[[पञ्चस्वराभिधः Source: EB]]
[
संस्कृत—भाषा—टीका सहितम्।
हिमाचलेन्द्रदारिकां प्रचण्डचण्डदारिकाम्।
स्वभक्तवृन्दपालिकां सदा भजामि कालिकाम्॥ १॥
नमामि गोपिकावरं सदा विसासिताम्बरम्।
लसत्सुपिङ्गलाम्बरं हताहितोघसम्बरम्॥ २॥
पञ्चस्वराख्येऽत्र निरावलम्बे
दुरुहपद्यौघयुते सुगुप्त।
श्रीकृष्णदत्तो वितनोम्यहं तां
टीकाऽतिरम्या च सुबोधिनो या॥ ३॥
***नमज्जनानामवने बलीयान् वृन्दारकाणां सुगणे गरीयान्॥
नस्ताण्डवीयेपटले पटीयान् विश्वेश्वरोऽभीष्टफलाय भूयात्॥ १॥
जगत्रयाभीष्टफलप्रदोपि श्रीशङ्करार्थित्वमुपैति यस्याम्॥
तामन्नपूर्णाममितार्थदात्रीं बिनापतन्तु क्वनुमे प्रणामाः॥ २॥ ***
विज्ञाग्रगस्य मिथिलावनि मण्डनस्य
श्रीचन्द्रशेखर इति प्रथितस्य लोके॥
श्रीमद्गुरोश्च सुधियो रघुनाथनाम्नः
पादाम्बुजे प्रबिनतः सरलां करोमि॥ ३॥
**नत्वा महेशं पितरं स्वकीयं ज्योतिः सुशास्त्रार्थंविदां वरेण्यम्॥
पञ्चस्वराख्ये बितनोति विज्ञो गोबिन्दशर्मा सरलाख्यटीकाम्॥ ४॥ **
तत्रादौ निर्विघ्नपूर्वकं स्वग्रन्थपरिपूर्णार्थं तत्प्रचयगमनाय शिष्टा—
चारपरिपालनाय च स्वाभीष्टदेवस्य श्रीकृष्णस्य नमस्काररूपं
मङ्गलाचरणं “इष्टदेवं” इत्यादिना वितनोतिस्म।
इष्टदेवं नमस्कृत्य गोपालं कुलदैवतम्।
श्रीप्रजापतिदासेन क्रियते ग्रन्थसङ्ग्रहः॥ १॥
नवग्रहान्नमस्कृत्य देवीं सरस्वतीं तथा।
प्रणिपत्य गुरुं किञ्चिज्ज्योतिः शास्त्रं निरूप्यते॥ २॥
श्री प्रजापतिदासेन प्रजापतिदासनाम्ना गणकेन ग्रन्थसङ्ग्रहः " ग्रन्थस्य पञ्चस्वराभिधानस्य सङ्ग्रहः किन्तु बालाद्यारिष्टायुर्दायाद्यरिष्टपरामर्शपुरः सरं त्रिपताकी केतुपताकी केतुकुण्डली गुरुकुण्डलीचेति बिचारानुसाराब्देशदशान्तर्दशापरामर्शेन शुभाशुभनिर्णयः क्रियते। किं कृत्वा। इष्टदेवं गोपालं श्रीकृष्णं नमस्कृत्य मनोवाक्कायकर्मभिर्न्नमस्कारं कृत्वा किं विशिष्टं तं कुलदैवतं स्वकुलोपासनारूपदेवम्॥ १॥
अथ ग्रन्थकारस्तु विघ्नबाहुल्यभयात्पुनर्मङ्गलाचरणं करोति नवमहानर्कादिकेत्वन्तग्रहान् तथा सरस्वतीं वागधिष्ठात्रीं देवीं च नमस्कृत्य। किं च गुरुं गुरुदेवं प्रणिपत्य। प्रणिपातपूर्वकं नमस्कृत्य। किञ्चित्स्वल्पं ज्योतिः शास्त्रं ज्योतिषग्रन्थं पञ्चस्वराभिधानं निरूप्यते कथ्यते॥ २॥
मैं श्रीप्रजापतिदास नामक दैवज्ञ अपने इष्टदेव तथा स्वकुल पूज्य स्वरुप श्रीकृष्णजी को नमस्कार करके पञ्चस्वरा नामक ग्रन्थका संग्रह करता हूँ॥ १॥
पुनः सूर्यादि नवग्रहों को तथा सरस्वती देवी और गुरुदेव को नमस्कार करके इस स्वल्प पञ्चस्वरा नामक ग्रन्थको विचार पूर्वक कहताहूँ॥ २॥
स्वकुल निरुपणमाह—
सद्वैद्यकुलजातेन परिहारः कृतोमया।
ज्योतिर्वित्सु च सवेंषु ब्राह्मणस्य विशेषतः॥ ३॥
** सं० टी०**—सद्वैद्यकुलजातेन पवित्रे वैद्याख्यवंशे चोत्पन्नेन मयाऽयं परिहारः शङ्कानिवारणरूपः कृतः कथितः। केषु सवेंषु ज्योतिर्वित्सु ज्योतिः शास्त्रविज्ञेषु। तत्रापि ब्राह्मणेषु विशेषतः किन्तु विशेषतयाऽनेन ग्रन्येन ज्योतिः शास्त्रज्ञेषु ब्राह्मणेषु चोपकारो भवेत्। इत्थनेन स्वकुलनिरूपणं कृतम्॥ ३॥
** भा० टी०**—ज्योतिः शास्त्रज्ञों के लिये उसमें भी विशेष करके ज्योतिः शास्त्रज्ञ ब्राह्मणों के विशेष उपकार के निमित्त सद्वैद्य कुलोत्पन्न मैं प्रजापतिदास देवज्ञ इस ग्रन्थ द्वारा शंकाओं का निराकरण करता हूं॥ ३॥
निजागमं प्रकटयति—
वराहकृतसूत्रेण यत्किञ्चित्क्रियते मया।
ज्योतिर्विदः प्रपश्यन्तु ग्रहाणां सुविचारतः॥ ४॥
** सं० टी०**—मया वराहकृतसूत्रेण वराहमिहिराचार्योक्तसूत्राणामनुसारेण यत्किञ्चित् क्रियते तच्च ज्योतिर्विदो ज्योतिः शास्त्रज्ञा ग्रहाणां सुविचारतः सभ्यग्विचारपूर्वकेण प्रपश्यन्तु विलोकयन्तु॥ ४॥
** भा० टी०**—मैं बराह मिहिराचार्य कृत सूत्र के अनुसार जो कुछ इस ग्रन्थ में लिखता हूँ उसे ज्योतिः शास्त्रज्ञ चतुरजन ग्रहों के सुन्दर विचार ( अर्थात् वक्ष्यमाण बालाद्यरिष्ट आयुर्दायाद्यारिष्ट एवं त्रिपताकी केतु पताकि केतु कुण्डली गुरु कुण्डली इत्यादि द्वारा निरुपित शुभाशुभ विचार ) द्वारा सभी फलों को देखें॥ ४॥
अथ श्लोकचतुष्टयेन निजकृतग्रन्थस्यविशेषप्रयोजनं निरूपयति—
पञ्चस्वराभिधानं च ग्रन्थं निधनसंश्रयम्।
किञ्चिदुद्देशगम्यं च स्वल्पं वक्ष्यामि शास्वतम्॥ ५॥
**ज्योतिर्विद्भिः पुरा सर्वैः कृतो निर्णय विस्तरः।
तन्वादिव्ययपर्यन्तं राशिचक्रे व्यवस्थितम्॥ ६॥ **
**अपाश्यमरणं जीवं प्रपश्यन्ति शुभाशुभम्।
मरिष्यति यदा दैवात्कोभुङ्क्ते तच्छुभाशुभम्॥ ७॥ **
तस्मात्सर्व प्रयत्नेन आयुः स्थानं विचिन्तयेत्।
बालस्य जन्ममात्रेण जन्मारिष्टं विचारयेत्॥ ८॥
** सं० टी०**—अहं पञ्चस्वराभिधानं पञ्चस्वराख्यं ग्रन्थं स्वल्पं लघुरूपं पुनः किञ्चिदुद्देशगम्यं गुरोः किञ्चिच्छ्रवणं च कृत्वा वक्ष्यामि। तं कथम्भूतं निधनसश्रयं निधनस्य मरणस्याश्रयो यस्मिनर्थान्मरणनिर्णयरूपम्॥ ५॥
पुरा पूर्वस्मिन् समये सर्वैज्योतिः शास्त्रविद्धि र्ज्योतिशास्त्रज्ञैस्तु राशिचक्रेराशिसमूहे व्यवस्थितं स्थापितं तन्वादिव्ययपर्यन्तं लग्नादिद्वादशभावावधिकं यथा स्यात्तथा निर्णयविस्तरस्तजनितशुभाशुभफलकथनाधिकः कृतः। अर्थात्तन्निर्मितेषु ग्रन्थेषु केवलं लग्नादिद्व्रादशभावानां फलमेवस्थितमिति॥ ६॥
तत्र लग्नादिभावपरामर्शे ते गणका मरणंजीवनं चापाश्य विहाय शुभाशुभं प्रपश्यन्ति वदन्ति। यदा दैवाददिष्टवशाज्जातको मरिष्यति तदा तच्छुभाशुभं तद्विहितं शुभाशुभफलंको भुङ्क्ते किन्तु तल्लग्नोंत्पन्न— नरस्याभावात्तदुक्तफलं व्यर्थमेवजातम्। अनेन तन्मतं दुषितमिति॥ ७॥
तस्मात्कारणात्सर्वप्रयत्नेनायुःस्थानं मृत्युनिर्णयरूपस्थानं गणको विचारयेत्। अनेन ग्रन्थप्रयोजनकथन जातम्। बालस्योत्पन्नस्य जन्ममात्रेण जन्मसमया वगममात्रेण जन्मारिष्टं जन्मसमयोद्भवमरिष्टं विचारयेत्॥ ८॥
** भा० टी०**—मैं प्रजापति दास दैवज्ञ जिस ग्रन्थ से मृत्यु का निश्चित ज्ञान होता है उस लघु पञ्चस्वरा ग्रन्थ को गुरु से कुछ ज्ञान प्राप्त करके कहता हूँ क्योंकि प्राचीन ज्योतिर्विदों ने लग्नादि द्वादश भावों का विस्तार पूर्वक बिचार किया है परञ्च वे जीवन मरण के निश्चित विचारों को छोड़कर शुभाशुभ फलों का हो विचार किये हैं। यदि अदिष्ट वश जातक मर जाय तो तज्जनित शुभाशुभ फलों को कौन भोगेगा। इस लिये सब से यत्न पूर्वक आयुः स्थान का विचार प्रथम कर्तव्य है। बालक के जन्म समय के ज्ञान से ही वक्ष्यमाण प्रकारों से अरिष्टादि का विचार करना चाहिये॥ ५॥ ६॥ ७॥ ८॥
अथ स्वाभिमतारिष्ट प्रमाणमाह—
चतुर्विंशति वर्षाणि यावद्गच्छन्ति जन्मतः।
तावदिष्टं च निश्चित्य आयुर्दायं न चिन्तयेत्॥ ९॥
** सं० टी०**—तत्रादौ जन्मतो जन्मसमयाञ्चतुर्विंशतिवर्षाणि यावद्गच्छन्ति प्राप्नुवन्ति तावदिष्टं तावत्कालवर्यन्तमरिष्टं किन्तु जन्मकालादारभ्य चतुर्विंशतिवर्षपर्यन्तं तदरिष्टंनिश्चित्यसुष्टुरूपेणावगम्य कथयेत्। तत्रायुर्दायं वक्ष्यमाणां न चिन्तयेत्। अनेन स्वाभिमतारिष्ठप्रमाणस्य कथनं जातम्॥ ९॥
** भा० टी०—**जन्म समय से प्रारम्भ कर २४ चौबीस वर्ष तक अरिष्ट का बिचार करना चाहिये। इसके अन्तर्गत आयुर्दाय का बिचार नहीं करना चाहिये॥ ९॥
अथ मतान्तरेणारिष्ट प्रमाणमाह—
नव नेत्राणि वर्षाणि यावद् गच्छन्ति जन्मतः।
तावद्रिष्टं विधातव्यं गुप्त रूपं न चान्यथा॥ १०॥
** सं० टी०**—जन्मतो यावन्नवनेत्राणि उनत्रिंशतिमितानि वर्षाणि गच्छन्ति प्राप्नुवन्ति तावद्गुप्तरूपं दुर्जनादिनरस्यादेयमरिष्टं विधातव्य विचारणीयम्। अन्यथा नवनेत्रमिताद्बर्षादनन्तरं तन्न विचारणीयम्। अनेन मतान्तरं प्रदर्शितम्॥ १०॥
** भा० टी०**—मतान्तर प्रकट करते हैं कि जन्म से प्रारम्भ करके २९ वर्ष तक गुप्त रूप से अरिष्ट का विचार करना चाहिये इसके प्रथम कभी भी वक्ष्यमाण प्रकार से आयुर्दाय का बिचार नहीं करना चाहिये। परञ्च मतान्तर से बहुधा १२ वर्ष तक ही अरिष्ट कहा गया है॥ १०॥*
** अथ बालाद्यारिष्टनिर्णणाय त्रिपताकिचक्र स्थापनाप्रकारो लिख्यते**—
ऊर्ध्वं रेखा त्रयं लेख्यं तिर्यग्रेखात्रयं तथा।
बेधस्तिर्यक् क्रमाज्ज्ञेयो द्वाभ्यां द्वाभ्यां परस्परम्॥ ११॥
षड्रेखास्तु समालिख्य पताको बेधनिर्णये।
रब्यादिग्रहदानेन जन्मारिष्टं विधीयते॥ १२॥
** सं० टी०—**गणकेन रेखात्रयं ऊर्ध्वं पूर्वापरं तथा रेखात्रयं तिर्यक् याम्योत्तररूपं लेख्यम्। तदग्रे द्वाभ्यां द्वाभ्यां रेखाभ्यां परस्परं तिर्यक्क्रमात्ककर्णाकारसूत्रगतक्रमादर्थांदाग्नेयादिवायव्यान्तास्तथैशानादिनैर्ऋत्यन्ताः षड्रेखाः संलिखेदित्युत्तरेणान्बयः। तत्रवेधो ज्ञेयः। अनेन बालाद्यरिष्टनिर्णयाय त्रिपाताकी संज्ञकस्य चक्रस्य स्थापनं कृतम्॥ ११॥
एवं पताकीवेधनिर्णये त्रिपताकीसमाख्यचक्रे वेधनिर्णयाय षड्रेखाः समालिख्य सम्यक् प्रकारेण लिखित्वा रव्यादिग्रहदानेन वक्ष्यमाणसूर्यादिग्रहस्थापनवशेन जन्मारिष्टं बालारिष्टं ज्योतिःशास्त्रज्ञैर्विधीयते निर्णीयते॥ १२॥
** भा० टी०**—प्रथम तीन रेखा परस्पर सम और समानान्तर उर्ध्वाधर अर्थात् पूर्वा पर लिखकर उनपर तीन रेखा परस्पर समसमानान्तर तिर्यक् अर्थात् याम्योत्तर लिखे। पुनः दो दो रेखाओं से परस्पर क्रम से कर्णाकार छः रेखा लिखे (अर्थात् ) प्रथम अग्नि कोणसे वायव्य कोण तक छव रेखा एवं इशान से नैऋत्य कोण तक छ रेखा लिखे एवं तीन पूर्वापर तीन याम्योत्तर तथा छव २
——————————————————————————————————————————
** यथा– *
आद्वादशाद्वान्तर योनिजन्मना मायुष्कला निश्चयितुं न शक्यते।
मात्रा च पित्रा कृत पापकर्मणां बालग्रहैर्नाशमुपैति बालकः॥ १॥
आये चतुष्के जननी कृताद्यौर्मध्ये तु पित्राऽर्जितं पापसङ्घैः।
बालस्तदन्त्यासु चतुः समासु स्वकीय दोषः समुपैति नाशम्॥ २॥
** सं० टी०**—ग्रहदानविचारे रव्यादिग्रहाणां स्थापनकाले मेषं मेषराशि अन्त्ये अन्स्यरेखायां विनिर्दिशेत् लिखेत्। अर्थात्पूर्वं विहितपूर्वापररूपस्य रेखात्रयस्य मध्ये याम्यरेखाग्रादारभ्याजाद्या द्वादशराशयो देयाः। पुनवेंदादिषु अङ्कदानेषु वक्ष्यमाणानां वेदाद्यङ्कानां स्थापनकाले मेषं मेषराशि मध्ये मध्यरेखायां लिखेत्। अर्थात्कृतपूर्वापररेखात्रयस्य मध्ये मध्यस्थितरेखाप्रादारस्य मेषाद्या द्वादश राशयः स्थाप्याः। अत्र त्रिपताकीसमाख्ये चक्रे ग्रहस्थापने तथाङ्कस्थापने च राशिस्थापनं प्रदर्शितामिति॥ १३॥
कलशात्कुम्भराशेर्द्वन्दपर्यन्तं मिथुनराशिपर्यन्तं प्राचीनैरङ्कदानं वक्ष्यमाणाङ्कानां स्थापनं सुनिश्चितं विनीर्णीतं। ततो रव्यादीनां ग्रहाणामुच्चादिस्थानगानां स्वोच्चसमनीचस्थानां यथा क्रमं क्रममनतिक्रम्य चेति कृतम्। अत्रायं फलितार्थः। स्वोच्चगृहगतखेटस्याङ्कस्थापने स्थानत्रयामितियोगेन समा दिनसङ्ख्या तथा समस्थानगतग्रहस्य समीपस्थस्यानद्वयायोगेन तुल्या मासमितिः। एवं नीचस्थानगतस्य खेटस्य केवलं स्वस्थानाङ्कमिता वर्षमितिः स्यादिति बोध्यम्। परमेवं शुभखेटजनितवेधे। पापखेटजवेधे तु कथितप्रकाराद्विपरीतं भवेत्।
तदुक्तम्—
" ग्रहाणां बलान्निर्द्दिशेदेतदुक्तमसत्खेचरे पुष्टमध्यात्पवीर्ये।
द्युमासाब्दसङ्ख्या विलोमेन सोम्यैः शुभस्थानयोगेक्षणाद्यैः समास्तु “॥ १॥
असत्खेटयोगेक्षणाद्यैर्दिनानि विमिश्रैस्तु मासा बलात्तारतम्यादिति॥ १४॥
** भा० टी०**—प्राचीनाचार्यों ने ग्रह स्थापन के समय प्रथम विहति पूर्वापर रेखा के अन्त्य (दक्षिण) रेखाग्र से मेषादि राशियों की स्थापना की है। तथा १५ पन्द्रहवे श्लोक में कथित वेदादि अङ्को की स्थापना के लिये पूर्वापर रेखा के मध्य से रेखा से मेषादि राशियों की स्थापना की है। परञ्च पाचीनाचार्यों ने अङ्कदान को कुम्भ से लेकर सव्य क्रमसे मिथुन पर्यन्त ही निश्चित किया है ( अर्थात् अङ्कदान चक्र में मीन मेष वृष ये तीन राशियां अङ्को से रिक्त हैं) तथा सूर्यादि ग्रहों के स्थापना में उच्च सम नीच स्थान के क्रम से वक्ष्यमाण प्रकार से तीन दो एक स्थान के योग से दिनादि का निश्चय किया है॥ १३॥ १४॥
** अथ राशि चक्रेऽङ्क स्थापनमोह—**
वेदपञ्चनखान्दत्वा वह्न्यष्ट समयं तथा॥
भुवनं युगलञ्चैव दश देयास्तथैव च॥ १५॥
** सं० टी०**—वेदपञ्चनखान् तथा वह्न्यष्टसमयं दत्वा। तथैव भुवनं चतुर्दशसङ्ख्याकं युगलं द्विमितं दश चैते अङ्का देयाः स्थाप्याः किलशाद्द्द्वन्दावधि। अत्रायं भावः। कलशाद्विलोमगणनया मिथुनपर्यन्तं याम्योत्तराख्यस्य तथा कर्णाकाराख्यस्याधःस्थस्यार्थालाङ्गलाख्य च वेधक्रमेण पूर्वोक्ताङ्का वेदाद्या यथाक्रमं स्थाप्याः। तद्यथा। अङ्कस्थापनचक्रे मध्यरेखाग्रगं मेषराशिमारभ्य पूर्वरूपगणनया वह्निकोणाग्रगं कुम्भराशि च प्रकल्प्योच्यते। कुम्भराशौ चतुः सङ्ख्याकं तत्सम्मुखेऽर्थायाम्योत्तररूपवेधे मिथुनराशौ पञ्च तथा कुम्भराशेरधःस्थकर्णाकारवेधे कन्याराशौ विंशितिमितम्। एवं तत उत्क्रमगणनया तत्पृष्ठभागे मकरराशौ त्रिसङ्ख्याकं ततस्तद्याम्योत्तररूपवेधे कर्कराशौ चाष्टसङ्ख्याकं तथा तदधः स्थवेधे तुलाराशौ रसमितम्। एवं धनुषिराशौ चतुर्दशमितं तथा तत्सम्मुखवेधे सिंहराशौ द्विमितं पुनस्तदधः स्थे वृश्चिकराशौ दशमितमेवेति लेख्यम्। तत्रापि मीनमेषवृषदाशीनामेवमङ्काभावो जातः। यतो वक्ष्यमाणविधिना कस्यापि राशेः कथितेन राशित्रयेण सार्धं वेघो नास्ति किन्तु तद्राशित्रयगतग्रहस्य चान्यराशिगतैवेंधो भवेत्॥ १५॥
** भा० टी०**—पूर्व श्लोक में कहे गये “कलशाद्वन्दपर्यन्तमङ्कदान” के अङ्को को लाङ्गल चक्र की रीति से स्थापन क्रम को बतलाते हैं कि लाङ्गल चक्रको रीति से चार पांच बीस तथा तीन आठ छव और चौदह दो दश स्थापन करे। यथा अंकदानार्थत्रिपताकि चक्र तथा लाङ्गल चक्र देखिये॥ १५॥
अङ्कास्थापनार्थं त्रिपताकचक्रम् (नं०२) लाङ्गलचक्रम् (नं०३ )
तथान्यैरप्युक्तम्—
बेदवह्नीन्द्रदिक्तर्क नखवाहुगजाः शराः।
अङ्काः देयाः क्रमादेते कलशादौ विपर्ययान्॥ १॥
** सं० टी०—**अस्यार्थस्तु। कलशात्कुम्भाद्व्रिपर्ययात्पृष्ठभागस्थराशीनां क्रमात् बेदह्नीन्द्रदिकतर्कनखबाहुगजास्तथा शराश्चैते अङ्काः स्वसङ्ख्यासमाप्तिं यावदर्थान्मिथुनराशिपर्यंन्तं देयाः स्थाप्याः। यथ। कुम्भे चतुः सङ्ख्याकमङ्कं ततो मकरे त्रिमितम्। तथा धनुषि चतुर्दशमितमिति विधिना मिथुने शरमितम्॥ १६॥
** भा० टी०**—उन्हीं अकों को अन्याचार्यों के प्रमाण पुष्ट करते हैं कि कुम्भ से विलोम राशियों में मिथुन राशि पर्यन्त क्रम से ४। ३। १४। १०। ६। २०। २। ८। ५। इन सब अंकों को क्रम से स्थापन करना चाहिये॥ १॥
तथान्यैरपि ग्रहस्थापन चक्रपक्षेवाऽङ्कदानमूचूः—
पञ्चाष्टयुग्मविंशाश्च षट्दशेन्द्राग्निसागराः।
कर्कटान्मीनपर्यन्त मङ्कदानं सुनिश्चितम्॥ १६॥
** सं० टी०**—पञ्चाष्टयुग्मविंशास्तथा षट्दशेन्द्राग्निसागरा एते अङ्काः कर्कटात्कर्कराशिमारभ्य क्रमगणनया मीनपर्यन्तं मीनपर्यन्तं मीनराश्यवधिकं देया इत्यङ्कदानं सुनिश्चितं कथितं प्राचीनैरिति शेषः। अत्रेदमवधेयम्। ग्रहस्थापनचक्रपक्षे चान्त्येपूर्वापराख्यरेखायां मेषराशिमारभ्य द्वादश राशयो निवेशिताः सन्ति। अतोङ्कस्थापनचक्रे यत्र कुम्भराशिस्तत्रैव ग्रहस्थापनचक्रे मीनराशिः॥ तथा तत्र यत्र मिथुनराशिस्तत्रैवात्र कर्कराशिः। एवं सर्वत्र बोध्यम्। तेनात्र कर्कराशौ पञ्च ततः सिंहराशावष्टौ तथा कन्याराशौ विंशतिः। एवं मीने वेदमितं जातम्। एवं चक्रद्वयवशादपि स्वस्वरेखाग्रेषु चाङ्कप्रमाणमेकमेव जातम्॥ १६॥
अत्र मदीय सूत्रम्।
शून्यं वियद्व्योमसमं शराश्च
नागाश्च नेत्रं नखसम्मिता वै।
रसाः खचन्द्राः खलु शक्रतुल्या
रामाश्चवेदा अजतोत्र बोध्याः॥ १॥
आद्यं चरादित्रयमन्तरेण
चरे शरा विंशतिरत्र शक्राः।
स्थिरे गजाः षट्किल रामतुल्या
युग्मं स्वचन्द्रा निगमास्तथान्त्ये॥ २॥
** अत्र ग्रहस्थापनचक्रेमेषादेते चाङ्का ज्ञेयाः॥ १॥ २॥**
** भा० टी०**—अन्य प्राचीनाचार्यों ने ग्रह स्थापन चक्र ही में क्रम से कर्क से मीन पर्यन्त राशियों में क्रमशः ५।८।२। २०।६।१०।१४।३।४ इन अंको की स्थापना की है। वस्तु स्थिति यही है कि अंक स्थापन चक्र में जहांकुम्भराशि है वहां ग्रह स्थापन चक्र में मीन और जहां मिथुन राशि है वहां कर्क राशि है जो अग्रिम चक्र ( नं०.४ ) से स्पष्ट है॥ १६॥
ग्रहस्थापनाङ्कस्थापनमिश्रितत्रिपताकिचक्रम् ( नं० ४ )
अथ वेध प्रकारमाह—
मेषादिनामचिह्नानि ग्रहयुक्तानि कारयेत्।
एकरेखास्थिते खेटे त्रितये बेध निश्चयः॥ १७॥
लग्ने वा दक्षिणे वामे सम्मुखे ग्रहसंस्थिते।
दण्डे ज्ञेयं शिशोरिष्टं दिनं मासञ्च हायनम्॥ १८॥
** सं० टी०**—ग्रहयुक्तानि ग्रहसहितानि मेषादिनामचिह्नानि मेषादीनां राशीनां नामाक्षरैश्चिह्नानि कारयेद्गणक इति शेषः। अयमत्रफलितार्थः॥ जन्म कालिका ग्रहा यत्र यत्र राशौ वर्त्तन्ते ते राशयोप्यत्रत्रिपाताकीचक्रोयत्र यत्र स्थितास्तत्र तत्र ते खेटास्तथा जन्मकालिकं लग्नञ्चेति स्थाप्यम्॥ अत्रेकरेखास्थिते खेटे ग्रहे सति त्रितये स्थानत्रयेपि वेधनिश्चयः किन्तु वेधनिर्णयों बोध्यः॥ १७॥
** सं० टी०**—अत्र ग्रहस्थापनापेक्षया (इउ) पुर्वापरपरूपाया अन्त्यरेखायाः (इ) चिन्होर्ध्वे शृङ्गाग्रे मेषराशिमारभ्य स्वस्वाद्यक्षरोषलक्षिताः पूर्वाभिमुखगणनया द्वादश राशयोदेयाः। अत्रैवमङ्कस्थापनचक्रपक्षे (गख) पूर्वापरायां मध्यरेखायां स्वरविशिष्टं मेषराशिमारभ्य क्रमगणनया स्वरविशिष्टाः स्वस्वाद्यक्षरोपलक्षिता द्वादश राशयः स्थाप्याः। अथाङ्कस्थापनमुच्यते। तत्राङ्कस्थापनाजादिवशात
लग्न इत्यत्र पञ्चम्यर्थे सप्तमी स्यात्तेन लग्नादर्थाज्जातकजन्मकालिकलग्नाद् दक्षिण किन्तु दक्षिणदिग्गततिर्यग्रेखाग्रदण्डे ग्रहे सति वा वामे वामगततिर्यग्रेखाग्रदण्डे। तथा सम्मुखे सम्मुखगतरेखाग्रदण्डे बेधो वेघविचारो ज्ञेयः। तत्र वेधे शिशोर्बालस्य दिनं मासं तथा हायनं वर्षंचारिष्टं ज्ञेयामिति॥ अत्रेदमवधेयम्। पूर्वोक्तप्रकारेण त्रिपताकीसमाख्यं चक्रं विधाय ततः खेटस्थापनमेवादिराशिवशा ज्जन्मकालिकंलग्नंदेयं तद्यत्र राशौ भवेत्तस्मादेव वेधविचारः कर्त्तव्यः। तत्र जन्मकालिकान् खेटाञ्च दत्वादक्षिणादिवेधत्रितयेपि जन्मलग्नस्य यद्दण्डगतखेटेन सह वेधो भवेत्तद्दण्डस्थिताङ्कं पूर्वविहितं चाङ्कस्थापनचक्रादवगम्य ग्रहस्थापन—चक्रे तत्र दण्डे तदङ्कमानं लेख्यम्। ततस्तदङ्कतुल्ये वर्षे मासेवा दिने बालस्या रिष्ठं भवेत् तत्रापि वेधे जाते वक्ष्यमाणविधिना दण्डेशे पापे सति तदा याम्य दण्डगतपापग्रहवेधस्थितदण्डाङ्काप्रमाणेन निधनम्। एवं दक्षिणवेधाभावेजाते सति वामदण्डस्थपापग्रहवेधस्थाननिष्ठाङ्कमानेन निधनम्। एवं तद्द्वयस्यार्थायाम्यवामाख्यदण्डस्य यदा वेधाभावस्तदा सम्मुखदण्डगतपापखेटजवेधस्थानगताङ्कप्रमाणेन मरणम्। एवं यदा जन्मलग्नस्य वामदक्षिणसम्मुखस्थैः पापैः सह वेधत्रयं जातं तदा तु वेधकारकाणां खेटानां मध्ये वक्ष्यमाणविधिना यः खेटोऽधिकबलवान् तद्गतदण्डस्थिताङ्कप्रमाणेन मरणं विधेयम्।
तथाऽत्र विश्वेश्वरः—
“जन्मलग्ने यदा वेधः पापदण्डे मृति वदेत्।
दक्षवामाग्र मानेन पूर्वाभावे परं विदुः॥ १॥
यदा वेधस्त्रयाणांच जन्मलग्नेऽशुभग्रहे।
प्राप्तिस्तत्र बलाधिक्याद्वामदक्षिणसम्मुखैः॥ २॥
एवं वेधत्रयाभावस्तदा जन्मलग्नात्क्रूरग्रहाक्रमेण क्रूरग्रहस्थानाङ्ककङ्ख्यामाने—नार्थाज्जन्मलग्नगतदण्डाङ्कप्रमाणेन निधनं स्यात्। अत्र मेषादित्रये राशौ पूर्वरीत्या चाङ्काभावादत्र जन्मलग्ने कथं वेधो भवेत्। तदुच्यते। कथितवेधत्रयाभावे सति मेषादित्रये राशौ जन्मलग्नश्च तत्र पापग्रहस्थितिस्तदा तद्दक्षिणवामाभिमुखस्थानगानामङ्कानां त्रयाणां योगप्रमाणेन मरणम।
तदुक्तं वराहेण—
अभावे सर्ववेधानां क्रूराक्रमणतो वदेत्।
मेषादित्रितये बोध्यं मानं वामाप्रदक्षिणैः॥ १॥
एवमत्र दक्षिणदण्डगतः। तथा वामद्वण्डगतः। तत्सम्मुथदण्डनिष्ठः। जन्मलग्नगतः। इति चतुर्धा वेधो जातः। अत्रैव निधनसमयावबोधं प्रकारान्तरेण वदति।
चलबर्षे यदा वेधो देण्डेशः पापसम्भवः।
तदा मृत्युर्भवेन्नून मन्यथा कष्टमादिशेत्॥ १॥
यदा जन्मकाले दण्डेशः स्वयं पापस्तदा वक्ष्यमाणोक्ते चलवर्षे मासे च वेधे सति नूनमवश्थं मृत्युर्भवेत्। अन्यथाकिन्तु दण्डेशस्य शुभत्वरूपे कष्टं कष्टंमात्र चादिशेत्कथयेदित्यर्थः॥ १८॥
** भा० टी०**—पूर्वोक्त प्रकार से त्रिपताकि चक्र लिखकर मेधादि राशियों की स्थापना करके जन्म समय जो २ ग्रह जिस २ राशि में हो उनको उनको उन २ राशियों में स्थापित करे। एक रेखा में स्थित ग्रह से तीन स्थान में अर्थात् ग्रह से दक्षिण और वाम गत तिर्यक् रेखाग्र में तथा सम्मुखगत रेखाग्र में स्थित ग्रहों से वेध होता है॥ १७॥
अथवा जन्म लग्न से दक्षिण और वाम तथा सम्मुख रेखाघ्र गत ग्रह हों तो ( वक्ष्यमाण ४४ वा ४५ वां श्लोक सवलेत्र ग्रहे पापे दिनमात्रं विधीयते ) इत्यादि के अनुसार बालक के अरिष्ट का निश्चय करे अर्थात् इतने वर्ष मास दिन पर अरिष्टादि होगा इस का निश्चय करे॥ १८॥
अथ छात्राणांबोधजननार्थं पुनः बेधान् दर्शयति—
कर्के धनुषि मीने च हरिकोटघटेषु च।
कन्यामकर यूकेषु तुलामीनाङ्गनासु च॥ १९॥
वृश्चिके घटसिंहे च धनुर्मकरकर्कटे।
मकरे च धनुः कन्ये घटे सिंहे च वृश्चिके॥ २०॥
मीने च कर्कटे यूके मेषकन्याधनुर्झषे।
वृषे सिंहे च कुम्भे च वृश्चिके च विनिर्दिशेत्॥ २१॥
तुलामकरकर्केषु वेधं चैवं यथाक्रमम्।
यथा योगं यथान्यायं यथा भागं विनिर्दिशेत्॥ २२॥
** सं० टी०**—अथ पूर्वन्तु ग्रहस्थापनचक्रे चान्त्यशृङ्गारे मेषराशिमारभ्य द्वादश राशयो निवेशितास्तेनात्र तदभिप्रायेण कीटादिग्रहवेधं दर्शयति। तत्र कर्के कर्क राशौ धनुषि मीने मीनराशौ च खेटे सति मिथो वेधो जायते। यतः कर्कात्सम्मुखे मीनराशिस्तथा कर्णाकारसूत्रश्चापराशिः स्यादिति विहितचक्रे स्पष्टमेवातो वेधो विहितः। परञ्च कर्कराशेः कर्णाकारसूत्रे
** सं० टी०**—छात्राणां बोधजननांर्थ पुनः सर्वराशिगतवेधान् दशयति। वृश्चिके ग्रहे सति कुम्भसिंहयोवेंधः। तथा धनुषि ग्रहे सति मकरकर्कटयोवेंधः। मकरराशौ खेटे सति धनुः कन्याराश्योवेंधः। तथा घटे कुम्भराशौ ग्रहे सति सिंहवृश्चिकराश्योर्यत्र जन्मलग्नं तत्र वेधो जायते॥ २०॥
मीनराशौ खेटे सतिं कर्कटे कर्कराशौ यूकेतुलाराशौ च वेधः। मेषराशौ जन्मलग्ने सति कन्याधनुर्झषानां राशीनां गतखेटानां दक्षिणाभिमुखवामाभिधक्रमाद्वेधः। एवं वृषे जन्मलग्ने सति सिंहे दक्षिणाख्यस्तथा वृश्चिक सम्मुखाख्यस्तथा कुन्भे वामाख्यो वेधः स्यादिति विनिर्दिशेत्कथयेत्। एवं कर्कादिमीनपर्यन्तं चान्यतमे जन्मलग्ने सति द्वयोर्द्वयोराश्योर्गतानां खेटानां वेधः प्रदर्शितः॥ २१॥
एवं तुलामकरकर्केषु यथाक्रमं वेधं बदेत्। परंचायं वेधः पूर्वापररूपायां मध्यरेखायां मेषस्थापनबशाद्यत्पूर्वं चाङ्कस्थापनचक्रंप्रतिपादितंतदधिकृत्य प्रदर्शितः। तत्र यथायोगं जन्मलग्नेदक्षाभिमुखवामाख्यवेधवशात्। यथान्यायं रव्यादिखेटानां स्वोच्चनोचवक्रादिवशात्। यथा भागं वर्षमासदिनानांचाङ्कमानवशाद्बालारिष्टं विनिर्दिशेद्वदेत्॥ २२॥
