमादीनां शीघ्रमन्दोच्चदेवता-द्वयेन तत् सूत्रमार्गेण ग्रहबिम्बाकर्षणस्य एव स्वशक्त्या रचनात्। न वायुमण्डलचलनकल्पनं सूर्यच-न्द्रयोरपि एवमेवाङ्गीकारे वाधकाभावात् च। वायुमण्डलकल्पनं तु तद्वातरश्मीत्युक्त्वनुपपत्यानाति प्रयोजनम्। तद्वातरश्मिभिर्बद्धा इत्यस्य पश्चिमभ्रमात्मकप्रवहवायौ स्वस्वाकाशगोले समसूत्रसम्बन्धे-न स्थिता इति ग्रहस्थितिस्वरूपोक्त्या समर्थनात् न हि तदत्र हेतुगर्भं येनानुपपत्तिःशंकनीया। उच्च-देवता कल्पनेन आकाशस्थग्रहाणां तथा स्वशक्त्या तदाकर्षणात् फलद्वयसंस्काररूपैकफलोत्पादनं सङ्गच्छते अतएव सूत्रं ग्रहबिम्बप्रोतं कक्षाकारमिति कल्पनमपि निरस्तम्। उच्चद्वयात् तुल्यकर्षणेन विरुद्धकर्षणेन च सूत्रमण्डलभङ्गापत्तेरिति॥10॥

अथ एतदुपसंहरति—

अतो धन सुमहत् तेषां गतिवशाद्भवेत्।

आकृष्यमाणास्तैरेवं व्योम्नि यान्त्यनिलाहताः॥11॥


अतः पूर्वोक्तसुदूराकर्षणप्रतिपादनात् तेषां भौमादीनां गतिवशात्आकर्षणोत्पन्नचलनवशात् सु-महत् अत्यधिकं फलं धनर्णं स्वोच्चापकृष्टेत्यादिना भवति। ननु आकर्षणोत्पन्नचलनं कथं न प्रत्यक्ष-मित्यत आह। आकृष्यमाणा इति। तैः उच्चपातदैवतैः एवमुक्तप्रकारेण आकृष्टमाणा आकर्षिता एते भौमादयो व्योम्नि स्वस्वाकाशगोलेऽनिलाहताः पश्चिमाभिमुखानवरता प्रवहवाय्वाघाता यान्ति गच्छ-न्ति। तथा च अवलम्बनोत्पन्नपूर्वगतिर्यथा न प्रत्यक्षा तथा पूर्वगतिविकृत्यात्मकमेतत् आकर्षणचलन-मनियतं प्रवहवायुभ्रमणप्राबल्यात् अप्रत्यक्षमिति भावः॥11॥

ग्रहणामष्टधागतिः।
अथ एवं गतिकारणसञ्चयैर्ग्रहाणां भौमादीनां फलितैका गतिरष्टभेदात्मिकाइत्याह –

वक्राऽतिवक्रा कुटिला मन्दा मन्दतरा समा।
तथा शीघ्रतरा शीघ्रा ग्रहाणामष्टधा गतिः॥12॥


भौमादिग्रहाणां विरविचन्द्राणामष्टप्रकारा गतिः फलिता। तत्र वक्रेत्यादिसमेत्यन्तं षट्प्रकारा गतिः शीघ्रतरा शीघ्रेति गतिद्वयम्। तथा समुच्चये। आसां स्वरूपज्ञानमग्रे स्फुटम्॥12॥

अथ एनामष्टधागतिं भेदद्वयेन क्रोडयति-

तत्रातिशीघ्रा शीघ्राख्या मन्दा मन्दतरा समा।

ऋज्वीति पञ्चधा ज्ञेया या वक्रा सातिवक्रगा॥13॥


तत्राष्टविधगतिषु अतिशीघ्रेत्यादिसमेत्यन्ता इत्येवं पञ्चधा गतिः। ऋज्वी मार्गी गतिर्ज्ञेया या गतिः सानुवक्रगानुवक्रगमनेन सह वर्तमाना पूर्वश्लोकेऽनुवक्रगतेर्वक्रकुटिलमध्याभिधानाद् उभयथासन्न-त्वाच्च वक्रानुवक्रा कुटिला इति गतिर्वक्रा ज्ञेया तथा च ग्रहाणां मार्गी वक्रेति गतिद्वयम्॥13॥

अथ ग्रहाणां स्पष्टक्रियां प्रतिजानीते-

तत्तद्गतियशान्नित्यं यथा दृकतुल्यतां ग्रहाः।
प्रयान्ति तत् प्रवक्ष्यामि स्फुटीकरणमादरात्॥14॥


नित्यं प्रत्यहं तत्तद्गतिवशात् तास्ता गतय एकस्मिन् दिने शीघ्रापरदिनेऽतिशीघ्रेत्यादिना यस्मिन् दिने या गतिस्तत्सम्बन्धानुरोधाद् इत्यर्थः। ग्रहाः सूर्यादयो यथा येन प्रकारेण दृकतुल्यतां वैधितग्रह-समतां गच्छन्ति तत् तादृशं स्फुटीकरणं स्पष्टक्रियागणितप्रकारमादरात् अत्यन्ताभिनिवेशात् एतेन असङ्गतत्वनिरासः। प्रवक्ष्यामि सूक्ष्मत्वेन कथयामि॥14॥

ज्यासाधनम्।

अथ तत्र प्रथमं ज्यासाधनार्थं ज्यार्द्धपिण्डान् विवक्षुस्तदानयनं श्लोकाभ्यामाह—

राशिलिप्ताष्टमो भागः प्रथमं ज्यार्धमुच्यते।

तत्तद्विभक्तलब्धोनमिश्रितं तद् द्वितीयकम्॥15॥

आद्येनैवं क्रमात् पिण्डान् भक्त्वा लब्धोनसंयुताः।

खण्डकाः स्युश्चतुर्विशज्ज्यार्धपिण्डाः क्रमादमी॥16॥

एकराशिकलानाम् अष्टादशशतानाम् अष्टमोंऽशस्तत्त्वाश्विमितः प्रथममाद्यं ज्यार्द्धं सम्पूर्णजीवार्द्ध-पिण्डकः कथ्यते तदभिज्ञैः। ततः प्रथमज्यार्द्धात् तेन प्रथमज्यार्द्धेन भक्ता लब्धेन हीनमन्यस्य अप्र-सङ्गात् प्रथमज्यार्द्धमनेन युक्तं तत् प्रथमज्यार्द्धं द्वितीयकं ज्यार्द्धं भवति। द्विगुणप्रथममेकोनं तृती-यादीनामानयनार्थमुक्तप्रकारम्। अतिदिशति। आद्येनेति। प्रथमज्यार्द्धपिण्डैन। एवमुक्तरीत्या क्र-मात् सिद्धपिण्डान् भक्ता लब्धैरुनमाद्यं खण्डमनेन युताः खण्डका असिद्धाव्यवहित सिद्धज्यार्द्धपि-ण्डा असिद्धपिण्डा भवन्ति। यथा प्रथमखण्डं 225 प्रथमभक्तं फलं 1 द्वितीयखण्डं 449 प्रथमभक्तं फलं द्वयं 2 अर्द्धाधिकावयवस्य एकाधिकत्वेन ग्रहस्य साम्प्रदायिकत्वात्। फलैक्योनं प्रथमं 222 अ-नेन द्वितीयखण्डो 449 युतस्तृतीयं 671 एवमिदं प्रथमखण्डभक्तं फलं 3 अनेन पूर्वफलैक्यं 3 युतं जातं 6 सर्वफलैक्यमनेन प्रथमं खण्डं हीनं 219 अनेन तृतीयं 671 युतं चतुर्थं 890 एवमिदं प्रथम-खण्डभक्तं फलं 4 पूर्वलब्धैक्योन प्रथमखण्डरूपं 219 ज्यान्तररूपखण्डकमनेन 4 हीनं 215 अ-नेन चतुर्थं युतं पञ्चमं 1105 एवमग्रेऽपि। अथोक्तरीत्यासंख्यखण्डानां सम्भवात् खण्डनियममाह। स्युरिति। एवं चतुर्विंशत्संख्याका ज्यार्द्धपिण्डाः कार्या न तदधिकाः अत्र।

एकविंशाच्च विशाच्च षष्ठात् पञ्चदशादपि। सप्तमाद्वादशात् सप्तदशन्नार्दोत्तरमतम्॥

इति ब्रह्मासिद्धान्तोक्तस्थलेऽर्द्धाधिकावयवस्य एकाधिकत्वेन न ग्रह इति ध्येयम्। गणितस्य अवि-कृतत्वात् सिद्धाः पिण्डाः कथं न उक्ता इत्यत आह। क्रमादिति। अमी सिद्धाः क्रमात् समनन्तरमेव उच्यन्ते। अत्रोपपत्तिः। समायां भूमौ वृत्तं भगणकलाङ्कितं तिर्यगूद्हर्वाधरव्यासमितरेखाभ्यां चतुर्भागं कार्यं तत्रोर्ध्वरेखासक्तपरिधिप्रदेशात् उभयत्र समविभागं विगणय्य तदग्रयोर्बद्धं सूत्र वृत्ते द्विगुणवि-भागमितसम्पूर्णचापस्य सम्पूर्णज्या। अत्र गणित उर्ध्वरेखातोऽर्द्धज्याया एव प्रयोजनात् तदर्द्धमर्द्ध-ज्या। एवं वृत्तचतुर्थांश उर्ध्वरेखातोऽभीष्टांशानां चापार्द्धाकाराणामर्द्धज्या अभीष्टा गण्याः। तत्र भग-वता स्वेच्छया वृत्तचतुर्थांशे त्रिराशिमिते चतुर्विंशज्याः कल्पितास्तज्ज्ञानं तु वृत्ते चक्र कलानामङ्कित-त्वात् तत्परिधिव्यासार्द्धं त्रिराशिज्यान्तिमा। भनन्दाग्निमितपरिधौ खबाणसूर्यमितो व्यासस्तदा चक्र-कलापरिधौ क इत्यनुपातेन व्यासानयनम्। यथा चक्रकलाः 21600 खबाणसूर्यगुणाः 27000000 भनन्दाग्नि 3927 भक्ता व्यासः6876 एतदर्द्धमन्तिमा ज्या 3438 अथ वृत्ते चापज्ययोर्विवेके तयोर-तुल्यत्वमपि भगवता कोऽपि वृत्तभागः समोऽस्त्यन्यथामलकादौ सर्षपाद्यवस्थानं न स्यादिति मत्वा तद्भागस्य ज्या तत्तुल्या एव इति।

वृत्तस्य षण्णवत्यंशो दण्डवद्श्यते तु सः॥इति शाकल्योक्तेः प्रथमज्या चक्रकलाद्वादशांश रू-पैकराशिकलानामष्टभागस्तत्वाश्विमितः एतन्मितमेव प्रथमचापमत एतदन्तरेण अभीष्टा ज्याश्चतु-र्विशत्। अथ चतुर्विंशतिजीवानां यथोत्तरमुपचयात् तदन्तररूपखण्डानां यथोत्तरमपचयस्य वृत्ते ज्याङ्कनेनप्रत्यक्षत्वाज्यान्तररूपखण्डानामन्तरंयथोत्तरमुपचितमितिद्वाविंशतित्रयोविंशतिचतुर्विंश-तिज्यानामन्तरयोरन्तरमिदं परमं खण्डान्तरं सूक्ष्मज्योत्पत्तिप्रकारेण अवगत 15, 16, 48अथ त्रि-ज्या इदं खण्डकान्तरं तदा प्रथमज्यया किमित्यनुपातेन फलप्रमाणयोःफलेनापवर्त्य प्रमाणस्थाने तत्वाश्विनोऽनेन भक्ता प्रथमज्या फलं पूर्वद्वितीयखण्डयोरन्तरम्। अनेन पूर्वखण्डं हीनं द्वितीयं ख-ण्डं भवति। तत्र पूर्वखण्डं प्रथमज्यातुल्यमेव। द्वितीयखण्डं प्रथमज्यायां युतं द्वितीयज्या एवमस्या-स्तत्वाश्विभागलब्धं द्वितीयतृतीयखण्डकयोरन्तरमनेन द्वितीयखण्डमूनं तृतीयखण्डमित्यनेन द्वितीय-ज्यायुता तृतीयज्या। एवं चतुर्थाद्याः। तत्र पूर्वमर्द्धाभ्यधिकग्रहणेन उत्तरत्राधिकान्तरपातसम्भावनया क्वचित् क्वचिदर्द्धाभ्यधिकावयवस्य एकाधिकत्वेनाग्रह इत्युपपन्नं श्लोकद्वयम्॥15-16॥

उत्क्रमज्यार्धपिण्डज्ञानम्। परमक्रान्तिज्या। क्रान्तिज्यासाधनम्।
अद्यैताः सिद्धाः श्लोकषट्केन कथमन्नुत्क्रमज्या-र्धपिण्डाज्ञानमाह—

तत्वाश्विनोऽङ्काब्धिकृता रूपभूमिधरर्तवः।

खाङ्काष्टौ पञ्चशून्येशा बाणरूपगुणेन्दवः॥17॥

शून्यलोचनपञ्चैकाश्छिद्ररुपमुनीन्दवः।

पञ्चाष्टविषयाक्षीणि कुञ्जराश्विनगाश्विनः॥18॥

मुनिषड्यमनेत्राणि चन्द्राग्निकृतदस्रकाः।

पञ्चाष्टविषयाक्षाण कुञ्जराश्विनगाश्विन॥19॥

रन्ध्रपञ्चाष्टकयमा वस्वद्र्यङ्कयमास्तथा।

कृताष्टशून्यज्वलना नगाद्रिशशिवह्नयः॥20॥

षट्पञ्चलोचनगुणाश्चन्द्रनेत्राग्निवह्नयः।

यमाद्रिवह्निज्वलना रन्ध्रशून्यार्णवाग्नयः॥21॥

रूपाग्निसागरगुणा वस्वग्निकृतवह्नयः।

प्रोज्क्तयोत्क्रमेण व्यासार्धात उत्क्रमज्यार्धपिण्डका॥22॥

तथा समुच्चये। एतान् उक्तान् क्रमज्यार्द्धपिण्डान्। उत्क्रमेणोपान्त्य पिण्डादिप्रथमपिण्डान्तं प्रत्ये-कं व्यासार्द्धात् त्रिज्यारूपपरमपिण्डात् प्रोज्झ्य न्यूनीकृत्य क्रमेण उत्क्रमज्यार्द्धपिण्डा भवन्ति। यथा त्रयोविंशतितमं ज्यार्द्धमुक्तं रूपाग्निसागरगुणा इति वस्वग्निकृतवह्नय इति चरमपिण्डादूनं सप्रथम उत्क्रमज्यार्द्धपिण्डः। एवं द्वाविंशतितमं चरमाच्छुद्धं द्वितीय उत्क्रमज्यार्द्धपिण्डः। एवमग्रेऽपीति चतुर्विंशत् उत्क्रमज्यार्द्धपिण्डाः।
अत्रोपपत्तिः। ज्याचापयोः बाणरूपमन्तरमुत्क्रमज्या।यद्यपि पूर्वार्द्धज्यावत् बाणस्यार्द्धं न सम्भव-ति इति उत्क्रमज्यापिण्डा इति वक्तुमुचितं न उत्क्रमज्यार्द्धपिण्डा इति। तथापि भगवतानुगतपरि-भाषार्थं चापवाह्यशराग्राभावेन उत्क्रमज्यायाः पूर्णशरांशत्वात् उत्क्रमज्यार्द्धमित्युक्तम्। अथ वृत्तच-तुर्थांशे सर्वज्याकनेन यदंशानां ज्या त्रिज्यातो हीना तत्कोट्यंशानामुत्क्रमज्येति स्फुटंदृश्यत अत उक्तज्यार्द्धं क्रमेण उत्क्रमज्याज्ञानार्थं व्युत्क्रमेण त्रिज्याशुद्धा उक्तपिण्डा उत्क्रमज्या पिण्डा इत्युप-पन्नं प्रोज्झ्येत्यादि॥17-22॥

अथ श्लोकपञ्चकेन उत्क्रमज्यापिण्डान् पूर्वोक्तसिद्धान निबध्नाति–

मुनयो रन्ध्रयमला रसषट्का मुनीश्वराः।

द्वयष्टैका रूपषड्दस्राःसागरार्थहुताशनाः॥23॥

खर्तुवेदा नवाद्र्यर्था दिङ्नगास्त्र्यर्थकुञ्जराः।

नगाम्बरवियच्चन्द्रा रूपभूधरशंकराः॥24॥

शरार्णवहुताशैका भुजङ्गाक्षिशरेन्दवः।

नवरूपमहीध्रैका गजैकाङ्कनिशाकराः॥25॥

गुणाश्विरूपनेत्राणि पावकाग्निगुणाश्विनः।

वस्वर्णवार्थयमलास्तुरङ्गर्तुनगाश्विनः॥26॥

नवाष्टनवनेत्राणि पावकैकयमाग्नयः।

गजाग्निसागरगुणा उत्क्रमज्यार्धपिण्डकाः॥27॥

एते उत्क्रमज्यापिण्डाः पूर्वसिद्धा निबद्धा महीध्रःपर्वतो भुजज्याभावेकोट्युत्क्रमज्यायाः परमत्वात् शून्यज्योना त्रिज्या परमोत्क्रमज्यापिण्डस्त्रिज्याया उभयत्र परमत्वेन अर्थसिद्धमन्त्यपिण्डत्वं वा इति ध्येयम्॥23-27॥


अथ प्रसङ्गात् परमक्रान्तिज्यां वदन् क्रान्त्यानयनमाह –

परमापक्रमज्या तु सप्तरन्ध्रगुणेन्दवः।
तद्गुणा ज्या त्रिजीवाप्तातच्चापं क्रान्तिरुच्यते॥ 28॥


त्र्यूनंचतुर्दशशतं1397 परमक्रान्तिज्या तुकारात् चतुर्विंशत्यंशानां वक्ष्यमाणज्यानयनप्रकारसि-द्धेत्यर्थः। अभीष्टाज्या परमक्रान्तिज्यया गुणिता त्रिज्या भक्ता फलस्य वक्ष्यमाणप्रकारेण धनुः क्रा-न्तिः कलात्मिका तत्वज्ञैः कथ्यते।

अत्रोपपत्तिः। विषुवद्वृत्तभागस्य याम्योत्तरस्यान्तरं ध्रुवाभिमुखं वृत्ताकारसूत्रे क्रान्तिः तत्र सायनमेषतुलादि स्थाने तयोरन्तराभावात् कर्कमकरादौ तयोः परमान्तरत्वात् अभीष्टभुजज्यावशात् क्रान्तिरूपपन्नेति त्रिज्यातुल्यभुजज्यया परमक्रान्तिज्या तदेष्टभुजज्यया कैत्यनुपातेन फलं ध्रुवाभिमु-खसूत्रे तदन्तररूपार्द्धं चापस्यार्द्धज्याविषुवद्वृत्तोर्ध्वाधरमध्यसूत्रात् तच्चापं तदन्तरकलात्मिका क्रा-न्तिः॥28॥

केन्द्रसंज्ञा। भुजज्यासंज्ञा। कोटिज्यासंज्ञा।
अथ फलानयनार्थं केन्द्रपदात् भुजकोटिज्ये कार्ये इत्याह-

ग्रहं संशोध्य मन्दोच्चात् तथा शीघ्राद् विशोध्य च।
शेषं केन्द्रं पदं तस्माद् भुजज्या कोरेिव च॥29॥


ग्रहं राश्यादिकं मन्दोच्चात् प्रागानीतस्वकीयराश्यादिकमन्दोच्चभोगात्संशोध्योनीकृत्य शीघ्रात् प्रागानीतराश्यादिशीघ्रोच्चात्। चः समुच्चये। ऊनीकृत्य शेषं राश्यात्मकं तथोच्चसम्बन्धन केन्द्रं म-न्दोच्चात् हीनो ग्रहो मन्दकेन्द्रम्। शीघ्रोच्चाद्धीनो ग्रहः शीघ्रकेन्द्रं भवतीत्यर्थः। तस्मात् केन्द्रात् पदं राशित्रयात्मकं विषमं समं पदं ज्ञेयम्। त्रिराश्यन्तर्गतं चेत् प्रथमं पदम्। ततः षड्राश्यन्तर्गतं चेत् त्र्यूनं केन्द्र द्वितीयं समं पदम्। ततो नवराश्यन्तर्गतं चेत् षडूनं तृतीयं विषमं पदम्। ततो नवोनं चतुर्थं पदं सममित्यर्थः। तस्मात् पदात् भुजस्य ज्या कोटिःकोटेर्ज्या चः समुच्चये। एवकारात् एकाद्द्वयं सा-ध्यमित्यर्थः। अत्रोपपत्तिः। उच्चस्थानाभिमुखमुच्चदैवतैः ग्रहाणामाकर्षणोक्तेः उच्चाद्ग्रहः कियदन्तरे-णेति ज्ञानार्थमुच्चहीनो ग्रहः केन्द्रमुच्चग्रहणवशात् तदाख्यम्। तत्र भगवता स्वेच्छया ग्रहादुच्चं यद-न्तरेण तत् केन्द्रं कृतम्। उभयथा भुजकोटयोस्तुल्यत्वात्। द्वादशराश्यङ्किते वृत्ते उच्चस्थानात् चतुर्विभागात्मक एकैको भागो राशित्रयात्मकः पदसंज्ञः। अथोच्चस्थानाद्ग्रहः कस्मिन् पदेऽस्तीति शू-न्यत्रिषण्णवोनं केन्द्रं कृतं ज्यानां पदान्तर्गतत्वात्। ग्रहाधिष्ठितपदाद्भुजज्याकोटिज्ययोर्ज्ञानम्॥29॥


** **ननु पदेग्रहस्य राशिविभागात्मकेन एकत्वाद्भुजकोटिज्ययोरतुल्ययोः साधनं कथमित्यत आह-

गताद्भुजज्याविषमे गम्यात्कोटिः पदे भवेत्।
युग्मे तु गम्याद् बाहुज्या कोटिज्या तु गताद् भवेत्॥30॥


** **विषमे पदे गताद् ग्रहस्य पदादितो यद्गतं राशिविभागात्मकं प्राग् ज्ञातं तस्मात् इत्यर्थः। भुजज्या स्यात्। गम्याद्गतोनं त्रिभं ग्रहात् पदान्तौअधिकमेष्यम्। तस्मात् कोटिःकोटिज्या स्यात्। युग्मे समे तुकारात् पद एष्याद्भुजज्यागतात् कोटिज्या स्यात्। तुकारो विशेषद्योतकः। एकस्मादेवोक्तरीत्या द्वयं साधितमित्यर्थः। अत्रोपपत्तिः। विषमपदे ग्रहोच्चोर्ध्वाधररेखान्तरानुसारेण फलमुत्पद्यते ततो वृ-त्तान्तस्तदन्तरमर्द्धज्या भुजरूपा तदर्द्धचापं तदन्तरांशा वृत्तभागस्था गताः। ऊर्ध्वाधररेखा मत्स्यस-म्पन्नतिर्यग्रेक्रेखाग्रहयोः अन्तरसूत्रमर्द्धज्यापदान्तः कोटिज्या भुजोत्क्रमज्ययोनव्यासार्द्धरेखारूपको-टितुल्यत्वात्। तदर्द्धचापं भुजांशोनं त्रिभमिति गम्यात् कोटिज्या। समपदे ग्रहोर्ध्वाधररेखान्तरं तिर्य-गर्द्धज्या भुजज्येति तदर्द्धं चापं यदैष्यं तिर्यग्रेखाग्रहान्तरं तिर्यगर्द्धज्याकोटितुल्यत्वात् कोटिस्तच्चापं पदगतमित्युपपन्नं गतादित्यादि॥30॥

चापाज्ज्यानयनम्।

अथाभीष्टकलानां ज्यासाधनं श्लोकाभ्यामाह-

लिप्तास्तत्वयमैर्भक्ता लब्धं ज्यापिण्डकं गतम्।

गतगम्यान्तराभ्यस्तं विभजेत् तत्वलोचनैः॥31॥

तदवाप्तफलं योज्यं ज्यापिण्डे गतसंज्ञके।

स्यात् क्रमज्या विधिरयमुत्क्रमज्यास्वपि स्मृतः॥32॥

यस्य राश्यात्मकस्य पदान्तर्गतस्य ज्या कर्तुमिष्टा तस्य कलाःकार्याः। तत्वाश्विभिर्भक्ता लब्धं चतु-र्विंशज्यापिण्डेषु पूर्वोक्तेषु लब्धसंख्याकाः पिण्डो गतो भवति तदग्रिमपिण्ड एष्यः पूर्वं तु स्वरूपो-क्त्यर्थं पिण्डानां ज्यार्द्धेत्युक्तिरिदानीं तु तेषामेव अर्द्धत्यागेन ज्यापिण्डत्वोक्तिः। अर्द्धग्रहणे गणित-क्रियायां व्याकुलतापत्तेः। न तु पूर्वपिण्डाद्द्विगुणाः गणितक्रियायां ग्राह्या इत्याशयेन अर्द्धानुक्तिर्गौर-वात्। भागेऽवशिष्टं तद्गगतैष्य पिण्डयोरन्तरेण गुणितं तत्वाश्विभिर्भजेत् तस्मात् प्राप्तं यत् कलादिकं फलं तद्गते ज्यापिण्डे युक्तं कार्यम्। उत्क्रमज्याभीष्टांशकलानामर्द्धज्यारूपा क्रमज्या भवति। अय-मुक्तः प्रकार उत्क्रमज्यापिण्डेषुकथितः।अभीष्टांशकलानामुत्क्रमज्यापिण्डैः उक्तविधिनोत्क्रमज्या स्यादित्यर्थः।

अत्रोपपत्तिः। तत्वाश्विकलाभिरेका ज्या तदाभीष्टकलाभिः केत्यनुपातेन गतज्या ततस्तत्वाश्विकला-भिर्गताग्रिमज्यान्तरं लक्ष्यते तदा शेषकलाभिः केत्यनुपातागतलब्धेन युक्ताभीष्टज्या॥31-32॥

ज्यातश्चापानयनम्।
अथ ज्यातो धनुः आनयनमाह-

ज्यां प्रोज्झ्य शेषं तत्त्वाश्विहतं तद्विवरोद्धृतम्।
सङ्ख्यातत्त्वाश्विसंवर्गे संयोज्य धनुरुच्यते॥33॥


यस्य धनुः कर्तुमिष्टं तस्मिन् अशुद्धपूर्वं ज्यापिण्डं न्यूनीकृत्य शेषं पञ्चाकृतिगुणं तद्विवरोद्धृतं त-योः शुद्धाशुद्धपिण्डयोः अन्तरेण भक्तं फलं शुद्धज्या यत्तमा तत्तमासंख्या तत्वाश्विनोः संवर्गे घाते संयोज्य सिद्धं धनुः कथ्यते। अत्रोपपत्तिः। ज्या यत्तमा शुद्ध्यति तत्तमायाःचापकलाः तत्तमसंख्यागु-णिततत्वाश्विनः। ज्यान्तरेण तत्वाश्विकलास्तदा शेषज्यया केत्यनुपातागतफलयुता इति वैपरीत्येन सुगमतरा॥33॥

ग्रहाणां मन्दपरिधयः।
अथ ग्रहाणां मन्दपरिध्यंशान् विवक्षुः प्रथमं सूर्यचन्द्रयोः आह—

रवेर्मन्दपरिध्यंशा मनवः शीतगो रदाः।
युग्मान्ते, विषमान्ते च नखलिप्तोनितास्तयोः॥34॥


सूर्यस्य परमाकर्षणोत्पन्नपरमपूर्वा परगमनरूपपरममन्दफलांशानां ज्या परमफलज्या तत्तुल्य-व्यासार्द्धेनोत्पन्नवृत्ते कक्षावृत्तस्थितांशप्रमाणेन येऽशास्तेमन्दपरिध्यंशाः केन्द्रयुग्मपदान्ते नीचोच्चस-मेऽर्के चतुर्दशचन्द्रस्य तत्र ते द्वात्रिंशत्। केन्द्रविषमपदान्ते नीचोच्चाभ्यां त्रिभान्तरिते चकारादुक्ता मन्दपरिध्यंशा विशंतिकलोनाः सन्तः सूर्यचन्द्रयोर्मन्दपरिध्यंशा भवन्ति॥34॥

अथ भौमादीनामाह-

युग्मान्तेऽर्थाद्रयः खाग्निसुराः सूर्या नवार्णवाः।
ओजे द्वयगा वसुयमा रदा रुद्रा गजाब्धयः॥35॥

** **भौमस्य पञ्चसप्ततिः बुधस्य त्रिंशत्। गुरोःत्रयस्त्रिंशत्। शुक्रस्य द्वादश। शनेःएकोनपञ्चाशत्। पूर्वोक्तमन्दपरिध्यंशा इति वक्ष्यमाणकुजादीनामिति च अत्रान्वेति। एते युग्मपदान्ते। ओजे विषम-पदान्ते भौमस्य द्विसप्ततिः। बुधस्य अष्टाविंशतिः। गुरोः द्वात्रिंशत्। शुक्रस्य एकादश। शनेः अष्टच-त्वार्रिशत्॥35॥


अथ भौमादीनां युग्मपदान्ते शैघ्र्यपरिध्यंशानाह—

कुजादीनामतः शैघ्य्रायुग्मान्तेऽर्थाग्निदस्रकाः।
गुणाग्निचन्द्राः खनगा द्विरसाक्षीणि गोऽग्नयः॥36॥

भौमादीनामतो मन्दपरिध्यंशकथनानन्तरं शैघ्र्याःशीघ्रपरिध्यंशा युग्मपदान्ते भौमस्य पञ्चत्रिंशद-धिकं शतद्वयम्। बुधस्य त्रयस्त्रिंशदधिकं शतम्। गुरोः सप्ततिः। शुक्रस्य द्विषष्ट्यधिकं शतद्वयम्। शनेःएकोनचत्वारिशंत्॥36॥

ग्रहाणां शीघ्रपरिधयः।
अथ एतेषां विषमपदान्ते शघ्र्यपरिध्यंशानाह-

ओजान्ते द्वित्रियमला द्विविश्वे यमपर्वताः।
खर्तुदस्रावियद्वेदाः शीघ्रकर्मणि कीर्तिताः॥37॥


विषमपदान्ते शीघ्रकर्मणि शीघ्रफलसाधनार्थं परिधय उक्ताः। एते शीघ्रपरिधयः कुजादीनामिति पूर्वोक्तमत्रान्वेति। भौमस्य दन्ताश्विनः। बुधस्य दन्तेन्दवः। गुरोः द्विसप्ततिः। शुक्रस्य षष्ट्यधिकं श-तद्वयम्। शनेःचत्वारिंशत्। अत्र कीर्तिता इत्यनेन युग्मान्ते फलाभावात् एव परिधयः कथं सम्भव-न्ति। अतो विषमपदान्ते परमफलस्य सत्वात् तत्र एव युक्ताः परिधयः शनिमन्दशीघ्रपरिध्योः क्रमेण अधिकन्यूनत्वं च संज्ञा व्याघातात् अयुक्तमित्यादि न आशङ्कनीयमागमप्रामाण्यात्। श्रुतिर्यत्र प्रमाणं स्याद्युक्तिः का तत्र नारद। इति ब्रह्मसिद्धान्तोक्तेश्चेति सूचितम्॥37॥

अभीष्टकेन्द्रसम्बन्धेन परिध्यंशाः।
अथाभीष्टकेन्द्रसम्बन्धेन परिधिभागानयनमाह-

ओजयुग्मान्तरगुणा भुजज्या त्रिज्ययोद्धृता।
युग्मवृत्ते धनर्णं स्यादोजादूनेऽधिके स्फुटम्॥38॥


भुजज्या यत्परिधिः स्फुटीकर्तुमिष्यते तत्केन्द्रस्य मन्दशीघ्रान्यतरस्य भुजज्यौजयुग्मान्तरगुणा वि-षमसमपदान्तीयकेन्द्रीयपरिध्योः अन्तरेण गुणिता त्रिज्यया भक्ता फलं युग्मवृत्ते केन्द्रयुग्मपदान्तीय-परिधौ। ओजात् केन्द्रीय विषमपदान्तीयपरिधेःसकाशात् ऊनाधिके क्रमेण धनर्णं हीने युक्तमधिके हीनं स्फुटंपरिधिमानं स्यात्।
अत्रोपपत्तिः। युग्मपदान्तीयस्थात् परिधेर्विषमपदान्तीयपरिधिर्यावता न्यूनाधिकस्तदन्तरं विषमप-दत्वाद्द्भुजज्ययोपचितमतस्त्रिज्यातुल्यभुजज्यया इदमन्तरं तदा इष्टभुजज्यया किमिति फलं युग्मप-रिधौ। ओजपरिधेःन्यूनत्वे ऋणमधिकत्वे धनमिति। विषमपदपरिधेःअधिक न्यूनयुग्मपरिधावेवर्ण-धनं कृतमित्युपपन्नम्॥38॥

भुजकोटिफलानयनम्। मन्दफलसाधनम्।
अथ भुजकोटिफलानयनं मन्दफलानयनं च आह—

तद्गुणे भुजकोविज्ये भगणांशविभाजिते।
तद्भुजज्याफलंधनुर्मान्दं लिप्तादिकं फलम्॥39॥

** **भुजकोटिज्ये मन्दशीघ्रान्यतर सम्बन्धेनकेन्द्रभुजकोटिज्ये स्वीयस्फुटपरिधिना गुणिते भगणांशैः षष्ट्यधिकशतत्रयेण भक्ते भुजफलकोटिफले भवतः मन्दकेन्द्रभुजज्योत्पन्नफलस्य धनुः कलादिकं मान्दं फलं भवति। अत्रोपपत्तिः- कक्षास्थोच्चस्थानस्थितदेवतया स्वहस्तस्थितसूत्रप्रोतं ग्रहविम्बं स्वाभिमुखा कर्षणेन कक्षास्थमध्यग्रहस्थानात् परमफलज्यान्तरितस्थानं आकर्षणसूत्रमार्गरूपतिर्य-क्कर्णमार्गेणाकर्ष्यते। तेन मध्यग्रहस्थानीय कक्षाप्रदेशात् अन्त्यफलज्या व्यासार्धेनोत्पन्नवृत्ते भगणां-शाङ्किते भूमध्यग्रहस्पृग्रेखासक्ततद्वृत्तप्रदेशरूपोच्चस्थानात् केन्द्रान्तरेण कक्षाविपरीतमार्गेण त-द्वृत्तपरिधौ ग्रहो भवति। तस्मिन् नीचोच्चवृत्त उर्द्धरेखाग्रहयोः तिर्यगन्तरसूत्रमर्द्धज्याकारं परमफ-लज्यानुरुद्धं भुजफलम्। तस्मिन् एव वृत्ते व्यासमिततिर्यग्रेखाग्रहयोःअन्तरमूर्ध्वाधरमर्द्धज्याकारं प-रमफलज्यानुरुद्धंकोटिफलम्। एते तत्र कक्षास्थभुजज्याकोटिज्यावद् भुजकोटिरूपे इति कक्षा-स्थभगणांशप्रमाणेन एते भुजज्याकोटिज्यारूपे भुजकोटीतदा कक्षास्थभागप्रमाणानुरुद्धप्रागुक्त-नीचोच्चपरिधिभागैः केत्यनुपातेन फलवृत्तस्थत्वाद् भुजफलकोटिफले। तत्र नीचोच्चपरिधिवृत्तस्थग्र-हमध्यसूत्रं कर्णरूपं कक्षावृत्ते यत्र लग्नं तत्र स्पष्टो ग्रहभोगः। नीचोच्चवृत्तमध्यस्पष्टग्रहभोगस्थानयोः कक्षावृत्ते यदन्तरांशमानं तत्फलं तदर्द्धज्या तिर्यक्सूत्रं मध्यग्रहस्थोर्ध्वाधररेखारूपमध्यसूत्रात् स्पष्ट-ग्रहभोगस्थानासक्तं फलज्या। कर्णाग्रे भुजफलं तदा त्रिज्याग्रे किमित्येतदनुपातावगतास्याश्चापं फ-लम्। तत्र मन्दफलज्या भुजफलरूपा कर्णानुपातापेक्षया भगवता अङ्गीकृता। मन्दकर्णस्य त्रिज्या-सन्नत्वेन स्वल्पान्तरेण त्रिज्यातुल्यत्वेनाङ्गीकरात्। तच्चापं मन्दफलमित्युपपन्नं सर्वमुक्तम्। बोधार्थं छेद्यकन्यासश्च यथा॥39॥

शीघ्रफलम्।
अथ शीघ्रफलं श्लोकत्रयेण आह-

शैघ्र्यं कोटिफलं केन्द्रे मकरादौ धनं स्मृतम्।

संशोध्यं तु त्रिजीवायां कर्क्यादौ कोटिजं फलम्॥40॥

तद्वाहुफलवर्गैक्यान्मूलं कर्णश्चलाभिधः।

त्रिज्याभ्यस्तं भुजफलं चलकर्णविभाजितम्॥41॥

लब्धस्य चापं लिप्सादि फलं शैघ्र्यमिदं स्मृतम्।

एतदाद्ये कुजादीनां चतुर्थेचैव कर्मणि॥42॥

शीघ्रसम्बन्धि कोटिफलं मकरादि षड्भे शीघ्रकेन्द्रे त्रिज्यायां योज्यामुक्तम्। कर्कादिषड्भे शीघ्र-केन्द्रे शीघ्रकेन्द्रकोट्युत्पन्नं फलं त्रिज्यायां हीनं कार्यम्। तुर्विशेषे। तेन मन्दकर्मणि एतत् क्रियानिरा-सः। कोटिफलसंस्कृतत्रिज्याभुजफलयोः वर्गयोः योगात् मूलं शीघ्रसंज्ञः कर्णः। भुजफलं त्रिज्यया गु-ण्यं शीघ्रकर्णेन भक्तं फलस्य धनुः कलादि। इदं सिद्धं शीघ्रसम्बन्धिफलं कथितम्। भौमादीनामेतत् शीघ्रफलमाद्ये प्रथमे कर्मणि चतुर्थे कर्मणि। चः समुच्चये। कार्यमेवकारात् द्वितीयतृतीयकर्मणोः न इत्यर्थः। अर्थात् तत्र मन्दफलं संस्कार्यमिति सिद्धम्। अत्रोपपत्तिः। मन्दस्पष्टभोगस्थानीयकक्षावृत्तप्र-देशात् ग्रहविम्बं शीघ्रोच्चस्थानस्थिततद्देवतया स्वहस्तस्थितसूत्रेण स्वाभिमुखं शीघ्रान्त्यफलज्यान्तरे-ण आकर्ष्यते। तेन मन्दस्पष्टस्थानाद् शीघ्रान्त्यफलज्यया वृत्तेभांशाङ्किते शीघ्रनीचोच्चसंज्ञे पूर्वरीत्या शीघ्रोच्चस्थानात् शीघ्रकेन्द्रान्तरेणकक्षामार्गवैपरीत्येन ग्रहविम्बं भवति। तत्र पूर्ववत् कोटिफलभुज-फले कोटिभुजौ कक्षास्थतिर्यग्रेखातः शीघ्रनीचोच्चवृत्ततिर्यग्व्यासरेखा त्रिज्यान्तरेणेतित्रिज्याकोटिफ-लयोगो मकरादौ। कर्कादौकोटिफिलोनत्रिज्या शीघ्रनीचोच्चपरिधिस्थग्रहकक्षातिर्यग्रेखयोः अन्तर-र्जुसूत्ररूपा कोटिः। कोटिमूलमध्ययोःअन्तरं कक्षातिर्यग्रेखान्तर्गतं भुजफलतुल्यं भुजो ग्रहभूमध्य-स्थसूत्रं तिर्यक् कर्णः। कोटिभुजफलयोः वर्गयोगमूलं ततः कक्षायां कर्णसूत्रंयत्र लग्नं तत्र स्पष्टो ग्र-हभोगःकक्षामध्यसूत्रात् ग्रहसक्तात् स्पष्टभोगस्थानपर्यन्तमर्द्धज्याकारं सूत्रं शीघ्रकर्णाग्रे भुजफलं तदा त्रिज्याग्रे किमित्यनुपातज्ञाता। अस्याः चापं मन्दस्पष्टग्रहभोगस्थानयोःअन्तररूपं शीघ्रफलम्। अथ नीचोच्चवृत्तमध्यज्ञानाय मन्दस्पष्टज्ञानमावश्यकम्। ततः शीघ्रफलसंस्कारेण स्पष्टज्ञानम्। तत्र स्फुटःसाधितमन्दफलसंस्कृतमध्यग्रहो मन्दस्फुटःसूक्ष्म इति पूर्वं मध्यग्रहस्यासन्नस्फुटत्वसिद्धयर्थं फलयोः संस्कार आवश्यकः तत्रापि प्रथमं मन्दफलं शीघ्रफलसंस्कृतान्मध्यग्रहसाधितमन्दफलापे-क्षया सूक्ष्ममिति प्रथमंशीघ्रफलसंस्कृतमध्यग्रहान्मन्दफलंशीघ्रफलसंस्कृतमध्यग्रहेसंस्कार्यं स्फु-टासन्नो भवति ॥40-42॥

ग्रहस्पष्टीकरणस्य चत्वारः संस्काराः।
ननु सूर्येन्द्वोः शीघ्रफलाभावात् कथं स्पष्टत्वं भवतीत्यतः तदुत्तरं वदन् एतदाद्ये कुजादीनामित्यर्थं स्फुटयति—

मान्दं कर्मैकमर्केन्द्वोर्भौमादीनामथोच्यते।
शैघ्र्यं मान्दं पुनर्मान्दं शैघ्र्यं चत्वार्यनुक्रमात्॥43॥


सूर्यचन्द्रयोर्मान्दं कर्मैकं तथा च अनयोः शीघ्रफलाभावात् केवलेन मन्दफलेन एव स्पष्टत्वम्। एकमित्यनेन सकृन्मान्दं फलं साध्यं मध्यग्रहेण एव मन्दनीचोच्चमण्डलमध्यज्ञानात् न कर्मान्तरापे-क्षेत्युपपत्तिः स्पष्टा। अथ अनन्तरं भौमादीनामुच्यते। प्रागुक्तं स्फुटतया कथ्यते तदाह। शैघ्र्यमिति। प्रथमतो मध्यग्रहात् साधितशीघ्रफलं मध्यग्रहे संस्कार्यमस्मात् मन्दफलमस्य एव संस्कार्यमस्मात् पुर्नद्वितीयवारं मन्दफलं साधितं मध्यग्रहे संस्कार्यं मन्दस्पष्टो भवति। अस्मादपि शीघ्रफलं साधित-मस्य एव संस्कार्यमेवमनुक्रमात् चत्वारि कर्माणि भवन्तीति प्रागुक्ततात्पर्यम्॥43॥


अथ अत्रापि विशेषमाह -

मध्ये शीघ्रफलस्यार्धं मान्दमर्धफलं तथा।
मध्यग्रहे मन्दफलं सकलं शैघ्र्यमेवच॥44॥


मध्यग्रहे स्वसाधित शीघ्रफलस्यार्द्धंसंस्कार्यम्। अस्मात् साधितंमन्दसम्बन्ध्यर्द्धफलं साधितमन्द-फलस्यार्द्धमित्यर्थः।तथा यस्मात् साधितं तस्यैवसंस्कार्यं शीघ्रफलार्द्धं संस्कृते संस्कार्यमिति फलि-तार्थः। अस्मात् साधितं मन्दफलं सम्पूर्णं मध्यग्रहे संस्कार्यं मन्दस्पष्टो भवति। चः समुच्चये। तेन मन्दस्पष्टेसंस्कार्यम् एवकारादुक्तरीत्या सिद्धो ग्रहः स्पष्टो नान्यथा इति।

अत्रोपपत्तिः। मन्दफलंस्फुटसाधितंवास्तवं स्फुटस्तु मन्दफलसापेक्ष इत्यन्योऽन्याश्रयात् सूक्ष्मम-न्दफलसाधनमशक्यमपिभगवतातदासन्नसाधनार्थमर्द्धस्फुटादेव मन्दफलं साधितं मध्यग्रहसाधि-तमन्दफलापेक्षया सूक्ष्मम्। अर्द्धस्फुटस्तु फलद्वयार्द्धसंस्कृतो मध्यग्रहः अत्रापि मन्दफलस्यार्द्धं शी-घ्रफलार्द्धसंस्कृतात् किञ्चित् सूक्ष्मत्वार्थं साधितमित्युपपन्नं मध्ये शीघ्रफलस्येत्यादि॥44॥

ग्रहस्पष्टीकरणे धनर्णसंस्कारः।
ननु फलयोः संस्कारः कथं कार्य इत्यत आह–

अजादिकेन्द्रे सर्वेषां शैघ्र्येमान्दे च कर्मणि।
धनं ग्रहाणां लिप्सादि तुलादावृणमेव च॥45॥


सर्वेषां ग्रहाणां शैघ्र्ये कर्मणि मान्दे कर्मणि चकारः समुच्चये कलात्मकं फलं मेषादिषड्भान्तर्गत-केन्द्रे युतं कार्यं तुलादिषड्भान्तर्गतकेन्द्रे हीनं कार्यम्। चकारो व्यवस्थार्थकः एवकारः फलयोरान-यनप्रकार भेदेऽपि धनर्णरीतिभेदव्यवच्छेदार्थकः। अत्रोपपत्तिः। पूर्वाकर्षणे ग्रहस्य फलं धनं पश्चादा-कर्षणं ऋणमिति प्रागुक्तम्। तत्र ग्रहादुच्चपर्यन्तं केन्द्रे गृहीते पूर्वाकर्षण मेषादिकेन्द्रं भवति पश्चादा-कर्षणे तुलादिकेन्द्रं भवतीति तथोक्तमुपपन्नम्॥45॥

भुजान्तरम्। 43-44
अथ ग्रहाणां भुजान्तरफलमाह –

अर्कबाहुफलाभ्यस्ता ग्रहभुक्तिर्विभाजिता।
भचक्रकलिकाभिस्तु लिप्ताः कार्या ग्रहेऽर्कवत्॥46॥

स्पष्टा सूर्यादिग्रहगतिः सूर्यस्य भुजफलेन मन्दफलेन कलात्मकेन गुणिता द्वादशराशिकलाभिः षट्शतयुतैकविंशतिसहस्रमिताभिर्भक्ता प्राप्तफलकला ग्रहेसूर्यादिग्रहेऽर्कवत् सूर्यमन्दफलधनर्ण-वशादित्यर्थः। कार्याः। तुकाराद्धनर्णं संस्कार्याः। अत्रोपपत्तिः। अहर्गणस्य एकरूपमध्यममानेन स-त्वात् तदुत्पन्नग्रहाणां मध्यममानेन यदर्द्धरात्रं तात्कालिकत्वं सिद्धम् मध्यममानार्द्धरात्रे तु मध्यमसू-र्यमितक्रान्तिवृत्तप्रदेशोऽधो याम्योत्तरवृत्ते भवति। अस्मात् कालात् स्पष्टार्द्धरात्रं स्पष्टसूर्यमितक्रान्ति-वृत्तप्रदेशाधो याम्योत्तरवृत्तसंयोगरूपं मन्दफलधनर्णक्रमेणान्तरपूर्वकाले भवति। अतो मन्दफलक-ला भोगसम्बन्धिकालेन ग्रहोऽनन्तरपूर्वकालयोश्चाल्यः स्पष्टार्द्धरात्रसमये भवति। एतेन अनेन कर्मणा स्फुटार्द्धरात्रकालीनग्रहाः क्रियन्ते। सूर्यश्च स्फुटार्द्धरात्रकालीन एव अतः सूर्यस्य नायं संस्कार इति पूर्वोक्तं निरस्तम्। सूर्यव्यतिरिक्तग्रहा मध्यार्द्धरात्रे सूर्यस्तु स्फुटार्द्धरात्र इत्यत्र अहर्गणोत्पन्नत्वेन स-र्वेषामेककालिकत्वसिद्धया हेत्वाभावादिति। तत्र मन्दफलकलानां कालस्त्वेकराशिकलाभिः सायन-स्पष्टार्काक्रान्तराश्युदयासवो लभ्यन्ते तदा मन्दफलकलाभिः क इत्यनुपातेन ततोऽहोरात्रासुभिर्गति-कलास्तदा फलकलासुभिः का इति मन्दफलकलाग्रहेधनर्णं मन्दफलवशाद्धनर्णं कार्या इति सि-द्धम्। तत्रापि भगवता लोकानुकम्पया स्वल्पान्तरेण नाक्षत्रदिने ग्रहगतिभोगमङ्गीकृत्य चक्रकलाप-रिवर्तात्मकनाक्षत्राहोरात्रेणगतिकलास्तदा सूर्यमन्दफलकलाभ्रमणेन क इत्येकानुपातात् लाघवादा-नीताश्चालनकलाइत्युपपन्नम्॥46॥

चन्द्रस्पष्टगतिसाधनम्।
अथ स्पष्टगति विवक्षुश्चन्द्रस्य प्रथमं विशेषमाह–

स्वमन्दभक्तिसंशुद्धा मध्यभुक्तिर्निशापतेः।
दोर्ज्यान्तरादिकं कृत्वा भुक्तावृणधनं भवेत्॥47॥

ग्रहगतिसाधने वक्ष्यमाणे गतिफलं ग्रहगतेः। साधितं तथा चन्द्रगतेः चन्द्रगतिफलं न साध्यं किन्तु चन्द्रस्य मध्यमगतिः स्वस्य चन्द्रस्य मन्दं मन्दोच्चं तस्य दिनगत्या हीना कार्या तादृशगतेः सकाशा-द्दोर्ज्यान्तरादिकं दोर्ज्यान्तरमादिभूतं यस्य एतादृशं गतिफलं वक्ष्यमाणप्रकारेण दोर्ज्यान्तरगुणा भु-क्तिरित्यादौ दोर्ज्यान्तरादेव गतिफलोत्पत्तेः। सिद्धं कृत्वा चन्द्रमध्यमगतावृणधनं वक्ष्यमाणरीत्या भ-वति।
अत्रोपपत्तिः। वक्ष्यमाणं गतिफलं केन्द्रगत्योपपन्नमित्यनेन सूर्यादिग्रहाणां विचन्द्राणां मन्दोच्चगतेः अत्यल्पत्वात् स्वगत्यैव गतिफलमुक्तम्। तत्र चन्द्रस्य तथा साधने बह्वन्तरपातात् तस्य मन्दोच्चगत्यू-नस्वगतिरूपकेन्द्रगतेः फलं साधितं गतिफलं यद्गतेः साध्यं तद्गतौ एव संस्कार्यमिति वक्ष्यमाणरीति-व्युदासाय चन्द्रभुक्तौइत्युक्तमन्यथा केन्द्रगतेरेव स्फुटत्वं स्यात् न चन्द्रगतेरिति॥47॥

गतिफलानयनम्। वक्रगतिफलम्।
अथ ग्रहाणां मन्दस्पष्टगतिवासनासूचनपूर्वगतिफलानयनपूर्विकां श्लोकाभ्यामाह—

ग्रहभुक्तेःफलं कार्यं ग्रहवन्मन्दकर्मणि।

दोर्ज्यान्तरगुणा भुक्तिस्तत्वनेत्रोद्धृता पुनः॥48॥

स्वमन्दपरिधिक्षुण्णा भगणांशोद्धृताः कलाः।

कर्कादौ तु धनं तत्र मकरादावृणं स्मृतम्॥49॥

मन्दकर्मणि गतिमन्दफल क्रियानिमित्तमित्यर्थः। ग्रहवत्ग्र हमन्दफलानयनरीत्या परिधिगुणनभग-णांशभजनाप्तचापमित्यात्मिकया ग्रहगतेः सकाशात् फलं ग्रहमन्दगतिफलं साध्यम्। तथा ग्रहम-न्दफलं केन्द्रभुजज्यातः साधितं तथा इदं गतिफलं ग्रहगतेःसाध्यमित्यर्थः।तथाहि ग्रहमन्दफलान्त-रस्य एकदिनान्तरीयस्य ग्रहगतिमन्दफलत्वाद्भुजज्ययो एकदिनान्तरयोःअन्तरात् फलं मन्दगति-फलं पर्यवसितं तत्र केन्द्रयोरन्तरस्य केन्द्रगतित्वात् तज्ज्ययोरन्तरं तत्त्वाश्विप्रमाणेन उक्तं ज्यापि-ण्डान्तरं गतिकलापरिणामितं भवति। तदेवाह। दोर्ज्यान्तरगुणेति। ग्रहमध्यगतिः केन्द्रगतिरूपा। उ-च्चगतेः अत्यल्पत्वात् दोर्ज्यान्तरगुणा भुजज्यानयनावसरे यज्ज्यापिण्डान्तरं तेन गुणिता पञ्चाकृति-भिर्भक्ता पुनः अनन्तरमित्यर्थः। ग्रहमन्दपरिधिना स्फुटेन गुणिता षष्टियुतशतत्रयेण भक्ता फलं ग-तिमन्दफलकलाः। यद्यपि गतज्यातः फलज्यानयनं कृत्वा तत् चापं गतिफलं समुचितम्। तथापि ग्रहगतेस्तत्वाश्विभ्यो न्यूनत्वात् ज्याचापयोः तुल्यत्वेन तदनुक्तावक्षतिः। चन्द्रस्य तु स्वल्पान्तरात् त-त्करणमुपेक्षितम्मन्दस्पष्टगतिसिद्ध्यर्थं मध्यगतौ फलसंस्कारमाह। कर्कादाविति। तत्र ग्रहमध्यग-तौ पूर्वानीतफलं कर्कादिषड्भान्तर्गतकेन्द्रे धनं मकरादिषड्भान्तर्गतकेन्द्र ऋणमुक्तम्। तुकारान्म-न्दस्पष्टगतिः सिद्धा भवतीत्यर्थः॥48-49॥
अत्रोपपत्तिः। ऋणफलोपचयेपूर्वफलादग्रिमफलमधिकं हीनमिति फलान्तरं गतावृणम्। ऋणफ-लापचये पूर्वफलादग्रिमफलं न्यूनं हीनमिति फलान्तरं गतौधनम्। धनफलोपचये पूर्वफलात् अग्रि-मफलमधिकं युतमिति फलान्तरं गतौ धनम्। ऋणफलापचयस्तु मकरादितः प्राक् त्रिभै। धनफलो-पचयस्तु तुलादितः प्राक् त्रिभ इति कर्कादि केन्द्रे गतिफलं धनम्। धनफलापचये पूर्वफलादग्रिमं फलं न्यूनं हीनमिति फलान्तरं गतावृणम्। धनफलापचयस्तु कर्कादितः प्राक् त्रिभ ऋणफलोपचय-स्तु मेषादितः पाक् त्रिभ इति मकरादिकेन्द्रे गतिफलमृणं सिद्धम्॥48-49॥

स्पष्टगतिसाधनम्।
अथ श्लोकाभ्यां स्पष्टगतिसाधनमाह–

मन्दस्फुटीकृतां भुक्तिं प्रोज्झ्य शीघ्रोच्च भुक्तितः।
तच्छेषं विवरेणाथ हन्यात् त्रिज्यान्त्यकर्णयोः॥50॥
चलकर्णहृतं भुक्तौ कर्णे त्रिज्याऽधिके धनम्।
ऋणमूनेऽधिके प्रोज्झ्य शेषं वक्रगतिर्भवेत्॥51॥

मन्दस्पष्टां गतिं प्राक् सिद्धां शीघ्रोच्चगतेः पातयित्वा तत्रावशिष्टं त्रिज्यान्त्यकर्णयोः त्रिराशिज्या द्वि-तीयशीघ्रकर्णयोः ग्रन्थान्तरैकवाक्यतार्थत्रिज्याशब्देन द्वितीयशीघ्रफलकोटिज्या ग्राह्येति ध्येयम्। अ-न्तरेण गुणयेत् तत्र यत् सिद्धं तच्छीघ्रकर्णेन द्वितीयेन भक्तं फलं मन्दस्पष्टगतौ द्वितीयशीघ्रकर्णे त्रि-ज्याधिके गृहीत फलकोटिज्यातोऽधिके सति हीने च सति धनमृणं क्रमेण कार्यं स्पष्टगतिः स्यात्। ननु यदा मन्दस्पष्टगतितो गतिशीघ्रफलमधिकं तदा मन्दस्पष्टगतौ फलमूनं न स्यादिति तत्र स्पष्टग-तिज्ञानं कथम्। न च एतदसम्भव इति वाच्यम्। नीचासन्ने ग्रहे फलकोटिज्या शीघ्रकर्णान्तरात् शीघ्र-कर्णस्य न्यूनत्वात् फलस्यावश्यं मन्दस्पष्टगत्यधिकत्व सम्भवादित्यत आह। अधिक इति। मन्दस्पष्ट-गतिः। अधिके फले पातयित्वा शेषं वक्रगतिः विपरीतगतिःपश्चिमगतिः स्यात्। तथा च न क्षतिः अ-त्रोपपत्तिः। फलांशखांकान्तरशिञ्जनीघ्नी द्राक्केन्द्रभुक्तिः श्रुतिहृद्विशोध्या। स्वशीघ्रभुक्तेः स्फुटखेत-भुक्तिः शेषं च वक्रा विपरीतशुद्ध। इति सिद्धान्तशिरोमणौवृद्धवशिष्ठसिद्धान्तोक्तेः सूक्ष्मप्रकारः त-स्योपपत्तिस्तु तट्टीकायां व्यक्ता। तत्र द्राक्केन्द्रभुक्त्यर्थं प्रथमार्द्धमुक्तम्। इयं गतिः फलकोटिज्यया गुण्या कर्णभक्ता फलं स्वशीघ्रोच्चगतेः शोध्यम् तत्र प्रथममेव समच्छेदपूर्वक शोधनार्थं शीघ्रोच्चगतेः कर्णो गुणः।तत्रापि शीघ्रोच्चगतेः केन्द्रग्रहगतियोगरूपत्वात् खण्डद्वयं केन्द्रगतौ एव फलं हीनं कृतमिति कर्णगुणितकेन्द्रगतिफलकोटिज्यागुणितकेन्द्रगत्योः अन्तरं तत्रापि गुणितयोःअन्तरेऽन्तरे वा गुणिते समत्वात् लाघवाच्च फलकोटिज्या कर्णान्तरेण केन्द्रगतिर्गुणिता कर्णभक्ता इति तच्छेष-मित्यादिहृतमित्यन्तमुपपन्नम्।अथ फलकोटिज्यातुल्यकर्णे मुख्यप्रकारेण गतेर्मन्दस्पष्टगतितुृल्यत-या सिद्धत्वात् फलाभावःकर्णस्य न्यूनत्वे फलस्यशीघ्रकेन्द्रगत्यधिकत्वात् तदूने शीघ्रोच्चगतौ शीघ्र-केन्द्रगतिनाशात् अधिकस्य गतिफलरूपस्य मन्दस्पष्टगतौ हीनत्वं पर्यवसन्नम्। कर्णस्य अधिकत्वे पूर्वप्रकारफलस्य शीघ्रकेन्द्रगतितो न्यूनत्वात् तदूने शीघ्रोच्चगतौ यत् न्यूनं तदधिका मन्दस्पष्टगतिः स्पष्टगतिरिति पर्यवसन्नम्। तदत्र शीघ्रोच्चगतिस्थाने शीघ्रकेन्द्रगतिग्रहणेन फलं गतिफलमेवोत्पन्नं तन्मन्दस्पष्टगतौ फलकोटिज्यातः कर्णस्य अधिकन्यूनत्वक्रमेण धनमृणमित्युपपन्नं कर्ण इत्याद्यून इत्यन्तम्। ऋणफलस्य मन्दस्पष्टगतितोऽधिकत्वे विपरीतशोधनाच्छेषं पश्चिमगतिरेव स्पष्टेति सर्वम-नवद्यम्॥50-51॥

वक्रगतिः।
अथ वक्रगत्युपपत्तिमाह–

दूरस्थितः स्वशीघ्रोच्चाद् ग्रहः शिथिलरश्मिभिः।
सव्येतराकृष्टतनुर्भवेद् वक्रगतिस्तदा॥52॥

स्वशीघ्रोच्चात् दूरस्थितः त्रिभाधिकान्तरितो ग्रहो भौमादिकः शिथिलरश्मिभिः शीघ्रोच्चदेवताहस्त-स्थितग्रहविम्बप्रोततरज्जुभिः सव्येतराकृष्टतनुर्देवतायाः सव्यवामभाग आकर्षिता तनुः शरीरं विम्बरूपं यस्य असौ यदा तदा वक्रगतिः स्यात्। अयं भावः। त्रिभादूनान्तरितो ग्रहो वृत्ताकारसूत्रैः अशिथिलैः दैवतैः यथाकर्षितुं शक्यते तथा त्रिभाधिकान्तरितो ग्रहो दैवतैः वृत्ताकारसूत्रैःशिथिलैः आकर्षितुं न शक्यतेऽल्पधनर्णफलस्थाने ग्रहो वक्री भवति। आकर्षणोत्कर्षाभावेन वृत्तमार्गे वस्तुनो नीचगामित्वसम्भवात् इति ॥52॥

वक्रत्यागः।
अथ यत्केन्द्रांशेषु गतिफलमृणं मन्दस्पष्टगतितुल्यं भवति तान् वक्रारम्भभागान् तदन्तभागांश्च विना गतिसाधनप्रकारं ग्रहवक्रतदन्तज्ञानार्थं श्लोकाभ्यामाह—

कृतर्तुचन्द्रैर्वेदेन्द्रैः शून्यत्र्येकैर्गुणाष्टिभिः।

शररुद्रैश्चतुर्थेषु केन्द्रांशैर्भूसुतादयः॥53॥

भवन्ति वक्रिणस्तैस्तु स्वैः श्वैश्चक्राद् विशोधितैः।

अवशिष्टांशतुल्यैःस्वैकेन्द्रैरुज्झन्ति वक्रताम्॥54॥

भौमाद्या ग्रहाश्चतुर्थ कर्मसु केन्द्रांशैः कृतर्त्तुचन्द्रैरित्याद्युक्तरूपैः क्रमेण वक्रिणो भवन्ति। स्वकी-यैः तैः केन्द्रांशै उक्ततुल्यैः चक्राद्द्वादशराशिभागेभ्यः षष्टियुतशतत्रयेभ्यो विशोधितैः हीनैः। अवशे-षसमानैः स्वकीयैः चतुर्थकेन्द्रांशैः। तुकारः क्रमार्थे। भौमादयो वक्रत्वं त्यजन्ति। परिवर्ते वारद्वयं भुजतुल्यत्वेन नीचासन्ने मन्दस्पष्टगति तुल्यगति फलस्य सम्भवादिति॥53-54॥

अथ वक्रान्तभागानामतुल्यत्वे कारणान्तरमपि आह–

महत्वाच्छीघ्रपरिधेःसप्तमे भृगुभूसुतौ।
अष्टमे जीवशशिजौनवमे तु शनैश्चरः॥55॥

शीघ्रकेन्द्रस्य सप्तमे राशौ शुक्रभौमौवक्रत्वं त्यजतः। अष्टमे राशौ गुरुबुधौ वक्रत्यजनार्हौ। अत्र शुक्रगुर्वोःपूर्वोद्देश इतरापेक्षयाभ्यर्हितत्वज्ञापकः। नवमे राशौ शनिर्वक्रत्वं त्यजति। तुरेवार्थे। तेन शनिरेव तत्र वक्रत्वं त्यजति न अन्ये। अत्र कारणमाह। महत्वादिति। अन्येषां शीघ्रपरिधेः प्रागुक्तस्य महत्वात् शनिशीघ्रपरिधेःअधिकत्वात्। तथा च परिध्यधिकत्वेन पूर्वमेव वक्रत्यजनमत एव भौमशु-क्रयोर्बुधगुरुभ्यां प्रथमोद्देशः शनेस्तु सुतरां बुधगुर्वोःशनितः पूर्वोद्देशः। भृगुभूसुतौ जीवशशिजौ इ-त्यत्र परिध्यधिकत्वेन शुक्रगुर्वोःप्रथमं केवलमुद्देशो न भागानामल्पत्वक्रम इति भावः। ननु परिध्य-धिकत्वे पूर्वपूर्वराशौ वक्रत्यजने कोपपत्तिरिति चेत् श्रृणु। शून्यगति सम्बद्धशीघ्रकर्णात् फलांशखां-कान्तरेत्यादेः विलोमविधिना शीघ्रोच्चगतेः फलकोटिज्या अस्याः फलज्या अस्याःत्रिज्याभ्यस्तं भुज-फलं चलकर्णविभाजितमित्यस्य विलोमविधिना भुजफलमस्मात् तद्गुणे भुजफलं चलकर्णविभाजि-तमित्यस्य विलोमविधिना भुजफलमस्मात् तद्गुणे भुजकोणिज्ये भगणांशविभाजिते इत्यस्य विलो-मप्रकारेण भुजांशज्ञानार्थं भौमादीनां भुजज्या उत्तरोत्तरमधिकाःशीघ्रपरिधिभ्यो यथोत्तरमपचयव-द्भ्यो लब्धत्वाद्धराधिकन्यूनत्वाभ्यां फलयोः न्यूनाधिकत्वनिश्चयात् तासां चापानि भुजभागा यथोत्तर-मधिका वक्रारम्भे तदन्ते च तुल्या अतएव तृतीयपदे वक्रान्तत्वात् भुजभागाः षड्युता यथोत्तरमधिकं शीघ्रकेन्द्रं तेषां वक्रान्ते भवति। वक्रारम्भस्य द्वितीयपदे सम्भवाद् भुजभागहीनाः षड्राशयस्तेषां वक्रारम्भे यथापचितं केन्द्रं भवति। तत् तु उक्तरीत्या भौमशुक्रयोः षष्ठराशौ बुधगुर्वोःपञ्चमराशौ शनेश्चतुर्थराशौ इति ज्ञेयम्। इदं भगवता विना चक्रशोधनम् आपततः शीघ्रकेन्द्रराशिज्ञानात् वक्रा-न्तज्ञानंलोकनुकम्पार्थम्अनतिप्रयोजनमुक्तमिति ध्येयम्॥55॥

चन्द्रादिग्रहाणां विक्षेपसाधनम्।
अथ चन्द्रादिग्रहाणां विक्षेपसाधनं श्लोकाभ्यामाह-

कुजार्किगुरुपातानां ग्रहवच्छीघ्रजं फलम्।

वामं तृतीयकं मान्दं बुधभार्गवयोः फलम्॥56॥

स्वपातोनाद् ग्रहाज्जीवा शीघ्राद्भृगुजसौम्ययोः।

विक्षेपघ्नान्त्यकर्णाप्ता विक्षेपस्त्रिज्यया विधोः॥57॥

भौमशनिगुरूणां ये पाता मध्याधिकारावगतास्तेषां शीघ्रजं फलं स्वग्रहसम्बन्धिचतुर्थकर्मस्थशीघ्र-फलं पूर्वसिद्धं ग्रहवत् ग्रहे यथा संस्कृतं तथा संस्कार्यम्। ग्रहशीघ्रफलं ग्रहे चेत् युतं तदा तत्पाते तदेव फलं योज्यं चेद्धीनं तदा हीनं कार्यमित्यर्थः बुधशुक्रयोस्तृतीयकं तृतीयकर्मसम्बन्धिमान्दं फलं तत्पातयोः विपरीत संस्कार्यं बुधशुक्रयोः मन्दफलं धनमृणं चेत् तत्पातयोः तदेव फलमृणधनं क्रमेण कार्यमित्यर्थः। अनुक्तत्वात् चन्द्रस्य यथागत एव पातो ज्ञेयः। स्पष्टग्रहात् स्वस्य फलसंस्कृतो यः पा-तस्तेन हीनाद्भुजज्या। बुधशुक्रयोः विशेषमाह। शीघ्रादिति शुक्रबुधयोः शीघ्रोच्चात् पातेन हीना-द्भुजज्या न पातोनबुधशुक्राभ्यां भुजज्या। विशेषस्य सामान्यबाधकत्वात्। अर्थात् पूर्वोक्तं चन्द्रभौ-मगुरुशनीनां सिद्धम्। मध्याधिकारोक्तस्वमध्यमविक्षेपकलाभिर्गुण्या चतुर्थकर्मणि यः शीघ्रकर्णस्तेन भक्ता फलं ग्रहाणां विक्षेपकलाः स्फुटाभवन्ति। ननु चन्द्रस्य शीघ्रकर्णासम्भवात् तत्पातोनतद्भुज-ज्या खभ गुणिता केन भाज्येत्यत आह। त्रिज्ययेति। चन्द्रस्य विक्षेपसाधने तादृशी भुजज्या त्रिज्यया भाज्येत्यर्थः। अत्रोपपत्तिः। यथा विषुवद्वृत्तात् क्रान्तिवृत्तयाम्योत्तरभागौ यदन्तरेण याम्योत्तरसूत्रे सा ध्रुवाभिमुखी क्रान्तिस्तथा क्रान्तिवृत्ताद्विक्षेपवृत्तभागौ यदन्तरेण याम्योत्तरसूत्रे स विक्षेपः कदम्बाभि-मुखः। तथाहि। विक्षेपवृत्तानि ग्रहविम्बाधिष्ठितानि सूर्यव्यतिरिक्तग्रहाणां षण्णां स्वस्वगोले भिन्नानि सूर्यस्य नित्यं क्रान्तिवृत्तस्थत्वमेव तानि क्रान्तिवृत्ते स्वस्वगत्या प्रोतान्येव गच्छन्ति। तत्र विक्षेपक्रान्ति-वृत्तसम्पाते पातस्थाने तत्षड्भान्तरप्रदेशे च स्थिते ग्रहविम्बे वृत्तप्रदेशैक्यादन्तराभावेन ग्रहविक्षेपा-भावः। यथा तस्माद् ग्रहबिम्बं गच्छति तथा ग्रहबिम्बक्रान्तिवृत्तस्थ चिह्नयोः याम्यमुत्तरं वान्तरं क्रा-न्तिवृत्तात् ग्रहस्य भवति तदेव विक्षेपसंज्ञम्। स च पातात् त्रिभान्तरे ग्रहे मध्याधिकारोक्तः। अन्तराले पातस्थानात् ग्रहचिह्नं क्रान्तिवृत्ते यदन्तरेण तदन्तरं राश्याद्यात्मकं पातोनग्रहरूपं तद्भुजज्यानुपा-तः। त्रिज्याभुजज्यया परमविक्षेपस्तदेष्टया भुजज्यया क इति। एवं चन्द्रस्य एव त्रिज्याव्यासार्द्धगोले परमशरस्य गणितागतपातस्य च लक्षितत्वात्। अन्येषां तु परमशराः शीघ्रोच्चदेवताकृष्टग्रहबिम्बाधि-ष्ठितकल्पितवृत्ते शीघ्रकर्णव्यासार्द्धेलक्षिताः। कथमन्यथा शीघ्रफलसंस्कारेण ग्रहस्य स्पष्टत्वं युक्त-म्। ग्रहविम्बस्य तत्स्थत्वे तत्पातस्य अपि तत्स्थत्वं युक्तम्। ग्रहविम्बाधिष्ठितवृत्ते ग्रहभोगस्य मन्दस्प-ष्टत्वेन गणितागतपातान् मन्दस्पष्टात् शरसाधनमुपपन्नम्। तदुक्तं सिद्धान्तशिरोमणौ। मन्दस्फुटो द्राक्प्रतिमण्डले हि ग्रहो भ्रमत्यत्र च तस्य पातः। पातेन युक्ताद् गतिणातागतेन मन्दस्फुटात् खेचर-तः शरोऽस्मात्॥इति॥
तत्र स्पष्टात् शरसाधनार्थं शीघ्रफलं पाते संस्कृतं शीघ्रफलव्यस्तसंस्कृतस्पष्टग्रहस्य मन्दस्पष्टत्वात् यथोक्तसंस्कृतपातोने स्पष्टग्रहे पातोनमन्दस्फुटग्रहस्य सिद्धेः। अथ बुधशुक्रपातभगणौ वास्तवौ नो-क्तौ। तौ तु शीघ्रकेन्द्रभ्रगणाधिकावतो गणितागतपातयोः मध्यग्रहोन-शीघ्रोच्चरूपशीघ्रकेन्द्रयुतयोः द्वादशराशिशुद्धयोः पातत्वम्। तत्र पूर्वपातस्य द्वादशशुद्धत्वात् शीघ्रकेन्द्रं चक्रशुद्धं लाघवाद्गणिता-गतपातस्य शीघ्रोच्चोनमध्यग्रहरूपं केन्द्रं योज्यमयं पातो मन्दस्पष्टे मन्दफलसंस्कृतमध्यरूपे हीन इति ग्रहयोर्मध्ययोः नाशात् यथागत मन्दफलसंस्कृतं शीघ्रोच्चं पातोनमिति सिद्धम्। तत्रापि मन्दफ-लं पाते व्यस्तं कृत्वा तदूनं शीघ्रोच्चं कृतं संस्कृतपातपङ्क्त्यां संस्कृतपातयोर्युक्तत्वात्। अथ एतदा-नीतविक्षेपः कर्णव्यासार्द्धवृत्ते न त्रिज्यावृत्ते स्फुटग्रहस्थाने अतः पूर्वानुपातानीतविक्षेपस्तदा त्रिज्याग्रे क इत्यनुपातेन त्रिज्यागुणः, कर्णो हरः पूर्वं त्रिज्याहर इति त्रिज्ययोर्नाशाद्भुजज्या परमविक्षेपगुणि-ता शीघ्रकर्णभक्तेति सर्वमुक्तमुपपन्नम्॥56-57॥

स्पष्टाक्रान्तिः।
अथ दिनरात्रिमानज्ञानार्थं चरानयनं विवक्षुः प्रथमं तदुपयुक्तां स्पष्टक्रन्तिमाह—

विक्षेपापक्रमैकत्वे क्रान्तिर्विक्षेपसंयुता।
दिग्भेदे वियुता स्पष्ट भास्करस्य यथाऽगता॥58॥


यस्य ग्रहस्य स्पष्टक्रान्तिरभीष्टा तस्य ग्रहस्यायनांशसंस्कृतस्य भुजज्यातः परमापक्रमज्येत्यादिना क्रान्तिरयनांश संस्कृतग्रहगोलदिक्का ज्ञेया। तस्य विक्षेपणेऽपि पूर्वोक्तप्रकारेण पातोन गोलदिक्को ज्ञेयः। गोलस्तु मेषादिषट्कमुत्तरस्तुलादिषट्कं दक्षिणः। अथ शरक्रान्त्योरेकदिक्त्वेन क्रान्तिः कला-द्या कलात्मकविक्षेपेण युता तयोर्दिगन्यत्वे क्रान्तिर्विक्षेपेण वियुतान्तरिता शेषदिक्का स्पष्टा क्रान्तिः स्यात्। ननु सूर्यस्य विक्षेपाभावात् कथं स्पष्टा क्रान्तिर्ज्ञेया इत्यत आह। भास्करस्य इति। सूर्यस्य य-थागता पूर्वागता क्रान्तिरेव स्पष्टा क्रान्तिः। अत्रोपपत्तिः। विषुवद्वृत्तात् ग्रहविम्बकेन्द्रपर्यन्तं याम्यमु-त्तरं वान्तरं स्पष्टक्रान्तिरिति तयोरैकदिक्त्वे तद्योगतुल्यमन्तरं भिन्नदिक्त्वे तदन्तरमितमन्तरमिति। अत्र शरस्य क्रान्तिसंस्कारयोग्यत्वसम्पादिकाक्रियालोकश्रमभयात् स्वल्पान्तरत्वाच्चोपेक्षिता भगव-ता कृपावता। अन्यथा शरस्य ध्रुवाभिमुखत्वे भगवदुक्तमायनदृक्कर्म कथमव्याहतं स्यादिति अल-म्॥58॥

अहोरात्रासवः।
अथ दिनरात्रिमानज्ञानार्थमहोरात्रासून् साधयति—

ग्रहोदयप्राणहता खखाष्टैकोद्धृता गतिः।
चक्रासवो लब्धयुताः स्वाहोरात्रासवःस्मृताः॥59॥

ग्रहस्य येऽयनांशसंस्कृतराशेः वक्ष्यमाणनिरक्षोदयासवस्तैर्गुणिता निजस्फुटगतिः कलाद्यष्टादश-शतभक्ता फलेन युताश्चक्रासवः षष्टिघटिकानामसवः षट्शतयुतैकविंशतिसहस्रमिताः स्वस्वग्रहस्य अहोरात्रासवः कालतत्त्वज्ञैः कथिताः। अत्रोपपत्तिः। ग्रहः पूर्वगत्या लम्बितः प्रवहेण गतिभोगकालेन भचक्रपरिवर्तानन्तरमुदेत्यतो भचक्रपरिवर्तकालः षष्टिघटिकासुमितो ग्रहगतिकला सम्बद्धा स्वात्म-ककालेनाधिको ग्रहाहोरात्रमस्वात्मकं नाक्षत्रप्रमाणेनभवति। तत्र एकराशिकलाभिःग्रहसम्बद्धरा-श्युदयप्राणास्तदा गतिकलाभिः कः इत्यनुपातेन गत्यसव इत्युपपन्नं ग्रहोदयेत्यादि। अनेन एव श्लो-केन ग्रहाणामुदयान्तरकर्मास्तीत्युक्तं भगवता। तथाहि। अनुपातानीतमध्यग्रहाणां नियताहोरात्रमा-नान्तरकाले सिद्धत्वात् न मध्यरात्रकाले ग्रहाणां सिद्धिः। रविमध्यगत्यसूनां प्रतिराशौ भिन्नत्वेन मध्य-मसूर्याहोरात्रमानस्य नियतत्वाभावात् अतः त्रैराशिकावगतग्रहा अनियतमध्यार्काहोरात्रमानान्तरेण अर्द्धरात्रे यत्संस्कारेण भवन्ति तदेवोदयान्तरं तत्साधनं भगवता स्वल्पान्तरत्वादुपेक्षितम्। कथमन्य-था गतिकलासूनां समत्वमुपेक्ष्य गतिकलानामसवो भगवदुक्ताः सङ्गच्छन्ते। उदयान्तरस्य गतिक-लासुभेदोत्पन्नत्वात्॥59॥

चरोपयुक्ता क्रान्तिज्या।

अथ चरोपयुक्तां क्रान्तिज्यां द्युज्यां च आह-

क्रान्तेः क्रमोत्क्रमज्ये द्वे कृत्वा तत्रोत्क्रमज्यया।
हीना त्रिज्या दिनव्यासदलं तद्-दक्षिणोत्तरम्॥60॥

स्पष्टक्रान्तेः क्रमोत्क्रमज्ये द्वे अपि प्रसाध्य तत्र तन्मध्ये क्रान्त्युत्क्रमज्यया त्रिज्या हीना दिनव्यास-दलमहोरात्रवृत्तस्य व्यासार्धं द्युज्येत्यर्थः। तद्दिनव्यासार्द्धं णोत्तरं दक्षिणगोले उत्तरगोले च स्यात् क्रा-न्तेर्गोलद्वयेऽपि सत्वात्। अपरा क्रान्तिज्यैव। अत्रोपपत्तिः। क्रान्त्यंशानां क्रमज्या क्रान्तिज्या भुजो विषुवद्वृत्तानुकाराणि अहोरात्रवृत्तानि उभयगोले तदुभयतः तद्व्यासार्द्धं द्युज्या कोटिस्त्रिज्या कर्ण इति गोले प्रत्यक्षम्। त्रिज्यावृत्त उन्मण्डले याम्योत्तरवृत्ते वा प्रत्यक्षम्। तत्र भुजकर्णयोर्वर्गान्तरपदं कोटिरिति क्रान्तिज्यावर्गोनात् त्रिज्यावर्गान्मूलं द्युज्या। तत्रापि भुजोत्क्रमज्यया हीना त्रिज्या कोटि-क्रमज्या स्यादिति वृत्ते प्रत्यक्षदर्शनात् क्रान्त्युत्क्रमज्ययोना त्रिज्या द्युज्या स्यादिति लाघवेन वर्गमू-लनिरासेनोक्तं भगवता क्रान्तेरित्यादि॥60॥

चरसाधनम्। दिनरात्रिमानसाधनम्।
अथ चरानयनपूर्वकदिनरात्रिमानसाधनं श्लोकत्रयेण आह –

क्रान्तिज्या विषुवद्भाघ्नी क्षितिजा द्वादशोद्धृता।

त्रिज्यागुणाऽहोरात्रार्धकर्णाप्ता चरजाऽसवः॥61॥

तत्कार्मुकमुदक्क्रान्तौ धनहानी पृथक् स्थिते।

स्वाहोरात्र-चतुर्भागे दिनरात्रिदले स्मृते॥62॥

याम्यक्रान्तौ विपर्यस्ते द्विगुणे तु दिनपक्षे।

विक्षेपयुक्तोनितया क्रान्त्या भानामपि स्वके॥63॥

क्रान्तिज्या विषुवद्दिनीयमध्याह्नेन द्वादशांगुलशंकोश्छायया गुण्या द्वादशभक्ता फलं कुज्या स्या-त्। सा त्रिज्यया गुणिताहोरात्रार्द्धं कर्णाप्ताहोरात्रवृत्तस्य अर्द्धकर्णेन व्यासदलेन द्युज्यया भक्ता फ-लं चरजा ज्या चरज्येत्यर्थः। अस्याश्चरज्याया धनुरसवश्चरासवो भवन्ति। स्वाहोरात्रचतुर्भागे स्वस्य च-रसम्बन्धिनो ग्रहस्य प्रागुक्ताहोरात्रासवस्तेषां चतुर्थांशे पृथक् स्थिते स्थानद्वयस्थेउत्तरक्रान्तौ सत्यां चरासू धनहानी युतहीनौकार्यौतौ क्रमेण दिनरात्रिदले दिनार्द्धरात्र्यर्द्धे कालविद्भिरुक्ते। दक्षिणक्रा-न्तौ सत्यां विपर्यस्ते दिनरात्रिदले यत्र हीनं तद्दिनार्द्धं यत्र युतं तद्रात्र्यर्द्धमित्यर्थः। तुकारात् ते दिनरा-त्र्यर्द्धे द्विगुणे दिनक्षपे दिनमानरात्रिमाने ग्रहस्य स्तः। उक्तरीत्या नक्षत्राणामपि दिनरात्रिमाने साध्ये इत्याह। विक्षेपेत्यादि। नक्षत्रध्रुवाणामानीतया क्रान्त्या नक्षत्रविक्षेपेणैकभिन्ना दिक्क्रमेण युक्त्या अन्त-रितया उक्तप्रकारेण सिद्ध्या स्वके नाक्षत्रदिनरात्रिमाने साध्ये इत्यर्थः। अत्रोपपत्तिः। द्वादशांगुलशं-कुः कोटिःफलभा भुजोऽक्षकर्णः कर्णः। क्रान्तिज्या कोटिःकुज्या भुजोग्राकर्ण इत्यक्षक्षेत्रद्वयं प्रसि-द्धम्। तत्र द्वादशकोटौ फलभा भुजः क्रान्तिज्याकोटौको भुज इत्यनुपातेन कुज्या।तत्स्वरूपं तु नि-रक्षदेशक्षितिजस्वदेशक्षितिजान्तरालस्थिताहोरात्रवृत्तप्रदेशस्य द्युज्याप्रमाणेनज्येति त्रिज्याप्रमाणेन तज्ज्या चरज्येति द्युज्याप्रमाणेन कुज्या त्रिज्याप्रमाणेन केत्नुपातेनचरज्या तद्धनुश्चरासवोऽहोरात्रवृ-त्तखण्डप्रदेशे निरक्षस्वक्षितिजान्तराल उत्तरगोले स्वक्षितिजस्य निरक्षक्षितिजादधः स्थत्वात् निरक्ष-क्षितिजयाम्योत्तरवृत्तान्तरालेऽहोरात्रवृत्तचतुर्थांशत्वाद् अहोरात्रासु चतुर्थांशे चरासवो युता दिनार्द्धं हीना रात्र्यर्द्धं दक्षिणगोले स्वक्षितिजस्य निरक्षक्षितिजादूर्ध्वस्थत्वात् हीना दिनार्द्धं युता रात्र्यर्द्धमित्यु-पपन्नं सर्वं क्रान्तिज्येत्यादि॥61-63॥

ग्रहस्य नक्षत्रानयनम्।
अथ ग्रहस्य नक्षत्रनयनमाह—

भभोगोऽष्टशतीलिप्ताःखाश्विशैलास्तथा तिथेः।
ग्रहलिप्ता भभोगाप्ता भानि भुक्त्या दिनादिकम्॥64॥

अष्टशतमिताः कलाः नक्षत्रभोगः। प्रसङ्गात् तिथिभोगमाह। खाश्विशैला इति। तिथेर्विंशत्यधिकस-प्तशतमिताःकलास्तथा भोग इत्यर्थः। यस्य ग्रहस्य नक्षत्रज्ञानमिष्टं तस्य ग्रहस्य राशयस्त्रिंशद्गुण्या अंशा योज्यास्ते षष्टिगुणिताः कला योज्या इति परिभाषया कला नक्षत्रभोगभक्ताः फलं ग्रहस्य गत-नक्षत्राणि शेषं वर्तमाननक्षत्रस्य गतकलास्तस्मात् तस्य गतदिनाद्यानयनमाह। भुक्त्येति। ग्रहस्य क-लात्मिकया गत्या शेषदिनादिकं गतं भागहरणेन साध्यमेवं शेषोनाद् भोगाद् गतिकला भागेनैष्यदि-नादिकं साध्यम्। अत्रोपपत्तिः। भचक्रभोगेन सप्तविंशतिनक्षत्राणि अश्विन्यादीनि ग्रहो भुनक्त्यतः स-प्तविंशतिनक्षत्राणां चक्रकलाः षट्शतयुतैकविंशतिसहस्रमिता भोगस्तदैकनक्षत्रस्य क इत्यनुपातेन अष्टशतकलाभोगः। एवंतिथेश्चान्द्रमासत्रिंशदंशत्वात्चान्द्रमासस्य सूर्यचन्द्रान्तरैकभगणसिद्धत्वा-च्च। त्रिंशत् तिथीनां चक्रकलाभोगस्तदैकतिथेः क इत्यनुपातेन विंशत्यधिकिसप्तशतकलाभोगः। अथ अष्टशतकलाभिरेकं नक्षत्रं तदा ग्रहकलाभिः किमित्यनुपातेन फलमश्विन्यादीनि ग्रहभुक्तानि शेषकला ग्रहाधिष्ठितनक्षत्रस्य गतं भभोगाद्धीनं तस्यैष्यमाभ्यां ग्रहगत्यैकं दिनं तदाभीष्टकलाभिः कि-मित्यनुपातेन तस्य गत्यैष्यदिवसाद्यं भवति। एवं चन्द्रात् दिननक्षत्रं ज्ञेयम्॥64॥

योगानयनम्।
अथ प्रसङ्गात् योगानयनमाह-

रवीन्दुयोगलिप्ताश्च योगा भभोगभाजिताः।
गतगम्याश्च षष्टिघ्न्यो भुक्तियोगाप्तनाडिकाः॥65॥

सूर्यचन्द्रयोगस्य राश्यादिकस्य परिभाषया याः कलाः ताभ्यो योगा विष्कम्भादयो भभोगभाजिता भभोगेन पूर्वोक्तेन विभक्ता भवन्ति। एकैकयोगस्य भभोगमितो भोगः स प्रत्येकं ताभ्योऽपनीय य-न्मिताः शुद्धास्तन्मिता योगा गताः। यस्य भोगो न शुद्ध्यति स वर्तमान इत्यर्थः। कला भभोगभक्ता गता योगास्तदाग्रिमो वर्तमान इति तात्पर्यम्। तस्य शेषं गतं भोगात् पतितमेष्यं ताभ्यां घटिकाद्यान-यनमाह। गता इति। गता एष्याः। चः समुच्चये।कलाःषष्टिगुणिताः कार्यास्ताभ्यो भुक्तियोगाप्तना-डिका रविचन्द्रकलात्मकगत्योर्योगेन भजनाल्लब्धा घटिका गतैष्या भवन्ति।

अत्रोपपत्तिः सूर्यचन्द्रयोगमितस्य ग्रहस्य नक्षात्रणि विष्कम्भादिसंज्ञानि योगोत्पन्नत्वात् योगा अत-स्तदानयनं पूर्वोक्तवत्। अत एव सूर्यचन्द्रगतियोगतुल्यतद्गत्या षष्टिसावनघविकास्तदा गतैष्यकला-भिः का इत्यनुपातेन गतैष्यघटिकानयनं युक्तमुक्तम्॥65॥

तिथ्यानयनम्—
अथ प्रसङ्गात् तिथ्यानयनमाह-

अर्कोनचन्द्रलिप्तास्तु तिथयो भोगभाजिताः।
गता गम्याश्च षष्टिघ्न्यो नाड्यो भुक्त्यन्तरोद्धृताः॥66॥

पूर्वार्द्धव्याख्यानं पूर्वश्लोकपूर्वार्द्धरीत्या ज्ञेयमुत्तरार्द्धं स्पष्टम्। अत्रोपपत्तिः। तिथिभोगकलाभिरेका तिथिस्तदा सूर्योनचन्द्रकलाभिः का इत्यनुपातेन फलं गततिथयो वतर्मानतिथेर्गतैष्ये शेषशेषोनभोग-कले ताभ्यां गत्यन्तरकलाभिरनुपातेन गतैष्यघटिकाःपूर्ववत्॥66॥

स्थिरकरणानि—
अथ पञ्चाङ्गावशिष्टं करणानयनं विवक्षुस्तावत् स्थिरकरणान्याह—

ध्रुवाणि शकुनिर्नागं तृतीयं तु चतुष्पदम्।
किंस्तुघ्नं तु चतुर्दश्याः कृष्णायाश्चापरार्धतः॥67॥

कृष्णपक्षीयायाश्चतुर्दश्यास्तिथेर्द्वितीयार्द्धाद्द्वियार्द्धमारभ्येत्यर्थः। चकार एवार्थे। तेन अन्यतिथेरेतत् तिथिपूर्वार्द्धस्य च निरासः। स्थिराणि करणानि। तान्याह। शुकनिरिति चतुरङ्घ्रिस्तृतीयमनेन शकु-निनागयोः क्रमेणाद्यद्वितीयत्वं सूचितम्। तुकारात् क्रमेण तिथ्यर्द्धेषु भवन्ति। किंस्तुघ्नं चतुर्थम्। तुर-न्तावधिद्योतकः तेनोक्तातिरिक्तं स्थिरकरणं नास्तीति सूचितम्॥67॥

चरकरणानि।
अथ चरकरणान्याह -

बवादीनि ततः सप्त चराख्यकरणानि च।
मासेऽष्टकृत्वएकैकं करणानां प्रवर्तते॥68॥

स्थिरकरणपूर्त्यनन्तरंबवादीनिचरसंज्ञककरणानिसप्तभद्रान्तानिशुक्लप्रतिपद्द्वितीयार्द्धतः चतु-र्थ्यन्तं भवन्तीति चार्थः। ननु पञ्चम्यादितः कानि करणानि भवन्तीत्यत आह। मास इति। चरकरणा-नां बवादीनां सप्तानां मध्य एकैकमेकमेकं करणं मासेस्थिरकरणकालोनितत्रिंशततिथ्यात्मकमासे स्वल्पान्तरात् मासग्रहणम्। अष्टकृत्वोऽष्टवारं प्रवर्त्तते प्रकर्षेण तिष्ठति भवतीत्यर्थः। तथा च पञ्चम्या-द्यर्धदेतानि करणानि पुनः पुनः परिभ्रमन्ति। कृष्णचतुर्दश्याद्यर्द्धपर्यन्तमिति भावः॥68॥

करणानि।

ननु स्थिरकरणोक्तावपरार्द्धत इत्युक्त्या तेषां चतुर्णां तिथ्यर्द्धभोगेन शुक्लप्रतिपदाद्यर्द्धपर्यन्तं क्र-मेण अवस्थानं युक्तं चरकरणानां तु केवलोक्त्या तदनन्तरं कृष्णचतुर्दश्याद्यर्द्धपर्यन्तमेक एव परि-भ्रमोऽस्त्वित्यतस्तदुत्तरं कथयन्नन्यदपि आह-

तिथ्यर्धभोगं सर्वेषां करणानां प्रकल्पयेत्।
एषा स्फुटगतिः प्रोक्ता सूर्यादीनां खचारिणाम्॥69॥

सप्तानां चरकरणानां प्रत्येकं तिथ्यन्तश्चासौ भोगश्च तं तिथ्यर्द्धकालमितावस्थानं प्रकल्पयेत्। एकत्र निर्णीतः शास्त्रार्थोऽपरत्र भवतीति न्यायात् करणत्वे न एषामप्यवस्थानं तत्तुल्यं कुर्यादित्यर्थः। अत एव तिथ्यर्द्धं करणं स्मृतमित्युक्त्या चान्द्रमासे त्रिंशत्तिथ्यात्मके षष्टिकरणानां सन्निवेशाच्चरकरणाना-मेव परिभ्रमणेप्रतिमासमनियततिथिभागकं करणं भवतीति तद्वारणकप्रतिमासनियत तिथिभोग-ककरणकसिद्ध्यर्थं चरकरणानामष्टवारपरिभ्रमणोत्तरमवशिष्टतिथ्योश्चतुर्ष्वर्द्धेषु स्थिरकरणानि उ-क्तानि इति तात्पर्यम्। तत्रापि कृष्णचतुर्दश्यपरार्द्धतस्तत्कल्पनं तदिच्छानियामकं स्वतन्त्रेच्छस्य नि-योगानर्हत्वात्। अथाग्रिमग्रन्थासङ्गतित्वनिरासार्थमुक्ताधिकारमुपसंहरति। एषेति। है मय! सूर्यादी-नां सप्तग्रहाणामेषा दृश्येत्यादि कल्पयेदित्यन्तं या वार्ता सा स्फुटगतिः स्पष्टगतिः स्पष्टक्रियाज्ञानस-म्पादिका प्रोक्ता तुभ्यं मयोक्ता। एतेन स्पष्टाधिकारः परिपूर्तिमाप्त इति सूचितम्॥69॥

रङ्गनाथेन रचिते सूर्यसिद्धान्तटिप्पणे। स्पष्टाधिकारः पूर्णोऽयं तद्गूढार्थप्रकाशके॥

इति श्रीसकलगणकसार्वभौमबल्लालदैवज्ञात्मजरङ्गनाथगणकविरचिते गूढार्थप्रकाशके स्पष्टाधि-कारःसम्पूर्णः॥2॥

त्रिप्रश्नाधिकारः-

दिग्ज्ञानम्—

अथ त्रिप्रश्नाधिकारो व्याख्यायते। तत्र विना प्रश्नं गुरोस्तत्प्रतिपादनेच्छानुदयाद्विना च तदिच्छा छा-त्राणां तज्ज्ञानासम्भवात् त्रयाणां दिग्देशकालाना प्रश्ना इति त्रिप्रश्नव्युत्पत्तेस्तद्दिग्ज्ञानं श्लोकचतुष्टयेन आह– 50-52