** भा० टी०**—ग्रहस्थापनत्रिपताकि चक्रके अभिप्राय से कर्क राशिमें ग्रहहों या जन्मलग्न हो तो उसको धन और मीन राशिमें स्थित ग्रहों से बेध होता है अर्थात् कर्क से सम्मुख मीन राशि तथा कर्णाकार धन राशि है। इसलिये कर्क धनु और मीनका परस्पर बेध स्पष्ट है। अथ च कर्कसे कर्णाकार मिथुन राशि भी है परञ्च मेषादि तीन राशियों से अन्य राशियों का वेधाभाव आगम से स्वीकृत है इसलिये मिथुन का पाठ न लिखकर " कर्के धनुषि मीने” पाठ पठित है एवं सभी राशियों का वेध पठित है यथा सिंह राशिस्थ ग्रहसे वृश्चिक और कुम्भ से बेध होता है एवं कन्या राशिको मकर तुलासे, तुला राशिको मीन कन्या से, वृश्चिक राशिको कुम्भ सिंहसे, धन राशिको मकर कर्कसे, मकर राशिको धनु और कन्या से कुम्भ राशिको सिंह और वृश्चिक से मीन राशिको कर्कतुलासे तथा मेषको कन्या धनु और मीन राशिसेबेध होताहै। अर्थात् मेषराशि जन्म लग्न हो तो कन्या राशिसे दक्षिण बेध, धन राशिसे सम्मुख बेध होताहै। एवं वृषसे सिंह वृश्चिक और कुम्भ राशिको क्रम से दक्षिण सम्मुख और वाम बेध होता है तथा मिथुन राशि से तुला मकर और कर्क राशिसे क्रम से सम्मुख वाम और दक्षिण बेध होता है। इसमें यथा योग अर्थात् दक्षिण संमुख और वाम बेध के वश यथा न्याय अर्थात् स्वोच्चनीचादि के बलानुसार यथा भाग अर्थात् वर्ष मास और दिनके मानानुसार बालारिष्ट को कहे। आचार्य ने इन श्लोकों से १८ श्लोक को स्पष्टीकरण किया है जिससे वेध ज्ञान अति सुगम से हो जाय *1॥ १९॥ २०॥ २१॥ २२॥
एकोनविंशतिः कर्के सिंहे सप्तदशैव तु।
षट्त्रिशदेव कन्यायां तुला षड्विंशतिस्तथा॥ २३॥
बृश्चिके सिंहबज्ज्ञेयं नवयुग्मं धनुर्धरे।
तुलायां च यथा वर्षं तथैव मकरेपि च॥ २४॥
कुम्भे वृषे यथा सिंहे मोने चैव यथा धनुः।
मेषे षोडश वर्षाणि मिथुने नवनेत्रकम्+2॥ २५॥
पूर्वं वेदादयो येऽङ्का स्त्रिषु स्थानेषु कीर्तिताः।
तेऽमी लाङ्गलबेधेऽस्मिनेकीकृत्य प्रकोर्तिताः॥ २६॥
यथाङ्को दृश्यते मासो दिनं वर्षं तथैव च।
ग्रहाणां च बलं बुध्वा पूर्वोक्तं तु विनिर्दिशेत्॥ २७॥
** सं० टी०** —अत्रान्त्यशृङ्गाग्रगताजादिस्थापनवशास्त्रिपताकीचक्रे मोनादितः कर्कराशिपर्यन्तं वेदाद्यङ्कानां स्थापनपक्षे यस्य राशेर्येन येन सह वेधः पूर्वं प्रदर्शितस्तस्य राश्यङ्कसंख्यायास्तथा वेधजनितराशिस्थिताङ्कसङ्ख्यायाश्च योग समाः सङ्ख्याः कर्कादितो मीनपर्यन्तमाचार्यैर्विहिताः। यथा। कर्कराशेः पूर्वविधिना मीनधनुर्धराभ्यां सह वेधस्तेनात्र कर्कराश्यङ्कस्य पञ्चमितस्य ( ५ ) तथा मीनस्थाङ्कस्य वेदमितस्य च ( ४ ) तथाधनुर्धरस्थस्य खेन्दुमितस्य (१०) चेति राशित्रयगताङ्कयोगे कृते चैकोनविंशतिः कर्कराशौ जाता। एवंसर्वत्र बोध्यम्। एवं तन्निष्पन्नाङ्कमानं कर्के चैकोनविशतिः स्यादर्थोदेत्तुल्यमाने पूर्ववद्वर्षादिकल्पनाबशाद्वालस्यारिष्टं वक्तव्यम्। एवं सिंहेवेधे सति सप्तदशसङ्ख्यामाने रिष्टम्। तथा कन्यायां षट्त्रिंशदेवं तुल्यायां षडविंशतिः॥ २३॥
एवं वृश्चिके वेधे जाते सिंहवदर्थात्सप्तदशङ्खया तथा धनुर्धरे धनुषि नवयुग्मं स्यादर्थादैकोनत्रिशदिति। तुलायां यथा वर्षं तथैव मकरे स्यादर्थात्षड् विशतिः॥ २४॥
एवं सिंहे यथाङ्कमानं विहितं तथैव तन्मितैवार्थात्सप्तदशसङ्ख्यैव कुम्भे कुम्भराशौ वृषे वृषराशौ च बोध्या। मीने यथाधनुः किन्तु धनुर्द्धरवदर्थादेकोनत्रिशन्मिता। मेषे षोडशवर्षाणि मानानि तथा मिथुने तु नवत्रयं एकोन चत्वारिंशत्॥ २५॥
मया पूर्वमङ्कस्थापनचक्रकथने त्रिषु स्थानेषु किन्तु कर्कादितो मीनपर्यन्तं स्वस्थानं तथा दक्षवामाभिमुखस्थानां मध्ये स्थानद्वयं चेति स्थानत्रये तथा मेषवृषमिथुनराशीनां स्वस्थानजानामङ्कानामभावात्तेषां त्रयाणां राशीनां दक्षिणादिवेधजाते स्थानत्रये ये वेदादयोङ्काः कीर्त्तिताः कथितास्तेऽमी सवेंऽस्मिन् लाङ्गलवेधे चैकीकृत्य तद्योगं कृत्वाऽत्र प्रकीर्तिताः॥ २६॥
अङ्कः किन्तु स्थानत्रयाङ्को यथा दृश्यते येनप्रकारेणावगतः। तथैवग्रहाणां वक्ष्यमाणप्रकारेण बलं चकारादवलं बुध्वा पूर्वोकं पूर्वकथितं मासं दिनं वर्षं चेति सर्वं विनिर्द्विशेत्कथयेद्गणक इति शेषः।अर्थाद्यथाक्रमं प्राप्तेषु मासदिनवर्षेषु बलस्यारिष्टं जानीयात्॥ २७॥
** भा० टी०**—त्रिपताकि चक्र में अङ्क स्थापन विधि से जो अङ्क स्थापित हैं उन अङ्कों का ग्रह स्थापन चक्र के अनुसार जो वेधानयन विधि से कर्कादि राशियों का वेधैक्य होता है उसे लिखते हैं कर्क राशिका १९ सिंह का १७ कन्या का ३६ तुला का २६ वृक्षिक का १७ धनु का २९ मकर का २६ कुंभ का १७ मीन का २९ मेष का १६ वृष का १७ और मिथुन राशि का वैधैक्य ३९ कहा गया है॥ २३॥ २४॥ २५॥
पूर्वोक्त अङ्क स्थान चक्रमें जो वेदादि अंक कहे हैं उनका पूर्वोक्त वेधानुसार तीन २ स्थानों के अंकोंका योग करके योग मानको मैं यहां कहा हूं *3॥२६॥
अब बताते हैं कि इस प्रकार जो अंक आवे उतने दिन मास वर्ष पर वक्ष्यमाण प्रकारसे ग्रहोंके बलानुसार बालारिष्ट के समय को निश्चित करे॥ २७॥
इसके स्पष्टता तथा सुगमता के लिये यहां मैं दोनों चक्रों को लिख देता हूँ। कर्क से मीन पर्यन्त राशियों में स्वस्थानतथा दक्ष, वाम और सम्मुख में दो ही स्थानों काएवं स्थान त्रय का योग किया गया है तथा मेष वृष मिथुन इन तीन राशियों में स्वस्थान के अंकाभाव से दक्ष संमुख और बाम स्थित स्थान का योग किया है यथा मेष के संमुख धनराशि का अंक= १० दक्षिण स्थित कन्या का अंक = २ वाम रेखास्थित मीनका अंक=४ तीनों का ऐक्य = १६। एवं वृष मिथुन का क्रमशः १७/३९॥
तथा कर्क स्थान स्थित अंक =५ दक्षिण कर्णाकार स्थित अंक=१० एवं संमुखस्थित ४ तीनों का ऐक्य = १९ एवं सिंहादिमान क्रमशः १७।३६।२६।१७।२९।२६।१७।२९ होता है।
अथ ग्रहाणां बलाबलनिरूपणाय प्रथमं राशीशादिकं दर्शयति।—
कुज शुक्र बुधन्द्वर्क सौम्य शुक्रावनोभुवाम्।
जीवार्कि भानुजेज्यानां क्षेत्राणि स्युरजादयः॥ २८॥
** सं० टी०**—दीपकायाभजादित एतेषां ग्रहाणां क्षेत्राणि स्युः। अथैवं ग्रहाणां नैसर्गिकं मित्रादिकं वराहमिहिरादिभिः प्राचीनैः।
“शत्रू मन्दसितौ समश्च शशिजो मित्राणि शेषा रवेः।
तीक्ष्णांशुर्हिमरश्मिजश्च सुहृदौ शेषाः समाः शीतगोः॥ १॥
जीवेन्दूश्नकराः कुजस्य सुहृदो शोऽरिः सितार्की समौ।
मित्रे सूर्यसितौ बुधस्य हिमगुः शत्रुः समाश्चापरे॥ २॥
सूरेः सौम्य सितावरी रविसुतो मध्यो परे त्वन्यथा।
सौम्यार्की सुहृदौसमौ कुजगुरूशुक्रस्य शेषावरी॥ ३॥
शुक्रज्ञौ सुहृदो समः सुरगुरुः सौरस्य चान्येऽरयः’ इति यद्विहितं तदेवात्र बोध्यम्। एवं तात्कालिकं मित्रामित्रं “अन्योन्यस्य धनव्ययायसहजव्यापारबन्धुस्थितास्तत्काले सुहृदः” उक्तातिरिक्तस्थाः शत्रवः। इति तैर्यद्विहितं तदेप्यत्र बोध्यम्॥ २८॥
** भा० टी०**—मेषादि राशियों के क्रम से मंगल शुक्र बुध चन्द्रमा सूर्य बुध शुक्र मंगल बृहस्पति शनि, शनि और बृहस्पति स्वामी है॥ २८॥
स्वक्षेत्रस्थे बलं पूर्णं पादोनं मित्रभे स्थिते।
अर्धं सम गृहे ज्ञेयं पादं शत्रु गृहे स्थिते॥ २९॥
एतदुक्तं बलं सौम्ये क्रूरे ज्ञेयं बिपर्ययात्।
शत्रुगेहस्थिते पूर्णं पादोनं समबेश्मनि॥ ३०॥
अर्धं मित्रगृहे ज्ञेयं पादं पापे स्ववेश्मनि।
** सं० टी०**—ग्रहे स्वक्षेत्रस्थे निजगृहगते सति पूर्ण रूपं बलम्। तथा मित्रभे स्वमित्रग्रहस्य राशौ स्थिते खेटे सति पार्दोनं ( ४५ ) बलम्। समगृहे स्वसमग्रहस्य राशौ स्थिते खेटे सत्यर्द्धं ( ३० ) बलम्। शत्रुगृहे स्वशत्रुग्रहस्य राशौ खेटे स्थिते सति पादं (१५) बलं ज्ञेयमिति॥ २९॥
एवममुनाप्रकारेण यद्बलं कथितमेतद्बलं सौम्ये वक्ष्यमाणशुभग्रहविषयकमित्यर्थः। क्रूरे पापग्रहे विपर्ययात्कथितबलविचारस्य विलोमाद्बलं ज्ञेयमिति। तदेव स्पष्टयति–शत्रुगेहस्थिते पापे पापखेटे सति पूर्णं बलम्। तथा समवेश्मनि समप्रहराशौ पादोनं बलम् मित्रगृहे स्थिते पापे सत्यर्द्धंबलम्। तथा स्ववेश्मनि निजगृहे पादं बलमिति ज्ञेयं गणकेनेति शेषः॥ ३०॥
** भा० टी०**—अरिष्टादि निर्णय के लिये बलाबल का निर्णय करते हैं। यदि शुभ ग्रह अपने गृह का हो तो पूर्णवल (६० कला) मित्र राशि का हो तो चतुर्थांशो ( ४५ क.) सम ग्रहके राशिका हो तो अर्द्ध ( ३० क. ) बल तथा शत्रु राशि का हो तो ( १५ कला ) चतुर्थांश बल होता है॥ २९॥
उक्त बल शुभ ग्रहके लिये कहा गया है इससे विपरीत पाप ग्रहके बलको जानना चाहिये। अर्थात् पापग्रह शत्रुराशि का हो तो पूर्ण बल, समराशिका हो तो पादोन मित्र राशिका हो तो अर्धवल और यदि अपने राशि का हो तो चतुर्थांश बल होता है॥ ३०॥
अथ ग्रहाणां राशिभोगकालमाह—
भूवर्षं हि बृहस्पते र्निगदितं सार्द्धद्वयं भास्करः।
पादं बासरयुग्मकं मृगतनोः पक्षत्रयं भूमिजे॥ ३१॥
षड् विंशानि दिंनानि दानवगुरो द्वाविंश रात्रि बुधे।
षड् मासं ससमामितं बिधुरिपोर्मासं तथा भास्करे॥ ३२॥
** सं० टी०**—अत्राचार्येण बालानां ग्रहसञ्चारज्ञानं झटिति यथा स्यात्तथा मध्यगतिवशात्तत्प्रदर्शितम्। अत्र युक्तिः। तद्यथा। वृहस्पतेर्मध्यमगतिकलामानं सिद्धान्तजं ४। ५९। ९। ९। अत्राल्पान्तराद्वयवहारार्थ पञ्चकला मितं तद्गतिकलामानं स्वीकृतम्। ततोऽनुपातादेकस्मिन् मासे तच्चलनं खबाणेन्दुमित कलात्मकं स्यात् (१५० ) एतत्षष्टिभक्तं फलं भागात्मकं स्यादिति जातं सार्धद्विभागमितं। यदैकमासेनेदं चलनं तदा द्वादशमासैः किमिति। फलमेकस्मिन्नपि वर्षे तच्चलनं स्यादिति रूपं ( २ + ३० ) १२ = ( २४ + ३६० ) = ३०+०। अतः सिद्धमेकस्मिनर्कवर्षे तच्चलनमेकराशिमितं स्यात्। एवं स्वस्वमध्यमगतिवशादन्येषामपि बोध्यम्। तद्यथा—शनेर्द्विवर्षं मासषट्कञ्चैकराशिभोगमानम्। एवं मृगतनोन्द्रस्य सपादं दिनद्वयम्। तथा मङ्गले सार्द्धैकमासमितम्॥ ३१॥
तथा शुक्रस्य किन्तु तदुच्चस्य षड्विंशतिमितानि दिनानि। बुधे द्वाविंशरात्रि द्वाविंशतिमितं दिनम्। विधुरिपोः किन्तु राहो, ससमामितं षड्मासं सार्धैकवर्ष मितम्। तथा सूर्यस्यैकमासमितं इति राशि भोग कालः। अत उपपन्नं सर्वम्॥ ३२॥
** भा० टी०**—वृहस्पति मध्यम राशि के भोग से अर्थात् मध्यगति के हिसाब से प्रत्येक राशि में १ वर्ष रहते हैं ( थथा श्रीभास्कराचार्य ने भी लिखा है बृहस्पते र्मध्यम राशिभोगात् सम्वत्सरं साहितिका बदन्ति ) एवं शनि एक राशि में २॥ वर्ष, चन्द्रमा २। दिन, मंगल ३ तीन पक्ष शुक्र २६ दिन, बुध २२ दिन, राहु केतु १॥ वर्ष और सूर्य १ राशि में१ मास रहते हैं। बालकों के शीघ्र ग्रह सञ्चार के ज्ञान के लिये आचार्य ने मध्यगतिवश राशिभोग काल का ज्ञान लिखा है॥ ३१॥ ३२॥
अथ ग्रहाणां मुद्यादि लक्षणमाह—
सूर्य मुक्ता उदीयन्ते शीघ्राश्चार्के द्वितीयगे।
समास्तृतीयगे ज्ञेया मन्दा भानौ चतुर्थगे॥ ३३॥
वक्राः पञ्चमषड्भेऽर्के त्वति वक्रा नगाष्टके।
नवमे दशमे भानौ जायते कुटिलागतिः॥ ३४॥
द्वादशैकादशे भानौ जायते शीघ्रतां पुनः।
अदृश्यतां पुनर्लोपं ब्रजन्त्यर्कयुता ग्रहाः॥ ३५॥
** सं० टी०**—सूर्यमुक्ताः सूर्यत्यक्याः किन्तु सिद्धान्ते दस्त्रेन्दवः शैलभुपश्च ( १७ ) शक्राः ( १४ ) रुद्राः (११) खचन्द्राः (१०) तिथयः (१५) क्रमेण।
चन्द्रादितः काललवा निरुक्ता ज्ञशुक्रयोर्वक्रगयोर्द्विहीनाः।
‘इति पठिता ये स्वस्वसमयांशास्तदधिकैः सूर्यादन्तरिताः ये खेटास्ते चोदिताः स्युः। एवं येभ्यो ग्रहेभ्योऽर्के सूर्येद्वितीयगे द्वितीयस्थानगते तदा ते खेटाः शीघ्राः शीघ्राख्याः। एवं येभ्यस्तृतीयगे भानौ सति ते खेटाः समाः समसंज्ञका ज्ञेयाः। तथा येभ्यश्चतुर्थगे भानौ ते मन्दसंज्ञकाः॥ ३३॥
तथा येभ्यः पञ्चमषड्भे पञ्चमे षड्भेचार्के रवौ ते वक्राः वक्रसंज्ञकाः। तथा येभ्यो नगाष्टके सप्तमे चाष्टमे सूर्ये ते खेटा अतिवक्राअतिवक्रसंज्ञकाः। एवं येभ्यो नवमे दशमे भानौ तेषां कुटिला गतिर्जायते। अर्थात्ते कुटिलगतिसंज्ञकाः॥ ३४॥
एवं येभ्यो द्वादशे तथैकादशे भानौ तेषां गतिर्पुनः शीघ्रतां जायते किन्तु ते खेटाः शीघ्रगतिसंज्ञकाः स्युः। अर्कयुता ग्रहा ये ते चादृश्यतां पुनर्लोपं व्रजन्ति प्राप्नुवन्ति। अर्थात्सूर्यात्स्वस्वकालांशान्तर्गता ये खेटास्ते चादृश्यसंज्ञका लोपसंकाश्चेति। एतैः खेटानामुदयादिलक्षणं प्रदर्शितमिति॥ ३५॥
** भा० टी०**—सूर्य से मुक्त ग्रह* उदय को प्राप्त है तथा जिस ग्रह से
——————————————————————————————————————————
* श्री भास्कराचार्य ने कालांश पठित किया है यथा “द्रसेन्दवः १२ शैलभुवश्च १७ शक्राः १४ रुद्रा ११ खचन्द्रा १०तिययः १५ क्रमेण। चन्द्रादितः काललवा निरुक्ता शुक्रयोर्बक्रगयो द्विहीनाः॥ १॥
चन्द्रादि ग्रहों का क्रम से १२, १७, १४, ११, १०, १५ कार्लाश है तथा बक्री बुध का १२ शुक्र ८ कालांश है अर्थात् ये ग्रह जब सूर्य से अपने अपने अंश तुल्य अंश सूर्य से अधिक रहते हैं। तब उदित रहते हैंतथा पठित कालांश के अन्तर्गत रहते हैं तो अस्तङ्गत रहते हैं। जैसे जब कि चन्द्रमा सूर्य से १२ अंश से अधिक अंश तुल्य पीछे रहता है तब उदित, १२ अंश के अन्तर्गत होता है तो भरत हो जाता है पुनः जब सूर्य का साथ कर १२ अंश से अधिक हो जाता है तब उदय को प्राप्त होता है। एवं सभी ग्रह अपने कालांश के अन्तर्गत रहने अस्तङ्गत तथा अधिक रहने पर उदित रहते हैं।
सूर्य द्वितीय में वह ग्रह शीघ्र गति को प्राप्त होता है। जिस ग्रह से तीसरे सूर्य हों वह सम संज्ञक जिस से चतुर्थ में सूर्य हों वह मन्द संज्ञक होता है॥ ३३॥
जिससे पञ्चम तथा षष्टम में सूर्य हों वह बक्री तथा सप्तम अष्टम में सूर्य हो वह अतिबक्री और जिस से नवम दशम सूर्य हो वह कुटिल गति को प्राप्त होता है॥ ३४॥
तथा जिस से एकादश तथा द्वादश स्थान में सूर्य हो वह फिर शीघ्रता को प्राप्त होता है पुनः सूर्य से संयुक्त ग्रह पुनः अस्तंगत हो जाते हैं॥ ३५॥
** अथ ग्रहाणां सौम्यासौम्य लक्षणमाह—**
शन्यर्कराहुकेत्वाराः क्रूराः शेषाः शुभग्रहाः।
क्रूरयुक्तो बुधः क्रूरः क्षोणचन्द्रस्तथैव च॥ ३६॥
क्रूरा बक्राः महत्कूराः सौम्याः वक्रा महच्छुभाः।
सहजाः स्यु स्वभावस्थाः सौम्याः क्रूराश्च शीघ्नगाः॥ ३७॥
*4वंक्रोच्चगः स्वगेहेषु पूर्णवोर्यो भवेद्ग्रहः।
तदग्रपृष्ठगे खेटे बलं त्रैराशिकाद् भवेत्॥ ३८॥
** सं० टी०**—शनिरविराहुकेतुभौमाः क्रूराः पापग्रहाः स्युः शेषा बुधगुरुशुक्रपूर्णचन्द्राः सौम्याः शुभग्रहाः स्युः। यदि बुधः क्रूरयुक्तः पापखटेनं सह संस्थितस्तदा पापः स्यात्। क्षीणचन्द्रः किन्तु कृष्णपक्षीयैकादशीमारभ्य शुक्लपञ्चमीं यावदिन्दुस्तथा स्यादर्थात्पाप एव स्यात्॥ ३६॥
** सं० टी०**—यदि क्रूराः प्रदर्शितपापखेटाः वकाः किन्तु पूर्वकथितवकलक्षणोपयुक्तस्तदा ते महत्क्रूरा अतिपापग्रहाः स्युः। यदि सौम्याः शुभग्रहा वक्रास्तदा ते महच्छुभा अतिशुभकारकाः स्युः। यदि स्वभावस्थाः समाख्याः खेटास्तदा सहजाः सहजफलदाः स्वभाविकफलदाः स्युः। यदि सौम्याः शुभग्रहाः शीघ्रगाः पूर्वविहितशीघ्रलक्षणलक्षितास्तदा त क्रूराः पापफलदाः स्युः। चशब्दोपादानात्कूराः पापग्रहा यदि शीघ्रगास्तदा ते सौम्या शुभफलदाः स्युः॥ ३७॥
यो ग्रहो वक्रोच्चगस्तथा स्वगेहेषु स्थितः स च पूर्णवीर्यः पूर्णबली भवेत्। तदग्रपृष्ठगे कथितस्थानात्पूर्वापरस्थे खेटे सतित्रैराशिकादनुपाताद्वलं भवेत्। एतैः खेटानां क्रूरादिकलक्षणं प्रदर्शितम्॥ ३८॥
** भा० टी०**—शनि सूर्य राहु केतु और मंगल ये पांच पाप ग्रह हैं शेष बुध बृहस्पति शुक्र और पूर्ण चन्द्र ये शुभ ग्रह है परञ्च बुध पाप ग्रहों के साथ से पापग्रह तथा क्षीण चन्द्रमा*5 भी पापग्रह होते हैं॥ ३६॥
पापग्रह यदि बक्री हों तो अत्यन्त पापी तथा बक्री शुभ ग्रह अति शुभ ग्रह हो जाते हैं। पूर्वोक्त रीति से सम संज्ञक ग्रह सहज ही (अर्थात् शुभ ग्रह शुभ पाप ग्रह पापी हो ) रह जाते हैं। तथा कथित प्रकार से शीघ्र संज्ञक शुभ ग्रह पापी तथा पाप ग्रह शुभ हो जाते हैं॥ ३७॥
बक्री तथा उच्च राशि और निज राशि स्थित ग्रह। पूर्ण बली होते हैं। इन स्थानों से आगे पीछे रहने वाले ग्रहों के बल का ज्ञान त्रैराशिक से करना चाहिये॥ ३८॥
अथ ग्रहाणामुच्चनीच्चविभागं बलंचाह—
मेषो वृषो मृगः कन्या कर्को मीनस्तुला क्रमात्।
आदित्यादिग्रहेषूच्चं नीचं तस्माच्च सप्तमम्॥ ३९॥
उच्चान् नीचाच्च यत्तूर्यं समस्थानं तदुच्यते।
उच्चं च मध्यमं नीचं त्रिधा चक्रे व्यवस्थितम्॥ ४०॥
उच्चस्थे तु बलं पूर्णं नीचांशस्थे दल बलम्।
त्रैराशिक वशाज्ज्ञेयमन्तरस्थे बलं बुधैः॥ ४१॥
ग्रहाः सौम्यास्तथा क्रूरा बक्रमार्गोच्च नोचगाः।
स्थानानि चेत्थं निखिलं बलं ज्ञात्वा फलं बदेत्॥ ४२॥
बक्रग्रहे फल द्विघ्नं त्रिघ्नं च स्वोच्चसंस्थिते।
स्वभावजं फलं शीघ्रेनीचस्थोर्ध फलप्रदः॥ ४३॥
** सं० टी०**—अत्र रव्यादीनां कथितराशिषु दशशिखिमनुयुक्तिथिन्द्रियांशैः सप्तविंशतिभिस्तथा विंशतिभिश्चांशै परमोच्चं तथा विहितांशैरैव कथितोच्चात्सप्तमराशिपु नीचं स्यादिति। अत्र यद्यपि ग्रन्थकारेणांशमानानि नोक्तानि तथापि वराहमिहिराद्याचार्योतत्वान्मया प्रदर्शितानि॥ ३९॥
अथोच्चाद्विहितस्वोच्चात्तथा नीचाच्च यत्तूर्यं चतुर्थस्थानं तत्तस्य ग्रहस्य समस्थानमुच्यते कथ्यते गणकेनेतिशेषः। चक्रे द्वादशराशिसमूह उच्च स्वोच्चसंज्ञकं चकारान्मध्यं समसंज्ञक तथा नीचं नीचस्थानमिति त्रिधा प्रकारत्रयेण व्यवस्थितं निवेशितमिति॥ ४०॥
उच्चस्थ खेटे सति पूर्णं बलं परमबलं स्यात्। नीचांशस्थे खेटे सति दलं रूपार्द्धं बलं स्यात्। अन्तरस्थे तदन्तरगते खेटे सति बुधैः पण्डितैस्त्रैराशिकादनुपाताद्वलं ज्ञेयमिति। अथानुपातः। यद्युच्चनीचान्तरसमैः स्वोच्चखेटान्तरांशैः खनागेन्दुमितै रूपार्धं बलं लभ्यते तदा स्वेष्टेः स्वोच्चोनखेटान्तरांशमानैः किमिति। फलं रूपबलाद्विशोध्यं तदेष्टबलं स्यात्। परमेवं तदैव यदोच्चान्नीचं यावद्ग्रहः स्यात्। अत्र यदि नीचादग्रे ग्रहस्तदा नीचोनप्रहवशात्पूर्वदानीतफलं रूपार्धे योज्य तदाभीष्टवलं स्यात्॥ ४१॥
** सं० टी०**—अथ ग्रहाः सौम्याः शुभास्तथा क्रूराः पापास्तथा बक्रामार्गो च्चनीचगा ये सन्ति। इत्थममुना प्रकारेरणैतानि स्थानानि तथा निखिलं बलं ज्ञात्वा फलं वढ़ेत्॥ ४२॥
वक्रग्रहे यत्फलं तदुद्विघ्नं तदा फलं स्थात्। स्वोच्चसंस्थिते निजोच्चस्थानगते खेटे यत्फलं तत्त्रिघ्नं त्रिगुणं तदा फलं स्यात्। एवं शीघ्र शीघ्रसंज्ञके खेटे स्वभावजं यथास्थितं फलं स्यात्। नीचस्थः खेटश्चार्धफलप्रदोनिजफलार्धदः स्यात्॥ ४३॥
दृष्टिविचारस्तु वराहमिहिरोक्त एव। तद्यथा।
‘पूर्णं पश्यति रविजस्तृतीयदशमे त्रिकोणमपि जीवः।
चतुरस्रं भूमिसुतः सितार्कबुधहिमकराः कलत्रं च॥ १॥
दशमतृतीये नवपञ्चमे चतुर्थाष्टमेकलत्रं च।
पश्यन्ति पादवृद्ध्या फलानि चैवं प्रयच्छन्ति॥ २॥
** भा० टी०**—मेष वृष मकर कन्या कर्क मीन तुला ये राशियाँ रब्यादि ग्रहों की क्रम से उच्च हैं। तथा निज—निज उच्च स्थान से सप्तम नीच स्थान होता है॥ ३९॥
तथा उच्च और नीच से चतुर्थ राशिय सम स्थान होता है। एवं द्वादश राशि चक्र में उच्च सम नीच तीन प्रकार की व्यवस्था की गई है॥ ४०॥
ग्रह उच्च राशि में हो तो पूर्ण बल नीचांश में हो तो आधा १ / २ बल होता है। मध्य में त्रैराशिक6 से बल का ज्ञान करना चाहिये॥ ४१॥
एवं शुभ पाप तथा बक्र मार्ग उच्च नीच आदि स्थानों द्वारा बल काअच्छी प्रकार ज्ञान करके फल कहना चाहिये॥ ४२॥
यदि ग्रह बक्री हो तो फल को द्विगुणित करें, उच्च का हो तो त्रिगुणित शीघ्र संज्ञक हो तो स्वभावज और नीच राशि का हो तो अर्द्ध १ / २ फल होता है॥ ४३॥
** अथ बालारिष्टस्य समय ज्ञानमाह—**
सबलेत्र ग्रहे पापे दिनमात्रं विधीयते।
मध्ये बले तथा मासो वर्षं चैवाबले तथा॥ ४४॥
बलान्विते शुभे वापि वर्षं विद्याद्यथातथम्।
मध्ये बले तथा मासं क्षीण वीर्ये तथा दिनम्॥ ४५॥
** सं० टी०**—पापे ग्रहे वेधकारके पापग्रहे सबले पूर्णबले सति दिनमात्रं रिष्टं विधीयते वराहमिहिरादिभिः कथ्यते। तथा बेधकारके पापग्रहे मध्ये बले मध्यबले सति मासः किन्तु मासप्रमाणेन रिष्टं कथ्यते। तथा बेधकारके पापग्रहे चाबले बलरहिते सति वर्ष वर्षमानेन रिष्टं कथ्यते॥ ४४॥
——————————————————————————————————————————
**अनुपात—यदि ग्रह उच्च राशि से नीच राशि के अन्तर्गत हो तो यों बल जाना चाहिये कि उच्च नीचान्तर तुल्य १८० अंश में आधा वल पाते हैं तो उच्च करके रहित ग्रह तुल्य अंश में क्या। एवं जो फल आये उस रूप में से घटावे तो इष्ट स्थानीय बल होता है। तथा यदि नीच राशि से उच्च राशि के अन्तर्गत हो तो यों अनुपात करें कि नीचोच्चान्तर तुल्य १८० अंश में आधा बलपाते हैं तो नीचोन ग्रहान्तर तुल्य अंश में क्या। एवं जो फल आवे उसे रुपार्द्ध मेंयुक्त कर देंइष्टस्थानीय बल होता है।
** ** $(१)\frac{१ \times {उच्चोन}~{ग्रहान्तरांश}}{२ \times {१८०}} = {फलं},~{रुपोनं}~{तदा}~{बलं}~{स्यात्}~(२)\frac{१ \times {नीच्चोनग्रहान्तरांश}}{२ \times {१८०}} = {फलं},~{फलं}~{रुपार्द्ध}~{युक्तं}~{बलं}~{स्यात्}~$
** सं० टी०**—वा अथवा वेधकारके शुभे शुभग्रहे सति यथातथं यथाङ्कमानेन वर्ष रिष्टं विद्यात् जानीयात् गणक इति शेषः। तथा वेधकारके शुभखेटे मध्ये बले समबले सति मासं मासमानेनारिष्टम्। तथा बेधकारके शुभखेटे क्षीणवीर्ये नष्टबले सति दिनं दिनमानेन रिष्टम्॥ ४५॥
** भा० टी०**—यदि बेध कारक पाप ग्रह बलवान् हों तो बेध कारक पाप ग्रह जिस राशि में स्थित हों तो तद्गत एकोनविंशतिः कर्के इत्यादि के अनुसार तद्राशिगत अंक तुल्य दिन पर बालारिष्ट कहना चाहिये। एवं पाप ग्रह यदि मध्य बली हो तो कथित प्रकार से ग्रहगतांक तुल्य मास पर बालारिष्ट कहना चाहिये एवं दुर्बल हों तो बेधकारक पापग्रहगतांक तुल्य वर्ष पर बालारिष्ट कहना चाहिये॥ ४४॥
यदि बेध कारक शुभ ग्रह बलवान् हों तो शुभग्रहगतांक तुल्य वर्ष पर, मध्य बली हो तो तद्राशि गतांक तुल्य मास पर और क्षीण बल हों तो तद्राशि गतांक तुल्य दिन पर बालारिष्ट कहना चाहिये॥ ४५॥
अथ जन्मलग्नबशेन वालारिष्टमाह—
पापग्रहयुते लग्ने युते वा शत्रुवीक्षिते।
तदा दिनं भवेत्तस्य मरणाय सुनिश्चितम्॥ ४६॥
** सं० टी०**—जन्मलग्ने पापग्रहयुते शत्रुणा युते वा दृष्टे सति तदा तस्य बालस्य दिनं तदङ्कमानेन दिनं मरणाय सुनिश्चितमिति॥ ४६॥
** भा० टी०—**यदि त्रिपताकि चक्र में जन्म लग्न पाप ग्रह से अथवा शत्रु से युक्त या दृष्ट हो तो जन्म लग्न गतांक तुल्य दिन पर बालक की मृत्यु होती है॥ ४६॥
तुल्यदृष्टिद्वयोर्वापि तुल्य योगो भवेद्यदि।
तदा मासं विधातव्यं ग्रहाणां च बलाबलम्॥ ४७॥
** सं० टी०**—यदि जन्मलग्ने द्वयोः शुभाशुमखेटयोस्तुल्या दृष्टि स्यात्। वा तत्र तुल्यशुभाशुभयोर्योगः किन्तु जन्मलग्ने शुभाशुभयोर्योगे समता भवेत्। तदा ग्रहणां बलाबलमेवावगम्य मासं मासप्रमाणेनाङ्कतुल्येन रिष्टं विधातव्यं ज्ञेयमिति अत्रेदमवधेयम्। शुभग्रहे बलवति सति पापखेटे बलरहिते सति तदा मासो ज्ञेयः। अन्यथा दिनानि। तथोक्तमन्यत्र " असद्ग्रहयोगेलक्षणाद्यैर्दिनानि विमिश्रेण मासा बलात्तारतम्यमिति॥ ४७॥
** भा० टी०**—यदि जन्म लग्न शुभ तथा पापग्रह दोनों से तुल्य दृष्ट हो अथवा शुभाशुभ ग्रहों से युक्त हो तो जन्मलग्न गत अंक तुल्य मास पर बालारिष्ट कहे। उसमें भी यदि शुभ ग्रह अधिक बलवान् हो तो मास संख्या तथा यदि पाप ग्रह अधिक बलवान् हो तो तत्संख्या तुल्य दिन पर हो अरिष्ट को कहे॥ ४७॥
शुभदृष्टं शुभयुते शुभस्थानस्थितेऽपि वा।
तदा वर्षं विजानीयात्स्वामिना दृश्यते यदि॥ ४८॥
** सं० टी०**—जन्म लग्ने शुभग्रहवेधे सति शुभैर्दृष्टयुते सति वा पुनरपि शुभस्थानस्थिते शुभग्रहस्य राशौ प्राप्ते सति तदा वर्षे तदङ्कमानेन रिष्टं विजानीयाद्गणक इति शेषः। अथवा शुभग्रह वेधेसति जन्मलग्ने स्वस्वामिना ते दृष्टे सति तथैव वर्षं बोध्यम्। तथोकमन्यत्रापि शुभस्थानयोगेक्षणाद्यैः समास्तु॥ ४८॥
** भा० टी०**—यदि जन्मलग्न शुभ ग्रहसे विद्ध हो तथा शुभ ग्रहसे दृष्ट युक्त हो अथवा जन्मलग्न शुभ ग्रहकी राशि हो तो लग्न गतांक के तुल्य वर्ष पर बालारिष्ट कहना चाहिये। अथवा यदि जन्मलग्न शुभ ग्रहसे विद्ध हो तथा यदि अपने स्वामि से दृष्ट हो तो लग्न गत तुल्याङ्क वर्ष पर बालारिष्ट कहना चाहिये॥ ४८॥
अथान्य प्रकारेणरिष्टमाह—
अशुभे दण्डसंयोगे क्षीणे पापयुते यदि।
शुभ ग्रहाः प्रपश्यन्ति तत्र वर्षाणि योजयेत्॥ ४९॥
** सं० टी०**—यदा दण्डेशे पापखेटे सति तथा पुनः क्षीणे नीचारिभगतवशाद्बलरहिते सति तथा जन्मलग्ने पापग्रहयुते सति दिनानि। तत्र यदि बलवन्तः शुभखेटा जन्मलग्नं प्रपश्यन्ति तदा वर्षाणि तदङ्कतुल्यवर्ष मानेनारिष्टं योजयेज्जानीयात्॥ ४९॥
** भा० टी०**—यदि जन्मलग्न वक्ष्यमाण रीति से पाप दण्डेश से युक्त हो तथा दण्डेश—बलहीन हो और जन्म लग्न पाप ग्रहसे युक्त हो ऐसी उपस्थिति मैं यदि बलवान शुभ ग्रह जन्म लग्नको देखते हों तो वहाँ पर जन्मलग्न गत अङ्क तुल्यवर्ष में अरिष्ट जाने॥ ४९॥
बर्गोत्तमे स्वतुङ्गे वा केन्द्रे च गुरु भार्गवौ।
तथापि प्रबले पापे वर्ष भागो न लभ्यते॥५०॥
** सं० टी०**—यदि गुरुभार्गवौ वर्गेत्तमे वर्गोत्तमाख्ये नवांशे। वा स्वतुङ्गे निजोच्चे स्थितौ सन्तौ केन्द्रेऽपि भवेतां तथापि पापे वेधकारकपापग्रहे प्रबले बाधिवये सति तदा वर्षभागो न लभ्यते वर्षमानेनरिष्टं न जायते किन्तु दिनप्रमाणेन रिष्टं बोध्यम्॥ ५०॥
** भा० टी०**—यदि बृहस्पति शुक्र दोनों वर्गोत्तम नवांश में स्थित होकर या निजोच्चमें स्थित होकर केन्द्र में हों तो भी यदि बेध कारक पाप ग्रह बलवान् हों तो ऐसी स्थिति में प्राप्ताङ्क तुल्य वर्ष न कह करके तत्तुल्य दिन प्रमाण ही अरिष्ट के लिये कहना चाहिये॥ ५०॥
स्वमतं चाह—
विद्धे ऋक्षत्रितयस्थैर्दिनमात्रं विधीयते।
एतदुक्तं मम मतं शिशोरिष्टं च सर्वदा॥ ५१॥
** सं० टी०**—यदि जन्मलग्ने ऋक्षत्रितयस्यैःकिन्तु राशित्रयगतैर्ग्रहैंर्बिद्धे सति तदा दिनमात्रं रिष्टं बिधीयते। एतन्मम मतं यदुक्तं तत्सर्वदा शिशोर्बालस्य रिष्टं ज्ञेयम्॥ ५१॥
** भा० टी०**—ग्रन्थकार का यह मत है कि यदि जन्म लग्न तीनों राशिगत ग्रह से विद्ध हो तो तद्भताङ्क तुल्य दिन पर अरिष्ट कहना चाहिये। अर्थात् यदि राशित्रय गत ग्रहों से विद्ध होगा तो अवश्य तद्राताङ्क दिन पर अरिष्ट होगा॥ ५१॥
शुभ लक्षणमाह—
शुभे च दण्ड संयोगे सर्वथा पाप वर्जिते।
बालस्य कुशलं सर्वं शुभे यदि युतेक्षिते॥ ५२॥
** सं० टी०**—अनेन दण्डेशार्धयामेशयोर्वशात्फलं दर्शितम्। यद्यथा वक्ष्यमाणविधिना दण्डेशे शुभग्रहे सति तथा सर्वथा वेधार्धयामेशयोर्म्मध्ये पापवर्जिते पापखेटम्बन्धाभावे सति पुनर्यदि जन्मलग्ने शुभग्रहैर्युतेक्षिते सति तदा बालस्य सर्वंसर्वथा कुशलं कल्याणं कथयेत् न चारिष्टमित्यर्थः॥ ५२॥
** भा० टी०**—यदि वक्ष्यमाण विधि से दण्डेश ग्रह हों तथा जन्म लग्न किसी पापग्रह से विद्ध न हो वक्ष्यमाण रीति से अर्धयामेश भी पापग्रह न हो एवं सर्वथा पाप ग्रह का अभाव हो ऐसी स्थिति में जन्म लग्न यदि शुभ ग्रह से युक्त दृष्ट हो तो बालक के लिये निरन्तर कुशल (कल्याण) कहना चाहिये॥ ५२॥
अशुभ लक्षणमाह—
अशुभे दण्ड संयोगे सर्वत्र शुभवर्जिते।
बालस्य मरणं शीघ्रं यदि पापै र्युतेक्षिते॥ ५३॥
** सं० टी०—**अत्रापि दण्डेशार्धयामेशयोः सम्बन्धात्फलमुक्तम्। तद्यथा। अशुभ पापग्रहे दण्डाधिपे सति तथा सर्वत्रेति पदबलाद्वेधार्धयामेशयोर्मध्ये शुभवर्जिते शुभखेटसम्बन्धाभावे सति किन्तु तद्द्वयं पापग्रहाणामेवास्ति तथा जन्मलग्ने पापैर्युतेक्षिते सति तदा बालस्य शीघ्रं मरणं स्यात्। अत्रेदमवधेयम्। दण्डेशस्य पापाभावे रिष्टमात्रं नच मरणम्। तथोक्तमन्यत्र।
पापार्धप्रहरे जन्म पापदण्डेऽथवा पुनः।
लग्ने पापे यदा जातस्तदा मृत्युर्न संशयः॥ ५३॥
** भा० टी०—**वक्ष्यमाण विधि से दण्डेश पाप ग्रह हो सभी जगह शुभ ग्रह का अभाव हो (अर्थात् वेध कारक ग्रह तथा अर्धयामेश ये भी शुभ ग्रह न हों। ऐसी स्थिति में यदि जन्म लग्न पाप ग्रह से युक्त दृष्ट हो तो अति
मृत्यु होते है॥ ५३॥
अयार्धयामेशानाह—
दिवा षट्क क्रमेणैव रात्रौ पञ्चक्रमेण च।
वारेशादर्धयामानां पतयः कीर्तिताः बुधैः॥ ५४॥
** सं० टी०**—दिवा दिने षट्कक्रमेण षट्सङ्ख्या परिवर्तनेनाऽर्धयामाधिपाः। रात्रौपञ्चक्रमेण पञ्चसङ्ख्यापरिवर्तनेन चार्धप्रहरेशाः स्युः। इत्येवं बुधैर्बारेशाद्वारेशमारभ्यार्धयामानां पतयः कीर्त्तिता। अत्रेदमवधेयम्। यस्मिन् दिनेऽर्धयामेशस्य ज्ञानमर्भाष्टं तद्दिने दिनमानमष्टाविभज्य प्रथमखण्डाधिपं तद्दिनेशं कृत्वा तस्मादिनेशात्पष्ठग्रहं द्वितीयखण्डाधिपं ततो द्वितीयखण्डेशात्पुनः षष्ठग्रहं तृतीयखण्डाधिपं जानीयादेवमग्नेपीष्टदण्डं यावदिति। तद्यथा। रविदिने प्रथमार्धयामेशो बारेशरूपो रविरेव तस्मात्पष्ठशुक्रः स च द्वितीयार्धयामेशः। एवं तृतीयेश बुधः ३। चतुर्थेशश्चन्द्रः ४। पञ्चमार्धयामस्य पतिः शनिः। ततः षष्ठेशो गुरुः। सप्तमार्धयामाधिपतिः कुजः। अष्टमाधिपतिः पुनर्वारेशः सूर्य एव। एवमन्यवारेषु बोध्यम्।
अथ रात्रावपि प्रथमार्धयामेशं वारेशं कृत्वा ततस्तस्माद्वारेशात्पञ्चमोग्रहो ‘द्वितीयार्धयामाधिपतिः। एवं ततस्ततः पञ्चसङ्ख्यया तृतीयाद्यर्धयामानां पतयः स्युः। तद्यथा। रविरात्रावाद्यर्धयामेशो रविः। १। ततो द्वितीयस्य पतिर्गुरुः। २। तृतीयस्येन्दुः। ३। चतुर्थस्य शुक्रः। ४। पञ्चमस्य मङ्गलः। ५। षष्ठस्य शनिः। ६। सप्तमस्य बुधः। ७। अष्टमस्य सूर्यः। एवमन्यवाराणामपि रात्रिषु बोध्यम्॥ ५४॥
** भा० टी०**—दिनमें आठ अर्द्ध प्रहर होते हैं एवं रात्रिमें भी आठ अर्द्ध प्रहर होते हैं। दिनमें यदि अर्द्धयामेश जानना हो तो प्रथम अर्द्ध प्रहर दिवसाधिपति का होता है द्वितीय उससे षष्ट ग्रहका एवं तृतीयादि का भी विचार करना चाहिये। यथा रविवार को दिनमें प्रथमार्द्धयामेश सूर्य द्वितीय शुक्र तृतीय बुध चतुर्थ चन्द्र, पञ्चम शनि, षष्ठ बृहस्पति सप्तम मंगल अष्टम पुनः सूर्य अर्द्धयामेश होते हैं। तथा रात्रिमें पश्चम २ ग्रहके परिवर्तन से अर्द्ध यामेश होते हैं।
यथा रविवार के रात्रि में १ सूर्य वृ० ३ चं० ४ शु० ५ मं० ६ श० ७ बु० ८ सू० अर्द्धयामेश हुए अतएव अर्धयामेशों केसुगम ज्ञान के लिये अधो लिखित चक्र नं० १ नं० २ देखिये।
अर्धयामेशान् स्पष्टयति—
अर्कः शुक्रोः बुधश्चन्द्रो मन्दो जीवः कुजो रविः।
अर्कोः जीवः शशो शुक्रः कुजो मन्दो बुधो रविः॥ ५५॥
** भा० टी०**—पूर्व पूलोक में वारेश से “दिवा षट्क रात्रौ पञ्च क्रमेण” अर्धयामेश को कहे है उसी को स्पष्ट कर देते हैं कि दिन में वारेश से सू० शु० बु० चं० श० वृ० मं० र० और रात्रि में वारेश से सू० वृ० चं० शु० मं० श० बु० सू० के क्रम से अर्धं यामेश होते हैं॥ ५५॥
अथ दिवा दण्डेशानाह—
दिवा यामार्धपस्त्वाद्यो दण्डेशः परिकीर्तितः।
प्रोक्ता ग्रहाः क्रमेणात्र चत्वारो दण्डनायकाः॥ ५६॥
** सं० टी०**—दिवा दिने यस्मिनर्धयामे दण्डेशस्य ज्ञानमभिमतं तदाऽऽद्यो दण्डेशस्त्वर्धयामाधिप एवं परिकीर्तितः। ततः क्रमेणार्थाद्वक्ष्यमाणाधर्धरीत्या चैवं चत्वारो दण्डनायका दण्डेशाः प्रोक्ताः कथिता गणकेनेति शेषः।
अत्रेदमवधेयम्। दिने चाभीष्टार्धयामप्रमाणस्यचत्वारो भागा विधेयाः। तेषां विभागानां दण्डाख्या ग्रन्थे कथिता इति। तत्रार्धयामेशो यः स तवाद्यो दण्डेशः। तदर्धतुल्यग्रहो द्वितीयभागस्य दण्डाभिधस्येशः। पुनस्तदर्द्ध तृतीयस्येशः। पुनस्तद्धं चतुर्थेशः। तद्यथा। रविदिने प्रथमार्धयामेशो रविरेव स चात्राद्यो दण्डेशश्च। तदर्धपरि मितो राहुर्द्वितीयदण्डेशः। पुनस्तत्सङ्ख्यार्धसमा बुधस्तृतीयेशः। पुनस्तद्दलेन द्विकेन समचन्द्रश्चतुर्थदण्डेपः। एवं सवेंषामर्धयामानां प्रमाणं चतुर्धा विभज्यार्धार्धक्रमरीत्या दण्डेश्वरो बोध्यः॥ ५६॥
** भा० टी०**—दिन में जिस अर्धयाम में दण्डेश ज्ञान अभिमत हो उस में प्रथम दण्डेश अर्धयामेश ही होता है तथा द्वितीय, तृतीय, चतुर्थ दण्डेश वक्ष्यमाण प्रकार से अर्ध २ प्रक्रम से जो ग्रह कहे गये हैं वे होते हैं। एवं प्रत्येक अर्धयाम में चार दण्डेश होते हैं। यथा रविवार को प्रथम अर्धयाम में प्रथम दण्डेश रबि, द्वितीय दण्डेश वक्ष्यमाण रवेरर्धं भवेद्राहू के रीति से राहु तृतीय दण्डेश राहोरर्धं बुधस्तथा से बुध चतुर्थं दण्डेश बुधस्यार्धं शशी ज्ञेयः से शशि हुआ एवं सभी अर्धयामों में दण्डेश का आनयन करना चाहिये॥ ५६॥
दिने दण्डेशानां क्रममाह—
रबे रर्धं भवेद्राहू राहो रर्धं बुधस्तथा।
बुधस्यार्धं शशी ज्ञेय श्चन्द्रस्यार्धं दिवामणिः॥ ५७॥
भौमस्यार्धं तथा सूर्यो गुरोरर्धं हि चन्द्रमा।
शुक्रस्यार्धं कुजो ज्ञेयः शनेरर्धं तथैव च॥ ५८॥
** सं० टी०—**अत्र यदा सावयता सङ्ख्या स्यात्तदा तदवयवमपहाय पूर्णसङ्ख्या ग्राह्या। तथा शून्यस्थलेराहुः। एवं राहुसङ्ख्यायारर्धे कर्त्तव्ये चाष्टसङ्ख्यायारर्धं विधेयं यतो राहुरष्टमो ग्रहः॥ ५७॥ ५८॥
** भा० टी०**—रबि का अर्ध राहू, राहु का अर्ध बुध, बुध का अर्ध चन्द्रमा चन्द्रमा का अर्ध सूर्य होता है। तथा मंगल का अर्ध सूर्य, गुरुका लघु चन्द्रमा शुक्र का अर्ध मंगल और शनि का भी अर्थ मंगल होता है इसी अर्धार्ध के क्रम से प्रत्येक अर्धयाम में दण्डेश होते हैं जिस को ग्रन्थकार ने भी अग्रिम श्लोक “रवि शिखि बुध चन्द्राः” इत्यादि स्पष्ट से स्पष्ट दिखाया है॥ ५७॥ ५८॥
अथ दिने दण्डेशान् स्पष्टयति—
रबिशिखिबुधश्चन्द्राश्चन्द्रसूर्यासुरज्ञाः
कुजरविदनुजज्ञाज्ञेन्दुसूर्यासुराश्च।
गुरुशशिरविदैत्याः शुक्रभौमार्कदैत्याः।
शनिकुजरबिदैत्याः स्युर्दिवा दण्डपालाः॥५९॥
** सं० टी०**—अत्र रवेरर्धयामे रव्यादिचन्द्रान्ताः। एवं चन्द्रार्धयामे चन्द्रादिबुधान्ताः। कुजर्ग्धयामेकुजादि बुधावधिकाः। बुधार्धप्रहरे बुधादिराव्हान्ताः। गुरुबारे गुर्वाद्यराहुग्रहावधिकाः। शुक्रार्धयामे शुक्रादिराहुं यावत्। एवं शनिबारे शनिमारभ्य राहुग्रहं यावत्। इत्येवं दिने दण्डेश्वराः स्युः॥ ५९॥
** भा० टी०**—यदि दिन में दण्डेश का ज्ञान का अभिमत हो तो सूर्य के अर्धयाम में प्रथम दण्डेश सूर्य द्वितीय दण्देश राहु तृतीय दण्डेश बुध चतुर्थ दण्डेश चन्द्रमा होते हैं चन्द्रमा के अर्धयाम में प्रथम दण्डेश चन्द्रमा द्वितीय सूर्यं तृतीय राहु और चतुर्थं दण्डेश बुध, बुध के अर्धयाम में बुध चन्द्रमा सूर्य राहु और बृहस्पति के अर्धयाम में बृहस्पति चन्द्रमा सूर्य राहु, शुक्र के अर्धयाम शुक्र मंगल सूर्य राहु और शनि के अर्धयाम में क्रमशः, शनि मंगल सूर्य राहु दण्डेश्वर होते हैं॥ ५९॥
अथ दिनरात्र्योर्दण्डेशानाह—
दिवार्ध प्रक्रमेणैव यामार्धेशाच्च दण्डपाः।
रात्रौ षट् क्रमेणैव तदीशा यामखण्डपात्॥ ६०॥
** सं० टी०**—अत्र पूर्वार्धेन दिने दण्डेशाः प्रदर्शिताः। तस्यार्थस्तु पूर्वमेव प्रस्फुटः कृतः। अथोत्तरार्धं व्याख्यायते। रात्रो यामखण्डपादर्धयामेशादारभ्य षट्कमेण षट्परिवर्त्तनवशेन तदीशा दण्डपा स्युः।
अत्रेदमवधेयम्। रात्रावपि यस्मिन् यामार्धेदण्डेश्वरोऽभीष्टस्तदार्धयामस्याद्यचतुर्थांशस्थ दण्डाख्यस्य पतिरर्धयामेश एव। ततः षष्टोग्रहे द्वितीययण्डेशः। पुनस्तत्षष्टस्तृतीयदण्डेशः। एव ततः षष्टचतुर्थदण्डेशो बोध्यः।
तथोक्तंस्वरपञ्चाशिकायाम्—
“दिवार्धप्रक्रमेणैव ज्ञेया दण्डेश्वराबुधैः।
निशियामार्धपात्षष्टः षष्टः क्षणदलेश्वरः॥”
तद्यथा। रात्रौ रवियामार्धेदण्डेश्वराणां परामर्शे कर्त्तव्ये प्रथमदण्डेशो या मार्धेशरूपो रविरेव। तस्मात्पष्टग्रहः शुक्रो द्वितीयदण्डेशः। ततः षष्टो बुधस्तृतीयदण्डाधीशः। तत्षष्ठश्चन्द्रश्चतुर्थदण्डप। एवमन्यार्धयामेष्वपि विभाव्यम्॥ ६०॥
** भा० टी०**—दिन में दिवार्ध प्रकम से दण्डेश होते हैं जिसका अर्थ पूर्व में ही कर दिया हूं। उत्तरार्ध का अर्थ कहता हूं रात्रि में अर्धयामेश से षष्टमष्टम ग्रहके क्रमसे दण्डेश जानना चाहिये अर्थात् रात्रि में जिस अर्धयाममें दण्डेश ज्ञान करना है उसमें अर्धयामेश ही प्रथम दण्डेश होता है तथा अर्धयामेश से छठवां ग्रह द्वितीय दण्डेश, द्वितीय दण्डेश से षष्टम ग्रह तृतीय दण्डेश, तृतीश दण्डेश से षष्टम ग्रह चतुर्थ दण्डेश होता है। यथा रात्रि में रवि के अर्धयाम में दण्डेश ज्ञान करना है तो सूर्य ही प्रथम दण्डेश हुआ। सूर्य से षष्ट शुक्र द्वितीय दण्डेश, शुक्र से षष्ट बुध तृतीय दण्डेश और बुध से षष्ट चन्द्रमा चतुर्थं दण्डेश हुआ एवं रात्रि में दण्डेश्वर का ज्ञान करना चाहिये॥ ६०॥
रात्रौ दण्डेश्वरान् स्पष्टयति—
रविसितबुधचन्द्राश्चन्द्रमन्देज्यभौमाः
कुजरविसितसौम्याः सौम्यचन्द्रार्किजीवाः।
गुरुकुजरविशुक्राः शुक्रसौम्येन्दुमन्दाः
शनिगुरुकुजसूर्या रात्रिदण्डेश्वराः स्युः॥ ६१॥
** सं० टी०**—रात्रावर्कार्धयामे रविमारभ्य चन्द्रं यावत्। तथेन्दुयाभदले चन्द्रादिमङ्गलान्ताः। एवं मङ्गलार्धप्रहरे मङ्गलादि बुधावधिकाः। बुधार्धयामे बुधमारभ्य गुरु यावत्। गुरोरर्धयामे गुरुमारभ्य शुक्रान्ताः। एवं शुक्रार्थप्रहरे शुक्रमारभ्य शन्यन्ताः। तथा शनेरर्धवामे शन्यादिरव्यन्ताः। इत्येवं रात्रौ दण्डेश्वराः स्युः॥ ६१॥
अथेवं कृते सति तच्चक्राणि लिख्यन्ते॥
** भा० टी०**—यदि रात्रि में दण्डेश का ज्ञान अभिमत हो तो रवि के अर्धयाम में क्रमशः रवि शुक्र बुध चन्द्रमा ये चारो ग्रह दण्डेश होते हैं, एवं चन्द्रमा के अर्धयाम में चन्द्रमा शनि गुरु मंगल, मंगल के अर्धयाम में मंगल रवि शुक्र बुध, बुध के अर्धयाम में बुध चन्द्रमा शनि बृहस्पति, बृहस्पति के अर्धयाम में बृहस्पति मंगल रवि शुक्र, शुक्र के अर्धयाम में शुक्र बुध चन्द्रमा शनि और शनि के अर्धयाम में शनि वृहस्पति मंगल और सूर्य ये ग्रह रात्रि में क्रमशः दण्डेश होते हैं। जो कि अग्रिम चक्रों से स्पष्ट है॥ ६१॥
रवि रात्रौ (अथ रात्रौ दण्डेश चक्राणि) चन्द्र रात्रौ
| कुज रात्रौ | बुध रात्रौ | गुरु रात्रौ | ||||||||||||||
| अ. | प्र. | द्वि | तृ. | च. | अ. | प्र. | द्वि | तृ. | च. | अ. | प्र. | द्वि | तृ. | च. | ||
| द. | द. | द. | द. | द. | द. | द. | द. | द. | द. | द. | द. | |||||
| १ | कु. | र. | शु. | बु. | १ | बु. | चं. | मं. | बृ. | १ | बृ. | मं. | र. | शु. | ||
| २ | श. | बृ. | मं. | र. | २ | र. | शु. | बु. | चं. | २ | चं. | श. | बृ. | मं. | ||
| ३ | बु. | चं. | श. | बृ. | ३ | बृ. | मं. | र. | शु. | ३ | शु. | बु. | चं. | श. | ||
| ४ | र. | शु. | बु. | चं. | ४ | चं. | श. | बृ. | मं. | ४ | मं. | र. | शु. | बु. | ||
| ५ | बृ. | मं. | र. | शु. | ५ | शु. | बु. | चं. | श. | ५ | श. | बृ. | मं. | र. | ||
| ६ | चं. | श. | बृ. | मं. | ६ | मं. | र. | शु. | बु. | ६ | बु. | चं. | श. | बृ. | ||
| ७ | शु. | बु. | चं. | श. | ७ | श. | बृ. | मं. | र. | ७ | र. | शु. | बु. | चं. | ||
| ८ | मं. | र. | शु. | बु. | ८ | बु. | चं. | श. | बृ. | ८ | बृ. | मं. | र. | शु. |
| शुक्रा रात्रौ | शनि रात्रौ | ||||||||
| अ. | प्र. | द्वि | तृ. | च. | अ. | प्र. | द्वि | तृ. | च. |
| द. | द. | द. | द. | द. | द. | द. | द. | ||
| १ | शु. | बु. | चं. | श. | १ | शु. | बु. | चं. | श. |
| २ | मं. | र. | शु. | बु. | २ | बु. | चं. | श. | बृ. |
| ३ | श. | बृ. | मं. | र. | ३ | र. | शु. | बु. | चं. |
| ४ | बु. | चं. | श. | बृ. | ४ | बृ. | मं. | र. | शु. |
| ५ | र. | शु. | बु. | चं. | ५ | चं. | श. | बृ. | मं. |
| ६ | बृ. | मं. | र. | शु. | ६ | शु. | बु. | चं. | श. |
| ७ | चं. | श. | बृ. | मं. | ७ | मं. | र. | शु. | बु. |
| ८ | शु. | बु. | चं. | श. | ८ | श. | बृ. | मं. | र. |
** सं० टी०**—अत्रोदाहरणम्। संवत् १९३६ शकः १८०१ चैत्रकृष्ण त्रयोदश्यां सोमवासरे दण्डादिकं ३२। ५७ पूर्वभाद्रनक्षत्रं दण्डादिकं ३८।२१ ब्रह्मयोगो दण्डादिः ५४।२६ विष्टिकरणम्। मीनार्कगतांशाः ११।२६।२२।१० दिनमानं ३१\।६ रात्रिमानं २८।५४ श्रीमन्मार्तण्डमण्डलार्द्धादयादिष्टं ४५\।३३ एवं पञ्चाङ्गशुद्धौ कार्मुकलरनोदये कस्यचिज्जन्म।
तात्कालिकाः स्पष्टखेटाः
[TABLE]
अथ रात्रिमानमिदं २८।५४ अष्टभिर्भक्तंलब्धमर्धयामप्रमाणं ३।२६।४५ अथरात्रिगतप्रमाणेऽस्मिन् १४।२७ अर्धयामसङ्ख्याज्ञानार्थं पूर्वानीतार्धयामप्रमाणं चतुर्गुणं जातं १४।२७ परञ्चेदं रात्रिगतप्रमाणेन समं स्यातेन चतुर्थयामार्धविरामे विहितबालस्य जन्म स्यात्। अतो यामार्धेशपरामर्शेन यामार्धेशः शनिः। अत्र दण्डेश्वरावगमार्थं यामार्धमानस्यास्य ३। ३६।४५ चतुर्थांशेनानेन ०।५४।११ दण्डाख्यप्रमाणं जातम् ०।५४।११ परञ्चास्य चतुर्गुणस्य विरामे जन्म स्यात्तेनात्र दण्डेशविचारादत्रार्को दण्डेशो जातः।
अथ " प्रदानविचारे तु अन्त्येमेषं विनिर्दिशेत्॥ १॥
** इति सुत्रेण जातं त्रिपताकीचक्रसुरूपम्।**
** सं० टी०–** अत्रार्धयामेशः। तथा दण्डेश्चार्कः स च पापः। अत्रकार्मुकरूपस्य जन्मभस्य केनचिद्ग्रहेण सह पूर्वकथितदक्षादिवेधो नास्ति तेनात्र वेधत्रयाभावे सति “जन्मलग्नात्क्रूरग्रहाक्रमेण” इति रीत्या जन्मलग्नगतदण्डनिष्टो राहुः। तेन एकोनत्रिंशमानेन बालस्य रिष्टं जातम्। अत्रेदमवधेयम्। अर्धयामदण्डेशयोः पापत्वे सति तथा पापग्रहजनिते वेधे सति बालस्य मरणं ग्रन्थकारेण विहितम्। एवं यामार्धेशे तथा दण्डेशे पापे सति तथा यदि वेधाभावस्तदा बालस्यारिष्टमात्रं स्यादर्थादरिष्टं लब्धा जीवेत्। अत्राचार्येणारिष्टपरामर्शे तु दण्डेशस्याति मुख्यत्वं विहितम्। अत्रोदाहरणे तु दण्डेशस्य तथार्ध यामेशस्य पापत्वं तथा जन्मलग्ने राहुग्रहः पापरूपोस्ति तथा वेधाभावः परञ्च जन्मलग्नोपरि शनेः पूर्णदृष्टिः स्यात्तेन जन्मलग्नाङ्कमानेन महदरिष्टस्य भोगं कृत्वा जीवेत्। अत्रैवं यदि पापग्रहजनितो वेधश्चेत्तदा “अशुभे दण्डसंयोगे सर्वत्र शुभवर्जिते’’ इत्यादि पयबलादवश्यमेवास्य बालस्य मरणं भवेत्। अथ कदा तदरिष्टं भवेदित्युच्यते। अत्र तु गुरुभार्गवौ चतुर्थस्थानगौ तथा शुक्रः स्वशीघ्रोच्चगस्तथा गुरुस्तु स्वशीघ्रोच्चगतोनास्ति परञ्च स्वराशिगतस्तेन ‘वर्गोत्तभेस्वतुङ्गे वा केन्द्र वा गरुभार्गवौ’इति विहितपद्यानुसारेण लग्नाङ्गेन द्वाविंशति—मितेन दिनमानेनास्य बालस्य रिष्टंबोध्यम्। परमत्रापि बलाबलग्नहस्य दृष्टिवशाद्विहितदिनानामप्यधिकाल्पं चानुक्तमपि निजमस्या विभानीयम्। अथ यत्रमासाविषयकं वा वर्षविषयकं चारिष्टमायाति तदा तत्र कस्मिन्दिने तदरिष्टं भवेदिति जिज्ञासायामुच्यते। यस्मिन् दिने वेधकारकखेटेन सह चन्द्रस्य योगोभवेत्तद्दिने मृत्युर्थद्वा कर्कतुलाराश्योर्मध्ये कस्मिनपिराशौ स्थितश्चन्द्रो वैध कारकग्रहेण सह वेधं करिष्यति तदा बालस्य मरणं भवेत्। तदुकं नरपति समाख्यग्रन्ये ‘यद्दिने वेधयेच्चन्द्रस्तद्दिने स्याच्छुभाशुभम्’ अत्र त्रिपताकीचक्रजस्यारिष्टस्यापगमाय दानपदार्थमुच्यते। रक्तवस्त्रं शर्करा तथा पाषाणपत्रं गव्यदुग्धपूरितम्। तदशक्तौ प्रवालं विद्रुमं बेधकारकग्रहस्य विहितधान्यं तथा दण्डेशस्य धान्यं तिलतण्डुलानि च। तथा ग्रन्थान्तरेविशेषः।
धाम्यं मुद्गाश्च माषाश्चतिलाश्चस्वेतसर्पषाः।
लोहं प्रबाल घटितं घृतं गव्यंस्वशक्तितः॥
वेधकग्रहरूपेण धान्यमानं नवांशकैः।
बर्षाङ्काद्वस्त्रमानं च स्वर्णमानं स्वशाक्तितः॥
घृतार्थप्रमितं खण्डं तिला लोहाच्चतुर्गुणाः।
अथान्यो विशेषः कर्मविपाके॥
‘वेदाध्ययनसम्पन्नं याचितारमकिञ्चनम्।
ब्राह्मणं दातुमाहूय दानार्थं न ददाति यः॥
बालानां हिसकश्चैव बहुव्याध्यादिमान् भवेत्।
शूलादिदुष्टरोगाढयः सदा दुष्खस्य भाजनम्॥
पापग्रहकृतोवेधस्तं नित्यं पीडयेद्शृशम्।
अथ तद्दोषापगमाय त्रिशूलदानं वायुपुराणे॥
‘कृष्णपक्षे चतुर्द्दश्यां अष्टम्यां वा सितेतरे।
कुर्याद्द्वादशनिष्केण त्रिशूलं लक्षणान्विंतम्॥
अत्र सबर्णमानं निष्कचतुष्टयं वा सुवर्णसंज्ञकं वा षट्पञ्चाशदधिकशतलौल्य चेति त्रिधा विकल्पः। तदशक्तौ यथा शक्तिस्तथा विधेयम्। तत्र पात्रे त्रिशूलंस्थापयित्वा यथाविधि पञ्चोपचारैश्च रुद्रप्रकाशक वैदिकमन्त्रेण तथा त्रिशूलाय नमः इति नाममन्त्रेण तत्सम्पूज्य ततोऽघोरमन्त्रेण प्रणिपत्य ततो यथा विभवेन द्विजं च पूजयेत्। ततः सङ्कल्पः। ॐतत्सत् अद्येत्यादि अस्य बालस्य त्रिपाताकीचक्रे अमुकग्रहजनितलाङ्गलसन्मुखवेधगतदण्डार्धयामेशपापग्रहसंसूचिताशेषरिष्ठ झटितिप्रशमन पूर्वकदीर्घायुष्यबल पुष्ठिनैरुज्यप्राप्तिकामाय इदं दुग्धपूरितं पाषाणपात्रं तथा अल्पमृत्युप्रशमनाय सौवर्ण त्रिशूलं तथा घृतं शर्करां अन्नानि वस्त्रंसुवर्णतिलान्नं लौहं प्रबालं ताम्रं ब्राह्मणायाहन्ददे। अत्र तत्तद्वस्तुनि स्बस्वदैवतमिति योजगीयम्। तत्र पाषाणस्य धर्मराजः। त्रिशूलस्य मृत्युज्जयः। घृतस्यग्निः। शर्कराया वरुणः। अन्नानां प्रजापतिः। वस्त्रस्य बृहस्पतिः। सुवर्णस्याग्निः। तिलान्नस्यब्रह्मा। लोहस्य शनिः। प्रबालस्य भौमः। ताम्रस्य सूर्यः। इति दैवतं बोध्यम्।
अथ त्रिपाताकीचक्रप्रकारेण वर्षारिष्टविचारस्तु मदुक्तजातक्रोडा भिधे ग्रन्थे द्रष्टव्यः। अत्रायं विशेषः। स्वशेषाङ्केन राहुकेतु रहितौविधेयावर्था दुत्क्रमात्तौलेख्यौ। अत्र तयोर्विपरीतचलनात्तथा विशेषग्रन्थस्वरसाच्चेयं कल्पना समीचीना। तथा मतान्तरे तु गताब्दभानेषड्भिक्ते शेषाङ्कतुल्यराशौ राहुभौमौ लेख्यौ। अथ मतान्तरे वर्षपताकीचक्रस्यापि केतुपताकीचक्रसंज्ञा कृता। अस्मिन् चक्रे चन्द्रभौमयोर्यद्वा राहुमन्दयोरेकनाडयांमिथो वेधस्तदा तस्मिन् समये महरिष्टं भवति। अत्र यदिराहुजीवयोवेंधस्तदा कष्टम्। तथा पापवेधेनहानिर्वाच्यो। तथा शुभग्रहवेधेन वृद्धिर्वाच्या। एवं पापशुभग्रहजनिते वेघे मिश्रफलम्। तथा मुक्तावल्यामुकम्।
“स्वर्भानुविद्धे हिमगौच कष्टं तापोर्कविद्धेऽथ रुगार्किविद्धे।
महीजविद्धे तु शरीरपीडा शुभैश्च बिद्धे जयसौख्यमुक्तम्”॥
शुभाशुभव्योमगवीर्यतोऽत्र फलं च वर्षस्य वदेत्सुधीभिः॥
तथा स्वरपञ्चाशिकायां विशेषरूपेण फलमुक्तम्”
मन्देनपीडा रविणाऽस्त्रभीतिः पीडार्थनाशौरुधिरेण विद्धे॥
निमीलनं राहुशिखिव्यधेन स्याल्लाभसौख्यं शुभखेटवेधे॥
उच्चादिपद संयोगात्तारतम्यात्फलं वदेत्॥
द्वित्र्यादिखचरैर्वायंदुष्टं पुष्टं शुगं तथा॥
एवं मासप्रवेशलग्नशात्तथा दिनप्रवेशलग्नवशात्सञ्जाते त्रिपा ताकीचक्रेचन्द्रस्य पापग्रहेण सह वेधस्तदा नेष्टं फलं स्यात्। तदुक्तम्” वर्षे मासे दिने नाड्यां वेधं ज्ञात्वा फलं वदेत्। अत्रास्मिन् चलवर्षे मासे वा वेधे सतिं तथादण्डेशस्य पापत्वे सति " चलवर्षे यदा वेधः “इति पूर्वविहितपद्यानुरेण मृत्युबोध्यः।
श्रीकृष्णदत्तेन कृतातिरम्या टोका सुगम्या व सुबोधिनी या।
तस्यां पताकीजनितं सुचक्रं शिशोरसत्सत्फलदं प्रपूर्णम्॥ १॥
अत्रोदाहरणम्—सम्बत् १९६४ शकः १८२९ आश्विनमासे शुक्लपक्षे तृतीया तिथौ गुरुवासरे घट्यादिकं १७॥ १० तदुपरि चतुर्थ्या तीर्थो द्बीशमे घट्याधिकं ३६॥१ प्रोति योगे घट्यादिकं ३६॥१८ गर करणे घ० १७ १० तदुपरि वणिज करणे एवं पचाङ्ग शुद्ध तत्र दिनमान २९॥४ श्रीमन्मार्तण्डमण्डलार्द्धोदयादिष्टम् २ ३ ३ कुम्भ लग्नोदये कस्यचिज्जन्म।
तात्कालिकाः स्पष्टा ग्रहाः।
[TABLE]