शिलातलेऽम्बुसंशुद्धे वज्रलेपेऽपि वा समे।

तत्र शङ्क्वङ्गुलैरिष्यैः समं मण्डलमालिखेत्॥1॥

तन्मध्ये स्थापयेच्छङ्कुं कल्पनाद्द्वादशाङ्गुलम्।

तच्छायाग्रं स्पृशेद्यत्र वृत्ते पूर्वापरार्द्धयोः॥2॥

तत्र बिन्दू विधायोभौ वृत्ते पूर्वापराभिधौ।

तन्मध्ये तिमिना रेखा कर्तव्या दक्षिणोत्तरा॥3॥

याम्योत्तरदिशोर्मध्ये तिमिना पूर्वपश्चिमा।

दिङ्मध्यमत्स्यैः संसाध्या विदिशस्तद्वदेव हि॥4॥

तत्र दिक्साधनोपक्रमे प्रथममम्बुसंशुद्धे जलवत् समीकृते शिलाप्रदेशे। अपि वा अथवा तदभावे-ऽन्यत्र वज्रलेपे चत्वरादौ घुण्टनादिना समस्थाने कृते शङ्क्वङ्गुलैः शङ्कुस्थागुलविभागमानगृही-तैः अभीष्टसंख्याकाङ्गुलैः व्यासार्द्धरूपैः वृत्तम् अवक्रम् आलिखेत्। सर्वतः केन्द्राद्वृत्तपरिधिरेखा तुल्या स्यात् तथेत्यर्थः। ततस्तन्मध्ये तस्य वृत्तस्य केन्द्ररूपमध्ये कल्पनया द्वादशसंख्यकाङ्गुलानि तुल्यानि यस्मिंस्तं द्वादशविभागादिकतमित्यर्थः। शङ्कु समतलमस्तकपरिधिकाष्ठदण्डं स्थापयेत्। ततः पूर्वापरार्द्धयोर्दिनस्य प्रथमद्वितीयभागयोस्तच्छायाग्रं स्थापितशङ्कोःछायान्तप्रदेशो मण्डलपरि-धौ यस्मिन् विभागे स्पृशेत्। दिनस्य प्रथमविभागेऽनुक्षणं छायाह्रासाद्वृत्ते यत्र प्रविशति दिनस्य अ-परार्द्धे छायानुक्षणवृद्धेर्वृत्ते यत्र निर्गच्छतीत्यर्थः। तत्र निर्गमनप्रवेशस्थानयोरुभौ द्वौ विन्दू पूर्वापरसंज्ञौ क्रमेण वृत्ते परिधिरेखायां कृत्वा तन्मध्ये पूर्वापरविन्द्वन्तरमध्ये तिमिना मत्स्येन रेखा कार्या सा दक्षि-णोत्तररेखा भवति। मत्स्यस्तु विन्द्वन्तरालसूत्रमितेन व्यासार्द्धेन विन्दुद्वयकेन्द्रकल्पनेन वृत्तद्वयं नि-ष्पाद्य वृत्तद्वयसंयोगाभ्यां वृत्तद्वयपरिधिविभागाभ्यामन्तर्गतं मत्स्याकारं स्थानं भवति। तत्रैकः संयोगो मुखं बाह्यवृत्तभागसम्मार्जनेनअपरसंयोगस्तु पुच्छमितरवृत्तभागद्वयसम्मार्जनेन।मुखपुच्छावध्यृज्वी रेखा दक्षिणोत्तररेखा। तत्र विन्दोः सव्यं रेखाग्रं दक्षिणा दिक्। पश्चिमविन्दोः सव्यं रेखाग्रमुत्तरा दि-क्। अनन्तरं पूर्ववृत्तं मत्स्यश्च सम्मार्जनीयः। शङ्कुरपि तत्स्थानात् निष्कास्य इति केवला दक्षिणोत्त-ररेखा स्थितेति तात्पर्यम्। दक्षिणोत्तररेखामितेन व्यासार्द्धेन दक्षिणोत्तरस्थानाभ्यां पूर्ववत् प्रत्येकं वृत्तं विधाय पूर्ववत् सिद्धेन मत्स्येनेत्यर्थः पूर्वपश्चिमा रेखा कार्या। तत्र पूर्वविन्दोरासन्नं रेखाग्रं पूर्वा पश्चिम-विन्दोरासन्नं रेखाग्रं पश्चिमेति मत्स्यसम्मार्जनेन केवला पूर्वापररेखापि सिद्धा। अथ रेखा संयोगस्था-नात् दिक्साधनोपक्रमोक्तं पूर्ववृत्तमुल्लिखेत् तद्वृत्तपरिधौ यत्र रेखा लग्ना तत्र दिगिति तद्वृत्तमध्य-स्य दिक्चतुष्टयं वृते सिद्धम्। तद्वत्। यथा दक्षिणोत्तराभ्यां पूर्वापरा साधिता तत्प्रकारेणेत्यर्थः। एवका-रोऽन्यप्रकारनिरासार्थकः। हि निश्चयेन। विदिशः कोणदिशो दिशां पूर्वादिसिद्धदिशां ये मध्यमत्स्या अव्यवहिदिग्द्वयान्तरोत्पन्ना लघवस्तैः संसाध्याः सम्यक्प्रकारेण साध्याः। रेखावृत्तसंयोगस्थत्वेन ज्ञेयाः।
अत्रोपपत्तिः। क्षितिजपूर्वापरवृत्तसंयोग पूर्वापरविभागस्थौ पूर्वापरदिशे तत्र पूर्वापरविभागज्ञानं सू-र्योदयास्ताभ्यां तत्र क्षितिजे पूर्वापरवृत्तं कुत्र लग्नमिति ज्ञानं तु विषुवद्वृतस्य पूर्वापरक्षितिजवृत्तस-म्पातयोः सम्बद्धत्वात्। अथ अन्यस्मिन् दिने सूर्यस्य उदयास्तावग्रांशान्तरेण याम्योत्तरे भवत इति सूर्योदयास्तस्थानाभ्यामग्रांशान्तरेणोत्तरयाम्ये पूर्वापरस्थानं भवतीतिक्षितिजस्य महत्वाद्दूरत्वाच्च तद्दानेन पूर्वापरज्ञानमशक्यमतस्तत्सूत्रेण स्वाभीष्टप्रदेशे तज्ज्ञानार्थमभीष्टसमस्थले क्षितिजानुकारं वृ-त्तं कृतम्। तत्रापि सूर्योदयास्तसमसूत्रेण स्थलज्ञानस्य दुःशक्यत्वाच्छायार्थं शङ्कुः स्थाप्यः। तथापि सूर्योदये छायानन्त्याद्वृत्तपरिधौ तदग्रस्पर्शाभावः। परन्तु यथा यथा सूर्य उर्ध्वं भवति तथा तथा छा-याह्रासात् यत्र छाया वृत्तपरिधौ यदा प्रविशति तत्स्थानात्तात्कालिको वक्ष्यमाणभुजो व्यस्तोऽर्द्ध-ज्याकारेण देयस्तदुत्क्रमज्या यत्र परिधिप्रदेशे लगति तत्र शङ्कु- स्थानस्य पश्चिमा। छायाग्रस्य पू-र्वापरसूत्राद्भुजान्तरेण याम्योत्तरपतनात् सूर्यापरदिशि छायापतनाच्च। एवं दिनापरार्द्धे सूर्यो यथा यथाधः सञ्चरति तथा तथा छायावृद्धेःशङ्कुच्छायावृत्तपरिधौ यत्र यदा निर्गच्छति तात्कालिको व-क्ष्यमाणभुजो व्यस्तोऽर्द्धज्याकारेण तत्स्थानाद्यस्तदुत्क्रमज्या यत्र परिधिप्रदेशे लगति तत्र शङ्कु-स्थानस्य पूर्वा॥ तत्सूत्रं पूर्वापरसूत्रम्। इदं शङ्को उपलक्षणत्वेन ज्ञानं तथा छायोपलक्षणेनापि प्रदेश-स्य पूर्वापरसूत्रज्ञानम्। तथाहि। छायाग्रं विशति तत्र अपरा छायाग्रं निर्गच्छति तत्र पूर्वा। तत्रापि प्रवे-शनिर्गमयोः एककालत्वासम्भवात् यत्कालिकः प्रवेशः तत्काले छायायाः पश्चिमत्वं तत्र वस्तुभूतं त-त्काले निर्गमनस्य पूर्वत्वासम्भवः। एवं निर्गमकाले निर्गमस्थानस्य पूर्वत्वं वस्तुभूतं तत्काले प्रवेशस्य पश्चिमत्वासम्भवः। एककालिकसिध्यर्थमुभयोरेकतरं चिह्नं चाल्यं तात्कालिकभुजयोःअन्तरेण तत्र पूर्वचिह्नं भुजान्तरांगुलैः अयनदिशि चाल्यम्। पश्चिमचिह्नं वा व्यस्तायनदिशि चाल्यम्। तत्सूत्रं सूत्रम-ध्यदेशस्य पूर्वापरसूत्रम्। एतन्मध्ये स्थापितशकोश्छायाग्रप्रवेशनिर्गमचिह्नाभ्यां यथोक्तरीत्या भुजदा-नेन सिद्धपूर्वापरसूत्रेण अभिन्नत्वात्। तदुक्तं सिद्धान्तशिरोमणौ। तत्कालापमजीवयोस्तु विवराद्भा-कर्णमित्याहतात्। लम्बज्याप्तमिताङ्गुलैरयनदिश्यैन्द्री स्फुटा चालिता। इति। तदेतद्भगवता लो-कानुकम्पया स्वल्पान्तरत्वादेकतरविन्दुचलनं नोक्तं सुखार्थं किञ्चित्स्थूलौ एव निर्गमप्रवेशविन्दू पूर्वा-पराभिधौ उक्तौ। एवञ्च अभीष्टस्थानं प्रवेशनिर्गमसूत्रमध्ये यथा भवति तथा अनेन प्रकारेण मण्डल-केन्द्रे शङ्कुस्थापनादिना अभीष्टप्रदेश पूर्वापरदिशे साध्ये इति। तन्मध्ये दक्षिणोत्तररेखा विन्दुद्वयो-त्पन्नमध्यमत्स्यरेखा एवेति। याम्योत्तरमध्ये पूर्वापरारेखा तद्दिङ्मध्यमत्स्येनेति याम्योत्तरदिशोरित्यादि सम्यगुक्तम्। ननु पूर्वापरबिन्दुभ्यां मत्स्येन या दक्षिणोत्तररेखा तदग्राभ्यां मत्स्येन रेखापूर्वापरविन्दु-स्पृष्टा एवेति पूर्वं तस्या एव विन्द्वन्तरत्वेन सिद्धत्वात् पुनः साधनं व्यर्थमन्यथा दक्षिणोत्तररेखाया अपि असंगतत्वापत्तेरिति चेत् सत्यम्। दक्षिणोत्तररेखाशुध्यर्थमेव पूर्वापरविन्दुस्पृष्टरेखायाः पुनः साधनमि-ति केचित्। वस्तुतस्तु दक्षिणोत्तरपूर्वापरसूत्रसम्पातरूपाभीष्टस्थानात् केन्द्रात् प्रागुक्तवृत्तस्य वक्ष्य-माणोपयोगित्वेन आवश्यकत्वात् तस्य च पूर्वापरविन्द्वन्तरसूत्राधिकव्याससूत्रत्वाद्विन्द्वन्तररेखामूला-ग्रयोः बर्द्धनीया सा तत्र वृत्ते पूर्वापररेखा भवति। तस्या विन्दोरुपरि अधश्च वक्रत्वं कदाचित्स्यादतः प्रथममेव पूर्णरेखासिध्यर्थं विन्द्वन्तरसिद्धमत्स्यमुखपुच्छ्गतरेखाया विन्द्वन्तराधिकत्वेन तदुत्पन्नम-त्स्यरेखाया ऋज्व्याः सुतरामधिकत्वेन पुनः पूर्वापररेखासाधनं युक्ततरमिति तत्त्वम्। एवमेव अव्यव-हित दिग्द्वयान्तरोत्पन्नलघुमत्स्यैः चतुर्भिः सूत्रैः वृत्ते कोणदिशः। तदिदमभीष्टस्थानकेन्द्रकमण्डले दि-गष्टकं सिद्धम्॥1-4॥


अथ दिक्सूत्रसम्पातरूपाभीष्टस्थानात् तात्कालिकच्छायाग्रस्थानमाह—

चतुरस्रंबहिः कुर्यात् सूत्रैर्मध्याद्विनिर्गतैः।
भुजसूत्राङ्गुलैस्तत्र दत्तैरिष्टप्रभा स्मृता॥5॥

मध्यात् अभीष्टस्थानात् दिग्रेखासमपातरूपात् विनिर्गतैः निसृतैः अष्टदिग्रेखारूपैः। वहिर्दिक्सूत्रस-म्पातकेन्द्रवृत्ताबद्वहिः। अनेन एव वृत्तकरणं पूर्वमनुक्तं द्योतितम्। अन्यथा बहिरित्यस्य अनुपपत्तेः। पूर्ववृत्तग्रहणे तु दिग्रेखासम्पातस्य मध्यत्वानुपपत्तेः चतुरस्रंकोणरेखाधिकसूत्रकर्णद्वयतुल्यं समचतु-र्भुजं कुर्यात्। यथा च तद्दर्शनम्। तत्र चतुरस्रेभुजसूत्रांगुलैः वक्ष्यमाणभुजमितसूत्रस्य अंगुलैः निर्गम-प्रवेशकालिकैः दत्तैःपूर्वापरसूत्रात् अर्द्धज्यावत् दीयमानैः तत्र वृत्ते यस्मिन् प्रदेश भुजाग्रं तत्प्रदेश इ-ष्टप्रभानिर्गमप्रवेशान्यतरकालिकच्छायाग्रमुक्तम्। प्रतीतिस्तु दिक्सूत्रसम्पातस्थशङ्कुना ज्ञेया। अ-त्रोपपत्तिः। वक्ष्यमाणभुजस्य छायाग्रपूर्वापरसूत्रान्तरत्वेन प्रतिपादितत्वात् इष्टच्छायाग्रमुक्तदिशा ज्ञा-न सम्यक्। चतुरस्रकरणं वक्ष्यमाणाग्रसाधकप्राच्यपररेखानुकाररेखाया वृत्तान्तस्तद्बहिर्वा ऋजुत्वसि-द्ध्यर्थमिति॥5॥

पूर्वापररेखा-
अथ पूर्वापररेखायाः संज्ञान्तरमाह—

प्राक्पश्चिमाश्रिता रेखा प्रोच्यते सममण्डलम् ॥
उन्मण्डलञ्च विषुवन्मण्डलं परिकीर्त्यते॥6॥

प्राक्पश्चिमाश्रिता पूर्वपश्चिमसम्बद्धा साधिता रेखा समवृत्तमुच्यते। सैव रेखोन्मण्डलं विषुवन्मण्ड-लम्। चः समुच्चये। उभयसंज्ञकं कथ्यते। अत्रोपपत्तिः।
क्षितिजपूर्वापरवृत्तसंयोगौ पूर्वापरे तत् सूत्रं पूर्वापरसूत्रमिति। पूर्वापरवृत्तस्य भूमौ ऊर्ध्वाधरानुकारि-वृत्तत्वेन अदर्शनाद्रेखाकारतयैव दर्शानाच्च पूर्वापरवृत्तमपि तत् सूत्रम्। पूर्वापरवृत्तस्य सममण्डल-त्वेन अभिधानात् तद्रेखासममण्डलसंज्ञोक्ता। अथ स्वनिरक्षदेशक्षितिजवृत्तस्य उन्मण्डलाख्यस्य त-त्संयोगयो संलग्नत्वात् तन्मध्यसूत्रत्वेन पूर्वापरसूत्रस्यापि सत्वात् पूर्वापरसूत्रम् उन्मण्डलसंज्ञम्। एतेन अन्यदेशक्षितिजसंज्ञया स्वदेशक्षितिजसंज्ञा सुतरां सिद्धेति पूर्वापरसूत्रस्य क्षितिजवृत्तसंज्ञा द्योतिता। पूर्वापरस्थानयोः क्षितिजवृत्तस्य संलग्नत्वात् उल्लिखितवृत्तस्य क्षितिजानुकारित्वाच्च। एवं निरक्षदेश-पूर्वापरवृतं विषुवन्मण्डलाख्यं पूर्वापरस्थानयोः संलग्नमिति तन्मध्यसूत्रत्वेन अपि पूर्वापरसूत्रस्य सि-द्धत्वात् पूर्वापरसूत्रं विषुवन्मण्डलसंज्ञं क्रान्तिवृत्तस्य दृग्वृत्तस्य च चलत्वात् कदाचित्कत्वेन पूर्वापर-स्थानसंलग्नत्वात् तत्संज्ञा नोक्तेति ध्येयम्॥6॥

अग्रा—
अथाग्राज्ञानमाह-

रेखा प्राच्यपरा साध्या विषुवद्भाग्रगा तथा।

इष्टच्छायाविषुवतोर्मध्यमग्राभिधीयते॥7॥

तस्मिन् चतुरसे पूर्वापररेखात उत्तरभागेविषुवद्भाग्रगाक्षभाग्रप्रदेशस्थाक्षभांगुलान्तरितेत्यर्थः। प्रा-च्यपरा रेखा पूर्वापररेखानुकारा रेखा तथा सर्वतः तुल्यान्तरेण यथेष्टच्छायाग्ररेखा भुजान्तरेण तथाक्ष-भान्तरेण कार्या। अनन्तरमिष्टच्छायाविषुवतोः इष्टच्छायाग्ररेखाक्षभाग्ररेखयोः इत्यर्थः। मध्यं चतुरस्रे-ऽङ्गुंलात्मकमन्तरालं सर्वतः तुल्यम्।अग्राकर्णवृत्ताग्रोच्यते। अत्रोपपत्तिः। भुजस्य कर्णवृत्ताग्रा पल-भासंस्कारेणाग्रेउक्तत्वात् दक्षिणगोले पलभाधिकोत्तरभुजसद्भावेन पलभोनो भुजोऽग्रेति प्राच्यपर-सूत्रात् उत्तरभागेऽक्षभाग्ररेखा भुजमध्ये भवतीति द्वयोःरेखयोःअन्तरमग्रापलभोनभुजरूपा। एवमु-त्तरगोल उत्तरभुजस्य पलभाल्पत्वाद् भुजोनपलभाग्रेति पलभारेखा प्राच्यपरसूत्रात्। उत्तरभागस्था भुजरेखातोऽप्यग्रान्तरेण उत्तरदिशीति द्वयोः रेखयोः अन्तरं भुजोनपलभारूपं कर्णवृत्ताग्रा। एवं द-क्षिणभुजस्य पलभोनाग्रात्वात् पलभायुतो भुजोऽग्रेति प्राच्यपरसूत्राद्भुजाग्रपलभाग्ररेखयोःक्रमेण याम्योत्तरत्वात् तयोरन्तरालं पलभाभुजैक्यरूपमग्रा पलभायाःशङ्कुतलानुकल्पत्वात् सदोत्तरत्वं छाया सम्बन्धाद्युक्तम्। गोले शङ्कुतलस्य दक्षिणत्वाद् ग्रहापरदिशि छायासद्भावाच्च। अतएव प्राच्यपरसूत्राद्दक्षिणभागे दक्षिण भुजवशादक्षभाग्ररेखाकल्पन उक्तानुत्पत्या सम्यगुत्तरभागे पूर्वापर-सूत्रादिति विषुवद्भाग्रगेत्यत्र व्याख्यातम्॥7॥

छायातः कर्णज्ञानम्। छायाकर्णज्ञानम्। शंकुवर्गज्ञानम्—
अथ प्रसंगाज्ज्ञातच्छायातः कर्णज्ञानं तच्छुद्धिं च आह–

शंकुच्छायाकृतियुतेर्मूलं कर्णोऽस्य वर्गतः।
प्रोज्झ्य शङ्कुकृतिं मूलं छाया शङ्कुर्विपर्ययात्॥8॥

द्वादशांगुलशङ्कुच्छाययोः वर्गयोगात् पदं छायाकर्णः स्यात्। अथ अस्य शुद्धिरूपं छायासाधन-माह। अस्येति। छायाकर्णस्य वर्गात् शङ्कुवर्गं चतुश्चत्वारिंशदधिकं शतंविशोध्य मूलं छाया। प्र-कारान्तरेण छायाकर्णशुद्धिमाह। शङ्कुरिति। विपर्ययाच्छायासाधनवैपरीत्याच्छायाकर्ण-वर्गाच्छा-यावर्गं विशोध्य मूलमित्यर्थः॥शङ्कुर्द्वादशांगुलमितःस्यात्।अत्रोपपत्तिः। द्वादशांगुलशङ्कुः को-टिरक्षभाभुजस्तत्कृत्योर्योगपदं कर्ण इत्यक्षकर्णः इत्याद्यक्षक्षेत्राद्युक्तरीत्योपपन्नम्। ननु दिक्साधनो-त्तरमिष्टप्रभाग्राकर्णसाधनं भगवता सर्वज्ञेन किमर्थमुक्तमग्रेऽग्रादीनां स्वतन्त्रतयोक्तत्वात्। न च वि-ना गणितश्रममग्राज्ञानार्थमिदं युक्तमुक्तमिति वाच्यम्। वक्ष्यमाणभुजज्ञानस्य अग्रोपजीव्यत्वेन त-स्याश्च भुजोपजीव्यत्वेन अन्योन्याश्रयात्। न च भुजसूत्रांगुलैः दत्तैः इत्यनेन इष्टच्छायाग्रं ज्ञातमिति न किन्तु एतदुक्त्या दिक्सूत्रसम्पातस्थशङ्कोर्वृत्तपरिधौ छायाग्रज्ञानात् तत्पूर्वापरसूत्रान्तरे भुजसद्भावा-द्विना गणितं भुजोऽपि ज्ञात इति न अन्योन्याश्रय इति वाच्यम्। तथापि भगवतः सर्वज्ञस्य निष्प्रयोज-नत्वोक्तेः अनुचितत्वात्। विना प्रयोजनं मन्दोक्तेरपि अभावाच्च। न हि दिक्साधनेऽग्राभुजादिकमा-वश्यकं येन तदुक्तिर्युक्ता। किञ्च कर्णसाधनस्य गणितोक्त्या वक्ष्यमाणकर्णसाधनतुल्यत्वेन अत्र क-थनमनुचितम्। न हि दिक्साधनार्थं भाकर्णमित्याहतादिति सिद्धान्तशिरोमण्युक्तिवत् अत्र छायाकर्ण उपयुक्तो येन तदुक्तिर्युक्तेति चतुरस्रमित्यादि श्लोकचतुष्टयमन्येन मन्दबुद्धिना क्षिप्तं न भगवतो-क्तमिति। भुजसाधनोपजीव्याग्रया एतदुक्तप्रकारेण सिद्धौ दिशः सम्यक् सिद्धा इति दिक्साधन शु-द्धयर्थमग्रासाधनम्। प्रकारान्तरेण अपि वक्ष्यमाणत्रिज्यावृत्तीयाग्रया त्रिज्या लभ्यतेतदानयागतया केत्यनुपातेन साधितकर्णसंवादेन शुद्ध्यवगमार्थं कर्णसाधनं च उक्तम्। अनयाग्रया कर्णस्तदा त्रि-ज्यावृत्तीयाग्रया क इति फलस्य त्रिज्यातुल्यस्य आनयनार्थं वा कर्णसाधनम् इति केचित्। वस्तुतस्तु मण्डले छायाप्रवेशनिर्गमस्थानस्थितपूर्वापरविन्द्वोः प्रत्येकं रेखेति रेखाद्वयं सर्वतस्तुल्यान्तरं कार्यं ते-नान्तरेण अन्यतरो विन्दुश्चाल्यस्तौ पूर्वापरविन्दू तद्रेखामध्यस्थानस्य पूर्वापररेखेति। तत्र उभयविन्दु-रेखयोः अन्तरांगुलमानं स्वल्पत्वात् गणयितुमशक्यमतः प्रत्येके रखे प्राच्यपररेखे प्रकल्प्य तन्मध्य-केन्द्रात् पूर्ववृत्तं प्रत्येकमिति वृत्तद्वयं कुर्यात्। तत्र स्वस्ववृत्ते स्वस्वप्राच्यपररेखा स्पृष्टा कार्या ताभ्यां स्वस्वकालिकौ भुजौ स्वस्ववृत्ते देयौ तदग्रे छायाग्ररेखे स्वस्ववृत्ते कार्ये स्वस्वप्राच्यपरसूत्रात् स्वस्ववृत्त उत्तरभागेऽक्षभांगुलान्तरेण रेखे कार्ये ततः स्वस्ववृत्ते स्वस्वतद्रेखयोःअन्तरं स्वस्ववृत्त उभयकालिककर्णवृत्ताग्रे बहुत्वेन गणयितुं शक्ये तदन्तरं पूर्वविन्द्वोर्याम्योत्तरमन्तरं कर्णवृत्ताग्रासाध-नकथनेन आनीतं भुजान्तरस्य विन्द्वन्तरत्वात् तस्य च अग्रान्तरत्वेन फलितत्वात्। विषुवद्दिने गोलभे-दे तु भुजान्तरमग्रायोग इति” विन्दोर्याम्योत्तरमग्रायोग इति। तेनोक्तरीत्या विन्दुश्चाल्यस्तत्सूत्रं पूर्वाप-रसूत्रंस्फुटमित्याशयेन भगवता अग्रा निरुपिता तस्याः शुद्ध्यर्थं कर्णोऽपि साधित इति तत्त्वम्॥8॥

अयनज्ञानम्—
अथ पूर्वाधिकारे क्रान्त्याद्यानयनमुक्तं तत् पूर्वाधिकारावगतग्रहात् केवलात् न साध्यमिति श्लो-काभ्यामाह-

त्रिंशत्कृत्यो युगे भानां चक्रं प्राक्परिलम्बते।

तद्गुणाद्भूदिनैर्भक्ताद् द्युगणाद्यदवाप्यते॥9॥

तद्दोस्त्रिघ्ना दशाप्तांशा विज्ञेया अयनाभिधाः।

तत्संस्कृताद्ग्रहात् क्रान्तिच्छायाचरदलादिकम्॥10॥

भानां चक्रं राशीनां वृत्तं क्रान्तिवृत्तं स्वस्वविक्षेपमितशलाकाग्रप्रोतनक्षत्रगणैः युक्तमित्यर्थः। युगे महायुगे प्राक्पूर्वविभागे त्रिंशत्कृत्यास्त्रिंशत्संख्याकाकृतिर्विंशतिः षट्शतमित्यर्थः। परिलम्बते ध्रुवा-धारभगोलस्थानात् तद्द्वारमवलम्बते। अत्र परिलम्बत इत्यनेन भचक्रपूर्णभ्रमणाभाव उक्तोऽन्यथा ग्रहभगणप्रसंगेन मध्याधिकार एव एतदुक्तं स्यात्। तथा च तद्द्वारमवलम्बनोक्त्या परावर्त्य यथा-स्थितं भवतीत्यागतं तत्रापि स्वस्थानात् तथैव पश्चिमतोऽपि अवलम्बत इति सूचितम्। एवञ्च भचक्रं पश्चिमतः ईश्वरेच्छयाप्रथमतः कतिचिद्भागैश्चलति ततः परावृत्य यथास्थितं भवति ततोऽपि तद्भागैः क्रमेण पूर्वतश्चलति ततोऽपि परावर्त्य यथास्थितमित्येको विलक्षणो भगणः। तेन प्रागित्युपलक्षणम्। पश्चिमावलम्बनानुक्तिस्तु संवादकाले तदभावात्। अत्र त्रिंशत्कृत्वेति पाठःप्रामादिकः। युगे षट्शत-कृत्वो हि भचक्रं प्राग्विलम्बते। इति सोमसिद्धान्तविरोधात्। तत्पश्चात् चलितं चक्रमिति ब्रह्मसिद्धा-न्तोक्तेश्च। अहर्गणात् तद्गुणात् षट्शतगुणिताद् भूदिनैः युगीयसूर्यसावनदिनैर्भक्तात् यत् फलं भग-णादिकं प्राप्यते तस्य भगणत्यागेन राश्यादिकस्य भुजः कार्यस्तस्मात् दशाप्तांशा दशभिर्भजनेन आप्तभागाःत्रिगुणिता अयनसंज्ञका ज्ञेयाः। भुजांशाः त्रिगुणिता दशभक्ताः फलमयनांशा इति तात्प-र्यार्थः। तत्संस्कृतात् तैः अयनांशैः भचक्रपूर्वापरचलनवशाद्युतहीनाद् ग्रहात् पूर्वापरभचक्रचलनाव-गमस्तु अयनग्रहस्य षड्भानन्तर्गतान्तरगतत्वक्रमेण क्रान्तिच्छायाचरदलादिकं साध्यम्। न केवला-द्विशेषोक्तेः। छाया वक्ष्यमाणा चरदलं चरं पूर्वाधिकारोक्तम्। आदिशब्दात् अयनवलनमायनदृक्क-र्म संगृह्यते। यद्यपि तत्संस्कृताद्ग्रहात् क्रान्तिरित्येव वक्तव्यमन्येषामत्र तदुपजीव्यत्वाद् ग्रहणं व्यर्थं तथापि क्रान्ति- रित्युक्त्या केवलक्रान्तिज्ञानार्थं तत्संस्कृतग्रहात् क्रान्तिः साध्या। पदार्थान्तरोपजीव्या-याः साधनं क्रान्तेः साधनं तु केवलात् इत्यस्य वारणार्थं क्रान्तिमात्रं तत्संस्कृतात् साध्यमिति सूचकं छायाचरदलादिकथनम्। अत्रोपपत्तिः। ईश्वरेच्छया क्रान्तिवृत्तं स्वमार्गे पश्चिमतः सप्तविंशत्यंशैः क्रमोपचितैश्चलितं ततः परावृत्य स्वस्थानं आगत्य तत्स्थानात् पूर्वतः सप्तविंशत्यंशैः चलितम्। तथा च सृष्ट्यादिभूतक्रान्तिविषुवद्वृत्तसम्पाताश्रितक्रान्तिवृत्तप्रदेशो रेवत्यासन्नः प्रागानीतग्रहभोगावधि-रूपः स्वस्थानात् पूर्वमपरत्र वा क्रान्तिवृत्तमार्गे गतः। विषुवद्वृत्ते तु तद्भागस्य पश्चिमभागः पूर्वभागो वा गतः। सम्पाते तद्वृत्तयोर्याम्योत्तरान्तराभावात् क्रान्त्यभावः। पूर्वसम्पातप्रदेशे तु तयोर्याम्योत्तरा-न्तरत्वात् क्रान्तिरुत्पन्ना अतो यथा स्थितग्रहभोगात् क्रान्तिः असंगतेति सम्पातावधिकग्रहभोगात् क्रान्तिर्युक्ता। तत्र सम्पातावधिकग्रहभोगज्ञानार्थं पूर्वसम्पातावधिकःपूर्वाधिकारोक्तो ग्रहभोगो वर्त-मानसम्पात्पूर्वसम्पाताश्रितक्रान्तिवृत्तप्रदेशयोः अन्तरभागैः अयनांशाख्यैः पूर्वसम्पातप्रदेशस्य पूर्वप-श्चिमावस्थानक्रमेण युतहीनो भवति। क्रान्त्युपजीव्य पदार्था अपि वर्तमानसम्पातादुत्पन्ना इति तत्सा-धनमपि तत्संस्कृतग्रहात्। अथ अयनांशज्ञानं तु षट्शतभगणेभ्यः पूर्वानुपातरीत्याहर्गणाद् ग्रहभोगो भगणादिकस्तत्र गतभगणमितं परपूर्वभचक्रावलम्बनं गतम्। वर्तमानं तु आरम्भे पश्चिमावलम्बनात् राशिषट्कान्तर्गते राश्यादिके पश्चिमावलम्बनमनन्तर्गते पूर्वावलम्बनम्। तत्रापि त्रिभान्तर्गतान्तर्गत-त्वक्रमेण चलनं परावर्त्तनं चेति भुजःसाधितस्ततो नवत्यंशैः सप्तविंशतिभागाः तदा भुजांशैः क इत्यनुपातेन गुणहरौ नवभिःअपवर्त्य भुजांशाः त्रिगुणिता दशभक्ता इति सर्वमुपन्नम्॥9-10॥


अथ उक्तस्यान्तरस्य प्रत्यक्षसिद्धत्वमिति सार्द्धश्लोकेन आह-

स्फुटंदृक्तुल्यतां गच्छेदयने विषुवद्वये।

प्राक् चक्रं चलितं हीने छायार्कात् करणागते॥

अन्तरांशैरथावृत्य पश्चाच्छेषैस्तथाधिके॥11॥

अयने दक्षिणोत्तरायणसन्धौ विषुवद्वये गोलसन्धौ चलितं चक्रं दृक्तुल्यतां दृष्टिगोचरतां स्फुटमना-यासं गच्छेत्। तत्र प्रत्यक्षतस्तन्मितमन्तरं दृश्यत इत्यर्थः। तथा च सृष्ट्यादिकाले रेवतीयोगतारासन्ना-वधि मेषतुलाद्योः कर्कमकराद्योः विषुवायनप्रवृत्तेरिदानीं तु अन्यत्र तत्स्वरूपे प्रत्यक्षे इति क्रान्तिवृत्तं चलितमन्यथा तदनुपत्तेरिति भावः। ननु पूर्वतोऽपरत्र वा चालितमिति कथं ज्ञेयमित्यत आह। प्रागि-ति। छायार्काद्यद्दिने सूर्यस्य अयनदिक्परावर्त्तनमुदये प्राच्यपरसूत्रस्थत्वं वा तस्मिन् दिनेऽन्यस्मिन् दिने वा मध्याह्नच्छायातो वक्ष्यमाणप्रकारेण सूर्यःसाध्यस्तस्मात् इत्यर्थः।करणागते प्रागुक्तप्रकारेण आनीतः स्पष्टः सूर्यस्तस्मिन्नित्यर्थः। न्यूने सति।अन्तरांशैः सूर्ययोरन्तरांशैः चक्रं क्रान्तिवृत्तं प्राक् पूर्व-स्मिन् चलितमिति ज्ञेयम्। अथ यद्यधिके सति शेषैः सूर्ययोः अन्तरांशैः चक्रमावृत्य परिवृत्य पश्चात् पश्चिमाभिमुखं तथा चलितमिति ज्ञेयम्। अत्रोपपत्तिः। छायातोवक्ष्यमाणप्रकारेण सूर्यो वर्तमानसम्पा-ताद्गणितागतस्तुरेवतीयोगतारासन्नाद्यवधितोऽतस्तयोःअन्तरमयनांशास्तत्रक्रान्तिवृत्तस्य पूर्वचलने गणितागतार्काच्छायार्कोऽधिको भवति। पश्चिमचलनेतु न्यूनो भवतीतिसम्यगुपपन्नम्॥11॥

पलभा—
अथ चराद्युपजीव्यां पलभामाह- 57

एवं विषुवती छाया स्वदेशे या दिनार्द्धजा॥

दक्षिणोत्तररेखायां सा तत्र विषुवत्प्रभा॥12॥

स्वाभीष्टदेश एवं विषुवती चलितविषुवद्दिनसम्बद्धारेवत्यासन्नस्यापि उपचाराद्विषुवसंज्ञा तद्व्यावर्त्त-कमेवमिति। दिनार्द्धजा माध्याह्निकी या यन्मिता द्वादशांगुलशङ्कोश्छाया दक्षिणोत्तररेखायां निरक्षो-त्तरदक्षिणदेशक्रमेण उत्तरस्यां दक्षिणोत्तररेखास्थत्वं विना मध्याह्नासम्भवात् सा तन्मिता तत्र तस्मिन् अभीष्टदेशे विषुवत्प्रभाक्षभा भवति। एतेन द्वादशांगुलशङ्कुः कोटिःपलभा भुजस्तत्कृत्योर्गोगपदं कर्णं इत्यक्षकर्णः कर्ण इत्यक्षक्षेत्रं वक्ष्यमाणोपयुक्तं प्रदर्शितम्। तदा सूर्यस्य विषुवद्वृत्तस्थत्वात् वि-षुवत्प्रभा इति संज्ञोक्ता॥12॥

लम्बज्या। अक्षज्या।
अथ लम्बाक्षयोरानयनमाह-

शङ्कुच्छायाहते त्रिज्ये विषुवत्कर्णभाजिते।
लम्बाक्षज्ये तयोश्चापे लम्बाक्षौ दक्षिणौ सदा॥13॥

त्रिज्ये द्विस्थानस्थेशङ्कुच्छायाहते एकत्र द्वादशगुणिता अपरत्र प्रागुक्तया विषुवत्प्रभया गुणिता विषुवत्कर्णभाजितोभयत्राक्षकर्णेन भक्ता फले क्रमेण लम्बज्याक्षज्ये तयोर्ज्ययोः धनुषी क्रमेण ल-म्बाक्षौ सदोभयगोले दक्षिणदिक्स्थौभवतः।
अत्रोपपत्तिः। याम्योत्तरवृत्ते निरक्षस्वदेशपूर्वापरवृत्तयोः तदन्तरं तदक्षः। याम्योत्तरवृत्ते दक्षिणक्षितिजप्रदेशाद्विषुवद्वृत्तस्य यदन्तरं तल्लम्बः। उभौ ऊर्ध्वगोले स्वपूर्वापरवृत्ताद्दक्षिणौ तज्ज्ये अक्षलम्बज्ये भुजकोटीत्रिज्याकर्ण इत्यक्षक्षेत्रादक्षकर्णकर्णे द्वादशपलभे कोटिभुजौ तदा त्रिज्याकर्णे कावित्यनुपाताभ्यां लम्बाक्षज्ये तद्धनुषी लम्बाक्षावित्युपपन्नम्॥13॥

भुजः। नतिः। मयाह्नच्छायातः अक्षानयनम्—
अथ मध्याह्नच्छायातोऽक्षानयनं श्लोकाभ्यामाह–

मध्यच्छाया भुजस्तेन गुणिता त्रिभमौर्विका।

स्वकर्णाप्ता धनुर्लिता नतास्ता दक्षिणे भुजे॥14॥

उत्तराश्चोत्तरेयाम्यास्ताः सूर्यक्रान्तिलिप्तिकाः॥

दिग्भेदे मिश्रिताः साम्ये विश्लिष्टाश्चाक्षलिप्तिकाः॥15॥

अभीष्टदिने माध्याह्निकी छाया भुजसंज्ञा ज्ञेया। तेन भुजेन त्रिज्या गुणिता मध्याह्नच्छायाकर्णेन भ-क्ता फलस्य धनुः कला नतानतसंज्ञास्ता नतकला दक्षिणे भुजे मध्याह्नच्छायारूपभुजे प्राच्यपरसूत्र-मध्यात् दक्षिणदिक्स्थे सति उत्तरदिक्का उत्तरे भुजे दक्षिणाः। चो विषयव्यवस्थार्थकः। ता नतकलाः सूर्यक्रान्तिकलाः प्रागुक्ताः। दिग्भेदेस्वदिशोर्भिन्नत्वे मिश्रिताः संयुक्ताः साम्येऽभिन्नदिक्त्वे विशिष्टा अन्तरिताः। चो विषयव्यवस्थार्थकः। अक्षकलाः भवन्ति। अत्र अनावश्यकभुजसंज्ञया भगवतोपप-त्तिरुक्ता। तथाहि द्वादशांगुलशङ्कुकोटौ मध्याह्नच्छायाकर्णे वा मध्यच्छायाभुजस्तथा स्वस्वस्वस्ति-कान्मध्याह्नकाले सूर्यस्य याम्योत्तरवृत्ते यदन्तरेण नतत्वं ता नतकलास्तज्ज्या नतांशज्या मध्याह्नोन्न-तांशज्यारूपशङ्कौत्रिज्याकर्णे वा भुज इति मध्याह्नच्छायाकर्णे कर्णे मध्याह्नच्छाया भुजस्तदा त्रिज्या-कर्णे को भुज इत्यनुपातेन नतज्या तद्धनुरत्र कलात्मकत्वात् नतकलास्ता ग्रहसम्बद्धा इति छायादि-ग्विपरीतदिक्काः। अथ क्रान्त्यंशाक्षांशयोःएकदिक्त्वे योगेन नतांशा इति दक्षिणा नतकला दक्षिण-क्रान्तिकलाभिर्हीना अक्षांशा भवन्ति। क्रान्त्यंशाक्षांशयोःभिन्नदिक्त्वेऽन्तरेण नतांशा यदि दक्षिणा-स्तदा क्रान्त्यूनाक्षांशस्य नतत्वात् उत्तरक्रान्तियुता अक्षांशाः। यदि तु उत्तरास्तदाक्षोनक्रान्तेर्नतत्वात् नतोनोत्तरक्रान्तिरक्ष इति सम्यगुपपन्नम्। केचित् तु भुजग्रहणात् अभीष्टकाले प्राच्यपरसूत्राच्छायाग्रं यदन्तरेण याम्यमुत्तरं वा भुजस्तं स्वल्पान्तरान्मध्यच्छायां प्रकल्प्य तस्याः कर्णं च आनीयोक्तदिशा नतलिप्तास्ता अभीष्टक्रान्तिसंस्कृता अक्षांशा भवन्तीत्याहुः॥14-15॥

लम्बज्या। पलभा—
अथ अक्षात् पलभानयनमाह–

नाभ्योऽक्षज्या च तद्वर्गं प्रोज्झ्य त्रिज्याकृतेः पदम्॥
लम्बज्याऽर्कगुणाक्षज्या विषुवद्भाऽथलम्बया॥16॥

ताभ्योऽक्षकलाभ्योऽक्षज्या भवति। चः समुच्चये। अक्षज्यावर्गं त्रिज्यावर्गात् त्यक्त्वाशेषान्मूलं ल-म्बज्या। अनन्तरमक्षज्या द्वादशगुणा लम्बज्यया गुणनस्य भजनसम्बन्धात् भक्तेत्यर्थसिद्धम्। अक्षभा स्यात्।
अत्रोपपत्तिः। अक्षकलानां ज्याक्षज्या तस्याः त्रिज्याकर्णे भुजत्वात् तद्वर्गोनात्त्रिज्यावर्गान्मूलं ल-म्बज्या कोटिः।तयाक्षज्यया भुजस्तदा द्वादशकोटौ को भुजइत्यनुपातेन विषुवच्छाया इति ॥16॥

अपक्रमः। सायनस्पष्टरविः—

अथाक्षज्ञाने नतभागेभ्यः क्रान्तिद्वारा सूर्यसाधनं सार्द्धश्लोकाभ्यामाह—

दिग्भेदेऽपक्रमः शेषस्तस्य ज्या त्रिज्यया हता।

स्वाक्षार्कनतभागानां दिक्साम्येऽन्तरमन्यथा॥17॥

कर्कादौ प्रोज्झ्य चक्रार्घात् तुलादौ भार्धसंयुतात्।

परमापक्रमज्याप्ता चापं मेषादिगो रविः॥18॥

स्वदेशाक्षांशेष्टदिनीयमध्याह्नसूर्यनताशयोःभागानां बहुत्वात् बहुवचनम्। एकदिक्त्वेऽन्तरमन्यदि-क्त्वेऽन्यथा योगः कार्यः। शेष उक्तसंस्कारसिद्धोऽङ्कः क्रान्तिः स्यात्। तस्य अपक्रमस्य ज्या त्रिज्यया गुण्या परमक्रान्तिज्यया प्रागुक्त्या भक्ता फलस्य धनुर्भागादिकं मेषादिगो मेषादिराशित्रितयान्तर्ग-तोऽर्कः स्यात्। कर्कादित्रयेर्के चक्रार्द्धात् षड्राशित आगतार्कं त्यक्त्वा शेषं मध्याह्नकाले स्फुटोऽर्कः स्यात्। तुलादित्रितये षड्भयुतादागतार्कात् स्फुटोऽर्को ज्ञेयः। आगतोऽर्कः षड्भयुतः स्फुटोऽर्कः स्यात् इत्यर्थः। मकरादित्रयेऽर्केद्वादशराशिभ्य आगतार्कं त्यक्त्वा शेषमयनांशसंस्कृतः स्फुटोऽर्कः स्यात् इत्यर्थः। करणागतज्ञानार्थं व्यस्तायनांशसंस्कृतः। इत्यर्थसिद्धम्। पूर्वं तत्संस्कृतग्रहात् क्रान्तिः साध्येत्यर्थस्य उक्तेः। अत्रोपपत्तिः। एकदिशि क्रान्त्यक्षयोगान्नतं दक्षिणमतोऽक्षोनं क्रान्तिर्दक्षिणा। भिन्नदिशि क्रान्त्यूनाक्षो नतं दक्षिणमननेन अक्षोहीनः क्रान्तिरुत्तरा॥ अक्षोनक्रान्तिर्नतं तु उत्तरमतो-ऽक्षयुतं क्रान्तिरुत्तरा। अस्या ज्या क्रान्तिज्या। परमक्रान्तिज्यया त्रिज्याभुजः स्यात् तदानया केतीष्टा-सायनार्कभुजज्या तद्धनुः सायनार्कभुजः। भुजस्य चतुर्षु पदेषु तुल्यत्वात् प्रथमपदे मेषादित्रये सूर्य-स्यैव भुजत्वाद्भुज एव सूर्यः कर्कादित्रयेद्वितीयपदे षड्भादूनस्य अर्कस्य भुजत्वात् भुजोनषड्भम-र्कः। एवं तृतीयपदे तुलादित्रये षड्भेन हीनार्कस्य भुजत्वात् षड्युतो भुजोऽर्कः। चतुर्थपदे मकरादि-त्रये सूर्योनभगणस्य भुजत्वात् भुजोनभगणोऽर्क इति सर्वं वैपरीत्यात् सुगमतरम्॥17-18॥

मध्यमरविः।
** **अथागतस्फुटसूर्यस्य करणागतस्फुतुल्यत्वज्ञानम् आगतस्फुटसूर्यान्मध्यमस्य करणागतमध्यमा-र्कतुल्यत्वेन विशेषं वक्तुं श्लोकार्द्धेनाह-

तन्मान्दमसकृद्वामं फलं मध्यो दिवाकरः।
मृगादौ प्रोज्झ्य भगणान्मध्याह्नेऽर्कः स्फुटो भवेत्॥19॥

तस्मात् आगतस्फुटसूर्यान्मान्दं फलं मन्दफलसकृदनेकवारं वामं व्यस्तं संस्कृतं स्फुटसूर्येऽहर्ग-णानीतः स्फुटसूर्यः स्यात्। अयमर्थः। स्फुटसूर्यं मध्यमं प्रकल्प्य पूर्वमन्दोच्चात् प्रागुक्तरीत्या मन्दफ-लं धनमृणमानीय स्फुटसूर्ये ऋणं धनं कार्यं मध्यमसूर्यः। अस्मादपि मन्दफलं स्पष्टसूर्ये व्यस्तं संस्कृ-तं मध्यमोऽस्मादपि मन्दफलं स्पष्टेव्यस्तं मध्यमार्क इति यावत् अविशेषस्तावदसकृत् साध्योऽर्को मध्योऽहर्गणानीतो भवतीति। तथा च मध्यमार्कात् स्फुटार्कसाधन एकवारं मन्दफलसस्कारः स्फु-टार्कान्मध्यार्कसाधने तु अनेकबारं मन्दफलव्यस्तसंस्कारः इति विशेषोऽभिहितः। अत्रोपपत्तिः। म-ध्यमसूर्यादानीतमन्दफलेन संस्कृतो मध्यःस्फुटयोऽर्को भवति। अयं वातेनैव मन्दफलेन व्यस्तं सं-स्कृतो मध्यो भवति। अत्र स्फुटार्कात् मध्यार्कसाधने मध्यमज्ञानासम्भवात् तदानीतमन्दफलज्ञानम-शक्यमतः स्फुटसूर्यंमध्यमं प्रकल्प्यानीतमन्दफलेन अभिमतासन्नेन स्फुटोऽर्को व्यस्तं संस्कृतो म-ध्यमासन्नः। अस्मात् अपि मन्दफलमभिमतासन्नमपि पूर्वस्मात् सूक्ष्ममिति यावत् अविशेषे मध्यार्क-साधितं मन्दफलं भवतीति निरवद्यं सर्वमुक्तम्॥19॥

नतांशः। भुजज्या कोटिज्या—

अथ मध्याह्ने छायाकर्णयोः आनयनं विवक्षुः प्रथमं तात्कालिकनतांशज्ञानं कथयन् तद्भुजकोटि-ज्ये कार्ये इत्याह- 59-60

स्वाक्षार्कापक्रमयुतिर्दिक्साम्येऽन्तरमन्यथा॥
शेषं नतांशाः सूर्यस्य तद्वाहुज्या च कोटिजा॥20॥

दिक्साम्य एकदिक्त्वे स्वदेशाक्षांश मध्याह्न कालिकसूर्यक्रान्त्यंशयोर्योगः। अन्यथा अत उक्तात् एकदिक्त्वात् वैपरीत्ये भिन्नदित्वात् इत्यर्थः। अक्षांशक्रान्त्यंशयोःअन्तरं कार्यं शेषं संस्कारोत्पन्नं सूर्य-स्य मध्याह्ने नतांशास्तेषां नतांशानां भुजरूपाणां ज्या कोटिज्या तदंशाः नवतिशुद्धाःकोटिस्तत उत्पन्ना ज्या चः समुच्चये साध्या।

अत्रोपपत्तिः। याम्योत्तरवृत्ते सूर्यस्य मध्याह्ने खस्वस्तिकादनन्तरं नतांशाः विषुवद्वृत्तपर्यन्तमक्षां-शाः।विषुवद्वृत्तसूर्ययोःअन्तरं क्रान्त्यंशाः। अतो दक्षिणक्रान्तौक्रान्त्यक्षयोगो नतांशा उत्तरक्रान्तौ क्रान्त्यूनाक्षोनक्रान्तिः वा दक्षिणोत्तरनतांशास्तेषां ज्या द्वृग्ज्या भुजस्तत्कोटिज्यामहाशङ्कुः कोटि-स्त्रिज्या कर्ण इति छायाक्षेत्रे तदंशानांभुजत्वात्॥20॥

छाया। कर्णः—

अथच्छायाकर्णयोः आनयनमाह-

शङ्कुमानाङ्गुलाभ्यस्ते भुजत्रिज्ये यथाक्रमम्॥
कोटिज्यया विभज्याते छायाकर्णावहर्दले॥21॥

भुजत्रिज्ये नतांशज्यात्रिज्ये इत्यर्थः। शङ्कोःप्रमाणांगुलानि द्वादश तैः गुणिते कार्ये। उभयत्र कोटि-ज्यया नतांशोननवत्यंशानां ज्ययेत्यर्थः भक्त्वा लब्धे द्वै यथाक्रमं भुजज्या त्रिज्यास्थानीयफलक्रमेण मध्याह्ने छायातत्कर्णौ भवतः। अत्रोपपत्तिः- द्वादशांगुलशङ्कुः कोटिरिष्टच्छायाभुजस्तत्कृत्योर्योगप-दं कर्ण इति छायाकर्णः कर्ण इति छायाक्षेत्रे। महाशङ्कुकोटौदृग्ज्यात्रिज्ये भुजकर्णौ तदा द्वादशां-गुलशङ्कुकोटौ कावित्यनुपातेन मध्याह्नकाले छायातत्कर्णौ भवतः। साधकयोः तात्कालिकत्वा-त्इत्युपपन्नम्॥21॥

अग्रा। कर्णाग्रा।—

अथ भुजसाधनं विवक्षुः प्रथमं अग्रां कर्णाग्रां च आनयति –

क्रान्तिज्या विषुवत्कर्णगुणाऽऽप्ता शङ्कुजीवया।
अर्काग्रा स्वेष्टकर्णाघ्नी मध्यकर्णोद्धृता स्वका॥22॥

सूर्यक्रान्तिज्या अक्षकर्णगुणिता शङ्कुजीवया शङुकुर्द्वादशांगुलः तद्रूपा ज्या तया इत्यर्थः। द्वाद-शभिरिति फलितम्। भक्ता फलं सूर्यस्य अग्रा। उपलक्षणाद्ग्रहस्यापि। इयमग्रास्वाभिमतकालिक-च्छायाकर्णेन गुणिता मध्यकर्णोद्धृता कर्णस्य व्यासस्य मध्यमर्द्धमिति मध्यकर्णो व्यासार्द्धं त्रिज्या तथा इत्यर्थः पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च इति सूत्रेण मध्यपदस्य पूर्वनिपातः।भक्ता फलं स्वका स्वकर्णाग्रा स्यात्।

अत्रोपपत्तिः। क्रान्तिज्योन्मण्डले कोटिरग्रा क्षितिजे कर्णः कुज्याभुज इत्यक्षक्षेत्रे द्वादशकोटौ अक्षकर्णः कर्णस्तदा क्रान्तिज्याकोटौकः कर्ण इत्यनुपातेन अग्रा। त्रिज्यावृत्त इयं कर्णवृत्ते केत्यनु-पातेन कर्णवृत्ताग्रेत्युपपन्नम्॥22॥

उत्तरभुजः। दक्षिणभुजः। मध्याह्नच्छाया।

अथ भुजानयनं श्लोकाभ्यामाह–

विषुवद्भायुताऽर्काग्रा याम्ये स्यादूत्तरो भुजः॥

विषुवत्यां विशोध्योदग्गोले स्याद्बाहुरुत्तरः॥23॥

विपर्ययाद्भुजो याम्यो भवेत् प्राच्यपरान्तरे॥

मध्याह्नको भुजो नित्यं छायामाध्याह्निकी स्मृता॥24॥

अर्काग्रा सूर्यस्य अभीष्टकालिककर्णाग्रा याम्ये दक्षिणगोले विषुवद्भायुताक्षच्छायया युक्तोत्तरदि-क्को भुजः स्यात्। उत्तरगोले विषुवत्यां पलभायां कर्णाग्रा विशोध्य न्यूनीकृत्य शेषमुत्तरदिक्को भुजः स्यात्। ननु कर्णाग्रा पलभायां यदा न शुद्ध्यति तदा कथं भुजः साध्य इत्यत आह। विपर्ययादिति। अक्षभां कर्णाग्रायां विशोध्य शेषं दक्षिणो भुजः स्यात्। ननु भुजस्य याम्यत्वमुत्तरत्वं वा कस्मात् इत्यत आह। प्राच्यपरान्तर इति पूर्वापरसूत्रात् अन्तरालप्रदेशे याम्य उत्तरो वा भुजः स्यात् इत्यर्थः। ननु तथापि द्वितीयावधैरनुक्तत्वात् अन्तरस्य अप्रसिद्धेः पूर्वापरसूत्रात् कस्य अन्तरं भुज इत्याशङ्काया उ-त्तरं मध्याह्नच्छायास्वरूपकथनच्छलेन आह। माध्याह्निक इति। मध्याह्नकालिको भुजः सदा माध्या-ह्निकी मध्याह्नकालिकी छायोक्ता। तथा च छायाग्रप्राच्यपरसूत्रात् याम्यमुत्तरं वा यदन्तरेण स भुज इति व्यक्तीकृतम।

अत्रोपपत्तिः- शङ्कुमूलं प्राच्यपरसूत्रात् याम्यमुत्तरं वा यदन्तरेण स याम्योत्तरो भुजो ग्रहस्य। श-ङ्कुस्तु ग्रहादवलम्बसूत्रं क्षितिजसमसूत्रावधिः तत्र अयं भुजः शंकुतलाग्रयोः संस्कारजः। शंकुतलं तु स्वाहोरात्रवृत्तस्थितोदयास्तसूत्रात् शङ्कुमूलं यदन्तरेण तद्दक्षिणम्। अग्रा तु पूर्वापरसूत्रात् उद-यास्तसूत्रावध्यन्तरमुत्तरदक्षिणगोलक्रमेण उत्तरदक्षिणा। तत्र ग्रहापरदिशि षड्भान्तरेऽस्माद्व्यस्तमि-ति शङ्कुतलमुत्तरमग्रापि व्यस्तदिक्केति तत्संस्कारो भुजो गोले प्रत्यक्षः। स महाशङ्कोः इति महाशङ्कोरयं तदा द्वादशांगुलशङ्कोःक इत्यनुपातेन भुजः पूर्वापरसूत्राच्छायाग्रावधिः। तत्र शङ्कुतलाग्रे द्वादशांगुलशङ्कोःसाधिते तत्संस्कारेण भुजः स एव। तत्रापि अग्रा पूर्वं साधिता शंकुतलं तु द्वादशाङ्गुलशङ्कोःपलभा महाशङ्कुः कोटिःशङ्कुतलं भुजो हृतिः कर्ण इत्यक्षक्षेत्रे द्वादशकोटौपलभाभुजस्तदा महाशङ्कुकोटौ को भुज इत्यनुपातेन शंकुतलमानीय महाशङ्कोरियं द्वादशांगुलशङ्कोःकिमित्यनुपातेन गुणहरयोस्तुल्यत्वात् नान पलभाया एव अवशिष्टत्वात्। सा तु उत्तरा दक्षिणगोलेऽग्राया उत्तरत्वात् एकदिक्त्वेन पलभाग्रयोर्योग उत्तरो भुजः। उत्तरगोलेऽग्राया दक्षिणत्वेन भिन्नदिक्त्वात् पलभाग्रयोरन्तरं भुजस्तत्र पलभायाः शेषमुत्तरो भुजोऽग्रायाः शेषः दक्षिणो भुजः। मध्याह्ने छायाया भुजरूपत्वात् मध्याह्नकालिको भुजो मध्याह्नच्छायेति सर्वं युक्तम्॥23-24॥

छायाकर्णः

अथ याम्योत्तरवृत्तस्थच्छायाकर्णमुक्त्वा पूर्वापरवृत्तस्थच्छायाकर्णं प्रकारद्वयेन आह—

लम्बाक्षजीवेविषुवच्छायाद्वादशसङ्गुणे।
क्रान्तिज्याप्ते तु तौ कर्णौ सममण्डलगे रवौ॥25॥

लम्बज्याक्षज्ये क्रमेणाक्षभा द्वादशाभ्यां गुणिते उभयत्र क्रान्तिज्यया भक्त तुकारात् फले समवृत्त-स्थेऽर्केतौ द्वृग्योग्यछायासम्बद्धौ कर्णौ भवतः उभयत्र छायाकर्णः स्यात्। अत्रोपपत्तिः। स्वमस्त-कोपरि पूर्वापरानुकारेण यद्वृत्तं तत्सममण्डलसंज्ञम्। तत्रस्थस्य छायाकर्णानयनम्। पलभाभुजेऽक्ष-कर्णःकर्णस्तदा क्रान्तिज्याभुजे कः कर्ण इति समशंकुः क्रान्तिज्याभु समशंकुकुज्योनतद्धत्योः क्र-मेण कर्णकोटित्वात्। अस्मात् शङ्कुमानांगुलाभ्यस्ते इत्यादिना त्रिज्या द्वादशगुणिता अनेन भक्ता तत्र। “छेदं लवं च परिवर्त्य हरस्य शेषःकार्योऽत्र भागहरणे गुणनाविधिश्च।“ इत्युक्तेः। पलभयापि गु-ण्या क्रान्तिज्याक्षकर्णाभ्यां भक्ता। तत्र त्रिज्या द्वादशगुणिताक्षकर्णभक्ता लम्बज्यैव सिद्धा अतो ल-म्बज्या पलभागुणिता क्रान्तिज्याभक्ता फलं समवृत्तगतच्छायाकर्णः। अथ अत्रैव पलभाभुजे द्वादश-कोटिरक्षज्या भुजे का कोटिरिति लम्बज्याग्रहणे पलभयोस्तुल्यत्वात् नाशादक्षज्या द्वादशगुणा क्रा-न्तिज्या भक्ता छायाकर्णः सममण्डलगतः। क्रान्तिज्यायाः सदा अयं कर्णः सिद्ध्येन्न हि सर्वदा सम-वृत्तगतो ग्रह इति समवृत्तगतग्रहस्य एव कर्णः साध्यो न अन्यथेति सूचनार्थं सममण्डलगे रवौ इत्यु-क्तम्॥25॥
ननु ग्रहाधिष्ठिताहोरात्रपूर्वापरवृत्तसम्पातात् अवलम्बरूपसमशङ्कोर्गोले प्रत्यक्षसिद्धस्य साधनार्थं समवृत्तस्थत्वाभावेऽपि छायाकर्णः साध्यः। सममण्डलगे रवौ इत्युक्तिस्तु स्वाधिष्ठिताहोरात्रवृत्तपरा न तु अन्यथा न साध्योऽन्यथालक्ष्यत्वेन प्रकारस्य अतिप्रसंगापत्तेः। न हि प्रकारे तद्व्यावर्त्तकं विशेषणं प्रसिद्धं येन न अतिप्रसंगः। परन्तु यदा सममण्डलेऽक्षांशाधिकक्रान्त्या ग्रहाधिष्ठितद्युरात्रवृत्तानाम् सम्बन्धस्तदा गोले समशङ्कोः, अदर्शनात् तत्र कथं तत्साधनमनिवारितमित्यतः सममण्डलगे रवावि-त्यस्य पूर्वोक्त एवार्थ इत्यभिप्रायं सममण्डलकर्णानयनप्रकारान्तरकथनच्छलेन आह-

सौम्याक्षोना यदा क्रान्तिः स्यात् तदा द्युदलश्रवः।
विषुवच्छाययाऽभ्यस्तः कर्णो मध्याग्रयोद्धृतः॥26॥

यदोत्तराक्रान्तिरक्षादल्पास्यात् तदा द्युदलश्रवःसमवृत्तस्थार्कक्रान्तिसाधितमध्याह्नकर्णः। न तु मध्याह्नकालिकः। अक्षभया गुणितोमध्याग्रया गृहीतमध्याह्नकर्णाग्रया भक्तःफलं सममण्डललगत-ग्रदृविम्बस्य छायाकर्णःस्यात्। अत्र सौम्येत्यनेन दक्षिणक्रान्तौ तदसाधनं सममण्डलगत ग्रहविम्बस्य अदर्शनादिति स्फुटमुक्तम्। अन्यथाक्षाल्पक्रान्तौ दक्षिणगोले समशङ्कोः प्रत्यक्षत्वात् तन्निवारणानुप-पत्तेः। अत्रोपपत्तिः। सममण्डलप्रवेशकालिकमध्याह्नच्छायाकर्णात् अवस्तुभूतात् कर्णेन द्वादशांगुल-शङ्कुस्तदा त्रिज्याकर्णेन क इति मध्यशङ्कुस्तात्कालिकः। द्वादशकोटौअक्षभाभुजस्तदा महाश-ङ्कुकोटौ क इति शंकुतलम्। द्वादशयोर्नाशात् पलभात्रिज्याघातो मध्यकर्णभक्त इति। अनेन म-ध्यशङ्कुस्तदाग्राभुजेन क इति समशंकुर्द्वादशाग्रामध्यकर्णघातो मध्यकर्णपलभाभ्यां भक्तोऽग्रा-भुजेसमशंकुतद्धृत्योः कोटिकर्णत्वात्। अस्मात् पूर्वप्रकारेण छायाकर्णानयनेद्वादशयोर्नाशात् म-ध्यकर्णपलभात्रिज्याघातोऽग्रामध्यकर्णाभ्यां भक्त इति तुल्ययोःमध्यकर्णमितगुणहरयोः नाशकरणे-न सिद्धम्। स्वतन्त्रेच्छस्य नियोक्तुमशक्यत्वात्। तत्रापि भाज्यहरौ त्रिज्ययापवर्त्य हरस्थाने मध्यक-र्णगुणिताग्रा त्रिज्याभक्तेति मध्यकर्णाग्रा सिद्धातो मध्याग्रयोद्धृत इत्युक्तम्। भाज्यस्थाने तु मध्यक-र्णपलभाघात इति दक्षिणगोले ग्रहादर्शनात् न साधितः। उत्तरगोलेऽपि क्रान्तिः अक्षाधिका तदा स-ममण्डलप्रवेशासम्भवात् न साधितः, सममण्डलावध्यक्षाशंत्वात्। अल्पक्रान्तौ तत्सम्भवात् साधितः। न हि असिद्धं गोले गणितसाध्यं मानाभावात् इत्युपपन्नं सौम्येत्यादि। भास्कराचार्यैस्तु। मार्त्तण्डः स-ममण्डलं प्रविशति स्वल्पेऽपमे स्वात् पलात् दृश्यो ह्युत्तरगोल एव स विशन् साध्या तदैवास्य भा। अप्राप्तेऽपि समाख्य मण्डलमिने यः शङ्कुरुत्पद्यते नूनं सोऽपि परानुपातविधये नैवं क्वचिद्दु-ष्यति॥ इत्यनेन तथापि साधितः॥26॥

अग्रा—

अथ स्वाभिमतकर्णेन स्वस्वकाले भुजार्थं कर्णवृत्ताग्रा साध्येति सूचनार्थं कर्णाग्रामुक्तप्रकारेण पुन-रपि मध्यकर्ण इति प्रागुक्तस्य स्फुटीकरणार्थं च आह-

स्वक्रान्तिज्या त्रिजीवाघ्नी लम्बज्याप्ताग्रमौर्विका।
स्वेष्टकर्णहता भक्ता त्रिज्ययाग्राड्गुलादिका॥27॥

स्वाभिमतकालिकक्रान्तिज्या त्रिज्यया गुणिता लम्बज्यया भक्ता फलमग्रा ज्यारूपा। लम्बज्या-कोटौ त्रिज्याकर्णः क्रान्तिज्याकोटौ कः कर्ण इति अग्रेत्युपत्तिः। उत्तरार्द्धं पुनरुक्तं व्याख्यातप्रायम्। यदि तु पूर्वोक्तकर्णवृत्ताग्रानयनश्लोके शङ्कुजीवया इत्यस्य शङ्कोःकोटिरूपत्वात् पूर्वसाधितनतां-शभुजकोटिज्यया इत्यर्थो मध्यकर्ण इत्यस्य च तात्कालिकमध्याह्नच्छायायाः कर्णस्तदा न पुनरुक्त-म्। परन्तु अर्काग्रेत्यस्य तात्कालिकमध्याह्नकालिककर्णाग्रार्थः स्वकेत्यस्य च स्वाभीष्टकालिककर्णा-ग्रार्थोबोध्यः एतदुपपत्तिस्तु द्वादशकोटौअक्षकर्णःकर्णस्तदा क्रान्तिज्या कोटौकः कर्ण इति स्व-कालिकाग्रा। त्रिज्यावृत्त इयं तदा तात्कालिकमध्याह्नकालिकच्छायाकर्णेन नतांशकोटिज्याभक्त द्वा-दशत्रिज्याघातात्मकेन केति द्वादशत्रिज्याघातयोः गुणहरत्वेन तुल्ययोः नाशात् अक्षकर्णगुणितक्रा-न्तिज्या तात्कालिकमध्याह्ननतांशकोटिज्यया भक्तेति।तात्कालिक मध्याह्नच्छायाकर्णेन इयं कर्णा-ग्रा तदा स्वाभीष्टकालिकच्छायाकर्णेन केतिस्वकालिका कर्णाग्रेत्युपपन्ना। सूर्याधिष्ठिताहोरात्रवृत्तया-म्योत्तरवृत्तोर्ध्वसम्पातःतात्कालिकमध्याह्नं परानुतापार्थं बोध्यम्॥27॥

कोणशङ्कुः। दृग्ज्या।—

अथ कोणच्छायाकर्णसाधनार्थं कोणशङ्कुदृग्ज्ये श्लोकपञ्चकेन आह –

त्रिज्यावर्गार्द्धतोऽग्रज्यावर्गोनाद्द्वादशाहतात्।

पुनर्द्वादशनिघ्नाच्च लभ्यते यत् फलं बुधैः॥28॥

शङ्कुवर्गार्द्धसंयुक्तविषुवद्वर्गभाजितात्।

तदेव करणीनाम तां पृथक् स्थापयेद्बुधः॥29॥

अर्कघ्नी विषुवच्छायाग्रज्यया गुणिता तथा।

भक्ता फलाख्यं तद्वर्गसंयुक्तकरणीपदम्॥30॥

फलेन हीनसंयुक्तं दक्षिणोत्तरगोलयोः।

याम्ययोर्विदिशोःशङ्कुरेवं याम्योत्तरे रवौ॥31॥

परिभ्रमति शकोस्तु शङ्कुरुत्तरयोस्तु सः।
तत्रिज्यावर्गविश्लेषान्मूलं दृग्ज्याभिधीयते॥32॥

पूर्वप्रकारानीतैः तात्कालिकाग्रज्याया न तु कर्णाग्रायाः पूर्वं कर्णस्यैव असिद्धेः। वर्गेण हीनात् त्रि-ज्यावर्गार्द्धात् द्वादशगुणात् पुनर्द्वितीयवारं द्वादशगुणात्। चः समुच्चये। तेन द्वादशगुणितस्य द्विधा स्थापननिरासात् चतुश्चत्वारिंशदधिकशतगुणितात् इत्यर्थः। पृथक् गुणकोक्तिस्तु गुणनसुखार्थम्। शङ्कोर्द्वादशांगुलात्मकस्य वर्गार्द्धेन द्विसप्तत्या युक्तेन पलभावर्गेण भाजिताद्बुधैः, गणितकर्तृभिः य-त्संख्यामितं फलं प्राप्यते तत्संख्यामितं करणीनाम संज्ञया करणी। तां करणीं बुधो गणकःपृथगेकत्र स्थाने स्थापयेत्। ततो द्वादशगुणिता पलभाग्रज्यया पूर्वगृहीतया गुणिता तथा द्विसप्ततियुतेन पल-भावर्गेण भक्ता लब्धं फलसंज्ञं तस्य फलस्य वर्गेण युतायाः करण्या मूलं दक्षिणोत्तरगोलयोः क्रमेण फलेन ऊनयुतम्। एवमुक्तप्रकारेण सिद्धः शंकुः शङ्कोर्गणिकर्तुः सकाशात् दक्षिणोत्तरे सूर्ये परिभ्र-मति सति तुकारः क्रमार्थे क्रमेण याम्ययोः उत्तरयोः विदिशोः आग्नेयनैऋत्योः ईशानीवायव्योः को-णयोः इत्यर्थः। द्वितीयतुकारः पूर्वापरदिने विभागक्रमार्थकत्वेन विदिशोःइति अत्रान्वेति तेन दिनपू-र्वार्द्धे आग्नेयैशान्योः दक्षिणोत्तरक्रमेण दिनापरार्द्धे नैऋत्यवायव्योः दक्षिणोत्तरक्रमेण इति फलिता-र्थः। स कोणसंज्ञः शङ्कुः स्यात्। कोणशङ्कुत्रिज्ययोः वर्गान्तरान्मूलं द्वृग्ज्योच्यते। अत्रोपपत्तिर्बी-जैकवर्णमध्यमाहरणेन। तत्र-

यावत् तावत् कल्प्यामव्यक्तराशेःमानं तस्मिन् कुर्वतोद्दिष्टमेव। तुल्यौ पक्षौ साधनीयौप्रयत्नात् त्यक्त्वा क्षिप्ता वापि संगुण्य भक्त्वा॥

इत्युक्तेः समौ पक्षौ तदर्थं कोणशङ्कुमानम्। या 1 द्वादशकोटौ पलभाभुजः शङ्कुकोटौ को भुज इति कोणशङ्कुतलम् या.प. 1/12।अग्रया युतं दक्षिणगोले भुजः। या.प.अ. 12/12।उत्तरगोलेऽग्रयान्तरितं भुजस्तत्र समवृत्तात् उत्तरं शङ्कुतलोनाग्राभुजः।

या.प.अ. 12/12। समवृत्तात् दक्षिणेऽग्रोनं शङ्कुतलं भुजः। या.प.अ. 12/12 कोणस्य दक्षिणोत्तर-पूर्वापरसूत्रमध्यत्वात् भुजतुल्यसमचतुरस्त्रेकर्णः खस्वस्तिकात् कोणस्थसूर्यनतांशानां या द्वृग्ज्येति भुजवर्गो द्विगुणो द्वृग्ज्यावर्गो दक्षिणगोले। या.प.अ.1 या.प.अ.24 अव.144/72 उत्तरगोले याव. पव.1या.प.अ.24अव. 144/27 अयं कोणशङ्कुः या 1 वर्ग याव 1 हीनत्रिज्यावर्गरूपद्वृग्ज्यावर्ग-याव 1 त्रिव 1 सम इति पक्षौ समच्छेदीकृत्य छेदगमे पक्षयोः शोधनार्थं न्यासः।
दक्षिणगोले याव. पव 1 या. प. अ. 24 अव. 144

                याव. 72 या त्रिव 72।     
   उत्तरगोले      याव. पव. 1 या. प. अ. 24 अव. 144





                या 72 या. वि. 721।  

अथ एकाव्यक्तं शोधयेदन्यपक्षाद्रूपाण्यन्यस्येतरस्माच्च पक्षात्। इत्युक्तेन अव्यक्तपक्षेऽव्यक्तवर्ग-स्थाने द्विसप्ततिपलभावर्गयोगो यावत् तावद्वर्गगुणो व्यक्तस्थाने पलभाग्राचतुर्विंशतिघातो यावत् ता-वद्गुणो दक्षिणगोले धनमुत्तरगोले ऋणं रूपपक्षे तु चतुश्चत्वारिंशदधिकशतगुणितेन अग्रावर्गेण ही-नो द्विसप्ततिगुणस्त्रिज्यावर्गस्तत्र द्विसप्ततिगुणस्त्रिज्यावर्गश्चतुश्चत्वारिंशदधिकशतगुणितेन त्रिज्याव-र्गार्द्धेन तुल्यत्वात् तुल्य गुणलाघवार्थं तथैव धृतः। तत्रापि एकदा एव गुणनार्थं त्रिज्यावर्गार्द्धमग्रावर्गेण हीनं चतुश्चत्वारिंशदधिकशतगुणमिति सिद्धम्। सार्द्धराशिज्याधिकाग्रायां तु त्रिज्यावर्गार्द्धन हीनोऽ-ग्रावर्गश्चतुश्चत्वारिंशदधिकशतगुणम् ऋणम्। अथ। अव्यक्तवर्गादि यदावशेषं पक्षौ तदेष्टेन निहत्य किञ्चित्। क्षेप्यं तयोर्येन पदप्रदः स्यात् अव्यक्त पक्षोऽस्य पदेन भूयः।

व्यक्तस्य पक्षस्य समक्रियैवम् अव्यक्तमानं खलु लभ्यते तत्॥

इत्युक्तेः पक्षयोर्मूलार्थमव्यक्तवर्गांकेन अपवर्त्तः कार्यः। वर्गांकस्तु द्विसप्ततियुतः पलभावर्गस्तेन अपवर्तितेऽव्यक्तपक्षे प्रथमस्थाने यावत् तावद्वर्गः सिद्धः। द्वितीयस्थाने द्विमितगुणकस्य पृथक्कर-णादर्कघ्नी विषुवच्छायाग्रज्यया गुणिता तथा भक्ता फलाख्यमित्युक्तया फलं द्विगुणं यावत् तावद्गुणं दक्षिणोत्तरगोल क्रमेण धनमृणम्। रूपपक्षेऽपवर्तिते करण्याख्यं सार्द्धराशिज्यातोऽग्रायामूनाधिका-यां धनमृणम्। ततोऽपि मूलार्थं पक्षयोरव्यक्तांकार्द्धरूपफलस्य वर्गोयोजितः। तत्र अव्यक्तपक्षे यो-जनपूर्वकमूलग्रहणे प्रथमस्थाने यावत्। द्वितीयस्थाने फलं दक्षिणोत्तरगोलयोर्धनमृणम्। यथा। या 1 फ। या 1 फ -1 \। उत्तरगोलेऽव्यक्तस्यर्णत्वं वा। या 1 फ 1।उभयथा मध्याव्यक्तनाशसम्भवात्। रूपपक्षे तु मूलग्रहणे तद्वर्गसंयुक्तकरणीपदमिति सार्द्धराशिज्यानधिकाग्रायामधिकायां तु करण्यून-स्य फलवर्गस्य मूलम्। तथा च त्रिज्या वर्गार्द्धतोऽग्रज्यावर्गोनादित्यत्र सार्द्धराशिज्याधिकाग्रायामु-क्तानुपपत्तौ अपि।

यत्र क्वचिच्छुद्धिविधौ यदेह शोध्यं न शुद्धयेद्विपरीतशुद्धया।

विधिस्तदा प्रोक्तवदेव किन्तु योगे वियोगःसुधिया विधेयः॥

इति भास्करोक्तरीत्याग्रज्यावर्गौनादित्यत्र अग्रावर्गेण अग्रावर्गाद्वा हीनादित्यर्थद्वयेन क्रमेण न्यूना-धिकाग्रासम्बन्धेन वा न क्षतिरिति ध्येयम्। अथ पुनः समशोधनार्थं पक्षयोर्न्यासः।

दक्षिणगोले {या0प 1/या 0 फ 1} करण्यूनफलवर्गपदस्य फलतो न्यूनत्वात्तत्

पक्षयोरपिन्यासः {या0प 1 / या 0फ 1} अत्रैकाव्यक्तमित्यादिना।

शेषाव्यक्तेनोद्धरेद्रूपशेषं व्यक्तं मानं जायतेऽव्यक्तराशेः। इत्यनेन च प्रथमस्थाने पदं फलेन हीन-मित्युपपन्नम्। द्वितीयस्थाने पदेन हीनं फलमिति ऋणं कोणशङ्कुर्भगवतायं न उक्तः ऋणस्य स्थि-तिविपरीतत्वात्। न हि ऊर्ध्वगोले स्थिति विपरीतमधोलेड दृश्यमपि दृश्यते येन तत्कथनमावश्यकम् नार्णय अधोगोले दृश्यत्वात् तत्कथनापतिः ऊर्ध्ववगोलस्थस्य छायासाधकत्वेन साधनात् तत्र छाया-सम्भवादे अप्रयोजकत्वात्। उत्तरगोले तु {या0 फ1/या० प 1}वा {या0प 1/या -1 फ 1} प्रथम स्था-ने फलेन युतं पदमुपपन्नम्। द्वितीयस्थाने फलेन ऊनं पदमिति ऋणत्वान्नोक्तः। छायानुपयुक्तत्वात्। करण्यूनफलवर्गपदस्य फलतो न्यूनत्वात् तत्पक्षयोरपि न्यासः (या0 फ 1/या0प1}वा {या 0 फ 1/ या0प1} अत्र प्रथमस्थाने पदेनयुक्तं फलं कोणशङ्कुरूपपन्नः। द्वितीयस्थाने पदेन हीनं फलं को-णशङ्कुरिति तद्द्वयमुपपन्नम्। ननु इदं तत्रोर्ध्वगोले दिनार्द्ध एव कोणशङ्कुद्वयं दृश्यत्वाद्भगवता कथमुपेक्षितमिति चेत् न। तत्र त्रिज्या वर्गार्द्धत इत्यत्र व्यस्तशोधनात् फलेन हीनसंयुक्तं पदमित्यत्र अपि उत्तरगोले एव हीनसंयुक्तमित्यस्यावृत्या फलं पदेन हीन संयुक्तमित्यर्थ सिद्धैर्भगवता तद्द्वय-स्यानुपेक्षितत्वात्। समवृत्तात् दक्षिणस्थत्वे कोणशङ्कुर्दिनपूर्वापरार्द्धक्रमेणाग्नेयां नैर्ऋत्यां वा उत्तर-स्थत्वेनैशान्यां वायव्यां वा भवतीति सर्वमुपपन्नम्। अत्र वीजक्रियोपपादकसूत्राणामुपपत्तिर्विस्तरभी-त्या नोक्ता। सा तु अग्रजकृष्ण दैवज्ञगुरुचरणरचितायां भास्करीयबीजटीकायां सम्यगुक्तावधेयेति। शङ्कुःकोटिस्त्रिज्याकर्णस्तद्वर्गान्तरपदं दृग्ज्या दृग्वृत्तनतांशानां ज्येति तत् त्रिज्यावर्गविशेषान्मूलं दृग्ज्येत्युपपन्नम्॥28-32॥

छाया। छायाकर्णः।

अथैतच्छायाच्छायाकर्णयोः आनयनमाह-

स्वशङ्कुना विभज्याप्ते दृक्त्रिज्ये द्वादशाहते।
छायाकर्णौ तु कोणेषु यथा स्वं देशकालयोः॥33॥

कोणीयदृग्ज्यात्रिज्ये द्वादशगुणे दृग्ज्या सम्बन्धिकोणशङ्कुना भक्त्या लब्धे दृग्ज्या त्रिज्याक्रमेण छायाच्छायाकर्णौ स्तः तुकारादेव कोणेषु चतुर्षु देशकालयोः। यथास्वं स्वमनतिक्रम्येति यथास्वं य-थादेशं यथाकालं छायाच्छायाकर्णौ साध्यौ। अयमर्थः। क्वचिद्देशे चतुर्षु कोणेषु क्वचिच्च कोणद्वये क्व-चिच्च दिनार्द्ध एव कोणद्वय इत्यादि देशकालानुरोधेन यथा योग्यमिति। अत्रोपपत्तिः प्रागुक्ता स्पष्टा च॥33॥

अथ दिक्प्रदेशसम्बन्धेन छायाकर्णौउक्त्वा कालसम्बन्धेन सार्द्धश्लोकाभ्यामाह-

त्रिज्योदक्चरजायुक्ता याम्यायां तद्विवर्जिता।

अन्त्या नतोत्क्रमज्योना स्वाहोरात्रार्द्धसङ्गुणा॥

त्रिज्या भक्ता भवेच्छेदो लम्बज्याघ्नोऽथ भाजितः॥34॥

त्रिभज्यया भवेच्छङ्कुस्तद्वर्गंं परिशोधयेत्॥

त्रिज्यावर्गात् पदं दृग्ज्या छायाकर्णौ तु पूर्ववत्॥35॥

उत्तरगोले चरोत्पन्नया ज्यया चरज्यया इत्यर्थः। पूर्वचरानयने चरज्यायाश्वरजेति संज्ञोक्तेः। युक्ता त्रिज्यान्त्या स्यात्। याम्यगोले तया चरज्ययोना त्रिज्यान्त्या स्यात्। नतोत्क्रमज्ययोना सूर्योदयाद् दिन-गतघट्योर्दिनशेषघट्योर्वा दिनार्द्धान्तर्गता उन्नतसंज्ञास्ताभिरूनं दिनार्द्धं नतकालो घट्यात्मकस्त-स्यासुभ्यो लिप्तास्तत्वयमैरित्यादिविधिना मुनयो रन्ध्रयमला इत्याद्युक्तोत्क्रमज्यापिण्डैर्ज्योत्क्रम-ज्या। पञ्चदशघट्यधिकनते तु पञ्चदशघट्यूननतस्य क्रमज्याखण्डैः क्रमज्या तया युक्ता त्रिज्योत्क्र-मज्या भवति। तया हीने इत्यर्थः। स्वाहोरात्रार्द्धसंगुणा। गृहीतचरज्यासम्बन्ध्यहोरात्रवृत्तव्यासार्द्धं द्युज्या तया गुणिता त्रिज्यया भक्ता फलं छेदसंज्ञः स्यात्। अथ अनन्तरं छेदो लम्बज्यया गुणित-स्त्रिज्यया भाज्यः फलमिष्टकाले शंकुः स्यात्। तस्य शंक्वोर्वर्गं त्रिज्यावर्गाच्छोधयेत्। शेषस्य मूलं दृ-ग्ज्या। आभ्यां छायाकर्णौ तु पूर्ववत् पूर्वोक्तरीत्या भवतः। अत्र छायाकर्णौत्विति कोणच्छायाकर्ण-साधनश्लोकान्तर्भागस्य ग्रहणात्तच्छलोकोक्त रीत्याभीष्टशङ्कुदृग्ज्याभ्यां छायाकर्णौ साध्यावि इत्यु-क्तम्। अत्रोपपत्तिः। याम्योत्तरवृत्तोर्ध्वभागग्रहाधिष्ठितद्युरात्रवृत्तसम्पातात् क्षितिजिद्युरात्रवृत्तसम्पा-तद्वयबद्धोदयास्तसूत्रक्षितिजसम्बद्धयाम्योत्तरवृत्तसूत्रसम्पातपर्यन्तमहोरा त्रवृत्ते सूत्रं त्रिज्यानुरुद्धम-न्त्या। सा तूत्तरगोले चरज्यायुता त्रिज्या दक्षिणगोले चरज्ययोना त्रिज्या।उन्मण्डलयाम्योत्तरसूत्राव-ध्यहोरात्रवृत्तव्यासार्द्धेत्रिज्यात्वात्। उन्मण्डलस्य उत्तरदक्षिणक्रमेण क्षितिजादूर्ध्वाधःस्थत्वेन तद्या-म्योत्तरसूत्रयोर्मध्ये चरज्यात्वाच्च। ग्रहाहोरात्रवृत्ते याम्योत्तराहोरात्रवृत्तसम्पातादुभयत्र नतघट्यन्तरेण स्थाने तत्सूत्रं नतकालस्थसम्पूर्णज्या। तन्मध्यादूर्ध्वसूत्रं शररूपं नतोत्क्रमज्या तया हीनान्त्या ग्रह-स्थानादहोरात्रवृत्त उदयास्तसूत्रपर्यन्तम् ऋजुसूत्रं त्रिज्यानुरुद्धमिष्टान्त्या। तत्तुल्या याम्योत्तरोर्ध्वव्या-ससूत्रान्तर्गता सा द्युज्याप्रमाणसाधितेष्टहृतिः। द्युज्यागुणा त्रिज्या भक्ता फलं छेदः। अस्मात् त्रि-ज्याकर्णे लम्बज्या कोटिस्तदेष्टहृतिकर्णे का कोटिरित्यनुपातेनेष्टशङ्कुः। अस्माद्दृग्ज्याच्छायात-त्कर्णा उक्तरीत्यासिद्धयन्तीत्युक्तमुपपन्नम्॥34-35॥

नतकालानयम्।

अथ श्लोकत्रयेण छायाकर्णाभ्यां नतकालानयनमाह-

अभीष्टच्छाययाभ्यस्ता त्रिज्या तत्कर्णभाजिता।

दृग्ज्या तद्वर्गसंशुद्धात् त्रिज्यावर्गाच्च यत् पदम्॥36॥

शङ्कुः सत्रिभजीवाघ्नः स्वलम्बज्याविभाजितः।

छेदः सत्रिज्ययाभ्यस्तः स्वाहोरात्रार्द्धभाजितः॥37॥

उन्नतज्या तया हीना स्वान्त्या शेषस्य कार्मुकम्।

उत्क्रमज्याभिरेवं स्युः प्राक्पश्चार्द्धनतासवः॥38॥

अभीष्टकालिकच्छायया गुणिता त्रिज्या गृहीतच्छायायाश्छायाकर्णेन भक्ता फलं दृग्ज्या।दृग्ज्याया वर्गेण हीनात् त्रिज्या वर्गात् यत्संख्यामितं मूलम्। चकारो यत्तदोर्नित्यसम्बन्धात् तच्छब्दपरः। अभी-ष्टशङ्कुः, स इष्टशङ्कुस्त्रिज्यया गुणितः स्वदेशीयलम्बज्यया भक्तःफलं छेदः। स छेदस्त्रिज्यया गुणितो द्युज्यया भक्त उन्नतकालस्य ज्या विलक्षणा। यद् धनुरुन्नतकालो न भवति। तयानीतयोन्न-तज्ययाहीना स्वान्त्यास्वद्युज्यासम्बद्धचरज्ययावगतान्त्या। अवशेषस्योत्क्रमज्याभिर्मुनयोरन्ध्रयम-ला इत्याद्युक्तोत्क्रमज्यापिण्डैर्धनुः। अवशेषस्य त्रिज्याधिकत्वे तु यदधिकं तस्य क्रमज्यापिण्डैर्धनु-श्चतुःपञ्चाशद्युक्तमुत्क्रमधनुर्भवति। एवं प्रकारेण सिद्धाङ्का दिनस्य पूर्वार्द्धापरार्द्धयोर्नतकालासवो भवन्ति। अत्रोपपत्तिः पूर्वोक्तव्यत्यासात् सुगमा। तत्र छेदस्त्रिज्यापरिणत इष्टान्त्या तस्या ज्यात्वासं-भवः। अवध्युदयास्तसूत्रस्य अहोरात्रवृत्तव्याससूत्रत्वाभावादित्युन्नतज्याकारेण स्वल्पान्तरत्वेन दर्श-नादुन्नतज्येत्युक्तम् अतएव भास्कराचार्यैः इष्टान्त्यकामुन्नतकालमौर्वीतुल्यां प्रकल्प्येत्याद्युक्तम्। त-द्धनुरसूनामुन्नतकालत्वापत्या तया हीनेत्यादिभागस्य व्यर्थत्वापत्तेरिति दिक्॥36-38॥

इष्टकालिकाग्रया क्रान्तिज्या द्वारा स्पष्टसूर्यसाधनम्-

अथेष्टकालिकाग्रया क्रान्तिज्याद्वारा सूर्यसाधनं सार्धश्लोकेनाह—

इष्टग्राघ्नी तु लम्बज्या स्वकर्णाङ्गुलभाजिता।

क्रान्तिज्या सा त्रिजीयाघ्नी परमापक्रमोद्धृता॥

तच्चापं भादिकं क्षेत्रं पदैस्तत्र भवो रविः॥39॥

इष्टकालिककर्णाग्रया गुणा लम्बज्या। तुकारादग्रज्याया निरासः। तात्कालिकच्छायायाः कर्णांगुल-संख्याभिर्भक्ता फलं क्रान्तिज्या। सा क्रान्तिज्या त्रिज्यया गुणिता परमक्रान्तिज्यया भक्ता फलस्य धनू राश्यादिकं क्षेत्रं स्थानं भुज इति यावत्। पदैश्चतुर्भिश्चिह्नज्ञातैस्तत्र पदे भव उत्पन्नः। यथोक्तरीत्या कर्कादौप्रोज्झ्य चक्रार्द्धेत्याद्युक्त्या सूर्यः स्यात्। अत्रोपपत्तिः। कर्णाग्रे कर्णाग्रा लभ्यते तदा त्रिज्याग्रे केत्यग्रा। त्रिज्याकर्णे लम्बज्या कोटिस्तदाग्राकर्णे का कोटिरित्यनुपातेन त्रिज्ययातुल्ययोर्गुणहरयो र्नाशादिष्टकर्णाग्रागुणितलम्बज्याकर्णभक्ता क्रान्तिज्या। अस्याः सूर्यानयनं प्रागेवोक्तमिति पुनरुक्त-त्वात् सुगमतरम्॥39॥

छायाभ्रमणम्। भाभ्रमणम्।

अथ भाभ्रमणमाह –

इष्टेऽह्नि मध्ये प्राक् पश्चाद्धृते बाहुत्रयान्तरे।
मत्स्यद्वयान्तरयुतेस्त्रिस्पृक्सूत्रेण भाभ्रमः॥40॥

अभिमते दिवसे पूर्वविभागे बाहुत्रयान्तरे पूर्वापरसूत्राद् भुजत्रयान्तरे स्थाने धृते। अयमर्थः। पूर्वाप-रसूत्रस्य मध्यस्थानाद् भुजांगुलान्तरेण चिह्नमेकं द्वितीयं पूर्वविभागे पूर्वापरसूत्रात् कालान्तरीयभुजां-गुलान्तरेण चिह्न तृतीयं पश्चिमविभागे पूर्वापरसूत्रा दितरकालान्तरीयभुजांगुलान्तरेण चिह्नम्। एवमे-कस्मिन् दिवसे कालत्रये स्वभुजान्तरेण पूर्वापरसूत्राच्चिह्नत्रये कृते सतीति। मत्स्यद्वयान्तरयुतेरव्यव-हितचिह्नाभ्यां प्रत्येकं मत्स्यमुत्पाद्येति मत्स्यद्वयस्य प्रत्येकमुखपुच्छ्गतरूपमध्यसूत्रयोः स्वमार्गानुसा-रेण प्रसारितयोर्योगो यस्मिन् स्थाने तस्मादित्यर्थः। त्रिस्पृक्सूत्रेण चिह्नत्रयलग्नतुल्यसूत्रमितेन व्यासार्द्धेन भाभ्रमछायामार्गमण्डलं भवति। प्रथमान्तिमकालान्तर्गत-कालिक-च्छायाग्रंतद्वृत्तपरिधौ भवती-त्यर्थः।

अत्रोपपत्तिः। प्राच्यपरसूत्राद् भुजान्तरे छायाग्रमिति छायाग्रत्रयं ज्ञात्वा तत्स्पृष्टपरिधि वृत्तस्य मध्य-ज्ञानार्थमव्यवहितचिह्नद्वयमत्स्याभ्यामव्यवहितचिह्नमध्यस्य दक्षिणोत्तरसूत्रे भवतः। तत्र वृत्तपरिधिप्र-देशेभ्यः केन्द्रस्य तुल्यान्तरत्वेन अव्यवहितचिह्नमध्यस्थानस्य अवश्यं परिधिसक्तत्वात् तत् सूत्रमपि केन्द्रे लग्नं भवति। एवं प्रत्येकाव्यवहितचिह्नमध्यसूत्रयोः योगस्तद्वृत्तकेन्द्रं सिद्धम्। मध्यरेखाज्ञानार्थं मत्स्यद्वयं तत्केन्द्राद्वृत्तं भागत्रयस्पृग्भवतीति इति किं चित्रम्। यद्यपि छायाग्रस्य सूर्यचलनानुरोधेन चलनात्तस्य तु वृत्ताकारासम्भवात् प्रतिक्षणं द्युरात्रवृत्तभेदात्। अन्यथा क्रान्तिभेदानुपपत्तेरित्येकवृ-त्तपरिधौ छायाग्रभ्रमणं न सम्भवति। अतएव भास्कराचार्यैर्भात्रितयाद् भाभ्रमणं न सदित्युक्तम्। त-थापि साधितभाग्राणा अवश्यमेकवृत्तस्थत्वसम्भवात् तदन्तर्वर्तिनां छायाग्राणां तत्परिधिस्थत्वं स्वल्पा-न्तरत्वादंगीकृत्य भगवता कृपालुना छायाग्रदर्शनं विनापि छायाग्रस्थानज्ञानम् अन्यकालिकच्छायाग्र-स्थानयोर्दर्शनेन अभीष्टसमये मेघादिनाच्छादिते रवौ राश्यादिसूर्यज्ञानोपजीव्याग्राभुजादिज्ञानार्थमु-क्तम्।बहुकालान्तरितभाग्रग्रहणे स्थूलम्।अल्पान्तरिते किञ्चित् सूक्ष्ममिति ध्येयम्॥40॥

लङ्कोदयासुः।

अथकालज्ञानमुक्त्वा तदुपजीवकफलादेशाद्युपयुक्तलग्नज्ञानं विवक्षुः तदुपयुक्तस्योदयज्ञानार्थं मेषादित्रयाणां लङ्कोदयासुसाधनपूर्वकतन्निबन्धनं श्लोकाभ्यामाह –

त्रिभद्युकर्णार्द्धगुणाः स्वाहोरात्रार्द्धभाजिताः।

क्रमादेकद्वित्रिभज्यास्तच्चापानि पृथक् पृथक्॥41॥

स्वाधोधः परिशोध्याथ मेषाल्लाकोदयासवः।

खागाष्टयोडर्धगोडगैकाः शरत्र्यङ्कहिमांशवः॥42 ॥

एकद्वित्रिभज्याः। एकराशिज्याद्विराशिज्यात्रिराशिज्या त्रिराशिद्युज्यया गुण्याः क्रमात् स्वक्रान्ति-ज्या सम्बन्धिद्युज्याभिर्भाज्याः। फलानां धनूषि भिन्नभिन्नस्थाने स्थाप्यानि। स्थानद्वये स्थाप्यानीत्य-र्थः। अनन्तरं स्वाधोऽधः। स्वादधोऽध एकराशिज्यासम्बन्धिफलंयथास्थितं ततः प्रथमफलं द्वितीय-फलाद् द्वितीयफलं तृतीयफलान् न्यूनीकृत्य पृथगनुक्तौ प्रथमफलं द्वितीयफलान् न्यूनं कृतं सद्द्व-योः फलयोर्मार्जनात् तृतीये शोध्यासम्भवः। प्रथमस्य ज्ञानासम्भवश्चेति प्रथमद्वितीययोः पृथक्स्थापन-मावश्यकम्। अतएव न त्रिधा पृथगित्युक्तम्। मेषात्। मेषमारभ्य राशित्रयाणां लङ्कोदयासवो भव-न्ति। प्रथमफलं मेषस्य उदयासवः। द्वितीयोनतृतीयफलं मिथुनस्योदयासव इत्यर्थः। नियतत्वात् त-न्मानमाह। खागाष्टय इति। मेषमानं सप्ततियुतं षोडशशतं वृषमानं पञ्चोनमष्टादशशतं मिथुनमानं पञ्चत्रिंशदधिकमेकोनविंशतिशतमित्यर्थः।

अत्रोपपत्तिः सिद्धान्तशिरोमणौ- मेषादिजीवाःश्रुतयोऽपवृत्ते तद्भूमिजे क्रान्तिगुणा भुजाः स्युः। तत्कोटयः स्वद्युनिशाख्यवृत्ते व्यासार्द्धवृत्ते परिणामितानाम्॥ चापेषु तासामसवस्ततो ये तेऽधो विशु-द्धा उदया निरक्षे॥

इति। तत्स्वरूपोक्त्या त्रिज्याकर्णे त्रिराशिद्युज्या कोटिस्तदैकद्वित्रिराशिज्याकर्णेषु का इत्यनुपा-तेन कोट्यो द्युज्याप्रमाणेन अहोरात्रवृत्ते तदसुकरणार्थं त्रिज्याप्रमाणेन साध्या इति द्युज्याप्रमाणेनै-ताः तदा त्रिज्याप्रमाणेन का इत्यनुपातेन त्रिज्ययोर्गुणहरर्योस्तुल्यत्वेन नाशादेकादिराशिज्यास्त्रिरा-शिद्युज्यया गुण्याः स्वद्युज्यया भक्ता इत्युपपन्नाः। आसां धनुष्वेकादिराशीनामुदयासवस्तत्र प्रत्ये-कराश्युदयासुज्ञानार्थं स्वाधोऽधः शोधनमित्युपपन्नं त्रिभद्युकर्णार्द्धगुणा इत्यादि। अत्र लङ्कापदं निर-क्षदेशपरं व्याख्येयम्। सर्वनिरक्षरदेशे क्षेत्रसंस्थानस्योक्तस्य तुल्यत्वेनोक्तरीत्यान्यनिरक्षदेशे तत्सि-द्धौ बाधकाभावात्। अन्यथा स्वनिरक्षदेशे तत्साधनार्थं ग्रहवत् देशान्तरसंस्कारकरणापत्तेः। निजोद-यकरणार्थं स्वनिरक्षदेशीयानां चरसंस्कारस्य समनन्तरमेव उक्तत्वादिति दिक्। खागाष्टय इत्यादा-वुक्तप्रकारगणितकर्मैवोपपत्तिः॥41-42॥

स्वदेशोदयासुः।

अथैभ्यः स्वदेशोदयासून् श्लोकार्धेनाह-

स्वदेशचरखण्डोना भवन्तीष्टोदयासवः॥ 43॥

एते सिद्धाः। स्वकीयैः देशसम्बन्धेन यानि उत्पन्नानि चरखण्डानि चरानयनप्रकारेण एकादिराशी-नां चराण्यानीयोक्तरीत्या स्वाधोऽधः शोधितानिमेषादिमिथुनान्तानां राशीनां चरखण्डानि भवन्ति तै-रुणाःसन्त इष्टोदयासवः चरखण्डसम्बन्धिदेशेमेषादित्रयाणाम् उदयासवोभवन्तीत्यर्थः। अत्रोपप-त्तिः। मेषादेर्मिथुनान्तो नाडीभिस्तिथिमिताभिरुद्वृत्ते। लगतिकुजे तदधःस्थेप्रथमंताभिश्चरोनाभिः॥ इति भास्करोक्त्या प्रत्येकोदयासुज्ञानं प्रत्येकचणेति। प्रत्येकचरं तु चरखण्डमित्युपपन्नम्॥43॥