प्रथम अर्धयाम प्रमाण का आनयन करना चाहियेदिन का इष्ट काल हो तो दिन में आठ से भाग देना चाहिये, यदि रात्रि काइष्ट काल हो तो रात्रि मान में आठ से भाग देना चाहिये यहां दिन का इष्ट काल है अतएब दिनमान २९॥५ में आठ का भाग दिया तो लब्धिः ३।३८ प्राप्त हुआ। यही एकअर्धयाम का मन हुआ। अतएव इस अर्धयाम प्रमाण से दिन का इष्ट २३।३ में भाग दिया तो लब्धि ६ मिला यह गत अर्धयाम संस्था हुए। लब्धि में १ जोड़ दिया अतएव ७ सातवें अर्धयाम में जन्म हुआ तो “दिवा षट्क क्रमेणैव” इत्यादि अर्धयामेशानयन प्रकार से अर्धयामेश शनिं हुआ इसी प्रकार रात्रि के इष्टकाल में रात्रि के अर्थयाम प्रमाण से भाग देकर “रात्रौ पञ्चक्रमेण च” से अर्धयामेशानयन करना चाहिये।
अथ च दण्डेश के ज्ञान के लिये अर्धयाम प्रमाण३।३८ में ४ चार से भाग दिया लब्धि ०।५४।३० यह दण्डप्रमाण हुआ। यहां ६ अर्धयाम का प्रमाण २१।४८ गत हो चुका है सातवें अर्धयाम में १घटी १५ पल बीतचुका है अतएव इस अर्धयाम के द्वितीय दण्ड मेंजन्म हुआ इस लिये “दिवार्ध प्रकमेणैव” इत्यादि दण्डेशानयन विधि से मंगल दण्डेश हुए।
अथ बालारिष्ट विचार के लिये “ग्रह दान विचारे तु अन्त्येमेषं विनिदिशेत्” इस सूत्र से त्रिपताकि चक्र लिखकर ‘एकोनविंशतिः कर्के सिंहे सप्तदशैव तु” इत्यादि से अङ्कोका न्यास करके बालारिष्ट का निश्चय किया जाता है।
यहाँ अर्धयामेश शनि और दण्डेश मंगल दोनों पाप ग्रह हैं। तथा त्रिपताकि चक्र में जन्म लग्न पूर्व कथित रीति वृश्चिक राशिस्थ चन्द्रमा से बाम बिद्ध है। जन्म लग्नगत शनि है। चन्द्रमा क्षीण होने के कारण पाप ग्रह हुआ तथा “सूर्यमुक्ता उदीयन्ते” इत्यादि से तृतीयस्थ होने से समसंज्ञक हुआ अतः “सहजाः स्युः स्वभावस्थाः” से पाप ग्रह ही हुआ। नीचस्थ होने से (मध्यवली) अर्धबली हुआ। तथा ‘पादोनं समवेश्मनि” इससे ४५ पादोन बली हुआ। अतएव “सबलेत्र आहे पापे दिनमात्रं विधीयते। मध्ये बले तथा मासो वर्ष चैवाबले तथा’ इस प्रमाण से १७ मास पर बालारिष्ट हुआ। अथ च दण्डेश अर्धयामेश दोनों के पाप ग्रह होने से तथा दण्डेश मंगल राहु और सूर्य से विद्ध है। अर्धयामेश मी चन्द्रमा से विद्ध है अतएव “अशुभे दण्ड संयोगे सर्वत्र शुभवर्जिते” इससे मरण होना चाहिये परञ्च यहाँ जन्मलग्न निज स्वामि से युक्त है तथा बु० वृ० शु० तीनों शुभ ग्रहों से दृष्ट है अतएव यह जातक १७ मास पर महदरिष्ट का भोग कर जीवित है जो लग्न निज स्वामी को छोड़कर अन्य पाप ग्रहों युत इष्ट हो उसमें यदि प्रबल शुभग्रहों की दृष्टि और योग न हो तो दण्डेश अर्धयामेश का पाप ग्रह होने से तथा पापग्रह के विद्ध इत्यादि होने से निर्धारित समय पर मृत्यु कहनी चाहिये। अन्यथा शुभ ग्रहों के दृष्टि योग के प्राबल्य से शुभ कहनाचाहिये।
इस प्रकार यदि मास विषयक अथवा वर्ष विषयक अरिष्ट ज्ञात हुआ तो किस दिन अरिष्ट होता है इसके लिये पञ्चाङ्ग से ( “यद्दिने वेधयेश्चन्द्रस्तद्दिने स्याच्छुभाशुभम्” इस नरपतिजयचर्य्यानामक ग्रन्थ के प्रमाण से ) जिस दिन चन्द्र बेधकारक ग्रह से बेध करे उस दिन अरिष्ट कहना चाहिये।
इति श्रीप्रजापति दास विरचिते पञ्चस्वराख्य ग्रन्थे सरला भाषाटीकायां
त्रिपताकिप्रकरणं समाप्तम्।
अथात्र वर्षारिष्ट कथने परमोपयोगित्वाद् त्रिपताकि चक्र विचारस्य पूर्वाचार्योश्च पद्यानि —
रेखात्रयं तिर्थगथोर्ध्वसंस्थमन्योन्य विद्धाग्रगमेक कोणात्।
स्मृतं बुधैस्तत्र्त्रिपताकि चक्रं प्राङ्मध्यरेखाग्रग वर्षलग्नात्॥१॥
न्यसेद्भचक्रं किल तत्र सैकां याताब्द संख्यां विभजेन्नभोगैः।
शेषोम्मिते जन्मग चन्द्रराशे स्तुल्ये च राशौ विलिखेच्छशाङ्कम्॥२॥
परे चतुर्भाजित शेष तुल्ये स्थाने स्वराशेः खचरास्तु लेख्याः।
स्वर्भानुबिद्धे हिमगौ त्वरिष्टं पातार्कि विद्धे रुगिरामे भवन्ति॥ ३॥
महीज बिद्धे तु शरीर पीड़ा शुभैश्च विद्धेबहु सौख्य लाभः।
शुभाशुभं व्योमग वीर्यतोऽत्र फलञ्च वर्षस्य वदेत् सुधीमान्॥४॥
अथायुर्दायविचाराध्यायः।
अथायुर्दायविचाराध्यायः॥ २॥
तत्र स्वाभिमतं प्रकटयति—
चतुर्विंशति वर्षोर्ध्वमायुर्दायं विचिन्तयेत्।
साधारणा न जानन्ति कठिनं विषमं ध्रुवम्॥ १॥
बराहाद्यैश्च तत्वज्ञैर्यः कृतो निर्णयः पुरा।
तदुद्देशेन वक्तव्यं यत्किञ्चिज्ज्ञायते मया॥ २॥
निदानस्य यथा तत्वं स्वभाबाद्रिष्ट निर्णयः।
गुरोरुद्देश्य गम्यश्च बुध्यते नतु चान्यथा॥ ३॥
** सं० टी०**—गणकञ्चतुर्विंशतिवर्षोर्ध्वं जन्मतश्चतुर्विंशतिमितेभ्यो गताध्देभ्यः परमायुर्द्दायं वक्ष्यमाणविधिना चलचक्रादिविचारं विचिन्तयेद्विचारयेत्। तदायुर्द्दायविचारं साधारणा अल्पज्ञानरा न जानन्ति। कथम्भूतं तद्यतो ध्रुवं निश्चितं विषमं किन्त्वाबगन्तुमशक्यम्। कुतो यतः कठिनमिति॥ १॥
तत्वज्ञैर्मुख्यार्थज्ञैर्वराहाद्यैचैराचार्यैः पुरा पूर्वसमये यो निर्णयः किन्त्वायुर्दायविचारः कृतः। मया प्रजापतिदासेन तदुद्देशेन तत्कथनानुसारेण यत्किञ्चिज्ज्ञायते यथामति स्वल्पमपि यदवगतं तद्वक्तव्यमिति॥ २॥
यथा स्वभावान्निदानस्य तत्वं तथारिष्टनिर्णयः कथितारिष्टविचारो गुरोरुद्देशगभ्यः किन्तुगुरुपदेशेनावगन्तुं योग्यः। अन्यथा गुरूपेदशं विना न बुध्यते॥ ३॥
** भा० टी०**—अरिष्टाध्याय में पूर्व कहा जा चुका है कि २४ चौबीस वर्ष के अन्तर अरिष्ट ही का विचार करना चाहिये। आयुर्दाय का नहीं इसी को यहाँ पुष्टिके लिये ग्रन्थकार यहाँ कह रहे हैं कि चौबीस वर्षके अवस्था के बाद आयुर्दाय का विचार करना चाहिये परञ्च उसे अल्पज्ञ दैवज्ञ नहीं जान सकते हैं क्योंकि आयुर्दाय बिचार कठिन है तथा विषम है अर्थात् टेढ़ा है और निश्चित है ( अर्थात् अन्य फलों के तरह सम्भावित नहीं है किन्तु इस मृत्यु का एक न एक दिन होना निश्चित है तो यह निश्चित ध्रुवकब होगा यह जानना अत्यन्त ही कठिन और टेढ़ा है )॥ १॥
अतएव श्रीवराह मिहिराचार्यादि तत्वज्ञों द्वारा जो पूर्व में निश्चित हो गया है उसी के अनुसार जो कुछ मुझे ज्ञात है वही मुझे कहना है॥ २॥
स्वभावतः अरिष्टादि निर्णय का प्रत्यक्ष जो निदान काकुछ तत्व है वह गुरुद्वारा ही जाना जा सकता है अन्यथा गुरु के उपदेश बिना जानना कठिन है ( क्योंकि गुरु को अनुभव सिद्ध हो चुका रहता है )॥ ३॥
अथ वर्षफल कथनार्थं वर्षलग्नमाह—
जन्म लग्मं समारभ्य गतवर्षाणि योजयेत्।
द्वादशस्विह भावेषु ग्रहैर्वाच्यं शुभाशुभम्॥ ४॥
** सं० टी०—**खन्मलग्नं समारभ्य जन्मकालिकं लग्नमेषादेर्गणयित्वा यन्मितं स्यात्तत्र गतवर्षाणियोजयेत्। इह द्वादशसु भावेषु ग्रहैः शुभाशुभं फलं वाच्यं कथनीयम्। अयं भावः। स्वजन्मलग्ने गतवर्षमानं योज्यं तद्यदि द्दादशाधिक तदा द्वादशभिविभज्य शेषमितं वर्षलग्नं कल्पयित्वा ततो भावग्रहानुसारेण तद्वर्षस्य शुभाशुभं बोध्यम्। अर्थान्नीलकण्ठाचार्योंक्तेन्थिहाभावमधिकृत्य सामान्यतया वर्षफलं ज्ञेयम्। तत्फलं ग्रन्थान्तरे—
‘व्यन्त्यारिस्थैः सोम्यखेटैः पापैस्त्रयायारिगैः शुभम्।
केन्द्रेकोणाष्टगो राहुः पापाश्चान्त्यें शुभा मुदे॥ ४॥
** भा० टी०**—अपने जन्म लग्न में गत वर्ष मान को जोड़कर यदि बारह से अधिक हो तो १२ से भाग देकर शेष तुल्य मेषादि लग्न का वर्ष लग्न मान कर भाव ग्रहानुसार शुभाशुभ वर्ष फल कहना चाहिये॥ ४॥
अथ वर्षेश्वर विधिमाह—
वर्षेश्वरं समारभ्य नक्षत्राङ्कविधानतः।
वत्सरं कल्पनीयञ्च फलं तद्बच्च कल्पयेत्॥ ५॥
** सं० टी०**—वर्षेश्वरं समारभ्य वक्ष्यमाणविधिना। वर्षेशमवगम्य तमारभ्य नक्षत्राङ्कविधानतः कथितनक्षत्राङ्कमानेन वत्सरं कल्पनीयं बोधव्यम्। तद्वत्फलं च कल्पयेत्। अर्थाद्वक्ष्यमाणविधिना वत्सराधोशं बुध्वा तद्वशेन फलं कथयेत्। अनेन वर्षेश्वरविधिः प्रदर्शितः॥ ५॥
** भा० टी०**—वस्तुतः यहां पर प्रथम जन्मकाल से अवस्था (वर्ष) का ज्ञान कर के नक्षत्राङ्क विधि से (अर्थात् वक्ष्ममाण “रविचन्द्रार” सौम्याश्च शनीज्यो राहु केतवः। अन्त्ये शुक्र स्त्रिरावृत्या कृतिकादि क्रमाद् भवेत्। इससे तथा केतु कुण्डली और गुरू कुण्डली से ) वर्षेश्वर का ज्ञान कर के फलादेश करना चाहिये॥ ५॥
अथ वर्षारम्भ विधिमाय—
कार्तिकान्तनवाहानि जन्म मास दिनावधि।
दिनानि चैव मासाश्च गतवर्षे नियोजयेत्॥ ६॥
** सं० टी०**—कार्त्तिकान्तनवाहानि कार्त्तिकमासान्तात्पूर्व नवदिनान्यारभ्य जन्ममासदिनावधि स्वजन्ममासदिनपर्यंन्तं यानि दिनानि ये च मासास्यद्दिगणष्य गतवर्षे नियोजयेत्। अत्रायं भावः। कार्त्तिकमासस्येकविंशतिदिनात्परं किन्तु कार्त्तिकशुक्लसप्तमीतिथिं समारभ्य जन्ममासस्य दिनपर्यन्तं दिनवृन्दं गणयित्वा तद्गतभासदिनानि गतवर्षे योज्यानि पुनद्वितीयबर्षारम्भः कार्त्तिकशुक्ल सप्तम्याम् अत्र सावनमानेन वर्षारम्भो विधेयः। अनेन वर्षारम्भविधि प्रदर्शितः॥ ६॥
** भा० टी०**—यहाँ पर आगे स्वर ज्ञानके लिये आचार्य ने वर्ष को कार्तिक शुक्ल सप्तमी से प्रारम्भ कर “कार्त्तिकस्य परे भागे नवग्राह्या यथा तथा। मार्ग पौषो तथा देयं माधस्य च दिनत्रयम्” एबं क्रमेण दातव्यो वर्ष पूर्णं यथा भवेत्”॥ इस वक्ष्यमाण विधि से पाँच विभाग किया है। अतएव यहां पर कार्तिक शुक्ल ७ सप्तमी से प्रारम्भ कर जन्ममास के दिन पर्यन्त गतमास तथा गत दिन को गत वर्ष में जोडना चाहिये अर्थात् ग्रहण करना चाहिये तथा पुनः द्वितीय वर्ष का प्रारम्भ कार्तिक शुक्लसप्तमी को जानना चाहिये॥ ६॥
रविचन्द्रार सौम्याश्च शनीज्यौ राहुकेतवः।
अन्त्ये शुक्रस्त्रिरावृत्या कृतिकादिक्रमात् भवेत्॥ ७॥
** सं० टी०**—रविचन्द्रारसौम्याः। ततः शनीज्यराहुकेतवः। अन्त्ये शुक्रः।एते कृत्तिकादिकमात्कृत्तिकानत्रादि जन्मनक्षत्रवशास्त्रिरावृत्या वारत्रयेण वर्षेश्वराः स्युः। अत्रेदमवधेयम्। यस्य प्रथमंकृत्तिकानक्षत्रे जन्म तस्य प्रथमाब्दपी रविः। द्वितीयवर्षेशश्चन्द्रः। ततस्तृतीयाब्दपः कुजः। चतुर्थाब्दपो बुधः। ततः शनिः। तदग्रे गुरुः। ततो राहुः। ततः केतुः एवं नवर्षेशःशुक्रः। इति प्रथमावृत्तिः द्वितीयाबृत्तौ तु दशमवर्षादारभ्य पूर्बवत्कलनया चाष्टदशाब्दपो भृगुः। ततस्तृतीयावृत्तावकोनविंशतिवर्षादारभ्य कथितगणनया सप्तविंशतिवर्षाधिपति शुक्रः। एतेन केतुपताकीचक्रंप्रदर्शितम्। परञ्चेदमेव बहुसम्मतम्। अर्थादस्मादेव केतुपताकीचक्रजनितो षर्षेशो ग्राह्य इति ज्योतिविदां सम्प्रदायः तथाकृते सति तच्चक्रं जातम्॥ ७॥
** भा० टी०**—कृतिकादि नक्षत्र के क्रम से तीन आवृतियों में सूर्य चन्द्रमा मंगल बुध शनि वृहस्पति राहु केतु और शुक्र क्रम से वर्षेश होते हैं। यदि कृतिका नक्षत्र में यदि जन्म हो तो प्रथम वर्ष के दशा स्वामी या वर्षेश सूर्ष हुए एवं द्वितीय वर्षेश चन्द्रमा तृतीय वर्षेश मंगल इसी प्रकार नवम वर्षेश शुक्र पुनः दशम वर्षेश सूर्य से आरम्भ आठरहवें का शुक्र एवं उन्नीस १९वें वर्ष से प्रारम्भ कर २७ वें वर्ष का स्वामी शुक्र हुआ। एवं द्वितीयावृत्ति में भी अठाईस २८ वर्ष से प्रारम्भ कर ५४ तक पूर्वोक्त क्रम से सूर्यादि स्वामी होंगे। एवं तृतीय चतुर्थ आवृति में भी यही क्रम जानना चाहिये। विशेषता यह है कि यदि कृतिका से अन्य नक्षत्रों जिनका जन्म हुआ है उनके वर्षे बिचार में कृतिकादि क्रम से जन्म नक्षत्र का जो स्वामी होगा वही प्रथम वर्षेश होगा तथा उसी के क्रम से पूर्वोक रीति से वर्षाधीश का निर्णय करना चाहिये। जैसे किसी का जन्म नक्षत्र विशाखा है तो कृतिकादि के क्रमसे प्रथम वर्षेश शनि होगा और शनि के क्रम से ही द्वितीयादि वर्ष के स्वामी वृ० रा० के० शु० र० चं० मं० बु० होंगे॥ ७॥
यथाचक्रम्।
[TABLE]
अथ मदीयसूत्रम्।
गताब्दैर्युता जन्मनक्षत्रसङ्ख्या दृगूना विभक्ता ग्रहैः शेषकाद्वै।
अधीशाः क्रमादर्कचन्द्रारसौम्या शनीज्यौ तमः केतुशुक्राः स्युरत्र॥ १॥
** सं० टी०—**जन्मनक्षत्रसङ्ख्या अश्विन्यादितो निजजन्मनक्षत्रसङ्ख्या गताब्दैः स्वजन्मतो गतवर्षप्रमाणेन युता सहिता कार्या। पुनः सा दृगूना द्वाभ्या हीना कार्या पुनः सा ग्रयैर्नवमिर्विभक्ता याच्छेषं तस्मादर्कचन्द्रारसौम्याः। तथा शनीज्यौतमकेतुशुक्रा एते क्रमादत्र केतुपताकीचक्रे चाधीशाः
स्युः॥ १॥
अत्रोपपत्तिः। मदुक्तकातकक्रडाभिग्रन्थस्यमुद्दादशानयनस्य वासनावदव धेयेति॥ १॥
** सं० टी०**—अत्रोदाहरम्। तद्यथा। कृष्णदत्तस्य मघानक्षत्रे जन्म तेनात्र प्रथमवर्षाधिपस्तन्नक्षत्रोपरि गतः केतुः ततः पूर्ववद्गणनया ग्रन्थारम्भे चैकचत्वारिंशन्मितस्य वर्तमानवर्षस्य पतिः पुनः कुजग्रह एव स्यात्। अथ मदुक्तसुत्रेण यथानक्षङ्ख्या दशमिता ( १० ) सा गतवर्षप्रमाणेनानेन (४०) सहिता मानंपञ्चाशन्मितं(५०) इदं दृगूनितं सदष्टचत्वारिंशन्मितं स्यात् (४८) इदं नवभिस्तष्टं (३) तेनात्र वर्षाविपो भौमः। एवमन्यत्रापि विभाव्यम्। तथाऽन्यैरुक्तम्।
“अर्केन्दुभौमज्ञशनीज्यराहुकेत्वास्फुजिच्चाग्निभतः पताक्याम्।
वारत्रयं भानि विलिख्य केतार्जन्मर्क्षतो वर्षपतिर्गताब्दैः ”॥
तथान्यदपि भाषा।
चारिरेखा अवधरव्यादिग्रहमण्डल।
रविचन्द्रमङ्गलबुधशनिगुरु राहुकेतुशुक्र अन्ते जानि।
कृत्तिकादि ऋक्षप्रमाण वामावर्त्तएकरभाग इति॥ ७॥
अथ केतुपताकीचक्रजनित षर्षेशानां फलमाह—
रविणा भ्राम्यते देशः सन्तापो व्याधिपीडनम्।
कान्ता रोगं ज्वरं शाकं करोति च भयातुरम्॥ ८॥
चन्द्रे पुष्टि र्धृतिस्तुष्टिः सुखं सम्पत्ति रेव च।
आरोग्यं लभते कामो धन पुत्र समन्वितः॥ ९॥
भौमे सदा मर्म रोगः कार्य हानि र्भवेद् ध्रुवम्।
क्षद्र कर्म रतिन्नित्यं मनस्तापोदिने दिने॥१०॥
** भा० टी०**—पूर्वोक्त रीति से केतु पताकी जनित जो वर्षेश हुए हैं उनका फल कहते हैं यदि सूर्य बर्षेश हो तो वह देश भ्रमण सन्ताप रोगजनित पीड़ा स्त्री को रोग ज्वर शोक और अत्यन्त भयभीत करता है॥८॥
चन्द्रा वर्षे होने से पुष्टि, धैर्य, संतोष, सुख सम्पति, आरोग्य लाभ, अर्भाष्ट कार्य की सिद्धि, और धन पुत्र से युक्त करता है॥ ९॥
मंगल वर्षेश होने से हमेशा मर्म रोग कार्य हानी क्षुद्र कार्यों में प्रेम और नित्य मनस्ताप को करता है॥१०॥
बुधे च राजसन्मानं पुत्र लाभस्तथा सुखम्।
धनस्याचागमो नित्यं तथा ज्ञानं दिने दिने॥ ११॥
शनौ रोगं भयं शोकं बन्धनं क्षयमेव च।
अर्थहानिमभाग्यञ्च प्राणनाशं करोति॥ १२॥
सचाङ्गाभरणं कण्ठे स्वर्णहार विभूषणम्।
जावे च राजसन्मानं लोके पूजा धनागमः॥ १३॥
** भा० टी०**—बुध वर्षेश होने से राजा से सन्मान, पुत्र लाभ, सुख, हमेशा धनकी प्राप्ति और नित्य ज्ञानकी वृद्धि करता है॥ ११॥
शनि वर्षेश होने से रोग, भय, शोक, बन्धन शरीरादिका क्षय धनकी हानि और अभाग्य तथा प्राण का नाश करता है॥ १२॥
बृहस्पति वर्षेश होने से अङ्गों का भूषण से युक्त कण्ठ को सोने के हार से सुशोभित, राजा से प्रतिष्ठा और लोक ( जन वर्ग ) से पूजा और धनकी प्राप्ति को करता है॥ १३॥
रक्तस्रावो भवेदङ्गे राहौ वर्षे जनस्य च।
विदेशगमनं चैव बह्नि वारि भयन्तथा॥१४॥
राज कार्यभयं चौर्य गृहदाहोत्थ बन्धनम्।
अवश्यं च भवेदेते केतोः सम्वत्सरे पुनः॥ ४॥
शुक्र पौरुष सत्ख्यातिः पुष्टि, सर्व सुखानि च॥
मुक्ता रत्न प्रवालादि धनलाभो दिने दिने॥ १६॥
** भा० टी०**— राहु अपने वर्ष में मनुष्य का रक्त स्राव विदेश यात्रा तथा अग्नि और जलके भयकोकरता है॥ १४॥
एवं केतु भी अपने वर्ष में राज के कार्य से भय चोरी और गृह दाहसे बन्धन (या चोर औ गृह दाह से कष्ट) को अवश्य करता है॥ १५॥
शुक्र अपने वर्ष में पराक्रम अच्छी प्रसिद्धि पुष्टि सभी सुखों को प्राप्ति मुक्ता रत्न और मूङ्गा आदि का धनों की प्राप्ति नित्य करता है॥ १६॥
अथ पूर्वविहितभाषानुसारेण केतुपताकीचक्रद्वयम्।
अत्र रेखाचतुष्टयेन पूर्वापरं रेखाचतुष्टयं तथा याम्योत्तररूपं रेखाचतुष्टयमित्यनेनाभिप्रायेण द्वितीयचक्रस्य स्वरुपं जातम्।
अथ खेटानां दशामानद्योतकं मदीयसूत्रम्।
रवौ रसा वै तिथयः शशाङ्के कुजे च नागा विधुजेऽद्रिचन्द्राः।
अभ्रेन्देवः सूर्यसुते सुरेज्ये नन्देन्दवोस्त्वद्धेतनौ रसाश्च॥ १॥
रूपाश्विनः पूर्वसुरेन्द्रपूज्ये बोध्या दशाब्दा गणकप्रवीणैः।
** सं० टी०—**अर्धतनौ राहौकेतौ च पञ्च दशाब्दाः। यद्यप्यत्र दशामानस्य प्रयोजनं नास्ति। यतोत्रैकैकवर्षसमो ग्रहभोगकालः स्वीकृतः। परञ्च तथापि चैकस्मिन् वर्षे खेटानामग्रे दिनात्मकदशामानसाधनार्थमुपयोग्यास्ते पठिताः। अत्रोपत्तिः। मदुक्तजातकक्रीडाभिधग्रन्थगताष्टोत्तरशतपरमायुर्द्वायकल्पनाबशादवधेया॥ १॥
रवौ नखा स्युः खशराः शशाङ्के भोमेऽष्टयुग्मं विधुजेऽङ्गबाणाः।
शनौ त्रिरामाश्च गुरौ त्रिषीष्टःनखादलाङ्गे भृगुजेः खशैलाः॥१७॥*
——————————————————————————————————————————
*अथाष्टोत्तरी दशानयने पाराशरोक्त पधानि —
सूर्यश्चन्द्रः कुज सौम्यः शनिर्जीवस्तमो भृगुः।
एते दशाधिपा प्रोक्ताः केतु हीना नवग्रहाः॥ १॥
रसा^(६) पञ्चेम्बवो^(१५) नागाः ८ शैलचन्द्राश्च १७ खेन्दवः १०॥
गोब्जा १९ सूर्याः १२ कुनेत्राणि २१ समाः प्रद्योतनादयः॥ २॥
इति पाराशरोक्त वचनेन यद्यष्टोत्तर शतमितेन परमायुर्दशामानेन रसाब्दादिकं स्वस्वग्रहजं दशामानं लम्यते तदैक वर्ष मितेन किमिति। फलं चैक वर्षे स्वस्वदशामानं$\left( \frac{{स्व}~द. \times ~१}{परमायुद} \right)$वर्षात्मकं जातमती दिनात्मक करणार्थं स्वरसाग्नभिर्गुणितं जातं रूपम्=$\frac{{स्व}~द. \times {३६०}}{परमायुुद}$तद्यथा प्रत्ययार्थं—खेर्दशा मानं$\frac{६ \times {३६०}}{१०८} = \frac{१ \times {३६०}}{१८} = {२०}$विंशति दिनानि एवंचन्द्र दशामानं$\frac{{१५} \times {३६०}}{१०८} = \frac{{१५} \times {१२} \times {३०}}{{१२} \times ९} = \frac{{१५} \times {१०}}{३} = {५०}$पञ्चाशत् दिनानि।
*एवमन्येषां ग्रहाणामपि ज्ञेयं सुधीभिर्कि बहुना *
** सं० टी०—**दलाङ्गे राहौकेतौ च विंशतिः। एतानि दशामानानि दिनात्मकानि चैकैकवर्षे विहितखेटानां स्युः। अत्राप्ययदीक्षितनाम्ना गणकेन तथान्यैरपि तट्टीकाकारैर्विहितदिनानि खेटानामन्तर्दशामानानि कल्पितानि तथा षडब्दादिसमानि दशामानानि कथितानि। परञ्चैतानि न समीचीनानि यत एकैकग्रहस्यैकैकाब्दरूपो दशाभोगकालो मूलकारेण स्वीकृतस्तर्हिकथं षडब्दादिकं दशामानं सङ्गच्छते तथैकवर्षे पूर्वं दशामाननिरूपणमन्तरणे तदन्तर्दशामानकथनाप्रसङ्गः। तथा वासनाबर्हिर्भूतं तत्स्यात्।अतो यैस्तदुक्तंते सिद्धान्तविद्याबर्हिर्भूतास्तद्वासनां सुगमामपि न जानन्तीति प्रत्ययो मम जातः।
** सं० टी०—**अत्रोपपत्तिः। यद्यष्टोत्तरशतमितेन परमायुदीयेन षडब्दादिकं स्वस्वग्रहजं जन्मकालिकं दशामान लभ्यते तदैकवर्षमितेन कल्पितपरमायुर्दायेन किमिति। फलं चैकवर्षे स्वस्वदशामानं वर्षात्यकं स्यादिति रूपं $\left( \frac{{स्वक} \times १}{परमा} \right)$ अत्रेदं खरसाग्निभिर्गुणितं सद्विनात्मकं जातमिति रुपं $\left( \frac{{स्वद} \times {३६०}}{परमा} \right)$ अत्र स्वस्वदशामाने स्वस्वाङ्कमामेनोत्थापने कृते सति “रवौ नखाः” इत्यादयः स्वस्वाङ्कउपपन्ना भवेयुः। अत्रमन्दानां प्रतीत्यर्य धूलीकर्मणोच्यते। तद्यथा। रवेर्दशामानं जन्मकालिकं पूर्वकथितं षडब्दसममित्यस्य स्थापनवशाज्जातं पूर्वदिनात्मकं दशामानसुरूपं$\left( \frac{६ \times {३६०}}{१ \times ८} \right) = = \left( \frac{६ \times {१२} \times {३०}}{{१२} \times ६} \right) = = \left( \frac{६ \times {३०}}{९} \right) = = \left( \frac{६ \times {१०}}{३} \right) = = \left( \frac{२ \times {१०}}{१} \right) = = ({२०})$अत्र चन्द्रदशमाने चाङ्कात्मकस्थापनवशाज्जातं$\left( \frac{{१५} \times {३६०}}{१०८} \right) = = \left( \frac{{१५} \times {१२} \times {३०}}{{१२} \times ९} \right) = = \left( \frac{{१५} \times {३०}}{९} \right) = = \left( \frac{{१५} \times {१०}}{३} \right) = = \left( {५ \times {१०}} \right) = ({५०})$
एवमन्यग्रहाणामपि प्रतीतिरुत्पाद्या। अत उपपन्नं सर्वम्।
तथा खनावाक्यम्।
अर्कागरल २० शशिअसजान ५० अष्टविंशति कुज बुध छपन्ना जान ५६। शनि तेतिसा ३३ गुरुत्रिषाष्टि ६३ राहुकेतुचलिसा जान ४० शुक्रसतारि कलपरिमान॥७०॥
** भा० टी०**—पूर्व में एक २ वर्षो का वर्षेश कह कर अब एक वर्ष के अन्दर कथित सभी ग्रहों दिनात्मक दशा मान कहते हैं यथा एक वर्ष अन्दर रवि का २० दिन चन्द्रमा का ५० दिन मंगल का २८ दिन बुध का ५६ दिन शनि का २३ दिन गुरु का ६३ दिन राहु का २० दिन और केतु का २० दिन तथा शुक्र का मान ७० दिन होता है एवं इन दिनों का योग ३६० दिन होता है। यह मान अष्टोत्तरी दशा के मान के अनुपात से लिखा है जिस को मैं टिप्पणी द्वारा स्पष्ट कर देता हूँ॥ १७॥
दशा दशाहता कार्या दशापिण्डविभाजिता।
लब्धं दिनानि शेषानि शेषं षष्टिहतं पुनः॥ १८॥
दशापिण्डेन भक्तं यल्लब्धमन्तर्दशाघटो।
ततः पलात्मकं साध्यं विदशामानमेव हि॥ १९॥
** सं० टी०—**दशा दशाहता कार्या सा पुनर्दशापिण्डविभाजिता दशायोगमानेन भक्ता लब्धं फलं यत्तानि गणकेन दिनानि ज्ञेयानि। पुनः शेषं षष्टिहतं षष्टिगुणं दशापिण्डेन दशायोगेन भक्तं यल्लब्धं फलं साचान्तर्दशाघटी स्यादर्थाद्दण्डात्मकं श्चान्तर्दशामानं स्यात्। ततः पलात्मकं साध्यं विदशामानमेवहि॥१८॥
अत्रायं फलितार्थः। यस्य दशाधिपस्य महादशायां यदन्तर्दशामान ज्ञातुमभीष्टं तदा तद्दशाधिपस्य महादशामानमभीष्टानां ग्रहाणां स्वस्वदशाभानैः पृथक् पृथक् सङ्गुण्य सवेंषां महादशामानयोगेन विभज्य फलं तद्दशाधिपस्य महादशायां स्वस्वान्तर्दशामानं स्यात्। एबमन्तर्दशामानमपि महादशामानं प्रकल्प्य तूर्ववद्विदशामानमपि बोध्यम्। अथवा मदुक्तजातककोडाभिधग्रन्थनिष्ठेन लाघवप्रकारेणान्तर्दशादिकं साध्यम्॥ १९॥
** भा० टी०**—जिस ग्रह दशा में जिस ग्रह का अन्तर्दशानयन करता हो उसके दशामान से दशाधिपति के दशामान को गुणाकर सब ग्रहोंके दशामान के योग ( दशापिण्ड ) से भाग दे तो लब्धि अन्तदर्शा दिन प्राप्त होगा पुनः शेष को छाठ से गुणाकर दशापिण्ड से भाग दे लब्धि घटी मान अन्तर्दशा होगी एवं पुनः शेषको ६० से भाग देकर दशापिण्ड से भाग देने से पलात्मक मान अन्तर्दशा होगी। एवं विदशा का आनयन करना चाहिये अर्थात् अन्तर्दशा मानों को दशामान कल्पना कर पूर्वोक्त रीति से विदशा साधन करना चाहिये॥ १८॥ १९॥
अत्रोदाहरणम्। तद्यथा रविदशामानमिदं (२०) रविदशामानेन गुणितं जातं (२०×२०) इदं दशामानयोगेनानेन (३६०) भक्तं जातं$\left\lbrack \frac{{२०} \times {२०}}{३६०} \right\rbrack = = \left\lbrack \frac{{२०} \times २}{३६} \right\rbrack = = \left\lbrack \frac{५ \times २}{९} \right\rbrack = \left\lbrack \frac{१०}{९} \right\rbrack~$फलं ( १ ) शेषमिदं ( १ )षष्टिगुणं स्पहरेण भक्तं जातं$\left\lbrack \frac{६०}{९} \right\rbrack = \left\lbrack \frac{२०}{३} \right\rbrack$फलं ( ६ )पुनः शेषं षष्टिगुणं स्वहरेण भक्तं जातं$\left\lbrack \frac{२ \times {६०}}{३} \right\rbrack = \left\lbrack \frac{२ \times {२०}}{१} \right\rbrack = ({४०})$अतो रविदशायां स्वान्तर्दशामानं दिनादिकं जातं१।६।४०एवं रविदशामानंचन्द्रदशामानेन पञ्चाशामानेन गुणितं दशायोगेन भक्तं जातं$\left\lbrack \frac{{२०} \times {५०}}{३६०} \right\rbrack = \left\lbrack \frac{{२०} \times ५}{३६} \right\rbrack = = \left\lbrack \frac{५ \times ५}{९} \right\rbrack = = \left\lbrack \frac{२५}{९} \right\rbrack$फलं ( २ )शेषं( ७ ) षष्टिगुणं स्वहरेण भक्तं जातं$\left\lbrack \frac{७ \times {६०}}{९} \right\rbrack = = \left\lbrack \frac{७ \times {२०}}{३} \right\rbrack = = \left\lbrack \frac{१४०}{२} \right\rbrack$अत्र फलं( ४६ ) शेषं षष्टिगुणं स्वहरभक्तं जातं$\left\lbrack \frac{२ \times {६०}}{३} \right\rbrack = = \left\lbrack \frac{२ \times {२०}}{१} \right\rbrack = ({४०})$अतो रविदशायांचन्द्रस्यान्येर्दशामानं दिनादिकं जातं २।४६।४०। एवं सवेंषां ग्रहाणां महादशायां स्वस्वान्तर्दशामानानि साध्यानि।
अन्तर दशानयन का उदाहरण—जैसे रविके दशामें रविका अन्तर दशा निकालना है तो दशाधिपति रविके दशाका मान=२० अभीष्ट ग्रहके दशाका मान=२०। दशाओंका योग= २०+५०+२८+५६+३३+६३+२०+२०+७०=३६०= दशापिण्ड।
यथा सवेंषां अन्तरदशाचक्रम्।
[TABLE]
[TABLE]
अत्रोपपत्तिः। यदि खेटानां दशायोगेन परमायुर्दायेन स्वस्वदशामानं विंशतिदिनादिरूपं लभ्यते तदाभीष्टग्रहदशामानतुल्येन कल्पितपरमायुर्द्दायेन किमिति।फलमिष्टग्रहदशान्तर्गतस्वस्वान्तर्दशामानं स्यादिति रूपं $\left( \frac{{स्वद} \times {इद}}{दयो} \right)$एवमिष्टग्रहदशान्तर्गतानां स्वस्वान्तर्दशामानानां सवेंषां योगमानं दशापिण्डाख्यम्। तथाऽभीष्टमान्तर्दशामानं परमायुर्दायं चेति प्रकल्प्य पूर्ववदनुपातेन विदशादिकं साध्यम्। तेनोपपन्नं सर्वम्॥ १८॥ १९॥
अथान्तर्दशाफलानि।
शुभं शुभे बुधपि स्यान्मरणं राहुमन्दयोः।
गुरु द्वये महत्सौख्यं दुःखं स्याद् भौम सूर्ययोः॥ २०॥
रवौ रवौ चेन्मरण रवौ चन्द्रे तथैव च।
रवौ भौमे मन्दता च पापो रविबुधे तथा॥ २१॥
सन्तापोऽर्के शनौ चेत्स्याद्रवौगुरावुपद्रवाः।
रव्यगौ चोपद्रवता मन्दता च रवौ भृगौ॥ २२॥
** भा० टी०**—बुध यदि शुभ ग्रह हो तो बुधका अन्तर्दशादि शुभ होता है। राहु और शनि में मरण तथा गुरु शुक्र में अत्यन्त सुख और सूर्य मंगल में दुःख होता है॥ २०॥
इस प्रकार प्रथम श्लोक से सामान्य फल कह कर अब विशेष फल को कहते हैं कि सूर्य के दशा में सूर्य का अन्तर दशा हो तो मरण एवं सूर्य के दशा में चन्द्रमा की अन्तर्दशा में भी मरण तथा सूर्य दशा में मंगल के अन्तर में मन्दता ( आलस्य ) पाप बुध की अन्तर्दशा में भी ( आलस्य ) शनि के अन्तर्दशा में सन्ताप, गुरु के अन्तर्दशा में उपद्रव राहु की अन्तर्दशा में उपद्रब औरशुक्र के अन्तर्दशा आलस्य होता है॥२१॥२२॥
चन्द्रे चन्द्रे राज तुल्यं लक्ष्मी स्याच्चन्द्रभौमयोः।
चन्द्रे बुधे च नाशः स्यात्स्त्री पीडा चन्द्रसौरयोः॥ २३॥
चन्द्र गुरौ प्रवासश्च लाभः स्याच्छशिदैत्ययोः।
सर्वनाशचन्द्र शुक्रे स्त्रोनाशश्चन्द्रसूर्ययोः॥ २४॥
कुजे भौमे प्राणनाशोयोषिद्धीतिः कुजे बुधे।
भौमे शनौ च शोकः स्याच्छुभः स्याच्च कुजे गुरौ॥ २५॥
कुजे राहौ चाग्नि भीतिः पीडा स्याच्च कुजे भृगौ।
भौमे सूर्येच चातुर्यं कुजे चन्द्रे धनागमः॥ २६॥
** भा० टी०**—चन्द्रमा की दशा में चन्द्रमा की अन्तर्दशा में राजा के सदृश सुख मंगल के अन्तर्दशा में लक्ष्मी प्राप्ति बुध के अन्तर्दशा में नाश शनि के अन्तर्दशा में स्त्री पीडा होती है॥ २३॥
** भा० टी०**—चन्द्रमा दशामें गुरुके अन्तर्दशामें परदेशमें बास, राहुको अन्तर्दशामें लाभ, शुक्रके अन्तर्दशा में सर्वनाश और सूर्यके दशामें स्त्री नाश होता है॥२४॥
मंगल के दशा में मंगलकी अन्तर्दशा हो तो प्राण नाश बुधके अन्तर्दशामें स्त्री भय, शनिके अन्तर्दशा में शोक गुरु के अन्तर्दशा में शुभ होता है॥२५॥
एवं मंगल के दशा में राहु के अन्तर्दशा में अग्नि भय शुक्र के अन्तर्दशा में पीडा सूर्य के अन्तर्दशा में चतुरता तथा चन्द्रमा के अन्तर्दशा में धन लाभ होता है॥ २६॥
बुधे बुधं सुखं चैव सुखं स्याच्च बुधे शनौ।
बुधे गुरौ सुखञ्चैव बुधे राहौ च सिद्धयः॥२७॥
बह्नेर्भयं बुधे केतौ वुधे शुक्रे च सिद्धयः।
बुधे सूर्ये कीर्तिलाभो बुधे चन्द्रे च रोगिता॥ २८॥
मन्दता च बुधे भौमे शनौ मन्दे च दुःखिता।
किञ्चित्सुखं शनौ जीवे शनौराहौ च दुःखिता॥ २६॥
शनौ भृगौ सुखं च स्यादरिष्टं हि शनौ रवौ।
शनौचन्द्रेऽल्पमृत्युः स्याद्देश त्यागः शनौ कुजे॥ ३०॥
** भा० टी०—** बुध के दशा में बुध की अन्तर्दशा में सुख, बुध में शनि के अन्तर्दशा में भी सुख, बृहस्पति के अन्तर्दशा में सुख, राहु के अन्तर्दशा मेकार्यों की सिद्धि बुध में केतु के अन्तर्दशा में अग्निभय शुक्र के अन्तर्दशा सिद्धि सूर्य के अन्तर्दशा में यश लाभ चन्द्रमा के अन्तर्दशा में रोग होता है॥ २७॥२८॥
मंगल के अन्तर्दशा में आलस्य होता है। अथ शनि के दशा में शनि के अन्तर्दशा में दुःख बृहस्पति के अन्तर्दशा स्वल्प सुख राहु के अन्तर्दशा में दुःख शुक्र में सुख, रबि के अन्तर्दशा अरिष्ट चन्द्रमा के अन्वर्दशा में अरिष्ट मंगल के अन्तर्दशा में देश त्याग और बुध के अन्तर्दशा में सुख होता है। आगे चल कर के दशा में बुध के अन्तर्दशा का फल विघ्न कहेंगे वह पाप बुध का है अतएव यहां वृ. के दशा में बुध के अन्तर्दशा में सुख रूप फल को कहे हैं॥ २९॥ ३०॥
शनौ बुधे सुखञ्चैव सौम्ये जीवे च तत्फलम्।
जीवे भृगौ सुखञ्चैव गुरुराहौच दुःखिता॥ ३१॥
गुरौ शुक्रे च लाभः स्बाद्गुरो सूर्ये सुखं तथा।
गुरौ चन्द्र वियोगः स्याद्गुरौ भौमे च सूरता॥ ३२॥
विघ्नञ्चैव गुरौ सौम्ये सुखं किञ्चिद्गुरौ शनौ।
राहौ राहौ च पीडा स्यार्द्राहौ केतुगते कलिः॥ ३३॥
अगौ भृगौ च कलहः कल्प्यते गणकोत्तमैः।
राहौ सूर्ये चाग्निभयं राहौ चन्द्रे च दुःखिता॥ ३४॥
राहौभौमे च सन्तापो दुःखं स्याद्राहुसौम्ययोः।
राहौ शनौ दुःखिता च रोगो मृत्युरगौ गुरौ॥ ३५॥
बृहस्पति के दशामें वृहस्पति के अन्तर्दशा में सुख, राहु के अन्तर्दशा में दुःख, शुक्र के अन्तर्दशा में लाभ, सूर्य के अन्तर्दशा में सुख, चन्द्रमा के अन्तर्दशा में वियोग, मंगल के अन्तर्दशमें वीरता, बुधके अन्तर्दशा में बिघ्न और शनि के अन्तर्दशा स्वल्प सुख की प्राप्ति होती है॥ ३१॥ ३२॥
** भा० टी०—** राहु के दशा में राहु के अन्तर्दशा में पीडा केतु के अन्तर में कलह और शुक्र के अन्तर में कलह है प्राचीनाचार्यों से कल्पित है। राहु के दशा में सूर्य के अन्तरदशा में अग्निभय, चन्द्रमा के अन्तर दशा में दुःख मंगल के अन्तर मेंसन्ताप और बुध के अन्तरदशा में दुख शनि में दुःख तथा रोग और बृहस्पति के अन्तर्दशा में मृत्यु होती है॥ ३१॥ ३२॥॥ ३३॥ ३४॥ ३५॥
शुक्रे भृगो धनं चैव शुक्रे सूर्ये च रोगिता।
शुक्रे चन्द्रे च नाशः स्याद्धननाशो भृगौकुजे॥ ३६॥
शुक्रे बुधे सुखं चैव धनं चैव भृगौ शनौ।
शुक्रे गुरौ स्त्रियानाशो भृगौराहौ च वन्धनम्॥३७॥
** भा० टी०—**शुक्र के दशा में शुक्र की अन्तर्दशा में धन प्राप्ति.सूर्य के अन्तर्दशा में रोग चन्द्रमा के अन्तर्दशा में नाश मंगल मेंधन नाश, बुध के अन्तर्दशा में सुख शनि में धन प्राप्ति युरु के अन्तर्दशा में स्त्री नाश और राहु केतु के अन्तर्दशा में बन्धन प्राप्ति होती है॥ ३६॥ ३७॥
अथ दिगम्बरमतेन केतुपताकीचक्रमुच्यते। तद्यथा पूर्वादिदिक्षु रव्यादिशुव्रान्ताः खेटाः स्थाप्याः। तथा तत्र कृतिकादिकमेण पापग्रहेंषु त्रीणत्रीणि तथा शुभग्रहेषु चत्वारि चत्वारि नक्षत्राणि देयानि। अस्मिन्चक्रे यत्र जन्मभं तदारभ्य वर्षपतयः स्युः। तथापि पापरूप एकग्रहो वर्षत्रयस्याधिपस्तथैकः शुभखेटो वर्षचतुष्टस्याधिदः। तथा कृते जातं तच्चक्रसुरूपम्॥
अत्रापि दशादिमानानि पूर्बवदवधेयानि॥ १॥
अत्रोदाहरणम्। तद्यथा। मघानक्षत्रदण्डोपरिगतः कुजो मघानक्षत्रजन्मवतः प्रथमद्वितीयतृतीयवर्षाधिपः। ततो वर्षचतुष्टयस्याधिपः शशिजः। एवमग्रेपि बोध्यम्।
अत्रापि पापदशायां यदा पापन्तर्दशा तदारिष्टम्।
सुबोधिनी या विहिताऽत्र टीका श्रीकृष्णदत्तेन धरामरेण।
तस्यां पताकींजनितं च केतोः सद्वर्णनं पूर्णमगात्प्रपूर्वम्॥
अथ केतुकुण्डलिकामाह।
अर्काबुधः कुजो जोवश्चन्द्रः शुक्रस्तथैव च।
राहुः शनैश्चरश्चैवज्ञाव्तया केतुकुण्डली॥ ३८॥
ग्रहयोरुभयोर्मध्ये केतुस्थानचतुष्टये।
अहिर्बुध्न्यादि ऋृक्षाणि त्रीणि त्रीणि ग्रहेषु च॥ ३९॥
केतोरेकैकमृक्षं स्याद्यत्र वै जन्मभं भभेत्।
तत्क्रमाद्गणयेद्वर्षं यथा सङ्ख्यं क्रमात्सुधीः॥ ४०॥
** सं० टी०**—आदावर्कः। ततो बुधः। ततः कुजः। ततो जीवः। ततश्चन्द्रः। तथैव शुक्रः। ततो राहुः। ततः शनैश्चरः। एवं ये खेटास्तद्वशाद्बुधेनकेतुकुण्डली ज्ञातव्या ज्ञेया॥ ३८॥
अथ विहितग्रहाणां स्थापनक्रमं दर्शयति। उभयोर्ग्रहयोर्मध्ये किन्तु कथितग्रहद्वयमध्ये केतुस्थानचतुष्टये केतुग्रहस्य स्थापनस्थानचतुष्टये तथा ग्रहेषु चाहिर्बुध्न्यादि ऋृक्षाणि उत्तरभाद्रपदादिनक्षत्राणि त्रीणित्रीणि स्थाप्यानि। तत्र केतोः केतुग्रहस्याधस्त्वैकैकमृक्षंस्यादेकैकनक्षत्रं स्थापनीयम्। एवं रीत्या जाते चक्रे यत्र जन्मभं भवेत्तत्क्रमात्तदधिकृत्य क्रमगणनया यथा सङ्ख्यं वर्ष वर्त्तमानवर्षपर्यन्तं सुधीर्गणयेत्। अर्थात्तद्वशेनात्रवर्षपतिर्बोध्य इति॥ ३९॥ ४०॥
अत्रायंफलितार्थः। उत्तरभाद्रपदनक्षत्रे यस्य कस्यचिच्चेज्जन्म तदा तस्य जन्मतो वर्षत्रयं यावदब्देशो रविः। ततश्चतुर्थवर्षेशः केतुः। तदग्रे वर्षद्वयस्य कालराहू शून्योपलक्षितौलेख्यौ। ततो वर्षत्रयस्याधिपो बुधः। ततो वर्षात्रयाधीश भौमः। पुनस्तत एकवर्षस्याधिपः केतुः। ततो वर्षद्वयाधीशो पुनः कालराहू। ततो वर्षत्रयाधीशो गुरुः। ततो बर्षत्रयाधीशश्चन्द्रः पुनस्तत एकवर्षेशः केतुः। वर्षद्वयस्याधीशौ कालराहू। ततो वर्षत्रयाधीशः शुक्रः। ततो वर्षत्रयाधीशो राहुः। तत एकवर्षाधीशः पुनः केतुः। ततो वर्षद्वयाधीशौ पुनः कालराहू ततो वर्षत्रयस्यार्थात्त्रयस्त्रिंशद्वर्षादूर्ध्वं षट्त्रिंशद्वर्षं यावदधीशः शनिः स्यादयं प्रथमपर्ययः। एवं द्वयोर्द्वयोग्रहयोर्म्मध्ये चत्वारि केतोः स्थानानि भवेयुस्तेन स्थानचतुष्टये चत्वारः केतवो जायन्ते।एवमन्यपर्ययेपि वर्षेशावगमो बोध्यः। तथाऽन्यैरपि।
“सूर्यज्ञयोर्भौमसुतेज्ययोश्च ग्लोःशुक्रयोराक्षसमन्दयोश्च।
मध्ये शिखी चैकमयुक् तथान्ये उपान्त्यभात्त्रित्रिमिता भचक्रे॥ १॥
एवं यस्य रेवत्यां जन्म तस्यादौ वर्षद्वयस्याधिपतिः सूर्यः। ततः पूर्ववत्स्थापनवशात्षट्त्रिंशद्वषोधीशः पुनः सुषएव। एवं यस्याश्विन्यां जन्म तस्य प्रथमवर्षाधीशो रविः। ततो एकवर्षस्याधिपतिः केतुः। एवं पूर्ववत्पुनः पञ्चत्रिंशद्वर्षस्य तथा षट्त्रिंशद्वर्षस्य चाधीशः सूर्य एव। एवं मघानक्षक्षजन्मवतो मघा नक्षक्षोपरिगतो गुरुर्जन्मतो वर्षत्रयाधीशः। ततः पूर्ववदन्त्ये कालराहूः।
** भा० टी०**—अथ रवि बुध मंगल वृहस्पति चन्द्रमा शुक राहु शनिश्चर इन ग्रहों के क्रम से जो चक्र होता है उसे केतु कुण्डली जानना चाहिये। परञ्च इन ग्रहों के स्थापन में विशेषता यह है कि कथित ग्रहों में दो २ ग्रह के मध्ये ४ चार स्थान में केतु का स्थापन करे यथा “रवि केतु बुध”, तथा मंगल केतु बृहस्पति, एवं चं० के० शु० तथा राहु केतु शनि इस प्रकार चार ४ स्थान में केतु स्थापन करे। एवं ग्रह स्थापन करके नक्षत्र स्थापन लिखते हैं उत्तरा भाद्रपद से प्रारम्भ कर तीन २ नक्षत्र ग्रहों के स्थान में और एक २ नक्षत्र केतु ग्रह के स्थान में लिखे यहाँ अभिजित सहित नक्षत्र की गिनती किया है क्योंकि सभी २८ नक्षत्र होते हैं जो निम्नलिखित केतु कुण्डली चक्र से स्पष्ट है। एवं जो चक्र होगा उसमें जहां जन्मनक्षत्र हो उसके क्रमसे बुद्धिमान् वर्षों की गणना करे। जैसे उत्तरा भाद्रपद में जिस का जन्म हुआ तो उसके प्रथम तीन वर्षों के स्वामी सूर्य हुए चतुर्थ वर्ष के र्केतु तथा प्रत्येक स्थान में केतु के बाद २ वर्षों का स्वामी कालराहु पुनः उसके बाद सप्तम अष्टम नवम वर्ष का स्वामी बुध उसके बाद ३ वर्ष का स्वामी मंगल उसके बाद १ वर्ष का स्वामी केतु तत्पश्चात् वर्ष द्वय का स्वामी कालराहु एवं क्रम से चौतीस पैंतीस छत्तीसवेंवर्ष का स्वामी शनिश्चर हुआ। इस प्रकार प्रथम आवृति हुई एवं तीन आवृति में १०८ वर्ष होते हैं॥ ३८॥ ३९॥ ४०॥*
केतु कुण्डली चक्रम्।
| र. | के. | बु. | मं. | के. | बृ. | चं. | के. | शु. | रा. | के. | श. |
| उ. | भ. | कृ. | आ. | आ. | म. | ह. | वि. | अ. | पू. | श्र. | घ. |
| रे. | ० | रो. | पु. | ० | पू. | चि. | ० | ज्ये. | उ. | ० | घ. |
| अ. | ० | मृ. | पु. | ० | उ. | स्वा | ० | मू. | अ. | ० | पू. |
————————————————————————————————————————————————————
* विशेष स्पष्ट अन्य उदाहरण लिजिये जैसे किसी काजन्म विशाखा नक्षत्र में हुआ तो केतु कुण्डली चक्र से केतु प्रथमवर्ष का स्वामी द्वतीय तृतीय का काल राहु चतुर्थपञ्चम षष्ट का शुक्र, ७, ८, ९ वें का राहु १०,वेंकाकेतु११, १२ वेंकाकाल राहु १३, १४, १५ वें का शनि, १६,१७,१८वेंका रवि, १९,वेंका केतु २०,२१वेंका काल राहु २२, २३, २४वेंका बुध, २५,२६,२७वेंका मंगल, २८वें का केतु २९,३० का काल राहु, ३१, ३२, ३३वें का बृहस्पति,
एवं यस्मिन्नक्षत्रे जन्म तन्नक्षत्राधीशमधिकृत्य पूर्वत्प्रथमावृत्तौवट्त्रिंशद्वर्षाणामधिषाः स्थाप्याः पुनरन्यपर्ययेपि तथैव बोध्याः।
अथैषां दशाफलानि।
रविवर्षे भवेच्छुन्न्यं शिरः शूलश्च दुर्बलम्॥
स्वगेहे मनुष्यमरणं कलहानि बहून्यपि॥ ४१॥
रविवर्षे शून्यं शिरः शूलस्तथा गृहे मनुष्मरणं स्वपुत्रादिप्राणवियोगः। तथा कलहानि बहूनि। इति सर्वं भवेत्॥ ४१॥
** भा० टी०**—रवि के वर्ष में पुरुष शून्य ( अर्थात् रिक्त रहता है ) शिर दर्द से पीडित दुर्बल स्वगृह परिवार के मरण से दुःखी और अनेक प्रकार झगढों से युक्त होता है॥ ४१॥
केतोर्वर्षे चौरभयं बन्धनादोन्यनेकधा।
देशभ्रमणं बुधस्याब्दे रोगो मृत्युभयं तथा॥ ४२॥
स्त्रीपुत्रादौ भवेत्पोडा शोको वित्तस्य नाशनम्।
भौमवर्षे भवेत्क्लेशो याम्यैश्चौरादिभिर्भयम्॥ ४३॥
————————————————————————————————————————————————————
३४, ३५, ३६, का चन्द्रमा यह प्रथम आवृति हुई। द्वितीय ३७—७२ तक, तृतीय ७३—१०८ वर्ष तक होगी अन्योदाहरण—जैसे किसी का जन्म रेवती में हुआ तो उसके प्रथम २ वर्ष के स्वामी रवि होगें तथा ३ रे का केतु, ४, ५ वा काल राहु, ६, ७, ८ वें बुध ९, १०, ११ वें मंगल, १२ वें का केतु १३, १४ वें का काल राहु, १५, १६, १७ वें वृ० १८, १९, २० का चं०, २१ वें का केतु २२, २३ का काल राहु, २४, २५, २६ वें का शुक्र, २७, २८, २९ वें का राहु,३० वें का केतु, ३१, ३२ का काल राहु, ३३, ३४, ३५ वें का शनि और पुनः३६ वर्ष का रवि हुआ एवं और भी उदाहरण में जानना चाहिये।
केतोर्वर्षे चारभयं तथाऽनेकधा बहुप्रकारेण बन्धनादीनि कारागृहादिकानि राजदण्डानि भवन्ति। अथ बुधवर्षे देशभ्रमणं रोगश्च तथा मृत्युभयम्। एवं स्त्रीपुत्रादौ पीडा स्त्रीपुत्रादि जनितं दुःखं तथा शोकश्च वित्तस्य धनस्य नाशनमित्यग्रिमश्लोकेनान्वयः॥ ४२॥
** सं० टी०**—भौमवर्षे क्लेशस्तथा याम्यैर्यमदुतैश्चौरादिभिश्चौरेस्तथादि शब्दादग्निना भयं भवेत्॥ ४३॥ पूर्ववत्केतोः।
** भा० टी०**—केतु के वर्ष में पुरुष को चोरों से भय तथा अनेक प्रकार झंझट बन्धनादि (कारागृह तथा राज दण्डादि ) का भय होता है।
बुध के वर्ष में देशभ्रमण रोगभय मृत्युभय तथा स्त्री पुत्रादि को पीडा और शोक व धननाश होता है।
मंगल के वर्ष में क्लेश तथा यमदूतों से भय ( मृत्यु से भय ) और चोर अग्नि आदि का भय होता है॥४२॥ ४३॥
वि०—मंगल के बाद केतु के वर्ष का फल पूर्ववत् कहना चाहिये तथा सर्वत्र ( चारों स्थान में ) केतु का फल पूर्ववत् ही कहना चाहिये।
गुरु चन्द्रयोर्फलम्।
गुरुवर्षे भवेत्प्राप्तिश्चन्द्रे च सर्वसिद्धयः।
स्वर्णरौप्यादिलाभश्च गजवाजिधनागमः॥ ४४॥
** सं० टी०**—गुरुवर्षे प्राप्तिः किन्तु धनसुखादीनां लाभः। चन्द्रवर्षे सर्वसिद्धिस्तथा कृषिसुवर्णरौप्यादि लाभसुखानि॥ ४४॥ केतुफलं पूर्वोक्तम्।
** भा० टी०**—वृहस्पति के वर्ष में धन सुखादि को प्राप्ति होती है। चन्द्रमा के वर्ष में सभी प्रकार की सिद्धि स्वर्ण रूपादि का लाभ और हाथी घोड़े आदि धन का लाभ होता है॥ ४४॥
शुक्रराह्वोर्फलम्।
शुक्रव्रर्षे सन्ति गावो वाहनानि धनानि च।
राहुवर्षे जलभयं पादव्रणव्यथा भवेत्॥ ४५॥
** सं० टी०**—शुक्रवर्षे गावो गवादिपशवस्तथा वाहनानि गजतुरङ्गमादिलाभः। धनानि सर्वधनानि चकारात्सर्वमुखानि। राहुवर्षे जलभयं जले निमज्जनादिभयम्। तथा पादव्रणव्यथा चरणे विस्फोटकादिकं तथा पादब्रणव्यथा चरणे विस्फोटकादिकं। तथा तदन्यप्रकारेण व्यथा चेति भवेत्॥ ४५॥ केतोः फलं पूर्ववदवधेयम्।
** भा० टी०**—शुक्र के वर्ष में गाय भैंस आदि पशु का लाभ घोड़े हाथी आदि वाहनों का सुख सभी प्रकार के धन का लाभ और सभी प्रकार के सुखों की प्राप्ति होती है।
राहु के वर्ष में जल से मय और पर में व्रण तथा पीडा होती है॥४५॥
शनिफलम्।
शनिवर्षे भवेत्पीडा रोगशोकभयानि च।
एतद्दशाफलं ज्ञेयमित्युक्तम्पूर्वसूरिभिः॥ ४६॥
** सं० टी०**—शनिवर्षे पीडा रोगशोकभयानि भवन्ति एतद्दशाफत्रं ज्ञेयम्। इति पूर्वसूरिभिः प्राचीनपण्डितैरुक्तंकथितम्॥ ४६॥
शनि के वर्ष में पीडा और रोग शोक भयादि होता है। ये फल पूर्वाचार्यों से कहे गये हैं॥ ४६॥
अथोक्तदशाफलबोधकानि खनावाक्यानि।
रविवत्सरशून्यफल शिरः शूल गायदुर्बल।
घरफोडे मानुषमरे अनेक विघ्नरविकरे॥ १॥
** सं० टी०**—रविवर्षे शून्यफलं शिरः शूलं “गायदुर्बल” गात्रदुर्बलं तथा “घरफोडे” गृहविवादं“मानुषमरे” मनुष्यनिधनम्। अनेकविघ्नबहुधा चोपद्रवम्॥ १॥
रवि—रवि वत्सर शून्य फल शिरः शूल गाय दुर्बल घर फोडे मानुष मरे अनेक विघ्न रवि करे॥ १॥
** भा० टी०**—सूर्य अपने वर्ष शून्यफल ( निष्फल ) शिर दर्द दुर्बंल शरीर करता है और घर में कलह तथा स्त्री पुत्रादि का मरण एवं अनेकों विघ्न करता है॥ १॥
कहे केतु वत्सर जारहय चौरे वाधनो।
बाँधे तारे आगुन चौरेर्भयघरेघरे॥ २॥
** सं० टी०**—केतुवत्सर जास्हय केतोर्वत्सरं यस्य भवेत् तारे तं चौरे चौराःवाधनी बांधे रज्वादिभिर्वध्नति। आगुनचौरेर्भयघरेधरे अग्निचौरादिभ्यो घरेघरे प्रतिगृहे भयम्। कहे वदति खनन्ति शेषः॥ २॥
केतु–कहे केतु वत्सर जारहय चौर बाधनी बाँधे तारे आगुन चौरेर्भय घरे घरे॥ २॥
** भा० टी०**—एवं जिसका केतु का वत्सर (वर्ष) रहता है तारे ( उसको ) चोर रस्सी से बांधते हैं ( अर्थात् चोर रस्सी से बांध कर उसके धनादि को चुरा ले जाते हैं ) तथा उस समय घर घर अग्नि और चोरों का भय रहता है॥ २॥
बुधवत्सर जारहय भ्रमणभयकरे।
देहस्त्रीरोग मरण खाइ पाइ शोकबाधा थाके।
अर्थहानि सर्व नाश चौरेर्भय॥ ३॥
** सं० टी०**—बुधवत्सरं यस्य भवेत्।तस्य भ्रमणभयकरे भ्रमणं भयं करोति। देहस्त्रीरोग मरण स्वशरीरे स्त्रीयां च रोगः स्यादथवा मरणम्। तथा खाइ भोजने पाइ पाने च शोकबाधाथाके क्लेशप्रतिबन्धकं भवेत्। धनस्य नाशस्तथा सर्वनाशः। तथा चौरेभ्यो भयमिति॥ ३॥
बुध–बुध वत्सर जारहय भ्रमण भय करे। देह स्त्री रोग मरण खाइ पाइ शोक बाधा था। अर्थ हानि सर्वनाश चौरेर्भय॥ ३॥
** भा० टी०**—जिस का बुध वर्ष का हो उसको भ्रमण तथा भय होता है। देह अर्थात् स्वशरीर मेंया स्त्री को रोग अथवा मरण होता है। खाई (भोजन) और पाई (पान) में शोक और विघ्न होता है। धन की हानि सर्वनाश और चोर का भय होता है॥ ३॥
बन्धना दुःखो तुमी मङ्गल भूमिसुत तुमार वत्सर।
यमेर्दूतघरे पडे यो बोले तबूबोलेइ॥ ४॥
हे भूमिसुत तुमी एवं मङ्गल नाम्ना मङ्गलकारकोऽसि तथापि तुमारवत्सर तव वत्सरं बन्धना वन्धनकारकं दुःखी दुःखकारकं स्यात्। तथा यमैर्दूत यो यदा यमदूतावोले वदन्ति तबू तदा गृहस्थाःप्राणिनो वदन्त्येव॥ ४॥
मंगल–बन्धना दुःखी तुमी मङ्गल भूमिसुत तुमार वत्सर। यमे र्दूत घरे पडे यो बोले तबू बोलेइ॥ ८॥
** भा० टी०**—हे भूमिसुत तुमी मङ्गल ( तुम्हारा मंगल नाम है तुम मंगल कारक हो ) तौभी तुमार वत्सर ( तुम्हारा वर्ष ) बन्धना दुःखी (बन्धन और दुःख कारक है ) तथा यमे र्दूत घरे पड़े ( अर्थात् यमदूत घर में आते हैं ) यो बाले ( ओर जब यम के दूत बोलते हैं ) तब बोलेइ ( तभी वह पुरुष बोलता है ) अर्थात् यम दूत घर आते हैं यानि मृत्यु को करते हैं, जब यम दूत बोलते हैं तभी वह बोलता है अर्थात् मृतक व्यक्ति यमदूत से हो बात चीत करता है॥ ४॥
देवगुरु तुमी बृहस्पति तुमारवत्सरं।
पीतलोहितकृष्ण घरे थाती देशेरमध्ये।
करे ख्यातोकृषि निधि सर्व सिद्धिकराहय।
विधुसोनापाहाथ काने वसि आवे॥ ५॥
बृहस्पति है बृहस्पते तुमी त्वं देवगुरु देवपूज्योऽसि। तुमार तव वत्सर वर्षंघरे गृहे पीतलोहितकृष्ण पीतलोहितकृष्णानि द्रव्याणिथाती स्थापयति। तथाविधुसोना रौप्यसुवर्णरचितान्याभरणानि पाचरणे हाथ हस्ते काने कर्णे वसिआवे निवासयति॥ ५॥
गुरुर्चन्द्रयार्फलम्—देव गुरु तुमी बृहस्पति तुमार वत्सर पीत लोहित कृष्ण घरे घाती देशेरमध्ये करे ख्याती कृषि निधि सर्वसिद्धि कराहय। विधु सोनापा हाथ काने वसि आवे॥ ५॥
** भा० टी०**—हे वृहस्पति तुमी देव गुरु ( हे बृहस्पति आप देवों के गुरु हैं) तुमार बत्सर ( आप का वर्ष ) घरे पीत लोहित कृष्णथातो ( घर में पीत लाल कृष्ण आदि द्रव्यों को स्थापन करता है )। देशेर मध्ये ख्याती करे ( देश में प्रसिद्धि को करता है) कृषि निधि सर्व सिद्धि कराहय ( और खेती इत्यादि निधि की प्राप्ति तथा सभी सिद्धि को करता है )। तथा विधु (चन्द्रमा के वर्ष में ) सोना पा हाथ काने वसि आवे ( सुवर्णादि के भूषण हाथ पैर और कानों में निवास करता है )॥ ५॥
भृगुसुत तुमी दैत्यगुरु तुमार वत्सर आनेकगोरु।
अश्ववाहन गजस्कन्दतुमारवत्सरेरमहिमा॥ ६॥
भृगुसुत हे शुक्र तुमी एवं दैत्यपूज्योऽसि। तुमार वत्सर तव वर्षं आनेक गोरू बहुधा पशून् तथा अश्ववाहनगजस्कन्द हयवाहनं हस्तिसमूहं च करोति। इति तुमार तव वत्सरेर वर्षस्य महिमा मावात्म्यंस्यात्॥ ६॥
शुक्र फलम्—भृगु सुत तुमी दैत्य गुरुतुमार वत्सर आनेक गोरु।अश्ववाहन गजस्कन्दकरोति।तुमार वत्सरेर महिमा॥ ६॥
** भा० टी०**—भृगु सुत तुमीदैत्य गुरु( हे शुक्र तुम दैत्यों के गुरु हैं)तथापि तुमार वत्सर आनेक गोरु अश्व वाहन गजस्कन्दकरोति।( तौ भी तुम्हारेवर्ष में पुरुष अनेक प्रकार के पशुओं की प्राप्ति तथा हाथी घोड़े आदि बाहनों की प्राप्ति होती है ) इति तुमार वत्सरेर महिमा( यह तुम्हारे वर्ष की महिमा है॥ ६॥
पापखाइवेन आयराहु वत्सर अवश्य खाय हाथे।
पाये नाही गोटा स्थानरहित नाही पुष्टहय॥ ७॥
प्राप्त राहुवत्सरे नरा पापखाइवेन पापभक्षितः। तथा अवश्यमेव हस्ते पादे खायक्षयः। नाहीगाटा नहि सम्पूर्णाङ्गः स्थानरहित स्थानच्युतिः। नाही पुष्टहय नहिपुष्टशरीरः॥ ७॥
राहु फलम्—पाप खाइवेन आय राहु वत्सर अवश्य खाय हाथे पाये नाही गोटा स्थान रहित नाही पुष्ट हय॥ ७॥
** भा० टी०**—आय राहु वत्सर ( राहु के वर्ष प्राप्त होने पर ) नरो पाप खाईवेन ( पुरुष पाप से भक्षण होताअर्थात् पाप करता है)हाथे पाये है अवश्य खाय ( हाथ पैर का अवश्य क्षयहोता है ) नाही गोटा ( सम्पूर्णाङ्गनहीं रहते हैं अर्थात् किसी न किसी अङ्ग का अवश्य भंग होता है ) स्थान रहित (स्थान च्युति होती है ) नाही पुष्ट हय ( और शरीर पुष्ट नहीं रहता है )॥ ७॥
कालोगाय तुमो शनैश्चर मानुषगोरु मारो पडे घर।
कीलचापउ पडे पीडे बाबूर बाडी गाय उठे॥ ८॥
** सं० टी०**—त्वं शनैश्चर कालोगाय नीलगात्रोसि। मानुषगोरु मारो मनुष्यादीनां पश्वादीनां च नाशकारकोसि। तथाघर गृहं पडे पतति कीलकण्टकादिभ्यो भेदनं भवेत्। बाबूरवाडी स्वगृहस्थानांचापउ पडे गाय शरीरे पीडे उठे पीडोत्पत्तिः॥ ८॥
शनि फलम्—कालो गाय नुमी शनैश्चर मानुष गोरु मारो पड़े घर कीलचापउपडे पीडे बाबूर बाडी गाय उठे॥ ८॥