अथ अवशिष्टराशीनामुदयानाह-

व्यस्ता व्यस्तैर्युताः स्वैः स्वैः कर्कटाद्यास्ततस्त्रयः।

उत्क्रमेण षडेवैते भवन्तीष्टास्तुलादयः ॥44 ॥

ततोऽनन्तरम् एते मेषादिलङ्कोदयासवो व्यस्ता मिथुनवृषमेषक्रमेण स्थापिताः स्वैः स्वैः मेषाचिर-खण्डकैस्त्रिभिर्व्यस्तैरुदयक्रमेण स्थापितै र्युताः कर्कादयस्त्रयः कन्यान्ताः क्रमेण ज्ञातोदयासुमाना भवन्ति। एवं षण्णामुक्त्वावशिष्टानामुदयासुज्ञानमाह। उत्क्रमेणेति। एते उक्ता मेषादयः कन्यान्ताः षट्संख्यका उत्क्रमेणकन्यासिंहकर्काद्युत्क्रमेण। एवकारो मेषवृषादिक्रमनिरासार्थकः। तुलादयः षड्राशय इष्टा ज्ञातस्वदेशोदयासुमाना भवन्ति। तथा न कन्योदयस्तुलायाःसिंहोदयो वृश्चिकस्य। क-र्कोदयो धनुषः। मिथुनोदयो मकरस्य। वृषोदयः कुम्भस्य। मेषोदयो मीनस्येति सिद्धम्। अत्रोपपत्तिः कन्यान्ताद्धनुषोऽन्तस्तिथिमितनाडीभिरुद्वलये। लगति कुजे चोर्ध्वस्थेपश्चात् ताभिश्चराढ्याभिः॥ तद्रहितैः खहुताशैः कन्यान्तो वा झषान्तो वा। चरखण्डैरुनाढ्‌यास्तेन निरक्षोदयाः स्वदेशे स्युः॥ इति भास्करोक्त्या सुगमा॥44॥

गतभोग्यासुः।

अथ अभीष्टकाले ऋणधनलग्नसाधनार्थं गतभोग्यासूनाह –

गतभोग्यासवः कार्या भास्करादिष्टकालिकात्।
स्वोदयासुता भुक्तभोग्या भक्ताः खवह्निभिः॥45॥

इष्टकाले चालनेन सञ्जातात् सूर्योदयाद्गतभोग्यासवः। गतासवो भोग्यासवश्च साध्याः। कथं साध्या इत्यत आह। स्वोदयासुहता इति। भुक्तभोग्याः सूर्याक्रान्तराशेर्ये ये भुक्तभागाः। सूर्यस्य भागाद्यवय-वात्मका एते त्रिंशतः शुद्धा भोग्यभागाः। सूर्याक्रान्तराशेः स्वदेशोदयासुभिर्गुणितास्त्रिंशता भक्ता ग-तासवो भोग्यासवः क्रमेण भवन्ति। अत्रोपपत्तिः। यस्मिन् काले लग्नं साध्यं तस्मिन् काले सूर्यः सा-ध्योऽन्यथा तात्कालिक लग्नसिद्धिर्नस्यात्। अथैतदर्थं सूर्याक्रान्तराशेर्भुक्तासवो भोग्यासवश्च साध्याः। सूर्योदयात् तत्कालपर्यन्तं पूर्वाग्रिमकालयोस्तद्राशेर्लग्नत्वात्। अनन्तरं च राश्युदयासुगणनया लग्नज्ञा-नस्य सुशकत्वाच्च। अतस्त्रिंशद्भागैरुदयासवस्तदा भुक्तभोग्यभागैः क इति भुक्तभोग्यकालासवः। अत्र उदयकालासूनां सम्पातावधिराशिग्रहणेनोत्पन्नत्वात् सूर्योऽयनांशसंस्कृतो ग्राह्यः। अन्यथा सूर्या-क्रान्तराशेरुक्तोदयसम्बन्धाभावादसंगततापत्तेः। अत एव युक्तायनांशादपमः प्रसाध्यःकालौ च खेटात् खलु भुक्तभोग्यौ। इति भास्कराचार्योक्तं संगच्छते। ननूक्तरीत्यौदयिकार्कादेव भुक्तभोग्यास-वः साध्याः सूर्योदयात् तत्कालावधि तद्राशेर्लग्नत्वात्। न हीष्टकाले तद्राशिर्लग्नं येन तद्गतभोग्यासवः साध्याः। नापि तात्कालिकार्कात् सूर्योदयावधिकास्ते तात्कालिकार्कस्य सूर्योदयकालिकत्वाभावात्। तत् कथं भगवता सर्वज्ञेन भास्करादिष्टकालिकादित्युक्तमिति चेत्। उच्यते। उदयानां नाक्षत्रत्वान्ना-क्षत्रघट्यो ग्राह्यास्तास्तु असिद्धाः। सर्वत्र साधितघटीनां सावनत्वात्। तासां नाक्षत्रीकरणमावश्यकम-न्यथा तद्भगणनानुपपत्तेः। तदर्थं ग्रहोदयप्राणहता इत्याद्युक्त्या षष्टिसावनघटीषु गतिकलोत्पन्नास-वोऽधिकाः नाक्षत्रत्वार्थं तदेष्टसावनघटीषु कियदधिकमित्यनुपातेनागतफलयुक्ताः सावनाः कार्याः।तत्रागतफलस्यक्षेत्रावयवोदयासुभिः अष्टादशशतकलास्तदागतासुभिः का इत्यनुपातसिद्धाष्टादशश-तोदयास्वो। र्गुणहरयोस्तुल्यत्वेन नाशादवशिष्टचालानस्वरूपः सूर्ये योजितः। सावनास्तु अविकृता एव स्थिताः। तथा चेष्टकालिकोऽर्को यत्काले लग्नं तत्कालात् पूर्वगृहीतसावनघट्यो नाक्षत्रा एव भव-न्तीति भगवता सम्यगुक्तम्। भास्करादिष्टकालिकादिति। अनेनैवाभिप्रायेणभास्कराचार्यैरपि उक्त-म्। लग्नार्थमिष्टघटिका यदि सावनास्ताः तात्कालिकार्ककरणेन भवेयुरार्क्ष्यः। आर्क्ष्योदया हि सदृशी-भ्य इहापनेयाः तात्कालिकत्वमथ न क्रियते यदाः॥इति॥45॥

सायनस्पष्टलग्नम् -

अथ अभीष्टघटिकाभ्य ऋणधनलग्नसाधनं श्लोकाभ्यामाह-

अभीष्टघटिकासुभ्यो भोग्यासून् प्रविशोधयेत्।

तद्वत् तदेष्यलग्नासूनेवं यातान् तथोत्क्रमात्॥46॥

शेषं चेत् त्रिंशताभ्यस्तमशुद्धेन विभाजितम्।

भागहीनं च युक्तं च तल्लग्नं क्षितिजे तदा॥47॥

अभीष्टकालेयाःसूर्योदयघटिकास्तासामसुभ्यो भोग्यासून् शोधयेत्। तदनन्तरं तदेष्यलग्नासून्। सू-र्याक्रान्तराशेरग्रिमराशय एष्यलग्नानि। तेषामुदयासूनपि तद्वत् क्रमेण शोधयेत्। एवमुक्तरीत्या शेषघटिकासुभ्यो यातान् भुक्तासून् भुक्तराश्युदयासूंश्च व्यस्तक्रमात्तथा शोधयेत्। यो राश्युदयो न शुद्ध्यति सोऽशुद्धस्तेन त्रिंशता गुणितं शेषं भक्तम्। चेदित्यनेन शेषाभावे क्रिया न कार्या शून्यफल-सिद्धेरिति सूचितम्। फलेन भागादिना भुक्तसम्बद्धेन हीनं चकारादशुद्धराशिसंख्यामानं भोग्यस-म्बद्धभागादिफलेन युक्तं चकारादन्तिमशुद्धराशिसंख्यामानं तदागतराश्यादिमानसम्बन्धिसम्पाता-वधिकक्रान्तिवृतैकप्रदेशरूपं तदाभीष्टकाले क्षितिजे क्षितिजवृत्तपूर्वविभागे लग्नं समसूत्रसम्बन्धेन ल-ग्नस्वरूपोक्त्याभीष्टकाले तल्लग्नं स्यादित्यर्थः। फलादेशार्थं ग्रहाणां रेवतीयोगतारासन्नावधितो ग्रहात् तत्पङ्क्तिस्थलग्नस्यापि फलादेशार्थं तत् एव समुचितं ग्रहणमित्यागतलग्नं सम्पातौ अधिकमयानांशै-र्व्यस्तं संस्कुर्यादिति स्वतः सिद्धमिति न उक्तम्। न च पूर्वमेव सूर्यस्य अयनाशं संस्कारानुक्त्या लग्न-मपि यथास्थितमिति अयानांशव्यस्तसंस्कारोऽनुक्तः संगत इति वाच्यम्। स्थूलत्वात् लग्नार्थं सूर्येऽय-नाशसंस्कारस्तस्य तत्संस्कृताद्ग्रहात् क्रान्तिच्छायाचरदलादिकमित्यत्रादिपदसंगृहीतत्वाच्च। अथ भ-गवतायनांशव्यस्तसंस्कारःकण्ठेन नोक्त इति लग्नं सम्पातावधिकमेव फलादेशार्थं गृहीतम्। सूर्यस्य तु लग्नार्थमयनांशसंस्कारस्यावश्यकत्वात्। उदयानां सम्पातावधिकत्वादिति चेन्मैवम्।

भागहीनं च युक्तं च तल्लग्नं क्षितिजे तदा। इत्यर्द्धस्य आवृत्याग्रिमश्लोकादिस्थप्राक्प-श्चादित्यस्या-वृत्या च प्राक्पश्चाच्चक्रचलने भागैरयनांशैःक्रमेण हीनं युक्तं लग्नं स्यादित्यर्थेन भगवतः कण्ठोक्तेः सिद्धत्वाच्च। अत्रोपपत्तिः। अभीष्टघटिकासुभ्यो भोग्यगतासुशोधने सूर्याक्रान्तराशिरर्लग्नं नेति ज्ञातम्। ततोऽग्रिमपश्चाद्राश्युदयशोधने शुद्धो राशिःलग्नं नेति ज्ञातम्। ततो यो राश्युदयो नशुद्ध्यति स एव राशिभीष्टकाले क्षितिजे लग्न इति। तस्य को भागो लग्न इति ज्ञानार्थमशुद्धराश्युदयासुभित्रिंशद्भागा-स्तदा शेषासुभिः क इत्यनुपातेन भुक्तभोग्यक्रमेण लग्नराशेर्भोग्यभुक्तभागादिकं सिद्धम्। तत्र भोग्य भागास्त्रिंशतः शुद्धा गता भागा लग्नराशेर्भवन्तीत्यशुद्धराशिसंख्यातो भोग्यभागा शुद्धा लग्नं भवति। भुक्तभागाश्चभुक्तराशिसंख्यायां युक्ता लग्नं भवति। अयनांशव्यस्तसंस्कारो ग्रहपङ्क्तिस्थत्वार्थम्। अन्यथा फलादेशार्थं ग्रहा अयनांशसंस्कृता ग्राह्या इति सर्वं निरवद्यम्॥46-47॥

मध्यलग्नम्।दशमलग्नम्। कालसाधनम्।

अथ प्रसंगान्मध्यलग्नानयनं लग्नानयनविशेषसूचनार्थमाह –

प्राक्पश्चान्नतनाडीभिस्तस्माल्लाकोदयासुभिः।
भानौ क्षयधने कृत्वा मध्यलग्नं तदा भवेत्॥48॥


दिनार्द्धान्तर्गतदिनगतशेषहीनं दिनार्ध्दं क्रमेण प्राक् पश्चिमं नतं रात्र्यर्द्धान्तर्गतरात्रिशेषगतयुतं दिनार्द्धं प्राक् पश्चिमं नतं जातकपद्धतौ प्रसिद्धम्। नतघटिकाभिस्तस्मात् तात्कालिकसूर्यात्। निरक्षदे-शराश्युदयासुभिः पूर्वोक्तप्रकारेण सिद्धराशिभागादिकं प्राक्पश्चिमनतक्रमेण सूर्ये क्षयधने हीनयुते कृत्वा तदाभीष्टकाले मध्यलग्नं दशमलग्नं स्यात्। अयमभिप्रायः। प्राङ्नते नतघट्यसुभ्यः सूर्याक्रान्त-राशेर्निरक्षोदयासुभिर्भुक्तासून्विशोध्य तत्पूर्वराशीनां निरक्षोदयासूंश्चविशोध्य शेषं त्रिशंद्गुणमशुद्ध-निरक्षोदयभक्तं फलेन भागादिना शोधितगृहसंख्यातुल्यराशिभिश्च सूर्यो हीनो मध्यलग्नम्। एवं पश्चि-मनते नतघट्यसुभ्यः सूर्याक्रान्तराशेर्निरक्षोदयासुभिर्भोग्यासून् विशोध्य तदग्रिमराशीनां निरक्षोदया-सूंश्च विशोध्य शेषं त्रिंशद्गुणमशुद्धनिरक्षोदयभक्तं फलेन भागादिना शोधितग्रहसंख्यातुल्यराशिभि-श्चसूर्यो युतो मध्यलग्नम्। एवं भुक्तभोग्यासुभ्योऽल्पकालेपीष्टासवस्त्रिंशद्गुणिताः सूर्याक्रान्तराश्युद-यभक्ताः फलेन भागादिना हीनयुतोऽर्को मध्यलग्नं स्यात्। अनेन प्रकारेण लग्नमपि साध्यम्। अत्रोप-पत्तिः। उर्ध्वयाम्योत्तरवृत्ते यः क्रान्तिवृत्तप्रदेशो लग्नस्तन्मध्यलग्नम्। तत्साधनार्थमभीष्टकाले याम्योत्त-रवृत्ताद्युरात्रवृत्ते सूर्यो यावता घटीविभागादिना नतः स नतकालः। प्राक्पश्चिमकपालयोः प्राकपश्चिम-संज्ञः। अर्द्धरात्रिमारभ्य दिनार्द्धपर्यन्तं प्राक्कपालम्। दिनार्द्धमारभ्यार्द्धरात्रपर्यन्तं पश्चिमकपालम्। तत्र प्राङ्नते सूर्यस्य याम्योत्तरवृत्तात् पूर्वस्थत्वेन सूर्यात् पूर्वराशिभाग एव याम्योत्तरवृत्तलग्न इति सू-र्यादूनमृणलग्नरीत्या नतघटीभिः साध्यम्। पश्चिमनते तु सूर्यस्य याम्योत्तरवृत्तात्पश्चिमस्थत्वेन सूर्याग्रिम-राशेर्मध्यलग्नत्वात् सूर्यादधिकक्रमलग्नरीत्या नतघटीभिः साध्यम्। तत्रोद्वृत्ता याम्योत्तरवृत्तस्य पञ्चद-शघट्यन्तरेण नियतं सत्वान्निरक्षोदयासुभिः साध्यमिति। शेषक्रियोपपत्तिस्त्व तिस्पष्टतरेति संक्षे-
पः॥48॥


अथ कालसाधनमाह –

भोग्यासूनूनकस्याथ भुक्तासूनधिकस्य च।
सम्पिण्ड्यान्तरलग्नासूनेवं स्यात् कालसाधनम्॥49॥

अथ अनन्तरं लग्नार्कयोर्मध्ये योऽत्यन्तमूनस्तस्य भोग्यासूनधिकस्य भुक्तासून् सम्पिण्डय एकीकृ-त्यान्तरलग्नासून् सूर्यलग्नमध्ये ये लग्नराशयस्तेषामुदयासून्। चः समुच्चये। एकीकृत्यैवमुक्तप्रकारेण कालस्य सिद्धिर्भवति। अत्रोपपत्तिः। ऊनादधिकमग्र एव भवतीर्यूनतुल्यलग्नस्य भोग्यकालोऽन्तरस्थ-राश्युदययुतोऽधिकतुल्यलग्नस्य भुक्तकालेन युतस्तल्लग्नयोरन्तरवर्ती कालः सिद्धः स्यात्॥49॥

अथैवं लग्नार्काभ्यां साधितकालस्य दिनरात्र्यन्तर्गतत्वज्ञानमाह –

सूर्यादूने निषाशेषे लग्नेऽर्कादधिके दिवा।
भचक्रर्धयुताद्भानोरधिकेऽस्तमयात् परम्॥50॥

सूर्यात्त्रिराश्यन्तर्गतत्वेन न्यूनेलग्नेसति रात्रिशेषे भवति। सूर्यात् षड्भान्तवर्गतत्त्वेनाधिकेलग्ने पूर्वप्रकारसिद्धः कालो दिने स्यात्। षड्भयुतात्सूर्यादधिके लग्ने लग्नषड्भसूर्याभ्यामानीतः पूर्वरीत्या कालोऽस्तमयात् सूर्यास्तकालात् परमनन्तरं रात्रावित्यर्थः। एतेन रात्रीष्टकाले गते सषड्भसूर्याल्लग्नं साध्यामिति सूचितम्। अत्रोपपत्तिः। सूर्योदये सूर्यतुल्यलग्नत्वात् सूर्यादूनाधिके लग्ने क्रमेण रात्रिशेषे दिने च कालः स्यात्। एवमस्तकाले सषड्भसूर्यस्य लग्नत्वात् तदधिके लग्ने रात्रावेव कालः सिद्ध्ये-दित्यादि सुगमतरम्॥50॥

अथाग्रिमग्रन्थस्यअसंगतित्वनिरासार्थमधिकारसमाप्तिंफक्किकयाह। दिग्देशकालानां प्रतिपाद-नमिदं परिपूर्तिमाप्तमित्यर्थः। दिशां साधनं शिलातल इत्यादिनियतं तत् सम्बन्धेन समकोणयाम्योत्त-रशंकूनां साधनान्यपि दिगन्तर्गतान्यनियतानि। पलभालम्बाक्षादिसाधनं देशनिरूपणं नियतम्। अ-ग्राचरादिसाधनमनियतम्। कालसाधनं तद्वशाच्छायादिसाधनं च कालनिरूपणमिति विवेकः।रंगना-थेन रचिते सूर्यसिद्धान्तटिप्पणे। त्रिप्रश्नस्याकारोऽयं पूर्णो गूढप्रकाशके॥

इति श्रीसकलगणकसार्वभौमबल्लालदैवज्ञात्मजरङ्गनाथगणकविरचिते गूढार्थप्रकाशे त्रिप्रश्नाधि-कारः पूर्णः ॥

चन्द्रग्रहणाधिकारः- 4

सूर्यविम्बयोजनम्। चन्द्रविम्बयोजनम्।
** **अथ चन्द्रग्रहणाधिकारो व्याख्यायते। तत्र प्रथमं सूर्यचन्द्रयोर्विम्बयोजनानि तत्स्फुटीकरणं च सार्द्धश्लोकेन आह –

सार्धानि षट् सहस्राणि योजनानि विवस्वतः।
विष्कम्भो मण्डलस्येन्दोः सहाशीत्या चतुश्शतम्॥
स्फुटस्वभुक्त्या गुणितौ मध्यभुक्त्योद्धृतौ स्फुटौ॥1॥

षट्सहस्राणि सार्द्धानिसहस्रयार्द्धंपञ्चशतंतत्सहवर्त्तमानानिपञ्चषष्टिशतंयोजनानिसूर्यस्य मण्डलस्य गोलरूपबिम्बस्य विष्कम्भो व्यासः। चन्द्रस्य गोलाकारबिम्बस्याशीत्या सहाशीत्यधिकं च-तुःशतं योजनानि। तौ व्यासौ स्पष्टयानिजगत्या गुणितौ निजमध्यगत्या भक्तौ स्फुटौ स्तः।अत्र गणिते व्यासस्यैवबिम्बव्यवहारोऽभियुक्तानाम्। अत्रोपपत्तिः। त्रिज्यामितकर्णेमध्यमकक्षायां भ्रमणात् तत्र यद्बिम्बं व्यासात्मकं तन्मध्यमम्। तत्रस्वल्पान्तरेण मध्यगत्यङ्गीकारान्मध्यगत्येदं तदा स्फुटगत्या किमिति स्पष्टं बिम्बं नीचेपृथूच्चेऽणुतरम्। गत्योः परमाधिकन्यूनत्वात्॥1॥

सूर्यस्य कलात्मकं विम्बमानम्। चन्द्रस्य कलात्मकं विम्बमानम्।

अथ सूर्यविम्बं चन्द्रकक्षायां साधयंस्तयोः कलात्मकबिम्बानयनं सार्द्धश्लोकेनआह—

रवेःस्वभगणाभ्यस्तःशशाङ्कभगणोद्धृतः॥2॥

शशाङ्कक्षागुणितो भाजितो वाऽर्ककक्षया।

विष्कम्भश्चन्द्रकक्षायां तिथ्याप्ता मानलिप्तिकाः॥3॥

सूर्यस्य विष्कम्भः प्रागुक्तंस्पष्टो व्यासः स्वभगणैः सूर्यभगणैरूक्तैर्गुणितः चन्द्रभगणैः भक्तो वाथवा चन्द्रकक्षया वक्ष्यमाणया गुणितः सूर्यकक्षया वक्ष्यमाणया भक्तचन्द्रकक्षायां चन्द्राधिष्ठिताकाशगोले सूर्यव्यासः स्पष्टो भवति। ततो व्यासयोजनसंख्या पञ्चदशभक्ता सूर्यचन्द्रयोर्विम्बव्यासप्रमाणकला भवन्ति। अत्रोपपत्तिः। चक्रकलाभिश्चन्द्रकक्षायोजनानि तेदेककलया कानीति चन्द्रकक्षास्थितैकक-लायां पञ्चदशयोजनानि। अतश्चन्द्रस्य स्वकक्षायां स्थित्वात् स्पष्टचन्द्रविम्बव्यासयोजनानि पञ्चदशभ-क्तानि चन्द्रविम्बव्यासकला भवन्ति। एव सूर्यकक्षायामेका कला सार्द्धशतद्वययोजनैरिति स्पष्टसूर्य-व्यासस्तैर्भक्तो व्यासकला भवन्ति। तत्र सूर्यस्य लोकैर्दूरान्तराच्चन्द्राकाश इव दर्शनात् प्रत्यक्षतो वि-विक्तान्तरण दर्शनाभावाच्च चन्द्रकक्षाप्रमाणेन सूर्यविम्बव्यासः सूर्यकक्षया अयं तदा चन्द्रकक्षया क इत्यनुपातेन गणितार्थमवस्तुभूतः साधितः। न तु वस्तुतश्चन्द्रकक्षायां सूर्यमण्डलावस्थानं सूर्यग्रहणे च-न्द्रस्य छादकत्वानुक्तिप्रसङ्गात्। अथ सूर्यस्पष्टव्यासश्चन्द्रभगणभक्तखकक्षारूपचन्द्रकक्षया गुणित-सूर्यभगणभक्तखकक्षारूपसूर्यकक्षा भक्त इति खकक्षारूपगुणहरयोर्नाशात् सूर्यभगणगुणितश्चन्द्र-भगणभक्त इति पूर्वं कक्षयोरनुक्तेरयं प्रकारो मुख्यत्वात् प्रथममुक्तः ततश्चन्द्रकक्षासिद्धसूर्यविम्ब-व्यासः पञ्चदशभक्तः सूर्यविम्बव्यासकलाः सिद्धाइत्युपपन्नमुक्तम्॥2-3॥

भूच्छाया—

अथ उपयुक्तां भूच्छायां श्लोकाभ्यां साधयति-

स्फुटेन्दुभुक्तिर्भूव्यासगुणिता मध्ययोद्धृता।

लब्धं सूची महीव्यासस्फुटार्कश्रवणान्तरम्॥4॥

मध्येन्दुव्यासगुणितं मध्यार्कव्यासभाजितम्।

विशोध्य लब्धं सूच्या तु तमो लिप्तास्तु पूर्ववत्॥5॥

स्पष्टचन्द्रस्य गतिः भूव्यासेन गुणिता मध्यया चन्द्रगत्या भक्ता फलं सूचीसंज्ञं स्यात्।भूव्यासस्पष्ट-सूर्यविम्बव्यासयोरन्तरं मध्येन चन्द्रविम्बव्यासेनाशीत्यधिकचतुशतयोजनेन गुणितं मध्येन सूर्यविम्ब-व्यासेन पञ्चषष्टिशतयोजनेन भक्तं फलं सूच्यां प्राकसिद्धायां न्यूनीकृत्य तुकाराच्छेषं तमः। भूच्छा-यारूपं योजनात्मकं भाभावस्तम इति छायायास्तमस्त्वात्। अस्य कलात्मकं मानमाह। लिप्ता इति। त्वन्तस्य पूर्वसम्बन्धानुक्तेरुत्तरत्र सम्बन्धस्तुकारेण सुबोधः। अतएव पूर्ववाक्यसमाप्तिस्थं तमः पद-मत्र नान्वेति। पूर्ववत् तिथ्याप्ता मानलिप्तिका इति पूर्वोक्तेन भूच्छायायाः कलाः कार्याः। अत्रोपप-त्तिः। भूव्यासहीनं रविविम्बमिन्दुकर्णाहतं भास्करकर्णभक्तम्। भूविस्तृतिर्लब्धफलेन हीना भवेत् कुभाविस्तृतिरिन्दुमार्गे॥ इति सिद्धान्तशिरोमणौ सूक्ष्मप्रकार उक्तः। अस्योपपत्तिस्तट्टीकायां व्य-क्ता। तत्रभूव्यासोनस्यरविविम्बस्य 4900 स्वल्पान्तराङ्गीकारेण स्पष्टगतिभक्तमध्यगतिगुणित च-न्द्रमध्ययोजनकर्णरूपस्पष्टेन्दुयोजनकर्णो गुणः। तादृशसूर्यकर्णो हरः। तत्रैतत् खण्डस्य कलाकर-णार्थं त्रिज्यागुणश्चन्द्रकर्णः तादृशो हर इति चन्द्रस्पष्टमध्यगत्योस्तुल्यगुणहरत्वेन नाशात् त्रिज्यामध्ये-न्दुयोजनकर्णयोस्त्रिज्यापवर्त्तनेन हरः पञ्चदश पृथगुक्तः। अग्रेऽवशिष्टौ भूव्यासहीनमध्यार्कविम्बयो-जनानां रविस्पष्टमध्यमगती गुणहरौ। चन्द्रसूर्ययोः मध्ययोजनकणावपि क्रमेण गुणहरौ। तत्र कर्ण-स्थाने लाघवात् तयोर्विम्बयोजनानिगृहीतानि। यद्यपिसूर्यचन्द्रयोर्मध्ययोजन कर्णानुसारित्वाभावा-द्विम्बयोजनग्रहणमनुचितम्। तथापि अल्पान्तराङ्गीकारेण तददोषः। इन्दुव्यासार्कव्यासयोर्भूगो-लाध्यायोक्तकक्षाभूकर्णगुणिता महीमण्डलभाजिता तत्कर्ण इति। तत्कक्षाव्यासार्द्धत्वे तु सुतराम्। तत्रापि स्पष्टार्कविम्बयोजनग्रहणे मध्यार्कयोजनविम्बं सूर्यस्पष्टगतिगुणितं सूर्यमध्यगतिभक्तमिति सिद्धम्। न चोक्तरीत्या सूर्यस्पष्टमध्यगती गुणहरौ भूव्यासमध्यार्कविम्बयोजनान्तरस्योत्पन्नौ न केव-लं विम्बस्येति भूव्यासस्तादृशो महीव्यास इत्यनेन कथं सिद्ध इति वाच्यम्। भगवता स्वल्पान्तरेण महीव्यासस्य यथा स्थितस्य एव अङ्गीकारात्। महीव्यासस्फुटार्कश्रवणान्तरमित्युक्त्या मध्यस्थस्फु-टपदस्य उभयत्रान्वयेन अर्कश्रवणसन्निधानेन च सूर्यविम्बस्फुटरीत्यैव महीव्यासस्य स्फुटत्वसिद्धेश्च। अथैतत्खण्डसिद्धंफलं भूव्यासाद् हीनं भूभायोजनानि। तत्र कलाकरणार्थं भूव्यासस्यअपरखण्डस्य त्रिज्या गुणःस्पष्टचन्द्रगतिभक्तमध्यगतिगुणितचन्द्रमध्ययोजनकर्णरूपस्पष्टयोजनकर्णो हरः। तत्र त्रिज्यामध्ययोजनकर्णोगुणहरौ गुणेनापवर्त्य हरस्थाने पञ्चदश चन्द्रस्पष्टमध्यगती गुणहरौ इति सूच-युक्तोपपन्ना। भूभायाः सूच्यनुकारत्वात् प्रथमखण्डं द्वितीयखण्डे हीनं भूभायोजनात्मिका सा पञ्चद-शभक्ता कलादिकेत्युक्तमुपपन्नम्। यदि तु भूव्यासहीनं रविविम्बमित्यादौ मध्यविम्बानुक्तेः प्रथममे-व स्पष्टार्कविम्बग्रहणं तदा महीव्यासस्य स्पष्टत्वाप्रसिद्धया महीव्यासस्फुटार्कश्रवणान्तरमित्येव य-थाश्रुतं सम्यक्। परन्तु तदा भूव्यासो नार्कविम्बस्य सूर्यमध्यस्पष्टगती हरगुणाववशिष्टौ वाच्यौ अपि भगवतास्वल्पान्तरत्वादनुक्तौ। न चानुपाते सूर्यचन्द्रयोर्मध्ययोजनकर्णावेव गृहीतौ न स्फुटाविति म-ध्यस्फुटगतीहरगुणावनुत्पन्नौ नौक्तावितिवाच्यम्।चन्द्रस्पष्टयोजनकर्णस्वरूपग्रहणेनोत्पन्नसूच्या अनुक्तत्वापत्तेः। न च चन्द्रकर्णस्य मध्यत्वेन गृहीते बह्वन्तरमतः स्पष्टत्वेन तस्य ग्रहे सूच्युपपन्ना सू-र्यकर्णस्य मध्यत्वेन गृहीतेत्यअल्पान्तरमिति वाच्यम्। मध्यार्कविम्बयोजनग्रहणेन स्फुटार्कश्रवणानु-पपत्तेः। न चोभयत्रागृहीते प्रत्येकम् अल्पान्तरम् अपि बह्वन्तरमत एकत्र सूर्यगतिग्रहणम् उचितमि-ति वाच्यम्। विनिगमना विरहात्। पूर्वं सूर्यविम्बस्यैव सूर्यस्पष्टमध्यगती गुणहरौ न महीव्यासस्य प्रा-न्त्येतूभयोरति स्थूलसूक्ष्मविनिगमकेतु प्रान्त्येसूर्यगतिग्रहणस्यौचित्याच्च। अथ महव्यासस्य प्रथम-खण्डस्य चन्द्रगतिग्रहणेन सूच्युक्तावेव द्वितीयखण्डस्य भूव्यासोनस्फुटरविविम्बस्यार्थात् सूर्यगतिग्र-हणं सूचितमिति न क्षतिरिति चेन्न। व्याख्याप्रसङ्गे सूर्यगतिग्रहणे मानाभावादुपपत्तेरप्रसङ्गाच्च। अ-न्यथा अत्रापि चन्द्रगतिग्रहणापत्तेरिति। एतेन चन्द्रमध्यगत्या भूव्यासस्तदा चन्द्रस्पष्टगत्या क इति भू-व्यासरूपं खण्डं स्पष्टं सूचीसंज्ञं सूर्यविम्बप्रमाणेनापरं भूव्यासोनस्फुटरविविम्बखण्डं तदा चन्द्रवि-म्बप्रमाणेन किमिति स्पष्टं द्वितीय खण्डं तयोः स्पष्टयोःअन्तरं स्पष्टा भूभेति सर्वमुपपन्नमिति निरस्त-म्। उक्तानुपाताभ्यां तयोः स्पष्टत्वसिद्धौ मानाभावात्। स्पष्टत्वस्य अप्रसङ्गाच्च। चन्द्रसूर्ययोर्मध्यवि-म्बानुपपत्तेश्च। यत् तु भूव्यासस्य स्पष्टत्वं सूचीरूपमनुपपद्यमानंहृदि ज्ञात्वा भूव्यास एव भूव्यासोन-स्पष्टरविविम्बस्य मध्यकर्णानुपाताभ्यामल्पान्तरेणापवर्तनान्मध्यविम्बे गुणहरावुत्पाद्यद्वितीयखण्डमु-भयोरड्गुलीकरणं चन्द्रमध्यकर्णेन त्रिज्यामिताः कलाः तदाभ्यां का इत्यनुपाते प्रमाणफलयोः फला-वर्त्तनेन प्रमाणस्थानापन्नपञ्चदशहरेण इति तयोरन्तरं भूभेत्युक्तं ज्ञानराजदैवज्ञैः सिद्धान्तसुन्दरे। इ-नावनीव्यासवियोगनिघ्नं शशाङ्कविम्बं रविविम्बभक्तम्। फलोनभूव्याससमा कुभासौ शरेन्दुभक्ता कलिकादिका स्यात्॥ इति ग्रन्थेन। अत्र सूर्यव्यासः स्फुटार्कविम्बयोजनात्मको न मध्ययोजनात्म-कः। चन्द्रार्कविम्बे गुणहरौ मध्ययोजनात्मकौ न स्फुटविम्बयोजनात्मकौ तट्टीकाकृच्चिन्तामण्यभिम-तौ। उपजीव्यसूर्यसिद्धान्तविरोधात्। तदुक्तं तदुपपत्यापि तदसिद्धेश्च। अत्र यदपि तट्टीकाकृच्चिन्ता-मण्युक्तं मध्यमस्य भूभाविम्बस्यानयनं फलविशेषेण मध्यकर्णावेव एवं गुणहरौ प्रकल्प्योक्तविधिना सिद्धस्य मध्यविम्बस्य यदि मध्यगत्यन्तरेणेदं स्फुटगत्यन्तरेण किमित्यनुपातेन स्फुटत्वं मूलकृदनु-क्तमपि कार्यमिति तद्गत्यन्तरवशेन भूभाया अनुत्पत्या न समञ्जसम्। अन्यथा गतिवशेन साधितार्क-चन्द्रविम्बवद्गत्यन्तरकलाभ्योऽविकृताभ्य एव भूभायाःसाधनापत्तेरिति तदसत्। स्फुटेन्दुभुक्तिर्भूव्या-सगुणिता मध्ययोद्धृता। इति सूर्यसिद्धान्तोक्तयुक्तिसिद्धसूच्यनुक्त्या भूव्यासस्यैवाविकृतस्य ग्रहणा-दित्यलं परदोषगवेषणापल्लवितेन॥4-5॥

ग्रहणसंभवः।

अथ ग्रहणद्वयसम्भूतिमाह-

भानोर्भार्धेमहीच्छाया तत्तुल्येऽर्कसमेऽपि या।

शशाङ्कपाते ग्रहणं कियद्भागाधिकोनके॥6॥

सूर्यात् सकाशात् षड्भान्तरे भूच्छाया सूर्यापरदिक्त्वात्। तत्तुल्ये सषड्भार्करूपच्छायाक्षेत्रादिना समे चन्द्रपाते। अपि वा अथवा सूर्यतुल्येचन्द्रपाते सूर्यचन्द्रयोः प्रत्येकं ग्रहणम्। ननु समत्वाभावेऽपि ग्रहणमित्यत आह। कियद्भागेत्यादि। सषड्भार्कादर्काद्वा कतिपयैर्भाधिके ऊनेऽपि चन्द्रपाते ग्रह-णम्। तथा च न क्षतिः। भागाश्चन्द्रग्रहणे द्वादश निश्चयार्थम्। सूर्यग्रहणे तु नतांशषडंशसंस्कारात् स-प्तेत्यापाततः। अत्रोपपत्तिः सषड्भार्क केवलार्कान्यतरतुल्ये चन्द्रपाते शराभावश्चन्द्रस्य तत्तुल्यत्वात्। तदा चन्द्रो भूच्छायायां भवतीति ग्रहणम्। एवं शरसऽपि मानैक्यखण्डान्दल्पे भूच्छायायां मण्डलैक-देशस्य सत्वेन ग्रहणम्। एवं शराभावे मानैक्यखण्डान्यूनशरे च चन्द्रमण्डलां सूर्यमण्डलाच्छादकं भवति परन्तु तत्र शरो नतिसंस्कृतोऽतः सम्यगुक्तमुपपन्नम्॥6॥

ग्रहणकालः।

ननु तत् कुत्र भवतीत्यतः तयोः ग्रहणयोः कालमाह –

तुल्यौ राश्यादिभिः स्याताममावास्यान्तकालिकौ।

सूर्येन्दू पौर्णमास्यन्ते भार्धे भागदिभिः समौ॥7॥

अमावास्यान्तकालोत्पन्नौ सूर्यचन्द्रौ राश्याद्यवयवैः समौ भवतः। पौर्णमास्यन्ते भागादिकौ तुल्यौ सूर्यचन्द्रौ षड्भान्तरे स्याताम्। तथा चामान्ते सूर्यचन्द्रयोरेकत्रोर्ध्वाधरान्तरेणसत्वात्सूर्यग्रहणम्।पौर्णमास्यन्ते चन्द्रभूभयोरैकत्रावस्थानाच्चन्द्रग्रहणम्। एतेन पूर्वश्लोकेशशाङ्कपात इत्यत्र चन्द्रपातौ द्वौन ग्राहयाविति सूचितम्। एतच्छलोकस्य वैयर्थ्यापत्तैः।

अत्रोपपत्तिः। अमान्ते सूर्यचन्द्रयोः पूर्वापरान्तराभावेन योगात् तुल्यौ सूर्यचन्द्रौ पूर्णिमान्ते भचक्रा-र्द्धान्तरत्वात् षड्राश्यन्तरौ भागदिसमाविति॥7॥

सूर्यचन्द्रपातसाधनम्।

अथ पर्वान्ते सूर्यचन्द्रपातानां साधनमाह—

गतैष्यपर्वनाडीनां स्वफलेनोनसंयुतौ।
समलिप्तौ भवेतां तौ पातस्तात्कालिकोऽन्यथा॥8॥

तौ सूर्यचन्द्रौ गतैष्यपर्नाडीनां यत्कालिकौ सूर्यचन्द्रौ तत्कालाद्गता एष्या वा दर्शान्तपूर्णिमान्तान्यत-रघवटिकास्तासां स्वफलेन स्वगतिसम्बन्धेन यत् फलम्। इष्टनाडीगुणा भुक्तिः षष्ट्या भक्ता कला-दिकम्। इति मध्याधिकारोक्तेन आनीतम्। तेन गतैष्यक्रमेणोनयुतौ तत्र समकलौ स्तः। यद्यपि स-मांविति वक्तुंयुक्तं तथाप्यन्यतिथ्यन्तीयसाधितौ ति द्योतनार्थं समकलावित्युक्तम्। पातः स्वगत्युत्पन्न-फलेनान्यथा गतैष्यक्रमेण युतोनस्तात्कालिक पर्वान्तकालिकः स्यात्। अत्रोपपत्तिश्चालनश्लोकः। तत्र तिथ्यन्ते भागान्तरत्वेन कलादिसाम्यम्। पातस्य चक्रशोधितत्वेनेतरग्रहवैपरीत्यम्॥8॥

विम्बप्रयोजनम्।

अथ प्रागुक्तानां विम्बानां प्रयोजनमाह –

छादको भास्करस्येन्दुरधः स्थो घनवद् भवेत्।
भूच्छायां प्राङ्मुखश्चन्द्रो विशत्यस्य भवेदसौ॥9॥

सूर्यमण्डलस्य आच्छादकश्चन्द्रः स्यात। नन्वाकाशे द्वयोः सत्वेन सूर्य एव चन्द्रस्य छादकः कथं न स्यादित्यत आह। अधः स्थ इति। वक्ष्यमाणकक्षाध्याये सूर्यकक्षातोऽधः कक्षास्थत्वाच्चन्द्रस्यैवाच्छाद-कत्वम्। न हि ऊर्ध्वस्थश्छादको येन सूर्यश्चन्द्रस्य छादकः। ननु विनैकत्रावस्थानं छादनं न भवत्यत आह। घनवदिति। यथाधःस्थो मेघः सूर्यस्याच्छादको भवति तथा चन्द्रो भवतीत्यर्थः। प्राङ्मुखः पूर्वा-भिमुखो गच्छश्चन्द्रो भूच्छायां प्रति प्रविशति। अतः कारणादस्य चन्द्रस्यासौ भूभाच्छादिका भवेत्। तथा च सूर्यग्रहणे सूर्यचन्द्रविम्बयोः प्रयोजनं चन्द्रग्रहणे चन्द्रभूभाविम्बयोः प्रयोजनमिति भावः। अ-त्रोपपत्तिः। चन्द्रो दर्शान्ते सूर्यादधो भवतीति चन्द्रः सूर्यस्याच्छादकः। बुधशुक्रयोस्तु मण्डलाल्पत्वा-न्नाच्छादकत्वम्। चन्द्रस्याधोग्रहाभावात् षड्भान्तरे भूम्या प्रतिबद्धाः सूर्यकिरणाश्चन्द्रगोले न पतन्ति। अतो निष्प्रभस्य चन्द्रस्य भूभायां प्रवेश इति चन्द्रस्य भूभाच्छादिका॥9॥

ग्राससाधनम्।

अथ ग्रासनयनमाह-

तात्कालिकेन्दुविक्षेपं छाद्यच्छादकमानयोः।
योगार्धात् प्रोज्झ्य यच्छेषं तावच्छन्नं तदुच्यते॥10॥

यश्छाद्यते सच्छाद्यः। सूर्यग्रहणे सूर्यश्चन्द्रग्रहणे चन्द्रः। यश्छादयति सच्छादकः। सूर्यचन्द्रग्रहणयोः क्रमेण चन्द्रभूभे। तयोः पूर्वानीतमानकलयोरेक्यस्यार्द्धात् तत्कालिकचन्द्रात् पूर्वोक्तप्रकारेण साधितं विक्षेपं कलादिकं विशोध्य यदवशिष्टं तत्प्रमाणकं छन्नं छादकेन छाद्यस्य यावान्मण्डलप्रदेश आ-च्छादितस्तावत् प्रदेशात्मकं ग्रासरूपं ग्रहणं तत्वज्ञैः कथ्यते। अत्रोपपत्तिः। छाद्यच्छादकमण्डलने-मियोगे ग्रहणाद्यन्तरूपे मण्डलकेन्द्रयोरन्तरं स्वविम्बखण्डयोगरूपम्। विम्बस्य व्यासमानात्मक-त्वात्। तत् तु समत्वात्त्लाघवाच्च योगार्द्धरूपं धृतम्। ततो यथा प्रवेशस्तथा ग्रासो भवतीति पर्वान्ते छाद्यच्छादकयोर्विक्षेपान्तरितत्वात् तदूने विक्षेपे मण्डलयोगस्तदन्तरमितः स एवग्रासः॥10॥

सम्पूर्णग्रहणम्। न्यूनग्रहणम। ग्रहणाभावः।

अथ सम्पूर्णन्यूनग्रहणज्ञानं ग्रहणाभावज्ञानं च आह –

ग्राह्यमानाधिके तस्मिन् सकलं न्यूनमन्यथा।
योगार्धादधिके न स्याद् विक्षेपे ग्रासम्भवः॥11॥

तस्मिन्छन्नमानेऽधिके ग्राह्यमानाधिके यद्यस्मात् कारणात् ग्राह्यमानमस्ति। अतः कारणात् सकलं सम्पूर्णं ग्रहणं भवति। अन्यथा ग्राह्यमानान्न्यूने ग्रासेन्यूनंग्राह्यमानान्तर्गतं ग्रहणं स्यात्। मानैक्यख-ण्डाद् विक्षेपेऽधिके सति ग्राससम्भवो ग्रहणं न स्यात्। अत्रोपपत्तिः। ग्राह्यमानादधिके ग्रासे सम्पूर्ण-ग्रहणं न्यूने न्यूनं मानैक्यखण्डादधिके विक्षेपे मण्डलस्पर्शासम्भवाद् ग्रहणाभावः ॥ 11 ॥

अथ स्थित्यर्द्धविमर्दार्धेश्लोकाभ्यामाह –

ग्राह्यग्राहकसंयोगवियोगौदलितौपृथक्।

विक्षेपवर्गहीनाभ्यां तद्वर्गाभ्यामुभे पदे॥12॥

षष्ट्या संगुण्य सूर्येन्द्वोर्भुक्त्यन्तरविभाजिते।

स्यातां स्थितिविमर्दार्धेनाडिकादिफले तयोः॥13॥

ग्राह्यग्राहकमानयोर्यागान्तरे अर्द्धिते पृथक् स्थानान्तरे स्थाप्ये अग्रिमक्रियायां कदाचिद्शुद्धत्वस-म्भवे पुनःक्रियार्थमेतयोरावश्यकत्वात्तद्वर्गाभ्यांयोगार्द्धान्तरार्द्धयोर्वर्गाभ्यां विक्षेपवर्गेण वर्जिताभ्या-मुभे द्वे मूले षष्ट्या गुणयित्वा सूर्यचन्द्रयोर्गत्यन्तरकलाभिर्भक्ते तयोः योगवियोगयोःस्थाने घट्यादि फले क्रमेण स्थित्यर्द्धविमर्दार्द्धे भवतः। अत्रोपपत्तिः। ग्रहणारम्भाद्ग्रहणान्तपर्यन्तं यः कालःस स्थि-तिसंज्ञः। तस्य खण्ड एकं ग्रहणारम्भान्म मध्यग्रहणपर्यन्तमपरं मध्यग्रहणाद्ग्रहणान्तपर्यन्तम्। तत्र विम्बनेमिस्पर्शकाले मानैक्यखण्डं कर्णःस्पर्शमोक्षकालिकशरो भुजः स्पर्शमोक्षान्यतरकालिकशरा-जग्रयोरन्तरं पूर्वापरं कोटिरिति तत् खण्डसाधकं क्षेत्रम्। एवं सम्पूर्णग्रहणे सम्मीलनोन्मीलनकाल-योरन्तरकालो मर्दस्तत्र मध्यग्रहणात् सम्मीलनोन्मीलनकालावधिखण्डे तत्साधकं छाद्यच्छादकम-ण्डलकेन्द्रयोरन्तरं मानार्द्धान्तरतुल्यं कर्णस्तात्कालिकशरो भुजः शराग्रयोरन्तरं विक्षेपवृत्ते पूर्वापरं कोटिरिति क्षेत्रम्। सम्मीलनं छाद्यमण्डलस्याच्छादनसमाप्तिः उन्मीलनं तु छादकमण्डलादाच्छादित सम्पूर्णच्छाद्यमण्डलस्य निः सरणारम्भः। तत्र स्पर्शमोक्षसम्मीलनोन्मीलनकालानामज्ञानान्मध्यका-लिकविक्षेपग्रहणम्। भुजकर्णवर्गान्तरपदं कोटिरिति पूर्वश्लोकोक्तमुपपन्नम्। छाद्यच्छादक मण्डल-केन्द्रयोः पूर्वापरान्तराभावे मध्यग्रहणसम्भवाच्छाद्यच्छादकयुतिर्गत्यन्तरकलाभिः षष्टिघटिकास्तदा-नीतकोटिकलाभिःकाइत्यनुपातेन स्थितिमर्दखण्डे। तत्र चन्द्रग्रहणे भूभागतेः सूर्यगत्यनुरोधात् सूर्य-गतित्वमिति उपपन्नं द्वितीयश्लोकोक्तम्॥12-13॥

स्थित्यर्धम्। विमर्दार्धम्।

अथ स्थितिविमर्दयोः स्थूलत्वनिराकरणम् –

स्थित्यर्धनाडिकाऽभ्यस्ता गतयः षष्टिभाजिताः।

लिप्तादि प्रग्रहे शोध्यं मोक्षे देयं पुनः पुनः॥14॥

तद्विक्षेपैः स्थितिदलं विमर्दार्धंतथाऽसकृत्।

संसाध्यमन्यथा पाते तल्लिप्तादि फलं स्वकम्॥15॥

सूर्यचन्द्रपातानां गतयः स्थित्यर्द्धघटीभिर्गुणिताः षष्ट्या भक्ताः फलं कलादिप्रग्रहे स्पर्शस्थित्यर्द्ध-निमित्तं सूर्यचन्द्रयोर्हीनं मोक्षे मोक्षस्थित्यर्द्धनिमित्तं सूर्यचन्द्रयोर्देयं योज्यम्।चन्द्रपाते तल्लिप्तादिफ-लं स्थित्यर्द्धघट्यानीतं कलादिपूर्वफलं स्वकं स्वगत्युपपन्नमन्यथा विपरीतं प्रग्रहस्थित्यर्द्धनिमित्तं यो-ज्यं मोक्षस्थित्यर्द्धनिमित्तं हीनमित्यर्थः। तद् विक्षेपैः तात्कालिक चन्द्रपाताभ्यामानीतशरकलाभिः। कलानां बहुत्वाद्विक्षेपैरिति बहुवचनम्। विक्षेपाभ्याम् इत्यर्थः। पुनः पुनः स्थितिदलं कार्यम्। अत्रैकं पुनः पदं स्पर्शस्थित्यर्द्धसम्बद्धं द्वितीयं मोक्षस्थित्यर्द्धसम्बद्धं पुनः पदम्। तेनस्पर्शस्थित्यर्द्धार्थसाधि-तचन्द्रपाताभ्यामानीतशरेणप्रागुक्तप्रकारेण स्पर्शस्थित्यर्द्धं संसाध्यम्। मोक्षस्थित्यर्द्धार्थसाधितचन्द्र-पाताभ्यामानीतशरेण पूर्वोक्तरीत्या मोक्षस्थित्यर्द्धं साध्यमित्यर्थः। तच्चोभयमसकृद्वारं वारं स्पर्शस्थित्यर्द्धानीतचालनेन मध्यकालिकौचन्द्रपातावुक्तरीत्या प्रचाल्य तच्छरेण पूर्वोक्तरीत्या स्पर्श-स्थित्यर्द्धमस्मादपि उक्तरीत्या स्पर्शस्थित्यर्द्धमेवं यावदविशेषः। एवं मोक्षस्थित्यर्द्धानीतचालनेन म-ध्य कालिकौ चन्द्रपातावुक्तरीत्या प्रचाल्य तच्छरेण पूर्वोक्तरीत्या मोक्षस्थित्यर्द्धमस्मादप्युक्तरीत्या मोक्षस्थित्यर्द्धमेवं यावदविशेष इत्यर्थः। ननु स्थित्यर्द्धविमर्दार्द्धयोरेकमित्युक्तेः कथं विमर्दार्द्धमसकृ-त् साध्यमिति नोक्तमित्यतआह विमर्दार्धमिति। तथा स्पर्शमोक्षस्थित्यर्धसाधनरीत्या सकृद्यावदविशे-षस्तावत् स्पर्शमर्दार्द्धं मोक्षमर्दार्द्धं च संसाध्यम्। यथा हि स्थित्यर्द्धनाडिकाभ्यस्ता इत्यत्र विमर्दार्द्ध-नाडिकाग्रहात् स्पर्शमर्दार्द्धमोक्षमर्दार्द्धेसाध्ये। आभ्यां प्रत्येकमसकृत् स्पर्शमर्दार्द्धमोक्षमर्दार्द्धे स्फुटे स्तः।

अत्रोपपत्तिः। प्रागुक्तं क्षेत्रं स्पर्शमोक्षसम्मीलनोन्मीलनकालिकशरवशादिति तदज्ञानान्मध्यकालि-कशरग्रहणेन स्थूलं स्थित्यर्द्धं मर्दार्द्धं चातो मध्यकालात् तदन्तरेण पूर्वाग्रिमकालिकयोस्तेषां सम्भ-वात् तत्कालचालितचन्द्रपाताभ्यां विक्षेपस्तात्कालिको भवति परं स्थूलः। स्थूलस्थित्यर्द्धाद्यानीतत्वा-त्। अतोऽस्मादानीतं स्थित्यर्द्धादि पूर्वापेक्षया सूक्ष्ममपि स्थूलमित्यसकृत्सूक्ष्ममपि।तत्र सम्मीलनो-न्मीलनकालयोराकाशस्पर्शमोक्षसम्भवात् स्पर्शमोक्षमर्दार्द्धमिति ध्येयम्॥14-15॥

मध्यग्रहणम्। स्पर्शः। मोक्षः।

अथ मध्यग्रहणस्पर्शमोक्षकालानाह –

स्फुटतिथ्यवसाने तु मध्यग्रहणमादिशेत्।
स्थित्यर्धनाडिकाहीने स्पर्शो मोक्षस्तु संयुते॥16॥

स्पष्टतिथ्यन्तकाले तुकारात् तत्पूर्वापरकालनिरासः। मध्यग्रहणं ग्रासोपचयसमाप्तिं कथयेत्। म-ध्यग्रहणसम्बन्धेन मध्यसूर्यचन्द्रानीतमध्यतिथ्यन्ते तत्सम्भव इति कस्यचिद्भ्रमस्तद्वारणार्थं स्फुटेति। स्थित्यर्द्धघटिकाभिरूने तिथ्यन्तकाले ग्रासः स्पर्शः। संयुते स्थित्यर्द्धघटीभिर्युते तिथ्यन्तकाले मोक्षः। तुकारः स्पर्शमोक्षस्थित्यर्द्धाभ्यां स्पर्शमोक्षकालौ इति विषयव्यवस्थार्थकः। अत्रोपपत्तिः। तिथ्यन्तका-ले छाद्यच्छादकयोः पूर्वापरान्तराभावाद्योगे मण्डलस्पर्शो यावान् भवति ततः पूर्वाग्रिमकालयोर्न्यून एव अतोऽत्र मध्यग्रहणकालः। कैचित् तु। पर्वान्तः किल साधितो भवलये सूर्येन्दुचिह्नान्तरात् तस्मिन् विम्बसमागमो न हि यतश्चन्द्रः शराग्रे स्थितः। तस्मादायनदृष्टि संस्कृतविधोरानीततिथ्यन्तके विम्बैक्यं भवतीति किं न विहितं पूर्वैर्न विद्मो वयम्॥ इत्यनेनात्र मध्यग्रहणंखण्डयन्ति।तन्न। पूर्वापरान्तरा-भावे योगसत्वेन कदम्बसूत्रस्थयोर्याम्योत्तरान्तरस्यैव सत्वेन तत्र मध्यग्रहणस्योचितत्वात्। अन्यथा ध्रु-वसूत्रे समसूत्रे वा योगाभ्युपगमे विनिगमनाविरहापत्तेः। यथागतग्रहयोः कदम्बसूत्रेणैव योगाभ्युपग-मात्। दृष्टिप्रत्ययार्थं दृक्कर्मोक्तेः। ग्रहणद्वयस्य स्वत एव दृग्गोचरत्वात्। ग्रहद्वयादर्शनाच्चेत्यादिसंक्षे-पः। मध्यग्रहणकालात् पूर्वं स्पर्शस्थित्यर्द्धघटीभिस्पर्शः। अग्रिमकाले मोक्षस्थित्यर्द्धघटीभिर्मोक्षः। स्थित्यर्द्धयोस्तदन्तररूपत्वेन सिद्धेः॥16॥

निमीलनम्। उन्मीलनम्

अथ सम्पूर्णग्रहणे निमीलनोन्मीलनका –

तद्वदेव विमर्दार्धनाडिकाहीनसंयुते।
निमीलनोन्मीलनाख्ये भवेतां सकलग्रहे॥17॥

सम्पूर्णग्रहणे तद्वत्। यथा स्थित्यर्द्धोनाधिके तिथ्यन्ते स्पर्शमोक्षौ तथेत्यर्थः। एवकारात् तद्भिन्नरीति-व्युदासः। स्पर्शविमर्दार्द्धमोक्षविमर्दार्द्धघटीभ्यां क्रमेण ऊनयुते तिथ्यन्ते क्रमेण निमीलनोन्मीलनसंज्ञे स्याताम्। अत्रोपपत्तिः। मर्दार्द्धस्य मध्यकालात् तदन्तररूपत्वेन तदूनाधिके तस्मिन् क्रमेण निमील-नोन्मीलने सम्पूर्णग्रहणएव भवतः। न्यूनग्रहणे तत् स्वरूपव्याघातात् तदभावः॥17॥

कोटिफलानयनम्

अथेष्टकाल इष्टग्रासज्ञानार्थं कोटिफलानयनमाह –

इष्टनाडीविहीनेन स्थित्यर्धेनार्कचन्द्रयोः।

भुक्त्यन्तरं समाहन्यात् षष्ट्याप्ताः कोटिलिप्तिकाः॥ 18॥

सूर्यचन्द्रयोर्गत्यन्तरं कलात्मकंग्रहणारम्भाद्याइष्टघटिकाःस्पर्शस्थित्यर्द्धघट्यूनधिकास्ताभिरूनेन स्पर्शस्थित्यर्द्धेन गुणयेत्। अस्मात् षष्टिविभक्तप्राप्ताः कोटिकिला भवन्ति। अत्रोपपत्तिः। इष्टकाले छाद्यच्छादकमण्डलकेन्द्रयोरन्तरं कर्णस्तत्कालशरो भुजस्तत्कालशराग्रमध्यकालिकशराग्रयोरन्तरं विक्षेपवृत्ते कोटिरिति क्षेत्र इष्टघट्यूनस्पर्शस्थित्यर्द्ध-घटिकानां कलाःकोटिःसिद्धा। पूर्वं स्पर्शकालि-ककोट्याःस्थित्यर्द्धघटिकानां सिद्धत्वात् ॥ 18 ॥

अथसूर्यग्रहणे विशेषमाह–

भानोर्ग्रहकोटिलिप्तामध्यस्थित्यर्धसंगुणाः।
स्फुटस्थित्यर्धसंभक्ताः स्फुटाःकोटिकलाः स्मृताः॥19॥

सूर्यस्य ग्रहणे उक्त प्रकारेण या कोटिकलाःसूर्यग्रहणोक्तस्पष्टस्थित्यर्द्धानीता मध्यस्थित्यर्द्धेन सूर्यग्रहणोक्तस्पष्टशरानीतस्थित्यर्द्धेन सङ्गुणिताः स्फुटस्थित्यर्द्धेन सूर्यग्रहणाधिकारोक्तेन भक्ताः सत्यः स्पष्टा कोटिकलाःसूर्यग्रहणतत्वज्ञैरुक्ताः। अत्रोपपत्तिः। सूर्यग्रहणे स्पर्शमोक्षान्यतरमध्यकाल-योरन्तरस्य स्थित्यर्द्धत्वात् तस्य च स्पष्टशरोद्भूतस्थित्यर्द्धलम्बनान्तरैक्यसंस्कारमितत्वात् स्पष्टस्थि-त्यर्द्धानुरुद्धा उक्तरीत्यानीताःकोटिकलाः। अपेक्षिताश्च स्पष्टशरोद्भूतस्थित्यर्द्धानुरुद्धाः। एतत्कोटि-सम्बद्धं क्षेत्रम्। स्थित्यर्द्ध क्षेत्रान्तर्गतत्वात्। स्पष्टस्थित्यर्द्धस्य तूक्तक्षेत्रोत्पन्नत्वाभावात्। अन्यथा स्पष्ट-शरोद्गतस्थित्यर्द्धस्य लम्बनान्तरैक्यसंस्कारानुक्तिप्रसङ्गः। अतः स्पष्टस्थित्यर्द्धेनैता आगताः कोटिकलास्तदा स्पष्टशरोद्रतक्षेत्रजमध्यमरूपस्थित्यर्द्धेन का इति स्फुटाःकलाःसिद्धाः॥19॥

इष्टग्रासानयनम्

अथेष्टइष्टग्रासानयनमाह –

क्षेपो भुजस्तयोर्यर्गयुतेर्मूलं श्रवस्तु तत्।
मानयोगार्धतः प्रोज्झ्य ग्रासस्तात्कालिको भवेत्॥20॥

क्षेपो विक्षेपो भुजः। कोणिभुजयोः कर्णसापेक्षत्वादाह। तयोरिति। कर्णस्तु तयोः कोटिभुजयोर्वर्ग-योगान्मूलं सिद्ध एव। तत् कर्णवर्गात्मकं मूलं ग्राह्यग्राहकमानैक्यार्द्धाद्विशोध्य शेषं तात्कालिकः कल्पितेष्टकालसम्बन्धी ग्रासोऽवान्तरग्रासः स्यात्। अत्रोपपत्तिः। क्षेत्रं पूर्वं प्रतिपादितम्। स्पर्शकाले मा-नैक्यखण्डस्य कर्णत्वात् क्षेत्रयोरुभयोर्मध्यकालावधित्वात् इष्टकर्णोनं मानैक्यखण्डमिष्टग्रास एव॥20॥

अथ मध्यग्रहणानन्तरमिष्टग्रासानयनमाह—

मध्यग्रहणतश्चोर्ध्वमिष्टनडीर्विशोधयेत।
स्थित्यर्धान्मौक्षिकाच्छेषं प्राग्वच्छेषं तु मौक्षिके॥21॥

मध्यग्रहणकालादूर्ध्वमनन्तरम्। चकारो विशेषार्थकतुकारपरः। इष्टघटिकाः कर्म। मौक्षिकान्मोक्ष-कालसम्बद्धात् स्थित्यर्द्धात्। न स्पर्शं विशोधयेत्। गणक इति कर्त्राक्षेपः। शेषं कोटिलिप्तादिग्रासा-नयनान्तं गणितकर्म प्राग्वद्भुक्त्यन्तरं समाहन्यादित्युक्तप्रकारेण कुर्यात्। मौक्षिके मोक्षस्थित्यर्द्धा-न्तर्गतेष्टकाले तुर्विशेषे ग्रासः शेषमुर्वरितो ग्रासोऽवान्तरग्रासो भवति। न पूर्ववद्गतः।

अत्रोपपत्तिः। पातादि मध्यग्रहणात्पूर्वमिष्टकालस्य ग्रहणारम्भावधिकस्य स्पर्शस्थित्यर्द्धसम्बद्धत्वा-त् आगतो ग्रास उपचयात्मकः। नावशिष्टः। अवशिष्टमण्डलस्य शुद्धत्वेन ग्रस्तत्वासम्भवात्। एवं म-ध्यग्रहणानन्तरमिष्टकालस्य मोक्षस्थित्यर्द्धान्तर्गतत्वात् तदुक्तरीत्यानीतो ग्रासोऽपचयात्मकः न शुद्ध-विम्बदर्शनात्मकः।ग्रस्तत्वाभावात्॥21॥

इष्टग्रासादिष्टकालानयनम्।

अथाभीष्टग्रासादिष्टकालानयनम्–

ग्राह्यग्राहकयोगार्धाच्छोध्याः स्वच्छन्नलिप्तिकाः।
तद्वर्गात् प्रोज्झ्य तत्कालविक्षेपस्य कृतिं पदम्॥22॥

कोटिलिप्ता रवेः स्पष्टस्थित्यर्धेनाहता हृताः।

मध्येन लिप्तास्तन्नाडयः स्थितिवद् ग्रासनाडिकाः॥23॥

छाद्यच्छादकमानैक्यखण्डादभीष्टग्रासकलाः शोध्याः।शेषस्य वर्गादभीष्टग्रासकालिकविक्षेपस्य वर्गं विशोध्य शेषस्य मूलं कोटिकलाःं। सूर्यग्रहणेविशेषमाह। रवैरिति। सूर्यस्य ग्रहणे इति शेषः। भा-नोर्ग्रह इति पूर्वमुक्तेः। उक्तप्रकारेण याःकलाःता मध्यग्रहणकालस्पर्शमोक्षान्यतरकालयोरन्तररू-पेण स्पष्टस्थित्यर्द्धेन गुण्याः। स्पष्टशरोत्पन्नस्थित्यर्द्धेन मध्यमेन भक्ताःफलं कोटिकला भवन्ति। स्थितिवत् स्थित्यर्द्धसाधनरीत्या। षष्ट्या सङ्गुण्य सूर्येन्द्वोर्भुक्त्यन्तरविभाजिताः। इत्युक्तेन तासां कोटिकलानां घटिकायास्ता अभीष्टग्राससम्बन्धिघटिकाः स्पर्शमोक्षान्यतरस्थित्यर्द्धान्तर्गताः क्रमेण मध्य-ग्रहणाच्छेषा गता वा भवन्ति। अत्रोपपत्तिः। पूर्वोक्तव्यत्यासात् सुगमतरा। परन्तु स्वाभीष्टग्रासकालि-कशरज्ञाने सुक्ष्मम्। तच्छराज्ञाने मध्यकालिकशरग्रहणेन स्थूलम्। अतएव भास्कराचार्यैः कालसाध-ने तत्कालबाणेन मुहुः स्फुटइत्युक्तमिति विशेषः॥22-23॥

वलनम्।

अथ वक्ष्यमाणग्रहणपरिलेखोपयुक्तवलनस्यानयनं श्लोकाभ्यामाह—

नतज्याक्षज्याभ्यस्ता त्रिज्याप्ता तस्य कार्मुकम्
वलनांशाः सौम्ययाम्याः पूर्वापरकपालयोः॥24॥
राशित्रययुताद् ग्राह्यात् क्रान्त्यंशैर्दिक्समैर्युताः।
भेदेऽन्तराज्ज्या वलना सप्तत्यङ्गुलभाजिताः॥25॥

यत्कालिकं वलनं कर्त्तुमिष्टं तात्कालिकं नतं चन्द्रग्रहणेचन्द्रस्य सूर्यग्रहणेसूर्यस्य साध्यम्। तद्यथा स्वोदयात् स्वास्ताद्गतशेषघटिकाः स्वदिनार्द्धान्तर्गताः स्वदिनार्द्धादूनाःक्रमेण पूर्वापरनतघटिका भवन्ति। तन्नतं नवतिगुणं स्वदिनार्द्धभक्तं नतांशास्तेषां ज्या नतज्येत्यर्थः। स्वदेशाक्षांशज्यया गुणिता त्रिज्यया भक्ता फलस्य धनुः कलात्मकं षष्टिभक्तं पूर्वापरकपालयोःपूर्वापरनतयोः क्रमेण उत्तरद-क्षिणवलनांशा भवन्ति। यत्कालिकं वलनं तात्कालिकाद्ग्राह्यात् राशित्रययुतात् सायनांशाद्ये क्रान्त्यं-शास्तैर्दक्त्तुल्ययुतास्तेषां ज्याभेदेभिन्नदिक्त्वेऽन्तरात्क्रान्त्यंशवलनांशयो रन्तराज्ज्या सप्तत्यङ्गुलैर्भ-क्ता शेषदिक्का। अड्गुलात्मकत्वेन हरस्योद्देशादङ्गुलादिका वलना भवति। अत्रोपपत्तिः। समवृ-त्तपूर्वापरादिदिग्भ्यः क्रान्तिवृत्तपूर्वापरादिदिशो यावतान्तरेण वलिता उत्तरस्यां दक्षिणस्यां वा वलनां-शाः। तदानयनार्थं प्रथमतः समवृत्तानुरूद्धदिग्भ्यो विषुवद्वृत्तदिशो यावतान्तरेण वलिता दक्षिणोत्त-रयोस्तदाक्षवलनम्। तथाहि। समप्रोतचलवृत्तं ग्रहचिह्नस्थं समविषुवद्वृत्तयोर्यत्र लग्नं तत्प्रदेशान्नवत्यं-शान्तरे स्वस्ववृत्ते प्राच्योरन्तरं वलनं तत्तुल्यमेवोत्तरादिशामन्तरं पूर्वकपालस्थग्रहे समवृत्तप्राचीतो विषुवद्वृत्तप्राच्या उत्तरत्वादुत्तरम्॥ पश्चिमकपालस्थेतु समवृत्तप्राचीतो विषुवद्वृकृत्तप्राच्या दक्षिण-त्वाद्दक्षिणम्। तत्र क्षितिजस्थेग्रहे तदन्तरम्क्षांशतुल्यम्। याम्योत्तरवृत्तस्थेग्रहे तदन्तरा भावः। अति-स्त्रिज्यातुल्यया नतकालज्ययाक्षज्यातुल्याक्षवलनज्या तदेष्टनतज्यया केत्यनुपातागताक्षज्याया धनु-राक्षवलनमुक्तमुपपन्नम्। द्वितीयन्तु विषुवद्वृत्तदिग्भ्यः क्रान्तिवृत्तदिशो यावतान्तरेण वलिता दक्षि-णोत्तरयोस्तदायनं वलनम्। तथाहि ध्रुवप्रोतवृत्तं ग्रहचिह्नस्थं विषुवद्वृत्ते यत्रासन्नं लगति तत् स्थाना-च्चतुर्थांशांन्तरे यत् स्थानं तद्विषुवत्प्राची। तस्याग्रहचिह्नात्त्रिभान्तरितक्रान्तिवृत्तप्राची यदन्तरेण तदा-यनं वलनम्। तत् तुल्यमेवेतरदिशामन्तरम्। उत्तरायणस्थेग्रहे उत्तरं दक्षिणायनस्थे ग्रहे दक्षिणम्। तत् तु अयनसन्धौ अभावात्मकम्। गोलसन्धौ परमक्रान्तितुल्यमतः सत्रिभक्रान्तितुल्यं सत्रिभग्रहगो-लदिक्कमित्युपपन्नं राशित्रययुताद्ग्राह्यात् क्रान्त्यंशैरिति। द्वयोर्वलनयोरेकदिक्त्वेसमवृत्तप्राचीतः क्रा-न्तिवृत्तप्राची तद्योगरूपस्फुटवलनान्तरेण वलनदिशि भवति। भिन्नदिक्त्वे तु वलनान्तररूपस्फुटव-लनान्तरेण शेषदिशि भवति। तज्ज्या स्फुटवलनज्या त्रिज्यावृत्ते। अग्रे परिलेख एकोनपञ्चाशन्मित-व्यासार्द्धवृत्ते दानार्थं त्रिज्यावृत्त इयं तदा एकोनपञ्चाशन्मितव्यासार्द्धे केत्यनुपाते प्रमाणेच्छयोरिच्छा-पवर्तनाद्हरस्थानेऽधोवयवत्यागात् सप्ततिः। अतो दिक्समैर्युताइत्याद्युपपन्नम्॥24-25॥

कलात्मकविम्बविक्षेपादीनामड्गुलीकरणम्।

अथ कलात्मकविम्बविक्षेपादीनामड्गुलीकरणमाह –

सोन्नतं दिनमध्यर्थं दिनार्धाप्तं फलेन तु।
छिन्द्याद् विक्षेपमानानि तान्येषामंगुलानि तु॥26॥

दिनमानमध्यर्द्धमर्द्ध इत्यध्यर्द्धं स्वार्द्धयुक्तमित्यर्थः। अभीष्टकालिकोन्नतघटीभिः सहितं दिनार्द्धेन भ-क्तं फलेन। तुकारो यद् ग्रहणं तस्य दिनमानोन्नते ग्राह्ये इत्यर्थकः। विक्षेपग्राह्यग्राहकविम्बामानानि तानि पूर्वोक्तानि कलात्मकानि। ग्रासादिकमपि ध्येयम्। भजेत्। तुकारात् फलमेषां कलात्मकानाम-ङ्लानि भवन्ति। अत्रोपपत्तिः।उदयास्तकाले विम्बकिरणानां भूमिगोलावरुद्धत्वेनाल्पोर्ध्वस्थकिर-णानां नयनप्रतिहननार्हत्वाद्विम्बं व्यक्तत्वान्महद्भासते। तत्राड्गुलात्मकं विम्बं कलात्रयात्मकैकाड्गु-लप्रमाणेन भवति। खमध्यस्थेग्रहे तु विम्बस्य सर्वकिरणावरुद्धत्वान्न्यूनप्रतिघाताच्च सूक्ष्मं विम्बं भा-सते। तत्राड्गुलात्मकं विम्बं कला चतुष्टयात्मकैकाङ्गुप्रमाणेन भवति। तत्रोदयास्तकाले शङ्कोरभा-वात् खमध्ये तस्य त्रिज्यातुल्यत्वात् त्रिज्यातुल्यशङ्कौ उदयकालिकैकाङ्गुलमानस्य कलात्रयस्य ए-काङ्गुलमुपचयो लभ्यते तदेष्टशङ्कौक इत्यनुपातेनाभीष्टकाले फलं युक्तम्। त्रयमेकाङ्गुलस्य क-लात्मकं मानं भवति। अतएव भास्कराचार्यैरुदयास्तकालेसार्द्धद्वयं कलाङ्गुलमानमङ्गीकृत्य गी त्रिज्योद्धृतस्तत्समयोत्थशङ्कुः सार्द्धद्वियुक्तोऽङ्गुललिप्तिकाः स्युः।

इत्युक्तम्। तत्र भगवता लोकानुकम्पया स्वल्पान्तरत्याच्च मध्याह्नेऽपि कलाचतुष्टयात्मकमेका-ङ्गुलमङ्गीकृत्य दिनार्द्धतुल्यपरमोन्नतकाल एकापचयस्तदेष्टोन्नतकाले क इत्यनुपातागतफलयुक्तं त्रयंकला एकाङ्गुलमानमभीष्टकाले। तत्र दिनार्द्धभक्तोन्नतकालस्यफलरूपत्वात् त्रयाणां समच्छे-दतया योजने त्रिगुणितं दिनार्द्धं सार्द्धैकगुणदिनमानरूपमुन्नतकालयुक्तं दिनार्द्धभक्तमिति सिद्धम्। तत एतत्कलाभिरेकाङ्गुलं तदेष्टकलाभिः किमित्यनुपातेन कलात्मकानामङ्गुलीकरणमुक्तमुपप-न्नम्॥26॥
अथ अग्रिमग्रन्थस्यासङ्गतित्वनिरासार्थमधिकारसमाप्तिं फक्किकयाह। स्पष्टम्।

रङ्गनाथेन रचिते सूर्यसिद्धान्तटिप्पणे। चन्द्रग्रहणाधिकारोडयं पूर्णो गूढप्रकाशको इति श्रीसकल-गणकसार्वभौमवल्लालदैवज्ञात्मजरंगनाथगणकविरचितेगूढार्थप्रकाशकेचन्द्रग्रहणाधिकारः पूर्णः।

अथ सूर्यग्रहणाधिकारः- 5

अथ सूर्यग्रहणाधिका व्याख्यायते। तत्र यत्पदार्थविशेषप्रयुक्तश्चन्द्रग्रहणाधिकारातिरिक्तः सूर्यग्रह-णाधिकारस्तद्विशेषयोरभावस्थाज्नादेवोत्पत्तिनियमात्तयोरभावस्थानकथनव्याजेन तयोरुद्देशमाह।

लम्बनाभावः। नतेरभावः।

लम्बननत्योरभावनिर्णय –

मध्यलग्नसमे भानौ हरिजस्य न सम्भवः।
अक्षोदङ्मध्यभक्रान्तिसाम्ये नावनतेरपि॥1॥

सूर्येऽमावास्यान्तकालिकेमध्यलग्नसमेसतिदिनमध्यस्थान ऊर्ध्वयाम्योत्तरवृत्तेलग्नः क्रान्तिवृत्तप्र-द्रेशो मध्यलग्नं त्रिप्रश्नाधिकारोक्तम्। तत्तुल्ये सति मध्याह्न इति फलितम्। हरिजस्य लम्बनस्य भूपृष्ठ-क्षितिजवशाल्लम्बनोत्पत्तेर्लम्बनस्यापिक्षितिजवाचकहरिजशब्देना भिधानात् सम्भव उत्पत्तिर्न। तत्र लम्बनाभाव इत्यर्थः। अथ मध्याह्न इति स्फुटोक्त्यपेक्षया मध्यलग्नसम इति वक्रोक्तिः कृपालोः भग-वतो नोचितेत्यग्रिमग्रन्थार्थतत्त्वविचारणयापि मध्याह्ने तद्भावानुपपत्तेः साम्प्रदायिकव्याख्यामनादृत्य तत्त्वार्थोव्याख्यायते।लग्नयोरुदयक्षितिजास्तक्षितिजप्रदेशयोःसंलग्नक्रान्तिवृत्तप्रदेशयोर्मध्यम ऊर्ध्व-मध्यप्रदेशस्त्रिभोनलग्नमित्यर्थः। प्रयोगस्तु मध्याह्न इतिवत्। तत्तुल्येऽर्केलम्बनस्याभाव इति। दर्शा-न्तलग्नं प्रथमं विधाय न लम्बनं वित्रिभलग्नतुल्ये। रवौ तदूनेऽभ्यधिके च तत् स्यादेवं धनर्णं क्रमशश्च वेद्यम्॥ इति भास्कराचार्येण स्फुटमुक्तेश्च। नत्यभावस्थानमाह। अक्षेत्यादि। आक्षांशा उत्तरा ये म-ध्यभस्य मध्यलग्नस्य क्रान्त्यंशाः। अत्र मध्यलग्नशब्देन दशमभावस्त्रिभोनलग्नं वा ग्राह्यमुभयपक्षेऽपि अदोषः। अनयोस्तुल्यत्वेऽवनतेर्नतेः। अपिशब्दात् सम्भवो न। अभाव इत्यर्थः। न तु अपिशब्दाल्ल-म्बनस्यापि तत्राभावः उत्तरक्रान्त्यक्षयोस्तुल्यत्वे मध्यलग्नतुल्यार्कत्त्वाभावेऽपि तद्भावापत्तेः। अत्रोपप-त्तिः- अमावास्यान्तकाले समौ सूर्यचन्द्रौ। तत्र चन्द्रशराभावे भूगर्भान्नीयमानं सूत्रमर्कस्थानावधि चन्द्रं स्पृशत्येवेति भूगर्भे छादकत्वं चन्द्रस्य सूर्यस्य छाद्यत्वं सम्भवति। तत्र मनुष्याणामसत्वाद्भूपृष्ठे तेषां सत्वाच्च भूपृष्ठान्नीयमानमर्कोपरि सूत्रं चन्द्रे न लगति। किन्तु चन्द्राधिष्ठानगोले चन्द्रचिह्नादूर्ध्वं लग-ति। तत्र यदा चन्द्र आयाति तदा भूपृष्ठे सूर्यस्य चन्द्रश्छादको भवति। यदा तु खमध्ये सूर्यस्तदा भूग-र्भसूत्रं भूपृष्ठसूत्रं च सूर्योपरिगमेकमेव चन्द्रे लगतीति भूपृष्ठेऽमान्तकाले चन्द्रश्छादको भवति। अत-एव भूगर्भ पृष्ठसूत्रान्तरं लम्बनम्। भूपृष्ठसूत्रात् सूर्योपरिगाच्चन्द्राधिष्ठानाकाशगोलेचन्द्रस्य शरसत्वे चन्द्रचिह्नस्य वा लम्बितत्वात्। अत एव भास्कराचार्यैरुक्तम्। दृग्गर्भसूत्रयोरैक्यात् खमध्ये नास्ति ल-म्बनम्। इति। अथ चन्द्राधिष्ठानगोले भूपृष्ठसूत्रमर्कोपरिगतं चन्द्रचिह्नादूर्ध्वं चन्द्रदृग्वृत्ते यदंशैर्लगति तल्लम्बन द्वृग्वृत्ताकारकक्रान्तिवृत्ते भवति। यदा तु दृग्वृत्ताद्भिन्नं क्रान्तिवृत्तं तदा भूपृष्ठसूत्रं चन्द्राधि-ष्ठानगोले चन्द्रदृग्वृत्ते चन्द्रादूर्ध्वं यत्र लग्नं तत्र चन्द्रगोलस्थक्रान्तिवृत्तयाम्योत्तररूप कदम्बप्रोतवृत्तमा-नीय चन्द्रगोलस्थक्रान्तिवृत्ते यत्र लग्नं तच्चन्द्रचिह्नयोरन्तरं क्रान्तिवृत्ते पूर्वापरं स्फुटलम्बनकलाः कोटिः। चन्द्रस्य क्रान्तिवृत्तानुसारेण गमनात् प्रोतवृत्ते क्रान्तिवृत्तदृग्वृत्तयोरन्तरं याम्योत्तरं कलात्मकं न-तिर्भुजः। भूगर्भपृष्ठसूत्रान्तरं द्वग्वृत्ते कलात्मकं द्वृग्लम्बनं कर्णः।द्वृग्वृत्तस्य कदम्प्रोतवृत्ताकारत्वे क्रान्तिवृत्ते तयोरन्तराभावाल्ललम्बनाभावःयाम्योत्तरमन्तरं द्वृग्लम्बनं नतिरेवोत्पन्ना। दृग्वृत्ताकार-क्रान्तिवृत्ते तु दृग्लम्बनमेव क्रान्तिवृत्ते तयोन्तरमिति लम्बनमुत्पन्नं नत्यभावश्च। तथा च दृग्वृत्तस्य क-दम्बप्रोतवृत्ताकारत्वे त्रिभोनलग्नस्थानेऽर्को भवति। तद्वृत्तस्य क्रान्तवृत्तयाम्योत्तरत्वेनो उदयास्तल-ग्नमध्यवर्तित्वेन लग्नस्थानात् त्रिभान्तरितत्वात्। न हि क्रान्तिवृत्ताद्याम्योत्तरान्तरज्ञानार्थं समप्रोतवृत्तम-ङ्गीकार्यम्। येन दशमभावतुल्यार्के लम्बनाभाव उपपन्नः स्यात्। क्रान्तिवृत्तस्य गोलवृत्तत्वेन सम्प्रोत-वृत्तस्य देशवृत्तत्वेन सम्बन्धाभावात्। अतएव भगवता सर्वज्ञेन नतिसाधनार्थमग्रे दृक्क्षेपः त्रिभोनलग्न-स्यैव साधितः दृक्क्षेपाभावे त्रिभोनलग्नस्य खमध्यस्थत्वेन तदा तस्य दशमभावतुल्यत्वेन दशमभावन-तांशाभावाद्दृक्क्षेपाभावः। तदा त्रिभोनलग्नस्य नतांशाभावश्च। नतांशाभावस्त्वक्षांशतुल्योत्तरक्रान्तौ सुखार्थं स्थूलाङ्गीकारे तुदशमभावस्यैव नतांशोन्नतज्ये दृक्क्षेपदृग्गती नतिलम्बनयोःसाधनार्थं सम-नन्तरमेव भगवतोक्तेर्न तु वस्तुरूपे। आयासेन दृक्क्षेपसाधनस्योवक्तस्य वैयर्थ्यापत्तेरिति सर्वं निरव-द्यम्॥1॥

लम्बनसंभवः। नतिसंभवः।

अथो दिदष्टयोरभावस्थानातिरिक्तस्थाने सम्भवात् प्रतिपादनं प्रतिजानीते –

देशकालविशेषेण यथाऽवनतिसम्भवः।
लम्बनस्यापि पूर्वान्यदिग्वशाच्च तथोच्यते॥2॥

देशविशेषेण कालविशेषेणावनतिसम्भवो नतिकालोत्पत्तिर्गोलस्थित्या यथा भवति। लम्बनस्यापि समुच्चये त्रिभोनलग्नस्थानात् पूर्वापरदिगनुरोधात्। चकारात् सम्भवो देशकालविशेषेण यथा भवती-त्यर्थः। तथा तत्तुल्येन नतिलम्बने आनयनद्वारा मया कथ्यते॥2॥

उदयसंभवः।

तत्र उपयुक्तामुदयाभिधामाह –

लग्नं पर्वान्तनाडीनां कुर्य्यात् स्वैरुदयासुभिः।
तज्ज्याऽन्त्यापक्रमज्याघ्नी लम्बज्याप्तोदयाभिधा॥3॥

स्वैःस्वदेशीयैरुदयासुभिराश्युदयासुभिर्पर्वघटिकानांलग्नं गणकःकुर्यात्। पर्वान्तकालिकं लग्नं साध्यमित्यर्थः। यद्यपि पूर्वं लग्नसाधनं स्वोदयैरेवोक्तमिति स्वैरूदयासुभिरिति व्यर्थं तथापि समनन्त-रमेव दशमभावसाधनोक्त्या कस्यचित् लग्नं व्यक्षोदयैरेवात्र साध्यमिति भ्रमस्य वारणाय पुनरुक्तिः। तस्य लग्नस्यायनांशसंस्कृतस्य ज्याभुजज्या परमक्रान्तिज्यया गुण्या स्वदेशीय लम्बज्यया भक्ता फ-लमुदयसंज्ञं स्यात्। अत्रोपपत्तिः। लग्नक्रान्तिज्यासाधनार्थं लग्नभुजज्यायाःपरमक्रान्तिज्या गुणस्त्रि-ज्या हरस्ततो लम्बज्याकणौत्रिज्याकर्णस्तदा लग्नक्रान्तिज्याकोणौकः कर्ण इत्यनुपाते त्रिज्ययोर्नाशा-ल्लग्नभुजज्या परमक्रान्तिज्यागुणा लम्बज्यया भक्ता फलं लग्नस्याग्रा। इयं भगवतो दयसंज्ञोक्ता लग्न्स्योदयसंज्ञत्वात्। उदयसम्बन्धाच्चेत्युक्तमुपपन्नम्॥3॥

मध्यज्या।

अथोपयुक्तां मध्यज्यां सार्द्धश्लोकेनाह –

तदा लङ्कोदयैर्लग्नं मध्यसंज्ञं यथोदितम्।
तत्क्रान्त्यक्षांशसंयोगो दिक्साम्येऽन्तरमन्यथा॥4॥

शेषं नतांशास्तन्मौर्वी मध्यज्या साऽभिधीयते॥4½॥

तदा पर्वान्तकाले लङ्कोदयैर्व्यक्षदेशीयराश्युदयैर्यथोदितंपूर्वोक्तप्रकारेण जातकपद्धत्युक्ततनघ-टीभिर्धनमृणं यथायोग्यं मध्यसंज्ञं लग्नं दशमभावात्मकं साध्यम्। अत्र लग्नसम्बन्धेन स्वदेशराश्युदया-सुग्रहणशङ्कावारणाय लङ्कोदयैरित्युक्तम्। तस्य दशम भावस्या यनांशसंस्कृतस्य क्रान्तिः स्वदेशा-क्षांशाः। अनयोर्योग एकदिक्त्वे कार्यः। अन्यथा भिन्नदिक्त्वेऽन्तरं तयोरेव शेषं संस्कारजदिक्का न-तांशास्तेषां ज्या कार्या सा मध्यलग्ननतांशज्या मध्यज्योच्यते तत्सम्बन्धात्। अत्रोपपत्तिः स्पष्टा॥4-4½॥

दृक्क्षेपः। दृग्गतिः।

अथाभ्यामुपयुक्तं दृक्क्षेपं लम्बनोपयुक्तां दृग्गतिं च सार्द्धश्लोकेन आह

मध्योदयज्ययाऽभ्यस्ता त्रिज्याप्ता वर्गितं फलम्॥5॥
मध्यज्यावर्गविश्लिष्टिं दृक्क्षेपः शेषतः पदम्।
तत्त्रिज्यावर्गविश्लेषान्मूलं शंकुः स दृग्गतिः॥6॥

पूर्वोक्तमध्यज्या पूर्वानीतोदयाभिधया उदयज्यया।अस्या ज्यारूपत्वात् ज्ययेत्युक्तम्। गुणिता त्रि-ज्यया भक्ता फलं वर्गितं वर्गः सज्जातो यस्य तत्। फलस्य वर्गःकार्य इत्यर्थः। मध्यज्याया वर्गे वि-श्लिष्टं हीनं वर्गितं फलं कार्यम्। शेषान्मूलं दृक्क्षेपः स्यात्। दृक्क्षेपत्रिज्ययोर्यौ वर्षौतयोरन्तरान्मूलं शङ्कुः। स आनीतः शङ्कुर्दृग्गतिसंज्ञो भवति। न तु शङ्कुमात्रम्। अत्रोपपत्तिः- त्रिभोनलग्नस्य दृ-ग्ज्यानयनार्थं क्षेत्रम्। मध्यलग्न दृग्ज्याकर्णस्त्रिभोनलग्नस्य याम्योत्तरवृत्तात् प्रागपरस्थितत्त्वेन तत्खस्व-स्तिकान्तरस्थिततदीयदृग्वृत्तप्रदेशांशज्या कोटिः। मध्यलग्नत्रिभोनलग्नान्तरांशज्या क्रान्तिवृत्तस्थो भु-जः। अत्र भुजानयनं चो दयलग्नस्थक्रान्तिवृत्तप्रदेशः। प्राक्स्वस्तिकात् तदग्रान्तरेणोत्तरदक्षिणो भव-ति। एवमस्तलग्नप्रदेशःपरस्वस्तिकाद्दक्षिणोत्तरः। तदनुरोधेन च त्रिभोनलग्नप्रदेशक्रान्तिवृत्तीयया-म्योत्तरवृत्तरूपतद्दृग्वृत्तं क्षितिजेयाम्योत्तरवृत्तक्षितिजसम्पातात्तदग्रान्तरेण लग्नमवश्यंभवति। अत-स्त्रिज्यातुल्यमध्यलग्नदृग्ज्यया लग्नाग्रातुल्यो भुजस्तदाभीष्टदृग्ज्यया क इत्यनुपातेन सफलसंज्ञः। तद्व-र्गोनान्मध्यलग्नदृग्ज्यावर्गान्मूलं त्रिभोनलग्नस्य दृग्ज्या दृक्क्षेपाख्या। एतद्वर्गोनात् त्रिज्यावर्गान्मूलं त्रि-भोनलग्नशङ्कुर्दृग्गतिसंज्ञः। अत्रेदमवधेयम्। त्रिप्रश्नाधिकारोक्तप्रकारेण त्रिभोनलग्नस्य शङ्कुदृग्ज्ये दृग्गतिदृक्क्षेपतुल्ये न भवतः। किन्तु दृग्गतिदृक्क्षेपाम्यां क्रमेण न्यूनाधिके भवतः सर्वदा धूलीकर्मणा-नुभवात्। अत आनीतोऽयं दृक्क्षेपस्त्रिभोनलग्नदृङ्मण्डलस्थितोऽपि न त्रिज्यानुरुद्धः। किन्तु फलवर्गो-न त्रिज्यावर्गपदरूपविलक्षणवृत्तव्यासार्द्धप्रमाणेन सिद्ध इति गम्यते। अतो दृग्ज्यायाः त्रिज्यानुरूद्ध-त्वेन त्रिज्यावृत्तपरिणतो दृक्क्षेपस्त्रिभोनलग्नस्य दृग्ज्या स्फुटदृक्क्षेपरूपा। अस्याः तत् त्रिज्यावर्गेत्या-दिना दृग्गतिः स्फुटात्रिभोनलग्नशङ्कुरूपा। एतदनुक्तिः स्वल्पान्तरत्वाद गणितसुखार्थं कृपालुना कृता। त्रिप्रश्नक्रियागौरवभियतन्मार्गान्तरं लाघवादुक्तमितिदिक्॥5-6॥

अथ लाघवादृक्षेपदृग्गती गणितसुखार्थं श्लोकार्धेनाह–

नतांशबाहुकोणिज्ये स्फुटे दृक्क्षेपदृग्गती॥6½॥

दशमभावनतांशानां भुजकोट्योर्नताशतदूननवतिरूपयोरनयोर्ज्येक्रमेणदृक्क्षेपदृग्गती अस्फुटे स्थूले। यद्वा स्फुटेप्रागुक्ते दृक्क्षेपदृग्गती विहाय गणितलाघवार्थं दशमभावनतांशभुजकोट्योर्ज्ये त-त्स्थानापन्ने ग्राह्ये। यत्तूदयज्याभावे नतांशबाहुकोटिज्ये दृक्क्षेपदृग्गती स्फुटे इति। तन्न। उक्तप्रकारे-णैतत्सिद्धेस्तत्कथनस्य व्यर्थत्वात्। अत्रोपपत्तिः- त्रिभोनलग्नस्य दशमभावासन्नत्वेन दशमभावस्य या-म्योत्तरवृत्तस्थत्वेन लाघवार्थं दशमभावमेव त्रिभोनलग्नं प्रकल्प्य तन्नतांशज्या मध्यज्यारूपा त्रिभोन-लग्नदृक्क्षेपः उन्नतज्याशङ्कुर्दृग्गतिः। इदमतिस्थूलम्। यैस्तु भगवतोक्तं मध्यलग्नं दशमभावपरतया व्याख्यातं तेषां मत एतदुक्तमिति सुक्ष्मम्। प्रयाससाधितदृक्क्षेपदृग्गती प्रागुक्ते सूक्ष्मेप्यतिस्थूले इति ध्येयम्। भास्कराचार्यैस्तु-त्रिभोनलग्नस्य दिनार्द्धजाते नतोन्नतज्ये यदि वा सुखार्थम्। इति यदुक्तं त-दस्मात् सूक्ष्ममिति ध्येयम्॥6½॥

लम्बनसाधनम्

अथ लम्बनोपयुक्तच्छेदकथनपूर्वकं लम्बनानयनं सार्द्धश्लोकेन आह –

एकज्यावर्गतश्छेदो लब्धं दृग्गतिजीवया॥7॥

मध्यलग्नार्क विश्लेषज्या छेदेन विभाजिता॥

रवीन्द्वोर्लम्बनं ज्ञेयं प्राक्पश्चात् घटिकादिकम्॥8॥

एकराशिज्याया वर्गाद्दृग्गतिजीवया प्रागुक्तदृग्गत्या। दृग्गतेः त्रिशङ्कुरूपत्वेन ज्यारूपत्वाज्जी-वयेति स्वरूपप्रतिपादनम्। भागहरणेन लब्धं छेदसंज्ञं स्यात्। अथ मध्यमलग्नम्। त्रिभोनलग्नं दर्शा-न्तकालिकं न तु दशमभावः। तात्कालिकः सूर्यः।अनयोरन्तरस्य त्रिभादधिकस्य ज्या छेदेन प्राक्सा-धितेन भक्ता घटिकादिकं प्राक् पश्चात् त्रिभोनलग्नरूपमध्यलग्नस्थानात् पूर्वापरविभागयोः सूर्यचन्द्र-योस्तुल्यं लम्बनं ज्ञेयम्।

अत्रोपपत्तिः- त्रिभोनलग्नार्क विशेषशिज्जिनी कृताहता व्यासदलेन भाजिता। हतात् फलाद्वित्रिभ-लग्नशङ्कुना त्रिजीवयाप्तं घटिकादिलम्बनम्॥

इति सिद्धान्तशिरोमणौ सूक्ष्म लम्बनानयनमुक्तम्। तस्योपपत्तिस्तट्टीकायां सुप्रसिद्धा। मध्यलग्न-स्य त्रिभोनपरत्वेन व्याख्यानान् मध्यलग्नार्कविश्लेषज्या त्रिभोनलग्नार्क विश्लेषशिन्जिनीरूपा जाता। इयं चतुर्गुणा त्रिभोनलग्नशङ्कुरूपदृग्गत्या च गुण्या त्रिज्यावर्गेण भाज्येति लम्बनानयनप्रकारेण सि-द्धम्। तत्र चतुस्त्रिज्यावर्गयोर्गुणहरयोर्गुणापवर्त्तनेन हरस्थान एकोराशिज्यायावर्गः सिद्धः। अत्रापि दृग्गत्येकराशिज्यावर्गो गुणहरौ गुणेनापवर्त्य हरस्थान एकज्यावर्ग इत्यादिना छेद उपपन्नः। हरस्य छेदाभिधानात्। अतो मध्यलग्नार्केत्याद्युक्तमुपपन्नम्। लम्बनघटीभिरुभयोश्चालनंवक्ष्यमाणगणितं आवश्यकमिति सूचनार्थं रवीन्द्वोर्लम्बनमित्युक्तम्। अन्यथा दर्शान्तकाले सूर्यगतभूपृष्ठसूत्राच्चन्द्रक-क्षायां चन्द्रचिह्नस्य तद्द्यीभिर्लम्बितत्वाद्द्वयोरुक्त्यनुपपत्तिः। त्रिभोनलग्नसमेऽर्के लम्बनाभावात् पूर्वा-परविभागे सूर्ये सति लम्बनं भवतीति प्राक् पश्चादित्युक्तम्। अत्रेदमवधेयम्। लम्बनानयने मध्यलग्न-स्य त्रिभोनलग्नेत्यर्थे छेदः पूर्वसाधितसूक्ष्मदृग्गत्या सूक्ष्मो नतांशेत्यादि गृहीतस्थूलदृग्गत्या स्थूल इति। एवं मध्यलग्नेत्यस्य दशमभावार्थे तु विपरीतमिति। एतेन मध्यलग्नेत्यस्य दशमभावार्थः। तत्र प्रयास-साधित सूक्ष्मदृग्गत्या सूक्ष्मं लम्बनम्। नतांशेत्याद्युक्तस्थूलदृग्गत्या स्थूललम्बनमिति। सम्प्रदायि-कोक्तं निरस्तम् युक्त्यभावात्। न चात्र मध्यलग्नरूपदशमभावगृहेऽपि गोलयुक्त्या प्रतिपादनस्य स-त्वात् कथमादित्योक्तं मध्यलग्नमिति पदं सार्वजनीनदशमभावप्रत्यायकं त्रिभोनलग्नपरतया हठाद् व्याख्यातुं युक्तम्। नतांशबाहुकोटिज्ये स्फुटे दृक्क्षेपदृग्गती। इत्यत्र स्फुटे इत्यनेन भगवतस्तदाशय-स् व्यक्तीकृतत्वात् इति वाच्यम्। तथापि गौरवसाधितदृक्क्षेपोक्तिर्भगवदा-शयस्थितत्रिभोनलग्नग्रहणं व्यनक्ति। अन्यथा प्रयाससाधितदृकक्षेपस्य वैयर्थ्यापत्तेरिति सुधियावलोक्यमित्यलं विस्तरेण॥7-8॥