** भा० टी०**—हे शनैश्चर तुमी कालो गाय ( हे शनिश्चर तुम नील गात्र हो ) मानुष गारु मारी ( मनुष्य आदि तथा पश्वादि का नाश करते ही ) तथा घर कील पडे ( अर्थात् तुह्मारे वर्ष में घर इत्यादि गिर जाता है। अतएव कण्टादि से भेदन होता है )॥ ८॥
इति द्वितीय वर्षेशस्य फलानि।
अत्र द्वितीयवर्षेशावगमाय मदीयः प्रकारः।
त्र्यल्पा यदा स्याज्जनिभस्य सङ्ख्या
दृग्भ्यान्तदाऽऽढ्या त्रिसमाऽधिका वा।
चेत्सा समुद्रैःखचराधिकाऽऽढ्या।
रसैश्च भूपादधिका यदा यदाऽऽढ्या॥ १॥
नागैश्च दिग्भिस्त्रिकराधिकाऽऽढ्या तथाकृते योग इहेतवर्षैः।
युक्ताऽग्निभक्तः किल शेषसत्वे सरूपलब्धादथ शून्यशेषे॥ २॥
फलाद्यथोक्ताः खचरा समेशाः केत्वब्दपे चेदवशेषमानम्।
रुपाधिकं त्तर्हि समेश्वरो वै कालाख्यराहुर्भवतीह नूनम्॥ ३॥
अत्राश्विन्यादितः साभिजिज्जनिभस्य सङ्ख्या जन्मनक्षत्रसङ्ख्या यदि चेत्त्र्यल्यपात्रिभ्यो न्यूना तर्हिसा सङ्ख्या दृग्भ्यां सहिता द्वियुता। यदि चेदन्यथा त्र्यधिका तत्समा च तदा सा जन्मर्क्षंसङ्ख्या समुद्रैर्युक्ता चतुर्युता विधेया। चेद्यदि सा जन्मर्क्षसङ्ख्या खचराधिका नवाधिका तदा रसाढ्या षट्युता। चेद्यति सा जन्मर्क्षसङ्ख्या षोडशाधिका तदा नागैरष्टभिश्चशब्दात्सहिता। एवं त्रिकराधिकात्रयोविंशत्यधिका तदा दिग्भिराढ्या दशसहिता। इह तथा यागे कृते सति यो योगः स चेतवर्षैर्गतवर्षैर्युक्तः सहितः। तथाग्निभक्तस्त्रिभक्तः। अत्र शेषसत्वे शेषस्थितौ सरूपलब्धादेकयुतफलप्रमाणात्। अथ शून्यशेषे शेषाभावे फलात्केवलात्फलात्। यथोक्ताः खेचराः “अर्कः केतुश्च” इति पटिता ग्रहाः समेशा अब्दपाः स्युः। अत्राब्दपे वर्षेशे केतौ सति यदि शेषमानं रूपाधिकं द्वित्रिप्रमितं तदेह केतुकुण्डल्यां कालाख्यराहुः संज्ञया कालराहुः समेश्वरो वर्षपो भवति॥ ३॥
अत्रायं भावः। यद्यश्विन्यादितो भरर्णीयावज्जन्मनक्षत्रं तदा तन्मितिद्बियुता। एवं यदि कृत्तिकानक्षत्रादश्लेषानक्षत्रं यावज्जन्मनक्षत्रं तदा दास्रात्तन्मितिश्चतुर्युता। अथ यदि मघानक्षत्राद्विशाखानक्षत्रं यावज्जन्मनक्षत्रं तदाऽश्विन्यादितस्तन्मितिषट्सहिता। अथानुराधाचक्षत्राच्छ्रवणर्क्षं यावज्जन्ममन्तदाऽश्विन्यादितः साभिजित्तन्मितिरष्टसहिता। एवं धनिष्ठानक्षत्राद्रेवत्यन्तं यावजन्मनक्षत्रं तदाऽश्विन्यादितस्तम्मितिर्दिक्सहिता विधेया। एवं निष्पन्नो योगो गतवर्षसहितो यः स च त्रिभक्तः सनत्र यद्यवशेषमानं स्यात्तदा सैकफलक्रमात्। अत्र यदि शेषाभावस्तदा यथागतफलादेव रविशिखिबुधकुजशि खिगुरुचन्द्रशिखिभृगुराहुकेतुशनैश्चरा एते वर्षाधिपाः स्युः। एवं केतौ वर्षपे जाते सति यदि तत्र शेषमानं द्वित्रिमितं तदा कालराहुर्वर्षपः स्यात्तदन्यथा वर्षेशः केतुः स्यादिति सुधीभिर्विभाव्यम्। अत्र मन्दानां प्रतीत्यर्थमुदाहरणम्। तद्यथा। मघानक्षत्र जन्मवतस्त्वश्विनीनक्षत्रात्तज्जर्न्मक्षसङ्ख्या नन्दनाधिका तेन तत्सङ्ख्या दशमिता षट्युता षोडशमिता जाता (१६) अत्रेयं जन्मसमये शून्यगताब्दैर्युता सति यथास्थितैव (१६) अतोऽयं (१६) योगस्त्रिभक्तस्तदा फलं शरतुल्यं (५) शेष रूपमितं ( १ ) स्यात्। अतः सैकफलं रसमितं जातम् (६) तेनोक्तग्रहगणनया गुरुः प्रथमाब्दपो जातः। तथा मधानक्षत्रोपरि गतो गुरुः पूर्वाचार्याभिमतः प्रथमववर्षशो जातः। एवं द्वितीयवर्षे रूपमितेतवर्षेण युतो निष्पन्नयोगोऽयं (१६ ) सप्तदशसमो जातः (१७) अयं त्रिभक्तः फलं (५) सैकं (६) तेनात्रापि द्वितीयाब्दपोजीवः। एवं निष्पन्नयोगोऽयं (१६) द्विमितेन गतवर्षेण युतस्तदाऽष्टादशसमो जातः (१८) अयं त्रिभक्तः फलं रसमितं (६) तथावशेषं शून्यं स्यात्। अत एवात्र केवलात्फलादेव तृतीयवर्षस्याधिपो जीव एव। एवं पूर्वोक्त्तयोगोऽयं (१६) रसमितेन गतवर्षेण युतस्तदा द्वाविंशतिसमो जातः (२२) अयं त्रिभक्तः फलं (७ ) तथावशेषं ( १ ) तेन सैकफलात्सप्तमवर्षाधिपः केतुः स्यात्। एवं निष्यन्नयोगोऽयं (१६) नगमितेन गतवर्षेण युतस्तदा त्रयोविंशतिमितो जातः (२३) अयं त्रिभक्तः फलं [७] तथा शेषमानं द्विमितं स्यात्। तेनात्र सैकफलाज्जाते वर्षाधिपे जातः। एवं नवमवर्षाधिपश्च स एव। एवं यत्र सरूपफलं वा केवलफलं द्वादशाधिकं स्यात्तदाऽर्कतष्टात्तस्मादब्दाधिपो बोध्यः। एवमन्यनक्षत्रजन्मवतामपि स्वमत्योदाहरणं ज्ञेयमिति।
अत्रोपपत्तिः। तत्रोत्तरभाद्रपदादिनक्षत्रत्रयवशात्सूर्यादयः कथितखेटा अब्दाधिपाः परमत्राश्विनीनक्षत्राज्जन्मर्क्षसङ्ख्या या गृहीता सा यदि द्वियुता तदोत्तरभाद्रपदनक्षत्राज्जर्न्मक्षावधिका सा सङ्ख्या स्यात्। परमेवं भरणीपर्यन्तमर्थात्त्र्यल्पांजन्मरक्षसङ्ख्यां यावत्। अथ यदि तदग्रतः सर्पनक्षत्रं यावज्जन्मनक्षत्रं स्यादर्थाद्द्विकाधिका नवमावधिका जन्मर्क्षमितिः स्यात्तदा भरणीनक्षत्रादधः स्थानद्वये कालराहुर्विहितः। परञ्च तत्र नक्षत्रपठिताभावः स्यात्। अतस्तत्स्थानद्वयबोधार्थं जन्मर्क्षसङ्ख्या द्वियुता तथोत्तरभाद्रपदर्क्षाद्गणनार्थं पूर्वरीत्या द्वियुता विधेया तेनात्र जन्मर्क्षसङ्ख्या चतुर्युक्ता जाता। अथ यदि नवाधिका षोडशावघिका जन्मर्क्षसङ्ख्या यावत्तावत्तर्हि पुनः सर्पनक्षत्राधः कालराहुजनितस्य स्थानद्वयस्यावगमाय सा सङ्ख्या द्वियुता कर्तव्या तथा पूर्वरीत्या चतुर्युता प्राप्तैवातः सा षड्युता जाता। एवं षोडशाधिका त्रयोविंशत्यवधिका जन्मर्क्षसङ्ख्या तदा पुनर्विशाखानक्षत्राधः कालराहुस्थानद्वयावगमार्थं सा द्वियुता तथा पूर्वं षड्युता सिद्धैवातः नागैर्युता जाता। एवं त्रयोविंश्यत्यधिका जन्मर्क्षसङ्ख्या तदाश्रवणर्क्षाधःकालराहोः स्थानद्वयावगमाय सा द्वियुता कर्तव्या तथा पूर्वं नागयुक्ता प्राप्तैवातो दिग्भिः सा युता जाता।
अथोत्तरभाद्रपदादिनक्षत्रजन्मवतां त्रयाणां त्रयाणां नक्षत्राणामेकैंकखेटः पतिर्विहितस्तथा यद्यपि केतुरेकनक्षत्राधीशः परञ्च तदधः कालराहू द्वौ पठितो तेनात्रापि कालराहुभ्यां सहितः केतुर्ग्रहत्रयसमो जातः। एवं जन्मसमयेयः खेटो वर्षाधीशस्तदारभ्यैकैकवृद्ध्या चैकद्विकादिकगतवर्षे सति वर्षाधीशः स्यात्। अतः पूर्वोक्तयोगो गतवर्षैर्युक्तस्तदोत्तरभाद्रपदनक्षत्रादिष्टवर्षावधि विहितखेदानां वृन्दं स्यात्। ततोऽनुपातः। यदि त्रिमितेन वृन्देनोक्तग्रहो रूपमितो लभ्यते तदेष्टबृन्देन क इति। फलं गतवर्षाधीशः स्यादतो वर्त्तमानावगमाय फलं सैकं कृतम्। परञ्चैवं शेषसत्वे शेषत्यागात्। यदा शेषाभावस्तदा तु फलमेव वर्त्तमानवर्षाधीशः स्यात्। परञ्चैव वर्षाधिपे केतौ जाते सति तत्रत्यशेषे रूपमिते केतुरेव वर्षेशश्चैकवर्षस्य तदधीशविहितत्वात्। तथा तदग्रे वर्षद्वयस्य कालराहुरधिपो विहितः परञ्च विहितखेटानां मध्ये तत्सङ्ख्या न पठिता तेन यदा द्वित्रिमितं शेषं तदा लब्धानुसारात्प्राप्तमपि वर्षाधिपं केतग्रहमपहाय कालाख्यराहुरब्दाधिपो बोध्यः। अत उपपन्नं सर्वम्।
इतीह केतुकुण्डली शुभाशुभप्रबोधिनी।
तदीयबोधदायिनी प्रपूर्णतां सुबोधिनो॥ १॥
अथ तृतीयाब्देशावगमाय गुरुकुण्डलीमाह।
आदौ रविस्ततो भौमस्तदग्रेकेतुरिष्यते।
ततश्चन्द्रो बुधश्चैव ततो गुरुरिहेष्यते॥ ४७॥
सप्तमे भार्गवस्तद्दष्टमे शनिरिष्यते।
ततः पर सैंहिकेय इत्येषा गुरुकुण्डलो॥ ४८॥
आदौ प्रथमं रविः। ततो भौमः। तदग्रे भौमात्परं केतुरिष्यते कथ्यते।ततः केतोरग्रे चन्द्रः। ततो बुधः। ततो बुधादग्रेगुरुरिष्यते॥ ४७॥
सप्तमे सप्तमस्थाने भार्गवः शुक्रः तद्वदष्टमे तथाऽष्टमस्थाने शनिरिष्यते। ततः पर शनेरग्रे सैहिकेयः सिहिकासुतः किन्तु राहुः। इत्येवमेषा गुरुकुंडली स्यादर्थादेवं रीत्या गुरुकुंडलिकायां नव खेटाः स्थाप्याः॥४८॥
** भा० टी०**—गुरु कुण्डली में प्रथम रवि तत्पश्चात् क्रमशः मंगल, केतु, चन्द्रमा, बुध, बृहस्पति, शुक्र, शनि और राहु की स्थापन करना चाहिये। इस रीति से गुरु कुन्डली चक्र होता है॥ ४७—४८॥
पुष्यादिकं क्रमेणैव ऋृक्षं देयं पुनः पुनः।
यत्रस्थं जन्मनक्षत्रं तत्क्रमाद्गणयेद्बुधः॥ ४९॥
पुष्यादिकभृक्षं नक्षत्रं पुनः पुनर्वारं वारं क्रमेणेवोक्तग्रहक्रमाद्देयं लेखनीयं गणकेनेति शेषः। एवं सिद्धे चक्रे जन्मनक्षत्रं यत्रस्थं यत्कोष्ठकगतं तत्क्रमाज्जन्मर्क्षोंपरि गतं खेटमधिकृत्य बुधो वर्तमानवर्पेशं यावद्गणयेत्॥ ४९॥
अत्रायं भावः। कथितानामर्कादिनग्रहाणामधः स्थानि पुष्यादिनवर्क्षाणि त्रिरा वृत्या स्थाप्यानि। तद्यथा सूर्यादधः पुष्यर्क्षम्। कुजे श्लेषा। केतौ मघा। चन्द्रे पूर्वाफाल्गुनी। बुधेचोत्तरा फाल्गुनी। ततो गुरौहस्तर्क्षम्। ततः शुक्रे चित्रा। ततः शनौ स्वाती। ततो राहौ विशाखा। इति प्रथमावृत्तौनवर्क्षाणि लेख्यानि। द्वितीयावृत्तौ तु विहितमार्गेणार्कादिग्रहाणामधः स्थानि चानुराधादिकानि नवर्क्षाणि पुनर्लेख्यानि। ततस्तृतीयावृत्तौ तेन प्रकारेणोत्तरभाद्रपदादिकानि नवर्क्षाणि लेख्यानि। तदुक्तमप्यन्येः।
सूर्यारकेत्विन्दुबुधेज्यशुक्रार्किराहुभानाज्यभतः क्रमेण।
जन्मर्क्ष सङ्ख्या पतिताऽत्र यत्र तत्कोष्ठखेटो गुरुकुंडलीजः॥ १॥
एवं कृते जातं गुरुकुण्डलीचक्रम्।
** भा० टी०**—अथ कथित रवि मंगल केतु आदि ग्रर्हो के क्रम से पुष्य आदि नक्षत्र को बार २ लिखे। एवं इस प्रकार से उक्त चक्र में जहां जन्मनक्षत्र हो उस कोष्ठ के उपरि गत ग्रह से प्रारम्भ कर बर्तमान वर्ष पर्यन्त वर्षेश की गणना करे। अर्थात् जन्म समय जन्मनक्षत्रोपरि गत ग्रह प्रथम वर्षेश होता है उसके बाद उक्त क्रमसे प्रत्येक ग्रह एक २ वर्षके स्वामी होते हैं॥ ४९॥
अथ गुरु कुण्डली चक्रम्।
| ग्रहाः | र. | म. | के. | चं. | बु. | वृ. | शु. | श. | रा. |
| **नक्षत्राणि ** | पुष्य | श्ले | म. | पू. | उ. | ह. | चि. | स्वा. | वि. |
| न | अ. | ज्ये. | मू. | पू. | उ. | श्र | ध. | श. | पू. भ. |
| न | उ. | रे. | अ. | भ. | कृ. | रो. | मृ. | आ. | पुनर्वसु |
उदाहरण—जेसे किसी का जन्म नक्षत्रविशाखा है तो उस के कोष्ठ केउपर राहु है अतएव राहु प्रथम वर्षेश हुआद्वितीय वर्षेश रवि. तृ० वर्षेश मंगल, चतुर्थ वर्षेश केतु पञ्चम वर्षेश चन्द्रमा,षष्टम वर्षेश बुध, सप्तम वर्षेशबृहस्पति, अष्टम वर्षेश शुक्र नवम वर्षेश शनि दशम वर्षेश पुनः राहु एवं एकादशादि वर्षोके सूर्यादि ग्रह वारम्बार वर्षेश होगें।
अथ प्रकारान्तरेण गुरु कुण्डलीमाह।
रेखापञ्चकमालिख्य रेखैकं प्रस्तरे तथा।
आदौ रबिस्ततो भौमः केतुश्चैव तृतीयके॥ ५०॥
ततश्चन्द्रो बुधश्चैव षष्ठे शून्यं तथैव च।
शून्यं तु सप्तमे चैव गुरुश्चैव तथाष्टमे॥ ५१॥
शून्यं तु नवमे चैव तथैव दशमे मतम्।
एकादशे तु शुक्रः स्याछून्यं द्वादशके भवेत्॥ ५२॥
शनिस्त्रयोदशेपि स्याद्राहुश्चैव चतुर्दशे।
शून्यं पञ्चदशेपि स्याज्ज्ञातव्या गुरुकुण्डली॥ ५३॥
त्रीणि त्रीणि च ऋक्षाणि पुष्यदीनि नियोजयेत्।
जन्मर्क्षादिक्रमाद्वर्षमेकैकक्रमशो भवेत्॥ ५४॥
रेखापञ्चकमर्थादूर्ध्वाघररूपाः पञ्चमितारेखा तथा प्रस्तरे तिर्यग्रूपविषये रेखैकं रूपमितां रेखां चेति रेखाषट्कमालिख्य लिखित्वा ततश्चादौ किन्तुचोतराश्रितदण्डाग्रे रविर्लेख्यः। ततस्तिर्यग्दण्डाये भौमः। तृतीयके किन्तु विहितदण्डमूले केतुः। ततो द्वितीयदण्डाग्रे चन्द्रः। ततस्तन्मध्येऽर्थात्तद्दण्डतिर्यग्रेखासम्पाते बुधः। तथैव षष्टे षष्टस्थानेऽर्थाद्द्वितीयदण्डमूले शून्यं ग्रहाभावः। ततः सप्तमेतृतीथद=डाग्रे शून्यम्। तथाष्टमे तद्दण्डतिर्यग्रेखासंयोगे गुरुः। पुनर्नव में द्दण्डमूले शून्यम्। तथैव दशमे चतुर्थदण्डाग्रे मतं शून्यं स्वीकृतम्। तथैकादशे तद्दण्डतिर्यग्रेखासम्पाते शुक्रः। द्वादशके तद्दण्डमूले शून्यम्। त्रयोदशे पञ्चमदण्डाग्रे शनिः। ततश्चतुर्दशे तद्दण्डतिर्यग्रेखासंयोगे राहुः। पञ्चदशेतद्दण्डमूले शून्यम्। एवं रीत्या गुरुकुंडली ज्ञातव्या गणकेनेति शेषः॥ ५०॥५३॥
तत्रैकैकग्रहादधः पुष्यादीनि पुष्यनक्षत्राद्यानि त्रीणि त्रीणि ऋक्षाणि नक्षत्राणि नियोजयेत्स्थापयेद्गणक इति शेषः। एवं विधे गुरुकुंडलीचक्रे जन्मर्क्षादिक्रमादेकैकं वर्ष क्रमशो भवेत्। अर्थाज्जन्मनक्षत्रोपरिगतं खेटं प्रथमवर्षेशरुपमारभ्य ततश्चैकैकगतवर्षवशादेकैकवृद्ध्या वर्षेशः स्यात्। तथा कृते जातं तच्चत्रम्।
अत्र कैश्चित्कृत्तिकादिनक्षत्रेषु रविचन्द्रकुजबुधगुरुशुक्रशनिराहुकेतुखेटानां वशाद्गुरुकुंडली विहिता परञ्चेदं मतं सर्वसम्मतं न स्यादिति तद्गौडम्॥५४॥
** भा० टी०**—अथ अन्यचक्र के अनुसार गुरु कुंडली को लिखते हैं पांच उर्ध्वाधर रेखा लिखकर उन के उपर एक तिर्यक् रेखा लिखे। ( एवं प्रत्येक उर्ध्वाधर में तीन ३ स्थान हुए और पांचो रेखाओं मिलकर १५ स्थान हुए जिन के क्रम से ग्रन्थकार ग्रह स्थापन लिखते है जैसे प्रत्येक रेखा का रेखाग्र (१) तिर्यक् रेखा संपात स्थान (२) एवं मूलं तीसरा एवं सव १५ स्थान हुआ। जो कि निम्न लिखित चक्र से स्पष्ट ज्ञात हो जायगा। अथ ग्रह स्थापन क्रम लिखते है उर्ध्वाधर के प्रथम के रेखा के अग्र भाग में रवि,प्रथम रेखा व तिर्यक् रेखा संपात रुप द्वितीय स्थान में मंगलतृतीय स्थान में अर्थात्प्रथम उर्ध्वाधरके मूल में केतु चतुर्थ स्थान ( द्वितीय रेखा के अग्रभाग ) मैं चन्द्रमा पञ्चम स्थान अर्थात् द्वितीय रेखा और तिर्यक् रेखा का संपात रुप में। में बुध षष्ठ में (द्वितीय रेखा के मूल में ) शून्य एवं ७ सप्तम स्थान में शून्यअष्टम में ‘गुरु, नवम में शून्य दशम में भी शून्य एकादशवें स्थान में शुक्र, बारहवें शून्यं, तेरहवे स्थान में शनि, चौदहें स्थान राहु पन्द्रहवें स्थान में शून्य स्थापना करना चाहिये। यह भी गुरु कुण्डली है। एवं चक्र लिखकर प्रत्येक ग्रह के नीचे पुष्यादि नक्षत्र तीन तीन लिखे शून्य के नीचे नक्षत्र स्थापित नहीं करे। तो ऐसी गुरु कुण्डली चक्र में जन्म नक्षत्र के उपर के ग्रह को प्रथम वर्षेश मान कर एक २ वर्षं के क्रम से वर्तमान वर्ष के स्वामी का ज्ञान करना चाहिये॥ ५०—५१—५२—५३—५४॥** **
| प्रथम स्थान | चतुर्थ स्थान | सप्तम स्थान | दशम स्थान | त्रयोदश स्थान |
[TABLE]
उदाहरण—जैसे कि जन्म नक्षत्र मान लिया पुष्य हैं तो प्रथम वर्ष का सूर्य, द्वि० ब० का मंगल, तृतीय का केतु चतुर्थ का चन्द्रमा पञ्चम का बुध षष्टम का बृहस्पति सप्तम का शुक्र अष्टम का शनि नवम राहु पुनः दशवे आदि वर्षों के स्वामी ख्यादि उक्त ग्रह क्रम से होंगें। यहां शून्य स्थानों से कोई प्रयोजन नही है एक आचार्य का यों हो कल्पना मात्र है।
अत्र मदीयं सूत्रम्।
जन्मर्क्षसङ्ख्या सहिता गताब्दै—
र्नगोनिता नन्दहृतावशेषात्।
आमं शि च बोगुशुसौतपाका
जीवस्य वै कण्डलिकाप्रजाताः॥ १॥
जन्मर्क्षसङ्ख्या दस्त्रभात्स्यजन्मनक्षत्रावधि या सङ्ख्या सा गताब्दैर्गतवर्षः सहिता युक्ता तथा नगोनिता सप्तरहिता विधेया। एवं या सङ्ख्या सा नन्दहृता नवभिर्भक्ता तदा यदवशेषमानं तस्मादवशेषमानात् आ मं शि चं बो गु शु सौ त पाकाः किन्तु आ आदित्यः सूर्यः म मङ्गलः। शि शिखी केतुः। च चन्द्रमा बो बोधनो बुधः। गुगुरुः। शु शुक्रः। सौ सौरः शनिः। त तमो राहुः। एतेषां पाका दशाः स्युः। कथम्भूता जीवस्य बृहस्पतेः कुंडलीकाप्रजाताः कुंडल्युत्पन्नाः॥ १॥
अत्रोदाहरणं मन्दार्थमुच्यते। मघानक्षत्रजन्मवतः स्वजन्मर्क्षसङ्ख्यादशमता जाता (१०) इयं नगो निता तदा त्रिमिता जाता ( ३ ) अत्रेयं शून्यमितेनेतवर्षेण युता यथास्थितैव (३) अत इयं नवभक्ता शेषं ( ३ ) त्रिमितं स्यात्तेनोक्तग्रहकमात्प्रथमवर्षेशः केतुः स्यात्। एवमन्यदपि बोध्यम्।
अत्रोपपत्तिः। पुष्यादिनक्षत्रवशादुक्तखेटा अब्देशा विहितास्तेनाश्विनीभाज्जन्मर्क्षसङ्ख्या या सा यदि नगोना तदा पुष्यनक्षत्राज्जन्मभं यावत्सङ्ख्या स्यात् परञ्चानया सङ्ख्यया समो विहितखेटानां मध्ये यो ग्रहः स एव प्रथमवर्षेशो जातः। तत एकैकगताब्दोपचयाज्जन्मकालिकात्पाकेशादारभ्यैकैकग्रहो वर्षेशोभवेत्। अतः पूर्वानीता सङ्ख्या यदि गताब्दैःसहिता तदाऽर्कादिष्टवर्षेशं यावत्खेटसङ्ख्याः स्युः परञ्चनवाधिकानां खेटानां प्रयोजनाभावात्ता यदि नवभक्तास्तदा फलं नवानामेकद्वयादिपरिवर्त्तःस्यात्। ततोऽवशेषसमोविहितखेदानां मध्ये निजेष्टवर्षेशो जातः। तेनोपपन्नं सर्वम्॥ १॥
अथैषां दशाफलानि —
रविवर्षे भवेद्दुःखं कुजवर्षे तथैव च।
केतोर्दशायां कृशता सुखं चन्द्रे बुधे तथा॥ ५५॥
गुरुभार्गवयोराज्यं महाक्लेशः शनैश्चरे।
राहौ तथैव विज्ञेयं गदितं मिहिरादिभिः॥ ५६॥
सुगमम्॥ ५५।५६॥
** भा० टी०** —सूर्य के वर्ष में दुःख एवं मंगल के वर्ष में भी दुःख केतु के दशा में दुर्बलता चन्द्रमा और बुध के वर्ष में सुख, गुरु और शुक्र के वर्ष में राज्य एवं शनि और राहु के वर्ष में अत्यन्त क्लेश होता है ऐसा वराहमिहिरादि प्राचीनाचार्यों से कहा गया है॥ ५५॥ ५६॥
इति गुरु कुंडली प्रकरणम्।
—————
** अथ वर्षेशानां फलपाक क्रममाह—**
वर्षप्रवेशेशपताक्यधीशास्तेषां तु मध्ये बलवान् भवेद्यः।
एकोपि वा द्वित्रिगतो यदि स्यात्तस्यैंव वर्षे प्रविभावनीयम्॥५७॥
वर्षप्रवेशपताक्यधीशा ये सन्ति तेषां मध्ये यः खेटः स्वतुङ्गादिस्थानवशाद्वलवान्। अपिवैकः किन्तु कथितानां मध्ये चैकः खेटो द्वित्रगतो यदि स्यादर्थाद्द्वित्रिस्थानाधीशः समागतस्तदा स च यद्यबलोपि तदा तस्यैव ग्रहस्य वर्षे स्वेष्टवर्षेप्रविभावनीयमर्थादाद्या दशा कल्पनीया। अत्रायं भावः। निजेष्टवर्षे यः पूर्वप्रदर्शित इन्थिहेशो वर्णप्रवेशेशाख्यः। तथा केतुपताक्यधीशः। केतुकुण्डली जीवर्षपः। तथा गुरुकुंडलीजातो वर्षेशः। एतेषां वर्षेशानां मध्ये यो बली तस्यादौ “रवौ नखाः” इत्यादि रूपा दशा लेख्याः। तत्रापि निजेष्टवषेंकथितपताक्यधीशानां ज्ञानं कृत्वा तेषां त्रयाणां वर्णैशानां मध्ये स्वर्क्षादिस्थानरीत्या यो बलवान् स एवात्र प्रथमचतुर्मासेषु स्वफलदः। ततस्तन्न्यूनबलो ग्रहो चतुर्मासादनन्तरं मासचतुष्कं यावन्निजफलदः। ततो मध्यफलदातुरपेक्षयायो निर्बलः स चाष्टममासादनन्तरं मासचतुष्कं यावन्निजफलदः स्यात्। यद्वा चात्रैकोपि ग्रहोयदि प्रकारद्वयेन वा प्रकारत्रयेण वर्षंपः समागतस्तदाऽऽदौतस्य निर्बलत्वेपि स्वफलं कथनीयम्॥ ५७॥
** भा० टी०—**ग्रन्थकार ने चार प्रकार से ( प्रथम जन्मलग्न समारभ्य इत्यादि से द्वितीय केतु पताकी चक्र से तृतीय केतु तुण्डली चक्र से एवं चतुर्थ गुरु कुंडली से ) वर्षेशों से आनयन किया है। इस प्रकार से प्राप्त ग्रहों में से अधिक बलवान् ग्रह की पहले दशा “रबौ नखाः स्युः खशरा शशाङ्के” के क्रम से लिखना चाहिये। उस में भी केतु पताकी, केतु कुण्डली, गुरु कुंडली से प्राप्त वर्षेशो में से अधिक बलवान् ग्रह वर्ष के प्रथम चार महीनों में स्वकीय फल देगा। एवं मध्य बलवान् ग्रह द्वितीय चार महीनों में स्वकीय फल तथा उनमें अल्प बली ग्रह वर्षके अन्तके चार महीनो में स्वकीय फल देगा। अथवा इन तीनों प्रकार से एक ही ग्रह यदि वर्षेश होगा तो वह सम्पूर्ण वर्ष अपना विशेष फल देगा, अथवा दो प्रकार से एक तथा अन्य प्रकार से अन्य ग्रहवर्षेश होगा तो प्रकार दो से आया हुआ ग्रह वर्षके प्रथम आठ महीनों स्वकीय फल देगा। तथा द्वितीय ग्रह वर्ष के अन्त के चार महीनों में स्वकीय फल देगा विशेषता यह है कि प्रकार त्रय से अथवा दो से आगत ग्रह चाहे सबल हो या दुर्बल हो वही प्रथम स्वकीय शुभाशुभ फल देना वाला होगा॥ ५७॥
अथ प्रकारत्रयजे वर्षे पापरूपे विशेषमाह—
पातकी कुण्डली केतोः कुण्डली च बृहपस्तेः।
सर्वत्र पापसंयोगे संशयो जायते महान्॥ ५८॥
** सं० टी०**—केतोः पताकी तथा तस्य कुण्डली। तथा च बृहस्पतेः कुण्डली चेति त्रयं यदस्ति सर्वत्र चक्रत्रयेपि पापसंयोगे पापग्रहे वर्षाधीशे सतिमहान् संशयो महदरिष्टं जायते प्राप्नोति। अत्रैदवधधेयम्। तत्र प्रथमं केतुपताकी चक्रम्। ततस्तत्कुंडलीचक्रम्। ततो गुरुकुंडलीचक्रम्। इति चक्रत्रयं विचारणीयम्। एवं चक्रत्रयमवलोक्य शुभाशुभसंयोगाच्छुभाशुभफलं कथनीयम्। तद्यथा। केतुपताक्यां शुभे वर्षेशे जाते सति वर्णस्याद्यत्रिभागे किञ्चादौ मासचतुष्टयावधि शुभं कथनीयम्। एवं केतुकुंडल्यां शुभे वर्षेशे सति मध्यत्र्यंशे किन्तु मासचतुष्टयादनन्तरमष्टममासं यावच्छुभम्। एवं पुनर्गुरुकुंडलिकाया शुभेऽब्दपे सति तदाऽन्तिमत्रिभागेऽर्थादष्टमभासादनन्तरं वर्षावसानं याबच्छुभम्। एवं चक्रत्रयेपि शुभपापसंयोगादुक्तरीत्या मिश्रं फलं कथनीयम्। यदि पुनश्चक्रत्रयेपि वर्षेशेषु पापग्रहेषु विद्यमानेषु तदा महदरिष्टम्॥ ५८॥
अथ मघाजन्मर्क्षवशाच्चक्रत्रयस्याप्युदाहरणभुच्यते।तद्यथा।
केतुपताक्यां तन्नक्षत्रोपरि केतुस्तस्मादादौ प्रथमाब्दपः केतुः। ततः केतु कुंडलिकायां तस्योपरि गुरुस्तेन प्रथमाब्दे द्वितीयवर्षेशो गुरुः। ततागुरु कुंडलिकायां तस्योपरि केतुस्तेन प्रथमाब्दे तृतीयवर्षेशः केतुः। ततो द्वितीयवर्षे प्रथमवर्षेशः शुक्रः। द्वितीयवर्षेशो गुरुरेव। तृतीयवर्षेशश्चन्द्रः। एवं कृते जातं तच्चक्रम्।
** भा० टी०**—जिस वर्ष में केतु पताकि चक्र तथा केतु कुंडलो चक्र और गुरु कुंडली चक्र यदि इन तीनों से पाप ग्रहों का योग आवे अर्थात् जिस वर्ष तीनों वर्षेश पाप ग्रह हों उस वर्ष में जीवन में महान् संशय अर्थात् महदरिष्ट सोता है॥ ५८॥
अथ चक्रत्रयजनित चक्रम्
[TABLE]
[TABLE]
[TABLE]
इतीज्यजा कुंडलिका विचित्रा ज्योतिर्विदां सद्वचनैः पवित्रा।
तस्यामगात्पूर्णमियंचटीका ग्रन्थस्य केतोः किल सत्पताका॥ १॥
इति श्री प्रजापतिदास विरचिते पञ्चस्वराख्ये ग्रन्थेआयुर्दाय विचाराध्याये
सरला भाषा टीकायां वर्षेशनिर्णयप्रकरणं समाप्तम्।
अथ पञ्चस्वराभिधमाह।
उदितं भ्रमितं भ्रान्तं सन्ध्याऽस्तं तदनन्तरम्।
जन्म कर्म तथाऽऽधानं पिण्डं छिद्रं ततः परम्॥ ५९॥
पञ्च बालादिकावस्था नामाद्यक्षरतस्तथा॥
आद्योबालः कुमारश्च युवा वृद्धो मृतोपि वा॥६०॥*
अथ पूर्वरीत्या प्राप्तस्य संशयस्य निर्णयाय पञ्चस्वरप्रकारः कथ्यतेतत्रादौ वर्णस्वरावगमाय स्वरचक्रमुच्यते। परञ्च ग्रन्थकारेण तत्प्रकारस्तु नोक्तः। अतो नरपतिजयचर्यासमाख्यग्रन्थानुसारेण तदुच्यते। तद्यथा। तत्र अ इ उ ए ओ एते पञ्चस्वराः सन्ति। अत्र षोडशस्वरमध्ये पञ्चस्वरा एव मुख्यास्तथा दीर्घस्वरस्य यत्फलं तदेव ह्रस्वस्वरस्य फलं यथा आ अ। इत्यादिकमस्य कारणं मदुक्तजातकक्रोडाभिधे ग्रन्थेद्रष्टव्यम्। पूर्वापररूपाः षड्रेखास्तथा याम्योत्तररूपाः षोडशरेखा बिधेयाः। एवं कृते पञ्चसप्ततिमिताः कोष्ठका भवेयुः। तेषां मध्ये चोर्ध्वगतेषु पञ्चकोष्ठेषु तिर्यक्षङ्क्तिक्रमेण अ इ उ ए ओ एते पञ्चस्वराः स्थाप्याः। तेषामधस्तत्क्रमादेव त्रिंशत्कोष्ठकेषु कादिहान्तान् ङञणोञ्झितान् वर्णान् लिखेत्। तदुक्तं नरपतिजयचर्यायाम्।
——————————————————————————————————————————
* अथ षोडश स्वर मध्ये पञ्चस्वरा एवमुख्यतमा यदुक्तं नरपतिजयचर्या समाख्य ग्रन्थे—
मात्रिकायां पुरा प्रोक्ताः स्वराः षोडश संख्यया।
तेषां द्वावंतिमौ त्याज्यौ चत्वारश्च नपुंसकाः॥ १॥
शेषा दश स्वरास्तेषु स्यादेकैको द्विके द्विके॥
ज्ञेया अतः स्वराद्यास्ते स्वराः पंच स्वरोदये॥ २॥
अर्थात् पुरा सृष्टयादौ ब्रह्मणअ आ इ ई उ ऊ ऋ ऋ लृ ल ए ऐ ओ औ अं अः एतेषां षोडश संख्या मध्ये अं अः इति त्याज्यौ एषु चत्वारो नपुंसकाख्याः ऋृ ऋृृ ऌ ॡ इति शेषा दश स्वराः स्थिताः ते च अ आ इ ई उ ऊ ए ऐ ओ औ एते ये शेष दश स्वरास्तेषु द्वि द्विकेषु एकैकमेव गृर्ह्णायात् ते च अ इ उ ए ओ एते पञ्चस्वराः सन्तिः।
“सर्वकालं बली वर्णः सर्वव्यापी न संशयः।