अथ मध्यग्रहणकालज्ञानार्थं तिथौ लम्बनसस्कारं तदसकृत् साध्यमिति चाह –

मध्यलग्नाधिके भानौ तिथ्यन्तात् प्रविशोधयेत्।
धनमूनेऽसकृत् कर्म यावत् सर्वं स्थिरीभवेत्॥9॥

सूर्ये मध्यलग्नंत्रिभोनलग्नंतस्माद् अधिके सति तिथ्यन्ताद्दर्शतिथ्यन्तकालादागतं लम्बनं शोधयेत्। सूर्ये त्रिभोनलग्नान्न्यूने सति तिथ्यन्तकाले लम्बनं धनं युतं कार्यम्। एवं कर्म गणितमसकृन्मुहुः का-र्यम्। अयमर्थः। तिथ्यन्तकालिकः सूर्यो लम्बनघटीभिः क्रमेण पूर्वाग्रिमकाले चाल्पो लम्बनसंस्कृत-तिथ्यन्तेऽर्को भवति। तस्माल्लम्बनसंस्कृततिथ्यन्तकाले लग्नदशमभावौ प्रसाध्य पूर्वोक्तरीत्या लम्बनं साध्यम्। इदमपि केवलं तिथ्यन्ते संस्कार्योक्तरीत्या लम्बनंकेवलं तिथ्यन्ते संस्कार्यम्। अस्मादपि लम्बनं तिथ्यन्ते संस्कार्यमिति असकृदिति। गणितावधिमाह। यावदिति। सर्वं गणितं लम्बनादि याव-त् यत्परिवर्तावधिस्थिरीभवेत्। अविलक्षणं यावदविशेष इत्यर्थः। अत्रोपपत्तिः। दर्शान्तकाले रविगत-भूपृष्ठसूत्रात्चन्द्रस्याधोलम्बितत्वेनत्रिभोनलग्नादूनेरवौ क्रान्तिवृत्ते पूर्वापरान्तराभावेनैकसूत्रस्थित-त्वरूपयुतिर्दर्शान्तकालाल्लम्बनकालेनाग्रेभवति।शीघ्रग-चन्द्रस्य मन्दगरवितःपृष्ठे स्थितत्वात्। अ-धिके रवौ चन्द्रस्य पुरःस्थितत्वेन दर्शान्तकालाल्लम्बनकालेन पूर्वं युतिर्भवति। अतो दर्शान्तकालो लम्बनसंस्कृतो मध्यग्रहणकालः स्यात्। युतिकालस्य मध्यग्रहणकालत्वात्। परन्तु तावता लम्बनका-लेन सूर्यस्यापि क्रान्तिवृत्ते चलनाल्लम्बनसंस्कृतदर्शान्तकाले रविगतभूपृष्ठसूत्राच्चन्द्रस्य लम्बितत्वं स्यादेवेति मध्यग्रहणकालस्तु असिद्धः। न हि सूर्यो धनलम्बनऋणलम्बने चन्द्रश्च लम्बनकाले स्थिरा येन तयोर्युतिः सङ्गता स्यात्। अतस्तादृशकालात् पुनस्तात्कालिकं लम्बनं प्रसाध्य दर्शान्ते पुनः सं-स्कार्यम्। मध्यकालः स्यात्। एवं तादृशलम्बनसंस्कृतदर्शान्तेऽपितयोर्भूपृष्ठसूत्रस्थत्वाभावात् पुनर्ल-म्बनं साध्यम्। तत् संस्कृतो दर्शान्तो मध्यग्रह इत्यसकृद्विधिना यदा लम्बनं पूर्वलम्बनतुल्यं सिध्यति तदावश्यं तादृशलम्बनसंस्कृतदर्शान्तरूपमध्यग्रहणकाले भूपृष्ठसूत्रे तयोः सन्निवेशः। यतस्तदा सूर्य-गतभूपृष्ठ सूत्रचन्द्रयोरअन्तराभावेन पूर्वागतलम्बनतुल्यलम्बनस्य पुनः सिद्धेः। अन्यथा तुल्यलम्बना-नुपपत्तेः। तस्मान्मध्यकालोऽसकृद्यावदविशेषः इत्युपपन्नं मध्यलग्नेत्यादि॥9॥

नतिसाधनम्।

अथ नतिसाधनमाह-

दृक्क्षेपः शीततिग्मांशोर्मध्यभुक्त्यन्तराहतः।
तिथिघ्नस्त्रिज्यया भक्तो लब्धं साऽवनतिर्भवेत्॥10॥

दृक्क्षेपः प्रागानीतः शीततिग्मांशोश्चन्द्रार्कयोर्मध्यगतीकलात्मकेतयोरन्तरेणगुणितया त्रिज्यया भ-क्तः फलं सा देशकालविशेषाभ्यां या गोले सिद्धा भवति सैवात्र गणिते नतिर्भवेत्। अथवा प्रकारान्त-रेण सप्तसप्तकसङ्गुणात् सप्तानां सप्तकं सप्तवारमावृत्तिर्वर्ग एकोनपञ्चाशदित्यर्थः तेन गुणिता-द्दृक्क्षेपात्त्रिज्यया भक्तात् फलं कलादिका नतिः। परमास्तु नतिकलाभूगर्भक्षितिजाद्धूपृष्ठक्षितिज-स्य भूव्यासार्धान्तरेणोच्छ्रितत्वाद्रतियोजननैर्गत्यन्तरकला लभ्यन्ते तदा भूव्यासार्धयोजनैः का इत्यनु-पातेन तत्र मध्यगतियोजनानां भूव्यासार्धस्य च नियतत्वाद्धूव्यासार्धेनापवर्तः कृतः। तेन मध्यगत्य-न्तरकलानां स्वल्पान्तरेण पञ्चदशांशःपरमा नतिकलाः। अतएव षष्टिघटिकानां पञ्चदशांशो घटि-काचतुष्टयं परमं लम्बनं सिद्धम्। अभिस्रिज्रूज्ञत्फल्यदृक्क्षेपे सूर्यशतभूपृष्ठसूत्राच्चन्द्रस्य दक्षिणोत्तरे-णावलम्बनंभवति। अतस्रिज्यातुल्यदृक्क्षेपेसूर्यशतभूपृष्ठसूत्राच्चन्द्रस्यदक्षिणोत्तरेणावलम्बनंभवति। अतसिज्यातुल्यदृक्क्षेपेणकत्यनुपाते गत्यन्तरगुणो दृक्क्षेपो हरघातेन पञ्चदशगुणितत्रिज्यात्मकेन भ-क्तो नतिकला इत्युपपन्नम्॥10॥

अथ प्रकारान्तराभ्यां नतिसाधनं लाघवादाह-

दृक्क्षेपात् सप्ततिहृताद् भवैद्वाऽवनतिः फलम्।
अथ वात्रिज्या भक्तात् सप्त सप्तकसंगुणात्॥11॥

सप्तत्या भक्ताद्दृक्क्षेपात्फलं कलादिका नतिःप्रकारान्तरेण भवेत्। अथवा प्रकारान्तरेण सप्त-सप्तकसंगुणात्सप्तानां सप्तकं सप्तवारमावृर्त्तिर्वर्ग एकोनपञ्चादित्यर्थः। तेन गुणिता दृक्क्षपात्रिज्यया भक्तात्फलं कलादिका नतिः।

अत्रोपपत्तिः- दृक्क्षेपस्य गत्यन्तरकलामित 73।27 गुणकपञ्चदशगुणित त्रिज्यामितहरौ 51570 प्रथमप्रकारे गत्यन्तरापवर्तितौ हरस्थाने सप्ततिः। द्वितीयप्रकारे पञ्चदशभि पवर्त्य गुणस्थाने स्वल्पा-न्तरादेकोनपञ्चाशध्दरस्थाने त्रिज्येत्युपपन्नम्॥11॥

नतिदिग्ज्ञानम्। स्पष्टविक्षेपः।

अथ नतेर्दिग्ज्ञानं स्पष्टविक्षेप च आह-

मध्यज्यादिग्वशात् सा च विज्ञेया दक्षिणोत्तरा।
सेन्दुविक्षेपदिक्साम्ये युक्ता विश्लेषिताऽन्यथा॥12॥

सावनतिर्मध्यज्याया दिगनुरोधाद्दक्षिणोत्तरा मध्यज्या चेद्दक्षिणा तदा नतिरपि दक्षिणा चेदुत्तरा त-दोत्तरा ज्ञेया। चः समुच्चये। तेन मध्यज्या नतांशदिक्केति। सा दक्षिणोत्तरा नतिश्चन्द्रविक्षेपदिक्सम-त्वे। तयोरेकदिक्त्वे इत्यर्थः। युक्ता विक्षेपेण युतेत्यर्थः। अन्यथा तयोर्भिन्नदिक्त्वेविक्षेपेणान्तरिता शे-षदिक्का विक्षेपसंस्कृता नतिः स्पष्टशररूपा स्यात्। अत्र चन्द्रविक्षेपो मध्यग्रहणाकालिक इति ध्येय-म्। अत्रोपपत्तिः- नतांशदिक्कमध्यज्यावशाद्दृक्क्षेपस्योत्पन्नत्वात् तदुत्पन्ननतेस्तद्दिक्त्वं युक्तमेव। अथ रविगतभूपृष्टसूत्राच्चन्द्राकाशगोले क्रान्तिवृत्तावध याम्योत्तरान्तरस्य नतित्वात् क्रान्तिमण्डलाच्च-न्द्रविंम्बावधि विक्षेपत्वाद्रविगतभूपृष्ठसूत्राच्चन्द्रविबावधि याम्योत्तरान्तरस्य सूर्यग्रहणोपयुक्तनतिसं-स्कृतविक्षेपरूपस्पष्टविक्षेपत्वाद्द्वयोरेकदिशि योगो भिन्नदिश्यन्तरमित्युपपन्नम्॥12॥

अथ चन्द्रग्रहणाधिकारोक्तमत्र अतिदिशति-

तया स्थितिविमर्दार्थग्रासाद्यं तु यथोदितम्।
प्रमाणं बलनाभीष्टग्रासादि हिमरश्मिवत्॥13॥

तया विक्षेपसंस्कृतया नत्या स्पष्टविक्षेपरूपया इत्यर्थः। स्थित्यर्द्ध-विमर्दार्द्धग्रासाः। आद्यशब्दात् स्पर्शमोक्षसम्मीलनोन्मीलनं यथोदितंचन्द्रग्रहणे यथोक्तं तथा। तुकारस्तदतिरिक्तरीतिव्यवच्छेदार्थ-कैवकारपरः। प्रमाणंमतमित्यर्थः। अवशिष्टमप्याह। वलनेत्यादि।वलनाभीष्टग्रासः। आदिशब्दादि-ष्टग्रासादिष्टिकालानयनम्।हिमरश्मिवच्चन्द्रग्रहणोक्तरीत्या कार्यमित्यर्थः। अत्रोपपत्तिः अविशेष एव॥13॥

स्थित्यर्धम्। विमर्दार्धम्।

अथ स्थित्यर्धविमर्दार्धे च विशेषं श्लोकच्चतुष्टयेन आह –

स्थित्यर्धोनाधिकात् प्राग्वत् तिथ्यन्ताल्लम्बनं पुनः।

ग्रासमोक्षोद्भवं साध्यं तन्मध्यहरिजान्तरम्॥14॥

प्राक्कपालेऽधिकं मध्याद् भवेत् प्राग्रहणं यदि।

मौक्षिकं लम्बनं हीनं, पश्चार्थे तु विपर्ययः॥15॥

तदा मोक्षस्थितिदले देयं प्राग्ग्रहणे तथा।
हरिजान्तरकं शोध्यं यत्रैतत् स्याद् विपर्ययः॥16॥
एतदुक्तं कपालैक्ये तद्भेदे लम्बनैकता।

स्वे स्वेस्थितिदले योज्या विमर्दार्धेऽपि चोक्तवत्॥17॥

चन्द्रग्रहणाधिकारोक्तप्रकारेण असकृत् साधितं स्पर्शस्थित्यर्द्धं मोक्षस्थित्यर्द्धं च।तद्यथा। मध्यग्र-हणकालिकस्पष्टशरादुक्तरीत्या स्थित्यर्द्धघटिकाः ताभिःतिथ्यन्तकालिकग्रहाः। स्पर्शस्थित्यर्द्धनि-मित्तं पूर्वं चाल्याः। मोक्षस्थित्यर्द्धनिमित्तमग्रे चाल्याः। तत्कालयोः प्रत्येकं नतिशरौ प्रसाध्य स्पष्टशरः साध्यः। ततः प्रथमकालिकस्पष्टशरात् स्थित्यर्द्धमनेन पूर्वं तिथ्यन्तकालिकग्रहान् प्रचाल्योक्तरीत्या स्पष्टशरं प्रसाध्य स्थित्यर्द्धं साध्यम्। एवमसकृत्स्पर्शस्थित्यर्द्धम्। एवमेव द्वितीयकालिकस्पष्टशरात् स्थित्यर्द्धमनेनाग्रे तिथ्यन्तकालिकग्रहान् प्रचाल्योक्तरीत्या स्पष्टशरं प्रसाध्य स्थित्यर्द्धं साध्यम्। एवम-सकृन्मोक्षस्थित्यर्द्धमिति। अथाभ्यां स्पर्शमोक्षस्थित्यर्द्धाभ्यां क्रमेण हीनयुताद्दर्शान्तकालात्तु प्राग्वदु-क्तरीत्या लम्बनं पुनरसकृद् ग्रासमोक्षोद्भवं स्पर्शमोक्षकालिकं कार्यम्। तथाहि। स्पर्शस्थित्यर्द्धहीना-त् तिथ्यन्तात् तात्कालिकसूर्याल्लग्नदशमभावौ प्रसाध्योक्तरीत्या लम्बनं साध्यम्। तेन स्पर्शस्थित्य-र्द्धोनतिथ्यन्तं संस्कृत्य अस्मालम्बनमनेनापि स्पर्शस्थित्यर्द्धोनतिथ्यन्तं संस्कृत्यास्माल्लम्बनमेवमस-कृत् स्पर्शकालिकं लम्बनम्। एवमेव मोक्षस्थित्यर्द्धयुतात् तात्कालिकसूर्याल्लग्नदशमभावौ प्रसाध्यो-क्तरीत्या लम्बनं साध्यम्। तेन मोक्षस्थित्यर्द्धयुततिथ्यन्तं संस्कृत्यास्माल्लम्बनमानेनापि मोक्षस्थित्य-र्द्धयुततिथ्यन्तं संस्कृत्यास्माल्लम्बनमेवमसकृन्मोक्षकालिकं लम्बनमिति। प्राक्कपाले त्रिभोनलग्नात् पूर्वभागे त्रिभोनलग्नाधिके रवौ मध्यान्मध्यकालिकादग्रोक्तलम्बनस्य विभक्तिविपरिणामादन्वयेन ल-म्बनात् प्राग्ग्रहणं प्रग्रहणं स्पर्शःस्पर्शकालिकम्। अत्रापि लम्बनमित्यस्यान्वयः। लम्बनं चेदधिकं स्यात्। मौक्षिकं मोक्षकालसम्बन्धिलम्बनं न्यूनं स्यात्। पश्चार्द्धे त्रिभोनलग्नात्पश्चिमभागे त्रिभोनलग्नादी-ने रवौ। तुकारः समुच्चयार्थकचकारपरः। विपर्य्यय उक्तवैपरीत्यम्। मध्यकालिकलम्बनात् स्पर्श-कालिकं लम्बनं न्यूनं मोक्षकालिकं लम्बनमधिकमित्यर्थः। तदा तर्हि तन्मध्यहरिजान्तरम्। तयोः स्प-र्श मोक्षकालिकलम्बनेन प्रत्येकमन्तरं मोक्षस्थित्यर्दे योज्यम्। प्राग्ग्रहणे स्पर्शस्थित्यर्द्धे तथा देयम्। मोक्षमध्यकालिकलम्बनयोरन्तरं मोक्षस्थित्यर्द्धे योज्यम्। स्पर्शमध्यकालिकलम्बनयारन्तरं स्पर्शस्थि-त्यर्द्धे योज्यमित्यर्थः। यत्र यस्मिन् कालेविपर्यय उक्तवैपरीत्यं प्राक्कपाले मध्यकालिकलम्बनात् स्पर्शकालिकलम्बनं न्यूनंमोक्षकालिकलम्बनमधिकंपश्चिमकपाले तु मध्यकालिकलम्बनात् स्पर्श-कालिकलम्बनमधिकं मोक्षकालिकलम्बनं न्यूनं भवतीत्यर्थः। तत्रैतन्मोक्षस्पर्शमध्यकालिकं हरिजान्तरकं लम्बनान्तरं मोक्षस्थित्यर्द्धे- मध्यमोक्षकालिकलम्बन-योरन्तरं स्पर्शस्थित्यर्द्धे मध्यस्पर्शकालि-कलम्बनयोरन्तरमित्यर्थः। शोध्यं हीनं कुर्यात्। एतत्लम्बनान्तरं योज्यं शोध्यं वा कपालैक्ये द्वयोः स्पर्शमध्ययो र्मध्यमोक्षयोर्वैककपाले स्वस्वकालिकत्रिभोनलग्नात् स्वस्वकालिकसूर्य उभयत्राधिके न्यूने वा इत्यर्थः। उक्तं कथितम्। तद्भेदे तयोः स्पर्शमध्यमयोर्मध्यमोक्षयोश्च भेदे कपालभेदे स्पर्श-कालिकत्रिभोन-लग्नात्तात्कालिकसूर्यस्याधिक्येमध्यकालिकत्रिभोनलग्नात् तात्कालिकार्कस्य न्यूनत्वे मध्यकालिकत्रिभोनलग्नात् तात्कालिकार्कस्याधिकत्वे मोक्षकालिकत्रिभोनलग्नात् तात्कालिकार्कस्य न्यूनत्व इत्यर्थः। लम्बनैकता लम्बनैक्यम्। स्पर्शमध्ययोर्भेदे तात्कालिकलम्बनयोर्योगः मध्यमोक्षयो-र्भेदात् तात्कालिकलम्बनयोर्योग इत्यर्थः। स्वकीये स्वकीये स्थित्यर्द्धेसंयुक्ता कार्या। स्पर्शस्थित्यर्द्धे स्पर्शमध्यकालिकलम्बनयोर्योगो योज्यः। मोक्षस्थित्यर्द्धे मोक्षमध्यकालिकलम्बनयोर्योगो योज्य इत्य-र्थः। स्पर्शस्थित्यर्द्धं मोक्षस्थित्यर्द्धं च स्फुटंभवति। आभ्यां चन्द्रग्रहणोक्तदिशा मध्यग्रहणकालात् पू-र्वमपरत्र क्रमेण स्पर्शमोक्षकालौ स्त इत्यर्थसिद्धम्। अथोक्तरीत्या विमर्दार्द्धेऽपि स्पष्टत्वमतिदिशति विमर्दार्द्ध इति। स्पर्शमर्दार्द्धे मोक्षमर्दार्धे चन्द्रग्रहणाधिकारोक्तरीत्या स्पष्टशरेण सकृत् साधिते उ-क्तव॥ स्थित्यर्धेनाधिकात् प्राग्वत् तिथ्यन्ताल्लम्बनं पुनः। इत्याद्युक्तरीत्या स्थित्यर्धस्थाने ग्रासमो-क्षोद्भवमित्यत्र सम्मीलनोन्मीलनोद्भवमिति ग्रहणेन प्राग्ग्रहणमित्यत्र सम्मीलनग्रहणेनमौक्षिकमित्य-त्रोन्मीलनग्रहणेन स्फुटेसाध्ये। अपिः समुच्चये। चकारात् ताभ्यां सम्मीलनोन्मीलनकालौ मध्यग्रहण-कालात् पूर्ववत् साध्यावित्यर्थः। अत्रोपपत्तिः- स्थित्यर्द्धोनयुतो मध्यग्रहणकालः स्पर्शमोक्षकालः म-ध्यकालिकलम्बनसंस्कारात् स्पर्शमोक्षकालिकलम्बनसंस्कारस्य अपेक्षितत्वाच्च। न हि यः कालो लम्बनसंस्कृतः स्फुटःस त्वभिन्नकालिकलम्बनसंस्कृतः स्फुटःस्यात् सम्बन्धाभावात्। पूर्वं स्पर्शमो-क्षकालयोरज्ञानात् तात्कालिकलम्बनज्ञानाभावाच्च। अतो मध्यकालज्ञानार्थं यथा तिथ्यान्तादसकृल्ल-म्बनं तिथ्यन्तेसंस्कृत्यमध्यकालस्तथास्पर्शमोक्षस्थित्यर्धहीनयुक्ततिथ्यन्तकालाभ्यां स्पर्शमोक्षति-थ्यन्तरूपाभ्यां प्रत्येकं लम्बनमसकृत् प्रसाध्य स्वस्वतिथ्यन्ते संस्कृत्य स्पर्शमोक्षकालौ स्फुटौ तन्म-ध्यकालयोरन्तरं स्फुटंस्थित्यर्द्धम्। तत्रर्णलम्बनेन स्पर्शमध्यमोक्षोत्पत्तौ यदामध्यलम्बनादधिकं स्प-र्शलम्बनं मोक्षलम्बनं च न्यूनं तदा स्पर्शस्थित्यर्द्धानतिथ्यन्तस्याधिकलम्बनोनितस्य स्पर्शकालत्वान् न्यूनलम्बनोनितस्यतिथ्यन्तस्य मध्यकालत्वात्तयोरन्तरे तिथेः समत्वेन नाशात् स्पर्शस्थित्यर्द्धं स्पर्श-कालिकलम्बनेन हीनमितिलम्बनयोरन्तरं तत्र धनं योज्यम्। एवं मोक्षस्थित्यर्द्धयुततिथ्यन्तस्य न्यून-लम्बनोनितस्य मोक्षकालत्वान्मध्यमोक्षकालयोरन्तरे पूर्वरीत्या मध्यमोक्षकालिकयोर्लम्बनयोन्तरं धनं मोक्षस्थित्यर्द्धे योज्यम्। यदा तु मध्यलम्बनादीनं स्पर्शलम्बनं मोक्षलम्बनं चाधिकं तदा न्यूनलम्बही-नस्य स्पर्शकालत्वादधिकं लम्बनम् स्पर्शस्थित्यर्द्धे हीनस्य मध्यकालत्वादुक्तरीत्या तदन्तरे स्पर्श-स्थित्यर्धयुतं मध्यकालिकसम्भवेन लम्बनान्तरं हीनम्। एवमधिकलम्बनहीनस्य मोक्षकालत्वात् म-ध्यमोक्षयोः अन्तरे मोक्षस्थित्यर्द्धे लम्बनान्तरं हीनम्। धनलम्बनेन स्पर्शमध्यमोक्षोत्पत्तौ तु यदा मध्य-लम्बनान्यूनं स्पर्शलम्बनं मोक्षलम्बनं चाधिकं तदा स्पर्शस्थित्यर्द्धानतिथ्यन्तस्य न्यूनलम्बनाधिकस्य स्पर्शकालत्वादधिकलम्बनाधिकस्य तिथ्यन्तस्य मध्यकालत्वात् तयोरन्तरे लम्बनान्तरं स्पर्शस्थित्यर्द्धे योज्यम्। एवं मोक्षस्थित्यर्द्धयुततिथ्यन्तस्य अधिकलम्बनाधिकस्यमोक्षकालत्वान्मध्यमोक्षयोरन्तरे ल-म्बनान्तरं मोक्षस्थित्यर्द्धे पूर्वरीत्या योज्यम्। यदा तु मध्यलम्बनादधिकं स्पर्शलम्बनं मोक्षलम्बनं च न्यूनं तदाप्यधिकलम्बनाधिकस्य स्पर्शकालत्वाद्धीनलम्बनाधिकस्य मध्यकालत्वात् तयोरन्तरमुक्त-रीत्या स्पर्शस्थित्यर्द्धे लम्बनान्तरं हीनम्। एवं न्यूनलम्बनाकिस्यमोक्षकालत्वात् तन्मध्यकालान्तरे मोक्षस्थित्यर्द्धे लम्बनान्तरं हीनमिति सिद्धम्। नन्वयं लम्बनान्तरहीनपक्षो न सङ्गतः। वाधात्। तथाहि ऋणलम्बनस्य क्रमेणापचयात् स्पर्शमध्यमोक्षकालानां यथोत्तरं सम्भवाच्च मध्यकालिकलम्बनात् स्पर्शमोक्षकालिक लम्बनयोःक्रमेण न्यूनाधिकत्वमसिद्धम्। एवं धनलम्बनस्य क्रमेणोपचयान्मध्यल-म्बनात् स्पर्शमोक्षकालिकलम्बनयोः क्रमेणाधिकन्यूनत्वमसिद्धम्। न हि कदाचिन्मध्यकालात् स्पर्श-मोक्षकालौ क्रमेणाग्रिमपूर्वकालयोः सम्भवतो येनोक्तं युक्तम्। बाधात्। तथा च लम्बनान्तरं योज्य-मित्यैको पपन्नत्वे महतैतावता प्रपञ्चेन। “हरिजान्तरकं शोध्यं यत्रैतत् स्याद्विपर्ययः।“ इति सर्वज्ञभग-वदुक्तं कथं निर्वहतीति चेत। मैवम्। लम्बनसंस्कृतस्पर्शमोक्षकालयोः स्फुटयोर्वस्तुभूतयोःसर्वदा मध्यकालात् क्रमेण पूर्वोत्तरावश्यम्भावित्वेऽपि लम्बनासंस्कृतयोः स्थित्यर्द्धानयुततिथ्यन्तरूपस्पर्श-मोक्षकालयोः पारिभाषिकत्वेनावास्तवयोः कदाचित्मध्यकालर्णधनलम्बनाभ्यां स्पर्शस्थित्यर्द्धमोक्ष-स्थित्यर्द्धयोः क्रमेण न्यूनत्वे मध्यकालादग्रिमपूर्वकालयोः क्रमेण सम्भवात् स्फुटोनिर्वाहः। परन्तु ऋणलम्बने धनलम्बने च मध्यलम्बनात् क्रमेण मोक्षस्पर्शलम्बनयोरधिकत्वासम्भवः। मध्यकालात् पूर्वाग्रिमकालयोः मोक्षस्पर्शयोःपारिभाषिकयोः क्रमेणासम्भवात्। अतः साक्षात् कण्ठोक्तेरभावाद् विपर्यय इत्यनेन विपर्यय विशेषस्यैव विवक्षितत्वम्। पूर्वं तु साधारण्याच्छब्दस्य साधारण्येन व्या-ख्यानं कृतमित्यदोषः। ननु तथाप्यसकृल्लम्बनसाधने लम्बनस्य स्पष्टस्पर्शमोक्षकालाभ्यां सिद्धत्वेन-र्णलम्बनात् स्पर्शलम्बनं न्यूनं भवत्येव। धनलम्बने मोक्षलम्बनं न्यूनं न भवत्येव। मध्यकालाद वास्त-वस्पर्शमोक्षकालयोः क्रमेणाग्रिमपूर्वकालयोः क्रमेणाग्रिमपूर्वकालयोरसम्भवनिर्णयात्।अन्यथा स्थि-रलम्बनासम्भवात्।किञ्चासकृल्लम्बनसाधनेन यत्कालात् स्थिरलम्बनं सिद्धं तत्कालस्य सूक्ष्मस्पर्श-मोक्षकालत्वात् स्फुटस्थित्यर्द्धसाधनं व्यर्थम्। तस्य तज्ज्ञानार्थमेवावश्यकत्वात्। न च चन्द्रग्रह-णरीत्या स्पर्शमोक्षकालयोर्ज्ञानार्थं स्फुटस्थित्यर्द्धोक्तिरिति वाच्यम्। गौरवाद्व्यर्थत्वाद्धरिजान्तरकं शो-ध्यमित्यस्यानुपपत्तेश्चइति चेन्न।लम्बनयोरसकृत्साधनस्यानङ्गीकारात् सकृत्साधितलम्बनस्य सान्त-रत्वेऽपि भगवतास्वल्पान्तरेणाङ्गीकाराच्च। अत एव लम्बनं पुनरित्यत्र पुनरित्यस्य व्याख्यानं सकृ-दिति पूर्वमुक्तं न युक्तम्। किन्तु मध्यकालार्थं लम्बनस्य साधनात् स्पर्शमोक्षकालार्थमपि द्वितीयवारं लम्बनं साध्यमिति व्याख्यानम्। पुनरिति वाक्यालङ्करणं वा युक्ततरमिति। अथ यदा स्थूलस्पर्शका-लर्णलम्बने धनलम्बने च मध्यकालस्तदा स्पर्शस्थित्यर्द्धानतिथ्यन्तस्य लम्बनहीनस्य स्पर्शकालत्वा-ल्लम्बनाधिकतिथेर्मध्यकालत्वात् तदन्तरे स्पर्शस्थित्यर्द्धं तात्कालिकलम्बनयोर्गोगेन युक्तमित्युक्त-रीत्योपपद्यते। एवं यदा मध्यकालर्णलम्बने स्थूलमोक्षकालश्च धनलम्बने तदा लम्बनहीनतिथ्यन्तस्य मध्यकालत्वात् मोक्षस्थित्यर्द्धयुततिथ्यन्तस्य लम्बनाधिकस्य मोक्षकालत्वात् तदन्तरे मोक्षस्थित्यर्द्धं लम्बनयोगयुक्तमित्युपपन्नं न च असकृल्लम्बनसाधनेन सूक्ष्मस्पर्शमोक्षयोः सिद्धौ सकृल्लम्बनाङ्गी-कारेणोक्तरीतेः सान्तरत्वात् कथं भगवतः सर्वज्ञस्यास्यां रीत्यामभिनिवेश इति वाच्यम्। असकृल्ल-म्बनसाधने प्रयासाधिक्यभयाद्भगवता सर्वज्ञेन स्वल्पान्तराङ्गीकाराल्लाघवाच्च चन्द्रग्रहणोक्तरीत्यानु-गमार्थंस्फुटस्थित्यर्द्धसाधनस्यैवोक्तेरिति दिक्। वस्तुतस्तु सूर्योदयाद्यत्र प्राक् स्पर्शोऽनन्तरं मध्य-कालस्तदा मध्यलम्बनात् स्पर्शलम्बनं सत्रिभलग्नचतुर्थभावसाधितं कदाचिन्यूनं भवति। यत्र चोदयात् पूर्वं मध्यःपरतो मोक्षस्तत्र कदाचित् सत्रिभलग्नचतुर्भावानीतमध्यकाल लम्बनान्मोक्षकाललम्बनम-धिकं भवति। यत्र चास्तात् पूर्वं स्पर्शः परतो मध्यस्तदा मध्यकाललम्बनाद् रात्रिसम्बन्धात् स्पर्शका-ललम्बनं कदाचिदधिकंभवति। यत्र चास्तात् पूर्वं मध्यकालः परतो मोक्षस्तदापि मध्यकाललम्बना-न्मोक्षकाललम्बनं रात्रिसम्बद्धं न्यूनं न भवति। कदाचिदिति। ग्रस्तोदयग्रस्तास्तयोः कदाचिद्विपर्यस-म्भवाहरिजान्तरकं शोध्यमित्यस्य नाप्रसिद्धिः। एतेन लम्बनमस कृन्न साध्यं विपर्यय इति विपर्ययवि-शेष इति चोक्तं समाधानं निरस्तमिति। तत्त्वम्। विमर्दार्द्धेऽप्युक्तरीतिस्तुल्येति सर्वमुपपन्नम्। भा-स्कराचार्यैस्तु। तिथ्यन्ताद्गगणितागतात् स्थितिदलेनोनाधिकाल्लम्बनं तत्कालोत्थनतीषु संस्कृतिभव-स्थित्यर्द्धहीनाधिके। दर्शान्ते गणितागते धनमृणं यद्वा विधायासकृत् ज्ञेयौप्रग्रहमोक्षसंज्ञसमयावेवं क्रमात् प्रस्फुटौ॥
तन्मध्यकालान्तरयोःसमाने स्पष्टे भवेतां स्थितिखण्डके च। दर्शान्ततो मर्ददलोनयुक्तात् स्म्मीलनोन्मीलनकाल एवम्। इत्यनेन भगवदुक्तादतिसूक्ष्ममुक्तमित्यलं पल्लवितेन॥14-17॥

अथ अग्रिमग्रन्थस्यासङ्गतित्वनिरासार्थमधिकारसमाप्तिं फक्किकया आह।

इति सूर्यग्रहणाधिकारः। इति स्पष्टम्। रङ्गनाथेन रचिते सूर्यसिद्धान्तटिप्पणे। सूर्यग्रहणाधिकारोऽ-यं पूर्णो गूढप्रकाशके॥ इति श्रीसकलगणकसार्वभौमबल्लालदैवज्ञात्मजरङ्गनाथगणकविरचिते गूढा-र्थप्रकाशके सूर्यग्रहणाधिकारः सम्पूर्णः।

इति पञ्चमोऽध्यायः समाप्तः।

अथ छेद्यकाधिकारः- 6

परिलेखप्रयोजनम्।

अथ परिलेखाधिकारी व्याख्यायते। तत्र तं सप्रयोजनं प्रतिजानीते–

न छेद्यकमृते यस्माद् भेदा ग्रहणयोः स्फुटाः।
ज्ञायन्ते तत् प्रवक्ष्यामि च्छेद्यकज्ञानमुत्तमम्॥1॥

यस्मात् कारणात् ग्रहणयोश्चन्द्रसूर्यग्रहणयोः।द्विवचनेन ग्रहणत्वेनपूर्वाधिकारयोरेकाधिकारत्वं निरस्तम्। भेदाः कस्यां दिशि स्पर्शमोक्षौ सम्मीलनोन्मीलने ग्रस्तोऽशःकियानित्यादिभेदाः। स्फुटा गोलस्थिति सिद्धा वास्तवाः। छेद्यकं गोलस्थितिप्रदर्शकः कल्पितः प्रकारश्छेद्यकपदवाच्यस्तम्। ऋ-ते विना। छेद्यकव्यतिरेकेणेत्यर्थः। न ज्ञायन्ते तत् तस्मात् कारणात्। ग्रहणभेदज्ञानार्थमित्यर्थः। उत्तमं सूक्ष्मं तद्भेदज्ञानसाधकं छेद्यकज्ञानम्। ज्ञायतेऽनेनेति ज्ञानं परिलेखसाधकग्रन्थं सूर्यांशपुरुषोऽहं प्रवक्ष्यामि कथयामि॥1॥

वलनम्।
तत्र प्रथमं वलनवृत्तं लिखेदित्याह –

सुसाधितायामवनौ बिन्दुं कृत्वा ततो लिखेत्।
सप्तवर्गाङ्गुलेनादौ मण्डलं वलनाश्रितम्॥2॥

आदौ प्रथमं सुसाधितायां जलवत् समीकृतायामवनौ पृथिव्यामभीष्टस्थाने विन्दुं वृत्तमध्यज्ञापकचि-ह्नं कृत्वा ततश्चिह्नात् सप्तवर्गांगुलेनैकोनपञ्चाशदङ्गुलमितेन व्यासार्द्धेन वृत्तं वलनाश्रितं प्रागुक्त-स्फुटवलनमाश्रितं यत्र वलनाश्रयीभूतं वलनदानार्थं वृत्तमित्यर्थः। लिखेद्ग्रहणभेदज्ञानेच्छुर्गणक उ-ल्लिखेत्। अत्रोपपत्तिः प्रागुक्ता॥2॥

अथ द्वितीयतृतीयवृत्ते आह-

ग्राह्य-ग्राह्यकयोगार्धसम्मितेनाद्वितीयकम्।
मण्डलं तत्समासाख्यं ग्राह्यार्धेन तृतीयकम्॥3॥

ग्राह्यग्राहकविम्बमानाङ्गुलयोर्योगार्द्धमितेनाङ्गुलात्मकव्यासार्द्धेन द्वितीयमेेवद्वितीयकं द्वितीय-वृत्तं लिखेत्।तद्वृत्तं समाससंज्ञं योगोत्पन्नत्वात्। तृतीयकं वृत्तं ग्राह्यविम्बाङ्गुलार्द्धमितेन व्यासार्द्धन लिखेत्। अत्रोपपत्तिः। ग्रहणे शरस्य मानैक्यखण्डन्यूनत्वाद्विक्षेपोमानैक्यखण्डवृत्त इति। विक्षेपदाना-र्थं मानैक्यखण्डवृत्तलेखनम्। तत् परिधिकेन्द्रग्राहकार्द्धव्यासार्द्धवृत्तेन ग्राह्यवृत्तेऽवश्यं योगात् समा-ससंज्ञम्। ग्राह्यवृत्तं तु ग्रहणभेदज्ञानार्थमित्युपयुक्तम्। न हि तद्वृत्तं विना तद्भेदज्ञानं सम्भवति॥3॥


अथ तद्वृत्तेषु दिक्साधनातिदेशं स्पर्शमोक्षबलनदानार्थं स्पर्शमोक्षनियमं चाह –

याम्योत्तरा-प्राच्यपरा-साधनं पूर्ववत् दिशाम्।
प्रागिन्दोर्ग्रहणे पश्चान्मोक्षोऽर्कस्य विपर्य्यात॥4॥

दिशामष्टदिशां मध्ये याम्योत्तरा प्राच्यपरासाधनं पूर्ववत्। शिलातलेऽम्बुसंशुद्ध इत्यादित्रिप्रश्नाधि-कारोक्तरीत्या कार्यम्। तथाहि।द्वादशाङ्गुलशङ्कोः मध्यकेन्द्रस्थापितस्याद्यवृत्ते पूर्वाह्णे छायाप्रवेशो-ऽपराह्णे छायानिर्गमस्तचिह्नाभ्यां मत्स्यमुत्पाद्य रेखायाम्योत्तरा सा वृत्तबाह्येऽधिका सम्मार्जनीया। त-दितरभागो वृत्तमध्ये पूरणी या वृत्ते याम्योत्तरा रेखा भवति। तदग्रमत्स्यात् पूर्वापरा रेखा सोभयतो वृत्तवाह्ये सम्मार्जनीया। सा वृत्ते पूर्वापरा रेखा भवतीति। चन्द्रस्य पूर्वदिशि ग्रहणं ग्रहणारम्भः स्पर्श इति यावत्। पश्चिमदिशि मोक्षो ग्रहणान्तः। अर्कस्य विपर्ययात् स्पर्शमुक्तौ ज्ञेयौ। ग्रहणादिरूपस्पर्शः पश्चिमायां ग्रहणान्तरूपमोक्षः प्राच्यामित्यर्थः। अत्रोपपत्तिः- वृत्ते दिक्साधनेन दिशः सममण्डलीया-ङ्किताः। एतच्चिह्नाद्वलनान्तरेण क्रान्तिवृत्तदिशां सत्त्वात्। तत्र स्पर्शमोक्षदिङ्नियमार्थं क्रान्तिवृत्तप्रा-च्यपरानुसारेण चन्द्रसूर्ययोः स्पर्शमोक्षौ निर्णेयौ। ग्रहभोगस्य तद्वृत्तानुसारित्वात्। शीघ्रगश्चन्द्रः सूर्य-षड्भान्तरितभूच्छायां सूर्यगत्यनुरुद्धगमनां इति पश्चादागत्य मेलनारम्भं करोत्यतश्चन्द्रविम्बस्य पूर्व-भागे स्पर्शः। भूभामतिक्रम्याग्रे चन्द्रो यदा गच्छति तदा चन्द्रस्य पश्चाद्भागे भूभावियोगोऽतः पश्चान्त-मोक्षः। सूर्यं चन्द्रः पश्चादागत्याच्छादयत्यतः सूर्यस्य पश्चिमभागे स्पर्शः पूर्वभागे मोक्ष इति॥4॥

वलनदानम्।
अथ वलनवृत्ते वलनदानमाह-

यथादिशं प्राग्रहणं वलनं हिमदीधितेः।
मौक्षिकं तु विपर्यस्तं, विपरीतमिदं रवेः॥5॥

चन्द्रस्य ग्राह्यस्य स्पार्शिकं वलनं पूर्वचिह्नाद्यथादिशं दक्षिणं चेत् दक्षिणाभिमुखमुत्तरं चेदुत्तराभिमु-खं पूर्वापरसूत्रादर्द्धज्यावद्वलनाश्रितवृत्ते देयम्। अतएव तद्वृत्तं वलनाश्रितसंज्ञम्। मौक्षिकं मोक्षका-लिकं तुकाराच्चन्द्रस्य वलनम्। विपर्यस्तं विपरीतं पश्चिमचिह्नात् पूर्वापरसूत्रादर्द्धज्यावद् दक्षिणं चेदु-त्तरदिगभिमुखमुत्तरं चेद्दक्षिणदिगभिमुखं देयमित्यर्थः। सूर्यग्रहणे विशेषमाह। विपरीतमिति। सूर्यस्य ग्राह्यस्येदं स्पार्शिकं मौक्षिकं वलनं विपरीतं व्यस्तम्। मौक्षिकं वलनं पूर्वचिह्नात् पूर्वापरसूत्रार्द्धज्याव-द्दक्षिणं चेद्दक्षिणदिगभिमुखमुत्तरं चेदुत्तरदिगभिमुखं स्पार्शिकं वलनं पश्चिमचिह्नात् पूर्वापरसूत्रादर्द्ध-ज्यावद्दक्षिणं चेदुत्तरदिगभिमुखमुत्तरं चेद्दक्षिणदिगभिमुखं देयमित्यर्थः। अत्रोपपत्तिः। चन्द्रस्य पूर्व-भागे स्पर्श इति सममण्डलपूर्वचिह्नाद्वलनान्तरेण स्पर्श इति तद्वृत्ते यथासं स्पार्शिकं वलनं देयम्। पश्चिमोत्तराभिमुखस्य दक्षिणत्वाद्दक्षिणाभिमुखस्योत्तरत्वान्मौक्षिकं वलनं पश्चिमचिह्नाद्विपरीतंदेयम्। सूर्यस्य तु पश्चिमभागे स्पर्शात् पश्चिमचिह्नात् स्पार्शिकं वलनं व्यस्तं देयम्। पूर्वभागे मोक्ष इति मौक्षि-कंवलनं पूर्वचिह्नाद् यथांशं देयमिति॥5॥

स्पार्शिकमौक्षिकविक्षेपदानम्।
अथ द्वितीयवृत्ते स्पार्शिकमौक्षिकविक्षेपयोर्दानमाह –

वलनाग्रान्नयेन्मध्यं सूत्रं तद् यत्र संस्पृशेत्।
तत्समासे ततो देयौविक्षेपौ ग्रासमौक्षिकौ॥6॥

प्रथमवृत्ते यत्र स्पार्शिकवलनाग्रं यत्र च मौक्षिकवलनाग्रं ज्ञातं तस्माद्यत् प्रत्येकं सूत्रं रेखामित्यर्थः। मध्यं वृत्तमध्यविन्दुं केन्द्ररूपं प्रति नयेत्। तद्रेखात्मकं सूत्रं समासे समासाख्यद्वितीयवृत्तपरिधौ यत्र यस्मिन् प्रदेशे संस्पृशेत् स्पर्शं कुर्यात् ततस्तत्सूत्रादवधिरूपात् समासवृत्तेऽर्द्धज्यावद्यथादिशं स्पा-र्शिकमौक्षिकौविक्षेपौयथायोग्यं देयौ। अत्रोपपत्तिः- वलनाग्रसूत्रं मानैक्यखण्डवृत्ते यत्र लग्नं तत्र का-न्तिवृत्तप्राच्यपरा वा ततः सूर्याच्चन्द्रस्य विक्षेपान्तरेण सत्वात् समासवृत्ते वलनाग्रसूत्राद्विक्षेपो देयो ग्रा-हकविम्बकेन्द्रज्ञानार्थम्। परं सूर्यग्रहणे। चन्द्रग्रहणे तु चन्द्रस्य विक्षेपवृत्तस्थत्वात् तदानतिलनदाना-द्वगतवलनाग्ररेखा मानैक्यखण्डवृत्ते यत्र लाग्ना तत्र क्रान्तिवृत्तानुसृतप्राच्यपरां विक्षेपमण्डले तत्स्थाने छाद्याच्चन्द्राच्छादकःसूर्यो विक्षेपान्तरेण विक्षेपदिग्विपरीतदिशि भवतीति वलनाग्रसूत्रात् समासवृत्ते-ऽर्द्धज्यावच्छशरो व्यस्तो देय इति सिद्धम्। अतएव विपरीताः शशाङ्कस्येत्यग्र उक्तम्॥6॥

स्पर्शमोक्षस्थानम्।
अथ ग्राह्यवृत्ते स्पर्शमोक्षस्थानज्ञानमाह—

विक्षेपाग्रात् पुनः सूत्रं मध्यबिन्दुं प्रवेशयेत्।
तद्ग्राह्यबिन्दुसंस्पर्शाद् ग्रासमोक्षौ विनिर्दिशेत्॥7॥

विक्षेपाग्रं समासवृत्ते यत्र लग्नं तस्मात् सूत्रं रेखामित्यर्थः। अत्र रेखा सरला नायातीति शङ्कया प्रथ-मतोऽवधिद्वयान्तं सूत्रं धृत्वा तदनुसारेण रेखा कार्येति सूचनार्थं सूत्रोक्तिः सर्वत्रेति ध्येयम्। पुनर्द्विती-यवारं पूर्ववलनाग्रादेखाया मध्यकेन्द्रावधिकायाः कृतत्वात्तथैव विक्षेपाग्राद्रेखामित्यर्थः। वृत्तमध्यरूप-केन्द्रबिन्दुं प्रति गणकः प्रवेशयेत् प्रविष्टं कुर्यादित्यर्थः। तद् रेखाग्राह्यविम्बवृत्तपरिध्योः संयोगाद्ग्रास-मोक्षा स्पर्शमोक्षौ गणको विनिर्दिशेत् कथयेत्। स्पार्शिकशराग्रसूत्रं ग्राह्यवृत्ते यत्र लग्नं तत्र स्पर्शः। मौक्षिकशराग्रसूत्रं ग्राह्यवृत्ते यत्र लग्नं तत्र मोक्ष इत्यर्थः। अत्रोपपत्तिः- मानैक्यखण्डवृत्ते यत्र ग्राहकवि-म्बकेन्द्रं तस्मात् ग्राहकार्द्धेन वृत्तं ग्राहकवृत्तं ग्राह्यवृत्ते यत्र लग्नं तत्र स्पर्शमोक्षौ भवतः। तत्र वृत्ताकर-णलाघवाद्ग्राहककेन्द्राद्ग्राह्यकेन्द्रं यावत् सूत्रं मानैक्यखण्डमित ग्राह्यवृत्ते यत्र लग्नं तत्र परिध्योः स्पर्श-मोक्षौ स्वस्वव्यासार्द्धयोगात्॥7॥

मध्यकालिकवलनदान्।
अथ ग्रहणे विक्षेपस्य दिग्व्यवस्थां मध्यग्रहणज्ञानार्थं मध्यकालिकवलनदानं च श्लोकाभ्यामाह –

नित्यशोऽर्कस्य विक्षेपाः परिलेखे यथादिशम्।
विपरीताःशशाङ्कस्य तद्वशादथ मध्यमम्॥8॥

वनं प्राङ्मुखं देयं तद्विक्षेपैकता यदि।
भेदे पश्चान्मुखं देयमिन्दोर्भानोर्विपर्ययात॥9॥

अर्कस्य ग्रहणेचन्द्रविक्षेपाःपरिलेखे ग्रहणभेददर्शनप्रकारे यथादिशं यथास्थितदिशं नित्यं ज्ञेयाः। चन्द्रस्य ग्रहणे चन्द्रविक्षेपा विपरीता दक्षिणाश्चेदुत्तरा उत्तराश्चेद् दक्षिणाः। एतदनुरोधेनैव स्पार्शिक-मौक्षिकविक्षेपौदेयौ। न यथागतदिशाविति ज्ञेयम्। अथानन्तरं तद्वशान्मध्यग्रहणकालिकविक्षेपदिशः सकाशात्सूर्यग्रहणे मध्यग्रहणकालिकस्पष्टविक्षेपदिक्चिह्नाच्चन्द्रग्रहणे मध्यकालिकविक्षेपदिग्विप-रीतं दिक्चिह्नादित्यर्थः। यदि यर्हीत्यर्थः।तद्विक्षेपैकतातद्वलनं विक्षेपोमध्यग्रहणकालिकविक्षेपः। अ-नयोरेकतैक्यं दिक् सम्बन्धेनेति शेषः। एकदिशीत्यिर्थः। अत्र चन्द्रविक्षेपदिग्यथास्थितैव न विपरीत-दिगिति ध्येयम्। प्राङ्मुखं पूर्वंचिह्नसम्मुखम्। वलनाश्रितवृत्तेऽर्द्धज्यावच्चन्द्रस्य मध्यमं वलनं मध्यग्र-हणकालिकं स्फुटं वलनं देयम्। भेदेवलनपिक्षेपे दिशोर्भिन्नत्वे पश्चान्मुखम्। वलनाश्रितवृत्तेऽर्द्धज्या-वन्मध्यग्रहणकालिकं चन्द्रस्य वलनं पश्चिमचिह्नसम्मुखं देयम्। सूर्यग्रहणे विशेषमाह। भानोरिति। सूर्यस्य वलनं विपर्ययादुक्तवैपरीत्यात्। एकदिशि पश्चिमचिन्ह्नसम्मुखं भिन्नदिशि पश्चिमचिह्नसम्मुखं भिन्नदिशि पूर्वचिह्नसम्मुखं देयमित्यर्थः। फलितार्थस्तुचन्द्रग्रहणे मध्यकालवलनदिक्तक्तत्कालविक्षे-पयथागतदिशोर्दक्षिणत्वउत्तरचिह्नाद् वलनाश्रितवृत्तेऽर्द्धज्यावन्मध्यवलनं पूर्वचिह्नाभिमुखं देयम्। त-योरुत्तरत्वे दक्षिणचिह्नात् पूर्वाभिमुखं वलनं देयम्। यदि दक्षिणवलनमुत्तरविक्षेपस्तदा दक्षिणदिक्चि-ह्नादर्द्धज्यावत् पश्चिमचिह्नाभिमुखं वलनं देयम्। यद्युत्तरं वलनं दक्षिणविक्षेपस्तदा वलनाश्रितवृत्त उत्तरचिह्नात् पश्चिमचिह्नाभिमुखं वलनमर्द्धज्यावद्देयम्। सूर्यग्रहणे तु द्वयोर्दक्षिणत्वे वलनाश्रितवृत्ते द-क्षिणचिह्नात् पश्चिमचिह्नाभिमुखं वलनं देयम्। उत्तरत्वे उत्तरचिह्नात् पश्चिमाभिमुखं देयम्। यदि द-क्षिणं वलनमुत्तरविक्षेपस्तदोत्तरचिह्नात् पूर्वाभिमुखम्। यद्युत्तरं वलनंदक्षिणविक्षेपस्तदा दक्षिणचि-ह्नात् पूर्वाभिमुखं देयमिति। भास्कराचार्यैस्तत्वेतदुक्तफलितं लाघवेन दक्षिणोत्तरवलनं क्रमेण सव्या-पसव्यं देयमित्युक्तम्।

अत्रोपपत्तिः- प्रथमश्लोकोपपत्तिः स्पार्शिकमौक्षिकशरदानोपपत्तायुक्ता। ग्राह्यविम्बकेन्द्राद् विक्षे-पान्तरेण ग्राहकविम्बकेन्द्रं भवति। शरस्य कदम्बाभिमुखत्वेन केन्द्रात् कदम्बाभिमुखं शरदानार्थं कदम्बज्ञानं वलनाश्रितवृत्त आवश्यकमतो वलनान्तरेण स्वदिग्भ्यः क्रान्तिवृत्तदिशां सत्वादुत्तरदक्षि-णदिग्भ्यां मध्यवलनान्तरेण क्रान्तिवृत्तयाम्योत्तररूपकदम्बौ दक्षिणोत्तरत इति पूर्वपश्चिमानुरोधेनैत-द्दानं युक्ततरम्। यद्यपि चन्द्रग्रहणे शरस्य विपरीतदिक्त्वात् तच्छरदिग्ग्रहणेन सूर्यचन्द्रयोर्मध्यवलन-दानमेकदिकत्वे पश्चिमचिह्नाभिमुखं भिन्नदिकत्वे पूर्वाभिमुखमित्येकोक्तलाघवं तथापि सूर्यचन्द्रयोर्ग्र-हणभेदादेकोक्तौ मन्दबुद्धीनां भ्रमसम्भवस्तद्वारणार्थं पृथगिवोक्तिः कृता। स्वतन्त्रेच्छस्य नियोगान-र्हत्वाच्च॥8-9॥

परिलेखः
अथ मध्यग्रहणं श्लोकाभ्यां परिलेखे दर्शयति –

वलनाग्रात् पुनः सूत्रं मध्यबिन्दुं प्रवेशयेत।

मध्यसूत्रेण विक्षेपं वलनाभिमुखं नयेत्॥10॥

विक्षेपाग्राल्लिखेद् वृत्तं ग्राहकार्धेन तेन यत्।
वृ ग्राह्य तं समाक्रान्तं तद्ग्रस्तं तमसा भवेत॥11॥

वलनाग्रान्मध्यकालिकवलनाग्रात् पूर्वश्लोकोक्तात् सूत्रं रेखां मध्यबिन्दुं वृत्तमध्यचिह्नं प्रति पुनर्वा-रान्तरं पूर्वं स्पार्शिकमौक्षिकवलनाग्राभ्यां सूत्ररचना तथैवेत्यर्थः। प्रवेशयेद्गणकः प्रविष्टं कुर्यात्। मध्य-सूत्रेणानेन मध्यकालिकविक्षेपंमध्यवलनाग्राभिमुखं नयेत्। वृत्तमध्यविन्दोरित्यर्थसिद्धम्। तथा च वृ-त्तमध्यान्मध्यवलनाग्रसूत्रे विक्षेपाड्गुलानि गणयित्वा तदग्रे विक्षेपाग्रे चिह्नं कुर्यादित्यर्थः। अस्माद् वि-क्षेपाग्राद्ग्राहकविम्बमानार्द्धेन वृत्तं गणको लिखेत्। तेन वृत्तेन यद्यन्मितं ग्राह्यवृत्तं समाक्रान्तं व्याप्तम्। यद्ग्राह्यवृत्ताविभागरूपं तमसान्धकाररूपेण-छादकेन ग्रस्तमाच्छादितं स्यात् तन्मितं विभागं मण्या-दिना लिप्तं कुर्यादित्यर्थः। अत्रोपपत्तिः- वृत्ते मध्यसूत्रं कदम्बाभिमुखं तत्र ग्राह्यकेन्द्राच्छरान्तरेण ग्रा-हककेन्द्रं तस्माद् ग्राहकार्द्धेन वृत्तं ग्राहकविम्बवृत्तं तेन ग्राह्यवृत्तं यावदाक्रान्तं तावन्मध्यकाले ग्रस्त-मिति तद्भागस्य कृत्स्नत्वेनाकाशे दर्शनात् तमसा ग्रस्तमित्युक्तम्॥10-11॥

ननु पूर्वकाले ग्रहणयोः सम्भवे सर्वमुक्तमुपपन्नम्। पश्चिमकपाले ग्रहणसम्भवे परलेखोक्तं वैपरी-त्येन भवति। तथाहि। यस्यां दिशि परिलेखे स्पर्शो मोक्षो वा शपरकपाले तस्य पश्चिमाभिमुखत्वेन द-र्शने दिग्वैपरीत्यं प्रत्यक्षमित्यत आह –

छेद्यकं लिखता भूमौ फलके वा विपश्चिता।
दिशां विपर्ययः कार्यः पूर्वापरकपालयोः॥12॥

भूमौ फलके काष्ठपट्टिकायामित्यर्थः। वा विकल्पे भूमौ लिखितस्येतस्ततो नयनासम्भवात् फलक इत्युक्तिः। छेद्यकं प्रागुक्तं लिखता गणकेन विपश्चिता तत्वज्ञेन दिशां पूर्वादिदिशां पूर्वापरकपालयो-र्विपर्ययोर्व्यत्यासः कार्यः। यथा पूर्वकपाले सव्यक्रमेण पूर्वादिलेखनं तथा परकपाले सव्यक्रमेण पू-र्वादिलेखनं न कार्यम्। किन्तु पश्चिमस्थाने पूर्वा पूर्वस्थाने पश्चिमा। उत्तरदक्षिणदिग्भागे क्रमेणोत्तरद-क्षिणे लेख्ये इत्यर्थः। तेन पश्चिमकपाले ग्रहणसम्भवेऽपि परिलेखोक्तं सम्भवत्येवेति भावः। अत्रोपप-त्तिः दिग्वैपरीत्यं भवतीति पूर्वमेव वैपरीत्येन दिशां लेखने परिलेखो यथास्थितो भवतीत्युक्तम्। भा-स्कराचार्यैस्तु नैतदुक्तम्। परिलेखनामुक्यं दिश्यमुकं भवतीति ज्ञानस्यावश्यकत्वेन तस्य तत्राबाधा-त्। न हि यथाकाशे तथा दर्शनमपेक्षितम्। भूमौ फलके वाकाशदीनां वास्तवानामभावात्। अत एव किञ्चिन्न्यूनसादृश्येनादृष्टान्तत्वमिति ध्येयम्॥12॥

अथ अनादेश्यग्रहणमाह –

स्वच्छत्वाद् द्वादशांशोऽपि ग्रस्तश्चन्द्रस्य दृश्यते।
लिप्तात्रयमपि ग्रस्तं तीक्ष्णत्वाच्च विवस्वतः॥13॥

चन्द्रविम्बस्य द्वादशांशो ग्रस्त आच्छादितः। अपिशब्दादाच्छादनेन तेजो हीनतया दृश्यता सम्भा-वनायामित्यर्थः। न दृश्यते। हेतुमाह। स्वच्छत्वादिति तदतिरिक्तसम्पूर्णदृश्यभागस्य स्वच्छत्वाज्ज्यो-त्स्नावत्वात्। तथा च तज्ज्योत्स्नाधिक्येन ग्रस्तोऽप्यल्पोऽशःस्वाकारेण न दृश्यते ज्योत्स्नावत्त्वेन दूरत-या भासते। सूर्यस्य लिप्तात्रयं ग्रस्तमपि न दृश्यते। अत्र हेतुमाह। तीक्ष्णत्वादिति। सूर्यस्य तेजस्तै-क्ष्ण्याल्लोकनयनप्रतिघातार्हत्वाच्चेत्यर्थः। वृद्धवशिष्ठेन तु। ग्रस्तं शशाङ्कस्य कलाद्वयं चेत् कलात्रयं भानुमतो न लक्ष्यम्। तत्किञ्चदूनं ह्यदयास्तकाले लक्ष्यं यतस्तौ कारगुल्फहीनौ॥ इत्युक्तम्। अत उ-दयास्तकाले उक्तमदृश्यं दृश्यमिति ध्येयम्॥13॥

ग्राहकमार्गज्ञानम्
अथेष्टग्रासपरिलेखार्थं ग्राहकमार्गज्ञानं श्लोकत्रयेण आह –

स्वसंज्ञितास्त्रयः कार्या विक्षेपाग्रेषु बिन्दवः।

तत्रङ्मध्ययोर्मध्ये तथा मौक्षिकमध्ययोः॥14॥

लिखेन्मत्स्यौ तयोर्मध्यान्मुखपुच्छविनिः सृतम्।

प्रसार्य सूत्रद्वितयं तयोर्यत्र युतिर्भवेत्॥15॥

तत्र सूत्रेण विलिखेच्चापं बिन्दुत्रयस्पृशा।
स पन्था ग्राहकस्योक्तो येनासौ सम्प्रयास्यति॥16॥

विक्षेपाग्रेषु स्पार्शिकमौक्षिकमाध्यविक्षेपाणां पूर्वं स्वस्वस्थाने स्पर्शमोक्षमध्यग्रहणज्ञानार्थं दत्तानाम-ग्रिमभागेषु स्वसंज्ञया सङ्केतिता विन्दवस्त्रयः कार्याः स्पर्शशराग्रे स्पर्शचिह्नाङ्किते बिन्दुर्मोक्षशराग्रे मो-क्षचिह्नाङ्कितो विन्दुर्मध्यशराग्रे मध्यचिह्नाङ्कितो विन्दुरिति त्रयो बिन्दवो गणकेन स्थाप्याः। तत्रोपस्थितविन्दुत्रयमध्ये प्राङ्मध्ययोः स्पर्शमध्यविन्द्वोर्मध्येऽन्तराले मौक्षिकमध्ययोस्तत्संज्ञयोर्विन्दोस्तथान्तराले प्रत्येकं मत्स्यं लिखेत्। तयोः मत्स्ययोः मध्याद्गर्भान्मुखपुच्छाभ्यां विनिसृतं निष्काशितं प्रत्येकं सूत्रमि-ति सूत्रद्वितयम्। प्रसार्याऽग्रेऽपि स्वमार्गेण निःसार्य तयोः स्वस्वमार्गप्रसारितसूत्रयोर्यत्र प्रदेशे युतिर्यो-गः स्यात् तत्र प्रदेशे केन्द्रं प्रकल्प्य सूत्रेण विन्दुत्रयस्य स्पृशा प्रकल्पितकेन्द्रबिन्दुत्रयान्यतमबि-न्द्वन्तरसूत्रेण व्यासार्द्धरूपेणेत्यर्थः। चापं वृत्तैकदेशरूपं धनुर्विन्दुत्रयस्पृष्टं लिखेत्। गणकः कुर्यात् इत्यर्थः। स चापात्मको वृत्तैकदेशो ग्राहकस्य पन्था मार्गः कथितः। येन मार्गेणासौ ग्राहकः सम्प्रया-स्यति ग्राह्यविम्बच्छादनार्थं गमिष्यति। परिलेखस्य ग्रहणकालपूर्वकालावश्यम्भावित्वात्। अत्रोपप-त्तिः। इष्टेऽह्नि मध्ये प्राक्पश्चादिति त्रिप्रश्नाधिकारन्तर्गत श्लोकोपपत्तिः। प्राक् प्रतिपादिता॥14-16॥

इष्टग्रासपरिलेखः।

अथ इष्टग्रासपरिलेख श्लोकत्रयेण आह –

ग्राह्यग्राहकयोगार्धात् प्रोज्झ्येष्टग्रासमागतम्।

अवशिष्टाङ्गुलसमां शलाकां मध्यबिन्दुतः॥17॥

तयोर्मार्गोन्मुखीं दद्याद् ग्रासतः प्राग् ग्रहाश्रिताम्।

विमुञ्चतो मोक्षदिशि ग्राहकाध्वानमेव सा॥18॥

स्पृशेद्यत्र ततो वृत्तं ग्राहकार्थेन संलिखेत्।
तेन ग्राह्यं यदाक्रान्तं तदा तमोग्रस्तमादिशेत्॥19॥

मानैक्यखण्डाद् इष्टकालिकाभीष्टग्रासमागतंचन्द्रग्रहणाधिकारोक्तप्रकारावगतंत्यक्त्वा अवशिष्टे यान्यङ्गुलानि तत्प्रमाणां शलाकां यष्टिं मध्यविन्दुतोवृत्तत्रयमध्यकेन्द्रविन्दोः सकाशात् तयोः स्पर्श-मोक्षविक्षेपाग्रयोर्मार्गोन्मुखींसम्बद्धमार्गचापरेखाभिमुखीं मार्गरेखासक्तां दद्यात्। कथमित्यत आह। ग्रासत इति। मध्यग्रासतः प्राक् पूर्वकाले ग्रहाश्रितां ग्रहस्पर्शस्तच्छराग्रसम्बन्धिमार्गचापरेखासक्तां शलाकाम्। विमुञ्चतो मुच्यमानान्तर्गताभीष्टग्रासस्य शलाकाम्। मोक्षदिशि। मोक्षविक्षेपाग्रसम्बन्धि-मार्गचापरेखायां सक्तां दद्यात् सा शलाकाग्राहकाध्वानं ग्राहकमार्गचापरेखां यत्र यस्मिन् भागे स्पृ-शेत् संलग्ना स्यात्। ततःस्थानात्। एवकारस्तदतिरिक्तव्यवच्छेदार्थः। ग्राहकमानार्द्धेन व्यासार्द्धेन वृ-त्तं संलिखेत सम्यक् प्रकारेण कुर्यात्। तेन वृत्तेन ग्राह्यवृत्ताद्यन्मितमेकदेशरूपं वृत्तमाक्रान्तं व्या-प्तम्। तत् तन्मितग्राह्यवृत्तांशं तमोग्रस्तं छादकाच्छादितमभीष्टकाले आदिशेत् कथयेत्।
अत्रोपपत्तिः। इष्टग्रासोनं मानैक्यखण्डं कर्णः। स तु ग्राह्यग्राहककेन्द्रान्तररूपः। अतोऽयं ग्राह्यके-न्द्रात् पूर्वज्ञातग्राहकमार्गरेखायां यत्र लग्नस्तत्राभीष्टसमये ग्राहककेन्द्रम्। तस्माद् ग्राहकवृत्तेन ग्राह्य-वृत्तं यदाक्रान्तं तत्काले ग्रास इति सुगमा॥17-19॥

निमीलनपरिलेखः।

अथ श्लोकाभ्यां निमीलनपरिलेखमाह-

मानान्तरार्धेन मितां शलाकां ग्रासदिङ्मुखीम्।
निमीलनाख्यां दद्यात् सा तन्मार्गे यत्र संस्पृशेत्॥20॥

ततो ग्राहकखण्डेन प्राग्वन्मण्डलमालिखेत्।
तद्ग्राह्यमण्डलयुतिर्यत्र तत्र निमीलनम्॥21॥

ग्राह्यग्राहकविम्बमानयोरन्तरस्यार्द्धं तेन परिमितांशलाकां निमीलनसंज्ञांग्रासदिङ्मुखीं स्पार्शि-कशराग्रविभागाभिमुखीं मध्यबिन्दोः सकाशाद दद्यात्। सा निमीलनसंज्ञा शलाका तन्मार्गं स्पार्शिंक ग्राहकमार्गं चापरेखाकारं यस्मिन् प्रदेशे संलग्ना स्यात् तत्स्थानाद् ग्राहकमानार्द्धेन प्राग्वन्मध्याभीष्ट-ग्रासज्ञानार्थं यथा यद्वृत्तं कृतं तथेत्यर्थः। वृत्तं कुर्यात्। तद्ग्राह्य मण्डलयुतिर्लिखितवृत्तग्राह्यवृत्तयोः सं-योगो यत्र यस्यां दिशि तत्र तस्यां दिशि निमीलनं ग्राह्यविम्बस्य निमज्जनं स्यात्।

अत्रोपपत्तिः। सम्मीलनकाले ग्राह्यग्राहककेन्द्रान्तरं मानार्द्धान्तरमितं कर्णः। अन्यथा तदनुपपत्तेः। स ग्राह्यकेन्द्रात् स्पर्शमार्गे यत्र लग्नस्तत्र ग्राहककेन्द्रम्। तस्माद ग्राहकवृत्तं ग्राह्यमण्डलं यत्र स्पृशति तत्र निमीलनं स्पष्टम्॥20-21॥

उन्मीलनपरिलेखः।
अथोन्मीलनपरिलेखमाह –

एवमुन्मीलने मोक्ष दिङ्मुखीं सम्प्रसारयेत्।
विलिखेन्मण्डलं प्राग्वदुन्मीलनमथोक्तवत्॥22॥

उन्मीलने उन्मीलनज्ञानार्थमित्यर्थः। एवं विम्बमानान्तरार्द्धमितां शलाकां मोक्षदिङ्मुखीं मौक्षिक-शराग्रविभागाभिमुखीं मध्यबिन्दोः सकाशात् सम्प्रसारयेद्दद्यादित्यर्थः। प्राग्वत् सम्मीलनार्थं दत्तशला-कास्पार्शिकमार्गदत्तशलाकायोगस्थानाद् ग्राहकार्धेन वृत्तं तथैत्यर्थः। मौक्षिकमार्गदत्तशलाकायोग-स्थानाद् ग्राहकवृत्तं कुर्यात्। अथानन्तरमुक्तवद् ग्राहकग्राह्यवृत्तयोगो यस्यां तस्यां दिशीत्यर्थः। उ-न्मीलनं ग्राह्यविम्बस्योन्मज्जनं स्यात्।

अत्रोपपत्तिः। उन्मीलनेऽपि ग्राह्यग्राहक केन्द्रान्तरं मानार्द्धान्तरमितं कर्णः। परमपरमोक्षदिशीति युक्तिस्तुल्या॥22॥

ग्रहणे चन्द्रवर्णः।
अथ ग्रहणे चन्द्रस्य वर्णानाह –

अर्धादूने सधूम्रंस्यात् कृष्णमर्धाधिकं भवेत्।
विमुञ्चतः कृष्णताम्रंकपिलं सकलग्रहे॥23॥

अर्द्धादर्द्धविम्बादूने न्यूने ग्रस्ते सति सधूम्रंग्रासीयविम्बं धूम्रवर्णं स्यात्। अर्द्धाधिकं ग्रस्तविम्बं कृ-ष्णं स्यात्। विमुञ्चत एतदनन्तरं ग्रस्तमधिकमपि मुक्त्युन्मुखमिति मोक्षारम्भोन्मुखस्य पादोनविम्बा-धिकग्रस्तस्यासम्पूर्णस्येत्यर्थः। कृष्णताम्रं श्यामरक्तमिश्रवर्णः। सम्पूर्णग्रहणे कपिलं पिशङ्गवर्णविम्बं स्यात्। अत्र भूभायास्तेजोऽभावतया चन्द्राच्छादकत्वादेते वर्णाः सम्भवन्ति। सूर्यस्य तु चन्द्रो जलगो-लरूप आच्छादकः स दर्शान्तदिवसेऽस्मद्दृश्यार्द्धे सदा कृष्ण एवेति कृष्ण एव सूर्यस्य ग्रस्तोंऽशः सर्वदा। अतएव विकृतत्वाद्भगवता वर्णो नोक्तः॥23॥


अथ उक्तच्छेद्यकस्य गोप्यत्वमाह –

रहस्यमेतद्देवानां न देयं यस्य कस्यचित्।
सुपरीक्षितशिष्याय देयं वत्सरवासिने॥24॥

एतत् ग्रहणच्छेद्यकं देवानां गोप्यं वस्तु। यस्य कस्यचिद्यस्मै कस्मैचिदपरीक्षिताय न देयम्। कस्मै-चिद्देयमित्यर्थागतं विवृणोति। सुपरीक्षितशिष्यायेति। सुपरीक्षितमित्यत्र हेतुगर्भं विशेषणमाह। वत्सर-वासिने इति। वर्षपर्यन्तं तत्सङ्गत्या तस्य तत्त्वतया ज्ञानं भवत्येवेति भावः॥24॥
अथाग्रिमग्रन्थस्यासङ्गतित्वनिरासार्थमधिकारसमाप्तिं फक्किकयाह। ग्रहणभेदज्ञापकपरिलेखप्र-तिपादनं परिपूर्तिमाप्तमित्यर्थः। इदं दशभेदग्रहगणितमित्युक्त्या गणितक्रियाभावाद् ग्रहणाधिकारा-न्तर्गतं नाधिकारान्तरम्। अत एवाधिकार इत्युपेक्ष्याध्याय इत्युक्तम्। रङ्गनाथेन रचिते सूर्यसिद्धान्त-टिप्पणे। छेद्यकं ग्रहणान्तं तु पूर्ण गूढप्रकाशके॥

इति श्रीसकलगणकसार्वभौमबल्लालदैवज्ञात्मजरङ्गनाथगणकविरचिते गूढार्थप्रकाशके छेदका-ध्यायःसम्पूर्णः।

अथ ग्रहयुत्यधिकारः- 7

ग्रहयुद्धम्। समागमः। अस्तमनम्।
अथ युत्याभासग्रहणनिरूपणेन संस्मृततयारब्धो ग्रहयुत्यधिकारो व्याख्यायते।
तत्र युतिभेदानाह—

ताराग्रहाणामन्योऽन्यं स्यातां युद्धसमागमौ।
समागमः शशाङ्केन सूर्येणास्तमनं सह॥1॥

ताराग्रहाणां भौमादिपञ्चग्रहाणां परस्परं योगे युद्धसमागमौवक्ष्यमाण लक्षणभिन्नौ स्तः। चन्द्रेण सह पञ्चतारान्यतमस्य योगःसमागमसंज्ञः। सूर्येण सह पञ्चताराणामन्यतमस्य चन्द्रस्य वा योगः तद-स्तमनं पूर्णास्तङ्गतत्वम्। न त्वस्तमात्रम्। युत्यभावे प्रागपरकाले तस्य सत्त्वात्॥1॥


अथ युतेर्गतैष्यत्वं सार्द्धश्लोकेन आह –

शीघ्रे मन्दाधिकेऽतीतः संयोगो भविताऽन्यथा।

द्वयोः प्रागयायिनोरेवं वक्रिणोस्तु विपर्ययात्॥
प्राग्यायिन्यधिकेऽतीतो वक्रिण्येष्यः समागमः॥2॥

ययोर्ग्रहयोर्योगोऽभिमतस्तयोर्ग्रहयोर्मध्ये यः शीघ्रगतिः ग्रहः तस्मिन् मन्दाधिके मन्दगतिग्रहादधिके सति तयोः संयोगो युतिसंज्ञो गतः पूर्वं जात इत्यर्थः। अन्यथा मन्दगतिग्रहे शीघ्रगतिग्रहादधिके सती-त्यर्थः। तयोर्योगो भविता एष्यः। एवमुक्त गतैष्यत्वम्। द्वयोःग्रहयोः प्राग्यायिनोःपूर्वगतिकयोर्भवति। वक्रिणोर्वक्रगतिग्रहयोर्विपर्ययादुक्तवैपरीत्यात्। तुकाराद्रतैष्यो योगो भवति। शीघ्रगतिग्रहे मन्दगति-ग्रहादधिक एष्यः संयोगो मन्दगतिग्रहे शीघ्रगतिग्रहादधिके गतः संयोग इत्यर्थः। अथैकस्य वक्रत्वे आह। प्राग्ययिनीति। द्वयोर्मध्ये एकतरस्मिन् वक्रिणि सति तदा वक्रगतिग्रहात् पूर्वं गतिग्रहेऽधिके सति गतो योगः। यदा तु पूर्वगतिग्रहाद्वक्रगतिग्रहेऽधिके सति समागमो योग एष्यः स्यात्। अत्रोपप-त्तिः। पूर्वगत्योर्ग्रहयोर्मध्येशीघ्रगत्याधिकत्वेऽग्रे योगासम्भवात् पूर्वयोगो जातः। मन्दगस्याधिकत्वे शीघ्रगस्य न्यूनत्वादग्रे योगो भविष्यति। वक्रिणोस्तु शीघ्रगत्याधिकत्वेऽग्रे तन्न्यूनत्वेन योगसम्भवादे-ष्यो योगो मन्दगस्याधिकत्वे शीघ्रगस्योत्तरोत्तरं न्यूनत्वसम्भवेन अग्रे योगासम्भवादगतो योगः। अथ वक्रगतिग्रहात् पूर्वगतिग्रहेऽधिक उत्तरोत्तरं योगासम्भवाद्गतो योगः। पूर्वगतिग्रहाद् वक्रगतिग्रहेऽधि-के वक्रगतिग्रहस्य न्यूनत्वेनाग्रे योगसम्भवादेष्यः संयोग इति॥2॥

अथयुतिकाले तुल्यग्रहयोरानयनं युतिकालस्य गतैष्यदिनाद्यानयनं चसार्द्धश्लोकत्रयेण आह –

ग्रहान्तरकलाः स्वस्वभुक्तिलिप्तासमाहताः॥3॥
भुक्त्यन्तरेण विभजेदनुलोमविलोमयोः।

द्वयोर्वक्रिण्यथैकस्मिन् भुक्तियोगेन भाजयेत्॥4॥

लब्धं लिप्तादिकं शोध्यं गते देयं भविष्यति।

विपर्ययाद्वक्रगत्योरेकस्मिंस्तु धनव्ययौ॥5॥

समलिप्तौ भवेतां तौ ग्रहौभगणसंस्थितौ।
विवरं तद्वदुद्धृत्य दिनादि फलमिष्यते॥6॥

युतिसम्बन्धिनो ग्रहयोरभीष्टैककालिकयोरन्तरस्य कलाः पृथक् स्वस्वगतिकलाभिर्गुणिताः कर्म-द्वयोः ग्रहयोःअनुलोमविलोमयोः मार्गगयोः वक्रगयोः र्वा इत्यर्थः। स्फुटगत्यन्तरेण गणको भजेत्। विशेषमाह। वक्रिणीति। अथानन्तरं द्वयोर्मध्ये एकतरेवक्रिणि सति तयोर्गतियोगेन भजेत्। फलं क-लादि स्वं स्वं गते योगे सति ग्रहयोर्मार्गगयोः शोध्यं भविष्यति। एष्ये योगे सति तयोर्देयं योज्यम्। द्व-योर्वक्रगत्योः स्वं स्वं फलं विपर्ययादुक्तवैपरीत्यात् कार्यम्। गते योगे योज्यम्। एष्ययोगे हीनमित्य-र्थः। द्वयोर्मध्ये एकतरे तुकाराद्वक्रिणि सति तयोर्ग्रहयोर्वक्रमार्गगयोः स्वस्वकलात्मकफलाङ्कौ धनव्य-यौ युतहीनौकार्यौ। यथाहि। गतयोगे मार्गगग्रहे स्वफलं हीनं वक्रिणि ग्रहे योज्यम्। एष्ययोगे वक्र-ग्रहे शोध्यम्। मार्गग्रहे योज्यमिति। एवं कृते तौ युतिसम्बन्धिनौ ग्रहौभगणसंस्थौ भगणे राश्यधिष्ठि-तचक्रे संस्थितिर्ययोस्तौ राश्याद्यात्मकौसमलिप्तौ समकलौ स्तः। लिप्तापदस्य भगणावयवोपलक्ष-णत्वेन समौ स्त इत्यर्थः। अथ युतिकालज्ञानमाह। विवरमिति। अभीष्ट कालिकयोर्युतिसम्बन्धिनोर्ग्र-हयोरन्तरं कलात्मकं तद्वत् समकलोपयुक्तफलज्ञानार्थं यथा गतिगुणितमन्तरं गतियोगेन गत्यन्तरेण भक्तं तथेत्यर्थः। तेन हरेण भक्त्वा फलं दिनादिकं गतैष्ययुतिवशादभीष्टकालाद्गतैष्यमुच्यते। तत्समये तद्युतिकाले तौ ग्रहौसमस्त इत्यर्थः।
अत्रोपपत्तिः। गत्यन्तरेण गतिकलास्तदा ग्रहान्तरकलाभिः का इति फले गतयुतौ ग्रहयोः शोध्ये। एष्ययुतौ योज्ये। द्वयोर्वक्रत्वे गत्यन्तरभक्तफले गतयुतौ ग्रहयोर्योज्ये। एष्ययुतौ शोध्ये। वक्रग्रहस्यो-त्तरोत्तरं न्यूनत्वात्। अथैको वक्री तदा तयोरन्तरं प्रत्यहं गतियोगेनोपचितम्। अतो गतियोगहरेणागतं फलं गतयोगे मार्गगग्रहेहीनं पूर्वं तस्य न्यूनत्वात्। वक्रग्रहे योज्यम्। पूर्वं तस्य अधिकत्वात्। एष्ययो-गमार्गगग्रहे योज्यम्। उत्तरोत्तरमधिकत्वात्। वक्रग्रहे शोध्यम्। तस्य अग्रे न्यूनतत्वात्। गतियोगेन गत्यन्तरेण वा दिनमेकं लभ्यते तदान्तरकलाभिः किमित्यनुपातेन गतैष्यदिनाद्यम्॥3-6॥


अथ दृक्कर्मार्थमुपपकरणानि साध्यानीत्याह—

कृत्या दिनक्षपामानं तथा विक्षेपलिप्तिकाः।

नतोन्नतं साधयित्वा स्वकाल्लग्नवशात्तयोः॥7॥

तयोः समयोर्ग्रहयोर्दिनक्षपामानं प्रत्येक दिनमानं रात्रिमानं प्रसाध्य विक्षेपकलाः। तथा प्रसाध्ये-त्यर्थः। अत्र भगवता विक्षेपकलाः प्रसाध्येत्यस्य दिनरात्रिमानं प्रसाध्येत्येतदनन्तरमुक्तेर्दिनरात्रिमानं स्पष्टक्रान्तिजचरेण साध्यम्।किन्तु समग्रहीयशरासंस्कृतकेवलक्रान्तिजचरेण साध्यमिति सूचितम्। समग्रहयोः प्रत्येकं नतकालमुन्नतकालं प्रसाध्य। अत्र समुच्चयार्थकं तथेत्यन्वेति। एतदर्थमेव दिनरा-त्रिमानं प्रसाध्येति पूर्वमुक्तम्। समनन्तरोक्तं दृक्कर्म्मकार्यमिति वाक्यशेषः। ननु नतोन्नतं कथं साध्यं ग्रहोदयाज्ञानात् तदवधिकालमानज्ञानाभावात्। न हि ग्रहस्य दिनरात्रिगतकालज्ञानं विनापि केवल-दिनरात्रिमानाभ्यां तत्सिद्धिरत आह। स्वकाल्लग्नवशादिति। यस्मिन् काले समौ ग्रहौ जातौ तात्का-लिकलग्नं पूर्वोक्तप्राकारावगतं तद्वशात् तद्ग्रहणादित्यर्थः। स्वकात् समग्रहात् प्रत्येकमुन्नतनतकालौ साध्यावित्यर्थः। एतदुक्तं भवति। युतिकालिकलग्नमधिकसंज्ञ प्रकल्प्य समग्रहं न्यूनसंज्ञं प्रकल्प्य। भोग्यासूनूनकस्याथ भुक्तासूनधिकस्य च।
सम्पीड्यान्तरलग्नासूनेवं स्यात् कालसाधनम्॥ इति त्रिप्रश्नाधिकारोक्त्या ग्रहस्य दिनगतं रात्रिगतं प्रसाध्य दिने दिनगतशेषयोः रात्रौ रात्रिगतशेषयोः यदल्पं तदुन्नतम्। तेनोनं दिनार्द्ध रात्र्यर्द्धं वा ग्रह-स्य नतम्। दिनक्षपामानं नतोन्नतमित्येकवचनेन समग्रहयोरभिन्नं दिनमानं रात्रिमानं नतमुन्नतं च इ-ति सूचनादपि नोदयलग्नलग्नाभ्यामन्तरकालः प्रत्येकं भिन्नः साध्यः। न वा स्पष्टक्रान्तिजचरेण दिनरा-त्रिमाने प्रत्येकं पूर्वमुदयलग्नस्यैवासिद्धेरिति स्फुटीकृतम्।
अत्रोपपत्तिः। तात्कालिकार्कलग्नाभ्यां यथा सूर्यस्योदयकालगतकालस्तथा तात्कालिक ग्रहलग्ना-भ्यां ग्रहोदयगतकालः सिद्ध्यति। यद्यपि सूर्यस्य क्रान्तवृत्तस्थत्वात् सूर्यस्य युक्तः कालः। ग्रहस्य तु क्रान्तिवृत्तस्थत्वानियमादुक्तरीत्या गतकालस्य क्रान्तिवृत्तस्थ ग्रहचिह्नीयत्वेऽपि ग्रहविम्बीयत्वाभावा-दयुक्तत्वम्। अतएववक्ष्यमाणदृक्कर्मसंस्कृत ग्रहादानीतकालोग्रहविम्बीयस्तथापि वक्ष्यमाणदृक्क-र्मार्थं ग्रहचिह्नीयस्यैवापेक्षितत्वान्न न क्षतिः॥7॥

दृक्कर्मसंस्कारः। आक्षदृक्कर्मसंस्कारः।
अथाक्षदृक्कर्म तत्संस्कारं च ग्रहस्य श्लोकाभ्यामाह—

विषुवच्छाययाऽभ्यस्ताद् विक्षेपाद् द्वादशोद्धृतात्।
फलं स्वनतनाडीघ्नं स्वदिनार्धविभाजितम्॥8॥
लब्धं प्राच्यामृणं सौम्ये विक्षेपे पश्चिमे धनम्। (सौम्याद्विक्षपात्पश्चिमे इति व. प्र. सं.)

दक्षिणे प्राक्कपाले स्वं पश्चिमे तु विपर्ययः॥9॥ (तथा क्षयः इति व0प्र0)

अक्षभया गुणिताद् ग्रहविक्षेपादानीताद्द्वादशभक्ताद्यल्लब्धं तत् स्वनतनाडीघ्नं विक्षेपसम्बन्धिग्रह-स्य नतघटीभिर्गुणितं तस्यैव दिनार्द्धेन भक्तं रात्रौ रात्र्यर्द्धेनेत्यर्थसिद्धम्।अत्र समग्रहयोः पूर्वोक्तप्र-कारेण दिनमाननतयोरभिन्नत्वात् स्वशब्दोभयत्रानावश्यकोऽपि युतिव्यतिरिक्तदृग्ग्रहाणां प्रयोजनत-या साधनवैयधिकरण्यव्यावृत्यर्थं स्वपदं भगवता दत्तम्। वस्तुतस्तु दृग्ग्रहयोस्तुल्यत्वे भगवताग्रे युते-रुक्त्वात् तात्कालिकयोः तुल्यत्वेन वा अतुल्यत्वेन इत्यत्र संदेहः। दृक्कर्मसाधनार्थं नतदिनमानयोः तयोर्भिन्नत्वेन स्वपदं युक्तं प्रयुक्तम्। न तु स्पष्टक्रान्तिजचरोत्पन्नदिनमानयोर्भेदान्नतभेदाच्च स्वमि-त्युक्तम्। तत्साधनस्य वैयधिकरण्येनाप्रसक्तेरिति ध्येयम्। उक्तरीत्योत्तराद्विक्षेपाल्लब्धतत्कलात्मकं प्राच्यां प्राक्कपाले ग्रहस्य हीनम्। पश्चिमकपाले योज्यम्। दक्षिणे तथा विक्षेपे। तुकारात्तदुत्पन्नं फलं प्राक्कपाले योज्यं पश्चिमकपाले हीनं कार्यम्॥ 8-9॥

आयनदृक्कर्मसंस्कारः।
अथ आनयदृक्कर्माह—

सत्रिभग्रहजक्रान्ति-भागघ्नाः क्षेपलिप्तिकाः।
विकलाः स्वमृणं क्रान्तिर्क्षेपयोर्भिन्नतुल्ययोः॥10॥

विक्षेपकलाः पूर्वसाधिता राशित्रयतुतग्रहोत्पन्नक्रान्त्यंशैर्गुणिता विकला भवन्ति। ता अक्षदृक्कर्मसं-स्कृतग्रहे विकलास्थाने क्रान्तिक्षेपयोः सत्रिभग्रहस्य क्रान्तिग्रहस्य विक्षेपः। अनयोर्भिन्नतुल्ययोर्भिन्नै-कदिक्कयोः सतोः क्रमेण स्वमृणं कार्येः।
अत्रोपपत्तिः। विक्षेपवृत्तस्य ग्रहविम्बोपरि ध्रुवप्रोतश्लथवृत्तं स्पृष्ट्वा क्रान्तिवृत्ते ग्रहासन्ने यत्र लगति तस्य ग्रहचिह्नस्यान्तरे याःक्रान्तिवृत्ते कलास्ता आयनकलास्तदानयनार्थं क्षेत्रं ग्रहशरः कदम्बाभिमु-खः कर्णः। तत्सम्बद्धद्युरात्रवृत्तप्रदेशध्रुवप्रोतश्लथवृत्तसम्पातयोरन्तरे द्युरात्रवृत्ते भुजः। ध्रुवप्रोतवृत्ते स्पष्टशरो ग्रह-विम्बतत्सम्पातान्तरे कोटिः। अतस्त्रिज्याकर्णेऽयनवलनज्या भुजस्तदा शरकर्णे क इत्यनुपातेन द्युरात्रवृत्ते द्युज्याप्रमाणेन भुजकलाः। न तु ग्रहचिह्नतद्वृत्तसम्पातान्तरे क्रान्तिवृत्ते भु-जकलाःक्रान्तिवृत्तस्य तिर्यक्त्वेन तादृशक्रन्तिवृत्तप्रदेशस्य तिर्यक्त्वाद्भुजत्वासम्भवात्। आयनवल-नज्या भुजस्त्रिज्याकर्णो यष्टिःकोटिस्तद्वर्गान्तरपदरूपेति क्षेत्रं गोले प्रत्यक्षम्। अतोऽनुपाते न क्षतिः। तत्र भगवता लोकानुकम्पया गणितसुखार्थं द्युरात्रवृत्तस्य भुजकलाःक्रान्तिवृत्तस्था अङ्गीकृताः स्व-ल्पान्तरत्वात्। अतोऽयनवलनज्या शरकलाभिः र्गुण्या त्रिज्यया भाज्येति प्राप्ते भगवतायनवलनस्य सत्रिभग्रहक्रान्तिभागत्वेनाङ्गीकारात् तद्भागा अष्ट-पञ्चाशता गुणनीया ज्या भवति। यतः परमाश्चतु-र्विंशत्यंशा अष्टपञ्चाशता गुणिताः पञ्चोना परमक्रान्तिज्या जाता। इयं शरगुणात्रिज्याभक्तायनकला-स्तत्र विकलात्मकफलार्थं षष्टिर्गुण इति रात्रिभग्रहक्रान्तिभागगुणितो ग्रहविक्षेपोऽष्टपञ्चाशत्षष्टिघातेन विंशत्यूनेन पञ्चत्रिंशच्छतेन गुण्यस्त्रिज्ययाभक्त इति सिद्धम्। अत्रापि लाघवाद्गुणस्य त्रिज्यामित-त्वेन स्वल्पान्तरत्वाद्ङ्गीकाराद गुणहरयोर्नाश इत्युपपन्नं सत्रिभेत्यादिविकला इत्यन्तम्। भास्कराचा-र्यैस्तु। आयनं वलनमस्फुटेषणा सद्गुणं द्युगुणभाजितं हतम्।

पूर्णपूर्णधृतिभिर्ग्रहाश्रितव्यक्षभोदयहृदायनाः कलाः॥

इति सूक्ष्ममस्मादुक्तम्। धनर्णोपपत्तिस्तु मकराद्युत्तरायणे दक्षिणध्रुवाद् दक्षिणकदम्बोऽधः। उत्तरध्रुवादुत्तरकदम्ब ऊर्ध्वम्। तत्र शरो यदा तूत्तरस्तदा ग्रहविम्बस्योत्तरकदम्बोन्मुखत्वेनोत्तर ध्रुवा-दुन्नतत्वात् क्रान्तिवृत्तस्य ग्रहचिह्नात् क्रान्तिवृत्तध्रुवप्रोतश्लथ वृत्तसम्पात आयनग्रहचिह्नरूपः क्रान्ति-वृत्ते पश्चाद्भवत्यत आयनविकलाः स्पष्टग्रह ऋणं कृताश्चेद आयनग्रहभोगो ज्ञातः स्यात्। एवं दक्षिण-शरेग्रहविम्बस्य दक्षिणकदम्बोन्मुखत्वेन ध्रुवोन्नतत्वात् क्रान्तिवृत्ते ग्रहचिह्नादायनग्रहचिह्नमग्र एव भ-वतीति धनमायनविकलाः। कर्कादिदक्षिणायने तु दक्षिण ध्रुवात् दक्षिणकदम्ब ऊर्ध्वमुत्तरध्रुवादुत्तर-कदम्बोऽधः। तत्र यदि ग्रहशरो दक्षिणस्तदा ग्रहविम्बस्य दक्षिणध्रुवादुन्नतत्वात् क्रान्तिवृत्ते ग्रहचिह्ना-दायनग्रहचिह्नंपश्चादत ऋणमायनम्। यद्युत्तरशरस्तदा ग्रहविम्बस्य उत्तरध्रुवान्नतत्वाद्ग्रहचिह्नादाय-नग्रहचिह्नमग्रे क्रान्तिवृत्ते भवतीत्यायनं धनमिति गोलस्थित्यायनशरदिगैक्य ऋणमयनशरदिग्भेदे ध-नमिति सिद्धम्। तत्र ग्रहायनदिशः सत्रिभग्रहगोलदिक् तुल्यत्वात् सत्रिभग्रहक्रान्तिग्रहशरयोरेकदि-क्त्वे ऋणं भिन्नदिक्त्वे धनमित्युपपन्नम्। अथाक्षदृक्कर्मोपपत्तिः। भूगर्भक्षितिजयाम्योत्तरवृत्तसम्पात-रूपसमप्रोतचलवृत्ते ग्रहविम्बसक्ते क्रान्तिमण्डलस्यग्रहासन्नो यत्र सम्पातस्तत्राक्षदृक्कलासंस्कृतो ग्रहस्तस्यायनग्रहस्य चान्तरे क्रान्तिवृत्तप्रदेश आक्षदृक्कलास्ताः क्षितिजस्थग्रहविम्बोपरमान्तरत्वात् परमा याम्योत्तरवृत्तस्थेग्रहेऽयनग्रहचिह्नमेवाक्षदृक्कलासंस्कृतग्रहचिह्नं भवतीति तदभावः। अतः क्षितिजस्थेग्रहविम्बे चलवृत्तं याम्योत्तरक्षितिजसम्पातप्रोतक्षितिजवृत्ताद् भिन्नं तत्र ग्रहविम्बसक्तं ध्रुवप्रोतचलवृत्तक्रान्तिवृत्तसम्पातोऽयनग्रहचिह्नरूपः क्षितिजस्थक्रान्तिवृत्तप्रदेशादूर्ध्वमधो वा याभिः कलाभिरन्तरितस्ता आक्षदृक्कलाः। आसां ज्ञानार्थं तदन्तरप्रदेशीयद्युरात्रवृत्तखण्डप्रदेशस्थासवोऽ-क्षजाः साधिताः। तथाहि। ध्रुवद्वयप्रोत-ग्रहविम्बगतचलवृत्ते विषुवद्वृत्तग्रहबिम्बान्तरेस्फुटा क्रान्तिः विषुवद्वृत्तक्रान्तिवृत्तस्यायनग्रहचिह्नान्तरे मध्यमाक्रान्तिरयनग्रहस्यायनग्रहचिह्नग्रह विम्बान्तरे स्फु-टशरः। द्वयोः क्रान्त्योरेकदिक्त्वे स्फुटक्रान्ति-रधिकातत्रोत्तरगोलेऽयनग्रहचिह्नं क्षितिजादधः स्वद्यु-रात्रवृत्तेक्रान्त्योश्चरान्तरासुभिर्भवति। यतोऽयनग्रहचिह्न द्युरात्रवृत्तस्थोन्मण्डलक्षितिजान्तररूप-चरा-द्ग्रहविम्बीयचरस्याधिकत्वेन मध्यमचरसम्बद्धक्षितिजवृत्त प्रदेशाद्ध्रुवाभिमुखसूत्रं ग्रहविम्बीयसम्ब-द्धद्युरात्रप्रदेशे यत्र लग्नं तत् क्षितिजान्तराले चरान्तरस्यसत्वेनस्पष्टशरचरान्तराभ्यां कोटिभुजाभु-जाभ्यामायतचतुरक्षेत्रस्य तदद्युरात्रवृत्तद्वयमध्येस्फुटदर्शनम्। एवं दक्षिणगोलेऽयनग्रहचिह्नं सद्यु-रात्रवृत्ते क्षितिजादूर्ध्वं क्रान्त्योश्चरान्तरा-सुभिरिति। क्रान्त्योर्भिन्नदिक्त्वे तु क्षितिजादयनग्रहचिह्न स्व-द्युरात्रवृत्ते क्रान्त्योश्चरयोगतुल्यासुभिरध उर्ध्वम्। मध्यक्रान्तिद्युरात्तमुन्मण्डलात् स्पष्टक्रान्तिचरतु-ल्यान्तरेण दक्षिणोत्तरगोलयोरध उर्ध्वमयनग्रहचिह्नस्य सत्त्वात। क्षितिजाच्चरान्तरेणोद्वृत्तस्य सत्वा-च्चेति। भास्कराचार्यैः स्फुटस्फुटक्रान्तिजयोश्चरार्द्धः योसामान्यदिक्त्वेऽन्तरयोग जासवः। पलोद्भवा-ख्या भनभःसदाम्। इति सुक्ष्ममाक्षदृगसुज्ञानमुक्तम्। भगवता तु पूर्वोक्तरीत्या स्फुटस्फुटक्रान्तिसं-स्कारोत्पन्न स्फुटशररूपक्रान्तिखण्डस्य स्वल्पान्तरेण यथागतशरतुल्यस्य चरमाक्षदृगसव इत्यङ्गी-कृत्य द्वादशकोणौपलभा भुजस्तदा विक्षेपरूपक्रान्तिकोणौक इत्यनुपाताद्विक्षेपज्या फलधनुषो-स्त्यागात् स्वल्पान्तरेण कुज्याचरज्ययोरभिन्नत्वेनाङ्गीकाराच्चरासव आक्षासव एता एव कला धृताः स्वल्पान्तरत्वात्। क्षितिजातिरिक्तस्थग्रहविम्बे त्वेताः कला अभीष्टतकालपरिणता भवन्तीति विषुव-च्छाययेत्यादि स्वदिनार्द्धविभाजितमित्यन्तम्। अत्र ग्रहे आयनं दृक्कर्मसंस्कार्य तस्माद्दिनरात्रिमाना-दिनतं साधयित्वाक्षदृक्कर्म क्रियते तदा किञ्चित् सूक्ष्ममिति सत्रिभग्रहजेत्यादि श्लोकः सप्तमो यत्पुस्तके तत्र तूक्तं स्वतः सिद्धम्। नतानुपाते स्वपदव्यर्थप्रयोगशङ्कानवकाशश्च समग्रहयोरायनदृ-क्कर्मसंस्कारेण भिन्नत्वसम्भवात् तयोर्दिनमानतयोरपि भिन्नत्वसिद्धेरित्यवधेयम्। धनर्णोपपत्तिस्तु समप्रोतचलवृत्तं ग्रहविम्बोपरिगं यत्र क्रान्तिवृत्ते लगति स राश्यादिभोग आक्षदृक्कर्मसंस्कृत इति प्रागुक्तम्। तत्र पूर्वकपाले तस्माद्ग्रहादायनग्रहचिह्नं क्रान्तिवृत्त उत्तरशरेऽग्रिमभागे भवति दक्षिणशरे पश्चाद्भवतीति क्रमेणर्णधनमुक्तम्। पश्चिमकपाले तूत्तरशरे पश्चाद् दक्षिणशरेऽग्रिमभाग इति क्रमे-णायनग्रहे धनर्णं दृक्कर्मद्वयसंस्कृतो ग्रहसिद्धो भवतीत्युपपन्नं सर्वम्॥10॥

दृक्कर्मसंस्कारः
अथ प्रसङ्गादृक्कर्मसंस्कारस्थलान्याह—

नक्षत्रग्रहयोगेषु ग्रहास्तोदयसाधने।
श्रृंगोन्नतौ तु चन्द्रस्य दृक्कर्मादाविदं स्मृतम्॥11॥

अत्र निमित्तसप्तमी। ग्रहनक्षत्राणां बहुत्वाद् बहुवचनम्। नक्षत्रग्रहयोर्युत्यर्थं नक्षत्रग्रहयोरिंद द्वयं दृक्कर्मस्मृतं प्रागुक्तम्। आदौ प्रथमं कार्यम्। ताभ्यामनन्तरं क्रिया कार्येत्यर्थः। अत्र नक्षत्रध्रुव काणा-म् आयनदृक्कर्म संस्कृतानामेवोक्तत्वादायनं दृक्कर्म न कार्यमिति ध्येयम्। ग्रहाणामस्तोदयौ नित्या-स्तोदयौ सूर्यसान्निध्यजनितास्तोदयौच। ग्रहाणामुपलक्षणत्वान्नक्षत्राणामपि। तयोः साधननिमित्तं ग्र-हस्य नक्षत्रस्य वा देयम्। अत्राक्षदृक्कर्मार्थं केवलं शरः साध्यः। न तु दिनमानरात्रिमाननतोन्नते सा-ध्ये। क्षितिजसम्बन्धेन दृग्ग्रहरूपोदयास्तलग्नस्यावश्यकत्वेन क्षितिजातिरिक्तनतपरिणामस्य व्यर्थ-त्वात्। युतौ तु समप्रोतचलवृत्ते युगपद्दर्शनार्थं तत्परिणामस्य आवश्यकत्वात्। श्रृङ्गोन्नतिनिमित्तं चन्द्र-स्य। तुकारः समुच्यार्थकचकारपरः। अत्रापि श्लोके पूर्वार्द्धाक्तमाक्षदृक्कर्मसंस्कार्यमिति ध्येयम्॥11॥

अथ दृक्कर्मसंस्कृत ग्रहयोर्युतिकालं तात्कालिकतद्विक्षेपाभ्यां ग्रहयोः याम्योत्तरान्तरंच आह—

तात्कालिकौ पुनः कार्यौविक्षेपौ च ततस्तयोः।

दिक्तुल्ये त्वन्तरं भेदे योगः शिष्टं ग्रहान्तरम् ॥12॥

पुनर्द्धितीयवारं तादृशग्रहाभ्यां शीघ्रे मन्दाधिकेऽतीत इत्यादिना युतेर्गतैष्यत्वं ज्ञात्वा ग्रहान्तरकला इत्यादिना दृक्कर्मसंस्कृतौ समौ स्वयुतिसमये भवतः। विवरं तद्वदुद्धृत्येत्यादिना समस्पष्टग्रहकालो दृक्कर्मसंस्कृतसमग्रहकालो युत्याख्यो ज्ञेयः। तस्मिन काले साधितौ तौ ग्रहौस्फुटावसमौ तात्कालि-कौ मध्यस्पष्टादिक्रियया कार्यौ। तयोः साधितग्रहयोर्विक्षेपौ। चः समुच्चये। कार्यौ। एतौ ग्रहौ दृक्कर्म-संस्कृतौ समौ भवत इति प्रतीतिः। नो चेत् तस्मादपि उक्तरीत्या मुहुःकालं स्थिरं कृत्वा प्रतीतिर्द्रष्ट-व्या। ततः सूक्ष्मयुतिसमये ग्रहयोर्विक्षेपसाधनानन्तरम्। दिक्तुल्य एकदिक्त्वे तुकाराद्विक्षेपयोरन्तरं कार्यम्। भेदे भिन्नदिक्त्वेविक्षेपयोर्योगः। शिष्टंसंस्कारोत्पन्नं ग्रहान्तरम्। युतिसम्बन्धिनोः ग्रहविम्ब-केन्द्रयोरन्तरालं याम्योत्तरं भवति। अत्रोपपत्तिः।
दृक्कर्मसंस्कृतग्रहयोः पूर्वापरान्तराभावः समप्रोतचलवृत्त इति तयोः समत्वम्। विक्षेपाग्रे ग्रहविम्बके-न्द्रत्वादेकदिशि विक्षेपयोरन्तरं ग्रहविम्बकेन्द्रयोः र्याम्योत्तरमन्तरं समप्रोतचलवृत्ते भिन्नदिशि शरयो-र्गोग एव ग्रहविम्बकेन्द्रयोर्याम्योत्तरमन्तरं तद्वृत्ते। भास्कराचार्यैस्तु। एवं लब्धैर्ग्रहयुतिदिनैश्चालितौ तौ समौ स्तः ताभ्यां सूर्यग्रहणवदिषू संस्कृतौ स्वस्वनत्या। तौ च स्पष्टौ तदनु विशिखौपूर्ववत् संविधे-यौ दिक्साम्ये या वियुतिरनयोः संयुतिर्भिन्नदिक्त्वे॥ इत्यनेन सूक्ष्ममुक्तम्। भगवता कृपालुना तदुपे-क्षितम्। स्वल्पान्तरत्वात्॥12॥

पञ्चताराणां विम्बमानकलानयनम्।

अथ पञ्चताराणां विम्बमानकलानयनं श्लोकाभ्यामाह –

कुजार्किज्ञामरेज्यानां त्रिंशदर्धार्धवर्धिताः।
विष्कम्भाश्चन्द्र कक्षायां भृगोः षष्टिरुदाहृता॥13॥

त्रिचतुः कर्णयुत्याप्तास्ते द्विध्नास्त्रिज्यया हताः।

स्फुटास्वकर्णास्तिथ्याप्ता भवेयुर्मानलिप्तिकाः॥14॥

त्रिंशदर्द्धार्द्धवर्द्धितास्त्रिंशतोऽर्द्धं पञ्चदश तदर्द्धं सार्धसप्त तैरुत्तरोत्तरं युक्तास्त्रिंशत्क्रमेण भौमश-निबुधबृहस्पतीनां चन्द्रकक्षायां चन्द्र काशगोले चन्द्रकक्षा प्रमाणेन न स्वकक्षाप्रमाणेन इत्यर्थः। वि-ष्कम्भा विम्बव्यासा योजनात्मका उक्ताः। भौमस्य त्रिंशत्। शनेःसार्द्धंसप्तत्रिंशत्। बुधस्य पञ्चच-त्वारिंशत्। गुरोः सार्द्धद्विपञ्चाशत्। अनेनैव क्रमेण शुक्रस्य षष्टिः। भृगोः षष्टिरित्यनेनार्द्धार्द्धेत्यस्य प्रत्येकमर्द्धयुक्ता इत्यर्धोनिरस्तः स्वाभिमतार्थो व्यक्तीकृतश्च। ते उक्ता विष्कम्भा द्विगुणास्त्रिज्यया गुणितास्त्रिचतुष्कर्णयुक्त्याप्ताः। तृतीयकर्मणि चतुर्थ कर्मणि च यौ कर्णौ मन्दकर्णशीघ्रकर्णौ तयो-र्योगेन भक्ता इति साम्प्रदायिकव्याख्यानम्। नव्यास्तु तृतीयकर्मर्णि कर्णानुपातानुक्तेस्तृतीयकर्णस्य मन्दकर्णस्याप्रसिद्धेरुपपत्तिविरोधाच्च पूर्वव्याख्यामुपेक्ष्य त्रिशब्देन त्रिज्या चतुष्कर्णश्चतुर्थ कर्मणि शीघ्रकर्णस्तयोर्गोगेन भक्ता इत्यर्थं कुर्वन्ति। स्पष्टाः स्वकर्णाः स्वविम्बव्यासा भवन्ति। पञ्चदशभक्ता विम्बमानकला भवेयुः। अत्रोपपत्तिः। स्वस्वकक्षायां स्थिताः पञ्चताराग्रहा दूरत्वात्ल्लोकैश्चन्द्राकाश-स्थिता इवदृश्यन्ते। अतस्तेषां वास्तवविम्बव्यासयोजनानि स्वयं ज्ञातानि। यथा सूर्यविम्बव्यासयोज-नानि उक्तानि चन्द्रग्रहणाधिकारे रवेः स्वभगणाभ्यस्त इत्यादिना चन्द्रकक्षायां साधितानि तथा स्वभ-गणानुसारेण उक्तप्रकारेण चन्द्रकक्षायां साधितानि। तथा च शाकल्यसंहितायाम्। अन्तरुन्नतवृक्षांश्व वनप्रान्ते स्थिता इव। दूरत्वाच्चन्द्रकक्षायां दृश्यन्ते सकला ग्रहाः॥ व्यर्द्धाष्टवर्द्धितास्त्रिंशद्विष्कम्भाः शास्त्रदृष्टतः। इत्येतानि त्रिज्यातुल्यशीघ्रकर्ण उक्तानि। अतः शीघ्रकर्णेऽधिके न्यूनं विम्बग्रहस्य उ-च्चासन्नत्वादल्पे तु नीचासन्नत्वादधिकं विम्बमिति त्रिज्ययोक्तानि विम्बानि तदेष्टशीघ्रकर्णेन कानीति व्यस्तानुपातेन युक्तमपि भगवतोपलब्धा त्रिज्यातोऽधिकन्यूनकर्णयोः क्रमेण व्यस्तानुपातागतादधि-कं न्यूनं च विम्बं दृष्टमतः कर्ण एव त्रिज्याशीघ्रकर्णयोगार्द्धमितः क्रमेण न्यूनाधिको गृहीतः। अत्र छेदं लवं च परिवर्त्य हरस्येत्यादिना द्विघ्नास्त्रिज्यागुणिता विष्कम्भास्त्रिज्या शीघ्रकर्णयोगभक्ता इत्युपप-न्नम्। त्रिचतुष्कर्णयोगार्द्धं स्फुटकर्णोऽय मस्तके।त्रिज्याघ्ना स्फुटकर्णाप्ता विष्कम्भास्ते स्फुटाः स्मृ-ता॥
इति शाकल्योक्तेश्च। अत एव विम्बस्य द्राङ्नीचोच्चमण्डलस्थत्वेन शीघ्रकर्णस्यैव भूगर्भाद् विम्बे सम्बन्धान्मन्दकर्णसम्बन्धस्तु अयुक्तः। न हि छेद्यके मन्दकर्णार्द्धाच्छीशीघ्रकर्णार्द्धे ग्रहविम्बमस्तीति प्रतिपादितम्। येन मन्दशीघ्रकर्णयोर्योगार्द्धं कर्णः सूपपन्नः। शीघ्रफलानयनेथा अङ्गीकारापत्तेः भा-स्कराचायैस्तु। व्यङअघ्रीषवः सचरणा ऋतवस्त्रिभागयुक्ताद्रयो नव च सत्रिलवैषवश्च। स्युर्मध्यमा-स्तनुकलाः क्षितिजादिकानां त्रिज्यासुकर्णविवरेण पृथग्विनिघ्नाः॥ त्रिघ्न्या निजान्त्यफलमौर्विकया विभक्ताः। लब्धेर्न युक्तरहिताःक्रमशःपृथक्स्थाः। ऊनाधिके त्रिभगुणाच्छ्रवणे स्फुटाः स्युः॥इत्युप-लब्ध्योक्तम्। भास्करानुवर्तिनस्तु त्रिचतुष्कर्णयुक्त्याप्ता इत्यस्य त्रिज्याशीघ्रकर्णयो र्योगार्द्धेन भक्ता इत्यर्थं वदन्ति॥13-14॥

अथ युतिसम्बन्धिनौ ग्रहौयुतिसमये दर्शनीयौइत्याह –

छायाभूमौ विपर्यस्ते स्वच्छायाग्रे तु दर्शयेत्।
ग्रहः स्वदर्पणान्तःस्थः शङ्क्वग्रे सम्प्रदृश्यते॥15॥

छायाभूमौ छायादानार्थं योग्यायां जलवत् समीकृतायां पृथिव्याम्। विपर्यस्ते वैपरीत्येन दत्ते स्व-च्छायाग्रे ग्रहच्छायाग्रस्थाने। तुकारोऽन्ययोगव्यवच्छेदार्थैवकारपरः। स्वदर्पणान्तस्थः स्वस्य यो दर्पण आदर्शस्तत्र स्थापितस्तन्मध्यस्थितो ग्रहो ग्रहप्रतिविम्बः स्यात्। तद्गणकः शिष्याय दर्शयेत्। एतदुक्तं भवति। समभूमौ दिक्साधनं कृत्वा दिक्सम्पातस्थानाद्युतिकालिकच्छायाङ्गुलानि पूर्वापरसूत्राद्भु-जविपरीतदिशि भुजान्तरेण ग्रहाधिष्ठितपूर्वापरकपालदिशि दत्वा तत्र आदर्शः स्थाप्यः तत्र प्रतिविम्बं ग्रहस्य दिक्सम्पातस्थो गणकः शिष्याय दर्शयेदिति। अत्रोपपत्तिः। ग्रहविम्बादअवलम्बसूत्रं महाश-ङ्कुरूपं यत्र भूमौ पतति तत्र ग्रहविम्बप्रतिविम्बो भवति तज्ज्ञानं तु खमध्याद्ग्रहविम्बपर्यन्तं नतांशा आकाशे तथा भूमौ दिक्सम्पातस्थान्महाशङ्कुकोटौदृग्ज्याभुजस्तदा द्वादशाङ्गुलशङ्कुकोटौको भुज इत्यनुपातानीतच्छायामितान्तरेण ग्रहाधिष्ठितकपाले भवति। यथा दृक्सम्पातस्थ द्वादशाङ्गुल-शङ्कोश्छाया ग्रहाधिष्ठितकपाले भवति। तथा ग्रह प्रतिविम्बस्थानद्वादशाङ्गुलशङ्कोश्छाया दिक्स-म्पाते भवति। अतो दिक्सम्पातस्थानाच्छायाग्रहाधिष्ठितकपाले दत्ता तदग्रे ग्रहप्रतिविम्बस्थानं ज्ञातं भवतीत्युपपन्नं छायाभूमावित्यादि स्वदर्पणान्तस्थ इत्यन्तम्। अथग्रहाधिष्ठिकपालान्यकपाले छाया-सद्भावनियमाद् ग्रहाधिष्ठितकपाले कथं छायादानं युक्तं व्याघातादिति मन्दाशङ्कास्वरसादाह। श-ङ्क्वग्र इति। दिक्सम्पातस्थापितशङ्कोरग्रे मस्तक आकाशे ग्रहो दृश्यते गणकेन इति शेषः॥15॥

ननु कथं दृश्यत् इत्यतः प्रकृतग्रहयोः युतिसम्बन्धिनोर्दर्शनप्रकारंसार्द्धश्लोकाभ्यामाह –

पञ्चहस्तोच्छ्रितौ शङ्कू यथा दिग्भ्रमसंस्थितौ।
ग्रहान्तरेण विक्षिप्तावधोहस्तनिखातगौ॥16॥

छायाकर्णौ ततो दद्याच्छायाग्राच्छंकुमूर्धगौ।
छायाकर्णाग्रसंयोगे संस्थितस्य प्रदर्शयेत्॥

स्वशंकुमूर्धगौव्योम्नि ग्रहौदृक्तुल्यतामितौ॥17॥

ग्रहयुतिसम्बन्धिनोः ग्रहयोःआयनदृक्कलाश्लोकपूर्वार्धोक्ताक्षदृक्कलाभ्यां संस्कृतयोस्तुल्येऽल्पा-न्तरेण आसन्ने वोदयलग्ने स्तः। षड्भयुतयोः ग्रहयोःआयनाक्षदृक्कला संस्कृतयोस्तुल्ये स्वल्पान्तरेण आसन्ने वास्तलग्ने भवतः। यस्मिन् काले ग्रहौद्रष्टुमभिमतौ तात्कालिकलग्नादरात्रौ यदुदयास्तलग्ने क्रमेण न्यूनाधिके यदि भवतः तौ सूर्यसान्निध्य जनितास्ताभावे दर्शनयोग्यौ। तदा पञ्च हस्तोच्छ्रितौ। चतुर्विंशत्यङ्गुलो हस्तः। एव पञ्चहस्तप्रमाणदीर्धौ शङ्कू काष्ठघटितसरलदण्डौ यथादिग्भ्रमसंस्थि-तौ युतिकाले ग्रहयोर्यादृशं दिग्भ्रमणम्। ग्रहौप्रवहभ्रमेण पूर्वकपाले पश्चिमकपाले वा यत्र संस्थितौ स्वाधिष्ठितस्थानाद्ग्रहाधिष्ठितकपालदिशि स्थाप्यौ न ग्रहानधिष्ठितकपालदिशि। ग्रहान्तरेण दिक् तुल्ये तु अन्तरं भेदे योग इत्यादिना ज्ञातयाम्योत्तरग्रहान्तरेण कलात्मकेन विक्षिप्तौ याम्योत्तरान्तरितौ स्था-प्यौ। अत्र सोन्नतमित्यादिना ग्रहविक्षेपौ अड्गुलात्मकौ कृत्वा दिक्तुल्ये तु अन्तरमित्यादिना ग्रहान्तरं ज्ञेयम्। अधो भूमेरन्तः। हस्तनिखातगौहस्तवेधप्रमाणा या गर्ता तत्र स्थितौ भूम्यां शङ्कोर्हस्तमात्रं रो-पयित्वा भूमेरूद्र्ध्वं शङ्कू चतुर्हस्तप्रमाणदीर्घौ स्यातामित्यर्थः। ततः शङ्कुमूलाभ्यां प्रत्येकं यच्छा-याग्रं ग्रहानधिष्ठितकपालदिशि तस्मात् प्रत्येकमित्यर्थः। छायाकर्णौ स्वकीयौशङ्कुमूर्द्धगौ निजश-ङ्क्वग्ररूपमस्तकप्रापिणौ गणको दद्यात्। एतदुक्तं भवति। युतिसमये लग्नं कृत्वा तात्कालिकोदय-लग्नेष्टलग्नाभ्यां पूर्ववदन्तरकालो ग्रहोदयाद्गतकालः सावनः। एवं ग्रहयोर्युतिसमये स्वदिनगतात् त्रिप्र-श्नाधिकारोक्तविधिना स्पष्टक्रान्त्या छाया साध्या॥ ततो यो ग्रहो दक्षिणोत्तरयोर्मध्ये यद्दिशि तच्छाया तद्दिक्स्था शङ्कोर्मूलाद्ग्रहानधिष्ठितकपालदिशि पूर्वापरसूत्राद्भुजान्तरेण भुजदिशि देया। परमानीत-च्छाया द्वादशाङ्गुलशङ्कोरिति चतुर्हस्तशंकुप्रमाणेन प्रसाध्य रेखा तन्मिता समभूमौ शङ्कुमूलात् कार्या। रेखाग्रे छायाग्रे ज्ञापकं चिह्नं कार्यम्। तत्र कीलादिना सूत्रं बध्वा शङ्क्वग्रसक्तं प्रसार्यमिति। छायाकर्णाग्रसंयोगे छायाग्रं कर्णस्य मूलरूपमग्रं तयोःसम्पाते संस्थितस्य छायाग्रस्थानकृतगर्त्तोप-विष्टशिष्यस्य गणको ग्रहावाकाशे स्वशङ्कुमूर्द्धगौनिजशङ्क्वग्ररूपमस्तकसमसूत्रस्थितौ दृकतु-ल्यतां दृष्टिगोचरतामितौ प्राप्तौ प्रदर्शयेत् सन्दर्शयेत्। अत्रोपपत्तिः। उच्चतया दर्शनार्थं पञ्चहस्त प्र-माणौ शङ्कूकृतौ। तत्र एकहस्तस्य भूमिगुप्तत्वं शङ्कुदृढत्वार्थं कृतम्। बहिः पुरुषप्रमाणौ चतु-र्मितहस्तावशिष्टौ शङ्कोःपुरुषपर्यायेणाभिधानाच्च। शङ्कुसूत्रस्य ग्रहविम्बसक्तत्वाद्यथा दिग्भ्रमसं-स्थितावित्युक्तम्। शङ्क्वग्रसमसूत्रेण ग्रहविम्बावस्थान नियमाद्ग्रहान्तरेण याम्योत्तरान्तरितौ स्थापि-तौ। अत्र यद्यपि स्वस्वस्पष्टक्रान्त्यग्रां प्रसाध्य ततः कर्णाग्रां प्रसाध्योक्तदिशा पलभासंस्कारेण स्वस्व-भुजं प्रसाध्य ताभ्याम्। दिक्तुल्येत्वन्तरं भेदे योगःशिष्टं ग्रहान्तरम्। इत्युक्तरीत्या ग्रहान्तरं शङ्कोरन्त-रं युक्तं तथापि भगवता स्वल्पान्तरेण गणितश्रमापनोदार्थमाकशस्थितदृष्टान्तरमेव धृतम्। शङ्को-श्छायाग्राच्छायाकर्णसूत्रं ग्रहविम्बदर्शनसूत्रमतः कर्णमूलदृशा पुरुषेण ग्रहविम्बं द्रष्टव्यमेवेति दिक्॥16-17॥

पञ्चताराणां युद्धसमागमः।

अथ श्लोकाभ्यां पञ्चताराणां प्राक् प्रतिज्ञातौ युद्धसमागम आह—

उल्लेखं तारकास्पर्शाद् भेदे भेदः प्रकीर्त्यते॥18॥
युद्धमंशुविमर्दाख्यमंशुयोगे परस्परम्।

अंशादूनेऽपसव्याख्यं युद्धमेकोऽत्र चेदणुः॥

समागमोंऽशादधिके भवतश्चेद्बलान्वितौ॥19॥

भौमादिपञ्चताराणां मध्ये द्वयोर्युतौतारकास्पर्शाद्विम्बनेम्योः स्पर्शमात्रादुल्लेखसंज्ञं युद्ध वद-न्तियुतिभेदज्ञाः। इदं तु द्वयोर्मानैक्यखण्डतुल्ययाम्योत्तरान्तरे भेदे मण्डलभेदेभेदो भेदसंज्ञो युद्धा-वान्तरभेदो युद्धभेदतत्त्वज्ञैः कथ्यते। अयं भेदो मानैक्यखण्डादूनेद्वयोर्याम्योत्तरान्तरे। अत्र भास्करा-चार्यैस्तु।
मानैक्यार्द्धाद्द्युचरविवरेऽल्पे भवेद्भेदयोगः। कार्यं सूर्यग्रहवदखिलं लम्बनाद्यं स्फुटार्थम्॥ कल्प्यो-ऽधःस्थः सुधांशुस्तदुपरिग इनो लम्बनादि प्रसिद्ध्यै। किन्त्वर्कादेव लग्नं ग्रहयुतिसमये कल्पितार्कान्न साध्यम। प्राग्वत् यल्लम्बनेन ग्रहयुतिसमयः संस्कृतः प्रस्फुटःस्यात्

खेटौतौ दृष्टियोग्यौ ग्रहयुतिसमये कार्यमेवं तदैव॥ याम्योद्क्स्थद्युचरविवरं भेदयोगे स वाणो ज्ञेयः सूर्याद्भवति च यतः शीतगुः सा शराशा। मन्दाक्रान्तोऽनृजुरपि तदाधः स्थितः स्यात् तदैन्द्रयां स्पर्शो मोक्षोऽपरदिशि तदा पारिलेख्येऽवगम्यः॥ इति विशेषोऽभिहितः। भगवता तु सूक्ष्मविम्बयोराकाशे दूरतो विविक्त दर्शनासम्भवाद् व्यर्थप्रयासादुपेक्षितमिति ध्येयम्। युतावन्योऽन्यं किरणयोगे सत्यंशु-मर्दाख्यंकिरणसंघट्टनसंज्ञं युद्धं स्यात्। द्वयोर्याम्योत्तरान्तरेंऽशात् षष्टिकलात्मकैकभागादूनेऽनधिके सत्यपसव्यसंज्ञं युद्धं भवति। अत्र विशेषमाह। एक इति। अत्र अपसव्ययुद्ध एको द्वयोरन्यतरोऽणुर-णुविम्बश्चेत् स्यात् तदापसव्यं युद्धं व्यक्तं स्यात् अन्यथा तु अव्यक्तं युद्धं स्यात्। एषां चतुर्णां फलम्। अपसव्ये विग्रहं ब्रूयात् संग्रामं रश्मिसङ्कुले लेखनेऽमात्यपीडा स्याद्भेदने तु धनक्षयः। इति भार्ग-वीयोक्तं ज्ञेयम्। युद्धभेदानुक्त्वा समागममाह। समागम इति। द्वयोर्याम्योत्तरान्तरे षष्टिकलात्मकैक-भागादभ्यधिके सति समागमो योगो भवति। अत्रापि विशेषमाह। भवत इति। युतिविषयकौ ग्रहौ बलान्वितौ बलेन।
स्थानादिबलचिन्तात्र व्यर्था केनापि न स्मृता। प्रश्नत्रयेऽथवाप्यस्मिन् स्थौल्यसौक्ष्म्यबले स्मृतम॥ इति ब्रह्मसिद्धान्तवचनात्। स्थूलमण्डलतयान्वितौ युक्तौ स्थूलविम्बौ समावित्यर्थः। चेत्स्तदा समाग-मस्तयोव्यक्तः स्यात्। अन्यथा तु अव्यक्तः समागमः। द्वावपि मयूखयुक्तौ विपुलौ स्निग्धौ समागमे भवतः। अत्रान्योऽन्यं प्रीतिविपरीतावात्मपक्षघ्नौ॥ युद्धं समागमो वा यद्यव्यक्तौ तु लक्षणैर्भवतः। भुवि भूभृतामपि तथा फलमव्यक्तं विर्निदिष्टम्॥ इत्युक्तेः॥ भेदोल्लेखांशुसम्मर्दा अपसव्यस्तथापरः। ततो योगो भवेदेषामेकांशकसमापनात्। इति काश्यपोक्तेश्च सर्वं निरवद्यम्॥18-19॥

युद्धे पराजितस्य ग्रहस्य लक्षणम्।
अथ युद्धे पराजितस्य ग्रहस्य लक्षणमाह –

अपसव्ये जितो युद्धे पिहितोऽणुरदीप्तिमान्॥20॥

रूक्षो विवर्णो विघ्वस्तो विजितो दक्षिणाश्रितः।

द्वयोर्मध्ये यस्तदितरेण विध्वस्तो हतः स विजितः पराजितो ज्ञेयः। हतस्य लक्षणमाह। अपसव्य इति। अपसव्ये युद्धे योऽजितो जयलक्षणैर्विवर्जितः। एतेनोल्लेखादित्रये संज्ञाफलं न पराजितस्य फ-लमिति सूचितम्। पिहित आच्छातोऽव्यक्त इति यावत्। अणुरितरग्रहविम्बाद्ल्पविम्बः। अदी-प्तिमान् प्रभारहितः। रुक्षोऽस्निग्धः विवर्णःवर्णेन स्ववर्णेन स्वाभाविकेन रहित इत्यर्थः। दक्षिणाश्रित इतरग्रहापेक्षया दक्षिणदिशि स्थितः। श्यामो वा व्यपगत रश्मिमण्डलो वा रुक्षो वा व्यपगतरश्मिवा-न् कृशो वा। आक्रान्तो विनिपतितः कृतापसव्यो विज्ञेयो हत इति सग्रहो ग्रहण॥ इति भार्गवीयो-क्तेः॥20॥


अथ श्लोकार्द्धेन जयिनो ग्रहस्य लक्षणमाह –

उदक्स्थोदीप्तिमान् स्थूलो जयी याम्येऽपि यो बली॥21॥

इतरग्रहापेक्षयोत्तरदिक्स्थः। दीप्तिमान् प्रभायुक्तः। स्थूल इतर ग्रहविम्बापेक्षया पृथुविम्बः। जयी जययुक्तः स्यात्। अथोत्तरदक्षिणदिक्स्थत्वक्रमेण जयपराजयौ न स्त इत्याह। याम्य इति। दक्षिणदि-शि यो ग्रहो बली दीप्तिमान् पृथुविम्बो भवति स जयी। अपिशब्द उत्तरदिशा समुच्चयार्थकः। तथा च जयपराजयलक्षणयोर्दिग्दानमनुपयुक्तमितिभावः॥21॥


अथ युद्धे विशेषमाह-

आसन्नावप्युभौ दीप्तौ भवतश्चेत् समागमः।
स्वल्पौ द्वावपि विध्वस्तौ भवेतां कूविग्रहौ॥22॥

उभौ द्वौ। आसन्नावेकभागान्तरगतान्तरितौ। अपि शब्दाद् युद्धलक्षणाक्रान्तौ। दीप्तौ प्रभायुक्तौ चेत् स्यातां तदा बलान्विताविति समागमलक्षणैकदेशसद्भावात् समागमाख्यं युद्धम्। द्वावपि ग्रहौस्वल्पौ सूक्ष्मविम्बौ विध्वस्तौ। द्वावपि पराजयलक्षणाक्रान्तौ स्यातां तदा क्रमेण कूविग्रहसंज्ञकौ युद्धभेदौ स्याताम्॥22॥

अथ उत्सर्गतः शुक्रस्य जयलक्षणाक्रान्तत्वम् अस्तीति वदन् समागमः शशाङ्केनइति प्राक् प्रति-ज्ञातसमागम उक्तप्रकारमतिदिशति –

उदक्स्थोदक्षिणस्थो वा भार्गवः प्रायशो जयी।
शशाङ्केनैवमेतेषां कुर्यात् संयोगसाधनम्॥23॥

इतरग्रहापेक्षयोदक्स्थो दक्षिणदिक्स्थो वोभयदिशीत्यर्थः। शुक्रः प्रायश उत्सर्गतो जयलक्षणाक्रान्त-त्वेन जयी। कदाचित् पराजयलक्षणाक्रान्तो भवति इति तात्पर्यार्थः। एतेषां भैमादि भौमादिपञ्चतारा-ग्रहाणां चन्द्रेण सह संयोगसाधनं युतिसाधनमेषामुक्तरीत्या गणकः कुर्यात् अत्र विशेषार्थकम्। अव-नत्या स्फुटोज्ञेयो विक्षेपः शीतगोर्युतौ। इत्यर्थः क्वचित् पुस्तके दृश्यते न सर्वत्र इति क्षिप्तं म्त्वोपेक्षि-तम्। अधिकारस्य अपूर्णश्लोकत्वापत्तेश्च। एतदुक्त्यान्ययोगे नतिसंस्कार- निषेधस्य सिद्धेस्तस्यायु-क्तत्वमिति तदनुक्तौ सूर्यग्रहणोक्तरीत्या साधारण्येन सर्वत्र तद्विशेषोक्तिरर्थासिद्धेरिति ध्येयम्॥23॥

ननु एषां ग्रहाणां दूरान्तरेण सदा उर्ध्वाधरान्तर’सद्भावात् परस्परं योगासम्भवेन कथं युतिः सङ्गते-त्यत आह –

भावाभावाय लोकानां कल्पनेयं प्रदर्शिता।
स्वमार्गगाः प्रयान्त्येते दूरमन्योऽन्यमाश्रिताः॥24॥

एते ग्रहाः स्वमार्गगाःस्वस्वकक्षास्था अन्योन्यमाश्रिता युतिकाल ऊर्ध्वाधरान्तराभावेन संयुक्ताः सन्तः प्रयान्ति गच्छन्ति। इति दूरं दूरान्तरेण दर्शनादियं ग्रहयुतिकल्पना कल्पनात्मिका वास्तवा प्र-दर्शिता पूर्वोक्तग्रन्थेन कथिता। ननु अवस्तुभूता किमर्थमुक्तेत्यतः प्रयोजनमाह। भावाभावायेति। लोकानां भूस्थप्रणिनां भावःशुभफलमभावोऽशुभफलं तस्मै शुभाशुभफला देशायावस्तु भूतापि यु-तिरुक्तेति भावः॥24॥

अथाग्रिमग्रन्थस्यासङ्गतित्वनिरासार्थमधिकारसमाप्तिंफक्किकया आह— स्पष्टम्।

रङ्गनाथेन रचिते सूर्यसिद्धान्तटिप्पणे। ग्रहयुत्यधिकारोऽयं पूर्णो गूढप्रकाशके॥

इतिश्रीसकलगणकसार्वभौमबल्लाल्दैवज्ञात्मजरङ्गनाथगणकविरचिते गूढार्थप्रकाशके ग्रहयुत्य-धिकारः सम्पूर्णः॥7॥ इति ग्रहयुत्यधिकारः।

नक्षत्रग्रहयुत्यधिकारः8

नक्षत्रध्रुवकज्ञानम्।
अथ प्रसङ्गादारब्धो नक्षत्रग्रहयुत्यधिकारो व्याख्यायते। तत्र प्रथमं नक्षत्राणांध्रुवकज्ञानमाह –

प्रोच्यन्ते लिप्सिका भानां स्वभोगोऽथ दशाहतः।
भवन्त्यतीत्यधिष्ण्यानां भोगलिप्तायुता ध्रुवाः॥1॥

भानामश्विन्यादिनक्षत्राणामुत्तराषाढाभिजिच्छ्रवणधनिष्ठावर्जितानां लिप्तिका भोगसंज्ञाःकलाः प्रो-च्यन्ते समनन्तरमेव कथ्यन्ते। अथानन्तरं स्वभोगःस्वाभीष्टनक्षत्रभोगःकलात्मको वक्ष्यमाणो दशभिर्गुणितः कार्यः। तत्र स्वाभीष्टनक्षत्रगतनक्षत्राणामश्विन्यादीनां भोगलिप्ताः। भभोगोऽष्टशती लिप्ता इत्युक्ताष्टशतकलाःप्रत्येकं युताः। अश्विन्याद्यतीतनक्षत्रसङ्ख्यागुणितकलाष्टशतं युतमित्य-र्थः। ध्रुवा नक्षत्राणां भवन्ति॥1॥

अथ प्रतिज्ञाता नक्षत्रभोगलिप्ता उत्तराषाढाभिजिच्छ्रवणधनिष्ठाव्यतिरिक्तानां तेषां ध्रुवकान्नक्षत्रशरांश्चाष्टश्लोकैराह–


अष्टार्णवाः शून्यकृताः पञ्च षष्टिर्नगेषवः।
अष्टार्था अब्धयोऽष्टांगा अङ्गागा मनवस्तथा॥2॥

कृतेषवोयुगरसाः शून्यबाणा वियद्रसाः।
खवेदाःसागरनगा गजागाः सागरर्तवः॥3॥
मनवोऽथ रसा वेदा वैश्वमाप्यार्धभोगगम्।

आप्यस्यैवाभिजित् प्रान्ते वैश्वान्ते श्रवणस्थितिः॥4॥

त्रिचतुष्पादयोः सन्धौ श्रविष्ठा श्रवणस्य तु।

स्वभोगतो वियन्नागाः षट्कृतिर्यमलाश्विनः॥5॥

रन्ध्राद्रयः क्रमादेषां विक्षेपाः स्वादपक्रमात्।

दिङ्मासविषयाः सौम्ये याम्ये पञ्चदिशो नव॥6॥
सौम्ये रसाःखं याम्येऽगाः सौम्ये खार्कास्त्रयोदश।

दक्षिणे रुद्रयमलाःसप्तत्रिंशदथोत्तरे॥7॥

याम्येऽध्यर्धत्रिककृता नव सार्धशरेषवः।
उत्तरस्यां तथा षष्टिस्त्रिंशत् षट्त्रिंशदेव हि॥8॥
दक्षिणे त्वर्धभागस्तु चतुर्विंशतिरुत्तरे।
भागाः षड्-विंशतिः खं च दसादीनां यथाक्रमम्॥9॥

अश्विन्यादिक्षत्रणाणां क्रमाद्भोगा एते। तत्र अश्विन्यामष्टचत्वारिंशत् कलाः भण्याश्चत्वारिंशत्। कृ-त्तिकायाः कलाः पञ्चषष्टिः। रोहिण्याःसप्तपञ्चाशत्कलाः। मृगशिरसोऽष्टपञ्चाशत्। आर्द्रायाश्चत्वारः। अत्राब्धय इत्यत्र गोऽब्धयो गोग्नय इति वा पाठस्तु अयुक्तः। शाकल्यसंहिताविरोधात्। एतेन सौरो-क्तरुद्रभस्यांशास्त्र्यद्रयोगाब्धयः कलाः। इतिनार्मदोक्तंदशकलोनपञ्चदशभागा मिथुने सर्वजनाभि-मतध्रुवको दशकलायुतत्रयोदशभागाः पर्वताभिमतध्रुवकश्च निरस्तः। पुनर्वसोरष्टसप्ततिः। पुष्यस्य षट्सप्ततिः। आश्लेषायारचतुर्दश। तथेति छन्दः पूरणार्थम्। मघायाः चतुःपञ्चाशत्। पूर्वाफाल्गुन्या-श्चतुःषष्टिः। उत्तराफाल्गुन्याः पञ्चाशत्। हस्तस्य षष्टिः। चित्रायाश्चत्वारिंशत्। स्वात्याश्चचतुःसप्ततिः। विशाखाया अष्टसप्ततिः। अनुराधायाश्चतुःषष्टिः। ज्येष्ठायाश्चतुर्दश। अनन्तरं मूलस्य षट्। पूर्वाषाढा-यारचत्वारःउत्तराषाढाया ध्रुवकमाह। वैश्वमिति। उत्तराषाढायोगतारानक्षत्रम्।आप्यार्द्धभोगगम्। आप्यस्य पूर्वाषाढानक्षत्रस्यार्द्धभोगः।धनूराशेर्विंशतिभागस्तत्र स्थितं ज्ञेयम्। अष्टौ राशयो विशंतिभा-गा उत्तराषाढाया ध्रुवइत्यर्थः।एतेन पूर्वाषाढायोगतारायाः सकाशादुत्तराषाढायोगतारा विशंतिक-लोनसप्तभागान्तरिता। तेनपूर्वाषाढाध्रुवकोऽष्टराशयश्चतुर्दशभागाविंशतिकलोनसप्तभागैर्युत उत्त-राषाढायाः ध्रुवश्चत्वारिंशत्कलाधि-कोक्तध्रुव इति पर्वतोक्तमपास्तम्।ब्रह्मसिद्धान्तविरोधात्। अभि-जिद्ध्रुवकमाह। आप्यस्येति। पूर्वाषाढाया अवसाने धनूराशेर्विंशतिकलोनसप्तविंशतिभागेऽभिजि-द्योगतारा ज्ञेया। चत्वारिंशत्कलाधिकषड्-विंशतिभागाधिका अष्टा राशयोऽभिजितो ध्रुव इत्यर्थः। ए-वकारोऽन्ययोगव्यवच्छेदार्थः।तेसंहिता सम्मतंश्रवणपञ्चदशांशस्थानं विंशतिविकलायुतत्रयोदश-कलायुतरचतुर्दशभागादिकनवराशयो निरस्तम्। श्रवणस्यध्रुवकमाह। वैश्वान्त इति। उत्तराषाढाया अवसाने श्रवणयोगतारायाः स्थानं ज्ञेयम्। नवराशयो दशभागाः श्रवणध्रुवक इत्यर्थः। धनिष्ठाया ध्रुव-कमाह। त्रिचतुः पादयोरिति श्रवणस्य तृतीयचतुर्थचरणयोः क्रमेणान्तादिसन्धौ मकरराशैर्विशतिभागे श्रविष्ठा धनिष्ठा ज्ञेया। नवराशयो विशंतिभागा धनिष्ठाध्रुव इत्यर्थः। तुकारात् क्षेत्रान्तर्गतधनिष्ठा स्थानं कुम्भस्य विंशतिकलोनसप्तभागा निरस्तम्। शतताराया भोगमाह। स्वभोगत इति। धनिष्ठाभोगात् कुम्भस्य विंशतिकलोनसप्तभागावधेरित्यर्थः। शतताराया अशीतिर्भोगः। अतः प्राग्वद्ध्रुवा इति ज्ञाप-नार्थं स्वभोगत इत्युक्तम्। शततारायाः स्थानं शततारकाध्रुव इतिपर्यवसन्नम्। अवशिष्टनक्षत्राणां भोगानाह। षट्कृतिरिति। पूर्वाभाद्रपदायाःषट्त्रिंशत्कलाभोगः। उत्तराभाद्रपदायाःद्वाविंशतिः। रेव-त्या एकोनाशीतिः। अथ ध्रुवकानयनं यथा। अश्विन्या भोगः48 दशगुणितः 480 अतीतनक्षत्राभावा-द्भोगयोजनाभावः। अतोऽश्विन्याः कलात्मको ध्रुवः480 राश्याद्यस्तु 8 भरण्या भोगः40 दशाहतः400 अतीतनक्षत्रस्यैकत्वादष्टशतयुतो भरण्याः परिभाषया राश्याद्यो ध्रुवः 0,20 एवमार्द्राभोगः4 दशहतः 40 अतीतनक्षत्राणां पञ्चतया पञ्चगुणिताष्टशतेन 4000 चतुः सहस्रात्मकेन युतः कलाद्यो ध्रुवः 4040 राश्याद्यस्तु 2,7,20 एवं पूर्वाषाढाया दशगुणितो भोगः40 एकोनविंशतिगुणिताष्टशतेन 15200 युतः परिभाषया राश्याद्यो ध्रुवः8,14 शतताराया दशगुणितो भोगः800 त्रयोविंशतिगुणिताष्टशतेन 18400 युतश्चर्विंशति गुगिताष्टशतरूपो 19\।200 जातो ध्रुवो राश्याद्यः 10,20 पूर्वाभाद्रपदाया दश-गुणितो भोगः360 चतुर्विशतिगुणिताष्टशतेन 19200 युतो 19560 जातो ध्रुवो राश्याद्यः10, 26उत्तराषाढाभिजिच्छ्रवणधनिष्ठानां स्वभोगस्थानात् पश्चात् स्थितत्वेनोक्तरीत्यसम्भवाद् भिन्नरीत्या ध्रुवका उक्ताःस्वादिस्थानाद्योगतारा यदन्तरकलाभिस्थितास्ता लाघवाद् दशापवर्तिता भोगसंज्ञा उक्ताः। तथा च ब्रह्मसिद्धान्ते। अष्टौ विंशतिरर्द्धेन गजाग्निव्यर्द्धखेषवः। त्रितर्काःसत्रिभागाद्रिरसात्र्य- ङ्काश्च षट्शतम्॥ नवाशा नवसूर्याश्च वेदेन्द्राः शरबाणभूः। खात्याष्टिः खधृतिर्गोऽतिधृतिर्विश्वाश्विनस्त-था॥ वेदाकृतिर्गोदृग्घस्ताः क्वब्धि-हस्ता युगार्थदृक। खोत्कृतिस्त्रयंशहीनाश्वरसहस्ताः शैलगुणाग्यन-यः। खगोऽश्विनः खदन्ताः षड्दन्ताः खहस्तिदृक्। मेषाद्यश्व्यादिमध्यांशाः षडंशोनाः खषड्गुणाः। इति। अथ नक्षत्राणां विक्षेपभागानाह। एषामिति। उक्तध्रुवकसम्बन्धिनामश्विन्यादिनक्षत्राणां यथाक्रमं क्रमादित्यर्थः। स्वात् स्वकीयापक्रमात् क्रान्त्यग्रात् क्रान्तिवृत्तस्थ ध्रुवकस्थानादित्यर्थः। विक्षेपा विक्षे-पभागा दक्षिणा उत्तरा वा भवन्ति। तत्रोत्तरदिश्यश्विन्यादित्रयाणांदिङ्मासविषयाः क्रमेण दशद्वादश-पञ्चेत्यर्थः। दक्षिणदिशि रोहिण्यादित्रयाणां पञ्चदश नव। उत्तरस्यां पुनर्वसोः षड्भागाः। पुष्यस्य खं विक्षेपाभावः। अत्र पञ्चमाक्षरस्य गुरुत्वेन छन्दोभङ्ग आर्षत्वान्न दोषः। दक्षिणस्यामाश्लेषायाः सप्त। उत्तरस्यां मघादित्रयाणां शून्यं द्वादश त्रयोदश। दक्षिणस्यां हस्तचित्रयोरेकादश द्वौ। अनन्तरं स्वात्या उत्तरदिशि सप्तत्रिंशत्। दक्षिणस्यां विशाखादीनां षण्णां सार्द्धैकःत्रयं चत्वारः। नव सार्द्धपञ्चपञ्चक्र-मेण उत्तरदिशि तथा विक्षेपभागा अभिजितः षष्टिः। श्रवणस्य त्रिंशत्। धनिष्ठायाः षट्त्रिंशत्। एवका-रो न्यूनाधिकव्यवच्छेदार्थः। चकारः पूरणार्थः। दक्षिणस्यां तुकारस्तथा। अर्द्धभागः शततारायाः। तु-कारस्तथा। उत्तरस्यां पूर्वाभाद्रपदायाश्चतुर्विंशतिः। तस्यामेव दिशि भागा विक्षेपभागा उत्तराभाद्रप-दायाः भाः षडविंशतिः रेवत्या विक्षेपाभावः चकारः पूरणार्थः॥2-9॥

अगस्त्य-लुब्धक-वह्नि-ब्रह्महृदयताराणां ध्रुवकविक्षेपाः।
अथागस्त्यलुब्धकवह्निब्रह्महृदयताराणां ध्रुवकविक्षेपांस्तदुपपत्तिं श्लोकत्रयेणजाह—

अशीतिभागैर्याम्यायामगस्त्यो मिथुनान्तगः।
विंशे च मिथुनस्यांशे मृगव्याधो व्यवस्थितः॥10॥

विक्षेपो दक्षिणे भागैः खार्णवैः स्वादपक्रमात्।
हुतभुग्ब्रह्महृदयौ वृषे द्वाविंशभागगौ ॥ 11॥
अष्टाभिस्त्रंशता चैव विक्षिप्तायुत्तरेण तौ।
गोलं बध्वा परीक्षेत विक्षेपं ध्रुवकं स्फुटम्॥12॥


स्वकीयात् क्रान्तिविभागस्थानाद्दक्षिणस्यामशीत्यंशैस्तारात्मकोऽगस्त्यो मिथुनान्तगःकर्कादिभागे स्थितः। अगस्त्यनक्षत्रस्य राशित्रयं ध्रुवकाः। दक्षिणविक्षेपोऽशीतिरित्यर्थः। मृगव्याधो लुब्धको मिथुन-राशेर्विंशतिभागे स्थितः। चकारः समुच्चये। लुब्धकनक्षत्रस्य राशिद्वयं विंशतिभागा ध्रुवक इत्यर्थः। दक्षिणस्यां चत्वारिंशता भागैःपरिमितस्तस्य च क्रान्तिवृत्तस्थानाद्विक्षेपः।वृषराशौ बह्निब्रह्महृदयौ व-ह्निब्रह्महृदयनक्षत्रयोर्द्वाविंशतिभागाधिकैकराशिध्रुवकः। तौवह्निब्रह्महृदयौ। अष्टाभि स्त्रिंशता। च-कारः क्रमार्थे। एवकारो न्यूनाधिकव्यवच्छेदार्थः उत्तरेणोत्तरस्यामित्यर्थः। विक्षिप्तौ विक्षेपवन्तौ। वह्ने-र्विक्षेपोऽष्टभाग उत्तरः। ब्रह्महृदयस्योत्तरो विक्षेपस्त्रिंशदित्यर्थः। नन्वेते ध्रुवा विक्षेपाश्च कालक्रमेण नियता अनियता वेत्यत आह। गोलमिति। गोलं वक्ष्यमाणं बध्वा वंशशलाकादिभिर्निबध्य स्फुटं वि-क्षेपं क्रान्तिसंस्कारयोग्यं ध्रुवाभिमुखं ध्रुवकं स्फुटमायनदृक्कर्मसंस्कृतं परीक्षेत। स्वस्वकाले दृग्गोच-रसिद्धमङ्गीकुरुत। तथा च क्रान्तिसंस्कारयोग्यविक्षेपायनसंस्कृतध्रुवकयोरयनांशवशादस्थिरत्वादपि मयेदानीन्तनसमयानुरोधेन लाघवार्थमायनदृक्कर्मसंस्कृता ध्रुवाः क्रान्तिसंस्कारयोग्यविक्षेपाश्च निय-ता उक्ताः। कालान्तरे गोलयन्त्रेण वेधसिद्धा ज्ञेयाः। नैत इति भावः। गोलयन्त्रेण वेधस्तु गोलबन्धो-क्तविधिना गोलयन्त्रं कार्यम्। तत्र खगोलस्योपरि भगोलमाधारवृत्तस्योपरि विषुवद्वृत्तम्। तत्र यथो-क्तं क्रान्तिवृत्तं भगणांशाङ्कितं च बध्वा ध्रुवयष्टिकीलयोःप्रोतमन्यच्चलं भवेधवलयम्। तच्च भगणां-शाङ्कितं कार्यम्।ततस्तद्गोलयन्त्रं सम्यग्ध्रुवाभिमुखयष्टिकं जलसमक्षितिवलयं च यथा भवति तथा स्थिरं कृत्वा रात्रौ गोलमध्यच्छिद्रगतया दृष्ट्या रेवतीतारां विलोक्य क्रान्तिवृत्ते मीनान्ताद्दशकलान्त-रितपश्चाद्भागं रेवतीतारायां निवेश्य मध्यगतयैव दृष्टयाश्विन्यादेर्नक्षत्रस्य योगतारां विलोक्य तस्या उ-परि तद्वेधवलयं निवेश्यम्। एवं कृते सति वेधवलयस्य क्रान्तिवृत्तस्य च यः सम्पातः स मीनान्तादग्र-तो यावद्भिरंशैस्तावन्तस्तस्य नक्षत्रस्य ध्रुवांशा ज्ञेयाः। वेधवलये तस्यैव सम्पातस्य योगतारायाश्च याव-न्तोऽन्तरेंऽशास्तविन्तस्य विक्षेपांशा दक्षिणा उत्तरा वा वेद्याः। अथ कदम्बप्रोतवेधवलयेन वेधे तु स-दा स्थिरा ध्रुवका आयनदृक्कर्मासंस्कृताःपरन्तु कदम्बतारयोरमावादशक्यमिति ध्रुवाः यथोक्तवेधे-नैवायनदृक्कर्मसंस्कृता ध्रुवाभिमुखाःस्फुटाःसिद्धा भवन्तीति दिक्॥10-12॥

रोहिणीशकटभेदः
अथ रोहिणी शकटभेदमाह –


वृषेसप्तदशेभागे यस्य याम्योंऽशकद्वयात्।
विक्षेपोऽभ्यधिकोभिन्द्याद्रोहिण्याः शकटंतु सः॥13॥


वृषराशौ सप्तदशेऽशे यस्य ग्रहस्य भागद्वयाधिको विक्षेपो दक्षिणः स ग्रहो रोहिण्याःशकटंशकटाकारसन्निवेशं भिन्द्यात्। तन्मध्यगतो भवेदित्यर्थः। तुकाराद् ग्रहविक्षेपो रोहिणीविक्षेपादल्प इति विशेषार्थकः। विक्षेपस्य दक्षिणस्य रोहिणीविक्षेपादधिकत्वे शकटाद्वहिर्दक्षिणभागेग्रहस्य स्थितत्वेन तद्भेदकत्वाभावात्। अत्र शकटाग्रिमनक्षत्रस्य ध्रुव एकाराशिः सप्तदशांशाः। दक्षिणः शरो भागद्वयमि-ति वेधसिद्धा स्पष्टा युक्तिः॥13॥

योगसाधनरीतिः।
अथ भग्रहयोगसाधनार्थं ग्रहयोगसाधनरीतिमाह –


ग्रहवद् द्युनिशे भानां कुर्याद् दृक्कर्म पूर्ववत्।
ग्रहमेलकवच्छेषं ग्रहभुक्त्या दिनानि च॥14॥

ग्रहवद्युनिशे ग्रहाणां यथा दिनरात्रिमाने आक्षदृक्कर्मार्थं कृते तथा दिनमानरात्रिमाने भानां नक्षत्र-ध्रुवकाणामाक्षदृक्कर्मार्थं गणकः कुर्यात्। तदनन्तरं पूर्ववन्नक्षत्रनित्योदयास्तौ साधयित्वाभीष्टकाले दिनगतशेषाभ्यां नतं कृत्वा विषुवच्छाययाभ्यस्तावित्यादिनेत्यर्थः। दृक्कर्म कुर्यात्। अत्र नक्षत्रध्रुवके पर्वतेनायनदृक्कर्मापि उदाहरणे कृतं तदयुक्तम्। तस्य ध्रुवके स्वतः सिद्धत्वात्। तदनन्तरं शेषं न-क्षत्रग्रहयुतिसाधनं ग्रहध्रुवतुल्यतारूपं ग्रहमेलकवद्ग्रहयोगसाधनरीत्या ग्रहान्तरकला इत्यादिना का-र्यम्। ननु तत्र ग्रहान्तरकलाः स्वस्वभुक्तिलिप्तासमाहताः। भुक्त्यन्तरेण विभजेदित्युक्तेर्नत्रस्य का ग-तिर्ग्राह्या इत्यत आह ग्रहभुक्त्येति। केवलया ग्रहगत्या ग्रहस्य फलं ग्रहध्रुवान्तररूपग्रहेसंस्कार्यं ध्रुव-समो ग्रहो भवति। नक्षत्रस्य पूर्वगत्यभावाद्ध्रुवो यथास्थित इत्यर्थः। ननु तयापि ग्रहनक्षत्रयुतिकाल-साधनं भुक्त्यन्तरासम्भवात् कथं कार्यमिति मन्दाशङ्केत्यत आह। दिनानीति। अभीष्टसमयाद्विवरमि-त्यादिना केवलया ग्रहगत्या ग्रहनक्षत्रयुतिदिनानि साध्यानि। चः समुच्चये। नक्षत्राणां गत्यभावात्॥14॥

अथाभीष्टकालाद् ग्रहनक्षत्रयुतिकालस्य गतैष्यत्वमसम्भ्रमार्थं पुनराह—


एष्यो हीने ग्रहे योगो ध्रुवकादधिके गतः।
विपर्ययाद् वक्रगते ग्रहे ज्ञेयः समागमः॥15॥

नक्षत्रध्रुवाक्ताद्ग्रहायनदृकृकर्मसंस्कृतग्रह आक्षदृक्कर्मसंस्कृतनक्षध्रुवकात्।दृक्कर्मद्वयसंस्कृत-ग्रह इति विवेकार्थः।न्यूने सति योगो नक्षत्रग्रहयोगःस्वाभीष्टसमयाद्भावी अधिके सति पूर्वं जातः। वक्र-गते ग्रहे विपर्ययादुक्तवैपरीत्यात् समागमो नक्षत्रग्रहयोगो ज्ञेयः। हीने ग्रहेगतोऽधिके ग्रह एष्यो यो-गः। अत्रोपपत्तिर्नक्षत्रस्य गत्यभावेन सदा स्थिरत्वाद्ग्रहगमनेनैव योगसम्भवादिति सुगमतरा॥15॥

योगतारा।
अथ अश्विन्यादि नक्षत्रस्य बहुतारात्मकत्वात् कस्याः ताराया एते ध्रुवका इत्यस्य योगताराया ध्रुव-कमित्युत्तरं मनसि धृत्वा अश्विन्यादिनक्षत्राणां योगतारां विवक्षुः प्रथममेषां नक्षत्राणां योगतारामाह –


फाल्गुन्योर्भ्रद्रपदयोस्तथैवाषाढयोर्द्वयोः।
विशाखाश्विनिसौम्यानां योगतारोत्तरा स्मृता॥16॥

पश्चिमोत्तरतारा या द्वितीया पश्चिमे स्थिता।

हस्तस्य योगतारा सा श्रविष्ठायाश्च मध्यमा॥17॥
ज्येष्ठाश्रवणमैत्राणां बार्हस्पत्यस्य मध्यमा।

भरण्याग्नेयपित्र्याणां रेवत्याश्चैव दक्षिणा॥18॥

रोहिण्यादित्यमूलानां प्राची सार्पस्य चैव हि।
यथा प्रत्यवशेषाणां स्थूला स्याद्योगतारका॥19॥

एषाम् उक्त नक्षत्राणां प्रत्येकं स्वतारासु योत्तरदिक्स्था तारा सा योगतारागोलतत्वज्ञैरुक्ता॥16॥

हस्तनक्षत्रंपञ्चतारात्मकं हस्तपञ्चाङ्गुलिसन्निवेशाकारम्। तत्र नैर्ऋत्यदिगाश्रितपश्चिमावस्थितता-राया उत्तरदिगवस्थितताराया द्वितीया पूर्वोक्तातिरिक्ता पश्चिमे वायव्याश्रिते स्थिता सा हस्तस्य यो-गतारा ज्ञेया। उत्तरतारासन्ना पश्चिमाश्रिता तारा हस्तस्य योगतारा इति फलितार्थः। धनिष्ठाया योगता-रामाह। श्रविष्ठाया इति। धनिष्ठायाः तारासु या पश्चिमदिक्स्था सा तस्या योगतारा। चः समुच्चये॥17॥
अथ अन्येषामेषामाह। ज्येष्ठाश्रवणानुराधानां पुष्यस्य च प्रत्येकं तारात्रयात्मकत्वान्मध्यमतारा यो-गतारा स्यात्। भरणीकृत्तिकामधानां रेवत्याः। चः समुच्यये। प्रत्येकं स्वतारासु या दक्षिणदिक्स्था सा योगतारा॥18॥
अथ अन्येषाम् एषामवशिष्टानां च आह। रोहिणीपुनर्वसुमूलानामाश्लेषायाश्च प्रत्येकंस्वतारासु पू-र्वदिकस्था सैव योगतारेत्येवोह्योरर्थः। प्रत्यवशेषाणामवशिष्टनक्षत्राणामार्द्रचित्रास्वात्य-भिजिच्छतता-राणां स्वतारासुयात्यन्तंस्थूला महती सा योगतारा स्यात्॥19॥

ब्रह्मसंज्ञकनक्षत्रावस्थानम्।
अथ ब्रह्मसंज्ञकनक्षत्रावस्थानमाह –

पूर्वस्यां ब्रह्महृदयादंशकैः पञ्चभिः स्थितः।
प्रजापतिर्वृषान्तेऽसौ सौम्येऽष्टत्रिंशदंशकैः॥20॥

ब्रह्महृदयस्थानात् पूर्वभागे पञ्चभिरंशैः प्रजापतिस्तारात्मको ब्रह्मा क्रान्तिवृत्ते स्थितः। कुत्रेत्यत आह। वृषान्त इति। वृषान्तनिकटे। एकराशिः सप्तविंशत्यंशा ब्रह्मध्रुवक इत्यर्थः। अस्य विक्षेपमाह। असाविति। ब्रह्मा। उत्तरस्यामष्टत्रिंशद्भागैः स्थितः। अष्टत्रिंशद्भागा अस्य विक्षेप इत्यर्थः॥20॥

अपांवत्स-अपतारयोः अवस्थानम्।
अथ अपांवत्सापयोस्तारयोरवस्थानमाह –


अपांवत्सस्तु चित्रायामुत्तरेंऽशैस्तु पञ्चभिः।
बृहत् किञ्चिदतो भागैरापः षड्भिस्तथोत्तरे॥21॥

चित्रायाःसकाशादपांवत्ससंज्ञकस्तारात्मकःपञ्चभिर्भागैरुत्तरस्यां स्थितः। प्रथमतुकारश्चित्राध्रुवतु-ल्यध्रुवकार्थकः। द्वितीयतुकारश्चित्राविक्षेपस्य दक्षिणभागद्वयात्मकत्वाद पांवत्सविक्षेप उत्तरस्त्रिभाग इति स्फुटार्थकः। अतोऽपांवत्सात् किञ्चिदल्पान्तरेण बृहत् स्थूलतारात्मक आपसंज्ञकः। तथा अपां-वत्सात् षड्भिरंशैरुत्तरस्यां स्थितश्चित्राध्रुवक एवापस्य ध्रुवको विक्षेप उत्तरो नवांशा इत्यर्थः॥21॥
अथ अग्रिमग्रन्थस्य असङ्गतित्वनिरासार्थकमधिकारसमाप्तिं फक्किकया आह। स्पष्टम्। रङ्गना-थेन रचिते सूर्यसिद्धान्तटिप्पणे। ग्रहर्क्षैक्याधिकारोऽयं पूर्णो गूढप्रकाशके॥

इतिश्रीसकलगणकसार्वभौमबल्लादैवज्ञात्मजरंगनाथगणक विरचिते गूढार्थप्रकाशके नक्षत्रग्रहयु-त्यधिकारः सम्पूर्णः।

अथोदयास्ताधिकारः- 9

ग्रहाणामुदयास्तज्ञानम्।
अथ उदयास्ताधिकारोव्याख्यायते।ननुसूर्येणास्तमनंसहेतिप्रागुक्तेर्ग्रहयुत्यधिकारानन्तरं नक्ष-त्रग्रहयुत्यधिकारात् प्रागेवोदयास्ताधिकारो निरूपणीय इत्यतोऽत्र तत्सङ्गतिप्रदर्शनार्थमादौ तदधि-कारं प्रतिजानीते –

अथोदयास्तमययोःपरिज्ञानं प्रकीर्त्यते।
दिवाकरकराक्रान्तमूर्तीनामल्पतेजसाम्॥1॥

अथ नक्षत्रग्रहयुत्यधिकारानन्तरं सूर्यकिरणाभिभूता मूर्तिर्विम्बं येषां तेषां चन्द्रादिषड्ग्रहाणां नक्षत्राणां च। अतएवाल्पतेजसां न्यूनप्रभावतामुदयास्तमययोः। अग्रिमकाले सूर्यादधिकासन्निहित सन्निहितत्वसम्भावनया क्रमेणोदयास्तयोः सूर्यान्निःसृतस्य यस्मिन् काले यदन्तरेण प्रथमदर्शनं स-म्भावतं स उदयः। सूर्याद्दूरस्थितस्य यस्मिन् काले यदन्तरेण प्रथमादर्शनं सम्भावितं सोऽस्तः। अनेन नित्योदयास्तव्यवच्छेदस्तयोरित्यर्थः। परिज्ञानं सूक्ष्मज्ञानप्रकारःप्रकीर्त्यते। अतिसूक्ष्मत्वेन मयोच्यत इत्यर्थः। तथा च ग्रह इत्युद्देशेऽस्तमनमुद्दिष्टमपि तस्य पूर्वमेव सूर्यासमत्व एवसम्भवात् तद्विलक्षणतया ग्रहयुतिप्रसङ्गेनोक्तम्। नक्षत्रग्रहयुतिस्तु ग्रहयुतिवदिति तदनन्तरमुक्ता। अतः प्रति-बन्धकजिज्ञासापगमेऽवश्यवक्तव्यत्वादस्या वसरसङ्गतित्वात् तत्सङ्गत्यानक्षत्रग्रहयुत्यधिका-रानन्त-रं प्रागुद्दिष्टमस्तमनंतत्प्रसङ्गादुदयश्च प्रतिपाद्यत इति भावः॥1॥

प्रञ्चताराणामुदयास्तज्ञानम्।
तत्र प्रथमं प्रञ्चताराणां पश्चिमास्तपूर्वोदयौ आह –

सूर्यादभ्याधिकाः पश्चादस्तं जीवकुजार्कजाः।
ऊनाः प्रागुदयं यान्ति शुक्रज्ञौ वक्रिणौ तथा॥2॥

वक्रगती शुक्रबुधौ तथा सूर्यादधिकौपश्चिमास्तं गच्छतः सूर्यादल्पौपूर्वोदयंप्राप्नुतः। शेषं स्पष्टम्॥2॥


अथ चन्द्रबुधशुक्राणां पूर्वास्तपश्चिमोदयौ आह –

ऊना विवस्वतः प्राच्यामस्तं चन्द्रज्ञभार्गवाः।
व्रजन्त्यभ्यधिकाः पश्चादुदयं शीघ्रयायिनः॥3॥

शीघ्रयायिनः सूर्यगत्यधिकगतय इत्यर्थः। एतेन बुधशुक्रौ अर्कगत्यल्पगती सूर्यादल्पौ पूर्वास्तमधि-कौ च पश्चिमोदयं न प्राप्नुत इत्युक्तम्। शेषं स्पष्टम्। अत्रोपपत्तिः। रविगतितोऽल्पगतिः ग्रहोऽर्कादून-श्चेत् प्राच्यां दर्शनयोग्यो भवितुमर्हति। यतः सूर्यास्याधिकत्वेन बहुगतित्वात् च उत्तरोत्तरमधिकविप्र-कर्षात् प्रवहवशेन न्यूनस्यपूर्वमुदयात् अधिकस्यानन्तरमुदयनियमाद् ग्रहविम्बस्य प्राक्क्षितिजसंल-ग्नताकालानन्तरं यावत् सूर्यस्य तादृशः कालस्तावत्पर्यन्तं विप्रकर्षे दर्शनसम्भवात्। एवं यदाल्पगतिः सूर्यादधिकस्तदा प्रवहवशेन अर्कस्य पूर्वमुदयादनन्तरमुदितग्रहस्य दर्शनासम्भवात् प्रवहवशेनादौ न्यूनार्कस्यास्तसम्भवादनन्तरमधिकग्रहस्यासम्भवात् सूर्यास्तानन्तरं पश्चिमभागे ग्रहदर्शनसम्भवेऽ-प्यधिकगतिसूर्यस्य पृष्ठस्थितत्वेन उत्तरोत्तरमधिसन्निकर्षात् पश्चिमायामदर्शनं सम्भवत्येव। ते तु भौ-मगुरुशनयः। वक्रत्वे न्यूनगतित्वात् बुधशुक्रौ च इति। अथ अर्कगतितोऽधिकगतिग्रहःसूर्यादूनस्त-दोक्तरीत्या उत्तरोत्तरमधिकसन्निकर्षात् पूर्वस्मिन् अदर्शनं याति। यदा सूर्यादधिकस्तदोक्तरीत्या उ-त्तरोत्तरमधिकविप्रकर्षात् पश्चिमायामुदयः। ते तु शीघ्राः चन्द्रबुधशुक्रा इत्युपपन्नमुक्तम्॥3॥

अथ अभीष्टदिन आसन्ने सूर्योदयास्तकालिकौ सूर्यदृग्ग्रहौ तत्कालज्ञानार्थं कार्यौइत्याह –

सूर्यास्तकालिकौ पश्चात् प्राच्यामुदयकालिकौ।
दिवा चार्कग्रहौकुर्याद् दृक्कर्माथ ग्रहस्य तु॥4॥

पश्चात् पश्चिमास्तोदयसाधनेऽभीष्टदिने आसन्ने सूर्यग्रहौसूर्यास्तकालिकौ कुर्याद्गणकः। पूर्वास्तोद-यसाधने सूर्योदयकालिकौ कुर्यात्। दिनेऽभीष्टकाले कुर्यात्। चकारो विकल्पार्थकः। अनन्तरं ग्रहस्य दृक्क्कर्म। आयनाक्षदृक्कर्मद्वयं कुर्यात्। तुकार आक्षदृक्कर्मश्लोकपूर्वार्द्धोक्तमिति विशेषार्थकः। अत्रोपपत्तिः। पश्चादस्तोदयसाधने पश्चिमायां तद्दर्शनमिति सूर्यास्तकालिकौ सूर्यग्रहौ इष्टकालांशसा-धनार्थं सूक्ष्मौ। पूर्वोदयास्तसाधने पूर्वदिशि तद्दर्शनमिति सूर्योदयकालिकौ सूर्यग्रहौ इष्टकालांशसाध-नार्थं सूक्ष्मौ अन्यकाले तु किञ्चित् स्थूलौ अपि कृतौ दृक्कर्मसंस्कृत ग्रहस्य सूर्यवत् क्षितिजसंलग्नता-योग्यत्वात् दृक्कर्मसंस्कृतो ग्रहः कार्य इति॥4॥

इष्टकालांशज्ञानम्।
अथ इष्टकालांशानयनमाह –

ततो लग्नान्तरप्राणाःकालांशाः षष्टिभाजिताः।
प्रतीच्यां षड्भयुतयोस्तद्वल्लग्नान्तरासवः॥5॥

ततस्तभ्यां सूर्यदृग्ग्रहाभ्यां लग्नान्तरप्राणाःभोग्यासूनूनकस्य अथ इत्युक्तप्रकारेणान्तरकालासवः षष्टिभक्ता इष्टाः कालांशा भवन्ति। प्रागुदयास्तसाधने प्रतीच्यां पश्मिमोदयास्तसाधने षड्भयुतयोः षड्राशियुतयोः सूर्यदृग्ग्रहयोः लग्नान्तरासवः। अन्तरासवस्तद्वत् षष्टिभक्ता इष्टकालांशा भवन्तीत्यर्थः।अत्रोपपत्ति दृग्ग्रहसूर्याभ्यामन्तरकालो ग्रहस्य सूर्योदयकाले दिनगतं पूर्वोदयास्त निमित्तमुपयुक्तम्। एवं पश्चिममोदयास्तनिमित्तं सूर्यदृग्ग्रहाभ्याम् अस्तकालासुभिः अन्तरकालः सूर्यास्तकाले ग्रहस्य दि-नशेषकाल उपयुक्तः। तत्र अस्तकालानाम् अनुक्तेः उदयासुभिः साधनार्थं सषड्भौ सूर्यदृग्ग्रहौ कृ-तौ स कालोऽस्वात्मकः। अहोरात्रासुभिः चक्रकला तुल्यैश्चक्रांशा लभ्यन्ते तदेष्टासुभिः क इत्यनुपाते प्रमाणफलयोः फलापवर्तनेन हरस्थानेषष्टिः।अतोऽस्वात्मकान्तरकालःषष्टिभक्त इष्टकालांशा इ-त्युपपन्नमुक्तम्। अत्रेदमवधेयम्। सूर्योदयकालिकाभ्याम् अर्कदृग्ग्रहाभ्याम् आनीतेन दिनगतेन पूर्वं चाल्यो दृग्ग्रहः सूर्यास्तकालि काभ्यां सषड्भाभ्याम् अर्कदृग्ग्रहाभ्याम् आनीतेन दिनशेषेण अग्रे चा-ल्यः सषड्भो दृग्ग्रहः। क्रमेण ग्रहोदयास्तकाले प्राक्पश्चिमदृग्ग्रहौ भवतः। ताभ्यां सूर्यसषड्भसूर्याभ्यां च क्रमेण पूर्वरीत्यान्तरकालो ग्रहस्य सूर्योदयास्तकाले क्रमेण दिनगतशेषौ नाक्षत्रौ षष्टिभक्तौ का-लांशौ इष्टौ सूक्ष्मौ।अथ इष्टकालिकाभ्याम् आनीतकालेन पूर्ववच्चालिताभ्यां प्राक्पश्चिमदृग्ग्रहाभ्यां सूर्यसषड्भसूर्याभ्यां च आनीतकालो नाक्षत्रोऽपि सूक्ष्मासन्नः सूर्योदयास्तसम्बन्धाभावात् तदुत्पन्नाः कालांशा अपि तथा। अथ सूर्योदयास्तकालिकाभ्याम् आनीतैकवारं कालात् कालांशाः स्थूला इष्ट-कालिकाभ्याम् आनीतैकवारकालात् कालांशा अतिस्थूला उभयत्र कालस्य सावनत्वात्। न हि सावनषष्टिघटीभिः चक्रपरिपूर्तिर्येन सूक्ष्माः सिद्ध्यन्तीति॥5॥


अथ यैः कालांशैः उदयोऽस्तो वा भवति तान् विवक्षुः प्रथमं गुरुशनिभौमानांकालांशानाह –

एकादशामरेज्यस्य तिथिसंख्याऽर्कजस्य च।
अस्तांशा भूमिपुत्रस्य दश सप्ताऽधिकास्ततः॥6॥

ततइष्टकालांशावगमानन्तरमस्तांशाः। अस्तो यैः अंशैःभवति तेऽशाअस्तोपलक्षणाद् उदयांशा ज्ञेयाः। अमरेज्यस्य गुरोः एकादशकालांशाः। शनेःपञ्चदशसंख्याःकालांशाः। चः समुच्चये। भौमस्य सप्ताधिकादश सप्तदशकालांशा इत्यर्थः॥6॥

अथ शुक्रस्य आह—

पश्चादस्तमयोऽष्टाभिरुदयः प्राङ्महत्तया।
प्रागस्तमुदयः पश्चादल्पत्याद्दशभिर्भृगोः॥ 7॥

शुक्रस्य महत्तया वक्रत्वेन नीचासन्नत्वात् स्थूलविम्बतया पश्चिमायाम् अस्तोऽष्टाभिः कालांशैः प्रा-च्याम् उदयश्च तैः। नाधिकैः। प्राच्यां शुक्रस्य अल्पत्वात् अणुविम्बत्वात् दशभिः कालांशैः अस्तं गणकः कुर्यात्। नाल्पैः। पश्चिमायाम् उदयस्तस्य अणुविम्बस्य दशभिः कालांशैरेव ज्ञेयः॥7॥

अथ बुधस्य आह –

एवं बुधो द्वादशभिश्चतुर्दशभिरंशकैः।
वक्री शीघ्रगतिश्चार्कात् करोत्यस्तमयोदयौ॥8॥

वक्री शीघ्रगतिः। चः समुच्चये। बुधः सूर्यात् द्वादशभिश्चतुर्दशभिश्च कालांशैः अस्तोदयौ। एवं शुक्र-रीत्या करोति। पश्चादस्तं प्रागुदयं च द्वादशभिः कालांशैर्महाविम्बतया बुधः करोति। प्रागस्तं पश्चादु-दयं च चतुर्दशभिः कालांशैः अणुविम्बत्वात् बुधःकरोतीत्यर्थः॥8॥

गतैष्यत्वज्ञानम्।

अथ प्रोक्तेष्टकालांशाभ्याम् अस्तस्य उदयस्य वा गतैष्यत्वज्ञानमाह –

एभ्योऽधिकैः कालभागैर्दृश्या न्यूनैरदर्शनाः।
भवन्ति लोके खचरा भानुभाग्रस्तमूर्तयः॥9॥

एभ्य एकादशामरेज्यस्येति श्लोकत्रयोक्तेभ्योऽधिकैः इष्टकालांशैः दृश्या दर्शनयोग्या अभीष्टकाले ग्रहा भवन्ति। तथा च अस्तसाधने दृश्यत्वे अस्त एष्यः। उदयसाधने दृश्यत्व उदयो गत इति भावः। अल्पैः इष्टकालांशैः ग्रहा लोके भूलोके अदर्शना न विद्यते दर्शनं दृष्टिगोचरता येषां ते। अदृश्या अ-भीष्टकाले भवन्ति। ननु अदृश्याः कुतो भवन्तीत्यत आह। भानुभाग्रस्तमूर्तय इति। सूर्यासन्नत्वेन सूर्य-किरणदीप्त्या ग्रस्ता अभिभूता सूर्यकिरणप्रतिहतलोकनयनाविषया मूर्तिविम्बस्वरूपं येषां त इत्य-र्थः। तथा च अस्तसाधने अदृश्यत्वेऽस्तो गतः। उदयसाधनेऽदृश्यत्व उदय एष्य इति भावः। अत ए-व। उक्तेभ्य ऊनाभ्यधिका यदीष्टाः खेटोदयो गम्यगतस्तदा स्यात्। अतोऽन्यथा चास्तमयोऽवगम्यः, इति भास्कराचार्योक्तं सङ्गच्छते।
अत्रोपपत्तिः। उक्त कालांशे यत्काले ग्रहौसाधितौ तत्काल एव ग्रहस्योदयोऽस्तो वा अर्ककृतः। उक्तकालांशानां सूर्यसान्निध्यजनिताद्यन्तग्रहादर्शने हेतुत्वप्रतिपादनात्। तथा च इष्टकालांशा उक्ते-भ्योऽल्पास्तदाग्रहस्यास्तङ्गतत्वमेवेति उदयसाधन इष्टकालांशा उक्तभ्योऽल्पास्तदेष्टकालात् अग्रे ग्रहस्योदयः।यदीष्टकालांशा उक्तेभ्योऽधिकास्तदेष्टकालाद्ग्र- हस्योदयः पूर्वं जातः। एवमस्तसाधन इृ-ष्टकालांशा अधिकास्तदेष्टकालात् अग्रे ग्रहास्तः। यदीष्टकालांशा न्यूनास्तदेष्टकालात् पूर्वं ग्रहास्तो जात इत्युपपन्नमुक्तम्॥9॥

अथ उदयास्तयोर्गतैष्यदिनाद्या-नयनमाह—

तत्कालांशान्तरकला भुक्त्यन्तरविभाजिताः।
दिनादि तत्फलं लब्धं भुक्तियोगेन वक्रिणः॥10॥

उक्तेष्टकालांशयोःअन्तरस्य कलाः सूर्यग्रहयोर्गत्योः कलात्मकान्तरेण भक्ताः। दिनादिकमुदया-स्तयोः फलमुदयास्तयोर्गतैष्यदिनाद्यं भवतीत्यर्थः। वक्रगतिग्रहस्य विशेषमाह। लब्धमिति। वक्रिणो वक्रग्रहस्य भुक्तियोगेन सूर्यग्रहयोः कलात्मकगतियोगेन भक्ताः फलं गतैष्यदिनाद्यं ज्ञेयम्। अत्रोपप-त्तिः। सूर्यग्रहयोर्गत्यन्तरकलाभिरेकं दिनं तदेष्टप्रोक्तकालांशयोःअन्तरकलाभिः किमित्यनुपान उद-यास्तयोः अभीष्टकालाद्द्रतैष्यदिनाद्यवगमः। वक्रग्रहे तु सूर्यग्रहयोर्गतियोगेन प्रत्यहमन्तरवृद्धेर्गति-योगात् अनुपात उपपन्न इत्युपपन्नमुक्तम्॥10॥


अथ ग्रहगतिकलयोः क्रान्तिवृत्तस्थत्वात् कालांशान्तरस्य अहोरात्रवृत्तस्थत्वाच्च अनुपातः प्रमाणे-च्छयोः वैजात्येन आयुक्त इति मनसि धृत्वा तयोः एकजातित्वसम्पादनार्थं ग्रहगत्योः इच्छाजातीयत्वं वदन् तदन्तरेण अनुपातस्तु युक्तएवेत्याह-

तल्लग्नासुहते भुक्ती अष्टादशशतोद्धृते।
स्यातां कालगती ताभ्यां दिनादिगतगम्ययोः॥11॥

भुक्ती रविग्रहयोर्गती कलात्मके तल्लग्नासुहते कालसाधनार्थं गहस्य यो राश्युदयो गृहीतस्तेना-स्वात्मकोदयेन गुणित अष्टादशशतेन भक्ते फले सूर्यग्रहयोः कालांशवत् कालगती स्याताम्। ताभ्यां गतिभ्यां गतगम्ययोः उदयास्तयोर्दिनादिपूर्वोक्तप्रकारेण साध्यम्। न तु पूर्वोक्तप्रकारेण यथास्थितग-तिभ्यां स्थूलत्वापत्तेः। अत्रोपपत्तिः। एकराशिकलाभी राश्युदयासवस्तदा गतिकलाभिः क इत्यनुपा-तेन अहोरात्रवृत्ते गत्यसवः कलासमा इत्युपपन्नमुक्तम्॥11॥

अथ नक्षत्राणां सूर्यसान्निध्यवशात् अस्तोदयज्ञानार्थं कालांशान् विवक्षुः प्रथममेषामाह –

स्वात्यगस्त्यमृगव्याधचित्राज्येष्ठाःपुनर्वसुः।
अभिजिद् ब्रह्महृदयं त्रयोदशभिरंशकैः॥12॥

मृगव्याधो लुब्धकः। त्रयोदशभिः कालांशैः दृश्यानि नक्षत्राणि भवन्ति। शेषंस्पष्टम्॥12॥

अथ अन्येषामेषामाह –

हस्तश्रवणफाल्गुन्यः श्रविष्ठा रोहिणी मघाः।
चतुर्दशांशकैर्दृश्या विशाखाऽश्विनिदैवतम्॥13॥

फाल्गुनी पूर्वोत्रराफाल्गुनीद्वयम्। अश्विनिदैवतम् अश्विनीकुमारो दैवतं स्वामी यस्य इति अश्विनीन-क्षत्रम्। दृश्या उपलक्षणात् अदृश्या अपि। लिङ्गपरिणामश्च यथायोग्यं बोध्यः। शेषं स्पष्टम्॥13॥

अथ अन्येषामेषामाह –

कृत्तिकामैत्रमूलानि सार्पं रौद्रर्क्षमेव च।
दृश्यन्ते पञ्चदशभिराषाढाद्वितयं तथा॥14॥

कृत्तिकानुराधामूलनक्षत्राणि पञ्चदशभिः कालांशैःदृश्यन्ते। उपलक्षणान्नदृश्यन्तेऽपि। एवकारो न्यूनाधिकव्यवच्छेदार्थः। आश्लेषार्द्रा। चः समुच्चये। आषाढाद्वितयं पूर्वोत्तराषाढाद्वयं तथा पञ्चदश-कलांशैः दृश्यन्त इत्यर्थः॥14॥

अथ अन्येषाम् अवशिष्टानां च आह –

भरणीतिष्यसाम्यानि सौक्ष्म्यात् त्रिःसप्तकांशकैः।
शेषाणि सप्तदशभिर्दृश्यादृश्यानि भानि तु॥15॥

तिष्यःपुष्यः सोमदैवतं मृगशिरो नक्षत्रमेतानि नक्षत्राणि सौक्ष्म्यात् अणुविम्बत्वात् त्रिःसप्तकांशकैः एकविंशतिकालांशैर्दृश्यादृश्यानि। उदितानि अस्तङ्गतानि च भवन्तीत्यर्थः।शेषाणि पूर्वाधिकारोक्त-नक्षत्रेषु उक्तातिरिक्तानिशततारापूर्वोत्तराभाद्रपदारेवतीसंज्ञानि।वह्निब्रह्मापांवत्सापसंज्ञानि च स-प्तदशभिःकालांशैर्दृश्यादृश्यानि भवन्ति। तुकारो दृश्यादृश्यानीत्यत्र समुच्चयार्थकः॥15॥

अथ दिनाद्यानयनार्थमिच्छाया एव प्रमाणजातीयकरणत्वमाह—

अष्टादशशताभ्यस्ता दृश्यांशाः स्वोदयासुभिः।
विभज्य लब्धाःक्षेत्रांशास्तैर्दृश्याऽदृश्यताऽथवा॥16॥

दृश्यांशाः कालांशा अष्टादशशतगुणितास्तान् स्वोदयासुभिर्ग्रहराश्युदयासुभिः भक्ता लब्धाः क्षेत्रां-शाः क्रान्तिवृत्तसंस्थाशास्तैः अंशैःदृश्यादृश्यता। उदयास्तौ प्रकारान्तरेण उक्तरीत्या ज्ञेयौ। कालां-शाभ्यां क्षेत्रांशौ आनीय तदन्तरकला यथास्थितगत्योः अन्तरेण योगेन वा भक्ताःफलम् उदयास्तयो-र्गतैष्यदिनाद्यं पूर्वागतमेव स्यात् इत्यर्थः।
अत्रोपपत्तिः। राश्युदयासुभिः एकराशिकलास्तदा कालांशकला तुल्यासुभिः का इति क्रान्तिवृत्ते कलास्ताः षष्टिभक्ता अंशा इति पूर्वमेव इच्छास्थाने कालांशा एव धृता लाघवात्। इत्युक्तमुपपन्नम्॥16॥

ननु ग्रहाणाम् अमुकदिश्यस्तोऽमुकदिश्युदय इत्युक्तम्। तथा नक्षत्राणां नोक्तम्। गत्यभावाद्वियो-गयोगासम्भवेन गतैष्यदिनाद्यानयनासम्भवश्चेत्यत आह

प्रागेषामुदयः पश्चादस्तो दृक्कर्म पूर्ववत्।
गतैष्यदिवसप्राप्तिर्भानुभक्त्या सदैव हि॥17॥

एषां नक्षत्राणां प्राच्याम् उदयःप्रतीच्याम् अस्तो गत्यभावात् अल्पगति ग्रहवत्। एषां नक्षत्राणां दृक्कर्माक्षदृक्कर्म पूर्ववत् पूर्वप्रकारेण कार्यम्। परन्तु श्लोकपूर्वार्द्धोक्तमिति ध्येयम्। सदा नित्यम्। एवकारात् कदाचिदपि अन्यथा न इत्यर्थः। हि निश्चयेन। रविगत्या गतैष्यदिवसानां लब्धिःस्यात् नक्ष-त्रगत्यसम्भवात्। योगे ग्रहगतिवत्॥17॥


अथ कतिपयानां नक्षत्राणां सूर्यसान्निध्यवशादस्तो नास्तीत्याह –

अभिजिद् ब्रह्महृदयं स्वातिवैष्णववासवाः।
अहिर्बुघ्न्यमुदक्स्थत्वान्न लुप्यन्तेऽर्करश्मभिः॥18॥

अभिजित्। ब्रह्महृदयम्। अनेन एकदेशस्य ब्रह्मणोऽपि ग्रहणम्। स्वातीश्रवणधनिष्ठाः। अहिर्बुन्ध्य-मुत्तराभाद्रपदा। एतानि नक्षत्राणि उत्तरदिक्स्थत्वात् उत्तरविक्षेपाधिक्यात् इत्यर्थः। सूर्यकिरणैर्न लु-प्यन्ते। अस्तं न यान्तीत्यर्थः। अत्रोपपत्तिः। यस्योदयार्कादधिकोऽस्तभानुः प्रजायते सौम्यशरातिदै-र्घ्यात्। तिग्मांशुसान्निध्यवशेन नास्ति धिष्ण्यस्य तस्यास्तमयः कथञ्चित्॥ इति भास्कराचार्योक्ता। प-रमिदमुक्तमष्टाक्षभायाम्। अन्यथा पूर्वाभाद्रपदाया अपि तथात्वापत्तेरिति दिक्॥18॥

अथ अग्रिमग्रन्थस्य असङ्गतित्वनिरासार्थम् अधिकारसमाप्तिं फक्किकया आह। नक्षत्रग्रहयोः अ-स्तोदयनिरूपणात् साधारण्येन उदयास्ताधिकार इत्युक्तम्। रङ्गनाथेन रचिते सूर्यसिद्धान्तटिप्पणे। उदयास्ताधिकारोऽयं पूर्णो गूढप्रकाशके॥
इति श्रीसकलगणकसार्वभौमबल्लालदैवज्ञात्मजरङ्गनाथगणकविरचितेगूढार्थप्रकाशके उदया-स्ताधिकारः पूर्णः॥

अथ श्रृङ्गोन्नत्यधिकारः-10

चन्द्रोदयास्तज्ञानम्।
अथ भौमादीनां सूर्यसान्निध्योदयास्तासन्ने दीप्त्या सकलविम्बदर्शनं तथा चन्द्रस्य स्वोदयास्तकाले सकलविम्बदर्शन शुक्लत्वेन न भवति। किन्तु विम्बैकदेश एव शुक्लत्वेन न दृश्यत इति भौमादिवि-सदृशत्वं चन्द्रस्य कुत इत्याशङ्कायाः पूर्वाधिकारे समुपस्थितेस्तदुत्तरभूतश्रृङ्गोन्नमनाधिकारोऽवश्यमु-पस्थित आरब्धो व्याख्यायते। तत्र श्रृङ्गोन्नतेरुदयकालात् पूर्वकालेऽस्तकालानन्तरकाले च आसन्न-कतिपयदिवसेषु दर्शनात् पूर्वाधिकारेचन्द्रस्य कालांशानुक्त्या तददुयास्तानुक्तेश्च प्रथममुपस्थितच-न्द्रोदयास्तयोः साधनमतिदिशति-

उदयास्तविधिः प्राग्वत् कर्तव्यः शीतगोरपि।
भागैर्द्वादशभिः पश्वाद् दृश्यः प्राग् यात्यदृश्यताम्॥1॥

चन्द्रस्य। अपि शब्दः पूर्वाधिकारोक्तैः ग्रहनक्षत्रैःसमुच्चयार्थकः। उदयास्त विधिरुदयास्तयोः सा-धनप्रकारःप्राग्वत् पूर्वाधिकारोक्तरीत्या गणकेन कार्यः। ननु कालांशानां पूर्वमनुक्तेःकथं तत्सिद्धिः अत आह। भागैरिति। द्वादशभिः अंशैः चन्द्रः पश्चिमायां दृश्य उदितो भवति। प्राच्याम् अदृश्यताम् अस्तं प्राप्नोति। अत्र पश्चात् प्रागिति पुनरुक्तमपि पूर्वं बुधशुक्रयोः साहचर्येण चन्द्रोदयास्तदिगुक्त्या तत्साहचर्येण चन्द्रस्य पश्चिमास्तपूर्वोदयो वर्तेते इति कस्यचित् मन्दबुद्धेर्भ्रमस्य वारणायेति ध्येयम्॥1॥

अथ उदयास्तप्रसङ्गेन स्मृतयोः चन्द्रनित्यास्तोदययोः साधनं विवक्षुः प्रथमं श्लोकत्रयेण इन्दोर्नित्यास्तसाधनमाह –

रवीन्द्वोः षड्भयुतयोः प्राग्वल्लग्नान्तरासयः।

एकराशौ रवीन्द्बोश्चकार्या विवरलिप्तिकाः॥12॥

तन्नाडिकाहते भुक्ती रवीन्द्वोः षष्टिभाजिते।

तत्फलान्वितयोर्भूयः कर्तव्या विवरासवः॥3॥

एवं यावत् स्थिरीभूता रवीन्द्वोरन्तरासवः।
तैः प्राणैरस्तमेतीन्दुः शुक्लेऽर्कास्तमयात् परम्॥4॥

शुक्ले शुक्लपक्षाभीष्टदिने सूर्यास्तकाले स्पष्टौ सूर्यचन्द्रौ साध्यौ। चन्द्रस्य दृक्कर्मद्वयं संस्कार्यम्। तत्राक्षदृक्कर्मश्लोकपूर्वार्द्धोक्तमेव। तयोः सूर्यचन्द्रयोः षड्राशियुतयोः लग्नान्तरासवोऽन्तरकालासवः प्राग्वद्भोग्यासूनूनकस्य इत्यादिना साध्याः। तौ सषड्भार्कचन्द्रौ एकराशौ अभिन्नराशौ चेत् स्तः तदा सषड्भयोस्तयोःसूर्यचन्द्रयोः अन्तरकलाः कार्याः। चकारो विषयव्यवस्थार्थकः। तयोः असुकलयोः घटिकाभिः असवः षष्ट्यधिकशतत्रयेण भाज्याः। घटिकाः कला उदयासुगुणिता एकराशिकलाभिः भक्ता असवस्ते षष्ट्यधिकशतत्रयेण भाज्याः। घटिकाः। आभिः सूर्येन्द्वोर्गतीकलात्मके गुण्ये षष्टिभ-क्ते तत् फलान्वितयोः स्वस्वफलयुक्तयोः सषड्भ सूर्यचन्द्रयोः भूयःपुनर्विवरासवोऽन्तरप्राणाः पूर्व-रीत्या कर्तव्याः। एवं तद्धधिकाभिः सूर्यास्तकालिकौसषड्भसूर्यदृक्कर्मसंस्कृतचन्द्रौ प्रचाल्य तयो-र्विवरासव इति यावत् स्थिरीभूता अभिन्नास्तावत् साध्याः। तैः अभिन्नै असुभिः सूर्यास्ताद् अनन्तरं च-न्द्रोऽस्तं प्राप्नोति। अत्रोपपत्तिः। सूर्यास्तकाले सषड्भार्कोलग्नं दृक्कर्मसंस्कृतश्चन्द्रः षड्भयुतश्चन्द्रा-स्तका लग्नम्। परन्तु सूर्यास्तकालिकं न स्वास्तकालिकम्। पश्चिमदृग्ग्रहः सूर्यास्तकालिक इति त-त्वम्। तदन्तरासवः सावनाश्चन्द्रस्य सूक्ष्मा दिनशेषाः। परन्तु परिभाषया नाक्षत्रज्ञानसम्भवात् नाक्षत्राः साध्या इति चन्द्रस्ताभिश्चाल्यः स्वास्तकाले सषड्भो लग्नमस्मात् सूर्यास्तकालिकसषड्भसूर्याच्च अ-न्तरासवो नाक्षत्राःसूक्ष्मा अपि भगवतैकरीतिप्रदर्शनार्थं भिन्नकालिकाभ्यां सूर्यचन्द्राभ्यां कथं सूक्ष्म-समयसिद्धिरिति मन्दाशङ्कापनोदार्थं च सषड्भः सूर्योऽपि साधितः चन्द्रास्तकाले। ताभ्याम् अन्तरा-सवो नाक्षत्रा अपि सूर्यास्तकालिकलग्नाग्रहात् असूक्ष्मा इति असकृत् सूक्ष्मा इत्युक्तमुपपन्नम्। वस्तु-तस्तु सावनाभ्युपगमे। रवीन्द्वोः षड्भयुतयोः प्राग्वल्लग्नान्तरासवः। तैः प्राणैरस्तमेतीन्दुः शुक्लेऽर्का-स्तमनात् परम्॥
इत्येक एव सूर्यसिद्धान्ते श्लोकः। श्लोकमध्य एकराशौ इत्यादि रवीन्द्वोः इति अन्तरासव इत्यन्तं श्लोकद्वयं केनचित् मन्दमतिना समयोऽसकृदेव साध्य इति शिष्यधीवृद्धिदतन्त्रोक्तं सुबुद्धिमन्येन अयुक्तमपि युक्तियुक्तं मत्वा निक्षिप्तम्। कथमन्यथा भगवतः सर्वज्ञस्य शुद्धसावनघटीज्ञानानन्तरम् असकृत साधनोक्तिः सङ्गच्छते। किञ्च। एकराशौ रवीन्द्वोश्च कार्या विवरलिप्तिकाः। इत्यर्द्धस्य त्रि-पश्नाधिकारे भोग्यासूनूनकस्य इत्यादि श्लोकाग्रेऽपेक्षितत्वेन अत्रानपेक्षितत्वम्। प्राग्वल्लग्नान्तरासव इत्यनेन एव अत्र तत्सिद्धेरिति। अथ नाक्षत्राभ्युपगमे तु चन्द्रस्य सावधनघटीभिश्चालनं स्वास्तकालि-कसिद्ध्यर्थमावश्यकं न तु सूर्यस्य प्रयोजनाभावात्। न हि चन्द्रास्तकालसाधितसषड्भसूर्यः सूर्यास्त-कालिकं लग्नं येन सूर्यचालनं युक्तम्। अपि च। एकस्य चन्द्रस्य चालनेन पुनरेकवारेणैव सूक्ष्मनाक्ष-त्रकालसिद्धौ द्वयोश्चालनोक्त्या नाक्षत्रस्य असकृत् क्रियानयनमतत्त्वं गौरवं सर्वज्ञेन कथमुक्तम्। असकृत्साधनेन सूक्ष्मनाक्षत्रसिद्धौ युक्त्यभावश्च। अतएव। ज्ञातुं यदाभाभिमता ग्रहस्य तत्कालखेटोदयलग्न लग्ने। साध्ये तयोरन्तरनाडिका याः ताः सावनाः स्युर्द्युगता ग्रहस्य॥ इति भास्कराचार्योक्तं सङ्गच्छत इति तत्त्वम्॥ 2-4॥

अथ उदयसाधनमाह –


भगणार्धंरवेर्दत्वा कार्यास्तद्विवरासवः।
तैः प्राणैः कृष्णपक्षे तु शीतांशुरुदयं व्रजेत्॥5॥

कृष्णपक्षे भगणार्द्धं सषड्राशीन् सूर्यस्य दत्वा संयोज्य तुकारात् चन्द्रस्य अदत्वेत्यर्थः। तद्विवरासवः तयोः दृक्कर्मसंस्कृतचन्द्रसषड्भसूर्ययोः अन्तरासवःप्रागुक्तप्रकारेण साध्याः। तैः साधितैः असुभि-श्चन्द्रः सूर्यास्तानन्तरमुदयं गच्छेत्। अत्रोपपत्तिः। सूर्यास्तकाले सषड्भार्कस्य लग्नत्वात् सूर्ये षड्राशि-योजनम् उदयसाधनार्थम्।प्राग्दृग्रहस्यापेक्षितत्वाच्चन्द्रो दृक्कर्मसंस्कृतो यथास्थितो न षड्राशियु-क्तः। तद्विवरासुभिः चन्द्रस्य सूर्यास्तानन्तरमुदयः सावनैः तच्चालितचन्द्रात् सूर्यास्तकालिकसषड्भा-र्काच्च विवरासवो नाक्षत्रा इति। श्रृङ्गोन्नतिसाधनार्थं दृश्यकाले सूर्यचन्द्रौ साध्यौइति ज्ञापनार्थं चन्द्रस्य नित्योदयास्तौ उक्तौ अन्येषां ग्रहनक्षत्रादीनां प्रयोजनाभावाद् अनुक्तौ चन्द्रोपलक्षणादुक्तौ वा तत्र शुक्लकृष्णपक्षविवेको न इति ध्येयम्॥5॥