तस्मात्सर्वप्रयत्नेन वर्णे वीक्ष्यं बलाबलम्॥ १॥
कादिहान्तान् लिखेद्वर्णान् स्वराधोङञणोज्झितान्।
तिर्यक् पङक्तिक्रमेणैव पञ्चत्रिशत्प्रकोष्ठके॥ २॥
न प्रोक्ताङञ णा वर्णा नामादौ सन्ति ते नहि।
चेद्भवन्ति तदा ज्ञेया गजडास्ते यथा क्रमम्॥ ३॥
यदि नाम्नि भवेद्वर्णः संयोगाक्षरलक्षणः।
ग्राह्यस्तत्रादिमो वर्ण इत्युक्तं ब्रह्मयामले॥ ४॥
प्रसुप्तो भाषतो येन येनागच्छति शब्दितः।
तत्र नामाद्यवर्णे या मात्रा मात्रास्वरः स हि॥ ५॥
नरनामादिमो वर्णोयस्मात्स्वरादधः स्थितः।
स स्वरस्तस्य वर्णस्य वर्णस्वर इहोच्यते॥ ६॥
अथ प्रस्तुतमुच्यते। अत्र यस्य यज्जन्मर्क्षं तद्वशाच्छतपदचक्रानुसारेण या नामादिमवर्णस्तस्योपरि विहितचक्रे यः स्वरः समागतः स एवात्र तस्य वर्णस्वरः स्यादयमेव ज्योतिर्विदां सम्प्रादयो निर्भरः। अत्राप्ययदीक्षितेनेदं गौडमतं कैश्चित्स्वीकृतमिति। तन्नसमीचीनं यतः सर्वेषामिदमेव मतमिति मुख्यं मतं ममापि सम्मतम्। यस्य पुरुषस्य यो वर्णस्वरस्तस्य स्वरस्योदितसंज्ञा। तस्माद्द्बितीयस्य स्वरस्य भ्रमितं तृतीयस्य भ्रान्तं चतुर्थस्य सन्ध्या पञ्चमस्यास्तमिति संज्ञा। पुनरेतेषां संज्ञान्तरमाह। उदितस्वरस्य जन्म। भ्रमितस्वरस्य कर्म तथा भ्रान्तस्वरस्याधानम्। सन्ध्यास्वरस्य पिण्डः। अस्तस्वरस्य छिद्रमितिसंज्ञा। पुनः संज्ञान्तरमाह। नामाद्यक्षरतः पञ्च बालादिकावस्थाः स्युः। तत्राद्यस्वरो बालः। ततो द्वितीयः कुमारः। त्रितीयो युवा। चतुर्थो वृद्धः। पञ्चमो मृत इति॥ ५९॥ ६०॥
** भा० टी०**—आचार्य ने वर्ण स्वर के क्रम से उदित भ्रमित तथा भ्रान्त स्वरादिसंज्ञा की कल्पना की है।परञ्च कौन सा पञ्जस्वर है तथा नामादि अक्षर से किस प्रकार ये संज्ञाये कल्पना कीजायँगी इसको नहीं कहा है अतएव इसके ज्ञानके लिये इस श्लोक के संस्कृत टीका में लिखित वर्णस्वर ज्ञानको देखिये। एवं वर्णस्वर चक्रमें जन्म नक्षत्र के * बस जो नामादि वर्ण हो उसका जो ( अ ई उ ए ओ ) इन पांचों स्वरमें से जो स्वर हो वह उसका उदित स्वर हुआ। उदित स्वर से दूसरे की भ्रमित संज्ञा तीसरे की भ्रान्त, चौथे की संन्ध्या पंचम कीअस्त संज्ञा होती है। एवं उदितादि पाचों स्वर की क्रमसे जन्म, कर्म, आधान, पिड तथा छिद्र सज्ञा होती है। एवं जन्मर्क्ष वश नामाद्यक्षर के वश वर्णस्वर में बालादि अवस्था होती है। यथा प्रथम बालावस्था द्बितीय कुमारावस्था, तृतीय युवावस्था, चतुर्थ वृद्धावस्था पञ्चम मृतावस्था होती है॥ ६०॥
——————————————————————————————————————————
** *** इस ग्रन्थ मे मुख्य आयुर्दाय का विचार करना है अतएव यहां जन्म नक्षत्र के अनुसार स्वरों का विचार किया जाता है। अन्यथा यात्रा युद्ध बिबादादि तथा दान देवार्चन विवाहादि शुभाशुभ कार्यों के विचार में व्यवहार नाम से ही स्वरों का विचार करना चाहिये। क्यों कि नरपतिजयचर्यादि ग्रन्थों में व्यवहार नाम से ही स्वरों का विचार किया गया है यथा नरपति जयचर्यायाम्—
प्रसुप्तो भाषते येन येनागच्छति शब्दितः॥
तत्र नामाद्यवर्णेया मात्रा मात्रास्वरः स हि॥ १॥
तथा जिसके व्यवहार नाम अनेक हों उनके लिये किस नाम से विचार होगा इसका निर्णय निम्नलिखित श्लोक से स्पष्ट है।
ग्रन्थान्तरे—
बहूनि यस्य नामानि नरस्य स्युः कथंचन॥
ततः पश्चाद्भव नाम ग्राह्यं स्वरबिशारदः॥ १॥
इससे भी स्पष्ट सिद्ध है कि केवल आयुर्दाय को छोड़ कर अन्य सभी व्यवहारो के लिये व्यवहार नाम ही ग्रहण करना चाहिये।
संज्ञान्तर सहित वर्णस्वर चक्रम्।
| अ | इ | उ | ए | ओ | पञ्चस्वराः |
| क | ख | ग | घ | च | वर्णाः |
| छ | ज | झ | ट | ठ | वर्णाः |
| ड | ढ | त | थ | द | वर्णाः |
| ध | न | प | फ | वर्णाः | |
| भ | म | य | र | ल | वर्णाः |
| व | श | ष | स | ह | वर्णाः |
| उदितं | भ्रमितं | भ्रान्तं | संध्या | अस्तं | संज्ञा |
| जन्म | कर्म | आधान | पिण्डम् | छिद्रम् | संज्ञान्तरम् |
| बाल | कुमार | युवा | वृद्ध | मृत | संज्ञान्तरं च |
अथ कथितस्वराणांफलमाह —
उदिते विजयो नित्यं भ्रमिते लाभ एवच।
भ्रान्ते च सिद्धिमाप्नोति सन्ध्यास्ते मरणं ध्रुवम्॥ ६१॥
** सं० टी०—**अथ कथितस्वराणां साधारणरूपेण फलं प्रदर्शितम्। तत्रोदिते स्वरे सर्वकार्येषुनित्यं विजयः। तथा भ्रमिते भ्रमिताभिधे स्वरे लाभः। भ्रान्ते सर्वं सिद्धिं प्राप्नोति। सन्ध्यास्ते सन्ध्यासंज्ञके तथास्ताभिधे च ध्रुवं निश्चितं मरणमिति। अथ ग्रथान्तरे विशेषफलमुक्तम्।
“वर्षं मासो दिनं चैव तिथिनक्षत्रवासराः।
सन्ध्यास्ते च यदा सर्वं तदा स्यादशुभं महत्॥ १॥
हानिर्दुःखं महाक्लेशो धननाशश्च जायते।
मरणं घातपातादि तद्दिने जायते ध्रुवम्॥ २॥
तस्मिन् दिने च यो रोगो जायते पुरुषस्य हि।
असाध्यः स भवेद्रोगो भृत्यक्लेशादिदायकः॥ ३॥
** भा० टी०**—उदित स्वर में कार्य करने से विजय, भ्रमित स्वर में लाभ, भ्रान्त स्वर में सिद्धि और सन्ध्या तथा अस्त स्वर में निश्चित मरण होता है॥ ६१॥
अथ दशास्वरमाह—
यत्र नामाक्षरं प्राप्तं तत्र चैवोदितः स्वरः।
तस्माद्वर्षं विजानीयाद्वर्षान्मासो भवेत्पुनः॥ ६२॥
मासद्वयं विधातव्यं दिनं च द्वादशोत्तरम्।
एवं क्रमेण बोधब्यो वर्षभागस्तु पञ्चधा॥ ६३॥
कार्त्तिकस्य परे भागे नव ग्राह्या यथा तथा।
मार्गपौषो तथा देयं माघस्य च दिनत्रयम्॥ ६४॥*7
** सं० टी०—**यत्र नामाक्षरं प्राप्तं भवेत्तत्रैवोदितः स्वरः स्यात्। तस्मादुदितस्वराद्वर्षं वर्षारम्भं विजानीयात्। पुनस्तस्माद्वर्षान्मासो भवेत्। अनेन वर्षादिकागमः सूचितः॥ ६२॥
अथ फलं मासो भवेत्तदेव दर्शयति। द्वादशोत्तरं दिनं द्वादशदिनाधिकं मासद्वयं चोदितस्वरे विधातव्यं ज्ञातव्यम्। एवं क्रमेण भ्रमितादिस्वरेषु पञ्चधा वर्षभागो बोध्यव्यः किन्तु पञ्चमासात्मकंवर्षं भवतीति विभा व्यम्॥ ६३॥
** सं० टी०—**तदेव स्पष्टयति। कार्तिकस्य परे भागे चान्तिमांशे नव वासरा ग्राह्याः। तथा मार्गपौषौ सम्पूर्णौ ग्राह्यौ। ततो माघस्य दिनत्रयं माघमासाद्यभागस्य त्रीणि दिनानीति क्रमेण यथा वर्षं पूर्ण भवेत्तथा पञ्चस्वरेषु देयं स्थाप्यम्। अत्रेदमवधेयम्। कार्तिकशुक्लपक्षस्यान्तिमनवदिनानि तथा मार्गस्यत्रिंशद्दिनानिपौषस्य च त्रिंशद्दिनानि। तथा माघस्य त्रीणि दिनानि चैतेषां दिनानां योगमितानि द्विसप्ततिदिनानि अकारस्वराधः स्थाप्यानि। एवं माघस्य सप्तविंशतिदिनानि फाल्गुनस्य त्रिंशद्दिनानि चैत्रस्य पञ्चदशदिनानि तेषां योगमितानि द्विसप्तति दिनानीकाराधः स्थानि। एवं चैत्रस्यावशिष्ठानि पञ्चदशदिनानि वैशाखस्य त्रिंशद्दिनानि तथा ज्येष्ठस्य सप्तविंशति दिनानि चैतेषां योगसमान्युकारस्य स्वरस्याधःस्थानि। एवं ज्येष्ठस्य त्रीणि दिनानि तथाऽऽषाढस्य त्रिंशद्दिनानि श्रावणस्य च त्रिंशद्दिनानि भाद्रपदस्य नवदिनानि चैषां योगमितानि द्विसप्ततिदिनानि चैकारस्वराधः स्थानि। एवं भाद्रस्यैकविंशतिदिनानि तथाऽऽश्विनस्य त्रिंशद्दिनानि कार्तिकस्यैकविंशतिदिनानि ओकारस्वराधः स्थानि स्थाप्यानि। एवं क्रमेण पञ्चमासात्मकं वर्षं बोधयम्। अत्राकारादिस्वराणामुपलक्षणम्। किञ्च यस्य यो वर्णस्वर उदितादिकस्तदारभ्य वर्षविभागो विभाब्यः। तथा कार्त्तिकादीत्युपलक्षणम्। तेन स्वस्वजन्मदिनादेव वर्षविभागो बोध्यः॥ ६४॥
** भा० टी०**—वर्ण स्वर में जिस स्वर के नीचे नाम का अक्षर प्राप्त हो वही उदित स्वर होता है। उसी उदित स्वर से वर्षारम्भ होता है एवं वहीं से वर्ष का पांच भाग कर पांच मास की अर्थात् उदित भ्रमित भ्रान्त सन्ध्या अस्त संज्ञक पञ्च मास की कल्पना आचार्य ने की हैं॥ ६२॥
एक एक भाग द्बादशोत्तर दिन मास द्वय अर्थात् बहत्तर २ दिन के क्रम से वर्ष का पाँच भाग कर के उदितादि पाँचो स्वर होते हैं एवं पाँच कल्पित मास होते हैं॥ ६३॥
ग्रन्थकार पूर्व में “कार्तिकान्त नवाहानि” इत्यादि से वर्षारम्भ निर्धारित किये हैं अतएव यहाँ भी “वर्षभागस्तु पञ्चधा” कहकर उसी आधार पर इस को स्पष्ट करते हैं यथा कार्तिक के शुक्ल पक्ष के अन्तिम का नव दिन और मार्गशीर्ष पौष सम्पूर्ण तथा माघ के तीन दिन को अर्थात् इन ७२ दिन को अ स्वर के नीचे स्थापित करे, तथा माघ के शेष २७ दिन फाल्गुण के ३० दिन चैत्र के १५ दिन एवं इन ७२ दिनों को इ स्वर के नीचे, चैत्र के शेष १५ दिन वैशाख के ३० दिन ज्येष्ठ के २७ दिन ( सर्वयोग ७२ दिन ) को उ स्वर के नीचे, ज्येष्ठ के शेष ३ दिन आषाढ़ के३० दिन श्रावण के३० दिन और भाद्रपद के नव दिन ( सर्वयोग ७२ दिन ) को ए स्वर के नीचे तथा भादो के २१ दिन क्वार के ३० दिन और कार्तिक २१ दिन को ( सर्वयोग ७२ दिन ) को ओ स्वर के नीचे स्थापित करे। इसी प्रकार से पाँच मास हुए। यहाँ पर अकारादिस्वर उपलक्षणमात्र है वस्तुतः वर्ण स्वर से जिसका जो उदित स्वर हो उसी से वर्षभाग की कल्पना करनी चाहिये॥ ६४॥
मासात्मकं दशास्वरचक्रम्।
| अ | इ | उ | ए | ओ | पञ्चस्वराः |
| का.९ | मा.२७ | चै.१५ | ज्ये.३ | भा.२७ | मासदिन सङ्ख्या |
| मा.शी.३० | फा.३० | वै.३० | आ.३० | आखि.३० | मासदिन सङ्ख्या |
| पौ.३० | चैत्र.१५ | ज्ये.२७ | श्रा.३० | का.२१ | मासदिन सङ्ख्या |
| मा.३ | ० | ० | भा.९ | ० | मासदिन सङ्ख्या |
| ७२ दि | ७२ | ७२ | ७२ | ७२ | सम्पूर्ण दिनसङ्ख्या |
एवं स्वस्व जन्म दिवस से ७२ बहत्तर बहत्तर दिन का एक २ मास कल्पना करके पाञ्च मास २ एक वर्ष में होते हैं तथा ये ही मास क्रम से उदितादि स्वरों के दशामान होते हैं।
मदीयसूत्रम्।
वर्षप्रमाणं च शरैर्विभक्तं लब्धै दिनैर्जन्मदिनात्प्रकल्पयः।
वर्षप्रभागोऽत्र जनःस्वराद्वै क्रमादधःस्थो गणकैः फलार्थम्॥ १॥
** सं० टी०—**वर्णप्रमाणं खरसाग्निमितं शरैः पञ्चभिर्भक्तंलब्धैर्दिनैद्विसप्ततिमितैर्जन्मदिनादारभ्य जनेः स्वरात्क्रमाज्जन्माख्यादर्थादुदितादिस्वरक्रमादधः स्थोवर्णप्रभागो गणकैः फलार्थं प्रकल्प्यः।
अत्रोपपत्तिः। अत्र “त्रिंशद्दिनः सावनमास एव’ इत्यागमप्रमाणान्मासविभागकल्पनावशात्स्व— जन्मदिनमारभ्य त्रिंशद्दिनात्मक एकैको मासो वर्णमध्ये भवेत्। अत एव द्वादशमासानां योगसमं दिनात्मकं वर्षमानं खरसाग्निमितं जातम् (३६० ) परश्चात्र फलार्थमेकस्मिन् वर्षे यथा पञ्चस्वराणां स्वस्वोदिताभिधार्ना तुल्यमेव भोगमानं भवेत्तथा वर्षविभागः कल्पनीयः। ततोऽनुपातः। यदि पञ्चप्रमितैः स्वरैः स्वस्वभोगजयोगमानं खरसाग्निमितं लभ्यते तदैकेन स्वरेण किमिति। फलं स्वस्वस्वरभोगमानमिति जातं $\left( \frac{{३६०} \times १}{५} \right) = = ({७२})$।
अथ जन्मदिनमारभ्य पूर्वोक्तमासलक्षणेन कार्त्तिकादिको मासो बोधव्यः। अथ प्राचीनोक्तकार्त्तिकादिमासकल्पना कार्तिकशुक्लसप्तमीजन्मवतः समीचीना स्यात्। तदन्यथा तु मदुक्तमेव विभाव्यम्। अत उपन्नं सर्वम्।
अथ तिथ्यादि स्थापनमाह —
एवं क्रमेण दातव्यो वर्ष पूर्णं यथा भवेत्।
तिथिः प्रतिपदादिश्च कुजादिर्बारनिर्णयः॥ ६५॥
नन्दा भद्रा जयारिक्ता पूर्णाश्चापि यथा क्रमम्।
क्रमेणाङ्काः प्रदातव्या ग्राह्मश्चाङ्कसमुच्चयः॥ ६६॥
चन्द्राष्टौ* (८१) प्रथमे देया नग नागा (८७) द्वितोयके।
——————————————————————————————————————————
* यथा शुक्ल पक्ष में प्रतिपद की संख्या १ षष्टि की ६ और एकादशी की ११ एवं कृष्ण पक्ष में प्रतिपद की संख्या १६ षष्टि की २१ एकादशी २६ अतः सभी का योग =१ +६+११+१६+२१+२६=८१ अ स्वर के नीचे एवं भद्रा
तृतीये चाग्निनवकं (९३) चतुर्थे च नवग्रहाः (९९)॥६७॥
पञ्चोत्तरशतं (१०५) देयं पञ्चमे पञ्चसुक्रमात्।
अकारादि स्वरेष्वेवं तिथ्यङ्काञ्च प्रदापयेत्॥ ६८॥
** सं० टी०—**एवं क्रमेणाकारादिस्वरवशाद्यथा वर्षपूर्णंवर्षसमाप्तं भवेत्तथा प्रतिपदादिः शुक्लप्रतिपदादिस्तिथिस्तथा कुजादिर्वारनिर्णयश्च दातव्यः। अनेन तिथिस्थापनं प्रदर्शितं॥ ६५॥
नदाभद्राजयारिक्तपूर्णा इति तिथ्योपियथाक्रमं देयाः। तथा क्रमेणाङ्काः प्रदातव्याः पश्चात्तदङ्कसमुच्चयो ग्राह्यः। अनेन गणितोपयुक्तास्तिथ्यङ्काः प्रदर्शिताः॥ ६६॥
तदेव स्पष्टयति प्रथमे अकारस्वरे चन्द्राष्ठौ रूपाधिकाशतिमिताः। तथा द्वितीयके इकास्वरे नगनागाः सप्ताशीतिमिताः। तृतीये उकारस्वरेचाग्निनवकं त्रिनवतिमिताः। चतुर्थे चैकास्वरे नव ग्रहा एकोनशतमिताः॥ ६७॥
——————————————————————————————————————————
संज्ञक तिथियो का योग २+७+१२+१७+२२+२७=८७=इ स्वरके नीचे एवं जया सं० ति० यो० ३+८ +१३+१८+२३+२८=९३ उ स्वर के नीचे। रिक्त तिथियों का योग ४+९+१४+१९+२४=२९ ए स्वर के नीचे पूर्णा तिथियों का योग ५+१०+१५+२०+२५+३०=१०५ औ स्वर के नीचे। इसी प्रकार कुजादि वार का निर्णयः—अ स्वर के नीचे भौमवार तथा बुधवार २४ घटी। इ स्वर के नीचे बुध कीं शेष ३६ घ० तथा गुरुवार की ४८ घटी। उ स्वर के नीचे गुरुवार की १२ शुक्रवार की ६० शनिवार की १२ घ०। ए स्वर के नीचे शनिवार की ४८ रविवार ३६ घटी। ओ स्वर के नीचे रविवार की शेष २४ घटी और चन्द्रवार की ६० घटी एवं एक एक स्वर के नीचे८४ घटी विभाग है। अर्थात् सातवार की घटी ६०x७ = ४२० इस लियेपांच से भाग दे दिया= $\frac{४२०}{५} = = {८४}$एक स्वर का मान हुआ।
** सं० टी०**—पञ्चमे ओकारस्वरे पञ्चोत्तरशतं शरखेन्दुमिताः। इति क्रमेण देयं स्थाप्यम्। एवमकारादिस्वरेषु पञ्चसु तिथ्यङ्कान् प्रदापयेद्दद्याद्गणक इति शेषः॥ ६८॥
अत्रेदमवधेयम्। अकारस्वरे तदधःस्थकोष्ठे नन्दातिथिस्तथा शुक्लकृष्णपक्षयोर्बशासत्सङ्ख्याश्च देयाः। तद्यथा शुक्लपक्षे प्रतिपद एकसङ्ख्या। षष्ठोतिथेषट्सङ्ख्या। एकादशीतिथेरेकादश। एवं कृष्णपक्षे प्रतिपत्तिथेः षोडशमिताङ्कः। तथा षष्ठीतिथेरेकविंशतिमिताङ्कः। तथैकादशीतिथेः षड्विंशतिमिताङ्कः। एतेषामंकानां १।६।११।१६।२१।२६। योगेनेन्दुनागमितेन समोऽङ्कसमुच्चयः ( ८१ ) अकारस्वराधःस्थः। एवं पक्षद्वस्य भद्रातिथिप्रजातानामङ्कानामेषां २।७।१२।१७।२२।२७। योगेन नगनागमितेन समोऽङ्कसमुच्चयः (८७) इकारधःस्थ। एवं पक्षद्वयस्य जया तिथिप्रभवानामङ्कानां ३।८।१३।१८।२३।२८। योगोऽयं ( ९३ ) उकारस्वरादधः स्थश्चांकसमुच्चयो जातः। एवं पक्षद्वयस्य रिक्तातिथिजानामङ्कानां ४।९।१४।१९।२४।२९ योगोऽय ( ९९ ) एकाराधःस्थोङ्कसमुच्चयो जातः। एवं पक्षद्वयस्य पूर्णातिथिप्रजानामङ्कानामेतेषां ५।१०।१५।२०।२५।३० योगोऽयं ( १०५) ओकाराधःस्थोऽङ्कसमुच्चयो जातः। अथाकारादिस्वरक्रमात्कुजादयो वाराः स्थाप्याः। अत्रेयं व्यवस्था सम्प्रादयजाता। अस्वरे भौमवारो बुधस्य चतुर्विंशतिमिताघटिकाः। एवमिकारस्वरे बुधस्य षट्त्रिंशद्घटिकास्तथा गुरोरष्टचत्वारिंशन्मिता घटिकाः। एवमुकारस्वरे गुरोर्द्वादशमिता घटिकास्तथा शुक्रस्य षष्टिघटिकाः शनेश्चद्वादशघटिकाः। एवमेकारस्वरे शनेरष्टचत्वारिंशन्मिता घटिकास्तथार्कस्य षट्त्रिंशन्मिता घटिकाः। एवमोकारस्वरे रवेश्चतुर्विंशतिमिताघटिकास्तथा चन्द्रस्य षष्टि घटिकाः। एवमैकस्वरे वेदाष्टमिता घटिकाः स्युः॥ ६५॥ ६६॥६७॥ ६८॥
** भा० टी०**—एवं पूर्वोक क्रम से अकारादि स्वरों के नीचे प्रतिपदादि तिथियों को तथा भौमादि वारको देना चाहिये जिस प्रकार वर्ष पूर्ण हो जाय॥ ६५॥
पुनःतिथि दानको निश्चित करते हैं यथा क्रमसे अस्वर के नीचे नन्दा, इ स्वर के नीचे भद्रा, उ स्वर के नीचे जया, ए स्वर के रिक्ता, ओ स्वर के नीचे पूर्णा तिथि देकर क्रमसे तिथि के अङ्को का योग करना चाहिये॥६६॥
अथ योग करके अङ्को को पठित कर देते हैं कि अ स्वरके ८१ इ स्वरके नीचे ८७ उ स्वर के नीचे ९३ ए स्वर के नीचे ९९ ओ स्वर के नीचे १०५ ये तिथ्यङ्क दिये गये हैं इन अङ्को को तथा कुजादिवार निर्णय को टिप्णी में स्पष्ट कर दिया हूँ॥६८॥
तिथ्यादि स्वर चक्रम्।
[TABLE]
अथ पूर्व कल्पित द्वि सप्तति दिनात्मके मासेऽन्तरभोगमाह—
यथा वर्षान्मासभागः कृतश्च स्वर पञ्चके।
तथा मासाद्दिनभागस्त्वस्वरात्स्वरपञ्चके॥ ६९॥
चतुर्विंशतिदण्डाञ्च चतुर्दशदिनानिच।
उदितादि विभागर्न फलं वाच्यं यथा तथा॥ ७०॥
यथा येन विधिना पूर्वमकारादिस्वरपञ्चके वर्षात्खरसाग्निप्रमाणान्मासभागोद्विसप्ततिदि—नात्मकः कृतः स्थापितः। तथा तेन प्रकारेण मासाद्द्विसप्ततिदिनमानाद्दिनभागः किन्त्वकारादिस्वराणां स्वस्वभोगमानेष्वप्यस्वरात्स्वरपञ्चके अकारस्वरमारभ्य पञ्चसु स्वरेषु दिनादिकभोगकालो विधेयः॥ ६९॥
तदेव स्पष्टयति। उदितादिविभागेन विहितोदितादिस्वरक्रमेण चतुर्विंशतिदण्डास्तथा चतुर्दशदिनानि कल्प्यानि। ततो यथा तथा फलं वाच्यम्। अत्रेदमवधेयम्। पूर्वमुदितस्वरस्य द्विसप्ततिभोगकालमानं यदस्ति तन्मध्ये तत्पञ्चमांशसममुदितस्वरस्य भोगमानम्। ततो भ्रमितस्वरस्य तत्समम्। ततो भ्रान्तस्वरस्य तत्समम्। ततः सन्ध्यास्वरस्य तत्समम्। ततोस्तस्वरस्य तत्समम्। ततो द्वितीयस्वरेभ्रमिताख्ये प्रथमं भ्रमितस्य ततो भ्रान्तस्य ततः सन्ध्यास्वरस्य ततोऽस्तस्वरस्य। एवमन्यस्वरेपि दिनविभागादिकमन्तर्दशामानं कल्पनीयम्॥ ७०॥
अत्रोपपत्तिः। पूर्वमुदितस्वराणां यद्भोगमानं द्विसप्ततिदिनात्मकं सावनरूपं विहितम्। तत्र यदि फलकथनार्थमेकैकस्वरभोगे पञ्चस्वराणां भोगमानं कर्त्तुमिष्टं तदर्थमनुपातः। यदि पञ्चस्वरैः स्वस्वभोगमानानामन्तर्दंशारूपाणां योगसमं द्विसप्ततिमितं वर्षमानं लभ्यते तदैकेन स्वरेण किमिति। फलं तस्य भोगमानं समानं यत्तदेवान्तर्दशामानं स्यादिति रूपं $\frac{७२}{५} = {१४}/{२४}/$ अत उपनन्नं सर्वम्।
** भा० टी०**—पूर्व में जैसे वर्ष से ७२ दिन के क्रम से पांच मासों की कल्पना की है अब उन्हीं अ स्वरादि मासों में दिनात्मक भाग की कल्पना करते हैं। जो कि एक भाग १४ दिन २४ घटी का होता है यह अनुपात द्वारा ले आये हैं जैसे ५ स्वर का भोग काल यदि ७२ दिन है तो एक स्वर का क्या=$\frac{७२}{५}{१४}$ दिं० २४ दं० एक का भोगकाल हुआ।
यह अन्तर्दशा की तरह स्व स्व स्वर से प्रारम्भ होता है जैसे उदित स्वर में पहले उदित का तब क्रम से भ्रमित, भ्रान्त, सन्ध्या और अस्त का भोग काल जीतता है। एवं भ्रमित में प्रथम भ्रमित का तदनन्तर भ्रान्त सन्ध्या अस्त और उदित का भोग काल होता है। एवं भ्रान्त सन्ध्या और अस्त स्वर में भी ज्ञात करना चाहिये॥ ६९॥ ७०॥
द्विसप्तति दिनात्मके मासेऽन्तरभोग चक्रम्।
| अ | ई | उ | ए | ओ | पंचस्वराः |
| १४ | १४ | १४ | १४ | १४ | दिनामि |
| २४ | २४ | २४ | २४ | २४ | घटीः |
अथान्तर्दशा फलानि
उदितादित्रिकं चेत्स्यादन्योन्यं भाग संस्थितम्।
तदा शुभं विजानीयान् मध्यं सन्ध्यादि संस्थितम्॥ ७१॥
अन्योन्यभागसंस्थं चेत्सन्ध्यास्तेऽरिभयं भवेत्।
तदा क्लेशं विजानीयादुदितादित्रि के समम्॥ ७२॥
उदितादित्रिकमर्थांदुदितस्वरस्तथा भ्रमितस्वरस्तथा भ्रान्तस्वर इतिस्वरत्रिकं चेद्यद्यन्योन्यं परस्परं भागसस्थितमर्थादुदितस्वरे कथितत्रिकम्। अथवा भ्रमितस्वरे कथितत्रिकम्। अथवा भ्रान्तस्वरे कथितत्रिकंस्यात्तदा शुभुं राज्यादिकं विजानीयात्। चेद्यद्युक्तं त्रिकं सन्ध्यादि संस्थितं सन्ध्यास्ते स्वरद्बये स्यात्तदा मध्यं स्यात्॥ ७२॥
सन्ध्यास्ते स्वरद्वये चेदन्योन्यभागसंस्थमर्थान्सन्ध्यास्वरे सन्ध्यास्तस्वरयोर्मोगकालः। अथपाऽस्तेस्तस्वरे सन्ध्यास्तस्वरयोभोगसस्थं तदाऽरिभयं तथा क्लेशं महत्कष्टं विजानीयात्। उदितत्रिके चेद्यदि सन्ध्यास्तभोगसंस्थं तदासमं मध्यं फलं स्यात्॥ ७२॥
** भा० टी०—**उदितादि तीनों स्वरों की परस्पर अन्तर दशायें शुभ फल कारक होती हैं। ( अर्थात् उदित स्वर में उदित भ्रमित और भ्रान्त स्वर की अन्तर दशा तथा भ्रमित स्वर में भ्रमित भ्रान्त तथा उदित स्वर की अन्तर दशा एवं भ्रान्त स्वर में उदित भ्रमित भ्रान्त की अन्तरदशा शुभ फल कारक होती है ) तथा सन्ध्या और अस्त स्वरमें उदितादि तीनों स्वरों की अन्तर्दशायें मध्यम फल देने वाली होती हैं॥ ७१॥
एवं सन्ध्या और अस्त स्वरकी परस्पर अन्तर्दशा शत्रुके भय और क्लेश को देती है। तथा उदितादि तीनों स्वर में संध्या और अस्त स्वर की अन्तर दशा फल सम होता है॥ ७२॥
अथ नक्षत्रस्वरमाह—
अकारे सप्त ऋक्षाणि रेवत्यादि क्रमेण च।
पञ्च पञ्च इकारादावेवमृक्षस्वरोदयः॥ ७३॥
रेवत्यादिक्रमेण रेवतीनक्षत्रमारभ्य सप्त ऋृृक्षाणि अकारे अकारस्वराधः स्थानि देयानि। ततः पञ्च पञ्च नक्षत्राणीकारादौ स्थाप्यानि एवमृक्षस्वरोदयो भवेत्॥ ७३॥
** भा० टी०**—अ स्वर के अधः स्थान में रेवती अ० भ० कृ० रो० मृ० आर्द्रा सात नक्षत्रों को इ स्वर के नीचे पुन० पु० आ०म० पू० फा०, उ स्वर के अधः स्थान में उ० फा० हस्त चि० स्वा० वि०, ए स्वर के अधः स्थान में अनु० ज्ये० मू० पू० षा० उ० षा० और ओ स्वर के अधः स्थान में श्र० ध० श० पू० भा० उ० भा इन नक्षत्रों को स्थापित करें॥ ७३॥
नक्षत्रस्वर चक्रम्।
| अ. | इ. | उ. | ए. | ओ. | पञ्चस्वराः |
| रै. | पुन. | उ.फा. | अनु. | श्र. | नक्षत्राणि |
| अ. | पु. | ह. | ज्ये. | ध. | नक्षत्राणि |
| भ. | आश्ले | चि | मू. | श. | नक्षत्राणि |
| कृ.रो. | म. | स्वा. | पू.षा. | पू.भा. | नक्षत्राणि |
| मृ.आ. | पू. फा. | वि. | उ.षा. | उ.भा. | नक्षत्राणि |
अथ राशिस्वरमाह—
अकारे मेष सिहालि इस्त्रीमिथुनकर्कटाः।
उस्वरे चापमीनौ च एकारेत्र तुला वृषो॥ ७४॥
ओस्वरे मृग कुम्भौ च राशीशाद्वार निश्चयः।
स्वराधः स्थापयेत् खेटान् राशे र्योयस्य नायकः॥ ७५॥
अकारे भेषसिहालिः। इकारे स्त्रीमिथुन कर्कटाः। उस्वरे चापमीनौ एकारे तुलावृषौ॥ ७४॥
ओकारे मृगकुम्भौ। अत्र राशीशाद्वारनिर्णयःकार्यः। तदेव स्पष्टयति यस्य राशेर्यो ग्रहः कथितविधिना नायकः स्वामी स्यात्। एवंतान् खेटान् स्वराधः स्थापयेत्॥ ७५॥
मेष सिंह वृश्चिक अ स्वर, कन्या मिथुन कक राशि इ स्वर, धन मीन उ स्वर, तुला वृष ए स्वर एवं मकर कुम्भराशि ओ स्वर है। राशीश से बार का निश्चय करना चाहिये अर्थात् जिस राशि का जो स्वामी हो उस ग्रह को उस राशि के अधः स्थान में लिखे ( यथा अ स्वर के अधः स्थान में सूर्यबार मंगलवार, इ स्वर स्थान में चन्द्रवार, बुधवार, उ स्वर, में गुरुवार, ए स्वर में शुक्रवार और ओ स्वर में शनिवार को स्थापन करे॥ ७४॥ ७५॥
राशिस्वर ग्रहस्वर।
| अ. | इ. | उ. | ए. | ओ. | पञ्चस्वराः |
| मे. | कन्या. | ध. | तु. | मं. | राशिः |
| सिं. | मिथुन. | मी. | वृ. | कु. | राशिः |
| बृ. | कर्क | ० | ० | ० | राशिः |
| मं.र. | चं.बु. | वृ. | शु. | श. | ग्रहाः वारश्च |
अथ सम्वत्सरस्वरमाह—
प्रभवाद्यब्दमैकैक मुदयत्यस्वरादिकः।
सन्ध्यास्त वत्सरं चेत्स्यात्पापस्यापि चवत्सरम॥ ७६॥
प्रभवादिकमैकैकमब्दं चास्वरादिक उदयतिअर्थादकारस्वरे प्रभवादिकं द्वादशबत्सरम्। तथैवमिकारे प्रमध्यादिकं द्वादशवत्सरम्। एवमुकारे खरादिकं द्वादश वत्सरम्। एवमेकारेशोभनादिकं द्वादशवत्सरम्। एवमोकारस्वरेराक्षसादिकं द्वादवत्सरम्। अत्र चेद्यदि संन्ध्यास्तसंवत्सरं स्यात्तथापताक्यादौ पापग्रहस्य वत्सरं स्यात्तदातस्मिन् वर्षेमृतिर्हानिरसन्तोषः स्यात्॥ ७६॥
** भा० टी०**—प्रभवादि ६० सम्वत्सरों में क्रम से एक एक सम्वत्सर अकारादि स्वरादि होते हैं। एवं एक एक स्वर में बारह २ संवत्सर हुए। सन्ध्या और अस्त स्वर वाले सम्वत्सर यदि केतु पताकि आदि चक्रों से जिस वर्ष में पाप ग्रह के वत्सर हो जांय तो उस वर्ष में मृत्यु हानि आदि होता है॥७६॥
संवत्सर चक्रम्।
| अ. | इ. | उ. | ए. | ओ. | पञ्चस्वराः |
| १ प्रभव | २ विभव | ३ शुक्ल | ४ प्रमोद | ५ प्रजापति | सम्वत्सरनामा |
| ६ अंगिरा | ७ श्रीमुख | ८ भाव | ९ युवा | १० धाता | सम्वत्सरनामा |