अथ प्रकृतं विवक्षुः प्रथमं तदुपयुक्तभुजकोटिर्णात्मकं क्षेत्रं श्लोकत्रयेण आह –

अर्केन्द्वोः क्रान्तिविश्लेषो दिक्साम्ये युतिरन्यथा।
तज्ज्येन्दुरर्काद्यत्रासौ विज्ञेया दक्षिणोत्तरा॥6॥

मध्याह्नेन्दुप्रभाकर्णसङ्गुणा यदि सोत्तरा।
तदाऽर्कघ्नाक्षजीवायां शोध्या योज्या च दक्षिणा॥7॥
शेषं लम्बज्यया भक्तं लब्धो बाहुः स्वदिङ्मुखः।

कोटिःशंकुस्तयोर्वर्गयुतेर्मूलं श्रुतिर्भवेत्॥8॥

सूर्यचन्द्रयोः स्पष्टक्रान्त्योर्दिगैक्येऽन्तरम्। अन्यथादिग्भेदेयोगः। अत्रक्रान्तिशब्दः क्रान्तिज्यापरो ज्ञेयः। उपपत्यविरोधात्। तज्ज्या सा च असौ ज्या च संस्कारसिद्धाङ्कमिता ज्येत्यर्थः। अर्काच्चन्द्रो यत्र यस्यां दिशि तद्दिका दक्षिणोत्तरा वा असौ ज्या ज्ञेया। एकदिशि रविक्रान्तितश्चन्द्रक्रान्तेः अधिकत्वे सूर्याच्चन्द्रस्य क्रान्तिदिक्स्थत्वेन ज्या क्रान्तिदिक्। ऊनत्वेऽर्कात् क्रान्तिदिग्विपरीतदिक्स्थत्वेन क्रा-न्तिभिन्नदिक्। भिन्नदिशि चन्द्रक्रान्तिदिग्ज्या ज्ञेया इत्यर्थः। सा ज्या मध्याह्नेन्दु प्रभाकर्णसङ्गुणा य-त्कालेचन्द्रश्रृङ्गोन्नत्यर्थं साधितस्तत्काले मध्याह्नच्छायाकर्णवच्छायाकर्णश्चन्द्रस्य साध्यः। स तु अक्षां-शचन्द्रस्पष्टक्रान्त्योः उत्तरदिशि वियोगो दक्षिणदिशि योगस्तदूननवत्यंशज्यया भक्ता द्वादशगुणित-त्रिज्येति। उपपत्यनुरोधेन तु मध्याह्नपदं तत्कालपरम्। यत्काले चन्द्रस्तत्काले चन्द्रस्य द्युगतं दिन-शेषं वा प्रसाध्य त्रिप्रश्नाधिकारविधिना शङ्कुं प्रसाध्य छायाकर्णः साध्यः। अह्नोऽहोरात्रस्य मध्यं सूर्यास्तस्तात्कालिकः चन्द्रस्य छायाकर्णो वायमेव भगवदभिप्रेतः। कथमन्यथा चन्द्रस्य श्रृङ्गोन्नतौ दृ-क्कर्मद्वयसंस्कारः श्रृङ्गोन्नतौ शशाङ्कस्येति प्रागुक्तः सङ्गच्छते। दिनार्द्धातिरिक्तच्छायासाधनार्थमेव दृक्कर्मणोः उपयोगात् अन्यत्र श्रृङ्गोन्नतिगणितउपयोगाभावात्। स्पष्टक्रान्त्यैव छायाकर्णसिद्धेः। अ-त्रापि श्लोकपूर्वार्द्धोक्तमेवाक्षदृक्कर्मसंस्कार्यम्। तेन छायाकर्णेन गुणिता इत्यर्थः। सा तादृशी ज्या यद्युत्तरा तदा द्वादशगुणितायाम् अक्षज्यायां शोध्यान्तरिता। तेन द्वादशगुणिता अक्षज्याधिका तादृ-शी ज्या। तदापि विपरीतशोधने न क्षतिः। यदि दक्षिणा तदा तस्यामेव युक्ता कार्या चोव्यवस्थार्थ-कः। शेषं संस्कारजं स्वदेशलम्बज्यया भक्तं फलं भुजः प्राप्तः। स्वदिङ्मुखः स्वशब्देन संस्कारस्त-स्य दिक् तस्यां मुखमग्रं यस्य असौ। संस्कारदिक्क इत्यर्थः। भुजस्य कोटिकर्णसापेक्षत्वात् तौ आ-ह। कोटिरिति। शङ्कुर्द्वादशाङ्गुलः कोटिः। तयोः भुजकोट्योः वर्गयोर्योगात् पदं कर्णः स्यात्। अ-त्रोपपत्तिः– स्वाग्रास्वशङ्कुतलयोः समभिन्नदिक्त्वे
योगोऽन्तरं भवति दोरिनचन्द्रदोष्णोः तुल्यांशयोर्विवरमन्यदिशोस्तु योगःस्पष्टो भुजो भवति चन्द्र-भुजांश इन्दोःशुद्धे भुजे रविभुजाद्विपरीतदिक्कः। इति सूक्ष्मभुजसाधनं भास्कराचार्येण सिद्धान्त-शिरोमणौ उक्तम्। तदुपपत्तिस्तु तट्टीकायां व्यक्ता। अनया रीत्या भुजसाधनार्थं क्रान्तिज्ययोः अग्रे साध्ये। लम्बज्याकोणौत्रिज्या कर्णस्तदा क्रान्तिज्याकोणौकः कर्ण इत्यनुपातेन। तत्स्वरूपं तु प्रत्येकं सूर्यचन्द्रयोः सूर्यक्रान्तिज्या त्रिज्यागुणा लम्बज्या भक्ता चन्द्रस्पष्टक्रान्तिज्या त्रिज्यागुणा लम्बज्याभ-क्ता अनयोः स्वं स्वं शङ्कुतलं संस्कार्यम्। तत्र श्रृङ्गोन्नत्यर्थं सूर्येण भगवता सूर्योदयास्तकालिकग-णितस्यैवाभ्युपगमात्। तत्र सूर्यशङ्कोरभावात् तच्छङ्कुतलाभावाच्च सूर्याग्रैव सूर्यभुजः सिद्धः। चन्द्र-स्य तु तदा शङ्कोः सद्भावाच्छङ्कुतलमुत्पद्यते तत्तु लम्बज्याकोटौअक्षज्याभुजस्तदा शङ्कुकोणौको भुज इत्यनुपातेन तात्कालिकचन्द्रोन्नतनतकालसाधित त्रिप्रश्नाधिकारोक्तचन्द्रमहाशङ्कुगुणिता अक्षज्यालम्बज्याभक्तेति दक्षिणमेव शङ्कुतलस्वरूपम्।
इदं चन्द्र दक्षिणाग्रायां योज्यम्। चन्द्रस्य दक्षिणो भुजः। चन्द्रोत्तराग्रायां तु हीनं चन्द्रस्योत्तरो भुजः। चन्द्रोत्तराग्रया हीनमिदं चन्द्रस्य दक्षिणो भुजः। यथा दक्षिणो भुजः वा उत्तरो भुजः अयं चन्द्रभुजः सू-र्याग्रयैकदिश्यन्तरितौ भिन्नदिशि युक्तः स्पष्टः श्रृङ्गोन्नत्युपयुक्तो भुजः। यथा सूर्यस्य दक्षिणगोले इदं भुजद्वयं स्पष्टो भुजो भवति चन्द्रभुजांश इत्युक्तेः दक्षिणम्। सूर्यभुजस्य न्यूनत्वेन शोध्यत्वात्। सूर्यभु-जस्याधिकत्वे तु इदं भुजद्वयमुत्तरम्। इन्दोः शुद्धे भुजे रविभुजाद्विपरीतदिक्क इत्युक्तेः। योगे तु उ-त्तरो भुजःसूर्योत्तरगोलेऽपि इदं भुजद्वयं दक्षिणम्। अन्तरे तु सूर्यभुजस्य न्यूनत्व उत्तरो भुजः सूर्यभुजस्याधिकत्वे तु दक्षिणोऽयं भुजः। इन्दोः शुद्धे भुज इत्युक्तत्वात्। अत्र नवसु पक्षेषु प्रथमपक्षे सूर्यचन्द्रक्रान्तिज्ययोः एकदिशयोःअन्तरं त्रिज्यागुणितं तत्सूर्यक्रान्तिसम्बद्धं चेत् तेनोनाक्षज्येन्दुश-ङ्कुघातो लम्बज्याभक्त इति। चन्द्रक्रान्तिसम्बद्धं चेत् तेन युतस्तद्धातो लम्बज्या भक्त इति सिद्धम्। तत्राक्षांशानां दक्षिणत्वेनैकदिशि योगार्थं चन्द्रशेषे दक्षिणत्वं सूर्यशेषे उत्तरत्वं भिन्नदिशि वियोगार्थं कल्पितम्। युक्तं च एतत्। सूर्यक्रान्त्यधिकत्वे सूर्यात् चन्द्रस्य उत्तरत्वात्। श्रृड्गोन्नतौ च-न्द्रस्यैव प्राधान्याच्च। द्वितीयपक्षे क्रान्तिज्ययोः भिन्नदिशयोर्योगेन तादृशेन तद्धातमूनं कृत्वा लम्बज्य-या भजेत् इत्यत्रापि योगस्य अग्रेऽन्तरार्थमुत्तरदिक्त्वं चन्द्रकान्तेरुत्तरत्वेन दक्षिणस्थसूर्यात् चन्द्रस्य सुतराम् उत्तरत्वाच्च। तृतीयपक्षे क्रान्तिज्ययोः एकदिशयोःअन्तरे सूर्यसम्बद्ध एव तादृशे तद्वध ऊन इति वियोगार्थमन्तरस्य उत्तरदिक्त्वम्। द्वयोर्दक्षिणगोलस्थत्वेऽपि अधिकसूर्यात् न्यूनचन्द्रस्य उत्तर-त्वात्। चतुर्थपक्षे भिन्नदिशयोःक्रान्तिज्ययोर्योगे तादृशे तद्वध ऊन इति वियोगार्थं योगस्योत्तरदिक्त्व-म। चन्द्रस्य उत्तरदिक्स्थत्वात्। पञ्चमपक्षे तु चतुर्थपक्षोक्तं तुल्यत्वात्। षष्ठपक्षे क्रान्तिज्ययोर्भिन्नदि-शयोर्योगो दक्षिणस्तद्वधेयोगार्थं चन्द्रस्य दक्षिणगोलस्थत्वात्। सप्तमपक्षे क्रान्तिज्ययोः एकदिशयोः अन्तरं सूर्यसम्बद्धं तदा तद्वधेयोज्यमित्यन्तरं दक्षिणम्। द्वयोः उत्तरगोलस्थत्वेऽपि चन्द्रस्य न्यूनत्वेन अर्काद् दक्षिणस्थत्वात्। अधिकत्वे तु उत्तरं तद्वधे हीनमिति। अष्टमपक्षे क्रान्तिज्ययोः एकदिशयोः अन्तरे चन्द्रसम्बद्ध उत्तरे तद्वध ऊनः। चन्द्रस्याधिकत्वेन उत्तरस्थत्वात्। अन्त्यपक्षे तु समदिशयोः क्रान्तिज्ययोःअन्तरं सूर्यसम्बद्धं तद्वधेयोज्यमिति दक्षिणम्। चन्द्रस्य न्यूनत्वेन दक्षिणस्थत्वात् इत्युपपन्नं प्रथमश्लोकोक्तम्।
अत्र केनचित् क्रान्तिशब्देन चापात्मकक्रान्ती गृहीत्वा तत्संकारः कृतस्तस्य ज्या कार्येति व्याख्यातम्। तदुपपतिविरुद्धम्। न हि भुजसाधने चापात्मकक्रान्ती प्रयोजकत्वेनोपपन्ने। येन व्या-ख्योक्ता युक्ता। नवा क्रान्तिज्यायोगवियोगाभ्यां चापात्मकक्रान्तियोगवियोगयोर्ज्ये तुल्ये येनोक्तं स-ङ्गतं स्यात्। अन्यथा अक्षांश क्रान्त्यंशसंस्कारांशज्यां विनापि क्रान्तिज्याक्षज्ययोः संस्कारेण नतांश-ज्यायाःसाधनापत्तेरिति दिक्। अथ अयं भुजस्त्रिज्यावृत्त इति लाघवात् तात्कालिके चन्द्रच्छायाक-र्णमितवृत्ते स्वेच्छया साधितस्त्रिज्यावृत्तेऽयं भुजस्तदा चन्द्रच्छायाकर्णवृत्ते क इत्यनुपातेन क्रान्तिज्य-योः संस्कारमितमाद्यं खण्डं चन्द्रच्छायाकर्णगुणमिति सिद्धम्। त्रिज्यामितपूर्वगुणस्य इदानीन्तनत्रि-ज्यामितहरस्य तुल्यत्वेन द्वयोर्नाशाच्च। अथ अपरखण्डं चन्द्रशङ्क्वक्षज्याघातात्मकं चन्द्रच्छायाक-र्णगुणं त्रिज्याभक्तं कार्यम्। तत्र त्रिज्याद्वादशघातस्य चन्द्रशङ्कुभक्तस्य छायाकर्णत्वात् शङ्कुत्रि-ज्यामितयोर्गुणहरयोः प्रत्येकं नाशात् अक्षज्या द्वादश- गुणेति अपरं खण्डं सिद्धम्। द्वयोः एकदिशि योगो भिन्नदिशि अन्तरमिति संस्कारो लम्बज्या भक्तो भुजःसंस्कारदिक्कः सिद्धः। शङ्कुः कोटिरितिचन्द्रच्छायाकर्णवृत्ते भुजसाधनात्। तद्वृत्ते कोटिरपि साध्या। सा तु नियता द्वादश। नियतको-ट्यर्थमेव भुजश्चन्द्रच्छायाकर्णवृत्ते साधितः सूर्योदयास्तयोः सूर्यशङ्कोःअभावात् सूर्यशङ्कुसंस्कारा-भावः। तदितरकाल उक्तक्रियया न निर्वाहःकोटिभुजयोर्वर्गयोगान्मूलं कर्ण इत्युपपन्नं मध्याह्नेत्यादि श्लोकद्वयोक्तम्॥6-8॥

शुक्लानयनम्।
अथ शुक्लानयनमाह –

सूर्योनशीतगोर्लिप्ताः शुक्लं नवशतोद्धृताः।
चन्द्रबिम्बाङ्गुलाभ्यस्तं हृतं द्वादशभिः स्फुटम्॥9॥

सूर्योनितचन्द्रस्य कला नवशतभक्ताः फलं शुक्लं तच्चन्द्रग्रहणाधिकारोक्तप्रकारेण आगतचन्द्र-विम्बाङ्गुलैर्गुणितं द्वादशभिर्भक्तं फलं स्फुटंशुक्लं स्यात्। अत्रोपपत्तिः। दर्शान्ते सूर्यचन्द्रयोः अन्त-राभावात् अस्मद् दृश्यार्द्धे चन्द्रगोले सूर्यकिरणप्रतिफलनाभावात् शौक्लयाभावः। ततो यथायथार्का-च्चन्द्रः पूर्वतोऽन्तरितस्तथा तथा चन्द्रगोलास्मद्दृश्यार्द्धे चन्द्रपश्चिमभागक्रमेण शौक्लयवृद्धिः। एवं षड्राश्यन्तरे पौर्णमास्यन्ते चन्द्रगोलास्मद् दृश्यार्द्धं सम्पूर्णं श्वेतं भवति। इतः षड्राशिकलाभिःखखाष्ट-दिग्भिर्द्वादशाङ्गुलव्यासविम्बं श्वेतं तदेष्टेन सूर्योनचन्द्रकलागुणेन किमित्यनुपाते प्रमाणफलयोः फ-लापवर्तनेन प्रमाणस्थानेनवशतम्। अतः सूर्योनचन्द्रस्य कला नवशतभक्ताः शौक्ल्यमिदं द्वादशा-ङ्गुलव्यासप्रमाणेन सिद्धम्। अतो द्वादशाङ्गुलप्रमाणेन इदं तदाभिमतचन्द्र विम्बाङ्गुलव्यासप्र-माणेन किमित्यनुपातेन उक्तमुपपन्नम्। अनेन प्रकारेण त्रिभान्तरेचन्द्रगोलास्मद्दृश्यार्द्धमर्द्धं श्वेतं भवतीति सिद्धम्। भास्कराचार्यैस्तु। कक्षाचतुर्थस्तरणेर्हि चन्द्रः कर्णान्तरेतिर्यगिनोयतोऽब्जात्। पा-दोनषट्काष्टलवान्तरेऽतो दलं नृदृश्यं दलमस्य शुक्लम्। इति श्रृङ्गोन्नतिवासनायामुक्तम्। श्रृड्गोन्न-त्यधिकारे। चन्द्रस्य योजनमयश्रवणेन निघ्नो व्यर्केन्दुदोर्गुण इनश्रवणेन भक्तः। तत्कार्मुकेण सहितः खलु शुक्लपक्षे कृष्णोऽमुना विरहितः शशभृद्विधैयः॥ इति तदभिप्रेतश्वेतानयनोपयुक्तश्चन्द्रः साधित इत्यलम्॥9॥

श्रृङ्गोन्नतिपरिलेखः।

अथ श्लोकचतुष्टयेन श्रृङ्गोन्नतिपरिलेखमाह –

दत्वाऽर्कसंज्ञितं बिन्दुं ततो बाहुं स्वदिङ्मुखम्।
ततः पश्चान्मुखीं कोटिंकर्णं कोट्यग्रमध्यगम्॥10॥

कोटिकर्णयुताद्विन्दोर्बिम्बं तात्कालिकं लिखेत्।

कर्णसूत्रेण दिक्सिद्धिं प्रथमं परिकल्पयेत्॥11॥

शुक्लं कर्णेनतद्विम्बयोगादन्तर्मुखं नयेत्।

शुक्लाग्रयाम्योत्तरयोर्मध्ये मत्स्यौ प्रसाधयेत्॥12॥

तन्मध्यसूत्रसंयोगाद् बिन्दुत्रिस्पृग् लिखेद्धनुः।
प्राग्बिम्बं यादृगेव स्यात् तादृक् तत्र दिने शशी॥13॥

समभूमौ अभीष्टस्थाने दिक्साधनं कृत्वा पूर्वापरा दक्षिणोत्तरा च रेखा कार्या। तत्र दिक्सम्पातेऽर्क-संज्ञितमर्कसंज्ञा सञ्जाता यस्येति एतादृशमर्कसंज्ञं विन्दुं चिह्नं दत्वा कृत्वेत्यर्थः। ततो विन्दोः सकाशा-द्भुजं पूर्वसाधितं स्वदिङ्मुखं स्वदिशा दक्षिणोत्तरा अन्यतरा तदभिमुखं दत्वा भुजाङ्गुलानि गण-यित्वा चिह्नं कृत्वा ततो भुजाग्रचिह्नात्प श्चान्मुखीं पश्चिमदिक्समसूत्राभिमुखाग्रांकोटिंद्वादशाङ्गुला-त्मिकां दत्वा कर्णं पूर्वसाधितं कोट्यग्रमध्यगं कोट्यग्रचिह्नमध्यं सूर्यसंज्ञकचिह्नं तयोर्गतं स्पृष्टम्। तद-न्तराले कर्णांगुलानि दत्वेत्यर्थः। कोटिकर्णरेखासंयोगे मध्यं प्रकल्प्य तात्कालिकं सूर्यास्तोदयकालि-कं चन्द्रस्य साधितं मण्डलं लिखेत्। तत्र लिखितचन्द्रविम्बे कर्णसूत्रेण कर्ण-रेखया प्रथममादौ दि-क्सिद्धिं दिशानिष्पत्तिं परिकल्पयेत् कुर्यात्। चन्द्रमण्डलं कर्ण-रेखायां यत्र लग्नं तत्र चन्द्रवृत्ते पूर्वा। कर्ण-रेखां स्वमार्गेण अग्रे निःसार्य चन्द्रवृत्तपरिधौ यत्र कर्ण’रेखापरभागे लग्ना तत्र पश्चिमा। तन्मत्स्या-भ्यां रेखा दक्षिणोत्तरा चन्द्रवृत्ते यत्र लग्ना तत्र दक्षिणोत्तरेति फलितार्थः। शुक्लं पूर्वसाधितं कर्णेन क-र्ण-रेखामार्गेण तद्विम्बयोगात्कर्णरेखाचन्द्रमण्डलपरिध्योः सम्पातात् अपूर्वात्। अन्तर्मुखं चन्द्रवृत्त-केन्द्राभिमुखं नयेत्। शुक्लाग्रचिह्नं कुर्यात्। चन्द्रवृत्तान्तः कर्णरेखायां पश्चिमचिह्नात् शुक्लाङ्गुलानि गणयित्वा चिह्नं कुर्यात् इत्यर्थः। शुक्लग्रयाम्योत्तरयोश्चन्द्रवृत्तान्तर्यत्र शुक्लाग्रचिह्नं यत्र च चन्द्रवृत्तप-रिधौ दक्षिणोत्तरयोश्चिह्नं तयोरित्यर्थः। मध्येऽन्तराले मत्स्यौ प्रत्येकं साधयेत्।शुक्लाग्रदक्षिणचिह्नाभ्यां मत्स्यशुक्लाग्रोत्तर चिह्नाभ्यां मत्स्यश्चेति पूर्वोक्तरीत्या मत्स्यौ कुर्यादित्यर्थः। तन्मध्यसूत्रसंयोगात्। त-योर्मत्स्ययोः मध्यसूत्रं मुखपुच्छस्पृग्गर्भसूत्रं प्रत्येकं तयोर्यत्र चन्द्रमण्डलान्तस्तद्वहिर्वा केन्द्रशुक्लाग्रस्य पश्चिमत्वे पूर्वभागे संयोगः पूर्वत्वे पश्चिमभागे संयोगः। स्वस्वमार्गेण प्रसारितयोःतयोः सम्पातस्तस्मात् स्थानात् बिन्दुत्रिस्पृक् शुक्लाग्रबिन्दुर्याम्योत्तरयोश्चिह्नबिन्दुरिति बिन्दुत्रितयस्पर्शिधनुर्वृतैकदेशात्मकं लिखेत्। सूत्रसम्पात शुक्लाग्रबिन्द्वन्तरालाङ्गुलव्यासार्द्धेन सम्पातस्थानात् बिन्दुत्रयस्पृष्टवृत्तपरिध्ये-कदेशात्मकं चन्द्रमण्डलान्तश्चापं कुर्यात् इत्यर्थः। प्राक् पूर्वकाले। लिखितं चन्द्रविम्बम्। यादृक्। लिखितचापच्छेदेन यादृशं पश्चिमभागे भवति तादृशः। एवकारस्तद्भिन्ननिरासार्थकः। तस्मिन् दिने। श्रृङ्गोन्नतिगणिताश्रयी भूतसन्ध्यासमये चन्द्र आकाशस्थो भवति। अत्रोपपत्तिः भुजस्तु सूर्याच्चन्द्रे या-वतान्तरेण तद्रूप इति सूर्यस्थानं प्रकल्प्य तस्मात् यथा दिग्भुजो देयस्तस्मात् शुक्लपक्षे पश्चिमदिक्स्थ-स्य चन्द्रस्य श्रृङ्गोन्नतिर्भवतीति सूर्यचन्द्रयोरूर्ध्वाधरान्तरं कोटिर्दत्ता। सूर्यचन्द्रयोः अन्तरं तिर्यक्कर्ण इति कोट्यग्रसूर्यविम्बान्तराले कर्णो दत्तः। कर्णदानं कोणेःसरलत्वसिद्ध्यर्थं तत्र कोटिकर्णयोगे चन्द्रावस्थानात् चन्द्रवृत्तं तन्मध्यत्वेन लिखितम्। कर्णमार्गेण शुक्लदर्शनात् चन्द्रविम्बे कर्णसूत्रानुरु-द्धा पूर्वापरा तदनुरुद्धा दखिणोत्तरा च। शुक्लपक्षे चन्द्रपश्चिमभागेऽर्काभिमुखत्वेन शौक्ल्यात् पश्चि-मस्थानात् कर्णरेखायां चन्द्रवृत्तान्तः श्वेतं दत्तम्। तत्र चन्द्रमण्डले याम्योत्तरचिह्नौ अधिकवृत्तैकदेश-रूपं धनुः शुक्लाग्रबिन्दुस्पृष्टं चन्द्राकृतिदर्शनार्थं कार्यम्। अतो बिन्दुत्रयस्पृग् वृत्तस्य केन्द्रज्ञानार्थं प्रा-गुक्तरीत्या बिन्दुत्रयेभ्यो मत्स्यौ प्रसाध्य तत्सूत्रयुतिः केन्द्रमस्मात् चापं तथैव भवतीति चन्द्राकृ-तिःप्रत्यक्षा॥10-13॥

श्रृङ्गोन्नतिः।
ननु यदर्थमयमुद्योगस्तस्याः श्रृङ्गोन्नतेर्ज्ञानं नोक्तम् अत आह—

कोट्या दिक्साधनात् तिर्यक् सूत्रान्ते श्रृङ्गमुन्नतम्।
दर्शयेदुन्नतां कोटिंकृत्वा चन्द्रस्य साऽऽकृतिः॥14॥

कोट्याकोटि रेखया चन्द्रवृत्ते कर्णरेखावत् दिक्साधनात् परिलेखे शुक्लधनुषः कोटिमग्रभागात्मि-कामुन्नतामुच्चां कृत्वा दृष्ट्वा। तिर्यक्सूत्रान्ते दक्षिणोत्तररेखाया अन्तेअवसाने। उन्नतमुच्चं श्रृङ्गं दर्शये-त्। सा परिलेखसिद्धा। आकृतिः स्वरूपम्। चन्द्रस्य आकाशस्थचन्द्रस्य भवति। परिलेखसिद्धरूप-म् आकास्थचन्द्रे प्रत्यक्षमित्यर्थः। अत्रोपपत्तिः। यथा चन्द्रवृत्ते कर्णरेखया चन्द्रदिशस्तथा कोटिरेखया चन्द्रवृत्ते सूर्यदिशस्तयोःअन्तरं भुजश्चन्द्रवृत्तपरिणतः। अथ चन्द्रदक्षिणोत्तरयोर्धनुकोट्योः संलग्नत्वात् सूर्यदक्षिणोत्तराभ्यां कोटिरूपश्रृङ्गेण नतोन्नते भवतस्तत्र भुजदिक्कं श्रृङ्गं नतम्। तदितरदिक्कं श्रृङ्ग-मुन्नतम्। अत एव भास्कराचार्यैरुक्तम्। स्यात्तुङ्गश्रृङ्गवलनान्यदिक्स्थम्। इति॥14॥

ननु सूर्योनचन्द्रस्य षड्भाधिकत्व उक्तप्रकारेण चन्द्रविम्बाभ्यधिकं शुक्लमायातितत् कथं युक्तं व्याघातादित्यतः तदुत्तरं विशेषं च आह –

कृष्णे षड्भयुतं सूर्यं विशोध्येन्दोस्तथाऽसितम्।
दद्याद् वामं भुजं तत्र पश्चिमे मण्डलं विधोः॥15॥

कृष्णपक्षे षड्राशिभिःसहितमर्कं चन्द्राद्विशोध्य। तथा लिप्ता नवशतभक्ता इति पूर्वप्रकारेण। अ-सितं श्याममानेयम्। तथा च पूर्वोक्तं शुक्लानयनं शुक्लपक्ष एव चन्द्रशौल्क्यवृद्धि ज्ञानार्थम्। कृष्ण-पक्षे तु शौल्क्यह्रासात् कृष्णतावृद्धेःकृष्णानयनं युक्तं न शुक्लानयनम्। अत एव दर्शान्तमासस्य शु-क्लकृष्णौ द्वौ पक्षौ इति भावः। अथ कृष्णपरिलेखार्थं पूर्वोक्ते विशेषमाह। दद्यादिति। तत्र कृष्णपरि-लेखविषये वामं विपरीतं भुजं प्रागुक्तं दद्यात्। अर्कचिह्नात् उत्तरं भुजं दक्षिणतो दक्षिणं भुजमुत्तरतो गणको दद्यात्। चन्द्रस्य मण्डलं पश्चिमं दर्शयेत्। यथा शुक्लपक्षे चन्द्रमण्डलस्य पश्चिमभागे शौक्ल्यं तथा कृष्णपक्षे चन्द्रमण्डलस्य पश्चिमभागे कृष्णाभिवृद्धिं दर्शयेत् इत्यर्थः। अत्रोपपत्तिः। कृष्णपक्षार-म्भे सूर्यचन्द्रयोः षड्राश्यन्तरम्। ततः षड्राशिपर्यन्तं कृष्णाभिवृद्धिः। अतः षड्राशियुतसूर्येण वर्जितच-न्द्रात् पूर्वप्रकारेण कृष्णानयनं युक्तम्। अथ शुक्लश्रृगं यत्र नतं तत्र कृष्णश्रृङ्गमुन्नतं यत्र चोन्नतं तत्र नतम्। अतः कृष्णपरिलेखार्थं भुजो विपरीतो देयः। तदपि कृष्णं पश्चिमभागात् एवाभिवृद्धम्। अतः कर्णरेखायां चन्द्रविम्बान्तः पश्चिमस्थानात् देयम्। ततः प्राग्वत् कृष्णश्रृङ्गोन्नतिरिति॥15॥

अथ अग्रिमग्रन्थस्य असङ्गतित्वनिरासार्थमधिकारसमाप्तिं फक्किकया आह। चन्द्रोदयास्तयोः श्रृ-ङ्गोन्नतिविषयत्वेन उक्तत्वात् अस्यामेवान्तर्भावो न स्वतन्त्राधिकारत्वमन्यथा ग्रहोदयास्ताधिकारे त-दुक्त्यापत्तेः। एतेन चन्द्रोदयास्तयोः पौर्णमास्यधिकारत्वं पर्वतोक्तं निरस्तम्। तत्संज्ञायां प्रमाणाभावा-त् अन्यथा अमावास्याधिकारत्वस्यैव सुवचत्वापत्तेरिति ध्येयम्।

रङ्गनाथेन रचिते सूर्यसिद्धान्तटिप्पणे। श्रृङ्गोन्नत्यधिकारोऽयं पूर्णो गूढप्रकाशके॥

इति श्रीसकलगणकसार्वभौमबल्लालदैवज्ञात्मजरङ्गनाथगणकविरचिते गूढार्थप्रकाशके श्रृङ्गोन्न-त्यधिकारः सम्पूर्णः॥

अथ पाताधिकारः-11

वैधृतपातसम्भवः
अथ पाताध्यायो व्याख्यायते। तत्र भेदद्वयात्मकपातस्य सम्भवं विवक्षुः प्रथमं वैधृतसंज्ञापातस्य स-म्भवमाह -

एकायनगतौ स्यातां सूर्याचन्द्रमसौ यदा।
तद्युतौ मण्डले क्रान्त्योस्तुल्यत्वे वैधृताभिधः॥1॥

सूर्यचन्द्रौ। सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् इति श्रुत्युक्तप्रयोगः। एकायनगतौ। अभिन्नद-क्षिणोत्तरान्यतरायनस्थौ भवतस्तत्र यदा यस्मिन् काले तद्युतौसूर्यचन्द्रयोः भाद्योर्योगे मण्डले द्वाद-शराशिमिते सति तदा तयोः क्रान्त्योः समत्वे महापातरूपे वैधृतसंज्ञः पातो भवति॥1॥

व्यतीपातसंज्ञपातसम्भवः।

अथ व्यतीपातसंज्ञपातस्य सम्भवमाह—-

विपरीतायनगतौ चन्द्रार्कौ क्रान्तिलिप्तिकाः।
समास्तद्वा व्यतीपातो भगणार्धे तयोयुर्तौ॥2॥

चन्द्रार्कौ विपरीतायनगतौ भिन्नायनस्थौ भवतस्तत्र यदा तयोः सूर्यचन्द्रयोः भाद्योर्योगे भगणार्द्धे रा-शिषट्के सति। तयोः क्रान्तिकलास्तुल्या भवन्ति तदा तस्मिन् काले व्यतीपातसंज्ञकः पातो भवति। अत्रोपपत्तिः। समक्रान्तिकालो महापातकालः। तत्र स्पष्टक्रान्त्योरति वैलक्षण्योपचयापचयोः नियमा-भावाच्च समकालो दुर्लक्ष्य इति मध्यमक्रान्त्योः समत्वकालात् पूर्वम् अपरत्र वा शरवशेन शरसंस्कृ-तक्रान्तिसमत्वं भवतीति निश्चित्य वस्तुभूततत्कालज्ञानार्थं प्रथमं तदासन्नकालस्थमध्यमक्रान्तितुल्य-स्य ज्ञानमावश्यकं तत्तु सूर्यचन्द्रयोः क्रान्तिसमत्वं भुजतुल्यत्वे सम्भवति भुजोत्पन्नत्वात्। भुजसमत्वं सूर्यचन्द्रयोः षड्राशिमितयोगे द्वादशराशिमितयोगे वा षड्रीशिमितान्तरेऽन्तराभावे वा कुत एवमिति चेत् श्रृणु। तत्र अन्तराभावे द्वयोः तुल्यत्वेन भुजसाम्ये विवादाभावः। एवं षड्भान्तरेऽपीतरयोः विष-मपदस्थयोः समपदस्थयोर्वा क्रमेण पदगतैष्ययोस्तुल्ययोः भुजत्वमित्यविवादः। षड्द्वादशराशियोगे तु तयोर्विषमसमपदस्थत्वात् क्रमेण तुल्यगतैष्यत्वेन भुजतुल्यत्वम्। रविगोलायनसन्धिस्थयोस्तु क्रा-न्तिपरमभावत्व इति तत्रापि तदन्तरयोगयोः षड्द्वादशराश्योः यथायोग्यसत्वात् क्रान्तिसाम्यं सहजत एव। अत एकायनस्थयोः भिन्नगोलस्थयोःद्वादशराशियोग एकगोलायनस्थयोःअन्तराभावे क्रान्ति-साम्यम्। एवं भिन्नायनस्थयोःएकगोलस्थयोः षड्राशियोगे गोलभेदस्थयोः षड्राश्यन्तरे क्रान्तिसाम्य-मिति युतौ इत्युपलक्षणादन्तरं इत्यपि ज्ञेयम्। न तु तद्युतौ मण्डले भगणार्द्धे तयोर्युतौ इत्युक्तेन क्र-मेण गोलभेदैक्ययोः अन्तरनिरासार्थकोक्तिस्तत्रापि क्रान्तिसाम्यत्वेन अनिवार्यत्वात्। अत्र एकायन-गतौ इति विपरीतायनगतौ इति च स्वरूपोक्तिः अनावश्यकीति ध्येयम्। वस्तुतस्तु सूर्यचन्द्रयोः द्वादशमिते योगेऽन्तरे वा वैधृताख्यं क्रान्तिसाम्यम्। षड्राशिमिते तयोर्योगेऽन्तरे वा व्यतीपाताख्यं क्रान्तिसाम्यमिति तात्पर्योक्तिः। अत एवाग्रे भास्करेन्द्वोः इत्याद्युक्तं युक्तमिति तत्त्वम्॥2॥

ननु क्रान्त्योः साम्ये कथं पातो भवतीत्यत आह –

तुल्यांशुजालसम्पर्कात् तयोस्तु प्रवहावृतः।
तद्दृक्क्रोधभवो वह्निर्लोकाभावाय जायते॥3॥

तयोःचन्द्रसूर्ययोः। तुकारात् क्रान्तिसाम्यकालिकयोः। तुल्यांशुजालसम्पर्कात् समकिरणानां जालं समूहस्तयोः अन्योन्याभिमुखयोः सम्पर्कात्। एकीभावापन्नत्वात्। तादृक्क्रोधभवः सूर्यचन्द्रयोः अन्यो-न्याभिमुखयोः दृक्क्रोधो विम्बकेन्द्रयोः दृग्रूपयोः क्रोधःपरस्पराभिमुखेन दीप्त्याधिक्यं तदुत्पन्नोऽग्निः प्रवहावृतः प्रवहवायुप्रज्वलितः। लोकाभावाय जनानामशुभफलाय जायते॥3॥

वह्निव्यतीपातः।
अथ अयं वह्निर्व्यतीपाताख्यो वैधृताख्यो वा इत्यत आह –

विनाशयति पातोऽस्मिन् लोकानामसकृद्यतः।
व्यतीपातः प्रसिद्धोऽयं संज्ञाभेदेन वैधृतिः॥4॥

अस्मिन् क्रान्तिसाम्यकाले। प्रसिद्धः पूर्वश्लोकोक्तस्वरूपः। पातो वह्निः। यतः कारणात्। असकृ-त् स्वसम्भवेन वारं वारम्। लोकानां विनाशयति। नाशं करोति। अतः कारणात् अयं वह्निर्व्यतीपात-संज्ञोऽयमेवाग्निः संज्ञाभेदेन नामान्तरेण वैधृतिसंज्ञः। तथा चोभयत्र पाताख्यो वह्निर्भवतीति भावः॥4॥

अथ तत्स्वरूपमाह –

स कृष्णो दारुणवपुर्लोहिताक्षो महोदरः।
सर्वानिष्टकरो रौद्रो भूयो भूयः प्रजायते॥5॥

स क्रान्तिसाम्यकालोत्पन्न उभयसंज्ञकः पताख्योऽग्निपुरुषः कृष्णः श्यामः। दारुणवपुः कठिनश-रीरः। लोहिताक्षः आरक्तनेत्रः। महोदरः पृथूदरः। अतएव सर्वानिष्टकरःसर्वलोकानामशुभकारकः। रौद्रः क्षयकारकः। भूयो भूयोऽनेकवारम्। प्रजायते। प्रत्येकं क्रान्तिसाम्यकाल उत्पन्नो भवतीत्यर्थः॥5॥

सूर्यचन्द्रयोः क्रान्ति साम्यसाधनम्।
अथ स्पष्टकालज्ञानं विवक्षुः प्रथमं तादृशयोःसूर्यचन्द्रयोः सायनांशयोःक्रान्ती साध्ये इत्याह –

भास्करेन्द्वोर्भचक्रान्तश्चक्रार्धावधिसंस्थयोः।
दृक्तुल्यसाधितांशादियुक्तयोः स्वावपक्रमौ॥6॥

सूर्यचन्द्रयोर्दृक्तुल्यसाधितांशादियुक्तयोः। प्राक् चक्रं चलितं हीने छायार्कात् करणागते। इत्यादि-ना दृग्गोचरीभूतं साधितमंशादिकं तेन संस्कृतयोः इत्यर्थः। एतेन पूर्वसाधारणोक्तिरपि स्पष्टीकृता क्रान्त्योः सायनोत्पन्नत्वात्। भचक्रान्तर्भचक्रं द्वादशराशयस्तन्मध्ये संस्थयोः स्थितयोः। ययोर्योगो द्वा-दशराशयस्तयोः इत्यर्थः। चक्रार्द्धावधिसंस्थयोः। चक्रार्द्धं राशिषट्कं तदवधि तदन्तः स्थितयोः ययोः योगो राशिषट्कं तयोरित्यर्थः। स्वौ स्वकीयौ। अपक्रमौ साध्यौ। सूर्यस्य क्रान्तिः साध्या। चन्द्रस्य विक्षेपसंस्कृता क्रान्तिः साध्येत्यर्थः॥ 6॥

अथ साधिक्रान्तिभ्यां स्वकालात् स्पष्टपातकालस्य गतैष्यत्वं विशेषं च श्लोकाभ्यामाह –

अथौजपदगस्येन्दोः क्रान्तिर्विक्षेपसंस्कृता।
यदि स्यादधिका भानोः क्रान्तेः पातो गतस्तदा॥7॥

ऊना चेत् स्यात् तदा भावी वामं युग्मपदस्य च।

पदान्यत्यं विधोः क्रान्तिर्विक्षेपाच्चेद्विशुद्ध्यति॥8॥

अथ सूर्यचन्द्रयोः क्रान्तिसाधनानन्तरम्। चन्द्रस्य विषमपदस्थस्य। विक्षेपसंस्कृता क्रान्तिः। स्पष्ट-क्रान्तिरित्यर्थः। यदि यर्हि। सूर्यस्य विषमसामान्यतरपदस्थस्य। साधितक्रान्तेः सकाशादधिका स्या-त्। तदा तर्हि। पातः स्पष्टक्रान्तिसाम्यात्मकः। गतः। साधितक्रान्तिकालात् पूर्वकाले जात इत्यर्थः। चेत् यर्हि। सूर्यक्रान्तेर्विषमपदस्थचन्द्रस्पष्टक्रान्तिर्न्यूना भवति तदा तर्हि स्पष्ट क्रान्तिसाम्यरूपपातः। भावी। साधितक्रान्तिकालात् उत्तरकाले भवतीत्यर्थः। ननु विषमपदे चन्द्रो न भवति तदा गतैष्यत्व-ज्ञानं कथं स्यादत आह। वाममिति। युग्मपदस्य। समपदस्थचन्द्रस्य इत्यर्थः। चकारात् स्पष्टक्रान्तिः सूर्यक्रान्तेः सकाशादधिकोना वा स्यात् तर्हीत्यर्थः। वामम्। उक्त गतैष्यक्रमेण वैपरीत्यम्। एष्यगत-त्त्वं पातस्य भवतीत्यर्थः। अथ चन्द्रस्य विशेषमाह। पदान्यत्वमिति। चन्द्रस्य स्पष्टक्रान्तिक्रियायाम्। चेद्यर्हि। चन्द्रस्य विक्षेपसंस्कृतकेवल क्रान्तिर्विक्षेपात् भिन्नदिक्काद्विशुध्यति हीना भवति। क्रान्तिव-र्जितविक्षेपरूपा स्पष्टक्रान्तिर्यदि स्यात् तदा इत्यर्थः। पदान्यत्वं राश्यादिचन्द्राधिष्ठितपदभिन्नपदस्थ-त्व चन्द्रस्यं ज्ञेयम्। सायनराश्यादिना समपदस्थस्य चन्द्रस्य विषमपदस्थत्वम्। सायनराश्यादिना वि-षमपदस्थस्य चन्द्रस्य समपदस्थत्वम् तत्पदसम्बन्धात स्पष्टाक्रान्तिर्ज्ञेया इत्यर्थः। अत्रोपपत्तिः। विष-मपदे क्रान्तिरूपचिता समपदेऽपचिता। अतः सूर्यक्रान्तेः विषमपदस्थेन्दुक्रान्तिरधिका तदा अग्रे सु-तराम् अधिकत्वात् रविक्रान्त्युपचयस्य अल्पत्वाच्च न्यूनया रविक्रान्त्या चन्द्रकान्तेः समत्वम् अग्रिम-काले न भवति। अतः पूर्वकाले चन्द्रक्रान्तेर्न्यूनत्वात् रविक्रान्त्यपचयस्य अल्पत्वाच्च तत्क्रान्तिसाम्यं जातमित्यनुमितम्। एवं समपदस्थेन्दुकान्तिरुना तदा अग्रे सूर्यक्रान्तेर्न्यूना तदा अग्रे सुतरां न्यूनत्वात् तत् साम्याभावः। पूर्वं तु अधिकत्वात् तत्समत्वं जातमिति ज्ञातम्। यदा तु सूर्यक्रान्तेः विषमपदस्थे-न्दुक्रान्त्यधिकत्वेन तत् क्रान्तिसाम्यं भवति पूर्वं तन्न्यूनत्वे तदभावात्। एवं सूर्यक्रान्तेः समपदस्थेन्दु-क्रान्तिरधिका तदा अग्रे न्यूनत्वेन तत्साम्यं भवति। अत एव तत्तुल्यत्वे वर्तमान इति। अत्र चन्द्रस्य विक्षेपवृत्तं विषुवद्वृत्ते लग्नं यत्र तत्र स्पष्टक्रान्तेः अभावात् गोलसन्धिः। तस्मात् त्रिभान्तरे विक्षेपवृत्ते-ऽयनसन्धिः स्पष्टक्रान्तिः तदन्तराल उपचितापचितायनसन्धिस्थ क्रान्त्यनधिका। यदा चन्द्रक्रान्तिर्म-ध्यमा शरभिन्नदिक्का शरादल्पा तदा शराच्छोधनेन स्पष्टक्रान्तिः मध्यमक्रान्तिसम्बन्धपदभिन्नपदस-म्बन्धा भवति। अतः पदान्यत्वं विधोः क्रान्तिर्विक्षेपाच्चेद्विशुध्यति। इति सम्यगुक्तम्। भास्कराचार्यो-क्तं च। चक्रे चक्रार्द्धे च व्ययनांशेऽर्कस्य गोलसन्धिः स्यात्। एवं त्रिभेच नवभेऽयनसन्धिर्व्ययनतभा-गेऽस्य॥ अयनांशोनितपाताद्दोः कोटिज्ये लघुज्यकोत्थेये। ते गुणसूर्यैरश्वैर्गुणिते भक्ते कृतैः सूर्यैः॥ अयनांशोनितपाते मृगकर्क्यादिस्थिते द्विषड्रामैः। (हि षड् रामैः इति व प्र०मि०सं०) कोटिफलयुत-विहीनैर्बाहुफलं भक्तमाप्तांशैः॥

मेषादिस्थे गोलायनसन्धी भास्करस्योनौ। तौ चन्द्रस्य स्यातां तुलादिषट्कस्थिते तु संयुक्तौ॥
गोलायनसन्ध्यन्तं पदं विधोरत्र धीमता ज्ञेयम्। रविगोलवदस्पष्टा क्रान्तिः स्वगोलदिक् शशिनः॥ इति पदज्ञानम्। अनेनैव प्रकारेण चन्द्रस्पष्टक्रान्तेः पदं ज्ञेयं विक्षेपवृत्तसम्बन्धत्वात्। न साधारणपद-ज्ञानेन स्पष्टकान्तेः क्रान्तिवृत्तसम्बन्धाभावात्। अन्यथा पदज्ञानासम्भवापत्तेः। एतदङ्गीकारे पदान्य-त्वमित्याद्यर्द्धं व्यर्थमपि भगवता तदर्द्धेन एतादृशं पदं ज्ञापितमन्यथा तदनुक्त्यापत्तैरिति दिक्॥7-8॥

स्पष्टक्रान्तिसाम्यसाधनम्।
अथ गतैष्यकालानयनं विवक्षुः प्रथमं स्पष्टक्रान्तिसामान्यानयनप्रकारं श्लोकत्रयेणआह—

क्रान्त्योर्ज्येत्रिज्ययाऽभ्यस्ते परक्रान्तिज्ययोद्धते।
तच्चापान्तरमर्धंवा योज्यं भाविनि शीतगौ॥9॥

(त्रिज्यया भिन्ने इति पाठःब०प्र०मि० संस्करणे)

शोध्यं चन्द्राद्गते पाते तत्सूर्यगतिताडितम्।
चन्द्रभुक्त्या हृतं भानौ लिप्तादि शशिवत् फलम्॥10॥

तद्वच्छशाङ्कपातस्य फलं देयं विपर्ययात्।
कर्मेतदसकृत् तावद् यावत् क्रान्ती समे तयोः॥11॥

सूर्यचन्द्रयोः साधितक्रान्त्योर्ज्ये कार्ये ते त्रिज्यया गुणिते। पराक्रान्तिज्यया। परमापक्रमज्या तु स-प्तरन्ध्रगुणेन्दवः इति पूर्वोक्तपरमक्रान्तिज्यया इत्यर्थः। भक्ते। तयोः फलयोः धनुषी कार्ये। चन्द्रस्य यदा त्रिज्याधिकं फलं तदोक्तप्रकारेण धनुषोऽसम्भवात् त्रिज्यया नवत्यंशास्तदेष्टज्यया क इत्यनुपा-तेन धनुः कार्यमथवा त्रिज्यातो यदधिकं तदुत्क्रमधनुषा युक्ताश्चतुः पञ्चाशच्छतकला धनुः स्यात् इति ध्येयम्। तयोः अन्तरम् अर्द्धम्। अन्तरार्द्धम्। वा विकल्पार्थकः। अथवा विषयव्यवस्थार्थकः। सा तु यदान्तरमल्पं तदान्तरम्। यदा तु बह्वन्तरं तदान्तरार्द्धं ग्राह्यमिति। भाविनि भविष्यत्पाते। चन्द्रे रा-श्यात्मके। तत्कलात्मकं युक्तं कार्यम्। गते पाते सति। चन्द्राद्धीनं कार्यं चन्द्रः स्यात्। सूर्यसाधनमा-ह। तदिति। चन्द्रसम्बन्धिसंस्कृतफलम्। स्पष्टसूर्यगत्या गुणितं स्पष्टचन्द्रगत्या भक्तं फलं कलादिकं चन्द्रवत्। चन्द्रयुतहीनक्रमेण सूर्ये युतहीनं कार्यं सूर्यःस्यात्। चन्द्रपातसाधनमाह। तद्वदिति। चन्द्र-पातस्य फलं कलादिकम्। तद्वत्। चन्द्रफलं पातगत्या गुणितं स्पष्टचन्द्रगत्या भक्तं विपर्ययात् व्य-त्यासात्। देयं संस्कार्यम्। चन्द्रयुतहीनक्रमेण चन्द्रपाते हीनयुतं कार्यम्। चन्द्रपातः स्यात्। उक्तक्रि-यातिदेशमाह। कर्मेति। एतत्। उक्तं कर्मगणितक्रियारूपम्। असकृत् अनेकवारम्। साधितसूर्या-त्। सूर्यक्रान्तिं प्रसाध्य साधितचन्द्रपाताभ्यां चन्द्रस्पष्टक्रान्तिं प्रसाध्य ताभ्यां क्रान्तिभ्यां क्रान्त्योर्ज्ये इत्यादिना चापान्तरं तदर्द्धं वा तत्क्रान्तिभ्यामवगतगतैष्यपातलक्षणवशात्। द्वितीयचन्द्रे हीनयुतं तृ-तीयचन्द्रः स्यात्। आद्यसूर्यचन्द्रगतिभ्याम् अवगतसूर्यपातफलं द्वितीयसूर्य पातयोः यथोक्तं संस्कृतं तृतीयसूर्यपातौ। एभ्यः सूर्यचन्द्रपातेभ्यः सूर्यचन्द्रक्रान्तिभ्यां साधिताभ्यां चापान्तरं तदर्द्धं वा तृतीयच-न्द्रे तत् क्रान्त्यवगतगतैष्यपातवशात् संस्कृतं चतुर्थचन्द्रः स्यात्। आद्यसूर्यचन्द्रगत्यवगतस्वफलसं-स्कृतौ तृतीयसूर्यपातौ चतुर्थसूर्यपातौ स्तः। एवमेभ्यः पञ्चमाश्चन्द्रसूर्यपाता उक्तरीत्या साध्या इत्युत्त-रोत्तरं मुहुः साध्या इत्यर्थः। अवधिमाह। तावदिति। यावद्यदवधि तयोःसूर्यचन्द्रयोः क्रान्ती स्पष्टक्रा-न्तितुल्ये स्तः तावत् तदवधि क्रिया कार्या इत्यर्थः। अत्रोपपत्तिः। मध्यमक्रान्तिसाम्यरूपपातकालि-कस्पष्टक्रान्तिभ्यां स्पष्टक्रान्तिसाम्यरूपं वस्तुभूतपातकालो गतैष्यत्वेन ज्ञातोऽपि विशेषतस्तत्काल-ज्ञानार्थं सूर्यचन्द्रयोः क्रान्ती समेस्पष्टेउपपन्ने कार्ये। तत्र मध्यपातकालाद्गतैष्यपातवशाद् अभीष्टका-ले चन्द्रसूर्यपातान् प्रसाध्य तयोः क्रान्ती साध्ये। एवं साधितक्रान्त्योर्यदैवातुल्यत्वं तदैव स्पष्टपातः। अथ अनियमात् प्रथमं पूर्वाग्रिमकाले चन्द्रसाधनार्थं चन्द्रस्येष्टांशा हीना योज्याश्चेति नियता भागा उ-क्तप्रकारानीता एवेष्टाः कल्पिताः। तथाहि। सूर्यक्रान्तिज्यातः परक्रान्तिज्यया न्यूनया चतुर्दशशतमि-तया त्रिज्या तुल्या दोर्ज्या तदेष्टक्रान्तिज्यया केत्यभीष्टदोर्ज्यायाश्चापं सायनसूर्यभुज एव। एवं चन्द्रस्प-ष्टक्रान्तिज्यातश्चापं सायनसूर्यभुजान्यूनमधिकं भवति। क्रान्तिसमत्वाभावात्। यद्यपि न्यूनचतुर्दशश-ताधिकस्पष्ट-क्रान्तेरुक्तरीत्या भुजज्यायास्त्रिज्याधिकत्वेन चापाकरणमशक्यं तथापि। त्रिज्याधिक-स्य क्रमचापलिप्ताःखखाब्धिबाणा धनुरुत्क्रमात्स्यात्। इति सिद्धान्तशिरोमण्युक्तवैपरीत्येन त्रिज्या-तो यदधिकं तदुत्क्रमचापयुक्ताःचतुः पञ्चाशच्छतकला इत्यनेन चापोत्पत्तौ न क्षतिः। एतेन चापास-म्भवशङ्कया सार्द्धाष्टविंशत्यंशानां ज्या परमक्रान्तिज्येति स्वायनसन्धिस्थस्पष्टक्रान्तिज्या च इति च निरस्तम्। ग्रन्थेतयोः परमक्रान्तिज्यात्वानुक्तेः। स्पष्टक्रान्तिसाम्यानन्तरमपि उक्तरीत्या कर्मान्तर-निवारणानुपपत्तेश्च क्रान्त्योस्तुल्यत्वेऽपि हरभेदात् तच्चापान्तरसद्भावेन क्रियाकुण्ठनासम्भवात्। न हि असकृत्कर्मणि स्वाभीष्टसिद्ध्यनन्तरं कर्मान्तरं सम्भवति। अप्रसिद्धेः स्वरूपव्याघाच्च। तच्चाप-योः अन्तरमिष्टांशाश्चन्द्रस्य गतैष्यपातवशाद्धीनयुता अभीष्टचन्द्रो भवति। तदिष्टांशानां बहुत्वे बहुप-रिवर्त्तैःअभीष्टसिद्धिरतोऽल्पपरिवर्तैः अभीष्टसिद्धयर्थं तदर्द्धमिष्टांशा इति। अथ एते चन्द्रस्येष्टांशा इ-त्येभ्यश्चन्द्रगतिप्रमाणेन एते तदा सूर्यपातगतिभ्यां क इत्यनुपातेन तयोश्चन्द्रकालिकत्वसिद्ध्यर्थमिष्टां-शा एते सूर्यस्य संस्कृताश्चन्द्रवदभीष्टसूर्यो भवति। पातस्य तु चक्रशुद्धत्वेन विपरीतत्वात् पातेष्टांशाः पातस्य व्यस्तं संस्कार्याः। अभीष्टपातो भवति। एभ्यः सूर्यचन्द्रयोः स्पष्टक्रान्ती साध्ये। तयोरसमत्व उक्तरीत्या स्वेष्टांशा एतत्साधितचन्द्रे संस्कार्याः। न प्रथमचन्द्रे। तत्क्रान्तिजत्वाभावात्। अन्यथा सम-क्रान्त्यनन्तरमपि तयोरिष्टांशाभावे प्रथमचन्द्रसूर्यपातानां तत्संस्कृतेऽपि अविकारा तत्क्रान्त्योः द्विती-यपरिवर्त्तक्रान्तिसमत्वेन कर्मान्तरसम्भवात् क्रियाकुण्ठनत्वानुपपत्तेः। अव्यवहितपूर्वग्रहयोजने तु अर्न्यकर्मण एव सिद्धेः। कर्मान्तरासम्भवाच्च। सूर्यपातयोरिष्टांशास्तु पूर्वचन्द्रसूर्यस्पष्टगतिभ्यामेव स्वल्पान्तरात् कार्याः। अव्यवहितपूर्वकाले स्पष्टगत्यज्ञानात्। एवमसकृत् करणेन क्रान्त्योः साम्यमु-त्तरोत्तरपरिवर्त्तान्तरे भवति एव इत्युपपन्नं क्रान्त्योर्ज्येत्यादिश्लोकत्रयम्॥9-11॥

पातकालस्य गतगम्यत्वसाधनम्।
अथ क्रान्तिसाम्यं पात इति स्पष्टं कथयन् तत्कालज्ञानार्थं साधितक्रान्तिसाम्य सम्बन्धि चन्द्रासन्ना-र्द्धरात्रात् पातकालस्य गतगम्यत्वमाह –

क्रान्त्योः समत्वे पातोऽथ प्रक्षिप्तांशोनिते विधौ।
हीनेऽर्धरात्रिका यातो भावी तात्कालिकेऽधिके॥12॥

सूर्यचन्द्रयोः स्पष्टक्रान्त्योः साम्ये स्पष्टःपातःस्यात्। अथ अनन्तरम्। स्पष्टपातसम्बन्धी साधितच-न्द्रःपूर्वानुसन्धानेनआपाततो यद्दिनीयोभवतितदासन्नार्द्धरात्रकाले स्पष्टचन्द्रो मध्यस्पष्टाधिकारोक्त-प्रकारेणसाध्यः। तस्मादर्द्धरात्रकालिकाच्चन्द्रात् प्रक्षिप्तांशोनिते क्रान्तिचापान्तरेण तदर्द्धेन वा युतो-निते चन्द्रे स्पष्टक्रान्तिसाम्यसम्बद्धसाधितचन्द्रे न्यूने सति तदर्द्धरात्रकालात् पातकालो गतः। तात्का-लिके क्रान्तिसाम्यकालिकसाधितचन्द्रे अर्द्धरात्रिकालिकचन्द्राधिके सति तदर्धरात्रकालात् पातकाल एष्य इत्यर्थः। अत्रोपपत्तिः।यद्यपिस्पष्टक्रान्तिसाम्यसम्बद्धचन्द्रमध्यक्रान्तिसाम्यकालिकचन्द्राभ्यां वक्ष्यमाणप्रकारेण पातकालस्य मध्यक्रान्तिसाम्यकालात् गतैष्यघट्यादिज्ञानं भवतीति निकटार्द्धरा-त्रिकचन्द्रात् तत्साधनं पुनस्तत् गतैष्यकथनं च गौरवम्। आर्द्धरात्रिकस्पष्टचन्द्रसाधनक्रियाधिक्यात्। तथापि चन्द्रगतेरतिमहत्वेन प्रतिक्षणं गतेर्बह्वन्तरेणान्यादृशशत्वात् बहुकालान्तरे बहुकालान्तरित-स्पष्टगत्यानीतघट्यात्मकस्याति स्थूलत्वात् आसन्नकाले स्पल्पान्तराच्च आसन्नार्द्धरात्रिकःस्पष्टचन्द्रो ग्रन्थोक्तः स स्पष्टगतिकोऽवश्यमपेक्षितः। अतस्तस्माच्चन्द्रात् स्पष्टक्रान्तिसाम्यसम्बद्धचन्द्रस्य न्यूना-धिकत्वे क्रमेण तदर्द्धरात्रात् स्पष्टपातो गतैष्य इति सम्यगुक्तम्। अतएव। “समीपतिथ्यन्तसमीपचा-लनं विधोस्तु तत्कालजयैव युज्यते॥ “इति भास्कराचार्योक्तं सङ्गच्छते॥12॥

**स्पष्टपातकालज्ञानम्।
**अथ स्पष्टपातकालज्ञानमाह –

स्थिरीकृतार्धरात्रेन्द्वोर्द्वयोर्विवरलिप्तिकाः।
षष्टिघ्नाश्चन्द्रभुक्त्याप्ताः पातकालस्य नाडिकाः॥13॥

स्थिरीकृतार्द्धरात्रेन्द्वोःस्पष्टक्रान्तिसाम्यसम्बद्धसाधितासकृत्क्रिया नियतचन्द्रस्तदासन्नार्द्धरात्रिक-स्पष्टचन्द्रः। तयोः उभयोः। अत्र द्वयोरिति पूर्वपदार्थव्यक्तीकरणाय। अन्यथा एकवचनप्रमादाद्याकु-लतापत्तेः। अन्तरकलाःषष्ट्या गुणिता अर्द्धरात्रिकचन्द्रस्पष्टकलात्मकगत्या भक्ताःफलम्। पात-कालस्य अर्द्धरात्रात् गतैष्यस्पष्टक्रान्तिसाम्यस्य घटिकाः भवन्ति। अर्द्धरात्रात् गतैष्यक्रमेण फलघटिभिः पूर्वमुत्तरत्र स्पष्टक्रान्तिसाम्यरूपपातः स्यात् इत्यर्थः। अत्रोपपत्तिः।चन्द्रस्पष्टगत्याषष्टिसावनघटिकास्तदा स्वाभीष्टार्द्धरात्रकालिकक्रान्तिसाम्यकालिकस्पष्टचन्द्रयोःअन्तरकलाभिः का इत्युपप-न्नमुक्तम्। साधितसूर्यस्य प्राथमिकचन्द्रगतिग्रहणेन स्थूलत्वात् अर्द्धरात्रिकस्पष्टसूर्यादुक्तरीत्या पात-कालानयनं स्थूलं नोक्तमिति ध्येयम्॥13॥

पातकालस्य स्थित्यर्धम्।

अथ पातकालस्य स्थित्यर्द्धानयनमाह –

रवीन्दुमानयोगार्धंषष्ट्या संगुण्य भाजयेत्।
तयोर्भुक्त्यन्तरेणाऽऽप्तं स्थित्यर्धंनाडिकादि तत्॥14॥

सूर्यचन्द्रयोः चन्द्रग्रहणाधिकारोक्तप्रकारेण ये विम्बमानकाले स्वस्वगतिकलोत्पन्ने तयोः ऐक्यस्या-र्द्धं षष्ट्या गुणयित्वा सूर्यचन्द्रयोः कलात्मकस्पष्टगत्योरन्तरेण भजेत्। यत् लब्धं तद्घटिकादिकं स्थि-त्यर्द्धं पातकालात् पूर्वमपरत्र च स्थित्यर्द्धकालपर्यन्तं पातस्य अवस्थानमित्यर्थः। अत्रोपपत्तिः। सूर्यच-न्द्रविम्बकेन्द्रयोः एकद्युरात्रवृत्तस्थत्वे विषुवद्वृत्तादुभयतस्तुल्यान्तरत्वे वा पातमध्यं केन्द्रसाम्याद्वि-षुवद् वृत्तात् क्रान्तिसूत्रस्थो मण्डलपरिधिप्रदेशो य आसन्नः स विम्बपृष्ठप्रान्तः दूरस्थस्तु बिम्बाग्रप्रा-न्तः। याम्योत्तरगमनेन पातस्य उक्तेः। तत्र शीघ्रविम्बाग्र प्रान्तमन्दपृष्ठविम्बप्रान्तयोः तथात्वे पातार-म्भः सूर्यबिम्बाग्रप्रान्तचन्द्रविम्बपृष्ठप्रान्तयोः तथात्वे पातान्तः। अत आद्यन्तकालाभ्यां क्रमेण पूर्वोत्तर-कालयोश्चन्द्रार्कविम्बान्तर्गतप्रदेशानांकेषामप्युक्तरूपस्थितित्वाभावेन सूर्यचन्द्रयोः तथाभावात् इ-त्यादिकालमारभ्यान्तकालपर्यन्तं सूर्यचन्द्रयोः तथात्वात् पातस्थितिः। पातमध्यकाले क्रान्त्यन्तराभा-वः। पाताद्यन्तकालयोः मानैक्यार्द्धतुल्यं क्रान्त्यन्तरम्। तेन तत्तुल्यान्तरस्यापचयकाल उपचयकाल-श्चाद्यन्तस्थित्यर्द्धे। तत्र तत्कालानयनं सूर्यचन्द्रगत्यन्तरेण षष्टिघटिकास्तदा मानैक्यखण्डकलाभिः का इत्यनुपातेन उक्तमुपपन्नम्। यद्यपि प्रमाणेच्छयोःसमजातित्वाभावात् अनुपातोऽसङ्गतः क्रान्तेर्दक्षि-णोत्तरान्तरस्योपचयापचयोःसूर्यचन्द्रगत्यन्तरस्य पूर्वापरान्तरस्योपचयापचयाभ्याम् अतिविलक्षण-त्वात्। तथापि गणितलाघवार्थं भगवता स्वल्पान्तरत्वेनानुपातो लोकानुकम्पया अङ्गीकृत इत्यदोषः। भास्कराचार्यैस्तु। मानैक्यार्द्धं गुणितं स्पष्टघटीभिर्विभक्तमाद्येन। लब्धघटीभिर्मध्यादादिः प्रागग्रतश्च पातान्तः॥
इति युक्तमुक्तम्। कैचित् तु षष्टिघटिकाभिः ग्रहान् प्रचाल्य क्रान्तिः स्पष्टा साध्या। प्रत्येकं तयोर-न्तरं योगो वा गत्यन्तरमिति भास्कराभिमतमाहुः॥14॥

पातस्यादिमध्यान्तकालज्ञानम्।
अथ पातस्यादिमध्यान्त का-नाह-

पातकालःस्फुटोमध्यः सोऽपि स्थित्यर्धवर्जितः।
तस्य सम्भवकालः स्यात् तत्संयुक्तोऽन्त्यसंज्ञितः॥15॥

स्थिरीकृतार्द्धरात्रेत्यादिना स्पष्टः पातकालःक्रान्तिसाम्यस्य काल आनीतो मध्यसंज्ञो ज्ञेयः। स मध्यकाल आनीतस्थित्यर्द्धेन हीनस्तस्य पातस्य सम्भवकाल आरम्भकालः। अपिः समुच्चये। तत् संयुक्तः स्थित्यर्द्धयुक्तो मध्यकालोऽन्त्यसंज्ञितः पातो भवति। पातस्यान्तकालो भवति इत्यर्थः। अत्रो-पपत्तिश्चन्द्रग्रहणस्पर्शमोक्षवत् स्पष्टा। स्वरूपं तु प्राग्व्यक्तीकृतम्॥15॥

ननु पातस्य क्रान्तिसाम्यत्वेन सूक्ष्मकालरूपत्वादागतमध्यकाल एव सूक्ष्मः शुभकर्भसु निन्दितो न पातस्थित्यात्मकस्थूलकालः क्रान्तिसाम्याभावादित्यत आह।

पातकालस्य गर्हितत्वम्।
अथ एतत् ज्ञानस्य प्रयोजनं किमित्यतः पातस्थितिकालो मड्गलकृत्ये निषिद्ध इत्याह –

आद्यन्तकालयोर्मध्यः कालो ज्ञेयोऽतिदारुणः।

प्रज्वलज्ज्वलनाकारः सर्वकर्मसु गर्हितः॥16॥

एकायनतं यावदर्केन्द्वोर्मण्डलान्तरम्।
सम्भवस्तावदेवास्य सर्वं कर्मविनाशकृत्॥17॥

एककाष्ठगतं इति पाठान्तरयपि बलदेव प्रसाद मिश्रस्य संस्करणे प्राप्यते। पातस्यारम्भ समाप्ति-समययोः अन्तरालवर्ती समयःअत्यन्तं कठिनः। सर्वेषु मङ्गलकृत्येषु निन्दितो ज्ञेयः। अत्र हेतुगर्भं विशेषणमाह। प्रज्वलज्जवलनाकार इति। देदीप्यमानाग्निस्वरूपः तथा च कृतं मङ्गलकृत्यं भस्माव-शेषं स्यात् इति भावः॥16॥
सूर्यचन्द्रयोः मण्डलान्तरं प्रत्येकं विम्बैकदेशरूपं यावद्यत्कालपर्यन्तमेकायनगतं तुल्यमार्गस्थितं भवति। तावत् तत्कालपर्यन्तम्। एवकारो न्यूनाधिकव्यवच्छेदार्थकः। अस्य पातस्य। सकलशुभक-र्मणामाचरितानां नाशकारी। सम्भव उत्पत्तिः। स्थितिरिति यावत्। न क्रान्तिसाम्यमात्रं स्थितिरलक्ष्य-त्वात्। तथाच विषुवद् वृत्तादुभयत एकतो वा चन्द्रार्कविम्बैकदेशयोः कयोरपि तुल्यान्तरेण यावदव-स्थानं केन्द्रावस्थानाभावेऽपि विम्बसम्बन्धात् पातास्थितिः। अतएव। तावत् समत्वमेव क्रान्त्योर्विवरं भवेद्यावत्। मानैक्यार्द्धादूनं साम्याद्विम्बैकदेशजक्रान्त्योः॥ इति भास्कराचार्योक्तं युक्ततरमितिभा-वः॥17॥

पातकालस्य शुभत्वम्।
ननु अयं केवलं मङ्गलनाशको न शुभकारक इत्यत आह-

स्नानदानजपश्राद्धव्रतहोमोदिकर्मभिः।
प्राप्यते सुमहच्छ्रेयस्तत्कालज्ञानतस्तथा॥18॥
‘कर्मसु इति पाठान्तरमपि बलदेव प्र०मि०सं० प्राप्यते’

व्रतंस्वाभिमतदेवताराधनम्।आदिपदाद्धर्मान्तरम्।इत्यादिपुण्यक्रियाभिस्तत्कालकृताभिः सुत-रामुत्कृष्टं कल्याणं मनुष्यैर्लभ्यत्ते। तस्य पातस्य स्थित्यादिकालज्ञानात्। तथा समुच्चये। तेन महच्छ्रेयः प्राप्यत इत्यर्थः॥18॥

अथ पातविशेषमाह-

रवीन्द्वोस्तुल्यता क्रान्त्योर्विषुवत्सन्निधौ यदा।
द्विर्भवेद्धि तदा पातः स्यादभावो विपर्ययात्॥19॥

यदा यस्मिन् काले विषुवन्निकटे क्रान्त्यभावासन्ने। अत्र चन्द्रस्य स्पष्टक्रान्त्यभावासन्नत्वं ध्येयम्। सूर्यचन्द्रयोः क्रान्त्योः समता भवति। तदा तस्मिंस्तदासन्नकाले स्थूलरूपे क्रान्त्यभावात् उभयत्र द्वि-र्वैधृतव्यतीपातभेदद्वयात्मकःपातः। द्विः प्रत्येकं द्विधा वारद्वयं भवेत्॥ विपर्ययात् उक्तव्यत्यासात्। चान्द्रायणसन्निधिनिकटेतयोः क्रान्त्योस्तुल्यत्व इत्यर्थः। अत्र अतुल्यत्त्वं सूर्यक्रान्तितश्चन्द्रस्पष्टक्रान्तेः न्यूनत्वमेव न अधिकत्वमिति ध्येयम्। अभावःक्रान्तिसाम्यरूपपातस्य तस्मिन् स्थूलकाले किञ्चि-न्मितेऽनुत्पत्तिः स्यात्। एतेन। स्वायनसन्धाविन्दोःक्रान्तिस्तत्कालभास्करक्रान्तेः। ऊना यावत् तावत् क्रान्त्योः साम्यं तयोर्नास्ति॥ इति भास्कराचार्योक्तं सङ्गच्छते। तत्साधनं तु प्रथमागतचापान्तरादिष्टां-शाश्चन्द्रे युता हीना इति प्रत्येकमसकृत्क्रियया द्विधा पातकालस्य ज्ञेयम्। अत्रोपपत्तिः। व्यतीपाते विषुवदवृत्तात् उभयस्तुल्यान्तरेण सूर्यचन्द्रयोः अवस्थितिकालेऽपि पातत्वम्। क्रान्तिसाम्यादेव वैधृ-तेऽपि एकाहोरात्रवृत्तस्थत्वकाले पातत्वम्। एवमेव वियोगव्यतीपातवैधृतयोरपि एकाहोरात्रवृत्तस्थत्वे विषुवद्वृत्तात् उभयतस्तुल्यान्तरावस्थितौ च पातत्वम्। क्रान्तिसाम्यादियुक्तं गोलसिद्धं चन्द्रगोलसन्धिनिकोप्रत्यक्षम्। अभावोपपत्तिस्तु चन्द्रस्य स्वायनसन्धौ तत्स्पष्टक्रान्तितुल्यं परमं विषुवद्वृत्तात् दक्षिणोत्तरं गमनं भवति अस्माद् अग्रे पृष्ठे वा विक्षेपवृत्तेभ्रमतश्चन्द्रस्य क्रान्तिः न्यूनैव सम्भवति। अ-तः स्वायनसन्धिस्थ चन्द्रकालिकसूर्यक्रान्तिः स्वायनसन्धिस्थचन्द्रस्पष्टक्रान्तेरधिका तदेष्टचन्द्रक्रान्ते-र्न्यूनत्वेन अधिकसूर्येष्टक्रान्त्या समत्वानुत्पत्तिः। सूर्यस्य चन्द्राल्पगमनत्वात् क्रान्त्यपचयस्यापि चन्द्र-कान्त्यपचयाल्पत्व सम्भवात्। सूर्यक्रान्त्युपचये तु सुतरां तदसम्भवः। एवं तत्रत्यसूर्यक्रान्तिर्न्यूना तदा-पचयाधिक्यात् चन्द्रस्पष्टक्रान्तिस्तत्समा तदुत्तरपूर्वकाले सम्भवति। सूर्यक्रान्त्युपचये तु सुतराम्। त-थाच द्वितीयरविगोलसन्ध्यासन्ने चन्द्रपाते स्वायनसन्ध्यासन्ने सूर्ये तदसंभवःकियंति चिद्दिनानि इति यावत्तवदुक्तमन्यत्र सत्संभावना भवतीति गोलयुक्त्या फलितम्। अथ असम्भवलक्षणेऽपि क्रान्त्यन्त-रस्य मानैक्यखण्डात् अल्पत्वे। एकायनगतं यावदर्केन्द्वोर्मण्डलान्तरम्। इति पूर्वोक्तेन पातसम्भवः। तत्र पातमध्यं तस्मिन्नेव काले स्थित्यर्द्धं तु रवीन्दुमानयोगार्द्धमित्युक्तरीत्या मानयोगार्द्धमितिस्थाने क्रान्त्यन्तरमानैक्यखण्डयोः अन्तरं गृहीत्वा साध्यमितिध्येयम्॥19॥

व्यतीपातज्ञानम्।
अथ शुभकार्ये महापातस्य निषिद्धत्वोक्तिप्रसङ्गात् पञ्चाङ्गान्तर्गतयोगान्तर्गत व्यतीपातस्यैव ज्ञान-माह –

शशाङ्कार्कयुतेर्लिप्ता भभोगेन विभाजिताः।
लब्धं सप्तदशान्तोऽन्यो व्यतीपातस्तृतीयकः॥20॥

अयनाशंसंस्कृतयोः चन्द्रसूर्ययोर्योगस्य राश्यादेः कला अष्टशतेन भक्ताः फलं सप्तदशान्तः। स-प्तदशमध्ये षोडशानन्तरं सप्तदशपर्यन्तम् इत्यर्थः। तदपि व्यतीपातः।अन्य एतदधिकारपूर्वोक्ता-तिरिक्तः। तृतीय एव तृतीयकः। सूर्यचन्द्रयोगान्तराभ्यां व्यतीपातद्वैविध्यात्। एवमुपलक्षणात् उक्त-रीत्या फलं षड्विंशत्यनन्तरं सप्तविंशतिस्दा तृतीयो वैधृतिः। तत्संज्ञपातस्यापि योगान्तराभ्यां द्वैवि-ध्यात् इति। अत्रोपपत्तिः। विष्कम्भादिर्व्यतीपातः सप्तदशो योग इति॥20 ॥

गण्डान्तभसन्धी।

अथ प्रसङ्गादेतत् तुल्यनिषिद्धे गण्डान्तभसन्धी विवक्षुःतयोः स्वरूपज्ञानमाह –

सार्पेन्द्रपौष्ण्यधिष्ण्यानामन्त्याः पादा भसन्धयः।
तदग्रभेष्वाद्यपादो गण्डान्तं नाम कीर्त्यते॥21॥

आश्लेषाज्येष्ठा रेवती नक्षत्राणाम् अन्त्याः चतुर्थाश्चरणाः नक्षत्रसन्धयो भवन्ति। तदग्रभेषु तेषामा-श्लेषाज्येष्ठारेवतीनक्षत्राणाम् अग्रिमनक्षत्रेषु मघामूलाश्विनीनक्षत्रेषु इत्यर्थः। प्रथमचरणो गण्डान्तं नाम प्रसिद्धमुच्यते। यद्यपि आश्लेषाज्येष्ठारेवतीनक्षत्राणामन्तिमं घटिकाद्वयं मघामूलाश्विनीनक्षत्राणाम् आदिमं घटिकाद्वयम् इति चतस्रोऽन्तरघटिका गण्डान्तम्।एतदतिरिक्तोनक्षत्रसन्धिः। पूर्वनक्षत्रान्तरघटिकोत्तरनक्षत्रादिमघटिकेत्यन्तरा-लघटिकाद्वयं चन्द्रमण्डलसम्बन्धेन घटिकाःसार्द्धद्वयमिति संहिताविरुद्धं तथापि सूर्योक्तस्य स्वतः प्रामाण्यान्न क्षतिः। अथवा एकवाक्यतार्थं पादशब्दः। करने-त्रादिवत् द्विसंख्यावाचकः। घटिका इत्यध्याहारश्च। तथा च द्विसंख्यामिता अन्त्यघटिका नक्षत्रसन्ध-यः। प्रथमद्विघटिकामितःकालो गण्डान्तमित्यर्थः। अत्रापि गण्डान्तत्वात् भसन्धिकथनमयुक्तं ग-ण्डान्तस्य तदन्तरालरूपत्वात् तथापि तत्कालस्य निषिद्धत्वोक्ति तात्पर्याद्विभागद्वयेन उक्तौ अपि तदन्तरालकाल उत्तरोत्तरकालस्य अतिनिषिद्धत्वसूचनान्न क्षतिः॥21॥


अथ एतदधिकारोक्तानां तुल्यनिषिद्धत्वमाह –

व्यतीपातत्रयं घोरं गण्डान्तत्रितयं तथा।
एतद् भसन्धित्रितयं सर्वकर्मसु वर्जयेत्॥22॥

व्यतीपातानां त्रयं योगवियोगात्मकौ क्रान्तिसाम्यरूपौ द्वौ व्यतीपातौ विषुवत्सन्निधौ क्रान्तिसाम्या-न्तरेण व्यतीतपातस्तयोरेव भेदः। न पृथक्। पञ्चाङ्गान्तर्गतव्यतीपातश्चेति त्रयं स्पष्टम्। उपलक्षणात वैधृतित्रयमपि। योगवियोगात्मकौ क्रान्तिसाम्यरूपौ द्वौ वैधृतिसंज्ञौ। विषुवत्सन्निधौ क्रान्तिसाम्यान्तरे-ण। वैधृतिसंज्ञस्तु तयोरन्तर्गतः। न पृथक्। पञ्चाङ्गान्तर्गतयोगान्तर्गतवैधृतियोगश्चेति स्पष्टं त्रयम्। के-चित्तु व्यतीपातवैधृतिसंज्ञं व्यतीपातद्वयं संज्ञाभेदेन वैधृतिरिति पूर्वमुक्तेः पञ्चाङ्गान्तर्गतयोगान्तर्गत-व्यतीपातश्चेति व्यतीपातत्रयमिति यथा श्रुतमाहुः। घोरं दुष्टं गण्डान्तत्रयम्। तथा घोरं नक्षत्रसन्धित्रय-म्। एतत् पूर्वोक्तं घोरम्। अतः कारणात् सर्वमाङ्गल्यकर्मसु शुभेच्छुरेतद् दुष्टं जह्यादित्यर्थः॥22॥


अथ अर्काशंपुरुषः शिष्टावशिष्टं स्ववाक्यमुपसंहरति –

इत्येतत् परमं पुण्यं ज्योतिषां चरितं हितम्।
रहस्यं महदाख्यातं किमन्यच्छ्रोतुमिच्छसि॥23॥

हे मय। तुभ्यमिति। एवमेतत्। श्रृणुष्व एकमना इत्यादि सर्वकर्मसु वर्जयेदित्यन्तम्। ज्योतिषां ग्रह-नक्षत्रादीनां चरितं महात्म्यं गणितादिज्ञानमिति यावत्। हितमिह लोके कीर्तिकरम्। परमं पुण्यं परत्र लोक उत्कृष्टं धर्म्यम्। अतएव महत् रहस्यम्। अतिगोप्यमाख्यातं मया कथितम्। अथ स्वोक्तं यु-क्त्यप्रतिपादितमेतस्य मनसि निश्चितार्थं न आगतम् इति तदधरोष्ठस्फुरणदर्शनादनुमितं च अस्मै म-त्सङ्कोचेन स्वाशङ्कोद्घाटनाशक्तायैतत्प्रश्नप्रतीक्षावसाने मया युक्त्यपि वक्तव्यमित्याशयेन आह। किमिति। अतः परं त्वमन्यत् उक्तातिरिक्तं किं कतरत् श्रोतुं ज्ञातुमिच्छसि। तथा च मया तुभ्यं पूर्व-मुक्तं तत्र यत्र यत्र तव संशयस्तत्र तत्र मत्सङ्कोचमुपेक्ष्य मां प्रति प्रश्नस्त्वया कार्यः। तव समाधानं क-रिष्यामीति भावः॥23॥

अथ अग्रिमग्रन्थस्यप्रतिपादिताधिकारासंगतित्वपरिहारायारब्धाधिकारसमाप्तिंफक्किकया आ-ह। इति स्पष्टम्।

दशभेदं ग्रहगणितमितिदशाधिकारात्मकग्रन्थपूर्वार्द्धंपाताधिकारसमाप्त्यासमाप्तमिति तु पाता-धिकारान्तस्थेन इत्येतत् परमं पुण्यमित्यादिश्लोकेनैव सूचितम्।

रङ्गनाथेन रचिते सूर्यसिद्धान्तटिप्पणे। पाताधिकारः पूर्णोऽयं तद्गूढार्थप्रकाशके॥

सूर्यसिद्धान्तगूढार्थप्रकाशकमिदं दलम्। रङ्गनाथकृतं दृष्ट्वा लभन्तां गणकाःसुखम्॥

इति श्रीसकलगणकसार्वभौमबल्लालदैवज्ञात्मजरङ्गनाथगणकविरचिते गूढार्थप्रकाशके पूर्वखण्डं परिपूर्तिमगमत्।

अथ भूगोलाध्यायः- 12

महादेवं वक्रतुण्ड वाणीं सूर्य्यंप्रणम्य च। कृष्णं गुरुं रङ्गनाथो व्याख्याम्युत्तरखण्डकम्॥ अथ मु-नीन् प्रति सूर्य्यांशपुरुषवचनमनुवाद्यानन्तरं मयासुरेण सूर्य्यांशपुरुषः पृष्ट इत्याह

अथार्काशंसमुद्भूतं प्रणिपत्य कृताज्जलिः।
भक्त्या परमयाऽभ्यर्च्य प्रपच्छेदं मयासुरः॥1॥

अथ सूर्य्यांशपुरुषवचनश्रवणानन्तरं मयासुरो मयनामा श्रोता दैत्यः कृताञ्जलिः चितहस्ताग्राञ्जलि-पुटः।अर्कांशसमुद्भ्तंसूर्य्यांशोत्पन्नं पुरुषं स्वाध्यापकं गुरुं परमया उत्कृष्टया भक्त्या। आराध्यत्वेन ज्ञानरूपया। अभ्यर्च्य सम्पूज्य। प्रणिपत्य नमस्कृत्य। समुच्चयार्थश्चकारोऽत्रानुसन्धेयः। इदं वक्ष्यमा-णं पप्रच्छ पृष्टवान्॥1॥


अथ किं पप्रच्छेत्यतस्तत्प्र-श्नानुवादे प्रथमं तत्कृतं भूप्रश्नमाह –

भगवन्। किम्प्रमाणा भूः किमाकारा किमाश्रया।
किं विभागा कथं चात्र सप्त पातालभूमयः॥2॥

हे भगवन्!भूर्भूमिः किं प्रमाणा कियत् प्रमाणं यस्याः सा। किमाकारा कथमाकारः स्वरूपं यस्याः सा। किमाश्रया के आश्रयो यस्याः सा। किं विभागा कथं विभागा विभक्तांशा यस्याः सा। अत्र भूम्यां पातालभूमयः पातालविभागरूपा आश्रयाः सप्तसंख्याकाः कथं तिष्ठन्ति। च समुच्चयार्थः किमाकारे-त्यादौ प्रत्येकमन्वेति। अयमभिप्रायः। योजनानि शतानि अष्टौ इत्यादिना अवगतभूमानं पञ्चाशत्को-टिविस्तीर्णेति सर्वजनावगतभूमानाद् भिन्नमिति त्वदुक्तभूमाने संशयात् किम्प्रमाणेति प्रश्नः। अन्यथा पूर्वं भूमानकथनात् प्रश्नवैयर्थ्यापत्तेः। उक्तश्रुतत्वापत्तेश्च। एवं लम्बज्याघ्न इत्यादिना स्पष्टपरिध्यन्तर-सम्भवात् सर्वजनावगतादर्शाकारतायां भूमौ तदसम्भवेन भवदभिमतत्वाकारस्तदतिरिक्त इति कि-माकारेति प्रश्नः। एवं तेन देशान्तराभ्यस्तेत्यादिना ग्रहाणां भूम्यभितो भ्रमणसूचनादाधारे शेषादौ ते-षामभितो भ्रमणासम्भवेन आधारे संशयात् किमाश्रया इति प्रश्नः। निराधाराया अवस्थानासम्भवात्। एतेन सर्वजनावगतभूस्वरूपातिरिक्तभूस्वरूपेण उत्तरार्द्धप्रश्नौ अपि प्रसङ्गात् उक्तौ सङ्गतौ इति॥2॥

अथ किमाश्रयेति प्रश्नकारणे भूम्यभितो ग्रहभ्रमणे सूर्यस्य उपलक्षणत्वेन प्रश्नौ आह –

अहोरात्रव्यवस्थां च विदधाति कथं रविः।
कथं पर्येति वसुधां भुवनानि विभावयन्॥3॥

सूर्यः। अहोरात्रव्यवस्थां दिनरात्र्योर्विवेकं कथं केन प्रकारेण विदधाति करोति। अयं भावः। आद-र्शाकारभूम्या मध्ये मेरुस्तदभितो भूम्युपरि प्रदक्षिणतया सूर्यभ्रमणेन स्वदृश्यविभागे सूर्य्ये दिनं स्वादृश्यविभागे रात्रिरिति सर्वजनावगताद् भवदभिप्रेतं सूर्यभ्रमणं भिन्नं तर्हि त्वन्मते सूर्य्यो दिनं रात्रिं च व्यवधायकाव्यवधायकौविना कथं करोति। अन्ये ग्रहा अपि कथं स्वदिनं स्वरात्रिं च कुर्वन्ति। सूर्योपलक्षणत्वात् इति। अथ भूम्यभितो भ्रमणाङ्गीकारे भूरेव व्यवधायिकेति अहोरात्रव्यवस्था युक्तै-व इत्यतः प्रश्नान्तरमाह। कथमिति। सूर्य्यो भुवनानि वक्ष्यमाणस्वरूपाणि विभावयन् प्रकाशयन् सन् वसुधां पृथ्वीं कथं केन प्रकारेण पर्य्येति प्रदक्षिणतया भ्रमति। भूमेर्निराधावस्थानासम्भवेन साधारत्वे भूम्यभितो ग्रहभ्रमणमाधारे बाधितमिति भावः॥3॥


अथ दिव्यं तदह उच्यत इत्यत्र सुरासुराणामन्योन्यमहोरात्रं विपर्य्ययादित्यत्र चोत्क्रमेण प्रश्नौ आह-

देवासुराणामन्योन्यमहोरात्रं विपर्ययात्।
किमर्थं तत् कथं वा स्याद् भानोर्भगणपूरणात्॥4॥

पूर्वार्द्ध पूर्वार्द्धे व्याख्यातम्। किमर्थं कोऽर्थोऽभिप्रायो यस्य तदितिअहोरात्रविशेषणम्। देवासुर-योर्दिनं रात्रिश्च अभिन्ना कथं न उक्ता व्यत्यासे नियामकाभावात् इति भावः। तत् देवासुरयोः अहोरा-त्रं सूर्यस्य द्वादशराशिभोगादित्यर्थः। कथं कुतः। वाकारः समुच्चये भवति। उभयत्र नियामकाभावा-दुभयत्र मम सन्देहः। दिनरात्रयोः सूर्यदर्शनादर्शननियामकत्वात् यत्र सूर्यं षण्मासावधि देवाः पश्य-न्ति तत्र असुरान पश्यन्ति। यत्र देवाःषण्मासावधि न पश्यन्ति तत्र असुराः पश्यन्तीत्यहं भगवता बोधनीय इति भावः॥4॥

अथ प्रश्नान्तरे पूर्वोक्तश्लोकद्वयस्य तात्पर्य्यं प्रश्नं च आह—

पित्र्यं मासेन भवति नाडीषष्ट्या तु मानुषम्।
तदेव किल सर्वत्र न भवेत् केन हेतुना॥5॥

पितृणामिदमहोरात्र मासेन दर्शावधिकचान्द्रमासेन केन हेतुना इत्यस्य प्रत्येकं समन्वयात् केन कारणेन भवति। अन्यथा प्रश्नानुपपत्तेः। सावनघटीषष्ट्या मानुषं मनुष्याणामहोरात्रं केन कारणेन भवति इत्यर्थः। न च यथा दिव्यं तदह उच्यत इत्युक्तं तथा पूर्वोक्ते पित्र्यमानुषाहोरात्रयोःअनुक्तेः प्रश्नौ असङ्गतौ इति वाच्यम्। दिव्यं तदह उच्यत इत्यनेन एव पूर्वोक्तसावनाहोरात्र चान्द्रमासयोस्त-दहोरात्रसूत्रसूचनात्। दिव्यमित्यत्र पितृणामनुक्तेः सूर्यसावनाहोरात्रस्य मानुषाहोरात्रत्वेन तेषामपि प्रत्यक्षत्वाच्च परिशेषान्मासस्य एव पित्र्याहोरात्रत्वसिद्धेः। ननु तथापि प्रत्यक्षसिद्धमानुषाहोरात्रे प्रश्नो-ऽनुपपन्न एव इत्यतस्तात्पर्य्यप्रश्नमाह। तदेव इति। तन्मानुषाहोरात्रम्। एवकारस्तदन्यनिरासार्थकः। सर्वत्र सर्वलोके किल निश्चयेन केन कारणेन न स्यात्। पितृदेवदैत्यानामप्रत्यक्षमहोरात्रं कथमङ्गीकृ-तम्। कथं च मानुषाहोरात्रं प्रत्यक्षसिद्धं तेषामपि न उक्तमित्यर्थः॥5॥


अथ अहर्गणादवगतदिनमासवर्षेश्वरेषु तत्प्रसङ्गात्द् होरेश्वरे प्रश्नं पश्चाद् व्रजन्तोऽतिजवादित्यत्र प्र-श्नद्वयं च आह -

दिनाब्दमासहोराणामधिपा न समाः कुतः।
कथं पर्येति भगणः सग्रहोऽयं किमाश्रयः॥6॥

दिनवर्षमासहोराणां स्वामिनोऽभिन्नाःकुतःकस्मान्न भवन्ति। यथादिनाधिपतित्वं सूर्य्यादीनां क्रमे-ण तथा प्रथमादिमासवर्षक्रमेण सूर्य्यादीनां क्रमेण मासवर्षाधिपत्वं युक्तम्। आनयने युक्त्यप्रतिपाद-नादिति भावः। यद्यपि पूर्वं होरेश्वरानयनं न उक्तमिति तत्प्रश्नोऽसङ्गतस्तथापि लोके प्रसिद्धतरो होरेश्वरस्त्वया किमर्थं न उक्त इति तत्प्रश्नतात्पर्य्यमिति ध्येयम्। भगणो नक्षत्रसमूह सग्रहो ग्रहसहितः कथं केन प्रकारेण पर्य्येति भ्रमति। नक्षत्राणि ग्रहाश्च केन प्रयुक्ताः सन्तो भूम्यभितो भ्रमन्ति इत्यर्थः। अथ एषामन्तरिक्षावस्थानेऽपि प्रश्नमाह। अयमिति सग्रहो भगणो दृश्यमानः किमाश्रयः क आधारो यस्य इति। विनाधारमन्तरिक्षावस्थानं न संभवतीत्यर्थः॥6॥


ननू कक्षा एवाधाराःपूर्वं तत्तैवस्वमार्गगा; इत्रूफक्तेरित्यतः पश्नचतुष्टमाह—

भूमेरुपर्युपर्यूर्ध्वाः किमुत्सेधाः किमन्तराः।
ग्रर्स्क्षकक्षाःकिस्मन्नाः स्थिताः केन क्रमेणताः॥7॥

भूमेःसकाशादूर्ध्वमुच्चाग्रहर्क्षकक्षा ग्रहनन्नाणामाकाशे मार्गाःकिमुत्सेधाःकियानुत्सेध उच्चता या-सा ताः। भूमेः सकाशाद्ग्रहनक्षत्रमार्गकक्षाः कियदन्तरेण सन्तीत्यर्थः। किमन्तराः कियदन्तरालं यासां ताः। उत्तरोत्तमुच्चा; अपि परस्परं…….. कियहन्तरालमित्यर्थः। किस्मात्राः किमात्मिकाः। किंस्वरू-पाः किं प्रमाणा वा ता ग्रह नक्षत्रकक्षाः केनक्रमेणाधिष्ठिताः सन्ति। पूर्व करन्तदुत्तरं क; इत्यादि क्रमो न ज्ञात इत्यर्थः।

**अथ अनुभवप्रश्नं तत्प्रसङ्गात् सूर्यकिरणप्रचारप्रश्नं च पूर्वोक्तमानानां प्रश्नद्वयं च आह –
**

ग्रीष्मे तीव्रकरो भानुर्न हेमेन्ते तथाविधः।
कियती तत्करप्राप्तिर्मानानि कति किञ्च तैः॥8॥

ग्रीष्मर्त्तौ सूर्य्यो यथा तीक्ष्णकिरण ऊष्णकिरणस्तथाविधस्तादृशो हेमन्ते न भवति इति किम्। सूर्य-स्य किरणानां प्राप्तिर्गमनपद्धतिः कियती कियत्प्रमाणा। मानानि नाक्षत्रसावनचान्द्रसौरादीनि पूर्वो-क्तानि कति कियन्ति। उपक्रम एव संक्षेपेण मानान्युक्तानि इति तत्तत्वं सम्यक् न ज्ञातमित्यर्थः। तै-र्मानैः किं प्रयोजनम्। चः समुच्चयार्थः। प्रत्येकमन्वेति॥8॥

अथ अस्य प्रश्नमुपसंहरति –

एवं मे संशयं छिन्धि भगवन् भूतभावन!।
अन्यो न त्वामृते छेत्ता विद्यते सर्वदर्शिवान्॥9॥

हे भगवन्! षड्गुणैश्वर्य्यसम्पन्न!सर्वबोधकेति तात्पर्य्यार्थः। भूतभावन! भूतस्यातीत कालस्य भाव-ना विचारो यस्य। भूतस्योपलक्षणाद्वर्तमानभविष्यतोरपि कालज्ञेति सिद्धोऽर्थः। त्वं मे मम। एतमुक्तं संशयम्। जात्यभिप्रायेण एकवचनम्। तेन मत्कृतान् प्रश्नानित्यर्थः। छिन्धि छेदय। ननु अहम् इदानी-मेतदुक्त्यैव वक्तुं न शक्नोमि अन्यस्मात् सशंयान् दूरीकुर्वित्यत आह। अन्य इति। त्वामृते विना। अन्यः सर्वदर्शिवान् सर्वद्रष्टा। सर्वज्ञ इत्यर्थः। छेत्ता संशयापनोदकः। न विद्यते नास्ति। तथा च एतावत्कालपर्य्यन्तं यथोक्तं तथान्यदपि कृपया वक्तव्यमिति भावः॥9॥

अथ मुनीन् प्रति मुनिर्मयासुरोक्तप्रश्नानुवादं कृत्वा सूर्य्यांशपुरुषो मयासुरं प्रति पुनर्वदति स्मेत्याह –

इति भक्त्योदितं श्रुत्वा मयोक्तं वाक्यमस्य हि।
रहस्यं परमध्यायं ततः प्राह पुनः स तम्॥10॥

स सूर्य्यांशपुरुषः। इति पूर्वोक्तम् भक्त्याराध्य ज्ञानेन। उदितमुत्पन्नम्। मयेन कथितं वचनम् श्रुत्वा आकर्ण्य। पुनर्द्वितीयवारं ततः पूर्वार्द्धोक्त्यनन्तरं तं मयासुरं प्रति परं द्वितीयमध्यायं ग्रन्थम्। ग्रन्थस्यो-त्तरखण्डमित्यर्थः। अस्य ग्रन्थपूर्वखण्डस्य हि निश्चयेन रहस्यं गोप्यत्वेन तत्त्वभूतं प्राह। प्रकर्षेण अव-ददित्यर्थः॥10॥

अथ सूर्य्यांशपुरुषवचनानुवादे सूर्य्यांशपुरुषो मयासुरं प्रति मदुक्तं सावधानतया श्रोतव्यमित्याह –

श्रृणुष्वैकमना भूत्वा गुह्यमध्यात्मसंज्ञितम्।
प्रवक्ष्याम्यतिभक्तानां नादेयं विद्यते मम॥11॥

यतः कारणात् अतिभक्तानामत्यन्तमद्भजनकारकाणां भवादृशां मम सूर्य्यांश पुरुषस्य। अदेयम-दातव्यं वस्तु न विद्यते। अतः कारणात् अहं त्वां प्रति गुहयं गोप्यमध्यात्मसंज्ञितमध्यात्मज्ञानसंज्ञं यत् प्रवक्ष्यामि कथयिष्यामि तत् त्वमेकमना एकस्मिन् मदुक्ते मनो विद्यते यस्य असौ भूत्वा श्रृणुष्व श्रो-त्रद्वारात्ममनः संयोगेन प्रत्यक्षं कुर्वित्यर्थः॥11॥

गुह्यं वक्ष्यामीति यदुक्तं तदाह् –

वासुदेवः परं ब्रह्म तन्मूर्तिः पुरुषःपरः।
अव्यक्तो निर्गुणःशान्तः पञ्चविंशात् परोऽव्ययः॥12॥

वसत्यस्मिन् जगत् समस्तमसौ वा जगति समस्ते वसतीति वसतेरुणि वासुः। देवनाद्भासनाद्देवः। वासुश्चासौ देवश्चेति वासुदेवः। तथाचोक्तम्। सर्वत्रासौसमस्तं च वसत्यत्रेति वै यतः। अतोऽसौ वासु-देवाख्यो विद्वद्भिः परिगीयते॥ इति॥

न तु वसुदेवस्यापत्यमिति विग्रहः। तस्य जगत्कारणतानिरूपणावसरेऽनुपयोगात्। अस्मत्पक्षे पुन-रुपादाने कार्य्यस्याधारतया कार्य्येवा उपादनस्यानुस्यूततया वा स उपयुक्त एव। तथा चोक्तं श्रुतौ। ईशावास्यामिदं सर्वमित्यादि। भागवते च। अजनि च यन्मयं तदविमुच्यमियं नृभवेदिति। जीवानाम-पि ब्रह्मात्मकतया तद्वारणाय परमिति सर्वोत्तममित्यर्थकम्। यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्त-मः। अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः॥
इति स्मृतेः। तन्मूर्तिस्तस्य वासुदेवस्य मूर्तिः अंशः। इदं विशेषणं वक्ष्यमाणस्य सङ्कर्षणस्य। चिन्मू-र्तिरिति पाठस्तु प्रामादिकः। वासुदेवः सङ्कर्षण इत्यस्माद्वासुदेवात् सङ्कर्षण इत्यस्यार्थस्य विवक्षित-स्याप्रतीतेः। अव्यक्त इत्यतीन्द्रिय इत्यर्थः। तथा च श्रुतिः। न तं विदाथ य इमा जजानान्यद्युष्माक-मन्तरं बभूव। नीहारेण प्रावृता जल्प्या चासुतृप उक्थसाशश्चरन्ति। न संदृशं वा संदृशे तिष्ठति रूपम-स्य न चक्षुषा पश्यति कश्चनैनम्॥ इति। अव्यक्तत्वे हेतुर्निर्गुण इति। शान्तः षडूर्मिरहितत्वात्। पञ्च-विंशात् परः। षोडशविकृतयः सप्तप्रकृतिविकृतयो मूलप्रकृतिश्चेति चतुर्विंशतितत्त्वानि। पञ्चविंशस्तु जीवस्तस्मात् पर इत्यर्थः। पञ्चविंशात्मक इति पाठे जगदात्मक इति॥12॥


**शुद्धस्य ब्राह्मणो जगत्कारणत्वासम्भवादाह—
**

प्रकृत्यन्तर्गतो देवो बहिरन्तश्च सर्वगः।
सङ्कर्षणोऽयंसृष्ट्वादौ तासु वीर्यमवासृजत्॥13॥

प्रकृत्यन्तर्गतो मायोपहितो बहिरन्तश्च सर्वगो जगदुपादानत्वात्। एतानि सर्वाणि विशेषणानि सङ्क-र्षणस्य वासुदेवांशस्यापि वासुदेवात्मकताध्यवसानेन बोध्यानि। वासुदेवांशात्मकः सङ्कर्षणः प्रथमं जलानि निर्माय। तास्वप्सु। वीर्य्यं शक्तिविशेषम्। अवासृजच्चिक्षेप॥13॥

ततः किमत आह –

तदण्डमभवद् हैमं सर्वत्र तमसावृतम्।
तत्रानिरुद्धः प्रथमं व्यक्तीभूतः सनातनः॥14॥

तत् तच्छक्तिमिलितं जलं हैमं सौवर्णमण्डं गोलाकारं सर्वत्र वहिरन्तश्च अन्धकारेण आवृतमभव-त्। अन्धकारसहिताकाशे सुवर्णाण्डम् अजनीत्यर्थः। तत्र सुवर्णाण्डे आदौ अनिरुद्धः सनातनो नित्यो वासुदेवांशसङ्कर्षणोऽशरूपत्वात् व्यक्तीभूतोऽभिव्यक्तः। न तु उत्पन्नः। सत्कार्य्यवादाभ्युपगमात्। यथा तिलेभ्यस्तैलं सदैवाभिव्यक्तं न तु उत्पन्न्म्॥14॥

अथ अस्याभिधान्तराणि लोकसुज्ञानार्थमाह –

हिरण्यगर्भो भगवानेष छन्दसि पठ्यते।
आदित्यो ह्यादिभूतत्वात् प्रसूत्या सूर्य उच्यते॥15॥

एष सङ्कर्षणांशोऽनिरुद्धभगवान्षाड्गुण्यैश्वर्य्य सम्पन्नश्छन्दसि वेदे हिरण्यगर्भः सुवर्णाण्डमध्यरूपगर्भे स्थितत्वात् पठ्यते निरूप्यते। वेदेऽस्य हिरण्यगर्भ इति प्रसिद्धमभिधान्तरमित्यर्थः। हि नि-श्चयेन आदित्यः प्रथमाभिव्यक्तत्वा-दुच्यते। प्रसूत्या। अस्माज्जगतोऽभिव्यक्ततयायमनिरुद्धः सूर्य उ-च्यते।

हिरण्यगर्भः समवर्त्तताग्रे भूतस्य जातः पतिरेक आसीत्। इति श्रुतिः॥15॥

अस्य स्वरूपं स्थितिं च आह-

परं ज्योतिस्तमः पारेसूर्योऽयं सवितेति च।
पर्येति भुवनान्येव भावयन् भूतभावनः॥16॥

अयमनिरूद्धः सूर्यनामकः सविता। इति नाम्ना। चः चमुच्चये। प्रसिद्धः। तमः पारेऽन्धकारस्य वि-रामे परमुत्कृष्टं ज्योतिस्तेजोरूपम्। अन्धकारनाशक इति तात्पर्य्यार्थः। आदित्यवर्णं तमसस्तु पारे इति श्रुतिः। एष सविता भूतभावनः प्राण्युत्पत्तिस्थिति संहारकारको भुवनानि वक्ष्यमाणानि भावयन् प्रकाशयन् पर्य्येति सुवर्णाण्डमध्ये सदा भ्रमति॥16॥


**अथ परं ज्योतिरिति पादं विवृण्वन् अन्यदपि एतत् स्वरूपं श्लोकाभ्यामाह—

**

प्रकाशात्मा तमोहन्ता महानित्येष विश्रुतः।

ऋचोऽस्य मण्डलं सामान्युस्रामूर्तिर्यजूंषि च॥17॥
त्रयीमयोऽयं भगवान् कालात्मा कालकृद्विभुः।
सर्वात्मा सर्वगः सूक्ष्मः सर्वमस्मिन् प्रतिष्ठितम्॥18॥

प्रकाशरूपोऽन्धकारनाशकोऽत एवैष अनिरुद्धाख्यःसूर्यो महान् महत्वमिति एवं विश्रुतो वेद पुराणादौ निरुक्तोऽस्य निरुक्तस्य सूर्यस्य। ऋचः। ऋग्वेदमन्त्र मण्डलं सामानि सामवेदमन्त्रा उस्राः किरणा यजूंषि यजुर्वेदमन्त्रा मूर्तिः स्वरूपम्। चः समुच्चये। अत एवायं निरुक्तो भगवान् षाड्गु-ण्यैश्वर्य्यसम्पन्नः। त्रयीमयो वेदत्रयात्मकः। कालरूपः कालस्य कारणम्। विभुर्जगदुत्पत्तिस्थितिना-शाय समर्थः। अत एव सर्वात्मा जगत्स्वरूपः सर्वगः सर्वत्रस्थितो व्यापकः सूक्ष्मोऽव्यापकमूर्तिधारी। अस्मिन् निरुक्तसूर्य्येसर्वं जगत् प्रतिष्ठितम्। एतेन व्यापकाव्यापकत्वयोः अत्र अविरोधः॥17-18॥

अथ पर्य्येति भुवनान्येषेत्यर्द्धं विवृणोति—

रथे विश्वमये चक्रं कृत्वा संवत्सरात्मकम्।

छन्दांस्यश्वाः सप्तयुक्ताःपर्य्यटत्येष सर्वदा॥19॥
पर्येत्येषवशीसदा इति पाठान्तरमपि ब०प्र०मि० सं०

त्रिलोक्यात्मके रथेसंवत्सरात्मकं द्वादशमासात्मकं वर्षचक्रं नियोज्य सप्तछन्दांसि गायत्र्युष्णिगनु-ष्टुब्बृहतीपङ्क्तित्रिष्टुब्जगत्योऽश्वाः युक्ताःसंयोजिताःकृत्वा। छन्दांसिआश्वास्तत्र युक्तेति पाठे स-प्ताश्वान् रथे नियोज्येत्यर्थः। सर्वदा नित्यमेषोऽनिरुद्धनामापर्य्यटति भ्रमति॥19॥


अथ अस्य स्वरूपं ब्रह्मण उत्पत्तिं च आह –

त्रिपादममृतं गुह्यं पादोऽयं प्रकटोऽभवत्।
सोऽहङ्कारं जगत्सृष्टयै ब्रह्माणमसृजत् प्रभुः॥20॥

अस्य वेदात्मनस्त्रिपादं चरणत्रयममृतं दिवि ज्ञेयम्। अत एव गुह्यमगम्यमिदम्। पादश्चतुर्थश्चरणः। अयं स्थावरजङ्गात्मकजगद्रूपः प्रकटःप्रत्यक्षोऽभवत्। त्रिपादूर्ध्व उदैत् पुरुषः पादोस्येहा भवत् पुन-रिति श्रुतिरपि व्यक्ता। सोऽनिरुद्धनामा प्रभुरुत्पत्तिसमर्थः। अहङ्कारतत्वरूपं ब्रह्माणं पुरुषं जगतसृ-ष्ट्यै जगत्सर्जननिमित्तमसृजदुत्पादयामास॥20॥


अथोत्पादितब्रह्मपुरुषं जगत्सर्जनार्थं नियुज्य स्वयं भ्रमन् अवतिष्ठत इत्याह-

तस्मै वेदान वरान् दत्वा सर्वलोकपितामहम्।

प्रतिष्ठाप्याण्डमध्येऽथ स्वयं पर्येति भावयन्॥21॥
पर्चेत्येषवशी सदा इति पाठान्तरमपि व०प्र०मि०सं०

**

अथ ब्रह्मोत्पादनानन्तरं स्वयमनिरुद्धनामा। तस्मै। उत्पादित ब्रह्मपुरुषाय। वरान् उत्कृष्टान् वेदान् दत्वा वेदोक्तमार्गेण सृष्टिसर्जनार्थं सर्वलोकानां पितामहरूपं तं ब्रह्माणं सुवर्णाण्डमध्ये प्रतिष्ठाप्य नि-धाय। चोऽत्रानुसन्धेयः। भावयन् प्रकाशयन् सन् पर्य्येति भ्रमति॥21॥


अथ जातसृष्टीच्छो ब्रह्मा चन्द्रसूर्यौअस्मत्प्रत्यक्षौ उत्पादयामासेत्याह

अथ सृष्टयां मनश्चक्रे ब्रह्माऽहङ्कारमूर्तिभृत्।
मनसश्चन्द्रमा जज्ञे सूर्योऽक्ष्णोस्तेजसां निधिः॥22॥

अथ अधिकार प्राप्त्यनन्तरम्। अहङ्कारतत्त्वमूर्तिधारको ब्रह्मा सृष्टयां मनोऽन्तः करणं चक्रे करोति स्म। ब्रह्मणोऽहं सृष्टिं करोमि इतीच्छा जाता इत्यर्थः। अनन्तरं तस्य मनसः सकाशाच्चन्द्रमा जज्ञे उ-त्पन्नः। चन्द्रो भवतु इति मनसा चन्द्रो जात इत्यर्थः। अक्ष्णोः नेत्राभ्यां सकाशात् तेजसां निधिराकरभू-तः सूर्य उत्पन्नः। चक्षुरिन्द्रियस्य तैजसत्वात्॥ 22॥

महाभूतोत्पत्तिः।
अथ महाभूतोत्पत्तिमाह –

मनसःखं ततो वायुरग्निरापो धरा क्रमात्।
गुणैकवृद्ध्या पञ्चैव महाभूतानि जजिरे॥23॥

मनस आकाशो भवतु इतीच्छया आत्मनः खम् आकाशं तत आकाशात् क्रमाद्यथोत्तरं वायुरग्निर्ज-लं पृथिवी। आकाशात् वायुर्वायोः अग्निः अग्नेः आपोऽद्भ्यः गुणैकवृद्धया गुणस्यैकोपचयेन महाभूता-नि पञ्संख्याकानि। एवकारान्यूनाधिकव्यवच्छेदः। जज्ञिरे। उत्पन्नानि। शब्दगुण-सहित-माकाशं श-ब्दस्पर्शगुणद्वयसमेतो वायुःशब्दस्पर्शरूपात्मकगुणत्रयसमेतोऽग्निःशब्दस्पर्शरूपरसात्मकगुणच-तुष्टय समेतं जलंशब्दस्पर्श रूपरसगन्धात्मकगुणपञ्चकसमेता पृथिवीति स्फुटार्थाः॥23॥

चन्द्रसूर्ययोःस्वरूपम्। पञ्चताराणामुत्पत्तिः
अथ चन्द्रसूर्ययोः स्वरूपं वदन् पञ्चताराणामुत्पतिमाह—

अग्नीषोमौ भानुचन्द्रौ ततस्त्वङ्गारकादयः।
तेजोभूखाम्बुवातेभ्यः क्रमशः पञ्च जज्ञिरे॥24॥

सूर्यचन्द्रौ प्रागुदितोत्पत्ती अग्निषोमौसूर्योऽग्नि स्वरूपस्तेजो गोलकश्चाक्षुषत्वात्।चन्द्रस्तु सोमस्व-रूपः। मद्यस्य सोम वावाच्यत्वाज्जलगोलरूपः। अग्निषोमौइतिप्रयोगच्छान्दसिकः। ततोऽनन्तरमङ्गारकादयो भौमादयः पञ्चताराग्रहास्तेजो-भूखाम्बुवातेभ्यःक्रमादुत्पन्नाः।तुकारादुक्तभूतस्य भागा-धिक्यमन्यभूतानां च भागसाम्यमित्यर्थः। मङ्गलस्तेजस उत्पन्नोऽत एवायमङ्गारक उच्यते। बुधो भू-मितः। बृहस्पतिराकाशात्। शुक्रो जलात्। शनिर्वायोः॥24॥

राशरूः। नक्षत्राणि।
अथ राशीन् नक्षत्राणि च आह –

पुनर्द्वादशधाऽऽत्मानं व्यमजद् राशिसंज्ञकम्।
नक्षत्ररूपिणं भूयः सप्तविंशात्मकं वशी॥25॥

पुनरनन्तरमात्मानं द्वादशधा द्वादशस्थानेषु राशिसंज्ञकं व्यमजत्। मनः कल्पितं वृत्तं द्वादशविभागं राशिवृत्तमकरोत् इत्यर्थः। भूयो द्वितीयवारमात्मानं नक्षत्ररूपिणं सप्तविंशात्मक व्यमजत् मनः क-ल्पितं तदेव वृत्तं सप्तविंशतिविभागं च अकरोदित्यर्थः। ननु न्यूनाधि विभागाः कथं न कृता उक्तसं-ख्यायां नियामकाभावात् इत्यत आह। वशीति। इच्छाविषयं वशं विद्यते यस्येति वशी सप्तन्त्रेच्छस्य नियोगानर्हत्वात्। स्वेच्छया तत्संख्याका विभागाः कृता इति भावः। सप्तविंशतिविभागव्यञ्जकानि न-क्षत्राणि तारात्मकानि निर्मितानि इत्यर्थसिद्धम्॥25॥

अथ चराचरं जगदकरोदित्याह –

ततश्चराचरं विश्वं निर्ममे देवपूर्वकम्।
उर्ध्वमध्याधरेभ्योऽथ स्रोतोभ्यः प्रकृतीः सृजन्॥26॥

ततः स चक्रग्रहसर्जनानन्तरमूर्ध्वमध्याधरेभ्यः श्रेष्ठमध्याधमेभ्यः स्त्रोतोभ्यो व्यक्तिभ्यः प्रकृतीः स-त्वरजस्तमोविभेदात्मक प्रकृतीः सृजन् निर्मायन् देवपूर्वकं देवमनुष्यासुरादिकं विश्वं जगच्चराचरं चे-तनाचेतनात्मकं निर्ममे कृतवान्॥26॥

अथ रचितपदार्थानामवस्थानं कृतवानित्याह –

गुणकर्मविभागेन सृष्ट्वा प्राग्वदनुक्रमात्।
विभागं कल्पयामास यथास्वं वेददर्शनात्॥27॥

गुणाःसत्वरजस्तमोरूपा। कर्म पूर्वजन्मार्जितं सदसत कर्म। अनयोर्विभागेनएकीकरणात्मकेन प्राग्वच्चन्द्रसूर्य्यादि प्रागुक्तसृष्टिरित्यनुक्रमात् सृष्ट्वा देवमनुष्यासुरभूमिपर्वतादिकचरा चरसर्जनं कृ-त्वा वेददर्शनात् वेदोक्तप्रकारात् यथास्वं यथादेशं यथाकालं विभागमवस्थानविभागं कल्पयामास कृतवान्॥27॥

कोषामित्यत आह-

ग्रहनक्षत्रताराणां भूमेविर्श्वस्य या विभुः।
देवासुरमनुष्याणां सिद्धानां च यथाक्रमम्॥28॥

विभुर्नियोजनसमर्थोब्रह्मा ग्रहनक्षत्रयोर्विम्बानां पृथिव्यास्त्रैलोक्यस्य। वाकारःसमुच्चये। आकाशे-ऽवस्थानं कृतवान्। तत्र ग्रहनक्षत्राणां यथाकालम् अनियतावस्थानम्। पृथिव्यास्तु नियतावस्थानम्। पृथिव्यां तु त्रैल्ज्ञैक्यस्य यथादेशमवस्थानम्। तत्र यथाक्रमं यथायोग्यं देवासुरमुनष्याणां सिद्धानाम्। चः समुच्चये। अवस्थानं यथा देशं कृतवान्॥28॥

ननु सर्वत्रआकाशस्य सत्वाद् ब्रह्मणा ग्रहनक्षत्राणां भूमेश्च अवस्थानंब्रह्माण्डवहिराकाशे कृतमथ-वा ब्रह्माण्डान्तराकाशे कृतमित्यत आह—

ब्रह्माण्डमेतत् सुषिरं तत्रेदं भूर्भुवादिकम्।
कटाहद्वितयस्यैव सम्पुटंगोलकाकृतिः॥29॥

एतत् प्रागुक्तं ब्रह्मणाधिष्ठितं सुवर्णाण्डं सुषिरमवकाशात्मकं तत्र अवकाशे इदं जगत् भूर्भुवादिकं भुर्भुवःस्वर्गात्मकमवस्थितं न बहिः। ननु अण्डस्यगोलाकारत्वेनान्तरवकाशात्मकत्वम् असम्भवती-त्यत आह। कटाहद्वितयस्येति।कटोहाऽर्द्धगोलाकारं सावकाशं पात्रं तस्य द्वितयंसमं तस्य। एव-कारोन्यूनाधिकव्यवच्छेदकार्थः। सम्पुटमाभिमुख्येन मिलितं गोलकाकृतिर्गेलाकारः स्यात्। तथा च न क्षतिः॥29॥

अथ ब्रह्माण्डान्तः परिधिंवदन् तदन्तर्भग्रहादिकमाकाशे यथास्थानं परिभ्रमतीति श्लोकाभ्यामाह –

ब्रह्माण्डमध्ये परिधिर्व्योमकक्षाऽभिधीयते।
तन्मन्ध्ये भ्रमणं भानामधोऽधः क्रमशस्तथा॥30॥
मन्दामरेज्य-भूपुत्र-सूर्य-शुक्रेन्दुजेन्दवः।
परिभ्रमन्त्यधोऽधःस्थाःसिद्धविद्याधरा घनाः॥31॥

ब्रह्माण्डातः परिधिस्तुल्यवृत्तमानं व्योमकक्षा वक्ष्यमाणाकाशकक्षोच्यते। तन्मध्ये ब्रह्माण्डमध्य आ-काशे भानां नक्षत्राणां सर्वेषां सर्वत्तस्तुल्योर्ध्वान्तरितानां भ्रमणं भवति। तथा तुल्योर्ध्वान्तरेण अधो न-क्षत्रेभ्योऽधोधः क्रमात् शनिबृहस्पतिभौमार्कशुक्रबुधचन्द्राअधस्तात् परिभ्रमन्ति। सिद्धा विद्याधराश्च अधस्थाश्चन्द्रात् अधस्थिता अधोऽधः क्रमेण आकाशे स्थिताः। एषां प्रवहवायौ अवस्थानाभावाच्चन्द्र-वन्न परिभ्रमः॥30-31॥

भूम्यवस्थानम्।
अथ भूम्यवस्थानमाह-

मध्ये समन्तादण्डस्य भूगोलो व्योम्नि तिष्ठति।
विभ्राणःपरमां शक्तिं ब्रह्मणो धारणात्मिकाम्॥32॥

अण्डस्य ब्रह्माण्डस्य समन्तात् सर्वप्रदेशान्मध्ये मध्यस्थाने केन्द्ररूपआकाशे भूगोलस्तिष्ठति। ननु आकाशे निराधारवस्तुनोऽवस्थानासम्भवात् कथमवस्थितो भूमिगोल इत्यतो भूगोलविशेषणमाह। बिभ्राण इति। ब्रह्मणः परमां शक्तिं धारणात्मिकां निराधारावस्थानरूपां बिभ्राणो धारयन्। तथाच न क्षतिः। एतेन भूः किमाकारा किमाश्रयेति प्रश्नद्वयमुत्तरितम्॥32॥

अथ कथं च अत्र सप्त पातालभूमय इति प्रश्नस्योत्तरमाह –

तदन्तरपुटाःसप्त नागासुरसमाश्रयाः।
दिव्यौषधिरसोपेता रम्याः पातालभूमयः॥33॥

तस्य भूगोलस्यान्तरपुटामध्यस्थपुटागुहारूपाः सप्तातलवितलसुतलादिकाः पातालभूमयः पाता-लप्रदेशा रम्या मनोहराः सन्ति। ननु भूगोले मनुष्यादिकमस्ति तथा तत्र के सन्तीत्यतः तद्विशेषणमा-ह। नागासुरसमाश्रया इति। वासुकिप्रमुखादयः सर्पा दैत्या एषामाश्रयभूताः। ननु तत्र सूर्यसञ्चाराभा-वात् तमोमयत्वेन तत्स्थितलोकानां व्यवहारःकथं भवतीत्यतो द्वितीयं विशेषणमाह। दिव्यौषधिरसो-पेता इति। दिव्या या ओषधयः स्वप्रकाशास्तासां रसैर्युक्ताः। तथा च तत्प्रकाशेन व्यवहारो भवति तद्वशेन तल्लोकानां जीवनं च भवतीति भावः॥33॥

मेरुस्थानम्
अथ भूगोलमुक्त्वा दक्षिणोत्तरभूव्यासाधिकप्रमाणमेरोरवस्थानमाह –

अनेकरत्ननिचयो जाम्बूनदमयो गिरिः।
भूगोलमध्यगो मेरूरुभयत्र विनिर्गतः॥34॥

**

भूगोलमध्यगतः पर्वतो मेर्वाख्योऽनेकरत्ननिचयोऽनेकानिनानाविधानिमाणिक्यवज्रादीनि तेषां नि-चयःसमूहो यत्र असौ जाम्बूनदमयो जाम्बूनदम्।

जम्बूफलामलगलद्रसतः प्रवृत्ता जम्बूनदीरसयुता मृदभूत् सुवर्णम्।

जाम्बूनदं हि तदतः सुरसिद्धसङ्घाः शश्वत् पिबन्त्यमृतपानरसानुभावाः॥

इति भास्कराचार्य्योक्तेश्चसुवर्णं तन्मयःस्वर्णघटित उभयत्र व्यासान्तरितभूपृष्ठप्रदेशाभ्यां विनिर्गतो बहिः स्थितदण्डाकारस्वर्णाद्रिमध्ये भूगोलःप्रोतोऽस्ति। अतएव भूभृदित्यन्वर्थ संज्ञ इति तात्पर्य्यार्थः॥34॥


अथ मेरोरूर्ध्वाधः प्रदेशयोर्देवादयोऽसुराश्च वसन्तीत्याह –

**

उपरिष्टात् स्थितास्तस्य सेन्द्रा देवा महर्षयः।
अधस्तादसुरास्तद्वद् द्विषन्तोऽन्योन्यमाश्रिताः॥35॥

उपरिष्टात् स्थितास्तस्य सेन्द्रा इन्द्रसहिता देवा इन्द्रादयो देवा महर्षयः। चः समुच्चयार्थोऽनुसन्धे-यः। स्थिताः अधस्तान्मेरोरधः प्रदेशे। असुरादैत्याः। तद्वत्। यथोर्ध्वभागे देवास्तद्वदित्यर्थः। आश्रिता आस्थिताः। ननु देवा असुराश्चैकत्र कथं न स्थिता इत्यत आह। द्विषन्त इति। अन्योन्यं परस्परं द्वेषं कुर्वन्तः। तथाच देवासुरयोः परस्परं द्वेषसद्भावादेकत्रावस्थानासम्भवेन उत्तमा देवास्तदूर्ध्वभागे स्थि-ता महर्षयश्च दैत्यभीतास्तत्रैव स्थितास्तदधोभागे तन्निकृष्टा दैत्याः स्थिता इति भावः॥35॥

**समुद्रावस्थानम्।
अथ भूगोले समुद्रावस्थानमाह-
**

ततः समन्तात् परिधिःक्रमेणायं महार्णवः।
मेखलेव स्थितो धात्र्या देवासुरविभागकृत्॥36॥

दण्डाकारमेरोःसकाशादभितोऽयं प्रत्यक्षो महार्णवो महासमुद्रः क्रमेण निरन्तरालक्रमेण परिधि-रूपो भूम्या मेखलेव काञ्चीरूपो देवासुरविभागकृत् देवदैत्ययोर्भूमिगोले विभागयोरवधिरेखारूप इत्यर्थः। तेन समुद्रादुत्तरं भूगोलस्यार्द्धं जम्बूद्वीपं देवानां समुद्राद्दक्षिणं समुद्रातिरिक्तं भूमिगोलस्या-र्द्धं षडद्वीपषट्समुद्रोभयात्मकं दैत्यानामिति सिद्धम्। मेरुदण्डानुरुद्धभूगोलमध्ये परिधिरूपो लव-णसमुद्रोऽस्ति। उत्तरगोलार्द्धं दक्षिणभूगोलार्द्धान्तर्गतसमुद्रस्य प्रान्तपरिधिस्पृष्टमिति मेखलायाः क-ट्यधः स्थितत्वेन तात्पर्य्यार्थः॥36॥

अथ समुद्रोत्तरतटे परिधिरूपे जम्बूद्वीपारम्भे चतुर्विभागे चत्वारि नगराणि सन्तीत्याह –

समन्तान्मेरुमध्यात् तु तुल्यभागेषु तोयधेः।

द्वीपेषु दिक्षु पूर्वादिनगर्यो देवनिर्मिताः॥37॥

भूवृत्तपादे पूर्वस्यां यमकोटीति विश्रुता।

भद्राश्ववर्षे नगरी स्वर्णप्राकारतोरणा॥38॥

याम्यायां भारते वर्षे लङ्का तद्वन्महापुरी।

पश्चिमे केतुमालाख्ये रोमकाख्या प्रकीर्तिता॥39॥

उदक् सिद्धपुरी नाम कुरुवर्षे प्रकीर्तिता।
तस्यां सिद्धा महात्मानो निवसन्ति गतव्यथाः॥40॥

मेरुमध्यात् दण्डाकारमेरोर्मध्यप्रदेशाद् भूगोलगर्भात्मकादिति त्वर्थः। समन्तादभितो भूगोलपृष्ठे तोयधेःपरिधिरूपसमुद्रस्य तुल्यभामेषु समभागेषु द्वीपेषु जम्बूद्वीपारम्भेषु दिक्षु चतुर्विभागेषु चतुर्दि-क्षु पूर्वादिनगर्य्योमेरोः पूर्वदक्षिणपश्चिमोत्तरदिक्क्रमेण चतुः पुर्य्यो देवनिर्मिता देवैः कृताः सन्तीति शेषः। समुद्रोत्तरतटेजम्बूद्वीपस्यादिभागरूपे तुल्यान्तरेण चत्वारि नगराणि भूगोलस्य कल्पितपूर्वा-दिदिशासु सन्तीति तात्पर्यार्थः॥37॥

अथासांनामानि द्वीपोत्थितस्य जम्बूद्वीपादिभागस्थित वर्षाख्यपारिभाषिक विभागेषु। इत्यर्थं च श्लोकत्रयेण विशदयति।
**

भूगोल उभयत्र दण्डाकारो मेरुर्यत्र निर्गतस्तत् स्थानाभ्यां वृत्ताकारसूत्रेणोर्ध्वाधरेण भूगोलस्य ख-ण्डद्वयं पूर्वापरं तिर्य्यग्वृत्ताकारं सूत्रेणोर्ध्वाधो भूमेःखण्डद्वयं तेन भूगोले वप्राकाराश्चत्वारो भूम्यंशा-स्तत्रोर्ध्वस्थपूर्ववप्रे भूम्यां यः समुद्रपरिधिस्तस्य चतुर्थांशे भद्राश्वसंज्ञकवर्षे पूर्वस्मिन्नूर्ध्वाधः शकलसन्धौ सुवर्णघटिकाः प्रसादास्तोरणानि च यस्यामेतादृशी पुरी यमकोटीति संज्ञया विश्रुता विख्याता याम्यायामूर्ध्वशकलद्वयसन्धौ मेरुस्तस्य दक्षिणत्वात् भारतसंज्ञवर्षे लङ्कासंज्ञा महानगरी तद्वत् स्वर्णप्र-कारतोरणा विश्रुतेत्यर्थः। पश्चिमे पश्चिमशकलाधस्थशकलसन्धौ केतुमालसंज्ञे वर्षे रोमकसंज्ञा नगरी। उक्ता। उदक्। अधः शकलद्वयसन्धौ कुरुसंज्ञकवर्षे सिद्धपुरी नाम नगरी प्रोक्ता। अस्याः पुर्य्याः सिद्धपुरीत्वमन्वर्थमित्याह। तस्यामिति। सिद्धपुर्य्यां सिद्धा योगाभ्यासका अस्मदादिभ्यो महानुत्कृष्ट आत्मा येषां ते गतव्यथा दुःखरहिता निरन्तरा वसन्ति॥ 38-40॥

अथोक्तानां चतुर्णां पुराणां परस्परमन्तरालमव्यवहितं मेरोरासामन्तरं च आह—

भूवृत्तपादिविवरास्ताश्चान्योन्यं प्रतिष्ठिताः।
ताभ्यश्चोत्तरगो मेरुस्तावानेव सुराश्रयः॥41॥

ता उक्तनगर्य्योऽन्योन्यं परस्परं भूवृत्तपादविवरा भूगोलवृत्तपरिधिचतुर्थांशान्तरालाः प्रतिष्ठिताः स्थिताः सन्तीत्यर्थः। चकारः पूर्वोक्तेन समुच्चयार्थकः। ताभ्य उक्तपुरीभ्यः सकाशादुत्तरग उत्तरदि-क्स्थो मेरुःपूर्वोक्तःसुराश्रयः देवैरधिष्ठितस्तावान् भूपरिधिचतुर्थाशांन्तरेण स्थितः। एवकारो न्यूना-धिकव्यवच्छेदार्थः। चकारः श्लोकपूर्वार्द्धेन समुच्चयार्थः॥41॥

अथ तेषां पुराणां निरक्षत्वमस्तीत्याह –

तासामुपरिगो यांति विषुवस्थो दिवाकरः।
न तासु विषुवच्छाया नाक्षस्योन्नतिरिष्यते॥42॥

तासामुक्तनगरीणां विषुवस्थो विषुवदवृत्तस्थो यददिने समरात्रिन्दिवं यदिदने यन्मार्गेण भ्रमति त-द्विषुवद्वृत्तं तत्रस्थ इत्यर्थः। सूर्य उपरिगः सन् याति भ्रमति। अतः कारणात् तासु नगरीषु विषुवच्छा-याक्षभा न भवति तन्नगराणां विषुवद् वृत्ताभिन्नपूर्वापरवृत्तसद्भावात्। तत्रस्थ सूर्य्येमध्याह्ने छायाभा-वोपलम्भात्। अतएव तेषु नगरेषु अक्षध्रुवस्योन्नतिरुच्चताक्षांशरूपा नेष्यते न अङ्गीक्रियते। अक्षांशा-भावात् निरक्षदेशत्वं तेषां सिद्धमिति भावः॥42॥

अथ मेरौ उक्तपुरीषु च क्रमेण लम्बांशाक्षांशाभाव उपपत्या प्रतिपिपादयिषुस्तयोः प्रथमं ध्रुवस्थितिमाह –

मेरोरुभयतो मध्ये ध्रुवतारे नभः स्थिते।
निरक्षदेशसंस्थानामुभये क्षितिजाश्रये॥43॥

मेरोरुभयतो दक्षिणोत्तराग्रयोः आकाशस्थिते ध्रुवतारे दक्षिणोत्तरे क्रमेण मध्य आकाशमध्ये भव-तः। निरक्षदेशसंस्थाना प्रागुक्तनगरस्थितमनुष्याणाम् उभये दक्षिणोत्तरे ध्रुवतारे क्षितिजाश्रये तद्भू-गर्भक्षितिजवृत्तस्थे भवत इत्यर्थः॥43॥

अथ अतएव तेषुअक्षांशाभावलम्बांशपरमत्वमिति वदन् मेरौअक्षांशपरमत्वमित्याह –

अतो नाक्षोच्छ्रयस्तासु ध्रुवयोः क्षितिजस्थयोः।
नवतिर्लम्बकांशास्तु मेरावक्षांशकास्तथा॥44॥

तासु उक्तनगरीषु। अत उभये क्षितिजाश्रये इति कारणात्। अक्षोच्छ्रयो ध्रुवौच्च्यं न। तथा च क्षि-जिजाद्ध्रुवौच्चयमक्षांशा इति तदभावात् तदभाव इति भावः। तुकारात् तन्नगरीषु ध्रुवयोः क्षितिजस्थ-योः सतोर्लम्बांशा नवतिः शून्याक्षांशोन नवतेर्लम्बांशत्वात्। खमध्याद् ध्रुवान्तरस्य लम्बांशस्वरूप-त्वाच्च मेरौ अक्षांशास्तथा नवतिः। ध्रुवस्य परमोच्चत्वात् यथा निरक्षदेशेऽक्षांशाभावाल्लम्बांशाः पर-मास्तथा मेरौ अक्षांशपरमत्वाल्लम्बांशाभाव इत्यर्थसिद्धम्।

एतेन पुरान्तरं चेदिदमुत्तरं स्यात्, तदक्षविश्लेषलवैस्तदा किम्। चक्रांशकैरित्यनुपातयुक्त्या, युक्तं निरुक्तं परिधेःप्रमाणम्॥ 2.14 इति भास्कराचार्य्योक्तं प्रथमप्रश्नस्योत्तरं सूचितम्। स्पष्ट परिधिसा-धनं च कल्पितैकमध्य स्थानानुरोधेन अपचीयमानं मेरौअभावात्मकं न अनुपपन्नमिति च सूचितम्॥44॥

अथ अहोरात्रव्यवस्थां च इत्यादिप्रश्नोत्तरं विवक्षुर्देवासुरयोः दिनारम्भं प्रथममाह –

मेषादौ देवभागस्थे देवानां याति दर्शनम्।
असुराणां तुलादौ तु सर्यस्तद्भागसञ्चरः॥45॥

वृत्तं जम्बूद्वीपलवणसमुद्रसन्धौ परिधि भूगोलमध्ये तत्समसूत्रेण आकाशे विषुवद् वृत्तं तत्र कान्ति-वृत्तं षड्भान्तरेण स्थानद्वये लग्नं तन्मेषतुलास्थानं प्रवहवायुना विषुवद्वृत्तमार्गे भ्रमति मेषस्थानात् कर्कादिस्थानं विषुवद्वृत्ताच्चतुर्विंशत्यंशान्तर उत्तरतः। मकरादिस्थानं विषुवद्वृत्ताच्चतुर्विंशत्यंशा-न्तरे दक्षिणतः। तत् स्वस्थाने प्रवहवायुना भ्रमति। एवं क्रान्तिवृत्तप्रदेशाः स्वस्वस्थाने प्रवहवायुना भ्र-मन्ति। तत्र मेषादौ देवभागस्थो जम्बूद्वीपं देवानां देवासुरविभागकृदिति पूर्वोक्तेः। तत्सम्बद्धा मेषा-दिकन्यान्ता राशय उत्तरगोलः। तत्रस्थः। सूर्यो मेषादौ मेषादिप्रदेशे देवानां मेरोरुत्तराग्रवर्तिनां दर्शनं षण्मासानन्तरं प्रथमदर्शनं याति गच्छति। प्राप्नोतीत्यर्थः। विषुवद्वृत्तस्य तत्क्षितिजत्वात्। एवं दैत्यानां मेरोर्दक्षिणाग्रवर्तिनामित्यसुराणामित्युक्तेन एव उक्तम्। तद्भागसञ्चरौ दैत्यभागे समुद्रादिदक्षिणवि-भागस्थास्तुलादिमीनान्तां राशयो दक्षिणगोलस्तत्र सञ्चरो गमनं यस्येतादृशसूर्यस्तुलादिप्रदेशे तुकारात् अदर्शनानन्तरं प्रथमदर्शनं प्राप्नोतीत्यर्थः। तेषाम् अपि विषुवद् वृत्तक्षितिजत्वात्॥45॥

अथ प्रसङ्गात् ग्रीष्मे तीव्रकर इत्याद्यर्द्धोक्तप्रश्नस्य उत्तरमाह –

अत्यासन्नतया तेन ग्रीष्मे तीव्रकरा रवेः।
देवभागेऽसुराणां तु हेमन्ते, मन्दताऽन्यथा॥46॥

तेन। उत्तरदक्षिणगोलयोः सूर्यस्य उत्तरदक्षिण-सञ्चाररूपकारणेन इत्यर्थः। देवभागे जम्बूद्वीपे। अत्यासन्नतया सूर्यस्य अत्यन्तनिकटस्थत्वेन ग्रीष्मे ग्रीष्मर्त्तौसूर्यस्य तेजोगोलकस्य किरणास्तीक्ष्णा अत्युष्णा असुराणां देवभाग इत्यस्यासन्नतया भाग इत्यस्य समन्वयात् दैत्यानां भागे समुद्रादिदक्षिण प्रदेशे हेमन्ते हेमन्तर्तौ तुकारात् सूर्यस्यात्युष्णाः किरणाः सूर्यस्यात्यासन्नत्वात्। अन्यथा सूर्यस्य दूर-स्थत्वेन मन्दता किरणानामत्युष्णताभावः। देवभागे हेमन्तर्तौ कराणां मन्दता। अतएव तत्र शीताधि-क्यं दैत्यभागे ग्रीष्मे कराणां मन्दता शीताधिक्यं च। तथाच देवभागे दक्षिणगोले सूर्यस्य दूरस्थत्वमु-त्तरगोले निकटस्थत्वं मध्याह्ननतांशानां क्रमेणाधिकाल्पत्वदिति भावः॥46॥

अथ मेषादौ देवभागस्थ इत्युक्तं देवासुराहोरात्रकथनव्याजेन विशदयति –

देवासुरा विषुवति क्षितिजस्थं दिवाकरम्।
पश्यन्त्यन्योऽन्यमेतेषां वामसव्ये दिनक्षपे॥47॥

विषुवति काले देवदैत्याः सूर्य्यं क्षितिजस्थं पश्यन्ति। विषुवद्वृत्तस्य तयोः स्वनाद्भूगोलमध्यस्थत्वे-न क्षितिजत्वात्। एतेषां देवदैत्यानामन्योन्यं परस्परं ये वामसव्ये अपसव्यसव्ये ते क्रमेण दिनक्षपे दिवसरात्री भवतः। अयं भावः। देवानां भूमेरुत्तरभागः स्वकीयत्वात् सव्यमतो दैत्यानामपसव्यं स्व-कीयत्वाभावात्। एवं दैत्यानां भूमेर्दक्षिणभागःस्वकीयत्वात् सव्यं देवानां स्वकीयत्वाभावात् अपस-व्यमतो दैत्यानां वामसव्यभागौ उत्तरदक्षिणगोलौदेवानां क्रमेण दिनरात्री। देवानां वामसव्यभागौ दक्षिणोत्तरगोलौदैत्यानां दिनरात्री। अन्यथान्योन्यं वामसव्ये इत्यनयोः सङ्गतार्थानुपपत्तेः। अतएव पू-र्वं मेषादौ इत्याद्युक्तमिति॥47॥

*** ***अथ पूर्वश्लोकोत्तरार्द्धस्य सन्दिग्धत्वं शङ्कया दिनपूर्वापरार्द्ध कथनच्छलेन तदर्थं श्लोकाभ्यां विश-दयति-
**

मेषादावुदितः सूर्यस्त्रीन् राशीनुदगुत्तरम्।
सञ्चरन् प्रागहर्मध्यं पूरयेन्मेरुवासिनाम्॥48॥

कर्कादीन् सञ्चरस्तद्वदहःपश्चार्द्धमेव सः।
तुलादींस्त्रीन्मृगादींश्च तद्वदेव सुरद्विषाम्॥49॥

मेषादौ विषुवद्वृत्तभागे रेवत्यासन्न उदितो दर्शनतां प्राप्तः सूर्य उत्तरं यथोत्तरं क्रमेणेति यावत्। त्रीन् राशीनुदगुत्तरभागस्थान् मेषवृषमिथुनान् सञ्चरन्नतिक्रामन् सन् मेरुस्थानां देवानां प्रागहर्मध्यं प्र-थमं दिनस्यार्द्धं पूरयेत् पूर्णं करोति इत्यर्थः। मिथुनान्ते सूर्य्ये मेरुस्थानां मध्याह्नं स्यात् इति फलिता-र्थः। कर्कादीन् त्रीन् राशीन् कर्कसिंहकन्यास्तद्वत् क्रमेण इत्यर्थः। अतिक्रामन् सन् सूर्य्यो दिवसस्य पश्चार्द्धमपरदलम्। एवकारोऽन्ययोगव्यवच्छेदार्थः। पूरयेत्। कन्यान्ते सूर्य्येमेरुस्थानां सूर्य्यास्तो भव-तीति फलितार्थः। अथ दैत्यानामाह। तुलादीनिति। सुरद्विषां मेरोर्दक्षिणाग्रवर्तिनां दैत्यानामित्यर्थः। तुलादींस्त्रीन् राशींस्तुलावृश्चिकधनुराख्यान् मृगादींस्त्रीन् राशीन्मकरकुम्भमीनांस्तद्वत् क्रमेण अ-तिक्रामन् सूर्यः। चकारस्तुलामृगादि क्रमेणपूर्वापरार्द्धमित्यर्थकः। एवकार उक्तातिरिक्तव्यवच्छेदा-र्थः। दिनं पूरयतीत्यर्थः। धनुरन्ते सूर्य्येदैत्यानां मध्याह्नं मीनान्ते सूर्य्येसूर्य्यास्तो भवतीति फलितार्थः॥ 48-49॥


अथातो देवासुराणामिति प्रश्नस्योत्तरं सिद्धमित्याह –

अतो दिनक्षपे तेषामन्योन्यं हि विपर्ययात्।
अहोरात्रप्रमाणं च भानोर्भगणपूरणात्॥50॥

अत उक्तकारणात् तेषां देवदैत्यानामन्योन्यं परस्परं हि निश्चयेन विपर्य्ययात् व्यत्यासात् दिनरात्रौ स्त इति फलितम्। एतत् फलितार्थस्तु पूर्वं बहुधोक्तः। अथ तत् कथं वा स्यात्। भानोर्भगणपूरणा-दिति प्रश्नस्यापि उत्तरं फलितमित्याह। अहोरात्रप्रमाणमिति। सूर्यस्य मेषादिद्वादशराशिभोगात् देव-दैत्यानामहोरात्रमानं भवति। चकारः पूर्वार्द्धेन समुच्चयार्थस्तेन द्वयोः पूर्वोक्तमेकं कारणमिति स्पष्ट-म्॥50॥

अथ मेषादावुदित इत्यादिश्लोकद्धयस्य फलितार्थं तदुपपत्तिं च आह—

दिनक्षपार्धमेतेषामयनान्ते विपर्ययात्।
उपर्यात्मानमन्योऽन्यं कल्पयन्ति सुरासुराः॥51॥

एतेषां देवदैत्यानामयनान्तेऽयनसन्धौ विपर्य्ययात् व्यत्यासाददिनक्षपार्द्धंदिनार्द्धं रात्र्यर्द्धं च भव-ति। यत्र देवानां मध्याह्नं रात्र्यर्द्धं तत्र दैत्यानां क्रमेण रात्र्यर्द्धं मध्याह्ने यत्र च दैत्यानां मध्याह्नरात्र्यर्द्धे तत्र देवानां क्रमेण रात्र्यर्द्धमध्याह्ने इति फलितार्थः। अत्र हेतुमाह। उपरीति। देवदैत्या मेरोरुत्तर द-क्षिणाग्रवर्तिनोऽन्योन्यमात्मानं स्वमुपरिभागे ऊर्ध्वभागे कल्पयन्ति अङ्गीकुर्वन्ति। वस्तुतो भूमेर्गोल-कत्वेन सर्वत्र तुल्यत्वान्निरपेक्षोर्ध्वाधोभागयोः। अनुपपत्तेः। यथा च देवा दैत्यापेक्षयोर्ध्वस्थत्वं मन्यमा-ना दैत्यानधः स्थानङ्गीकुर्वन्ति। दैत्याश्च देवस्थानापेक्षयोर्ध्वस्थं मन्यमाना देवानधः कुर्वन्तीति तात्प-र्य्यार्थः। एवं च देवदैत्ययोःविपरीतावस्था नादिदनरात्र्योर्वैपरीत्यं युक्तमेव इति भावः॥51॥

अथ देवदैत्ययोरूर्ध्वाधोरीतिमन्यत्रापि सदृष्टान्तमतिदिशति –

अन्येऽपि समसूत्रस्था मन्यन्तेऽधः परस्परम्।
भद्राश्वकेतुमालस्था लङ्कासिद्धपुरस्थिताः॥52॥

अन्ये देवदैत्यभिन्ना भूगोलस्थाः। अपिशब्दो देवदैत्ययोः समुच्चयार्थकः। समसूत्रस्था भूव्यासान्त-रिता नराः परस्परमधो मन्यन्ते। तत्रोदाहरति। भद्राश्वकेतुमालस्था इति। भद्राश्वकेतुमालशब्दौ स्वान्तर्गतयमकोटिरोमकनगर विशेषाभिधायकौस्पष्टभूव्यासान्तरस्थत्वाङ्गीकारे तु यथा श्रुतं परस्परम-धो मन्यन्ते तुर्य्यचरणस्तु व्यक्तएव॥52॥

अथोक्तं काल्पनिकमेवेति द्रढयन्नाह –

सर्वत्रैव महीगोले स्वस्थानमुपरि स्थितम्।
मन्यन्ते खे यतो गोलस्तस्य क्वोर्ध्वं क्व वाप्यधः॥53॥

भूगोले सर्वत्र सर्वप्रदेशेषु मध्ये स्वस्थानं निजाधिष्ठितस्थानमूर्ध्वस्थितं तदधिष्ठितामनुष्याः स्वाभि-मानेनाङ्गीकुर्युः। अतः कारणाद्भूगोले सर्व एव उर्ध्वस्थाः। अधः स्थास्तु न भवन्त्येव। स्वापेक्षतयो-र्ध्वाधः स्थत्वं न वस्तुत इति तत्वम्। अन्यथाधःस्थत्वेन पतनशङ्कया भूगोले मनुष्याद्यवस्थानानुपपत्तेः। अत्र कारणमाह। ख इति। यतः कारणात् खे ब्रह्माण्डाकाशमध्यभागे भूगोलोऽस्ति। तथाच भूगोला-दभितस्तुल्यत्वाद्भूगोले तत्त्वतयोर्ध्वाधोभागादेःअसम्भव इति भावः। स्वाभिप्रायं स्पष्टयति। तस्ये-ति। भूगोलस्य आकाशमध्यस्थस्य समन्तादाकाशे क्व कस्मिन् भाग उर्ध्वमूर्ध्वत्वम्। कस्मिन् भागे। वा समुच्चये। अधोऽधस्त्वम्। अपिरुर्ध्वत्वेन समुच्चयार्थकः। तथाच समन्तात् आकाशस्य तुल्यत्वेन भूमेरुर्ध्वाधोभागौनिर्वचनी कर्त्तुमशक्यौ याम्यामूर्ध्वाधोलोका नियताः स्युरिति भूमेरूर्ध्वाधोभागाद्य-सम्भवादिति भावः॥53॥

ननु इयं भूः समादर्शाकारा प्रत्यक्षा कथं गोलाकारेत्यत आह –

अल्पकायतया लोकाः स्वस्थानात् सर्वतो मुखम्।

पश्यन्ति वृत्तामप्येनां चक्राकारां वसुन्धराम्॥54॥

जनाःस्वाधिष्ठितप्रदेशात् सर्वतः सर्वदिक्षु। अभिमुखं वृत्तां गोलाकारामेतां प्रत्यक्षां पृथ्वी चक्राका-रां मण्डलकारा समां पश्यन्ति। एवकारार्थेऽपिशब्दः। तेन भूमेः वस्तुतो गोलकारत्वेऽपि तदाकारेण अदर्शनं मुकुराकारतया दर्शंन च न विरुद्धम्। अत्र हेतुमाह। अल्पकायतयेति। ह्रस्वशरीरत्वेन इ-त्यर्थः। तथाच महती भूस्तत्पृष्ठस्थस्य मनुष्यस्य अति ह्रस्वस्य अल्पदृष्टिप्रचारात् गोलाकारतया न भासते किन्तु सममण्डलतया भासते। गोलवृत्तशतांशस्य समत्वेन भानात्। अन्यथा प्रथमज्यायाश्चा-पसमत्वानुपपत्तिरितिभावः॥54॥

अथ निरक्षादिदेशेषु मेरुव्यतिरिक्तान्यदेशेषु दिनरात्र्योर्मानं विवक्षुर्मेरोरग्रभागयोर्निरक्षदेशेषु भच-क्रभ्रमणमाह –

सव्यं भ्रमति देवानामपसव्यं सुरद्विषाम्।

उपरिष्टाद् भगोलोऽयं व्यक्षे पश्चान्मुखः सदा ॥ 55 ॥

अयं प्रत्यक्षो भगोलो नक्षत्राधिष्ठितमूर्तगोलो देवानां मेरोरुत्तराग्रवर्तिनां सव्यम्। पूर्वादिक्रममार्गेण इत्यर्थः। भ्रमति भ्रमपरिवर्तं करोतीत्यर्थः। दैत्यानां मेरोर्दक्षिणाग्रवर्तिनामपसव्यं पूर्वादिदिग्व्युत्क्रम-मार्गेण। पूर्वोत्तरपश्चिमदक्षिणक्रमेण इत्यर्थः। नक्षत्राधिष्ठितगोलो भ्रमति। व्यक्षे निरक्षदेशेषु जात्यभि-प्रायेण एकवचनम्। उपरिष्टान्मस्तकोर्ध्वमध्यभागो भगोलःपश्चान्मुखः पश्चिमदिगभिमुखः सदा नित्यं परिभ्रमति। भगोलस्य ध्रुवमध्यस्थत्वेन भ्रमणात्। तयोस्तत्र क्षितिजवृत्तस्थत्वाच्च॥55॥

अथ निरक्षेदिनरात्र्योर्मानं कथयन्नन्यत्रापि ततो न्यूनाधिकं मानं भवतीत्याह –

अतस्तत्र दिनं त्रिंशन्नाडिकं शर्वरी तथा।
हासवृद्धी सदा वामं सुरासुरविभागयोः॥56॥

अतो निरक्षे मस्तकोर्ध्वं भगोलो भ्रमतीति कारणात् तत्र निरक्षदेशे त्रिशंन्नाडिकं त्रिंशद्घटीमितं दिनं स्यात्। शर्वरी रात्रिस्तथा त्रिंशद्घटीपरिमिता स्यात्। तत्क्षितिजवृत्तस्य ध्रुवद्वयसंलग्नतया गोल-मध्यस्थत्वाद्दिनरात्र्योस्तुल्यत्वं युक्तमेव इति सुरासुरविभागयोः जम्बूद्वीप-समुद्रादि दक्षिणदेशयोः स-दा विषुवत्क्रमणातिरिक्तकाले क्षयवृद्धी दिनरात्र्योः प्रत्येकं वामं व्यस्तं यथा स्यात तथा ज्ञेयम्। एत-दुक्तं भवति। जम्बूद्वीपे दिनह्रासे रात्रिवृद्धिस्तदा दक्षिणदेशे दिनरात्र्योः क्रमेण वृद्धिहानी। जम्बूद्वीपे दिनवृद्धौ रात्रिहानिस्तदा दक्षिणदेशे दिनरात्र्योः क्रमेण हानिवृद्धी। एवं दक्षिणदेशे हानिवृद्धयोर्जम्बू-द्वीपे वृद्धिहानी दिने रात्रौ वा यथायोग्यमिति। अत्रोपपत्तिः। तत्क्षितिजवृत्तस्य ध्रुवसम्बन्धाभावेन गो-लमध्यस्थत्वाभावात् दिनरात्र्योः सदा विषुवत् दिनव्यतिरिक्तेन तुल्यत्वं किन्तु न्यूनाधिकत्वमहोरात्र-स्य षष्टिघटिकात्मकत्वात् इति॥56॥

अथ एतत् श्लोकोत्तरार्द्धार्थं श्लोकाभ्यां विशदयति –

मेषादौ तु दिवावृद्धिरुदगुरुदगुत्तरतोऽधिका।
देवांशे च क्षपाहानिर्विपरीतं तथाऽऽसुरे॥57॥

मेषादौ प्रत्यहमिति पाठान्तरमपि न०प्र०सं०, सदा वृद्धिः इति मूल पाठस्तम, दिवावृद्धिरिति रा०-चं०पा०सं०
**

तुलादौ द्युनिशोर्वामं क्षयवृद्धी तयोरुभे।
देशक्रान्तिवशान्नित्यं तद्विज्ञानं पुरोदितम्॥58॥

मेषादौ षड्भे उद्भुत्तरगोले सूर्य्ये उत्तरतो यथोत्तरं सदा यावदुत्तरगोले देवांशे जम्बूद्वीपेऽधिका यथोत्तरमधिका वृद्धिर्निरक्षदेशीयदिने तुकारात् यथोत्तरं सूर्यस्योत्तरगमने यथोत्तरं दिने वृद्धिः परमो-त्तरगमनात् परावर्तते। यथोत्तरं न्यूनावृद्धिरित्यर्थः। क्षपाहानी रात्रेः अपचयः। चः समुच्चये। आसुरे समुद्रादिदक्षिणभागे तथा दिनरात्र्योः क्षयवृद्धी विपरीतं व्यस्तम्। दिने हानी रात्रौ वृद्धिरित्यर्थः। तु-लादौ षड्भे दक्षिणगोले सूर्य्येसति तयोर्जम्बूद्वीपसमुद्रादिदक्षिणभागयोः दिनरात्र्योरुभे द्वे क्षयवृद्धी उपचयापचयाौवामं व्यस्तम्। अयमर्थः। जम्बूद्वीपे दिनरात्र्योरुत्तरगोलस्थवृद्धिक्षयक्रमेण क्षयवृद्धी स्तः। समुद्रादिदक्षिणभागे दिनरात्र्योर्वृद्धिक्षयौस्त इति। ननु क्षयवृद्ध्योः कियन्मितत्वमित्यतः पूर्वो-क्तं स्मारयति। देशक्रान्तिवशादि। तद्विज्ञानं तयोःक्षयवृद्ध्योर्ज्ञानं संख्याज्ञानं नित्यं प्रत्यहं देशक्रान्ति-वशात्। देशपलभा क्रान्तिरेतदुभयानुरोधात् पुरा पूर्वखण्डस्पष्टाधिकारे। क्रान्तिज्या विषुवद्भाघ्नी क्षि-तिज्या द्वादशेद्धृता। त्रिज्यागुणाहोरात्रार्द्धकर्णाप्ता चरजासवः॥

तत्कार्मुकमित्यनेन दिनरात्र्योरर्द्धं उक्तम्। तद्द्विगुणं दिनरात्र्योरित्यर्थसिद्धम्। अत्रोपपत्तिः। निर-क्षदेशे ध्रुवद्वयलग्नं क्षितिजवृत्तं तत उत्तरभागे स्वस्थानक्षितिजं स्वभूगोल मध्यस्थमुत्तरध्रुवादधोदक्षि-णधुरवाच्चोच्चमित्यत उत्तरगोले निरक्षक्षितिजादधो दक्षिणगोल ऊर्ध्वमिति पञ्चदशघटिका निरक्षदे-शदिनार्द्धं क्षितिजान्तररूपचरेण गोलक्रमेण युतहीनं दिनार्द्धं रात्र्यर्द्धं च विपरीतम्। एवं दक्षिणभा-गेऽभीष्टदेशे क्षितिजमुत्तरध्रुवादुन्नतं दक्षिणध्रुवान्नतमिति निरक्षक्षितिजान्निरक्षक्षितिजं गोलक्रमेणोर्ध्वा-ध इत्युत्तरभागात्व्यस्तम्॥57-58॥

**अथोक्तस्यावधिदेशं विवक्षुः प्रथमं तदुपयुक्तानि क्रान्त्यंश योजनान्याह—

भूवृत्तं क्रान्तिभागघ्नं भगणांशविभाजितम्।
अवाप्तयोजनैरर्को व्यक्षाद्यात्युपरि स्थितः॥59॥

भूवृत्तं भूपरिधियोजनमानं प्रागुक्तमभीष्ट क्रान्त्यशैर्गुणितं द्वादशराशिभागैः षष्ट्यधिकशतत्रयमि-तैर्भक्तं लब्धयोजनैः कृत्वा सूर्य उपरि आकाशे स्थितो वर्तमानो दक्षिणत उत्तरतो वा याति गच्छति। क्रान्त्यभावे तु निरक्षदेशोपर्य्येव परिभ्रमति। अत्रोपपत्तिः। निरक्षदेशान्मेरोरुत्तरदक्षिणाग्राभिमुखं सू-र्यः क्रान्त्यंशैर्गच्छति। तद्योजनज्ञानं तु भगणांशैर्मेर्वग्रद्वयनिरक्षदेशस्पृष्टभूपरिधियोजनानि तदा क्रा-न्त्यंशैः कानीत्यनुपातेनइत्युपपन्नम्॥59॥

अथ दिनमानानयनगणितस्यावधि देशज्ञानं श्लोकाभ्यामाह—

परमापक्रमादेवं योजनानि विशोधयेत्।
भूवृत्तपादाच्छेषाणि यानि स्युर्योजनानि तैः॥60॥

अयनान्ते विलोमेन देवासुरविभागयोः।
नाडीषष्ट्या सकृदहर्निशाप्यस्मिन् सकृत् तथा॥61॥

परमक्रान्तिभागाच्चतुर्विंशन्मितात्। एवं पूर्वोक्तरीत्या योजनानि जातानि। भूपरिधेः पूर्वोक्तस्य च-तुर्थांशात् परिवर्जयेत्। अवशिष्टानि यानि यत्संख्यामितानि योजनानि भवन्ति तैर्योजनैर्देवासुरविभाग-योः निरक्षदेशादुत्तरदक्षिणप्रदेशयोर्यौदेशौ तयोरित्यर्थः। अयनान्त उत्तर दक्षिणायनसन्धौ कर्कादि-स्थे सूर्य्येदक्षिणोत्तरायनसन्धौ मकरादिस्थे सूर्ये विलोमेन व्यत्यासेन सकृदेकवारं नाडीषष्ट्या घटी-षष्ट्याहर्दिनमानं भवति। अस्मिन्नेतादृशे देशे तस्मिन्नेवायनसन्ध्यासन्ने सकृदेकवारं तथा षष्टिघटीमि-ता विलोमेन रात्रिर्भवति। अपिशब्दो दिनेन समुच्चयार्थः। एतदुक्तं भवति। कर्कादिस्थे सूर्य्ये निरक्ष-देशादुत्तरतद्योजनान्तरितदेशे षष्टिघटीमितदिनं तदैव निरक्षदेशात् दक्षिणतद्योजनान्तरितदेशे षष्टि-घटीमिता रात्रिः। मकरादिस्थे सूर्य्ये तादृशोत्तरभागे षष्टिघटीमितारात्रिर्दक्षिणभागे तादृशे षष्टिमितं दिनमिति। अत्रोपपत्तिः। परमक्रान्तियोजनानि भूवृत्तचतुर्थांशयोजनेभ्यो हीनानि। निरक्षदेशात् त-न्मितयोजनान्तरितो यो दक्षिणोत्तर देशस्तस्मान्मेरोर्दक्षिणोत्तराग्रं क्रमेण परमक्रान्ति योजनान्तरित-म्। अतस्तत्र लम्बांशाश्चतुर्विंशतिः पलांशाश्च षट्षष्टिरिति। तद्देशे क्रान्तिवृत्तानुकारं क्षितिजमित्यय-नान्ते पञ्चदशघटीमितमहोरात्रवृत्तचतुर्भागखण्डं निरक्षतद्देशक्षितिजयोरन्तरालरूपं चरमत उक्तरी-त्या दिनार्द्धं रात्र्यर्द्धं वा उक्तरीत्या यथायोग्यं त्रिंशत् तद्द्विगुणं षष्टि घटीमिततन्मानं गणितरीत्योपप-न्नम्। युक्तं च एतत्। अयनान्ताहोरात्रवृत्तस्य एकस्य तत्क्षितिजप्रदेश एकत्रैव संलग्नत्वात् द्विधा संल-ग्नत्वाभावात् प्रवहभ्रमितसूर्यपरिवर्त्तपूर्तिः षष्टिघटीभिर्दशनमदर्शनं यथायोग्यं तद्रोलस्थित्या प्रत्यक्ष-सिद्धमेव इति॥60-61॥

अथ उक्तदिनरात्रिमानगणितं तदवधिदेशपर्य्यन्तं दक्षिणोत्तरभागयोर्नाग्र इत्याह –

तदन्तरेऽपि षष्ट्यन्ते क्षयवृद्धी अहर्निशोः।
परतो विपरीतोऽयं भगोलः परिवर्तते॥62॥

तदन्तरे निरक्षदेशोक्तावधिदेशयोः अन्तरालदक्षिणोत्तरविभागदेशे षष्ट्यन्ते षष्टिघटीमध्ये क्षयवृ-द्धी अपचयोपचयौ उक्तरीत्या दिनरात्र्योः यथायोग्यं भवतः। परतोऽवधिदेशात् अग्रिमदेशे दक्षिणो-त्तरे दैत्यदेवस्थाननिकटेऽयं प्रत्यक्षो भगोलो नक्षत्राद्यधिष्ठितो मूर्त्तो गोलो विपरीतोऽवधिदेशान्तर्गत देशसम्बन्धिगणितविरुद्धः परिवर्तते भ्रमति। तत्र उक्तरीत्या दिनरात्र्योःवृद्धिक्षयौन भवत इत्यर्थः त्रिज्याधिकाच्चरानयनानुपपत्तेः। चरस्वरूपासम्भवाच्च॥62॥


अथ विपरीतगोलस्थितिं श्लोकाभ्यां प्रदर्शयति –

ऊने भूवृत्तपादे तु द्विज्यापक्रमयोजनैः।
धनुर्मृगस्थः सविता दैवभागे न दृश्यते॥63॥

तथैवासुरभागे तु मिथुने कर्कटे स्थितः।
नष्टच्छाया महीवृत्तपादेदर्शनमादिशेत्॥ 64॥

द्विराशिज्यया ये क्रान्त्यंशस्तेषां योजनैः पूर्वावगतैर्भूपरिधिचतुर्थांशे हीने कृते सति।तुकारान्निरक्षदे-शात्तद्योजनान्तरितेदेशेदेवभागउत्तरभागे धनुर्मकरराशिस्थोऽर्कस्तद्देशवासिभिर्न दृश्यते। धनु-र्मकरस्थेऽर्के तेषां रात्रिःसदा स्यादित्यर्थः। असुरभागे निरक्षदेशाद्दक्षिणप्रदेशे। चः समुच्ययार्थः। तु-कारात् तद्योजनान्तरितप्रदेशे मिथुने कर्के कर्कराशौ स्थितोऽर्कस्तथा तद्देशवासिभिर्न दृश्यते। नष्ट-च्छायामहीवृत्तपादे। अभावं प्राप्ता छाया भूच्छाया यत्र तादृशे भूपरिधिचतुर्थांशे सूर्यस्य दर्शनं सदा कथयेत्। यत्र भूच्छायात्मिका रात्रिर्नास्ति तत्र दिनमित्यर्थः। तथाच निरक्षदेशात् तद्योजनान्तरितोत्तर-प्रदेशे कर्कमिथुनस्थोऽर्को दृश्यते तद्योजनान्तरित दक्षिणप्रदेशे धनुर्मकरस्थोऽर्को दृश्यत इति फ-लितार्थः। अतएव। त्र्यंशयुङ्नवरसाः पलांशका यत्र तत्र विषये कदाचन। दृश्यते न मकरो न कार्मु-कं किञ्च कर्किमिथुनौ सदोदितौ॥ इति भास्कराचार्योक्तं संगच्छते॥63-64॥

अथ अन्यत्रापि विपरीतस्थितिं श्लोकाभ्यां दर्शयति –

एकज्यापक्रमानीतैर्योजनैः परिवर्जिते।
भूमिकक्षाचतुर्थांशे व्यक्षाच्छेषैस्तु योजनैः॥65॥

धनुर्मृगालिकुम्भेषु संस्थितोऽर्को न दृश्यते।
देवभागेऽसुराणां तु वृषाद्ये भचतुष्टये॥66॥

एकराशिज्यायाः क्रान्त्यशेभ्यो भूपरिधिचतुर्थांशे हीने कृते सति निरक्षदेशादवशिष्टैः योजनैः। तुकारादन्तरिते देशे देवभाग उत्तरभागेधनुर्मकरवृश्चिक कुम्भराशिषु स्थितः सूर्यस्तद्देशवासिभिर्न दृश्यते। असुराणां दैत्यानां निरक्षदेशात् तद्योजनान्तरितदक्षिणभागे वृषादिके राशिचतुष्टये स्थितोऽर्कस्तद्देशवासिभिर्न दृश्यते। तुकारादुत्तरभागेवृषाचितुष्टय स्थितोऽर्कस्तद्देशवासिभिर्दृश्यते वृश्चिकादिचतुष्टयस्थितोऽर्को दक्षिणभागे तद्देशवासिर्दृश्यत इत्यर्थः। अतएव। यत्र साङ्घ्रिगजवाजिसम्मिताः तत्र वृश्चिकचतुष्टयं न च। दृश्यते च वृषभाच्चतुष्टयं सर्वदा समुदितं हि लक्ष्यते॥ इति भास्कराचार्योक्तंच संगच्छते॥65-66॥

अथ शून्यराशिक्रान्त्यानीतयोजनेभ्योऽवगतमेर्वग्रभागयोरपि स्थितिवैलक्षण्यमाह –

मेरौ मेषादिचक्रार्धेदेयाः पश्यन्ति भास्करम्।
सकृदेवोदितं तद्वदसुराश्च तुलादिगम्॥67॥

मेरावुत्तराग्रावस्थिता देवा मेषादिचक्रार्द्धेमेषादिराशिषट्केऽवस्थितमर्कं सकृदेकवारम्। एवका-रादनेकवारनिरासनिश्चयः। उदितमदर्शनानन्तरं प्रथमदर्शनविषयं निरन्तरं पश्यन्ति। असुरा मेरुद-क्षिणाग्रस्था दैत्याः। चः देवैः समुच्चयार्थः। तुलादिराशिषट्कस्थं तद्वत् सकृदुदितं निरन्तरं पश्यन्ति॥67॥


अथ निरक्षदेशादयनसन्धौ कियदिभर्योजनैरूर्ध्वमर्को भवति तदाह –

भूमण्डलात् पञ्चदशे भागे देयेऽथवाऽसुरे।
उपरिष्टाद्व्रजत्यर्कः सौम्ययाम्यायनान्तगः॥68॥

देवेउत्तरभागे। अथवासुरे दक्षिणभागे। निरक्षदेशाद्भूपरिधेःपञ्चदशे भागे तत्फलयोजनान्तरिते देशे क्रमेणसौम्ययाम्यायनान्तग उत्तरायणान्तदक्षिणायनान्तस्थितोऽर्क उपरिष्टादूर्ध्वं व्रजति परिभ्र-मति। यथा गोलसन्धौ निरक्षदेश तथा अत्र भागद्वय इति फलितार्थः। अत्रोपपत्तिः। अयनान्तस्थे पर-मक्रान्तिश्चतुर्विंशत्यंशास्तद्योजनानि। भूवृत्तं क्रान्तिभागघ्नं भगणाशविभाजितम्।

इत्यत्र चतुर्विंशतिमितगुणभगणांशमितहरौ गुणेनापवर्त्य हरस्थाने पञ्चदशेति भूमण्डलात् पञ्चदशे भाग इत्युक्तमुपपन्नम्॥68॥


अथ निरक्ष देशाद्भूपरिधि पञ्चदशभागपर्य्यन्तं सूर्यस्य दक्षिणोत्तरतो गमनमुक्त्वा तच्छायागमनं प्रतिपादयति –

तदन्तरालयोश्छाया याम्योदक् सम्भवत्यपि।
मेरोरभिमुखं याति परतः स्वविभागयोः॥69॥

तदन्तरालयोर्निरक्षदेशात्पञ्चदशभागमध्यस्थित दक्षिणोत्तर देशयोश्छायाद्वादशांगुलशङ्कोर्मध्या-ह्नच्छायाभीष्ट-कालिकच्छायाग्रं वा दक्षिणाग्रमुत्तराग्रं वा सम्भवति। एतदुक्तं भवति निरक्षदेशात् पञ्च-दशभागान्तरा-लोत्तरदेशेमध्याह्ननतांशानां दक्षिणत्वे छायाग्रमुत्तरम्। नतांशानामुत्तरत्वे छायाग्रं दक्षिणम्। एवं निरक्षदेशात् पञ्चदशभागान्तरालस्थितदक्षिणदेशे सूर्यस्योत्तरस्थत्वे छायाग्रं दक्षिणं दक्षिणस्थत्वे छायाग्रमुत्तरमिति। परतःपञ्चदशभागान्तरालदेशे स्वविभागयोः दक्षिणोत्तर विभागयोर्मे-रोरभिमुखं मेर्वग्रयोः सम्मुखं क्रमेण दक्षिणाग्रमुत्तराग्रं यथा स्यात् तथेत्यर्थः। छाया याति गच्छति भ-वतीत्यर्थः। अपिशब्दः पूर्वार्द्धार्थेन समुच्चयार्थकः॥69॥


अथ कथं पर्येति भुवनानि विभावयन्निति प्रश्नस्योत्तरं श्लोकाभ्यामाह –

भद्राश्वोपरिगः कुर्याद् भारते तूदयं रविः।

रात्र्यर्धं केतुमाले तु कुरावस्तमयं तदा॥70॥

भारतादिषु वर्षेषु तद्वदेव परिभ्रमन्।
मध्योदयार्धरात्र्यस्तकालान् कुर्यात् प्रदक्षिणम्॥71॥

भद्राश्ववर्षोपरिगतः सूर्य्योभारतवर्षे स्वोदयं कुर्य्यात्। तुकाराद्भद्राश्ववर्षे मध्याह्न कुर्य्यात्। तदा त-स्मिन् काले केतुमालर्षेऽर्द्धरात्रं कुरौ कुरुवर्षेऽस्तमयं स्वास्तं कुर्य्यात्। तुकारादुक्तवर्षयोरन्तराले दिनस्य गतं शेषं वा रात्रेश्च तद्यथायोग्यं कुर्य्यादित्यर्थः। अतिस्थूलदेशग्रहणे यथाश्रुतमिदं भव्यं कि-ञ्चित् सूक्ष्मदेशग्रहणे तु यमकोटिलङ्कारोमकसिद्धपुराणि अन्तर्गतानि तच्छब्दवाच्यानि ज्ञेयानि।

लङ्कापुरेऽर्कस्य यदोदयः स्यात् तदा दिनार्द्धं यमकोटिपुर्य्याम्।

अधस्तदा सिद्धपुरेऽस्तकालः स्याद्रोमके रात्रिदलं तदैव॥ इति भास्कराचार्य्योक्तं भूगोल उक्तन-गराणां भूपरिधिचतुर्थांशान्तरत्वात् सङ्गच्छते। अथ भारतादिषु त्रिषु वर्षसंज्ञेषु भारतकेतुमाल कुरुव-र्षेष तद्वद्भद्राश्व वर्षोपरिगवत्। एवकारात् तन्यूनाधिकव्यवच्छेदः। परिभ्रमन् परिभ्रमेण स्वस्वाभिमत् स्थानोपरिस्थितिं कुर्वन् सूर्यः प्रदक्षिणं यथा स्यात् तथा सव्यक्रमेण स्वस्थानादिक्रमेणेति यावत्। उ-क्त चतुर्वर्षेषु मध्योदयार्द्धरात्र्यस्तकालान्मध्याह्नोदयार्द्धरात्र्यस्तसंज्ञान कालान् कुर्य्यात। एतदुक्तं भ-वति। भारतवर्षोपरि गतेऽर्केभारतकेतुमालकुरुभद्रश्ववर्षे क्रमेण मध्याह्नसूर्योदयार्द्धरात्रास्ताः स्युः। केतुमालवर्षोपरिगतेऽर्केकेतुमाल कुरुभद्राश्व भारतवर्षेषु क्रमेण मध्याह्न सूर्योदयार्द्धरात्रास्ताः। कु-रुवर्षोपरि गतेऽर्के कुरुभद्राश्वभारतकेतुमालवर्षेषु क्रमेण मध्याह्न सूर्योदयार्द्धरात्रास्ता भवन्तीति॥70-71॥


ननु ग्रहाणां गतिसद्भावात् प्रतिदेशं याम्योत्तरयोर्ग्रहगमनं प्रतिक्षणं च विलक्षणं भासतांं परन्तु नक्ष-त्राणां गत्यभावात् प्रतिक्षणं भ्रमेणैकत्रावस्थाना-भावेऽपि प्रतिदेशमेकरूपावस्थानं कुतो न। एवं ध्रुव-योःपरिभ्रमस्याप्यभावात्सदासर्वत्रैकरूपावस्थानदर्शनापत्तिश्चेत्यत आह –

ध्रुवोन्नतिर्भचक्रस्य नतिर्मेरुं प्रयास्यतः।
निरक्षाभिमुखं यातुर्विपरीते नतोन्नते॥72॥

मेरुं मेरोरुत्तराग्रं दक्षिणाग्रं वा तदभिमुखं प्रयास्यतो गच्छतः पुरुषस्य ध्रुवोन्नतिः क्रमेणोत्तरदक्षिण-योर्ध्रुवयोरौच्च्यं भवति। भचक्रस्य नक्षत्राधिष्ठितगोलमध्यभागवृत्तस्य नतिः क्रमेण दक्षिणोत्तरयोर्नतत्वं भवति। निरक्षदेशाभिमुखं गच्छतः पुरुषस्य नतोन्नते पूर्वोक्ते व्यस्ते भवतः। उत्तरभागस्थपुरुषस्य निरक्षाभिमुखं गच्छतः पूर्वोक्तस्थानापेक्षयोत्तरध्रुवस्य नतत्वं पूर्वस्थानापेक्षया भचक्रस्योन्नतत्वम्। एवं दक्षिणभागस्थपुरुषस्य निरक्षाभिमुखं गच्छतः पूर्वस्थानापेक्षया दक्षिणध्रुवस्य नतत्वं भचक्रस्योन्नत-त्वमिति॥72॥

अथ कुत एवमित्यतः। कथं पर्य्येति भगणःसग्रहोऽयं किमाश्रयः।इति प्रश्नस्योत्तरं भचक्रभ्रमणव-स्तुस्थितिमाह-

भचक्रं ध्रुवयोर्बद्धमाक्षिप्तं प्रवहानिलैः।

पर्येत्यजस्त्रं तन्नद्धा ग्रहकक्षा यथाक्रमम्॥73॥

भचक्रं नक्षत्राधिष्ठितमूर्त्तगोलरूपं ध्रुवयोर्दक्षिणोत्तरस्थिरतारयोर्बद्धं ब्रह्मणा निबद्धं नियतवायुगति-ना गोलाकारेण प्रतिबद्धं प्रवहानिलैः प्रवहवाय्वंशैः स्वस्वस्थानस्थैराक्षिप्तं स्वस्वस्थानाभिघातं प्राप्तं सदजस्रं निरन्तरं पर्य्येति। पश्चिमाभिमुखं भ्रमतीत्यर्थः। ननु नक्षत्रचक्रं वायुना भ्रमति ग्रहास्त्वधोऽधः-स्थाः सम्बन्धाभावात् कथं भ्रमतीत्यत आह। तन्नद्धा इति। ग्रहाणां शन्यादीनां कक्षा मार्गा वाय्वंशरू-पा भचक्रान्तर्गताकाशस्था यथाक्रमधोऽधस्तन्नद्धा महाप्रवहवायुगोलस्थापितभचक्रे वायुसूत्रेण निब-द्धा अतो भचक्रेण सह भ्रमन्ति। तत्रस्था ग्रहा अपि भ्रमन्तीति किं चित्रम्। तथाच प्रवहवायुगोलम-ध्यस्थविषुवद्वृत्तपूर्वापरनिरक्षदेशे ध्रुवयोः क्षितिजस्थत्वाद् भचक्रस्य मस्तकोपरि भ्रमणाच्च मेर्वग्रा-भिमुखं प्रयातुर्ध्रुव उच्चो भवति। तत आसन्नत्वाद्भचक्रं नतं भवति। ततो दूरत्वादिति सर्वं युक्तम्॥73॥

उत्तानपादपुत्रोऽसौ मेढीभूतो ध्रुवो दिवि। स हि भ्रमन् भ्रामयते नित्यं चन्द्रादित्यौ ग्रहैः सह॥अथ पित्र्यं मासेन भवतीति प्रश्नयोरुत्तरमाह-

सकृदुद्गतमब्दार्धंपश्यन्त्यर्क सुरासुराः।
पितरः शशिगःपक्षं स्यदिनं च नरा भुवि॥74॥

यथा देवदैत्या एकवारमुदितं सूर्य्यंसौरवर्षार्द्धपर्य्यन्तं पश्यन्ति। तथा पितरश्चन्द्रविम्बगोलोर्ध्वस्थि-ताः पक्षं पञ्चदशतिथिपर्य्यन्तं पश्यन्ति। पितरश्चन्द्रगोलार्ध्वस्थिताः पक्षं पञ्चदशतिथिपर्यन्तं पश्यन्ति। नरा स्वदिनपर्य्यन्तमर्कं पश्यन्त्यतः। पित्र्यं मासेन भवति नाडीषष्ट्या तु मानुषम्। इति सर्वं युक्त-मेव। विधूर्ध्वभागे पितरो वसन्तः स्वाधः सुधादीधितिमामनन्ति। पश्यन्ति तेऽर्कं निजमस्तकोर्ध्वे दर्शे यतोऽस्माद्द्युदलं तदैषाम्। भार्द्धान्तरत्वान्न विधोरधः स्थं तस्मान्निशीथः खलु पौर्णमास्याम्। कृष्णे र-विः पक्षदलेऽभ्युदेति शुक्लेऽस्तमेत्यर्थत एव सिद्धम्।

इति भास्कराचार्येण विस्तीर्य्योक्तं सङ्गच्छते॥74॥


अथ प्रसङ्गादूर्ध्वस्थस्याल्पभगणानामधःस्थस्याधिकभगणानां युक्त्या प्रतिपादनार्थं प्रथमं कक्षाया ऊर्ध्वाधः क्रमेण महदल्पत्वं तत्रस्थभागानां महदल्पप्रदेशत्वं च आह—

उपरिस्थस्य महती कक्षाऽल्पाऽधः स्थितस्य च।
महत्या कक्षया भागा महान्तल्यास्तथाल्यया॥75॥

उर्ध्वस्थस्य ग्रहस्य कक्षा वायुवृत्तमार्गरूपा महती महापरिधिप्रमाणा। अधःस्थस्य ग्रहस्य कक्षा-ल्पाल्पपरिधिप्रमाणा। चो निश्चयार्थे। लघुकक्षाणां महाकक्षान्तर्गतत्वेन महाकक्षाणां चान्तर्गतलघुक-क्षात्वेन उर्ध्वाधःस्थयोः महदल्पपरिधिके कक्षे। अन्यथोक्तं स्वरूपानुपपत्तेः। एवं महति वृत्तपरिधौ द्वादशराशिभागानां समत्वेनाङ्कने भागा एकैकभागप्रदेशा महत्या कक्षया कृत्वा महान्तो बहुस्थला-त्मका लघुनि वृत्ते तदङ्कने तथा भागा अल्पया कक्षया कृत्वाल्पा अल्पस्थलात्मकाः क्रमेण एकैकभा-गप्रमाणमधिकाल्पं न समं चक्रांश पूर्त्यनुपत्तेरिति तात्पर्य्यम्॥75॥

अथ ऊर्ध्वाधः क्रमेण ग्रहभगण भोगकालयोः महदल्पत्वमाह –

कालेनाल्पेन भगणं भुङ्क्तेऽल्पभ्रमणाश्रितः।
ग्रहः कालेन महता मण्डले महति भ्रमन्॥76॥

अल्पभ्रमणं परिधिमानं यस्याः साल्पभ्रमणाधःस्थकक्षा। तत्स्थो ग्रहोऽल्पेन समयेन भगणं द्वादश-राश्यात्मकं भुङ्क्तेऽतिक्रमते। महति मण्डले। ऊर्ध्वस्थ कक्षयामित्यर्थः। भ्रमन् गच्छन् महता बहु-ना समयेन द्वादशराशीन् भुङ्क्ते। वक्ष्यमाण योजनगतेरभिन्नत्वात्॥76॥

अथ अतएवोर्ध्वाधः क्रमेण ग्रहयोःभगणास्तुल्यकालेऽल्पा बहवो भवन्तीति सोदाहरणमाह-

स्वल्पयाऽतो बहून् भुङ्क्ते भगणान् शीतदीधितिः।
महत्या कक्षा गच्छन् ततः स्वल्पं शनैश्वरः॥77॥

स्वल्पप्रमाणया कक्षया। तुकारादतिक्रामंश्चन्द्रो बहुप्रमाणान् भगणान् बहुवारं द्वादशराशीनित्यर्थः। भुङ्क्ते। महाप्रमाणया कक्षया गच्छन शनिस्ततश्चन्द्रात् स्वल्पं भगणमल्पप्रमाणान् भगणान्। जात्य-भिप्रायेण एकवचनम्। अल्पवारं द्वादशराशीन् भुङ्क्ते। अतएव शनैश्चर इति॥77॥

दिनेशव्यवस्था/ दिनव्यवस्था।
इति प्रश्नस्योत्तरं श्लोकाभ्यामाह-़़

मन्दादधः क्रमेण स्युश्चतुर्थादिवसाधियाः।

वर्षाधिपतयस्तद्वत् तृतीयाः परिकीर्तिताः॥78॥

तृतीयाश्च प्रकीर्तिताः इति पाठःब०प्र०मि०सं०

ऊर्ध्वक्रमेण शशिनो मासानामधिपाः स्मृताः।
होरेशाः सूर्यतनयादधोऽधः क्रमशस्तथा॥79॥

शनेःसकाशादधः कक्षाक्रमेण चतुर्थसंख्याकाग्रहा दिनाधिपतयो वारेश्वरा भवन्ति। यथा शनिरवि-चन्द्रभौमबुधगुरुशुक्रा इति तत् क्रमः। वर्षस्य षष्ट्यधिकशतत्रयदिनात्मकस्य स्वामिनस्तद्वन्मन्दाद-धः क्रमेण तृतीयसंख्याका ग्रहा उक्ताः। चः समुच्चयार्थे। तत् क्रमश्च यथा शनिभौमशुक्रचन्द्रगुरुसू-र्यबुधा इति। चन्द्रात् सकाशादूर्ध्वकक्षाक्रमेण ग्रहा मासानां त्रिंशद्दिनात्मकानां स्वामिनः कथिताः। तत्क्रमश्च चन्द्रबुध शुक्ररविभौमगुरुशनय इति। शनेःसकाशादधः। अधः क्रमेण होरेशाः। होरेति लग्नं भगणस्य चार्द्धम्।
इति पञ्चदशभागात्मकहोराणां दिने द्वादश रात्रौ द्वादशेत्यहोरात्रे चतुर्विंशतिहोराणामित्यर्थः। होरा सार्द्धद्विनाडिका। इति षष्टिघटिकात्मकेऽहोरात्रे। चतुर्विंशतिहोराणामित्यन्ये स्वामिनस्त्था मासेश्वरव-दव्यवहिताः कथिता। यथा तत्क्रमः शनिगुरुभौमरविशुक्रबुधचन्द्रा इति। अत्र शनेः सर्वोर्द्धस्थत्वाच्च-न्द्रस्य सर्वाधःस्थत्वात्ताभ्यामध ऊर्ध्वक्रमः क्रमेणोक्तः। अन्य ग्रहस्यावधित्वाभ्युपगमे विनिगमना-विरहापत्तेः। न तु शनेराद्यावधित्वेन सृष्ट्यादौ दिन-वर्षहोराणां स्वामित्वं नवा चन्द्रस्याद्यावधित्वेन सृष्ट्यादौ मासेशत्वं पूर्वखण्डकोक्तानीततदीशैर्विरोधापत्तेः।
अत्रोपपत्तिः। होरारूपलग्नानां क्रान्तिवृत्तेऽधः क्रमेण मेषादीनां सम्भवादूर्ध्वं कक्षातोऽधः क्रमेण होरेशत्वं युक्तम्। एवमहोरात्रे चतुर्विंशतिहोराःसप्ततष्टास्त्रयो होरेशा गताः। चतुर्थोहोरेशो द्वितीय-दिनप्रारम्भे स एव प्रथमहोरेशत्वाद् द्वितीयदिनेशः। एवमुत्तरत्रापि एवमेतद्वारक्रमेण सावनवर्षे त्रयो वारा इति पूर्ववर्षेशादग्रिमवर्षेशोऽधः कक्षाक्रमेण तृतीय उत्तरोत्तरम्। एवं सावनमासे द्वौ वारौ वार-क्रमेण मासेश्वरस्याधिकाविति कक्षोर्ध्वक्रमे वारक्रमेण एकान्तरितत्वात् कक्षोर्ध्वक्रमेण मासेश्वर उत्तरोत्तरमित्युपपन्नं मन्दादित्यादिश्लोकद्वयम्॥78-79॥


अथ ग्रहर्क्षकक्षाः किं मात्राः। इति प्रश्नस्योत्तरं विवक्षुः प्रथम नक्षत्राणांकक्षामानमाह-

भवेद् भकक्षा तीक्ष्णांशोर्भ्रमणं षष्टिताडितम्।
सर्वोपरिष्टाद् भ्रमति योजनैस्तैर्भमण्डलम्॥80॥

सूर्यस्य भ्रमणं कक्षापरिधिमानं योजनात्मकम्। खखर्थैकसुरार्णवाः। इति वक्ष्यमाणं षष्ट्या गुणितं सन्नक्षत्राणां कक्षा नक्षत्राधिष्ठितगोलस्य मध्यवृत्तं स्यात्। तैर्नक्षत्रकमितैर्योजनैर्भमण्डलं नक्षत्राधिष्ठित-गोलमध्यवृत्तं सर्वोपरिष्टाच्चन्द्रादि सप्तग्रहेभ्य उपरि दूरं भ्रमति भूगोलादभितः परिभ्रमति। अत्रोपप-त्तिः। नक्षत्राणां गत्यभावाच्छनेरप्यत्यूर्ध्वं नक्षत्रमण्डलं तत्र सूर्यगत्या सूर्यकक्षा तदा नक्षत्रगत्यभावेऽपि एककला गतिकल्पनयानुपातान्यथानुपपत्तितया। कल्प्यो हरो रूपमहारराशेः। इतीच्छाह्रासे फलवृ-द्धयपेक्षितत्वाद्व्यस्तानुपातो लाघवात् सूर्यगतिः षष्टिकलामिता च भगवता कृता। नक्षत्रगतेरभावाच्च इति षष्टिताडितमित्युपपन्नम्॥80॥


अथ ग्रहकक्षाणां मानज्ञानार्थमाकाशकक्षामानम्। कियती तत्करप्राप्तिः। इति प्रश्नस्योत्तरमाह –

कल्पोक्तचन्द्रभगणाःगुणिताः शशिकक्षया।
आकाशकक्षा सा ज्ञेया करव्याप्तिस्तथा रवेः॥81॥

कल्पोक्तचन्द्रभगणाः। “एते सहस्रगुणिताः कल्पे स्युर्भगणादयः” इत्युक्त्या युगचन्द्रभगणाः सहस्त्रगुणिताः कल्पचन्द्रभगणा इत्यर्थः। चन्द्रकक्षया खत्रयाब्धिद्विदहना इति वक्ष्यमाणया गुणिता सा तन्मिताकाशकक्षापरिधिरूपा ज्ञेया। धीमतेति शेषः। ननु अनन्ताकाशस्य कथं परिधिरित्यत आ-ह करव्याप्तिरिति। सूर्यस्य किरणप्रचारस्तथाकाशकक्षापरिमित इत्यर्थः। तथा च यद्देशावच्छेदेन सू-र्यकिरण प्रचारस्तद्देशावच्छिन्नाकाशगोलस्य ब्रह्माण्डकटाहान्तर्गतस्य परिधिमानं सम्भवत्येवेति भा-वः। अत्रोपपत्तिः। समनन्तरमेव यद्भगणभक्ता खकक्षा तस्य कक्षा स्यात्इत्युक्तेर्भगणकक्षाघातः खकक्षा सिद्धा। अतश्चन्द्रभगणकक्षयोर्घातः खकक्षातुल्य एवेतिदिक्॥81॥

अथ ग्रहाणां कक्षानयनं योजनगत्यानयनं च आह –

सैव यत्कल्पभगणैर्भक्ता तद्भ्रमणं भवेत्।

कुवासरैर्विभज्याह्नः सर्वेषां प्राग्गतिः स्मृता॥82॥

सार्ककरव्याप्तिरूपाकाशकक्षायत्कल्पभगणैर्यस्य कल्पभगणैर्भक्ता प्राप्तं फलं सर्वेषामुक्तभग-णसम्बन्धिनां ग्रहादीनामह्नोदिवसस्य दिनसम्बन्धिनीत्यर्थः। प्राग्गतिर्योजनात्मिका कथिता। अत्रोपप-त्तिः। कल्पभगणकक्षा घातरूपाकाशकक्षा कल्पभगणभक्ता कक्षा स्यादेव। कल्पे खकक्षामितयो-जनानि ग्रहः क्रामतीति कल्परविसावनदिनैः आकाशकक्षामितयोजनानि तदैकरविसावनदिनेन का-नीत्यनुपातेन पूर्वगतिर्योजनात्मिका प्रत्यहं तुल्येत्युपपन्नम्॥82॥

अथ योजनात्मकगतेः कलात्मकगतिं स्वीयामाह –

भुक्तियोजनजा सङ्ख्या सेन्दोर्भ्रमणसङ्गुणा।

स्वकक्षाप्ता तु सा तस्य तिथ्याप्ता गतिलिप्तिकाः॥83॥

गतियोजनोत्पन्ना या संख्या सा संख्या चन्द्रस्य भ्रमणसगुंणा कक्षया गुणिता स्वकक्षयाप्ताभिमत् ग्रहस्य कक्षया भक्ता सा फलरूपा तिथ्याप्ता पञ्चदशभक्ता। तुकारात् फलं तस्याभिमतग्रहस्य ग-तिकला भवन्ति। अत्रोपपत्तिः। कक्षायोजनैश्चक्रकलास्तदा गतियोजनैः का इत्यनुपातेन गतिकलाः। तत्रापि चन्द्रकक्षा पञ्चदशभक्ताश्चक्रकला इति चक्रकलास्वरूपं धृतमित्युपपन्नम्॥83॥

अथ किमुत्सेधा इति प्रश्नस्योत्तरमाह –

कक्षा भूकर्णगुणिता महीमण्डलभाजिता।
तत्कर्णोभूमिकर्णोना ग्रहौच्च्यंस्वं दलीकृतः॥84॥**

ग्रहाणां योजनात्मिका कक्षा भूकर्णेन योजनानिशतान्यष्टौ भूकर्णोद्विगुणानीत्युक्तभूव्यासेन षोड-शशतेन गुणिता भूपरिधिना तदवगतेन भक्ता फलं तस्याः कक्षायाः कर्णा व्यासा भवन्ति। एते भू-व्यासेन हीना अर्द्धिताः सन्तः स्वगृहीतव्याससम्बन्धिग्रहौच्च्यं ग्रहस्योच्चता भूमेः सकाशाद्भवति।

अत्रोपपत्तिः। भूपरिधिना भूव्यासस्तदा कक्षायोजनैः क इत्यनुपातेन कक्षाव्यासास्तेऽर्द्धिताः कक्षा-व्यासार्द्धं भूगर्भकक्षापरिधिप्रदेशान्तरालरूपं भूपृष्ठात् तदन्तरज्ञानार्थं भूव्यासार्द्धेन हीनं भूपृष्ठात् क-क्षौच्च्यं तत्र कक्षाव्यासा भूव्यासोना अर्द्धिताःकृताः। उभयथा समत्वात्। कक्षौच्च्यमेव ग्रहौच्च्यं ग्रह-स्य तत्राधिष्ठानादिति। एतेन सिद्धग्रहौच्च्येभ्यः परस्परान्तरगतज्ञानं सुगममिति। किमन्तरा इति पश्न-स्योत्तरं स्वतः सिद्धमेवेति दिक्॥84॥

अथोर्ध्वक्रमेण सिद्धाः कक्षा विवक्षुः प्रथमं चन्द्रस्य कक्षां बुधशीघ्रोच्चकक्षांच आह –

खत्रयाब्धिद्विदहनाः कक्षा तु हिमदीधितेः।

ज्ञशीघ्रस्याङ्कखद्वित्रिकृतशून्येन्दवस्ततः॥85॥

चन्द्रस्यकक्षा सहस्त्रगुणितसिद्धरामाः। तुकारादागमप्रामाण्येनाङ्गीकार्य्या।अन्यथान्योन्याश्रयाप-त्तेस्ततश्चन्द्रादूर्ध्वं बुधशीघ्रोच्चस्य कक्षा नवखदन्तवेददिशः। यद्यपि बुधशीघ्रोच्चमाकाशे प्रत्यक्षं नेति तत्कक्षोक्तिरयुक्ता तथापि बुधशीघ्रोच्चभगणानीतकक्षायां गत्यनुरोधेन चन्द्रोर्ध्वगायां बुधो भ्रमति। पूर्वम्। सूर्यशुक्रेन्दुजेन्दवः इति क्रमोक्तेः। अन्यथा भगणैक्यादेककक्षायां रविबुधशुक्राणामवस्थितौ मण्डलभङ्गपत्तेरिति सूचनार्थमुक्ता॥85॥

अथ शुक्रशीघ्रोच्चस्य कक्षां सूर्यबुधशुक्राणामभिन्नां कक्षां च आह—

शुक्रशीघ्रस्य सप्ताग्निरसाब्धिरसषड्यमाः।
ततोऽर्कबुधशुक्राणां खखार्थैकसुरार्णवाः॥86॥

तदूर्ध्वं शुक्रशीघ्रोच्चस्य कक्षाद्रित्र्यङ्गवेदषड्रसपक्षाः शुक्रावस्थानसूचनार्थमुक्ताः। ततस्तदूर्घ्वं सूर्य-बुधशुक्राणां भगणैक्यादभिन्ना कक्षा खखपञ्चभूदेवाब्धयः। यद्यपि बुधशुक्रयोः सूर्य्याधःस्थत्वात् केव-लं सूर्यकक्षैव वक्तुमुचिता तथापि कक्षयैको भगणस्तदा कल्परविसावनदिनैः खकमितयोजनानि त-दाहर्गणेन कानीत्यनुपातागतयोजनैः क इत्यनुपातेन सूर्यबुधशुक्राणामभिन्नत्वसिद्ध्यर्थं बुधशुक्रयो-रत्युक्ता। अन्यथा समत्वानुपपत्तेरिति॥86॥

अथ भौमस्य कक्षां चन्द्रमन्दोच्चस्य कक्षां च आह –

कुजस्याप्यङ्कशून्याङ्कषड्वेदैकभुजङ्गमाः।
चन्द्रोच्चस्य कृताष्टाब्धिवसुद्वित्र्यष्टवह्नयः॥87॥

भौमस्य। अपिशब्दात् सूर्य्यादूर्ध्वकक्षा नवखनवषडिन्द्रसर्पाः। चन्द्रमन्दोच्चस्य कक्षा वेदाहिवेदस-र्पपक्षरामनाग रामाः। इयमाप्याकाशे न दृश्या तथापिगतयोजनैश्चन्द्रोच्चज्ञानायोक्ता॥87॥

अथ गुरुराह्वोः कक्षे आह –

कृत्तर्तुमुनिपञ्चाद्रिगुणेन्दुविषया गुरोः।
स्वर्भानोर्वेदतकोष्टद्विशैलार्थखकुञ्जराः॥88॥

बृहस्पतेः भौमाच्चन्द्रोच्चाद्वोर्ध्वं कक्षा वेदाङ्गमुनि पञ्च्स्वरराम चन्द्रशराः। राहोः। कक्षा वेदाङ्गग-जयमसप्तपञ्चाशीतयः। इयमदृश्यापि राहोर्गतियोजनैः ज्ञानार्थमुक्ता। अत्रापि पातस्य चक्रशुद्धत्वम-वधेयम्॥88॥

अथ शनेः कक्षां नक्षत्राधिष्ठितमूर्तगोलमध्यकक्षां च आह –

पञ्चबाणाक्षिनागर्तुरसाद्रयर्काः शनैस्ततः।
भानां रविखशून्याङ्कवसुरन्ध्रशराश्विनः॥89॥

ततो बृहस्पते राहोर्वोर्ध्वं शनेःकक्षा पञ्चपञ्चद्वयष्टषड्रससप्तार्काः। नक्षत्राणां गोलमध्ये कक्षा शने-रूर्ध्वं द्वादशनवशताष्टनवतितत्त्वानि।

भवेद्भकक्षा तीक्ष्णांशोर्भ्रमणं षष्टिताडितम्। इत्यनेन भकक्षाया द्वादशान्तरिततत्वादयुक्तत्वं तथा-पि सैव यत्क्ल्पभगणैरित्यनेने सूर्यकक्षाया उक्त्या द्वादशाधोऽवयवस्य निबन्धने त्यागेऽपि मकक्षार्थं भगवता ग्रहीतच्वाददोषः एतोनाधो वयवस्यार्द्धन्यूनत्वेन त्यागोऽर्द्धाभ्यधिकत्वेनोर्ध्वमेकाधिकग्रहणं कक्षानिबन्धेन कृतमिति सूचितम्॥89॥
**

ननु चन्द्रकक्षाया आगमप्रामाण्येनाङ्गीकारे सर्वकक्षाणामागमप्रामाण्यापत्या। सैव यत्कल्पभगणै-र्भक्ता तद्भ्रमणं भवेत। इतिकक्षानयनं व्यर्थम्। अन्यथाकाशकक्षाज्ञानासम्भवापत्तेरित्यत आकाशकक्षैवागमप्रमाण्येनाङ्गीकार्य्येति वसन्ततिलकयाह—

खव्योमखत्रयखसागरषट्कनागव्योमाष्टशून्ययमरूपनगाष्टचन्द्राः।
ब्रह्माण्डसम्पुटपरिभ्रमणं समन्तादभ्यन्तरे दिनकरस्य करप्रसारः॥90॥

वेदाङ्गाष्टाशीतिनखभूसप्तधृतयः प्रयुतगुणिता योजनानि पूर्वार्द्धोक्तानि।ब्रह्माण्डसम्पुटपरिभ्रमणं ब्रह्माण्डगोलस्य परिधिः। कल्पभगणकक्षाहतित्वेनाकाशकक्षायाः पूर्वं स्वरूपोक्तेरिति न पौनरु-क्त्यम्। अभ्यन्तरे ब्रह्माण्डगोलान्तः सूर्यस्याभितः किरणानां प्रसारः सूर्यकिरणप्रचारदेशस्य परिधि-स्तत्तुल्यः। एतेन ब्रह्माण्डगोलान्तः परिधिर्न बाह्य इति सूचितम्॥90॥

अथअग्रिमग्रन्थस्यासङ्गतित्वपरिहारर्थमध्यायसमाप्तिंफक्किकयाह।इतिभिन्नच्चछन्दसा प्रार-ब्धप्रसङ्गः समाप्त इत्यर्थः। पूर्वखण्डे ग्रन्थैकदेशस्याधिकारसंज्ञा कृता। उत्तरखण्डे ग्रन्थैकदेशस्या-ध्यायसंज्ञा भिन्नप्रसङ्गवशात् कृतेति ध्येयम्।
रङ्गनाथेन रचिते सूर्यसिद्धान्तटिप्पणे। उत्तरार्द्धे समाप्तोऽयं भूगोलाध्यायसंज्ञकः॥

इति श्री एकलगणकसार्वभौमअल्लालदैवज्ञात्मजरंगनाथविरचिते गूखर्थप्रकाशके उत्तरखण्डे भू-गोलाध्यायः पूर्णः॥

अथ ज्यौतिषोपनिषदध्यायः- 13

अथ पुनर्मुनीन् श्रोतृन् प्रति श्लोकाभ्यामाह—

अथ गुप्ते शुचौ देशे स्नातः शुचिरलङ्कृतः।

सम्पूज्य भास्करं भक्त्या ग्रहान् भान्यथ गुह्यकान्॥1॥

पारम्पर्योपदेशेन यथा ज्ञानं गुरोर्मुखात्।

आचार्यः शिष्यबोधार्थं सर्वं प्रत्यक्षदर्शिवान्॥2॥

अथ शब्दो मङ्गलार्थः। द्वितीयोऽथशब्दः पूर्वोक्तानान्तर्य्यार्थिकः गुप्ते रहसि शुचौ पवित्रेदेशे स्था-ने आचार्य्यःसूर्य्याशपुरुषो मयासुराध्यापकः स्नातः कृतस्नानः शुचिः शुद्धमनाः। अलंकृतो हस्तकर्ण-कणादिभूषणभूषितः। निश्चिन्तत्वद्योतकमिदं विशेषणम्। अन्यथा ग्रहादिव्यवहारादिव्याकुलतया म-नस्थैर्यानुपपत्तेः। भास्करं श्री सूर्य्यं स्वोपजीव्यं भक्त्याराध्यत्वेन ज्ञानरूपया सम्पूज्य नमस्कारस्तुति-विषयं कृत्वा ग्रहान् चन्द्रादिग्रहान्सूर्य्यस्य पृथगुद्देशः प्राधान्य ज्ञानार्थम्। भानि नक्षत्राणि राशींश्च गु-ह्यकान् यक्षादीन् क्षुद्रदेवताः सम्पूज्य। समुच्चयार्थकश्चोऽत्रानुसन्धेयः, गुरोः सूर्य्यस्य मुखाद्वदनारवि-न्दात्। पारम्पर्य्योपदेशेन सूर्येण मुनीन् प्रत्युक्तं मुनिभिः सूर्य्यांशपुरुषं प्रत्युक्तमिति परम्परया कथ-नेन। वस्तुतस्तु शिष्यस्याग्रहोत्पादनार्थं ज्ञानेतिगोप्यत्वसूचनमेतदुक्त्या कृतम्। कथमन्यथा सूर्य्यांज्ञ-प्तांशपुरुषो मयासुरं प्रत्यवद् दूरस्थमुनीन् प्रति कथन उद्यतोऽर्कः स्वांशपुरुषं प्रति कथनेऽनुद्यतः कुतः कारणाभावाच्च। तथा स्वशक्त्या यादृशं ज्ञानं पूर्वोक्तमवगतं शिष्यबोधार्थं मयासुरस्याभ्रमज्ञा-नोत्पादनार्थं सर्वं प्रागध्यायोक्तं प्रत्यक्षदर्शिवान् प्रत्यक्षं दर्शितवानित्यर्थः॥1-2॥

कथं दर्शितवानिति मयासुरं प्रत्युक्तसूर्य्याशपुरुषवचनस्यानुवादे सूर्य्यांशपुरुषो मयासुरं प्रति गो-लबन्धोद्देशं तदुपक्रमं च श्लोकाभ्यामाह-

भूभगोलस्य रचनां कुर्यादाश्चर्यकारिणीम्।

अभीष्टं पृथिवीगोलं कारयित्वा तु दारवम्॥3॥

दण्डं तन्मध्यगं मेरोरुभयत्र विनिर्गतम्।

आधारकक्षाद्वितयं कक्षा वैषुवती तथा॥4॥

भगोलस्य भूगोलादभितः संस्थितस्य नक्षत्राधिष्ठितगोलस्य प्रागध्यायोक्तार्थस्य रचनां स्थितिज्ञानार्थं दृष्टान्तात्मकगोलस्य निर्मितं सुधीर्गणको गोलशिल्पज्ञः कुर्य्यात्। ननु त्वदुक्तेन सर्वं ज्ञानं भवतीति दृ-ष्टान्तगोलनिबन्धनं व्यर्थमेवेत्यत आह। आश्चर्यकारिणीमिति। उक्त प्रतीत्युद्भूताद्भुतबुद्धिजनयित्रीं तथा चोक्तेन स्वाधस्तिर्य्यग्भागयोर्लोकावस्थानस्य तद्भागस्थभगोलप्रदेशस्य च भूमेर्निराधारत्वादेश्च ज्ञानं मनसि सप्रतीतिकं न भवत्यतो दृष्टान्तगोले तन्निश्चयसम्भवात् तन्निबन्धनमावश्यकमिति भावः।

कथं रचनां कुर्य्यादित्यत आह। अभीष्टमिति। भुवो गोलमभीष्टं स्वेच्छाकल्पितपरिधिप्रमाणकं दा-रवं काष्ठघटितं सच्छिद्रं कारयित्वा काष्ठशिल्पज्ञद्वारा कृत्वेत्यर्थः। मेरोरनुकल्परूपं दण्डकाष्ठं तन्मध्यगं तस्य काष्ठघटितभगोलस्य मध्ये छिद्रमध्ये शिथिलतयास्थितम्। उभयत्र भूगोलस्थव्यासप्रमा-णच्छिद्रस्याग्राभ्यां बहिरित्यर्थः। विनिर्गतमेकाग्रादन्यतरा-ग्रावशिष्टदण्डप्रदेशतुल्यं निःसृतम्।

उभयाग्राभ्यां तुल्यौ दण्डप्रदेशौ यथा स्यातां तथा कुर्य्यादित्यर्थः। भगोलनिबन्धनार्थमाधारवृत्तद्वयमाह। आधारकक्षाद्वितयमिति। भगोलनिबन्धनार्थमादावाश्रयार्थं वृत्तयोर्द्वितयमूर्ध्वाधस्तिर्यगवस्थान-क्रमेणैकमेकमेवं द्वयमित्यर्थः।भूगोलादुभयततत्त्तुल्यान्तरेण दण्डप्रदेशयोः प्रोतमेकं वृत्तं कुर्य्यात्। तत्तुल्यं वृत्तमपरं तदर्द्धच्छेदेन दण्डप्रोतं कुर्य्यादिति सिद्धोऽर्थः। एतदत्तद्वयव्यतिरेकेण भूगोलादभितो भगोलनिबन्धनानुपपत्तेः।

भगोलनिबन्धनाररम्भमाह। कक्षेति। वैषुवतीविषुवतसम्बन्धिनीकक्षावृत्तपरिधिर्विषुवद् वृत्तमित्यर्थः। तथाधारवृत्तद्वयस्यार्द्धच्छेदेनभगोलमध्यवृत्तानुकल्पेन गणकेन निबद्धमित्यर्थः॥3-4॥

मेषादिद्वादशराशीनामहोरात्रवृत्तनिबन्धनम्। गोले मेषादिराशिसन्निवेशः।

अथ मेषादिद्वादशराशीनामहोरात्रवृत्तनिबन्धनमन्यदपि श्लोकपञ्चकेनाह—

भगणांशाङ्गुलैः कार्यादलितास्तस्त्र एव ताः।

स्वाहोरात्रार्धकर्णैश्च् तत्प्रमाणानुमानतः॥5॥

क्रान्तिविक्षेपभागैश्व दलितैर्दक्षिणोत्तरैः।

स्वैः स्वैरपक्रमैस्तिस्रो मेषादीनामपक्रमात्॥6॥

कक्षाःप्रकल्पयेत् ताश्च कर्क्यादीनां विपर्ययात्।

तद्वत् तिस्रस्तुलादीनां मृगादीनां विलोमतः॥7॥

याम्यगोलश्रिताः कार्याः कक्षाधाराद् द्वयोरपि।

याम्योदग् गोलसंस्थानां भानामभिजितस्तथा॥8॥

सप्तर्षीणामगस्त्यस्य ब्रह्मादीनां च कल्पयेत्।

मध्ये वैषुवती कक्षा सर्वेषामेव संस्थिता॥9॥

भगणांशांगुलैः द्वादशराशिभागैः षष्ट्यधिकशतत्रयपरिमितांगुलैःदलितैः समविभागेन खण्डितैः अंकितैरित्यर्थः। ताःकक्षाःवंशशलाकावृत्तात्मिकास्तिसिरः त्रिसंख्याकाः। एवकारादङ्कने वृत्ते च न्यू-नाधिकव्यवच्छेदः। शिल्पज्ञेन गोलगणितज्ञेन कार्य्याः। एताः पूर्ववृत्तप्रमाणेन न कार्य्या इत्यभिप्राये-णाह। स्वाहोरात्रार्द्धकर्णैरिति। स्वशब्देन मेषादित्रिकं तस्य प्रतिराश्यहोरात्रवृत्तस्यार्द्धकर्णो व्यासार्द्धं द्युज्या ताभिरित्यर्थः। चकारात् कार्य्याः। स्वस्वद्युज्यामितेन व्यासार्द्धेनमेषादित्रयाणां वृत्तत्रयं कु-र्य्यादित्यर्थः। ननु स्पष्टाधिकारोक्ताहोरात्रार्द्धकर्णानयने युक्त्यभावात् तैर्वृत्तनिर्माणं कुतः कार्य्यमित्य-त आह। तत्प्रमाणानुमानत इति। विषुवत्कक्षाप्रमाणानुमानाद् वृत्तत्रयं कार्य्यम्। यथा विषुवद् वृत्तं पूर्ववृत्तसमम्। तथा तदनुरोधेन मेषान्तवृत्तमल्पं तदनुरोधेन वृषान्तवृत्तमल्पं तदनुरोधेन मिथुनान्तवृ-त्तमल्पमित्युत्तरोत्तरमल्पव्यासार्द्धवृत्तम्। तत्वहोरात्रवृत्तमिति द्युज्याव्यासार्द्धेन वृत्तनिर्माणं युक्तियु-क्तं सिद्धं क्रान्तिज्यावर्गोनात् त्रिज्या वर्गान्मूलस्याहोरात्रवृत्तव्यासार्द्धत्वादिति भावः। वृत्तत्रयं कृत्वा दृष्टान्तगोले निबघ्नाति। क्रान्तिविक्षेपभागैरिति। क्रान्तिवृत्तस्य विषुवद् वृत्तप्रदेशाद्भक्षिप्तप्रदेशा यैरं-शैः। चकारादाधार वृत्तस्थैर्दलितैः समविभागेन खण्डितैरङ्कितैः। दक्षिणोत्तरैः विषुवद्वृत्तक्रान्तिवृत्त-प्रदेशयोः दक्षिणोत्तरान्तरात्मकैरुक्तलक्षणैःस्वकीयैः स्वराशिसम्बद्धैरपक्रमैः स्पष्टाधिकारानीतक्रान्त्यंशैर्मेषादीनां मेषादिराशित्रयान्तानां मेषान्तवृषान्त मिथुनान्तानाम्इत्यर्थः।

तिस्रस्त्रिसंख्याकाः प्राङ्निर्मितावृत्तरूपाःकक्षाः। अपक्रमात्। अपशब्दस्य उपसर्गत्वात् क्रमादित्यर्थः। प्रकल्पयेत्। शिल्पज्ञगणको विषुवद् वृत्तानुरोधेनाधारवृत्तद्वय उत्तरतो निबन्धयेदित्यर्थः।

कर्कादीनामाह। ता इति। मेषादिकक्षानिबद्धाःकर्कादीनां कर्कसिंहकन्यानामादि प्रदेशानां विप-र्य्ययात् व्यत्यासात्। चकारः समुच्चये। तेन प्रकल्पयेदित्यर्थः। मिथुनान्तवृत्तं कर्कादेर्वृषान्तवृत्तं सिं-हादेर्मेषान्तवृत्तं कन्यादेरिति फलितम्।तुलादीनामाह। तद्वदिति। तुलादीनां तुलावृश्चिकधन्विनां ति-स्त्रः अन्यास्त्रिसंख्याकाः कक्षास्तद्वदेकद्वित्रिराशिक्रान्त्यं शैस्तुलान्तवृश्चिकान्तधनुरन्तानां याम्यगोल-श्रिताः। विषुवद्वृत्ताद् दक्षिणभाग आधारवृत्तद्वये निबद्धाःकार्य्याः गणकेनेति शेषः। मकरादीनामा-ह। मृगादीनामिति। विलोमत उत्क्रमात् तुलादिसम्बद्धाः कक्षा मकरादीनां भवन्ति। धनुरन्तवृत्तं म-करादेवृश्चिकान्तवृत्तं कुम्भादेस्तुलान्तवृत्तं मीनादेरिति फलितम्। ताराणां कक्षानिबन्धनमाह। कक्षा-धारादिति। भानामश्विन्यादिसप्तविंशतिनक्षत्रबिम्बानां याम्योदग्गोलसंस्थानां विषुवद्वृत्ताद् दक्षिणो-त्तरभागयोः यथायोग्यमवस्थितानां यन्नक्षत्रध्रुवकस्पक्रान्तिरुत्तरा तन्नक्षत्राणामुत्तरभागावस्थितानां येषां स्पष्टक्रान्तिर्दक्षिणा तेषां दक्षिणभागावस्थितानामित्यर्थःद्वयोर्दक्षिणोत्तरभागयोः। अपिशब्दो याम्योत्तरनक्षत्रक्रमेण व्यवस्थार्थकः। कक्षाधारात् क्क्षाणामाधारवृत्तद्वयात् तयोरित्यर्थः। सप्तम्यर्थे पञ्च-मी। कक्षाः स्वस्पष्टक्रान्तिज्योत्पन्नद्युज्याव्यासार्द्धप्रमाणेन वृत्ताकाराः प्रकल्पयेत्। शिल्पज्ञो निबन्ध-येत्। अन्येषामप्याह। अभिजित् इति। अभिजिन्नक्षत्रविम्बस्य सप्तर्षिविम्बानामगस्त्यनक्षत्रविम्बस्य ब्रह्मसंज्ञकताराद्युक्तलुब्धकापांवत्सादिनक्षत्रविम्बानां चकारोऽनुसन्धेयः। तथा कक्षा यथायोग्यं प्र-कल्पयेदित्यर्थः। निबन्धनप्रकारमुपसंहरति। मध्य इति। सर्वासामुक्तकक्षाणां मध्ये तुल्यभागेऽनाधा-रवृत्तमध्यप्रदेशे। एवकारादन्ययोगव्यवच्छेदः। वैषुवतीकक्षा विषुवसम्बन्धिनी वृत्तरूपा संस्थिताव-स्थिता भवति। तथा शिल्पज्ञः कक्षां निबन्धयेदित्यर्थः। विषुवदृवृत्तात् स्वस्पष्टक्रान्त्यन्तरेण स्वद्युज्या-व्यासार्द्धप्रमाणेन अहोरात्रवृत्तमाधारवृत्तयोःनिबन्धयेदिति निष्कृष्टोऽर्थः॥5-9॥

अथ गोले मेषादिराशिसन्निवेशं सार्द्धश्लोकेन आह –

तदाधारयुतेरूर्ध्वमयने विषुवद्द्वयम्।

विषुवत्स्थानतो भागैः स्फुटैर्भगणसञ्चरात्।
क्षेत्राण्येवमजादीनां तिर्यग्ज्याभिःप्रकल्पयेत्॥10॥

तदाधारयुतेस्तद्विषुवद्वृत्तमाधारवृत्तं तयोर्युतेःसम्पातादूर्ध्वमुपरि।अन्तिमाहोरात्राधारवृत्तयोः स-म्पातेऽयनेदक्षिणोत्तरायणसन्धिस्थाने भवतः। अत्रोर्ध्वपदसञ्चारादाधारवृत्तमूर्वाधरं ग्राह्यं न तिर्य्यगु-न्मण्डलाकारम्।तेनैतत् फलितम्। विषुवद्वृत्तस्योर्ध्वाधराधारवृत्त ऊर्ध्वमधश्च सम्पातस्तत्रोर्ध्वसम्पा-तान्मकराद्यहोरात्रवृतं चतुर्विंशत्यशैस्तदाधारवृत्ते दक्षिणतो यत्रलग्नं तत्रोत्तरायण सन्धिस्थानम्। एवमधःसम्पातात् कर्काद्यहोरात्रवृत्तं चतुर्विशत्यंशैस्तदाधारवृत्त उत्तरतो यत्र लग्नं तत्र दक्षिणायनसन्धिस्थानमिति। अनाद्विषुवस्य विपरीतस्थितत्वात् उर्ध्वशब्दद्योतितविपरीताधः शब्दसम्बन्धाद्विषुवद्वयं भवति। तात्पर्यार्थस्तु तिर्य्यगुन्मण्डलाकाराधारवृत्तविषुवद्वृत्त-सम्पातौ पूर्वापरौक्रमेण मेषादिलादिरूपौ विषुवत्स्थाने विषुवत् स्थाने भवत इति। अथ राशि साकल्य सन्निवेशमाहI विषुवत्स्थानात् इ-ति। विषुवतप्रदेशात् स्फुटैःराशिसम्बन्धिभिस्त्रिंशन्मितैः अंशैर्भगणसञ्चराद्राशिसाकल्यसन्निवेशात् तिर्य्यग्ज्याभिरुक्तवृत्तानुकारातिरिक्तानुकार सूत्रवृत्तप्रदेशैरजादीनाम् मेषादीनाम् एवमयनविषुर्वक-ल्पनरीत्या तदन्तराले क्षेत्राणि स्थानानि सुधीर्गणकः प्रकल्पयेदङ्कयेत्। तद्यथा पूर्वदिक्स्थविषुवस्था-नात् गोलवृत्तद्वादशांशखण्डप्रदेशेन मेषान्ताहोरात्रवृत्ते पूर्वभागे यत्र स्थानं तत्र म्षान्तस्थानं तस्मात् तदन्तरेण वृषान्ताहोरात्रव्त्ते तदन्तरेण वृषान्तस्थानमस्यादयनसन्धिस्थानं तत्प्रदेशान्तरेण मिथुनान्त-स्थानमस्मात् पश्चिमभागे कर्कान्ताहोरात्रवृत्तेतदन्तरेण कर्कान्तस्थानमस्मादपि सिंहान्ताहोरात्रवृत्ते तदन्तरेण सिद्धान्तस्था नमस्मादपि तदन्तरेण पश्चिमविषुवस्थानं कन्यान्तस्थानमस्मादपि पूर्वभागे तुलान्ताहोरात्रवृत्ते तदन्तरेण तुलान्तस्थानमस्मादपि वृश्चिकान्ताहोरात्रवृत्ते तदन्तरेण मकरान्तस्थान-मस्मादपि तदन्तरेणायनसन्धिस्थानं धनुरन्तस्थानमस्मात् कुम्भाद्यहोरात्रवृत्तेतदन्तरेण मकरान्तस्था-नमस्मादपि मीनाद्यहोरात्रवृत्ते तदन्तरेण कुम्भान्तस्थानं मीनादिस्थानं च। अस्मादपि पूर्वविषुवे मी-नान्तस्थानं मेषादिस्थानं च तदन्तरेण इति व्यक्तम्॥10॥

क्रान्तिकक्षा।

ननु गोले वृत्ते द्वादशराशीनां सत्वादन्यथा चक्रकलानुपपत्तेरित्यत्रैकवृत्ताभावात् कथं राश्यङ्कन रा-शिविभागानुपपत्तिश्च। अन्तरालभागस्याकाशात्मकत्वात् इत्यतोवृत्तकथनच्छलेन पूर्वोक्तं स्पष्टयन् सूर्य्यस्तद्वृत्ते भगणभोगं करोतीत्याह –

अयनादयनं चैव कक्षा तिर्यक् तथाऽपरा।

क्रान्तिसंज्ञा तथा सूर्यः पर्येति भासयन्॥11॥

अयनस्थानमारभ्यपरिवर्तेनतदयनस्थानपर्य्यन्तं चकार आरम्भसमाप्त्योर्भिन्नायनस्थाननिरासार्थ-कः। अपरा गोलेआधारवृत्तसमा वृत्तरूपा कक्षा तथा राश्यङ्कमार्गेण। एवकारोऽन्यमार्गव्यवच्छेदार्थ-कः। तिर्यकूउक्तवृत्तानुकारविलक्षणानुकाराक्रान्तिसंज्ञाक्रमणं क्रान्तिः। ग्रहगमनभोगज्ञानार्थं वृत्तं तत्सज्ञमुपकल्पितम्। अयनविषुवद्वयसंसक्तं क्रान्तिवृत्तं द्वादशराश्यङ्कितं गोले निबन्धयेदिति तात्प-र्य्यार्थः। भासयन् भुवनानि प्रकाशयन् सन् स सूर्य्यः। एतेन चन्द्रादीनां निरासः। सदा निरन्तरं तया क्रान्तिसंज्ञया कक्षया पर्य्येति स्वशक्त्या गच्छन् भगणपरिपूर्तिभोगं करोति। सूर्य्यगत्यनुरोधेन नियतं क्रान्तिवृत्तं कल्पितमिति भावः॥11॥

चन्द्रादिग्रहाणां भ्रमणम्।

ननु चन्द्राद्यज्ञः क्रान्तिवृत्ते कुतो न गच्छन्तीत्यत आह-

चन्द्राद्याः स्वकैः पातैरपमण्डलमाश्रितैः।

ततोऽपकृष्टा दृश्यन्ते विक्षेपान्तेष्वपक्रमात्॥12॥

चन्द्रादयोऽर्कव्यतिरिक्ता ग्रहाः स्वकैः स्वीयैः पातैः पाताख्य दैवतैरपमण्डलं कान्तिवृत्तमार्श्रितेः स्वस्वभोगस्थानाधिष्ठतैस्ततः क्रान्तिवृत्तान्तर्गतग्रहभोगस्थानादित्यर्थः। चकाराद्विक्षेपान्तरेणापकृष्टा दक्षिणत उतरतो वा कर्षिता भवन्ति। अतः कारणादपक्रमात् क्रान्तिवृत्तान्तर्गतस्वभोगस्थानादित्य-र्थः। दक्षिणत उत्तरतो वा विक्षेपान्तेषु गणितागत विक्षेपकलाग्रस्थानेषु भूस्थजनैः दृश्यन्ते। तथाच क्रान्तिः वृत्तं यथा विषुवन्मण्डलेऽवस्थितं तथा क्रान्तिवृत्ते पातस्थाने तत् षड्भान्तरस्थाने च लग्नमुक्त परमविक्षेपकलाभिस्तर्त्रिभान्तरस्थानादूर्ध्वाधःक्रमेण दक्षिणोत्तरतो लग्नं च वृत्तं विक्षेपवृत्तंचन्द्रादि ग-त्यनुरोधेन स्वं स्वं भिन्नं कल्पितं तत्र गच्छन्तीति भावः॥12॥

लग्नमध्यलग्नयोः स्वरूपम।

अथ त्रिप्रश्नाधिकारोक्त्ल्ग्नमध्यलग्नयोः स्वरूपमाह –

उदयक्षितिजे लग्नमस्तं गच्छच्च तद्वशात्।

लङ्कोदयैर्यथासिद्धं खमध्योपरि मध्यमम्॥13॥

उदयक्षितिजे क्षितिजवृत्तस्य पूर्वदिग्देश इत्यर्थः। लग्नं क्रान्तिवृत्तं यत्प्रदेशे प्रवहवायुना संसक्तं त-त्प्रदेशो मेषाद्यवधि भोगेनोदयलग्नमुच्यत इत्यर्थः। प्रसङ्गादस्तलग्नस्वरूपमाह। अस्तमिति। तद्वशा-दुददयलग्ना नुरोधादस्तमस्तक्षितिजं क्षितिजवृत्तस्य पश्चिमदिक् प्रदेशमित्यर्थः। क्रान्तिवृत्तं गच्छत् य-त्प्रदेशेन प्रवहवायुना संल्लग्नं तत्प्रदेशो मेषाद्यवधिभोगेनास्तलग्नमुच्यत इत्यर्थः। तथाच क्षितिजोर्ध्वं सदा क्रान्तिवृत्तस्य सद्भावादुदयास्त लग्नयोःषड्राश्यन्तरं सिद्धं लङ्कोदयैर्निरक्षदेशीयराश्युदयासु-भिः। यथा त्रिप्रश्नाधिकारोक्तप्रकारेण यत्संख्यामितं सिद्धं निष्पन्नम्। मध्यमं मध्यमलग्नं तत् खमध्यो-परि खस्य दृश्याकाश विभागागस्यमध्यं मध्यगतदक्षिणोत्तरसूत्रवृत्तानुकारप्रदेशशरूपं न तु खमध्यं भास्कराचार्य्याभिमतं खस्वस्तिकं तल्लग्नस्य कदाचित्कत्वेन सदानुत्पत्तेः। तस्य उपरिस्थितं क्रान्ति-वृत्तं याम्योत्तरवृत्ते यत्प्रदेशेन लग्नं तत्प्रदेशो मेषाद्यवधिभोगेन मध्यलग्नमुच्यत इति तात्पर्य्यार्थः॥13॥

अन्त्या/चरज्याः।

अथ त्रिप्रश्नाधिकारोक्तान्त्यायाःस्वरूपं स्पष्टाधिकारोक्तचरज्यायाःस्वरूपं च आह—

मध्यक्षितिजयोमोर्मध्ये या ज्या साऽन्त्याऽभिधीयते।

ज्ञेया चरदलज्या च विषुवत्क्षितिजान्तरम्॥14॥

या उत्तरगोले त्रिज्याचरज्या युतिरूपा दक्षिणगोले चरज्योनत्रिज्यारूपा त्रिप्रश्नाधिकारोक्ता। अ-न्त्या सा मध्यं याम्योत्तरवृत्तं क्षितिजं स्वाभिमतदेशक्षितिजवृत्तं तयोर्मध्येऽन्तराले होरात्रवृत्तस्य एकदे-शप्रदेशे ज्या। उदयास्तसूत्रयाम्योत्तरसूत्रसम्पातादहोरात्रयाम्योत्तरवृत्तसम्पातावधि सूत्ररूपा ज्यासू-त्रानुकारा न तु ज्या। अहोरात्रक्षितिजवृत्तसम्पातद्वयबद्धोदयास्तसूत्रस्याहोरात्रवृत्तव्यास-सूत्रत्वाभा-वात्।अतएवोत्तरगोलेऽन्त्या त्रिज्याधिका सङ्गच्छते। अभिधीयते गोलज्ञैः कथ्यते। ननु अन्त्योपजी-व्यचरज्यैव किंस्वरूपा यया तत्सिद्धिरित्यत आह। ज्ञेयेति। उन्मण्डलं च विषुवमण्डलं परिकीर्त्यते।

इति त्रिप्रश्नाधिकारोक्तेन द्वयोः शब्दयोरेकार्थवाचकत्वात् तिर्य्यगाधार वृत्तानुकारं स्थिरं निरक्षक्षि-तिजवृत्तमुन्मण्डलं क्षितिजं स्वाभिमतदेशक्षितिजवृत्तमनयोरन्तरम्। चकारो विशेषार्थकस्तुकारपर-स्तेन तदन्तरालस्थिताहोरात्रवृत्तैक-देशस्यार्धज्यारूपमृजुसूत्रयोरन्तर विशेषात्मकम् तथा च स्वनिर-क्षदेशस्वदेशयोरूध्यास्तसूत्रयोरन्तर मूर्ध्वाधरमिति फलितार्थः। चरदलज्या तदन्तरालस्थिताहोरात्र-वृत्तैकदेशरूपचराख्यखण्डकस्य। न तु दलमर्द्धम्। ज्या चरज्येत्यर्थः। गोलज्ञैर्ज्ञातव्या॥14॥

ननु पूर्वश्लोकद्वयोक्तं क्षितिजस्याज्ञानाद्दुर्बोधमित्यतः श्लोकार्द्धेन क्षितिजस्वरूपमाह—

कृत्वोपरि स्वकं स्थानं मध्ये क्षितिजमण्डलम्॥15॥

भूगोले स्वकं स्वीयं स्थानं भूप्रदेशैकदेशरूपमुपरि सर्वप्रदेशेभ्य ऊर्ध्वं कृत्वा प्रकल्प्य मध्ये तादृ-शभूगोल उर्ध्वाधः खण्डसन्धौ यद्वृत्तं तत्क्षितिजवृत्तं तदनुरोधेन दृष्टान्तगोले क्षितिजवृत्तं स्थिरं संस-क्तं कार्यमिति भावः॥15॥

अथैन दृष्टान्तगोलं सिद्धं कृत्वास्य स्वत एव पश्चिमभ्रमो यथा भवति तथा प्रकारमाह –

वस्त्रच्छन्नं बहिश्चापि लोकालोकेन वेष्टितम्।

अमृतस्रवयोगेन कालभ्रमणसाधनम्॥16॥

बहिः। गोलोपरीत्यर्थः। गोलाकारेण वस्त्रेण छन्नं छादितं दृष्टान्तगोलम्। चकाराद्वस्त्रोपरि तत्तद्वृ-त्तानामङ्कनं कार्य्यम्। लोकालोकेन वेष्टितं दृश्यादृश्यसन्धिस्थवृत्तेन क्षितिजास्येन संसक्तम्। अपि स-मुच्चयो स्तेन क्षितिजं वस्त्रच्छन्नं न कार्य्यं किं तु वस्त्रोपरि क्षितिजं गोलसंसक्तं केनापि प्रकारेण स्थिरं यथा भवति तथा कार्य्यमिति तात्पर्य्यम्। अमृतस्रावयोगेनैतादृशं गोलं कृत्वा जलप्रवाहधोघाते-न कालभ्रमणसाधनं षष्टिनाक्षत्रघटीभिर्दृष्टान्तगोलस्य भ्रमणं यथा भवति तथा साधनं कारणं कार्य्यं स्वयंवहगोलयन्त्रं कार्य्यमित्यर्थः। एतदुक्तं भवति। दृष्टान्तगोलंवस्त्रच्छन्नं कृत्वा तदाधारयष्टयग्रे दक्षि-णोत्तरभित्तिक्षिप्तनलिकयोः क्षेप्ये यथा यष्ट्यग्रं ध्रुवाभिमुखं स्यात्। ततो यष्ट्यग्रर्जुमार्गगतजलप्रवाहे-ण पूर्वाभिमुखेन तस्याधः पश्चाद्भागे घातोऽपि यथा स्यात् तथा स्यादर्शनार्थमेव वस्त्रच्छन्नमुक्तम्। अ-न्यथा गोलवृत्तान्तरवकाशमार्गेण जलाघात दर्शनभ्रमेण चमत्कारानुत्पत्तेः। आकाशाकारता सम्पाद-नार्थमपि वस्त्रच्छन्नमुक्तम्। इदं वस्त्रामार्द्रंयथा न भवति तथा चिक्कणवस्तुना मदनादिना लिप्तं कार्य्यम्। क्षितिजवृत्ताकारेणाधो गोलो दृश्यो यथा स्यात् तथा परिखारूपा भित्तिः कार्य्यपरन्तु दक्षि-णयष्टिभागस्तत्र शिथिलो यथा भवति। अन्यथा भ्रमणानुपपत्तेः पूर्वदिक्स्थपरिखाविभागादूर्तहर्जलप्र-वाहोडदृश्यः कार्य इति स्वबुद्ध्यैव ज्ञेयमिति। इत्यादि स्वबुध्यैव ज्ञेयमिति॥16॥

अथ यदि जलप्रवाहस्तत्र न सम्भवति तदा कथं स्वयंवहोदृष्टान्तगोलो भवतीत्यतस्तत्स्व यं वहार्थ मुक्तं च गोप्यं कार्य इत्याह-

तुङ्गबीजसमायुक्तं गोलयन्त्रं प्रसाधयेत्।
ग्ज्ञैप्यमेतत् प्रकाशोक्तं सर्वगम्यं भवेदिह ॥17॥

दृष्टान्तगोलरूपं यन्त्रं तुङ्गवीजसमायुक्तं तुङ्गो महादेवस्तस्य बीजं वीर्य्यंपारद इत्यर्थः। तेन योजि-तं सत् प्रसाधयेत्। गणकः शिल्पज्ञः। प्रकर्षेण यथा नाक्षत्रषष्टिघटीभिर्गौलभ्रमस्तथा पारदप्रयोगेण सिद्धं कुर्य्यादित्यर्थः।

एतदुक्तं भवति। निबद्धगोलबहिर्भूतयष्टिप्रान्तयोर्यथेच्छया स्थानद्वये स्थानत्रये वा नेमिं परिधिरू-पामुत्कीर्य्य तां तालपत्रादिना चिक्कणवस्तुलेपेनाच्छाद्य तत्र छिद्रं कृत्वा तन्मार्गेण पारदोऽर्द्धपरिधौ पूर्णो देय इतरार्द्धपरिधौ जलं च देयं ततो मुद्रितच्छिद्रं कृत्वा यष्ट्यग्रे भित्तिस्थनलिकयोः क्षेप्ये यथा गोलाऽन्तरिक्षोभवति। ततः पारदजलाकर्षितयष्टिःस्वयं भ्रमति। तदाश्रितो गोलश्च। एतत्पक्षे वस्त्र-च्छन्नमाकाशाकारतासम्पादनार्थमेव चेत् क्रियत इति। ननु इय स्वयंवहक्रिया व्यक्ता नोक्तेत्यत आ-ह। गोप्यमिति। एतत् स्वयंवहकरणं गोप्यमप्रकाश्यं कुत इत्यत आह। प्रकाशेक्तमिति। अतिव्य-क्ततयोक्तं स्वयंवहकरणमिह भूलोके सर्वगम्यं सर्वजनगम्यं भवेत्। तथा च सर्वज्ञेये वस्तुनि चम-त्कारानुत्पत्तेश्चमत्कृत्यर्थं सर्वत्र न प्रकाश्यमित्याशयेन तत्करणं व्यक्तं नोक्तमिति भावः॥17॥

ननु त्वया गोप्यत्वेनोक्तं मयाकथमवगन्तव्यंमादृशैरन्यैश्चकथमवगन्तव्यमित्यतः सार्द्धश्लोकेन आह –

तस्माद् गुरूपदेशेन रचयेद् गोलमुत्तमम्।

युगे युगे समुच्छिन्ना रचनेयं विवस्वतः॥
प्रसादात् कस्यचिद् भूयः प्रादुर्भवति कामतः॥18॥

तस्मात् स्वयंवहकरणस्य गोप्यत्वात् गुरुपदेशेन परम्परा प्राप्तगुरोर्निर्व्यजकथनेन गोलं दृष्टाष्टान्त-गोलमुत्तमं स्वयंवहात्मकं गणकः कुर्य्यात्। तथाच मया तुभ्यमुक्ता ग्रन्थे गोप्यत्वेनातिव्यक्ता नोक्ते-तिभावः। अन्यैः कथं ज्ञेयमिदमित्यत आह। युग इत्यादि। विवस्वतः सूर्यमण्डलाधिष्ठातुर्जीवविशेष-स्येयं स्वयंवहरूपा रचना क्रिया युगे युगे बहुकाल इत्यर्थः। समुच्छिन्ना लोके लुप्ता कस्यचित् मादृ-शस्य प्रसादादनुग्रहाद्भूयः वारंवारमिच्छया प्रादुर्भवतिव्यक्ता भवतीत्यर्थः। तथाच यथा मत्तस्त्वया-वगतंतथान्यस्मान्मादृशादन्यैरवगन्तव्यंकालस्य निरवधित्वात्सृष्टेरनादित्वाच्चेतिभावः॥18॥

अथोक्तस्वयंवहक्रियारीत्या स्वयंवहगोलातिरिक्तान्यस्वयंवहयन्त्राणि कालज्ञानार्थंसाध्यानि तत्सा-धनं रहसि कार्य्यमिति च आह-

कालसंसाधनार्थाय तथा यन्त्राणि साधयेत्।
एकाकी योजयेद् बीजं यन्त्रे विस्मयकारिणि॥19॥

तथा यथा स्वयंवहगोलयन्त्रं साधितं तद्वदित्यर्थः। कालसंसाधनार्थाय कालस्य दिनगतादेः सूक्ष्मज्ञा-ननिमित्तं यन्त्राणि स्वयंवहगोलातिरिक्तानि स्वयंवहयन्त्राणि साधयेत्। गणकः शिल्पादिस्वकौशल्ये-न कारयेत्। यन्त्रे कालसाधके विस्मयकारिणि स्वयंवहरूपतया लोकानामुत्पन्नाश्चर्य्यस्य कारणभूते बीजं स्वयंवहतासम्पादकं कारणमेकाकीएकव्यक्तिकोऽद्वितीयः सन् योजयेत्। शिल्पज्ञतया स्वय-मेव निष्पादयेदित्यर्थः। अन्यथा द्वितीयस्य तज्ज्ञानेन तन्मुखात् तद्यन्त्रहार्दस्य लोकश्रवणगोचरतायां कदाचित् सम्भावितायां विस्मयानुत्पत्तेः॥19॥

अथैषां स्वयंवहयन्त्राणां दुर्घटत्वाच्छङ्क्वादियन्त्रैः कालज्ञानं ज्ञेयमित्याह –

शङ्कुयष्टिधनुश्चक्रैश्छायायन्त्रैरनेकधा।
गुरुपदेशाद् विज्ञेयं कालज्ञानमतन्द्रितैः॥20॥

शङ्कुयष्टिधनुश्चक्रैः प्रसिद्धैश्छायायन्त्रैश्छायासाधकयन्त्रैरनेकधा नानाविधगणितप्रकारैर्गुरुपदे-शात् स्वाध्यापकस्य निर्व्याजकथनादतन्द्रितैरभ्रमैः पुरुषैःकालज्ञानं दिनगतादिज्ञानं विज्ञेयं सूक्ष्मत्वे-नावगम्यम्। एतत् सर्वं सिद्धान्तशिरोमणौ भास्कराचार्य्यैः स्पष्टीकृतम्। तत्र शंकुस्वरूपम्। समतल-मस्तकपरिधिर्भ्रमसिद्धो दन्तिदन्तजः शंकुः। तच्छायातः प्रोक्तं ज्ञानं दिग्देशकालानाम्॥ इति। यष्टि-यन्त्रं च।
त्रिज्याविष्कम्भार्द्धं वृत्तं कृत्वा दिगड्कितं तत्र। दत्वाग्रां प्राक् पश्चात् द्युज्यावृत्तं च तन्मध्ये॥ तत् परिधौ षष्टयङ्कं यष्टिर्नष्टद्युतिस्ततः केन्द्रे। त्रिज्याङ्गुला निधेया यष्ट्यग्राग्रान्तरं यावत्। तावत्या मौ-र्व्या यद्द्वितीयवृत्ते धनुर्भवेत् तत्र। दिनगतशेषा नाड्यः प्राक् पश्चात् स्युः क्रमेणैवम्॥ इति। चक्रयन्त्रं तु। चक्रं चक्रांशाङ्कं परिधौ श्लथश्रृंखलादिकाधारम्। धात्री त्रिभ आधारात् कल्प्या भार्द्धेऽत्र भार्द्धं च॥ तन्मध्ये सूक्ष्माक्षं क्षिप्त्वार्काभिमुखनेमिकं धार्य्यम्। भूमेरुन्नतभागास्तत्राक्षच्छायया भुक्ताः॥ त-त्खार्द्धान्तश्च नता उन्नतलवसंगुणं द्युदलम्। द्युदलोन्नतांशभक्तं नाड्यः स्थूलाः परैः प्रोक्ताः॥ इति। धनुर्यन्त्रं तु। दलीकृतं चक्रमुशन्ति चापम्। इति। अथ ग्रन्थविस्तरभयादेतेषां निरूपणविस्तरो गणि-तादिविचारश्चोपेक्षित इति मन्तव्यम्॥20॥

अथ घटीयन्त्रादिभिश्चमत्कारियन्त्रैर्वा सर्वोपजीव्यं कालं सूक्ष्मं साधयेदिति कालसाधनमुपसंहरति-

तोययन्त्रकपालाद्यैर्मयूरनरवानरैः।
ससूत्ररेणुगर्भैश्च सम्यक्कालं प्रसाधयेत्॥21॥

जलयन्त्रं च तत् कपालं च कपालाख्यं जलयन्त्रं वक्ष्यमाणं तदाद्यं प्रथमं येषां तैर्यन्त्रैर्बालुकायन्त्रप्र-भुतिभिः सापेक्षघटीयन्त्रैर्मयूरनरवानरैः। मयूराख्यं स्वयंवहयन्त्रं निरपेक्षं नरयन्त्रं शङ्क्वाख्यं छाया-यन्त्रं पूर्वोदिदष्टं वानरयन्त्रंस्वयंवहं निरपेक्षमेतैः ससूत्ररेणुगर्भैःसूत्रसहिता रेणवो धूलयो गर्भे मध्ये येषां तैः सूत्रप्रोताः षष्टिसंख्याका मृद्घधिका मयूरोदरस्थान मुखाद् घटिकान्तरेण स्वत एव निःसर-न्तीति लोकप्रसिद्ध्या तादृशैर्यन्त्रैरित्यर्थः। यद्वा सूत्राकारेण रेणवः सिकतांशा गर्भे उदरे यस्य एतादृ-शं यन्त्रंबालुकायन्त्रं प्रसिद्धम्। तेन सहितैर्मयूरादियन्त्रैर्मयूराद्युक्तयन्त्रैर्बालुकायन्त्रेण च इति सि-द्धोऽर्थः। चकारस्तोय यन्त्रकपालाद्यैरित्यनेन समुच्चयार्थकः। कालं दिनगतादिरूपं सम्यक् सूक्ष्मं प्रसाधयेत्। प्रकर्षेण सूक्ष्मत्वेनातिसूक्ष्मत्वेन इत्यर्थः।जानीयादित्यर्थः॥21॥

ननु मयूरादिस्वयंवहयन्त्राणि कथं साध्यानीत्यतस्तत्साधनप्रकारो बहवो दुर्गमाश्च सन्तीत्याह –

पारदाराम्बुसूत्राणि शुल्वतैलजलानि च।

बीजानि पासवस्तेषु प्रयोगास्तेऽपि दुर्लभाः॥22॥

तेषु मयूरादियन्त्रेषु स्वयंवहार्थमेते प्रयोगाः प्रकर्षेण योज्याः। प्रकर्षस्तु यावदभिमतसिद्धेः। एते क इत्यत आह। पारदाराम्बुसूत्राणीति। पारदयुक्ता आराः। यथा च सिद्धान्तशिरोमणौ। लघुकाष्टजस-मचक्रे समसुषिराराः समान्तरा नेम्याम्। किञ्चिद्वक्रायोज्या सुषिरस्यार्द्धे पृथक् तासाम्॥ रसपूर्णे त-च्चक्रं द्वयाधाराक्षस्थितं स्वयं भ्रमति। इति। अम्बु जलस्य प्रयोगः। सूचाणि सूत्रसाधनप्रयोगः। शुल्वं शिल्पनैपुण्यम्। तैलजलानितैलयुक्तजलस्य प्रयोगः। चकारात् तयोः पृथक् प्रयोगोऽपि। यथा च सि-द्धान्तशिरोमणौ। उत्कीर्य्य नेमिमथवा परितो मदनेन संलग्नम्। तदुपरि तालदलाद्यं कृत्वा सुषिरे रसं क्षिपेत् तावत्॥ यावद्रसैकपार्श्वे क्षिप्तजलं नान्यतो याति। पिहितच्छिद्रं तदतश्चक्रं भ्रमति स्वयं जला-कृष्टम्। ताम्रादिमयस्याङ्कुशरूपनलस्याम्बुपूर्णस्य। कुण्डजलान्तर्द्वितीयमग्रं त्वधोमुखं च बहिः॥ युगपन्मुक्तं चेत् कं नलेन कुण्डाद्वहिः पतति। नेम्यां बध्वा घटिकाश्चक्रं जलयन्त्रवत् तथा धार्य्यम्॥ नलकप्रच्युतसलिलं पतति यथा तद्घटीमध्ये \। भ्रमति ततस्तत् सततं पूर्णघटीभिः समाकृष्णम्॥ च-क्रच्युतं स्वमुदकं कुण्डे याति प्रणालिकया। इति। बीजानि केवलं तुङ्गबीजप्रयोगः। पांसवो धूलिप्र-योगास्तैर्युक्ताः प्रयोगाः। अपिशब्दात् प्रयोगेषु सुगमतरा इत्यर्थः। दुर्लभाः साधारणत्वेन मनुष्यैः क-र्त्तुमशक्या इत्यर्थः। अन्यथा प्रतिगृहं स्वयंवहानां प्राचुर्य्यापत्तेः इयं स्वयंवहविद्या समुद्रान्तर्निवासिज-नैः फिरङ्ग्याख्यैः सम्यगभ्यस्तेति। कुहकविद्यात्वादत्र विस्तारानुद्योग इति संक्षेपः॥22॥

कपालयन्त्रम्।
अथ कपालाख्यं जलयन्त्रमाहं-

ताम्रपात्रमधश्छिद्रं न्यस्तं कुण्डेऽमलाम्भसि।
षष्टिर्मज्जत्यहोरात्रे स्फुटंयन्त्रं कपालकम्॥23॥

यत् ताम्रघटितं पात्रमधश्छिद्रम् अधोभागे छिद्रं यस्य तत्। अमलाम्भसि निर्मलं जलं विद्यते य-स्मिन् तादृशे कुण्डे बृहद्भाण्डे न्यस्तं धारितं सदहोरात्रे षष्टिः षष्टिवारमेव न न्यूनाधिकं मज्जति। अ-धश्छिद्रमार्गेण जलागमनेन जलपूर्णतया निमग्नं भवति। तत् कपालकं कपालमेव कपालकं घटख-ण्डानां कपालपदवाच्यत्वात् घटाधस्तनार्द्धाकारं यन्त्रं घटीयन्त्रं स्फुटंसूक्ष्मम्। तद्घनं तु। शुल्वस्य दिग्भिर्विहितं पलैर्यत् षडंगुलोच्चंद्विगुणायतास्यम्। तदम्भसा षष्टिपलैः प्रयूर्य्य पात्र घटार्द्धप्रतिमं घटीस्यात्॥ सत्र्यंशमाषत्रयनिर्मिता या हेम्नः शलाका चतुरङ्गुला स्यात्। विद्धं तया प्राक्तनमत्रपात्रं प्रयूर्य्यते नाडिकयाम्बुभिस्तत्॥ इति व्यक्तम्। भगवता तु सूक्ष्ममुक्तम्॥23॥

शंकुयन्त्रम्।
अथ शंकुयन्त्रं दिवैव कालज्ञानार्थं नान्यदेत्याह –

नरयन्त्रं तथा साधु दिवा च विमले रवौ।
छायासंसाधनैः प्रौक्तं कालसाधनमुत्तमम्॥24॥

विमले मेघादिव्यवधानरूपमलेन रहिते सूर्य्य एतद्रूपे दिने। चकार एवकारार्थस्तेन साभ्रदिनव्यव-च्छेदः। नरयंत्रं द्वादशाङ्गुलशङ्कुयन्त्रं तथा घटीयन्त्रवत् कालसाधकं साधु सूक्ष्मं रात्रौ नेत्यर्थसि-द्धम्। ननु शङ्कोश्छायासाधकत्वं न कालसाधकत्वं तेन तस्य कथं यन्त्रत्वं कालसाधकवस्तुनो यन्त्र-त्वप्रतिपादनादित्यत आह। छायासंसाधनैरिति। इदं शंकुरूपनरयन्त्रं छायायाःसम्यक् सूक्ष्मत्वेन साधनैरवगमैः कृत्वा कालसाधनं दिनगतादिकालस्य कारणमुन्तमम्। अन्य यन्त्रेभ्योऽस्मान्निरन्तरत-यातिश्रेष्ठम्। तथाच छायासाधकत्वेनैव छायाद्वारा शङ्कोः कालसाधकत्वमिति न यन्त्रत्वव्याघातः। अतएव साभ्रदिने रात्रौ चानुपयुक्तः। नरस्य छाया यन्त्रोपलक्षणत्वात् यष्टिधनुश्चक्राण्यपि तथेति ध्ये-यम्॥24॥

अथादित एतदन्तग्रन्थज्ञानस्यैकफलकथनेन विभक्तमपि खण्डद्वयं क्रोडयति

ग्रहनक्षत्रचरितं ज्ञात्वा गोलं च तत्त्वतः।
ग्रहलोकमवाप्नोति पर्यायेणात्मयान् नरः॥25॥

ग्रहनक्षत्राणां चरितं गणितविषयकं ज्ञानं ग्रन्थपूर्वखण्डरूपं गोलं भूगोलभगोलस्वरूपप्रतिपादक-ग्रन्थं ग्रन्थोत्तरार्द्धान्तर्गतम्। चकारः समुच्चये। तत्त्वतः वस्तुस्थितिसदभावेन सार्वविभक्तिकस्तसिरि-त्येके। ज्ञात्वावगम्य नरः पुरुषः। ग्रहलोकं चन्द्रादिग्रहाणां लोकं तल्लोकाधिष्ठितस्थानं ग्रहोपलक्षणान् नक्षत्राधिष्ठितस्थानमपि इति ध्येयम्। प्राप्नोति। ननु ग्रहालोकप्राप्त्या कः पुरुषार्थ इत्यतो मोक्षरूपं पु-रुषार्थफलमाह। पर्य्यायेणेति। जन्मान्तरेण पुरुष आत्मवानात्मज्ञानी भवति। तथाच आत्मज्ञानान् मो-क्षप्राप्तिरेवेति भावः॥25॥

अथ अग्रिमग्रन्थस्य असङ्गतिपरिहारायारब्धाध्यायसमाप्तिं फक्किकया आह। इति। यथा वेदे आत्मस्वरूपनिरूपणान्नारायणोपनिषदुच्यते। तथा ज्योतिः शास्त्रे प्रतिपादितानां ग्रहनक्षत्राणामेतद्ग्र-न्थैकदेशे स्वरूपादिनिरूपणाज्ज्योतिः शास्त्रसारं ज्योतिषोपनिषदुच्यते। तत्संज्ञोऽध्यायो ग्रन्थैकदेशः सम्पूर्ण इत्यर्थः।

रङ्गनाथेन रचिते सूर्य्यसिद्धान्तटिप्पणे। ज्योतिषोपनिषत्संज्ञोऽध्यायः पूर्णोपरार्द्धके॥

इति श्रीसकलगणकसार्वभौमबल्लालदैवज्ञात्मजरङ्गनाथगणकविरचिते गूढार्थप्रकाशके उत्तर-खण्डे ज्योतिषोपनिषदध्यायः पूर्णः॥

मानाध्यायः- 14

नवमानानि।
अथ मानानि कति किञ्च तैरित्यवशिष्टप्रश्नस्योत्तरभूत आरब्धमानाध्यायो व्याख्यायते। तत्र प्रथमं मानानि कतीति प्रथमप्रश्नस्योत्तरमाह—

ब्राह्मं दिव्यं तथा पित्र्यं प्राजापत्यं च गौरवम्।
सौरञ्च सावनं चान्द्रमार्क्षंमानानि वै नव॥1॥

वै निश्चयैन। नवसंख्याकानि कालमानानि। तत्र प्रथमं ब्राह्ममानम्। कल्पो ब्राह्ममहः प्रोक्तम्। इ-त्यादि। परमायुः शतं तस्य तयाहोरात्रसंख्यया। इत्यन्तं मध्यमाधिकारे प्रतिपादितम्। द्वितीयं दिव्यं देवमानम्। दिव्यं तदह उच्यते। इत्यादि। तत्षष्टिः षड्गुणादिव्यं इत्यन्तं तत्रैव प्रतिपादितम्। तथा तृतीयं मानं पित्र्यं पितृणां मानं वक्ष्यमाणम्। प्राजापत्यं मानं वक्ष्यमाणं चतुर्थम्। बृहस्पतेस्तथा मानं पञ्चमं समुद्रीटितम्। सौरं चकारात् षष्ठं मानम्। सावनं सप्तमं मानम्। चान्द्रमानमष्टमम्। नाक्षत्रं मानं नवमम्। एतन्यपि तत्रैवोक्तानि॥1॥

अथ किञ्चित्तैरिति तैरिति द्वितीयप्रश्नस्योत्तरं विवक्षुः प्रथमं व्यवहारोपयुक्तमानानिदर्शयति –

चतुर्भिर्व्यवहारोऽत्र सौरचान्द्रार्क्षसावनैः।
बार्हस्प्त्येन षष्ट्यब्दं ज्ञेयं नान्यैस्तु नित्यशः॥2॥

अत्र मनुष्यलोके सौरचान्द्रनाक्षत्रसावनैश्चतुर्भिर्मानैर्व्यवहारः कर्मघटना। षष्ट्‌यब्दं प्रभवादिषष्टिवर्षं जात्यभिप्रायेणैकवचनम्। बार्हस्पत्येनबृहस्पतिमा।बृहस्पतिमध्यमराशिभोगात्मककालेन प्रत्येकं ज्ञेयम्।अन्यैरवशिष्टैर्बाह्मदिव्यपित्र्यप्राजापत्यैः। नित्यशः सदेत्यर्थः। व्यवहारो नास्ति। तुकारात् का-दाचित्कत्वेन तैर्व्यवहारः॥2॥

सौरमानस्य।

अथ सौरेण व्यवहारं प्रदर्शयति –

सौरेण द्युनिशोर्मानं षडशीतिमुखानि च।
अयनं विषुवच्चैवं संक्रान्तेः पुण्यकालता ॥3॥

अहोरात्र्योर्मानं सौरेण ज्ञेयम्। प्रात्यहिकसूर्य्यगतिभोगादहोरात्रं भवतीत्यर्थः। षडशीतिमुखानि व-क्ष्यमाणानि चः समुच्चये। तेन सौरमानेन ज्ञेयानि। अयनं विषुवत्। चः समुच्चये। संक्रान्तेः पुण्यका-लता सूर्य्यविम्बकलासम्बद्धा सौरमानेन॥3॥

संक्रान्तिविचारः।

अथ षडशीतिमुखमाह –

तुलादिषडशीत्यह्नां षडशीतिमुखं क्रमात्।

तच्चतुष्टयमेव स्यात् द्विस्वभावेषु राशिषु॥4॥

तुलारम्भात् षडशीतिदिवसानां सौराणां षडशीतिमुखं भवति। तच्चतुष्टयं षडशीतिमुखस्य चतुःसं-ख्या द्विस्बभावेषु राशिषु चतुर्षु क्रमादेवं वक्ष्यमाणा भवति॥4॥

तदेवाह -

षड्विंशे धनुषो भागे, द्वाविंशऽनिमिषस्य च।
मिथुनाष्टादशे भागे कन्यायास्तु चतुर्दशे॥5॥

धनूराशेःषड्विंशतितमेऽशे षडशीतिमुखं मीनराशेर्द्वाविंशतितमेऽशे षडशीतिमुखम्। चकारः समुच्चयार्थकः प्रत्येकमन्वेति। मिथुनराशेरष्टादशेंऽशे षडशीतिमुखं कन्यायाश्चतुर्दशे भागे षडशीति-मुखम्। अतएव तुलादितः षडशीत्यंशो गणनया येषु राशिषु भवति ते राशयो द्विस्वभावाः षडशीति-मुखसंज्ञाःसंक्रान्तिप्रकरणे सांहितिकैरुक्ताः॥5॥

अथ षडशीत्यंशगणनया चत्वारि षडशीतिमुखान्युक्त्वा भगणांशपूर्त्यर्थमवशिष्टांशाः षोडशातिपु-ण्या इत्याह –

ततः शेषाणि कन्याया यान्यहानि तु षोडशं।
क्रतुभिस्तानि तुल्यानि पितृणां दत्तमक्षयम्॥6॥

ततः कन्यादिचतुर्दशभागानन्तरं शेषाणि भगणभागेऽवशिष्टानि कन्याया यान्यहानि सौरभागसमा-नि षोडश तानि। तुकारात् पूर्वदिनासमानि क्रतुभिर्यज्ञैः समानि। अतिपुण्यानीत्यर्थः। तत्र पितृणां द-त्तं श्राद्धादिकृतमक्षयमनन्तफलदं भवति॥6॥

अथ राश्यधिष्ठितक्रान्तिवृत्ते चत्वारि स्थानानि पदसन्धिस्थाने विषुवायनाभ्यां प्रसिद्धानीत्या –

भचक्रनाभौ विषुवद्द्वितयं समसूत्रगम्।
अयनद्वितयं चैव चतः प्रथितास्तु ताः॥7॥

भचक्रनाभौ भगोलस्य ध्रुवद्वयाभ्यां तुल्यान्तरेण मध्यभागे विषुवदि्द्वतीयं विषुवद्द्वयं समसूत्रगं प-रस्परं व्यास-सूत्रान्तरितं ध्रुवमध्ये विषुवद्वृत्तावस्थानात् तद्वृत्ते क्रान्तिवृत्तभागौ यौ लग्नौ तौ क्रमेण पूर्वापरौ विषुवत्संज्ञौ मेषतुलाख्यौ चेत्यर्थः। अयनद्वितयमयनद्वयं कर्कमकरादिरूपम्। चः समुच्चये। तेन समसूत्रगंता विषुवायनाख्याः क्रान्तिवृत्तप्रदेशरूपा भूमयश्चतस्रश्चतुः संख्याकाः प्रथिता गणितादौ पदादित्वेन प्रसिद्धाः। एवकारदन्यराशीनां निरासः। तुकारात् तासां समसूत्रस्थत्वेऽपि विषुवायनत्वा-भावात् पदादित्वेनाप्रसिद्धिरित्यर्थः॥7॥


अथ अवशिष्टनामादिस्वरूपमन्यदप्याह –

तदन्तरेषु संक्रान्तिद्वितयं पुनः।
नैरन्तर्यात् तु संक्रान्तेर्ज्ञेयं विष्णुपदीद्वयम्॥8॥

तदन्तरेषु विषुवायनान्तरालेषु। अत्रान्तरालानां चतुः स्थाने सद्भावाद्बहुवचनम्। संक्रान्तिद्वितयं पु-नः राश्यादिभागे ग्रहाणामाक्रमणं वारद्वयं भवति तदन्तराले राश्यादिभागौ द्वौ भवत इत्यर्थः।यथा हि मेषाख्यविषुवकर्काख्यायनयोरन्तराले वृषमिथुनयोरादी। कर्कतुलयोरन्तराले सिंहकन्योरादी। तु-लामकरयोरन्तरालेवृश्चिकधनुषोरादी मकरमेषयोरन्तराले कुम्भमीनयोरादी इति। एवं विषुवानन्तरं संक्रमणद्वयमनन्तरमयनं तदनन्तरं संक्रान्तिद्वयं तदनन्तरं विषुवमनन्तरं संक्रान्तिद्वयमनन्तरमयन-मित्यादि पौनः पुन्येन ज्ञेयमित्यर्थः। संक्रान्तिद्वयमध्ये प्रथमसंक्रान्तौ विशेषमाह। नैरन्तर्य्यादिति। नि-रन्तरतया सम्भूतायाः संक्रान्तेः सकाशाद्विष्णुपदीद्वयं तदन्तराल इति त्वर्थः। अवगम्यं प्रथमसंक्रा-न्तिर्विष्णुपदसंज्ञा तयोद्वयं तदभ्यन्तरे प्रत्येकं भवतीति तात्पर्य्यार्थः। षडशीतिसंज्ञं द्वितीयसंक्रमणं पू-र्वसूचितं तयोरपि द्वयं तदन्तराले भवतीति ध्येयम्॥8॥

अयनम्।

अथ आयन द्वयमाह –

भानोर्मकरसंस्ङ्क्रान्तेः षण्मासा उत्तरायणम्।
कर्क्कादिस्तु तथैव स्यात् षण्मासा दक्षिणायनम्॥9॥

सूर्य्यस्य मकरसंक्रान्तेः सकाशात् षट्सौरमासा उत्तरायणं भवति। कर्कादेःकर्कसंक्रान्तेः सका-शात् तथा सूर्य्यभोगात्। एवकारादन्यग्रहनिरासः। षण्मासाः। तुकारात् सौराः। दक्षिणायनं भवति॥9॥

ऋतुमासवर्षाणि।

अथर्त्तुमासवर्षाण्याह —

द्विराशिनाथा ऋतवस्ततोऽपि शिशिरादयः।
मेषादयो द्वादशैते मासास्तैरेव वत्सरः। ॥10॥

ततो**मकरसंक्रान्तेः सकाशात्। अपिशब्द उत्तरायणाधिना समुच्चयार्थकः। द्विराशिनाथा राशिद्व-यस्वामिका राशिद्वयार्कभोगात्मका इत्यर्थः। शिशिरादयःशिशिरवसन्तग्रीष्मवर्षाशरद्धेमन्ताऋतवः कालविभागविशेषा भवन्ति। एतेसूर्य्यभोगविषयकामेषादयोराशयोद्वादशमासास्तैर्द्वादशभिर्मासैः।
एवकारान्यूनाधिकव्यवच्छेदः। वत्सरः सौरवर्षं भवति॥10॥

पुण्यकालः।

अथ प्रसड्गात् संक्रान्तौ पुण्यकालानयनमाह –

अर्कमानकलाः षष्ट्या गुणिता भुक्तिभाजिताः।

तदर्धनाड्यः संक्रान्तेरर्वाक् पुण्यं तथा परे॥11॥

सूर्य्यस्य विम्बप्रमाणकलाः। षष्ट्या गुणिताः सूर्य्यगत्या भक्तास्तस्य फल्स्यार्द्धं तत्संख्याका घटि-का इत्यथः। संक्रान्तेः सूर्य्यस्य राशिप्रवेशकालादित्यर्थः। अर्वाक् पूर्वं पुण्यं स्नानदिधर्मकृते पुण्य-घटिकाः पुण्यवृद्धिकारिकाः। अपरे संक्रान्त्युत्तरकाले तथा स्नानादिधर्मकृत्ये पुण्यवृद्धिदा इत्यर्थः। अत्रोपपत्तिः। सूर्य्यविम्बकेन्द्रस्य राश्यादौ सञ्चरणकालः संक्रमणकालस्तस्य सूक्ष्मत्वेन दुर्ज्ञेयत्वात् स्थूलकालः कोऽप्यभ्युपेयः स तु राश्यादौ विम्बसञ्चरणरूपोङ्गींकृतो विम्बसम्बन्धात्। अतः सूर्य्यग-त्या षष्टिसावनघटिकास्तदा सूर्य्यविम्बकलाभिः का इत्यनुपातानीता विम्बघटिकाः संक्रान्तिका-लःस्थूलः प्रङ्नेमिसञ्चरणकालात् पश्चिमनेमिसञ्चरणकालर्य्यन्तं तदर्द्धघटिकाव्यासार्द्धघटिका इति संक्रान्तकालात् ताभिः पूर्वमपरत्र काले प्रागपरनेम्योः क्रमेण सञ्चरणात् पूर्वोत्तरकाले पुण्या इति॥11॥

चान्द्रमानम्।

अथ सौरमुक्त्वा क्रमप्राप्तं चान्द्रमानमाह—

अर्काद् विनिस्सृतः प्राचीं यद्यात्यहरहः शशी।

तच्चान्द्रमानमंशैस्तु ज्ञेया द्वादशभिस्तिथिः॥12॥

सूर्य्यात् समागमं त्यक्त्वा विनिर्गतः पृथग्भूतः संश्चन्द्रोऽहरहः प्रतिदिनं यत् यत्संख्यामितं प्राचीं पूर्वा दिशं गच्छति तत् प्रतिदिने चान्द्रमानं तत्तु गत्यन्तरांशमितम्। ननु सौरदिनं सूर्यांशेन यथा भवति त-थैतद्रूपैर्भागैः कियद्भिः पूर्णं चान्द्रं दिनं भवतीत्यत आह। अंशैरिति।भागैस्तुकारात् सूर्य्यचन्द्रान्तरो-त्पन्नैः तस्य तद्रूपत्वात्। द्वादशभिर्द्वादशसंख्याकैस्तिथिर्ज्ञेया। एकं चान्द्रदिनं ज्ञेयमित्यर्थः। एतदुक्तं भवति। सूर्य्यचन्द्रयोगाच्चान्द्रदिनप्रवृत्तेः पुनर्योगे माससमाप्तेर्भगणान्तरेण चान्द्रो मासस्त्रिंशच्चान्द्र-दिनात्मकः। अतस्त्रिशद्दिनैर्भगणांशान्तरं तदैकेन किमिति। द्वादशभागैरैकं चान्द्रदिनम्। दर्शः सू-र्य्येन्दुसङ्गमः। इत्यभिधानाद्दर्शावधिकमासस्य स्त्रिंशत्तिथ्यात्मकत्वात् तिथिश्चान्द्रदिनरूपेति॥12॥

चान्द्रमानस्य व्यवहारः।

अथ चान्द्रव्यवहारमाह –

तिथिः करणमुद्धाहः क्षौरं सर्वक्रियास्तथा।
व्रतोपवासयात्राणां क्रिया चान्द्रेण गृह्यते॥13॥

तिथिःप्रतिपदाद्या करणं बवादिकमुद्वाहो विवाहः क्षौरं चौलकर्म। एतदाद्याःसर्वक्रिया व्रतबन्धा-द्युत्सवरुपा व्रतोपवासयात्राणां नियमोपवास गमनानां क्रिया करणम्। तथा समुच्चयार्थकः। चान्द्र-मानेन गृह्यते। अङ्गीक्रियते॥13॥

अथ चान्द्रमासं प्रसङ्गात् पितृमानं च आह—

त्रिंशता तिथिभिर्मासश्चान्द्रः पित्र्यमहः स्मृतम्।

निशा च मासपक्षान्तौ तयोर्मध्ये विभागतः॥14॥

त्रिंशता त्रिंशन्मितैस्तिथिभिश्चान्द्रो मासः। पित्र्य पितृसम्बन्धि। अहर्दिनम्। निशा रात्रिः पितृसम्ब-द्धा। चकारो व्यवस्थार्थकः। तेनोभयं नैकः प्रत्येकं किन्तु मिलितं स्मृतमिति। लिङ्गानुरोधेनोभयत्रा-न्वेति। तथा च चान्द्रो मासः। पित्र्याहोरात्रमित्यर्थः फलितः। मासपक्षान्तौ मासान्तो दर्शान्तः पक्षान्तः पूर्णिमान्तः। एतावित्यर्थः। विभागतः क्रमेणेत्यर्थः। तयोः पित्र्याहोरात्रयोर्मध्येऽर्द्धे भवतः। दर्शान्तः पि-तृणां मध्याह्नः पूर्णिमान्तः पितृणां मध्यरात्रमित्यर्थः। अर्थात् कृष्णाष्टम्यर्द्धे दिनप्रारम्भः। शुक्लाष्टम्यर्द्धे दिनान्त इति सिद्धम्॥14॥

नाक्षत्रमानम्।

अथ क्रमप्राप्तं नक्षत्रमानं प्रसङ्गान्माससंज्ञां च आह –

भचक्रभ्रमणं नित्यं नाक्षत्रं दिनमुच्यते।

नक्षत्रनाम्ना मासास्तु ज्ञेयाः पर्वान्तयोगतः॥15॥

नित्यं प्रत्यहं भचक्रभ्रमणं नक्षत्रसमूहस्य प्रवहवायुकृतपरिभ्रमः। नाक्षत्रं नक्षत्रसम्बन्धिदिनं मानज्ञैः कथ्यते। नित्यमित्यनेन चन्द्रभोगनक्षत्रभोगो नाक्षत्रमित्यस्य निरासः। भचक्रभ्रमणानुपपत्तेः। माससं-ज्ञा महानक्षत्रनाम्नेति। पर्वान्तयोगतः पर्वान्तः पूर्णिमान्तः। तस्य योगात् तत्सम्बन्धात् नक्षत्रसंज्ञया मा-साः। तुकाराच्चान्द्रा अवगम्याः पूर्णिमान्तस्थितचन्द्रनक्षत्रसंज्ञो मासो ज्ञेय इति तात्पर्य्यार्थः। यथा हि यद्दर्शन्तावधिकश्चन्द्रोमासस्तदभ्यन्तर-स्थितपूर्णिमान्तस्थित चन्द्रनक्षत्रसंज्ञः।चित्रासम्बन्धाच्चैत्रः। विशाखासम्बन्धाद्वैशाखः।ज्येष्ठासम्बन्धाज्ज्येष्ठः। आषाढा-सम्बन्धादाषाढः।श्रवणसम्बन्धाच्छ्रावणः। भाद्रपदासम्बन्धाद्भाद्रपदः।अश्वनीसम्बन्धादाश्विनः। कृत्तिकासम्बन्धात्कार्तिकः। मृगशीर्षसम्बन्धान्मार्गशीर्षः। पुष्यसम्बन्धात् पौषः। मघासम्बन्धान्माघः। फाल्गुनीसम्बन्धात् फाल्गुन इति॥15॥

ननु पूर्णिमान्ते तत्तन्नक्षत्राभावे कथं तत्संज्ञा मासानामुचितेत्यत आह –

कार्तिक्यादिषु संयोगे कृत्तिकादि द्वयं द्वयम्।

अन्त्योपान्त्यौ पञ्चमश्च त्रिधा मासत्ररा स्मृतम् ॥16॥

नक्षत्रसंयोगार्थमिति निमित्तसप्तमी। कार्तिक्यादिषुकार्तिकमासादीनांपौर्णमासीष्वित्यर्थः। कृत्ति-कादि द्वयं द्वयं नक्षत्रं कथितं कृतिकारोहिणीभ्यां कार्त्तिकः। मृगार्द्राभ्यांमार्गशीर्षः। पुनर्वसुपुष्याभ्यां पौषः। अश्लेषामघाभ्यां माघः। चित्रास्वातीभ्यां चैत्रः। विशाखानुराधाभ्यां वैशाखः। ज्येष्ठामूलाभ्यां ज्येष्ठः। पूर्वोत्तराषाढाभ्यामाषाढः। श्रवणधनिष्ठाभ्यां श्रावण इति फलितम्। अवशिष्टमासानाह। अ-न्त्योपान्त्याविति। अत्र कार्तिकस्यादित्वेन ग्रहादन्त्य आश्विनः। उपान्त्यो भाद्रपदः। एतौ मासौ पञ्चमः फाल्गुनः। चकारः समुच्चय इति। मासत्रयं त्रिधा स्थानत्रय उक्तम्। रेवत्यश्विनीभरणीति नक्षत्रत्रयस-म्बन्धादाश्विनः। शततारापूर्वोत्तराभाद्रप्रदेशि नक्षत्रत्रयसम्बन्धाद्भाद्रपदः।पूर्वोत्तराफाल्गुनीहस्तेति न-क्षत्रत्रयांतसम्बन्धात् फाल्गुनं इति सिद्धम्॥16॥


अथ प्रसङ्गात् कार्त्तिकादिबृहस्पतिवर्षाण्याह –

वैशाखादिषु कृष्णे च योगात् पञ्चदशे तिथौ।
कार्तिकादीनि वर्षाणि गुरोरस्तोदयात् तथा॥17॥

यथा पौर्णमास्यां नक्षत्रसम्बन्धेन तत्संज्ञो मासो भवति। तथेति समुच्चयार्थकम्। बृहस्पतेः सूर्य्यसा-न्निध्यदूरत्वाभयामस्तादुदयाद्वा वैशाखादिषु द्वादशसु मासेषु कृष्णपक्षे पञ्चदशे तिथौ। अमायामित्य-र्थः। चकारः पौर्णमासीसम्बन्धात् समुच्चयार्थकः। योगो दिननक्षत्रसम्बन्धः कार्तिकादीनि द्वादशवर्षा-णिभवन्ति। वैशाखकृष्णपक्षपञ्चदश्याममारूपायां बृहस्पतेरस्त उदये वा जाते सति तदादि बृहस्पतिवर्षं कृत्तिकादिनक्षत्र-सम्बन्धात्कार्तिकसंज्ञम्।एवं ज्येष्ठाषाढश्रावण भाद्रपदाश्विनकार्तिकमार्गशीर्षपौषमाघफाल्गुनचैत्रामासु मृगपुष्यमघा-पूर्वाफाल्गुनीचित्राविशाखाज्येष्ठापूषाश्रवणयूभाश्विन्यादिनक्षत्रसम्बन्धान्मार्गशीर्षा दीनि भवन्ति। अत्रापि प्रोक्तनक्षत्रद्वय-त्रयसम्बन्धः प्रागुक्तो बोध्यः। अनेनेत्यु-पलक्षणम्। तेन यद्दिने बृहस्पतेरुदयोऽस्तो वा तद्दिने यच्चन्द्राधिष्ठितनक्षत्रं तत्संज्ञं बार्हस्पत्यं वर्षं भवतीति तात्पर्य्यम्। संहिताग्रन्थेऽस्तोदयवशाद्वर्षोक्तिः परमिदानीमुदयवर्षव्यवहारो गणकैर्गण्यते ये-नोदितेज्य इत्युक्तेरिति॥17॥

सावनमानम्।

अथ क्रमप्राप्तं सावनमाह –

उदयादुदय भानोः सावनं तत् प्रकीर्तितम्।

सायनानि स्युरेतेन यज्ञकालविधिस्तु तैः॥18॥

सूर्य्यस्योदयादुदयकालमारभ्याव्यवहितोदयकालपर्य्यन्तं यत् कालात्मकं तत् सावनं मानज्ञैरुक्त-म्। एतेनोदयद्वयान्तरात्मककालस्य गणनया सावनानि बसुद्वयष्टाद्रीत्यादिनामध्याधिकारोक्तानि भ-वन्ति। तद्व्यवहारमाह। यज्ञकालविधिरिति। यज्ञस्य यःकालस्तस्य गणना तैःसावनैः। कारोऽन्यमान-निरासार्थश्वकारपरः॥18॥

अथ व्यवहारान्तरमाह –

सूतकादिपरिच्छेदो दिनमासाब्दपास्तथा।

मध्यमा ग्रहभुक्तिस्तु सावनेनैव गृह्यते॥19॥

सूतकं जन्ममरणसम्बन्धि।आदिपदग्राह्यं चिकित्सितचान्द्रायणादि। तस्यपरिच्छेदो निर्णयः। दि-नाधिपमासेश्वरवर्षेश्वराः। तथा समुच्चये ग्रहाणां गतिर्मध्यमा। तुकारात् स्पष्टगतेर्निरासः। तस्याः प्रति-क्षणं वैलक्षण्याद्दिनसम्बन्धस्याभावात्। एतेन स्पष्टगत्या स्पष्टग्रहस्य चालनं निरस्तं स्थूलत्वादिति सू-चितम्। सावनमानेन। एवकारादन्यमाननिरासः। गृह्यते सुधीभिरङ्गीक्रियते। अत्र बहुवचनानुरोधेन ग्रृह्यत इत्यत्र बहुवचनं ज्ञेयम्॥19॥

दिव्यमानम्।

अथ दिव्यमानमाह—

सुरासुराणामन्योन्यमहोरात्रं विपर्ययात्।

यत् प्रोक्तं तद् भवेद् दिव्यं भानोर्भगणपूरणात्॥20॥

पूर्वार्द्धपूर्वं व्याख्यातम्। यदहोरात्रं पूर्वार्द्धोक्तं सूर्य्यस्य भगणभोगपूर्तेः प्रोक्तं पूर्वमनेकधा निर्णीतं तदहोरात्रं दिव्यमानं स्यात्॥20॥

ब्राह्ममानम्।
अथ अवशिष्टे प्राजापत्य ब्राह्ममाने आह –

मन्वन्तरव्यवस्था च प्राजापत्यमुदाहृतम्।

न तत्र द्युनिशोर्भेदो ब्राह्मः कल्पः प्रकीर्तितम्॥21॥

मन्वन्तरव्यवस्था मन्वन्तरावस्थितिः। युगानां सप्ततिः सैका इत्यादिना मध्याधिकारोक्तेति चार्थः प्राजापत्यं मानं मानज्ञैरुदाहृतमुक्तं मनूनां प्रजापति पुत्रत्वात्। ननु देवपितृमानयोर्दिनरात्रिभेदो य-थोक्तस्तथा अस्मिन् माने दिनरात्रिभेद प्रतिपादनं कथं नोक्तमित्यत आह। नेति। तत्र प्राजापत्यमाने द्युनिशोर्दिनरात्र्योर्भेदो विवेको गुरुसौरचन्द्रमानवन्नास्ति। ब्रह्ममानमाह। ब्राह्ममिति। कल्पो युगस-हस्रात्मकः प्रागुक्तः। ब्रह्ममानं मानज्ञेरुक्तम्। यद्यपि पूर्वं पित्र्यबार्हत्यमानयो अनुक्तेरत्र तयोरेव नि-रूपणं युक्तमन्येषां निरूपणं तु पूर्वोक्त्या पुनरुक्तं तथापि पूर्वं गणिताद्युपजीव्यपरिभाषाकथनाव-श्यकतया गणितप्रवृत्यर्थं तेषाममानत्वेन निरूपणादत्र तु विशेषकथनार्थं मानत्वेन पुनस्तेषां निरूप-णं प्रश्नोत्वेनाक्षतिकरमन्यथा प्रश्नानुपत्तेरिति दिक्॥21॥

अथ स्वोक्तमुपसंहरति –

एतत् ते परमाख्यातं रहस्यं परमाद्भुतम्।
ब्रह्मैतत् परमं पुण्यं सर्वपापप्रणाशनम्॥22॥

हेपरमदैत्यश्रेष्ठ। सूर्य्यभक्तत्वात्। ते तुभ्यमेतदधुनोक्तं परं द्वितीयकथनमाख्यातं निराकांक्षत स-म्पूर्णं कथितम्। पूर्वं सावशेषमुक्तं स्थितमिति त्वया प्रश्नाःकृतास्तदुत्तररूपदिंतीयकथनमिदं निःसन्दिग्धमस्तीति तव संशया नोद्भवन्तीति भावः। ननु मत्प्रश्नं विना पूर्वमेवेदं कथं नोक्तमित्यत आह। रहस्यमिति। कुत इत्यत आह। अद्भुतमिति। आकाशस्थग्रहनक्षत्रादिस्थितिज्ञानसम्पादकत्वादाश्चर्य्यकरमित्यर्थः। तथा च मत्पूर्वोक्तं येन सावधानतया श्रुतं तेनैव त्वदुक्ताः प्रश्नाः कर्त्तुं शक्यास्तदुत्तर-त्वेन द्वितीयं मदुक्तमिति त्वां परीक्ष्य त्वां प्रत्युक्तं रहस्यमिति भावः। ननु अन्यशास्त्राणां ज्ञानाह्मान-न्दावाप्तिरस्मान्नेत्यन्त आह। ब्रह्मेति। एतन्मदुक्तं ब्रह्म ब्रह्मसमं तथा चान्यशास्त्राणां ब्रह्मसमत्त्वामावे-ऽपि तज्ज्ञानाद् ब्रह्मानन्दावाप्रिरस्माद् ब्रह्मास्वरूपाद् ब्रह्मानन्दावाप्तौ किं चित्रमिति भावः। कुत इदं ब्रह्मासममित्यत आह। परमिति। उत्कृष्टम्। अत्र हेतुभूतं विशेषणद्वयमाह, पुण्यं सर्वपापप्रणाशन-मिति। पुण्यजनकं सर्वपापनाशकम्॥22॥

ननु अस्माद् ब्रह्मानन्दप्राप्तिरुक्ता पूर्वं ग्रहलोकप्राप्तश्चोक्ता तत्रानयोः किं फलं भवतीत्यत आह-

दिव्यं चार्क्षं ग्रहाणां च दर्शितं ज्ञानमुत्तम्।

विज्ञायार्कादिलोकेषु स्थानं प्राप्नोति शाश्वतम्॥23॥

आर्क्षं नक्षत्रसम्बन्धिज्ञानं ग्रहाणां ज्ञानम्। चःसमुच्चये। उत्तमं सर्वशास्त्रेभ्यः उत्कृष्टम्। अत्र हेतुभू-तं विशेषणं दिव्यं स्वर्गलोकोत्पन्नं दर्शितं मया तुभ्यमुपदिष्टं विज्ञाय ज्ञात्वा अर्कादिलोकेषु सूर्य्यादिग्र-हलोकेषु स्थानमधिष्ठानं प्राप्नोति शाश्वतं नित्यं ब्रह्मसायुज्यरूपं स्थानम्। पूर्वार्द्धस्थद्वितीयचकारः समुच्चयार्थकोऽत्रान्वेति। तथाचोभयं फलं क्रमेण भवतीति भावः। यत्वेतत् ते परमाख्यातमित्यादि-श्लोकः क्वचित् पुस्तकेऽस्मात्श्लोकात् पूर्वं नास्ति किन्तु माननिरूपणान्तस्थदिव्यं चार्क्षमित्यादि-श्लोकान्ते मानाध्याय समाप्तिं कृत्वा अग्रे। यथा शिखा मयुराणां नागानां मणयो यथा तद्वद्वेदाङ्गशा-स्त्राणां गणितं मूर्घनि स्थितम्॥1॥ न देयं तत् कृतघ्नाय वेदविप्लावकाय च। अर्थलुब्धाय मुर्खाय सा-हङ्काराय पापिने॥2॥एवं विधाय पुत्रायाप्यदेयं सहजाय च। दत्तेन वेदमार्गस्य समुच्छेदः कृतो भवे-त्॥3॥ व्रजेतामन्धतामिस्रंगुरुशिष्यौसुदारुणम्। ततः शान्ताय शुचये ब्राह्मणायैव दापयेत्॥4॥ च-क्रानुपातजो मध्यो मध्यवृत्तांशजः स्फुटाः। कालेन दृक्समो न स्यात् ततो बीजक्रियोच्यते॥5॥ रा-श्यादिरिन्दुरङ्कघ्नो भक्तो नक्षत्रकक्षया। शेषं नक्षत्रकक्षायास्त्यजेच्छेषकयोस्तयोः॥6॥ यदल्पं तद्भजे-द्धानां कक्षया तिथिनिघ्नया। बीजं भागादिकं तत् स्यात् कारयेत तद्धनं रवौ॥7॥ त्रिगुणं शोधयेदिन्दौ जिनघ्नं भूमिजे क्षिपेत्। दृग्यमघ्नमृणं ज्ञोच्चे खरामघ्नं गुरावृणम्॥8॥ ऋणं व्योमनवाघ्नं स्याद्दानवेज्यच-लोच्चके। धनं सप्ताहतं मन्दे परिधीनामथोच्यते॥9॥

युग्मान्तोक्ताः परिधयो ये ते नित्यं परिस्फुटाः। ओजास्तोक्तास्तु ते ज्ञेयाःपरबीजेन संस्कृताः॥10॥ वच्मि निर्बीजकानोजपदान्ते वृत्तभागकान्। सूर्य्येन्द्वोर्मनवो दन्ता धृतितत्वकलोनिताः॥11॥ वाणत-र्का महीजस्य सौम्यस्याचलवाहवः। वाक्पतेरष्टनेत्राणि व्योमशीतांशवो भृगोः॥12॥ शून्यर्त्तवोऽर्कपु-त्रस्य बीजमेतेषु कारयेत्। बीजं खाग्न्युद्धतं शोध्यं परिध्यंशेषु भास्वतः॥13॥ इनाप्तंयोजयेदिन्दोः कुजस्याश्वहतं क्षिपेत्। विदश्चन्द्रहतं योज्यं सूरेरिन्द्रहतं धनम्॥14॥ धनं भृगोर्भुवान्न्थ रविघ्नं शोधये-च्छनेः। एवं मान्दाः परिध्यंशाः स्फुटाःस्युर्वच्मि शीघ्रकान्॥15॥ भौमस्याभ्रगुणाक्षीणि बुधस्याब्धिगु-णेन्दवः। बाणाक्षा देवपूज्यस्य भार्गवस्येन्दुषड्यमाः॥16॥ शनैश्चन्द्राब्धयः शीघ्राः ओजान्ते बीजवर्जि-ताः। द्विघ्नं स्वं कुजभागेषु बीजं द्विघ्नमृणं विदः॥17॥ अत्यष्टिघ्नं धनं (वनं) सुरेरिन्दुघ्नं शोधयेत् कवेः। चन्द्रघ्नमृणमार्कस्य स्युरेभिर्दृक्समा ग्रहाः॥18॥ एतद्वीजं मया ख्यातं प्रीत्या परमया तव। गोपनीय-मिदं नित्यं नोपदेश्यं यतस्ततः॥19॥ परीक्षिताय शिष्याय गुरुभक्ताय साधवे। देयं विप्राय नान्यस्मै प्रतिकञ्चुककारिणे॥20॥ बीजं निःशेषसिद्धान्तरहस्यं परमं स्फुटम्। यात्रापाणिग्रहादीनां कार्य्याणां शुभसिद्धिदम्॥21॥ इत्यस्य क्वचित पुस्तके लिखितस्य बीजोपनयनाध्यायस्यान्ते लिखितो दृश्यते तत् तु न समञ्जसम्। उत्तरखण्डे ग्रहगणितनिरूपणाभावात् तन्निरूपणप्रसङ्गनिरूपणीयस्याध्याय-स्य लेखनानौचित्यात् स्पष्टाधिकारे तदन्ते वास्य लेखनस्य युक्तत्वाच्च। किञ्च मानानि कति किं च तैः। इति प्रश्नाग्रेप्रश्नानामभावात् प्रश्नोत्तरभूतोत्तरखण्डेऽस्य लेखनमसङ्गतम्। अपिच। उपदेशकाले बीजाभावदग्रेऽन्तरदर्शनमनियतं कथमुपदिष्टमन्यथान्तर्भूतत्वेनैवोक्तः स्यादित्यादि विचारेण केनचि-द्धृष्टेन बीजस्यार्षमूलकत्वज्ञापनायान्त्येऽत्र बीजोपनयनाध्यायः प्रक्षिप्त इत्यवगम्य न व्याख्यात इति मन्तव्यम्॥23॥

अथ मुनीन प्रति कथितसंवादस्योपसंहारमाह –

इत्युक्त्वा मयमामन्त्र्य सम्यक् तेनाभिपूजितः।

दियमाचक्रमेऽर्कंशः प्रविवेश स्वमण्डलम्॥24॥

सूर्य्यांशपुरुषो मयासुरमामन्त्र्य सम्यक् तत्वतो ग्रहादिचरितमुपदिश्य इति। एतत् ते इत्यादि श्लो-कद्वयमुक्त्वा कथयित्वा। समुच्चयार्थकश्चोऽनुसन्धेयः। दिवं स्वर्गमाचक्रमे। आक्रमणविषयं चक्रे। न-नु सूर्यांशपुरुषस्य तदुपदेशे को वा पुरुषार्थ इत्यत आह। तेनेति। मयासुरेणाभिपूजितः। गन्धधूपादि-नैवैद्यवस्त्रालङ्करणादिभिः पूजाविषयीकृतः। मयद्वारामर्त्यलोके प्रसिद्धिं सूर्य्यतुल्यत्वेन प्राप्त इति भावः। ननु स्वर्गेऽपि किं स्थानंगत इत्यत आह-प्रविवेशोति स्वमंण्डलं सूर्यविम्बं ननु विशति स्म अ-धिष्ठितवान् अत्रापि समुच्चयार्थोऽनुसन्धेयश्चकारः॥24॥

अथ मयासुरावस्थां तात्कालिकीमाह –

मयोऽथ दिव्यं तज्ज्ञानं ज्ञात्वा साक्षाद् विवस्वतः।
कृतकृत्यमिवात्मानं मेने निर्धूतकल्मषम्॥25॥

अथ सूर्य्यांश पुरुषान्तर्धानानन्तरं मयासुरस्तज्ज्ञानं ग्रहर्क्षस्थित्यादिज्ञानं पूर्वोक्तं दिव्यं स्वर्गस्थं सू-र्य्यात् साक्षादनन्यद्वारेत्यर्थः सूर्य्यांशपुरुषस्य सूर्य्याभिन्नत्वं तदुत्पन्नत्वादत एव भेदेऽपि साक्षादुक्तं यु-क्तम्। ज्ञात्वा आत्मानं स्वं निर्धूतकल्पषं निवारितपापं कृतकृत्यं सम्पादितकार्य्यं मेने मन्यते स्म॥25॥

अथ त्वमिदं ज्ञानं कथं प्राप्तवानिति श्रोतृमुनिभिः पृष्टोमुनिस्तान् प्रति तत्रत्या अस्मत्प्रभृतय ऋषयो मयं प्रत्येतज्ज्ञानं पृष्टवन्त इत्याह-

ज्ञात्वा तमृषयश्चाथ सूर्यलब्धवरं मयम्।

परिबब्रुरुपेत्याथो ज्ञानं पप्रच्छुरादरात्॥26॥

अथमयासुरस्य ज्ञानप्राप्त्यनन्तरमृषयःसूर्यांशपुरुषमयासुरसंवादाश्रितभूमिप्रदेशासन्न-भूमिप्रदेश-स्थाअस्मत्प्रभृतयो मुनययंकृतकृत्यं मयासुरं सूर्य्यलब्धवरं सूर्य्यात् प्राप्तो वरो ज्ञानप्रसादो येनैतादृ-शं ज्ञात्वा। उप समीपे एत्यागत्य। चः समुच्यये। परिवव्रुः वेष्टितवन्तः। अथो अनन्तरमादरादत्यन्तं साभिलाषितया तं ज्ञानं ग्रहादिचरितं पप्रच्छुःपृष्टवन्तः॥26॥

अथ मयासुरः स्वज्ञानं तत्प्रश्नकारकानस्मत्प्रभृतीन् मुनीन् प्रति कथयामासेत्याह –

स तेभ्यः प्रददौ प्रीतो ग्रहाणां चरितं महत्।
अत्यद्भुततमं लोके रहस्यं ब्रह्मसम्मितम्॥27॥

मयासुरः प्रीतः सन्तुष्टः सन् तेभ्योऽस्मत्प्रभृतिस्यः ऋषिभ्यो ग्रहाणां स्थित्यादिज्ञानं महदपरिमेयमत एव ब्रह्मसम्मितं ब्रह्मतुल्यं लोके भूलोकेऽत्यद्भुततममत्यन्तमाश्चर्य्यकारकं श्रेष्ठमत एव प्रददौ प्रक-र्षेण निर्व्याजतया दत्तवान् कथयामासेत्यर्थः॥27॥

अथ मानाध्यायसमाप्त्यासूर्य्यसिद्धान्तसमाप्तिं कस्यचित् प्रक्षिप्ताध्यायस्य निवारिकां फक्किकया आह। रङ्गनाथेन रचिते सूर्य्यसिद्धान्तटिप्पणे। मानाध्यायोत्तरदले पूर्णो गूढप्रकाशके॥

भागीरथी तीरसंस्थे शम्भोर्वाराणसीपुरे। वल्लालगणको रुद्रजपासक्तोऽभवद्बुधः॥1॥

तस्यात्मजाः पञ्च गुणाभिरामाः ज्येष्ठः स रामः सकलागमज्ञः। येनोपपत्तिःस्वधिया नितान्तं प्रकाशितानन्तसुधाकरस्य॥2॥

ततः स कृष्णो जहंगीरसार्वभौमस्य सर्वाधिगतप्रतिष्ठः। श्रीभास्करीयं विवृत्तं तु येन बीजं तथा श्रीप-तिपद्धतिः सा॥3॥

गोविन्दसंज्ञस्तु ततस्तृतीयस्तस्यानुजोऽहं गुरुलब्धविद्यः। विश्वेशवत्पद्मनिविष्टचेताः काशीनिवासी सकलाभिमान्यः॥4॥

श्रीरङ्गनाथोऽर्कमुखोत्थशास्त्रै गूढप्रकाशाभिधिटिप्पणं सः। कृत्वामहादेवबुधाग्रजोऽथ विश्वेश्वरा-यार्पितवान् सुवृद्धयै॥5॥

शके तत्वतिथ्युन्मिते चैत्रमासे सिते शम्भुतिथ्यांबुधेऽर्कोदयान्मे।दलाढ्यद्विनाराचनाडीषु जातौ मु-नीशार्कसिद्धान्तगूढप्रकाशौ॥6॥

गूढप्रकाशकं दृष्ट्वा रङ्गनाथभवं भुवि। मुनीश्वरस्य सहजं लभन्तां गणकाःसुखम्॥7॥

इति**श्रीसकलगणकसार्वभौमबल्लालदैवज्ञात्मजरंगनाथविरचितः सूर्यासिद्धान्तगुढार्थप्रकाशकः सम्पूर्णः॥


]