| ११ ईश्वर | १२ बहुधान्य | १३ प्रमाथी | १४ विक्रम | १५ वृष | सम्वत्सरनामा |
| ३६ चित्रभानु | १७ शुभानु | १८ तारण | १९ पार्थिव | २० व्यय | सम्वत्सरनामा |
| २१ सर्वजित | २२ सर्वधारी | २३ विरोधी | २४ विकृति | २५ खर | सम्वत्सरनामा |
| २६ नन्दन | २७ विजय | २८ जय | २९ मन्मथ | ३० दुर्मुख | सम्वत्सरनामा |
| ३१ हेलम्बी | ३२ विलम्बी | ३३ विकारी | ३४ शार्वरी | ३५ प्लव | सम्वत्सरनामा |
| ३६ शुभकृत् | ३७ शोभन | ३८ क्रोधी | ३९ विश्वाव. | ४० पराभव | सम्वत्सरनामा |
| ४१ प्लवङ्ग | ४२ कीलक | ४३ सौम्य | ४४ साधार. | ४५ बिरोध. | सम्वत्सरनामा |
| ४६ परिधावी | ४७ प्रमादी | ४८ आनन्द | ४९ राक्षस | ५० अनल | सम्वत्सरनामा |
| ५१ पिङ्गल | ५२ कालयुक्त | ५३ सिद्धा | ५४ रौद्र | ५५ दुर्माति | सम्वत्सरनामा |
| ५६ दुन्दुभि | ५७ रुधिरोद्रा | ५८ रक्ताक्षी | ५९ क्रोधन | ६० क्षय | सम्वत्सरनामा |
| प्रभवादि १२ | प्रमध्यादि १२ | खरादि १२ | शोभना. १२ | राक्षसादि | द्वादशाब्दाः |
| सवत्सर | परिवत्सरः | इदावत्सरः | अनवत्सरः | दुवत्सरः | संज्ञान्तरभ |
अथ फलानि।
किञ्चिल्लाभकरो बालः कुमारस्त्वर्धलाभदः।
सर्वसिद्धिं युवाधत्ते घृद्धे हानिर्मृतेक्षयः॥ ७७॥
यात्रा युद्धे विवादे च नष्टं दंष्टे रुजान्विते।
बालस्वरो भवेदिष्टो विवाहादि शुभाशुभः॥ ७८॥
सर्वेषु शुभ कार्येषु यात्रव्यां तु विशेषतः।
कुमारः कुरुते सिद्धिं सङ्ग्रामे विजयं तथा॥ ७९॥
शुभाशुभेषु कार्येषु मन्त्र यन्त्रादि साधने।
सर्वसिद्धि युवाधत्ते यात्रा युद्धे विशेषतः॥ ८०॥
दाने देवार्चने दीक्षा गूढ मन्त्रप्रकाशने।
बृद्धस्वरो भवेद् भव्यो रणे भङ्गो भपङ्गमे॥ ८१॥
विवाहादि शुभं सर्वं सङ्ग्रामाद्यशुभं तथा।
न कर्त्तव्य नृभिः किञ्चिञ्जाते मृत्यु स्वरोदये॥ ८२॥
तिथि बारञ्चनक्षत्रं यद्दिने च भवेन्मृतम्।
तद्दिने बर्जयेप्सर्वं हानि मृत्युकरो यतः॥ ८३॥
सुगमानि ।७७।७८।७९।८०।८१।८२।८३।
** भा० टी०**—अथ बालादि स्वरों का साधारण फल इस श्लोक से कह कर अग्रिम श्लोकों से विशेष फल को कहेंगे, यथा बाल स्वर में किसी कार्य को करने से स्वल्प लाभ, कुमार स्वरमें अर्द्ध लाभ तथा युवा स्वरमें सम्पूर्ण सिद्धि और वृद्ध स्वरमें हानि तथा मृत्यु स्वर में सम्पूर्ण नाशको प्राप्त होता है॥ ७७॥
यात्रा युद्ध विबाद ( कलह ) किसी वस्तु को नष्ट आदि होने में सर्पादि के काटने में रोगादि अवस्था मे बाल स्वर शुभ होता है ( अर्थात् बाल स्वर में भूला हुआ वस्तु मिल जाता है सर्पांदि के काटने पर शीघ्र आराम हो जाता है तथा बाल स्वर में रोगी शीघ्र निरोग हो जाता है) तथा विवाहादि शुभ कार्य अशुभ होते हैं॥ ७८॥
सभी शुभ कार्यों में तथा यात्रा में विशेष कर कुमार स्वर शुभ होता है एवं युद्ध में विजय कारक होता है॥ ७९॥
सभी शुभाशुभ कार्यों मेंऔर मन्त्र यन्त्रादिकों के सिद्ध करने में युवा स्वर सम्पूर्ण सिद्धिको करता है तथा यात्रा युद्ध में विशेष शुभ होता है॥८०॥
दान तथा देवार्चन में दीक्षा ग्रहण में गोप्य मन्त्रों के प्रकाशन में ( गुप्तमन्त्र, सलाह आदि को किसी कहने में ) वृद्ध स्वर शुभ होता है किन्तु युद्ध मेंनाश तथा यात्रा में भय को करता है॥ ८१॥
मृत्यु स्वर के प्राप्तहोनेपर विवाहादियावत् शुभ कार्य और संग्रामादि अशुभ कार्य ( अर्थात्, किसि प्रकार के भी शुभाशुभ कार्य ) किसी को भी नहीकरना चाहिये॥ ८२॥
जिस दिन तिथि दिन आर नक्षत्र ये सभी मृत्यु स्वर को प्राप्त हों उस दिन किसी भी शुभाशुभ कार्य को नहीं करना चाहिये। क्यों की मृत्युस्वर में किसी कार्य को करने से हानि तथा मृत्यु होती है॥ ८३॥
सर्वस्वरैक्यचक्रम्।
[TABLE]
अथ वर्षगणितप्रकारमाह।
वयोराशिस्वराङ्काश्च एकीकृत्य त्रिधान्यसेत्।
द्विचतुस्त्रिहतं कार्यं सप्ताष्टरसभाजितम्॥ ८४॥
वयोराशिस्वराङ्का ये सन्ति तानेकीकृत्य तद्योगं कृत्वा त्रिधा प्रकारत्रयेणन्यसेत्स्थापयेत्। तद्विचतुस्त्रिहतं तथाक्रमात्सप्ताष्टरसभाजितं कार्यंतदा जन्मकोष्टो भवति। अत्रेदमवधेयम्। यस्यरिष्टनिर्णयः कर्त्तव्योस्ति तस्य जन्मतो वर्तमानवर्षपर्यन्तं याः सङ्ख्यास्त एव वयसश्चाङ्काः। एवं तस्य जन्मराशिर्योस्ति तज्जन्मराशिपर्यन्तंवृषादिगणनया याः सङ्ख्मस्त एवात्र राश्यङ्काः। यथा वृषराशिजन्मवतएकस्तथा मेषराशिजन्मवतो द्वादश एवं जन्मनक्षत्रजनितो नामादिमवर्णो योस्ति तस्य यो वर्णस्वरचक्रेस्वरस्वत्स्वरनिष्ठा ये तिथ्यङ्काः “चन्द्राष्टौप्रथमे” इत्यादयस्त एवात्र स्वराङ्काः। तदुक्तमन्यैः “मेषाद्भादन्यतः स्वर्क्षं तिथ्ययोगः” अनेन वृषाद्राशिगणना तथा स्वराङ्केतिथ्यङ्का एवेति लाभोजातः। तेषां वयोराशि स्वराङ्ङ्कानां योगः कार्यस्तदङ्कवृन्दं त्रिषुस्थानेषु स्थापयेत्। तत्र प्रथमस्थाने तदङ्कवृन्दं द्वाभ्यां गुणितं सप्तभिर्भक्तं यदवशेषमानं तज्जन्मकोष्ठे चोर्ध्वस्थाने स्थापयेत्। एबं द्वितीयस्थाने स्थितंतदङ्कवृदं चतुर्भिगुणितं तथाष्टाभिर्भक्तंयच्छेषमानं त्तज्जन्मकोष्ठे तदधो मध्यस्थाने स्थापयेत्। एवं तृतीयस्थाने स्थितं ददङ्कवृन्दं त्रिगुणितं रसभक्तं यद्वशेषमानं तज्जन्मकोष्ठे सर्वाधः स्थापयेत्। एव जन्मकोष्ठस्य सम्पादनं जातम्॥८४॥
** भा० टी०**—जिस के अरिष्ट निर्णय करना हो उसके वर्तमान अवस्था की संख्या ( जन्म से वर्तमान वर्ष पर्यन्त की संख्या) तथा जन्म राशि पर्यन्त वृषादि गणना8से जो संख्या हो वह और जन्म नक्षत्र जनित नामादि जो वर्ण हो उसका जो वर्ण स्वर में स्वर हो उस स्वर का तिथ्यङ्क ( चन्द्राष्टो प्रथमे देया नग नागा द्वितीय के इत्यादि के क्रम से जो तिथ्यङ्क ) हो एवं इन तीनों ( वय, राशि, स्वरांक) को जोड़ कर तीन स्थान में स्थापित कर क्रम से दो २ चार ४ और तीन ३ से गुणा कर क्रम से सात ७ आठ ८ और ६ छव से भाग देकर शेषांकों को जन्म कोष्ठ में अधोऽधः क्रम से तीन स्थान में स्थापन करे अर्थात् प्रथम शेष को उपर द्वितीय शेष को मध्य में तथा तृतीय शेष को नीचे के स्थान में स्थापित करे ऐसा करने से जन्म कोष्ठ का सम्पादन होता है॥ ८४॥
अथ कर्मादिकोष्ठसाधनमाह।
आधाने नव देयानि स्वरे कर्मणि पञ्च च।
सर्वाङ्कव्यापिता पिण्डे छिद्रे श्रेणीव्यवस्थिता॥ ८५॥
आधाने स्वरे आधानस्वरकोष्ठसाधने नव देयानि किन्तु पूर्वानीताङ्कवृन्दे नव मानानि योज्यानि। एवं कर्मणि कर्म कोष्ठानथने पूर्वोक्ताङ्क वृन्दे पञ्चमानानि क्षेप्याणि एवं पिण्डे पिण्डाख्यकोष्ठसाधने पूर्वोक्ताङ्कव्यापीताकायाऽर्थासर्वाङ्कानां जन्मकर्माधानानां ध्रुवांकाः शून्यपञ्चनवसमा योज्याः। एवं छिद्रे छिद्र कोष्ठकानयने विहिताङ्कवृन्दसङ्ख्या श्रेणीव्यवस्थिता पंक्तिभिः समन्विताऽर्थाज्जन्मकर्माधानपिण्डानां पंक्तिगतैध्रुवकैः शून्यपञ्च नव चतुर्दशरूपैः सहिता विधेया। तदैवं क्रमादाधानदिकोष्ठकानां स्वस्वाङ्कवृन्दं स्यात्। तत्र पूर्ववत्स्वस्वगुणनकेन स्वस्वाङ्कधृन्दं सङ्गुण्य स्वस्व हरेण विभज्य तत्तदवशेषमानं स्वस्वेकाष्ठस्योर्ध्वमध्याधःक्रमेण स्थापयेत्। अत्रायं भावः। कर्मकोष्ठसाधेनेपूर्वोक्ताङ्कवृन्दे पञ्च मेलयित्वा तत्त्रिषु स्थानेषुस्थापेयत्। तत्र प्रथमस्थानगं तदङ्कयोगमानं द्विगुणितं सप्तभाजितं यदवशेषमानं तत्कर्मकोष्ठे चोर्ध्वस्थाने स्थापयेत्। एवं द्वितीयस्थानस्थं तदङ्कयोगमानं चतुर्गुणितं तथाष्टभक्तं यदवशेषमानं तत्कर्मकोष्टे मध्यस्थाने स्थापयेत्। एवं तृतीयस्थानगतं तदङ्कयोगमानं त्रिगुणितं षड्भक्तं यच्छेषमानं तत्कर्मकोष्ठे चाधः स्थाने स्थापयेत्। तदैवं कर्मकोष्ठसाधनं जातम्। अत्राधान कोष्ठसाधनमुच्यते। जन्मकोष्ठानयनार्थं यदङ्कवृदं प्रथमाख्यं तत्र नव दत्वा तदातत्तृतीयाकवृन्दं स्यात्। तत्तृतीयाख्यमङ्कवृन्दं पूर्ववत्त्रिधा स्थापयित्व तथा पूर्ववत्स्वस्वगुणचेन सङ्गुण्य स्वस्वहारेण विभज्य यदवशेषत्रयं तदाधानकोष्ठे पूर्ववत्त्रिधा स्थापयेत्। एवमाधानकोष्ठसाधनं जातम्। अत्र पिण्डकोष्ठसाधनमुच्यते। तत्र प्रथकाङ्कवृन्दे चतुर्दशरूपं क्षेपकं दत्वा तदा तच्चतुर्थाङ्कवृन्दं स्यात्। ततः पूर्ववत्तच्चतुर्थाङ्कवृन्दं त्रिधा संस्थाप्य स्वस्वगुणगुकेन सङ्गुण्य स्वस्वहरेण च विभज्य यदवशेषत्रयं तत् क्रमात्त्रिधा स्थापयेत्। तदैवं पिण्डाख्यकोष्ठसाधनं जातम्। अंत्र छिद्रकोष्ठसाधनमुच्यते। तत्राद्याख्याङ्कवृन्देस्वक्षेपमष्टविंशतिसमं दत्वा तदा पञ्चमाङ्कवृन्दं स्यात्। तदिदं पूर्ववत्त्रिधा विन्यस्य स्ववस्वगुणकेन सङ्गुप्य स्वस्वहरेण निभज्य यदवशेषत्रयं तत्पूर्ववत्रिधा स्थापयेत्। तदैवं छिद्राख्यकोष्ठसाधनं जातम्। परञ्चैबं जातानां पञ्च कोष्ठाना नैसर्गिकचक्रसंज्ञा कृतेति।
तथाचाह विश्वेश्वरः—
“तिथिराशिवयोङ्कोश्च प्रथमे जन्मकोष्ठके।
द्विचतुस्त्रिगुणितं सप्ताष्टरसभाजितम्॥ १॥
कर्मकोष्ठेपञ्च दत्वा आधाने नवकं तथा।
पूर्ववद्गुणनंकार्यं भजनञ्चापि पूर्ववत्॥ २॥
पिण्डे चतुर्दशं दत्वा छिद्रेऽष्टाविंशतिं सुधीः।
द्विचतुस्त्रिभिर्गुणितं सप्ताष्टरसभाजितम्॥ ३॥
अत्रयद्यपि ग्रन्थकारेण चलचक्रस्य तथायोगचक्रस्य च प्रक्रिया न दर्शिता। तथाप्यत्र तच्चक्रद्वयस्य साधनं ज्योतिर्विद। सम्प्रदायसिद्धत्वात्तथा विश्वेश्वराद्युक्तप्रमाणस्वरसाच्चमयोच्यतेतद्यथा। वर्णस्वरचक्रे यो वर्णस्वरः स च जन्मादिकानां पञ्चस्वराणां मध्ये यस्मिन्कोष्ठे भवेत्स च कोष्टको नैसर्गिकचके यो भवेत्तमेवात्र जन्मकोष्टकं ततो द्वितीयकोष्ठकं कर्मकोष्ठकं ततस्तृतीयादिकोष्ठकत्रयञ्चाधानादिकोष्ट—त्रयमिति प्रकल्प्यैवं चलचक्रं साधयेत्। अथास्थिन् चलचक्रे तथा नैसर्गिकचक्रेजन्मादिकोष्टकानां मध्ये द्बयोर्द्वयोः कोष्टकयोः स्वयोः स्वयोरर्थात्साजात्ययोर्योगतुल्यमङ्कवृन्दंप्रकल्प्य ततः स्वस्वध्रुवकान् दत्वा पूर्ववत्स्वस्वगुणकेन सङ्गुण्य स्वस्वहरेण विभज्य यदवशेषत्रयंतत् त्रिधा स्थापयेत्।
एवं स्वस्वकोष्ठकेऽस्यस्थापनाद्योगचक्रं भवेत्।
यथा नैसर्गिकचक्रजजन्मकोष्टकस्य तथाचलचक्रजजन्मकोष्ठस्यचचांकयोगसमे शून्यध्रुवकं दत्वा यथास्थितं तंयोगं त्रिधा संस्थाप्योक्तविधिना द्विचतुस्त्रिगुणितं सप्ताष्टरसभाजितं सत्रिधा शेषमानंयोगचक्रे जन्मकोष्ठके स्थापयेत्। एवमन्यकोष्ठकेपि यथाह विश्वेश्वरः।
एवं नैसर्गिकं ज्ञेयंचलचक्रस्वरान् लिखेत्।
यत्र कोष्ठो स्ववर्णो वै तमेव जम्मसंज्ञकम्॥ १॥
कर्माधानादिकान्सर्वान् विदित्वा विलिखेत्क्रमात्।
नैसर्गिकंचलचक्रं च लिखित्वा सन्नियोजयेत्॥ २॥
जन्मना जन्म संयोज्य कर्मणा कर्मसंज्ञमम्।
आधानादित्रिकेप्येवं योज्याऽत्र ध्रुवकान्क्षिपेत्॥ ३॥
तैरेव गुणकैर्गुण्यं भजनं च तथाबिधम्।
अत्रोदाहरणम्। शकः १७८३ भाधशुक्लपञ्चदशीदण्डादि ४०।११।अश्लेषानक्षत्रं २१।३१ तदुपरि मघानक्षत्रे द्वितीय दिने मघानक्षत्रं २१।४९ शोभनयोगे दण्डानिः ३३।३८। कुम्भार्कगतांशाः ४।९।३०। सूर्योदयादिष्टं ३२।९ एवं विधे पञ्चाङ्गे शुक्रवासरे मम जन्म आसीत्। भयातं १०।३८ भभोगः ६०।१८ अत्र मघानक्षत्रस्याद्यचरणे जन्म तेननामादि मवर्णो मकारः। अस्योपरिगत इकारस्वरो वर्णस्वरचक्रे जातः। अस्य स्वरस्याधः स्थास्तिथ्यङ्कानगनागमिताः (८७) अथ जन्मतो वर्तमानवर्षं यावद्वयोऽङ्काश्चन्द्राब्धिमिताः ( ४१ )। तथा वृषराशेः स्वजन्मराशि सिंहाख्यं यावद्राश्यङ्का वेदमिता (४)। एतेषां योगमानं प्रथमाङ्कबृन्दं ( १३२ ) त्रिषु स्थानेषु विन्यस्य १३२।१३२।१३२ तत्राद्यस्थानेतद्वृन्दं द्विगुणितं जातं वेदाङ्गाश्विमितं ( २६४ ) इदं सप्ततष्टं जातं (५) इदं जन्माख्यकोष्ठस्याधः स्थापयेत्। एवं द्वितीयस्थाने तद्वृन्दं चतुर्गुणितं जातं १३२ × ४= ( ५२८ ) पुनरिदमष्टभक्तं शेषाङ्कमानं शून्य (०) जन्माख्यकोष्ठे मध्य स्थाने स्थापयेत्। एवंतृतीयस्थानस्थितं तद्वृन्दं त्रिगुणितं जातं ३×१३२ = ( ३९६ ) इदं षड्भक्तंशेषाङ्कमानं शुन्यं (०) जन्माख्मकोष्टेऽन्त्येऽर्थात्सर्वाधः स्थापयेत्। एवं जन्माख्यकोष्ठसम्पादनं जातम्।
अथ कर्माख्यकोष्ठसाधनमुच्यते। तत्र “आघानेनव देयानि स्वरे कर्मणि पञ्च च” इति पूर्वविहितप्रथमाङ्कवृन्दे पञ्च दत्वा तद्वितीयाङ्कवृन्दं स्यादितितन्मानं (१३२+५) = ( १३७ ) इदं पूर्ववस्त्रिधा विन्यस्य स्वस्वगुणकेनसङ्गुण्य जातं तत्फलं १३७×४ २।१३७ × ४।१३७×३। वा २७४। ५४८।४११ इदं स्वस्वहरेण विभज्य त्रिधा तच्छेषाङ्कमानमिदं १।४।३। कर्माख्यकोष्ठे चोर्ध्वमध्याषः क्रमेण स्थापयेत्। एवं कर्माख्यकोष्ठसाधनं जातम्।
अथाधानकोष्ठसाधनार्थं प्रथमाङ्कवृन्देनव दत्वा यत्तृतीयाङ्कवृन्दं जातं (१३२+९ ) = ( १४१ ) इदं पूर्ववत्त्रिधा स्थापयित्वा स्वस्वगुणेन सङ्गुण्य जातं त्रिधा फलं १४१ × २।१४१ × ४।१४१४३। वा २८२।५६४।४२३ इदं स्वरेण विभज्य त्रिधा तच्छेषाङ्कमान २।४।३ चाधानकोष्ठे पूर्ववदूर्ध्वमध्याधः क्रमात्स्थापयेत्। इत्याधानकोष्ठानयनं जातम्।
अथ पिण्डकोष्ठानयनं कथ्यते। तत्र जन्मादिकोष्ठत्रयस्य शून्यपञ्चनवरूपार्णा स्वस्वध्रुवकानां योगेन चतुर्दशमितेन (१४) समं पिण्डकोष्ठजं ध्रुवाङ्कमाने प्रथमाङ्कवृन्दे संयोज्य तच्चतुर्थाङ्कवृन्दं जातं ( १३२+१४ ) = ( १४६ ) इदं पूर्ववस्त्रिधा फलं १४६ x २।१४६ x ४।१४६ ३ वा २९२।५८४।४३८ इदं स्वस्वहरेण विभज्य त्रिधा तच्छेषाङ्कमानं ५।०।० पिण्डाख्यकोष्ठके चोर्ध्वमध्याघः क्रमात्स्थापयेत्। इत्येवं पिण्डाकोष्टकानयनं जातम्।
अत्र छिद्रकोष्ठकानयनमुच्यते। तत्र कोष्ठकचतुष्कोद्भवानं स्वस्वध्रुवकानामेतेषा ०।५।९।१४। योगेनाष्टाविंशतिमितेन तुल्यं छिद्र कोष्डकजं ध्रुवाङ्कमान प्रथमाङ्कवृन्दे दत्वा जातं पञ्चमाङ्कवृन्दं [ १३२+२८ ] = ( १६० ) इदं त्रिधा विन्यस्य स्वस्वगुणकेन सङ्गुण्य जातं त्रिधा फलं १६०x२।१६० x ४।१६० x ३ वा ३२०।६४०।४८० इदं स्व स्वहरेण विभज्य त्रिधा तच्छेषाङ्कमानं ५।०।० इदं छिद्राख्यकोष्ठे पूर्ववत् त्रिधास्थापयेत्। इति छिद्राख्यकोष्ठकं जातम् एवं साधितानां कोष्ठकानां स्थापनवशाज्जात नैसर्गिकचक्रमिति रूपं।
नैसर्गिकचक्रम्।
[TABLE]
(२) अथ चलचक्रोदा हरणमुच्यते। तत्र वर्णस्वरचक्रे [इ] स्वराधःस्यं कर्म कोष्ठाख्यं तेनात्र नैसर्गिकचक्रजं कर्मकोष्ठा ख्यं यत्तदेवजन्मकोष्ठाभिधं चलचक्रे लेख्यम्। ततश्चाधानाभिधं कर्मर्सशकम्। एवं तृतीय पिण्डकोष्ठाखयमाधानसंज्ञकम्। ततश्चतुर्थं छिद्रकोष्टाख्यं पिण्डसंज्ञकम्। ततः पञ्चमं जन्मकोष्ठाख्यं छिद्राभिधम्। एवं कृते जातं चलचक्रस्वरूपमिदम्।
[TABLE]
अथ योगचक्रोदाहरणमुच्यते। तत्र साधितचक्रद्वये जन्मकोष्ठकद्वयस्यास्य
५।१
०।४
०।३
योगमाने ६। ४। ३ शून्यध्रुवं दत्वा यथास्थितं तत्तैरेव गुणकैर्द्विचतुस्त्रिभिर्गुणितं जातं १२।१६।९ इदं क्रमात्सप्ताष्टरसैहरेर्भक्तं जातं शेषत्रयं ५।०।३ जन्मकोष्ठे चोर्ध्वमध्याधः क्रमात्स्थापयेत्।
एवं नैसर्गिकचक्रे कर्मकोष्ठाङ्काः १।४।३। तथा चलचक्रे कर्मकोष्ठाङ्काः २।४।३। एषां योगेऽस्मिन् ३।८।६ पञ्चप्रमितं स्वध्रुवांकमानं दत्वा जातं ८।१३।११ इदं स्वस्वगुणकेन सङ्गुण्य जातम्।१६।५२।३३ स्वस्वहरेण तष्टं २।४।३इदं कर्मकोष्ठे चोर्ध्वमध्याधः क्रमेण स्थापयेत्।
अथ नैसर्गिकचक्रजातमाधानकोष्ठाङ्कमान २।४।३ तथा चलचक्रजमाधानकोष्ठाङ्कमानं ५।०।० अस्याङ्कमानद्वयस्य योगेऽस्मित् ७।४।३ नव प्रमितं स्वध्रुवांकमानं दत्वा जातं १६।१३।१२ इदं स्वस्वगुणकेन सङ्गुण्य जातं ३२।५२।३६ स्वस्वहरेण विभज्य शेषत्रयं ४।४।० चाधानकोष्ठे पूर्ववदूर्ध्वमध्याधः क्रमात्स्थापयेत्।
एवं नैसर्गिकचक्रजातं पिडकोष्ठकमानं ५।०।० तथा चलचक्रजं तदङ्कमानं ५।०।० अनयीर्योगेऽस्मिन् १०।०।० चतुर्दशसमं स्वक्षेपकं क्षेप्यं जातं २४।१४।१४। इदं स्वस्वगुणकेनगुणितं जातं ४८।५६।४२ इदं स्वस्वहरणविभज्य शेषत्रयं ६।०।० इदं पिण्डकोष्टे पूर्ववत्स्थापयेत्। अथ नैसर्गिकचक्रजं छिद्रकोष्ठाङ्कं मानं ५।०।० तथा चलचक्रजं तदङ्कमानं ५।०।० अनयोर्योगेऽस्मिन् १०।०।० स्वक्षेपकमष्टाविंशतिमितं दत्वा जातं ३८।२८।२८ इदं स्वस्वगुणकेन सङ्गुण जातं ७६।११२।८४ इदं स्वस्वहरेण विभज्न शेषत्रयं ६।०।० छिद्रकोष्ट पूर्ववत्स्थावयेत्। एवं कृतेजातं योगचक्रस्वरूपमिदम्।
[TABLE]
अथ नैसर्गिकचक्रसाधने मतान्तरं प्रतिपाद्यते। वयोराश्यस्तथा स्वजन्मराशिस्वराङ्काश्चैकीकृत्य तत्त्रिधा विन्यस्य क्रमेण द्विचतुस्त्रिभिः सड्गुण्य सप्ताष्टरसैविभज्य शेषत्रयं जन्म कोष्ठे चोर्ध्वाधः क्रमेण स्थापयेत्। ततो जन्मस्वराद्द्वितीये कर्माख्यकोष्ठे ये स्वतिथ्यङ्कास्तथापूर्वोक्तवयोराश्यङ्कास्त्रैकीकृत्यत्रिधा संस्थाप्य स्वस्वगुणकेन सङ्गुण्य जाते त्रिधा गुणनफले प्रत्येकंपञ्च दत्वा ततस्तत्स्वस्वहरेण विभज्य शेषत्रयं पूर्ववत्कर्मकोष्ठे स्थापयेत्। एवं पूर्वोक्तवयोराश्यङ्कास्तथा स्ववर्णस्वरात्तृतीयकोष्ठे चाधानाख्ये ये तिथ्यङ्कास्तानेकीकृत्य त्रिधा विन्यस्यस्वस्वगुणकेन सङ्गुण्य त्रिषु स्थानेषु स्थितेषु गुणनफलेषु प्रत्येकं नव दत्वा ततस्तत्स्वस्वहरेण विभज्य शेषत्रयमाधानकोष्ठे पूर्ववन्यसेत्। एवं पूर्वोक्तवयोराश्यङ्कास्तथा वर्णस्वराच्चतुर्थे पिण्डाख्यकोष्ठे स्वतिथ्यङ्कश्चैकीकृत्य त्रिधा विन्यस्यस्वस्वगुणकेन सङ्गुण्य स्थानत्रये गुणनफले प्रत्येकं चतुर्दशसमं स्वक्षे पकं दत्वा ततस्तत्स्वत्स्वस्वहरेण विभज्य शेषत्रयं पिण्डकोष्ठेके पूर्ववत्स्थापयेत्। एवं ततः पञ्चम छिद्रसंज्ञके तिथ्यङ्कास्तथा पूर्वोक्ता वयोश्यङ्काश्चैकीकृत्य त्रिधा न्यस्तं कृत्वा स्वस्व गुणकेन सद्गुण्य त्रिषुस्थानेषु गुणनफलेषु प्रत्येकं स्वध्रुवाङ्कमानमष्टाविंशतिसमं दत्वा स्वस्वहरेण विभज्य शेपत्रयं त्रिधा पूर्ववच्छिद्रकोष्ठके स्थापयेत्।
पुनर्मतान्तरं प्रदर्श्यते। तद्यथा। तत्र जन्मकोष्ठादित्रयस्य साधनमधुना प्रदर्शितविधिवद्बोध्यम्। अथ पिण्डकोष्ठे तिथ्यङ्कास्तथावयोराश्यङ्काश्चैकीकृत्य त्रिधा विन्यस्य स्वस्वगुणकेन सङ्गुण्य स्वस्वहरेण विभज्य शेषत्रये क्रमाच्छून्यं तथा पञ्चमितं नवमितं च दत्वा पुनः स्वस्बहरेण विभज्य शेषत्रयं पूर्ववत्पिण्डेकोष्ठेस्थापयेत्। अथवा प्रथमशेषे साधितानां जन्मको ष्ठाधः स्थानां शेषानां योगसमं तथा द्वितीयशेषे कर्मकोष्ठाधः स्थस्य शेषत्रयस्य योगसमं तथा तृतीयशेषे चाधान कोष्ठाधः स्थस्य शेषत्रयस्य पिण्डकोष्ठे पूर्ववत्स्थापयेत्। अथछिद्रकोष्ठ साधने तु पूर्वोकवयोराश्यङ्कस्तथा तत्तिथ्यङ्काञ्चैंकीकृत्यत्रिधा विन्यस्य स्वस्वगुणकेन गुणयित्वा स्वस्वहरेण विभज्य त्रयाणांशेषाणां मध्ये क्रमात्पञ्चमितं तथा नवमितं चतुर्दशमितं च दत्वा पुनःस्वस्वहरेण विभज्य शेषत्रयं पूर्ववत्त्रिधा पिण्डकोष्टके स्थापयेत्। अथवा प्रथमशेषे जन्मादिकोष्ठचतुष्टस्योर्ध्वाङ्कयोगमितं तथा द्वितीयशेषे तन्मध्याङ्कयोगामितं तथान्त्यशेषे तदन्तिमाङ्कयोगभितं दत्वा पुनः स्वस्वहरेण विभज्य शेषत्रयं छिद्रकोष्ठे पूर्वरीत्यास्थापयेत्। एवमप्ययदीक्षितप्रशृतिभिस्तटटीकाकारैर्यन्नैंसर्गिकचक्र—साधनप्रक्रिया प्रदर्शिता। तस्या मूलकारसूत्रार्थबर्हिर्भूतत्वात्तथा विश्वेश्वरादिप्रणी—तवचनप्रमाणानुकूलार्थंबाह्यगत्वात्साप्रक्रिया नादरणीयेति किन्तु प्रथमं यदुदाहरणं मया प्रर्शितं तदेव बहुसम्भतं ममापि मतं स्यादिति सुधीभिर्विभाव्यम्।
अथ जन्मादिकोष्ठकानां प्रयोजनमुच्यते। जन्मकोष्ठे त्वात्मनः शुभाशुभाज्ञानम्। कर्मकोष्ठे कर्मणः सिद्ध्यसिद्धिज्ञानम्। आधानाभिधे कोष्टे पुत्रादेः शुभाशुभं चित्तभ्रान्तिः। पिण्डकोष्ठेपिण्डसम्बन्धिवन्धुषुवि—रोधादिज्ञानम्। छिद्रकोष्ठे द्रव्यश्रुत्यबाहनादौ शुभाशुभमिति। अथ तत्प्रकारः प्रदर्श्यते। पूर्वरीत्या त्रयाणां वर्षेशानां मध्ये प्रथमाब्दपस्य शनेः स्थूलं फलं प्रथममासचतुष्टयं यावत्कथनीथमिति। तत्रापि यदि जन्मकाले स्वोच्चादिस्थानजातेन बलेन सहितः शनिर्पुनः सद्मावगतस्तर्हि तत्फलं श्रेष्ठं जबना वनीशल्लाभस्तथा वृद्धाङ्गनासुखं च। एवं जन्मकाले यदि नीचादिस्थानोपलक्षिता निर्बलस्तथाऽनिष्टभावगतः शनिस्तदातत्फलमधमंम्लेक्षाद्धानिस्तथा वृद्धाङ्गनादेर्भयः स्वदेहे वायुप्रकोपः। एवं सर्वेषामव्देशानां फलं बोध्यमिति। तथा पुनरुदितादिस्वराणां द्विसप्ततिदिनात्मकस्य स्वस्ववर्षविभागस्य पूर्वकथितस्यापिभागत्रयं चतुर्विंशतिदिनात्मकं विधेयम्। तत्रापि फलं विचारणीयम्। तद्यथा। नैसगिकचक्रे जन्मकोष्ठस्थोर्ध्वस्थाने प्रथमपक्षाख्ये पञ्चसङ्ख्योपलक्षितो गुरुस्तथा चलचक्रे तत्कोष्ठस्योर्ध्वस्थाने रूपसङ्ख्योपलक्षितो रविः। तेनात्र गुरोरन्तरं रविफलं स्यात्पूर्वोक्तदशान्तर्दशानुकूलरूपम्। तथा शनेः शुभाशुभफलं निश्चितमिति प्रथमविभागे चतुर्विंशतिदिनात्मके लेखनीयमिति। अथाग्रे द्वितीयविभागे चतुर्विंशतिदिनात्मके तु नैसर्गिकचक्रे जन्मकोष्ठस्य मध्यस्थाने शून्योपलक्षितो राहुस्तथा चलचक्रे वेदसङ्ख्यापलक्षितो वुधस्तेनात्र तयोः फलं कथितविधिना लेख्यम्। तदग्रे तृतीयविभागे चतुर्विंशतिदिनात्मके तु नैसर्गिकचक्रे जन्मकोष्ठाधःस्थाने राहुस्तथा चलचक्रे कुजस्तेनात्र तयोरप्युक्तफलमुक्तप्रकारेण लेख्यम्। एवं द्वितीयमासादिषु द्विसप्ततिदिनमितेषु फलं लेखनीयमिति॥ ८५॥
** भा० टी०**—पूर्व श्लोक से जन्म कोष्ठ का साधन कर इससे कर्म, आधान, पिण्ड और छिद्र स्वर के कोष्ठ को साधन बताते हैं किआधान कोष्ठके साधन में पूर्वोक्त अंक योग में ९ योग करना चाहिये तथा कर्म कोष्ठ के साधन में पूर्वोक्त अंक योग में ५ तथा पिण्ड कोष्ठ साधन में सर्वांक व्यापित अर्थात् जन्म कर्म और आधान का ध्रुवांकयोग १४ ( अर्थात् जन्म का० कर्म का ५ आधान का ९ योग १४ ) जोडना चाहिये। एवं छिद्र कोष्ठ के साधन में श्रेणीव्यवस्थित अंक अर्थात् जन्म कर्म आधान और पिण्ड का ध्रुवांकयोग ०+५+९+१४ = २८ योग करना चाहिये। एवं पूर्वोक्त अंक योग में कर्म आधान पिण्ड और छिद्र कोष्ठ के साधन के लिये क्रमशः ५।९॥१४।२८ का योग कर पूर्वोक्त रीति से अंक साधन करे। अर्थात् कर्म साधन में पूर्वोक अंक योग में ५ जोड़ कर तीन स्थानमेंस्थापित कर क्रम से २ दो, ४ चार और ३ तीन से गुणित कर क्रमशःसात ७ आठ ८ और ६ छव से भाग देकर शेषाङ्को को क्रमशः अधोऽधः कर्म कोष्ठ मेंलिखे। एवं आधान कोष्ठ साधन में पूर्वोक्त अंक योग में ९ जोड़ कर तीन स्थान में स्थापित कर क्रमशः २।४।३ से गुणित कर ७।८।६ से भाग देकर शेषाङ्कों को क्रमशः अधोऽधः आधान कोष्ठ में लिखे। ऐसे ही १४ युक्त पूर्वोक अङ्क योग से पिंड के, तथा २८ युक्त पूर्वोक्त अङ्क योग से छिद्र संज्ञक कोष्ठ की पूर्ति करे। इस प्रकार सभी कोष्ठों का साधन हुआ॥ ८५॥*
——————————————————————————————————————————
* इस प्रकार साधन किये गये को नैसर्गिक चक्रकल्पना किया गया है। अथ यद्यपि यहां ग्रन्थकार ने चल चक्र और योग चक्र के प्रक्रिया को नही लिखा है तथापि ज्योतिर्बिदों के संप्रदाय से सिद्ध होने के कारण मैं भी संक्षेप से किञ्चित् दिग दर्शन कराता हूं—अथ प्रथम चल चक्र का साधन प्रकार लिखता हूं वर्णस्वर चक्र में जो स्वर वर्ण स्वर हो वह जन्मादि पञ्च स्वर में जिस कोष्ठ में हो वह कोष्ठ नैसर्गिक चक्र में जिसे कोष्ठ में दो उसी को जन्म स्वर मान कर उससे द्वितीय को कर्म कोष्ठ तृतीय को आधान कोष्ठ चतुर्थ को पिण्ड और पञ्चम को छिद्र कोष्ठ कल्पना कर चल चक्र साधन करें। अथ योग चक्र साधन प्रकार— पूर्वोक्त रीति से नैसर्गिक चक्र तथा चल चक्र लिख कर नैसर्गिक चक्र स्थित जन्मादि कोष्ठ के साधित अङ्कों को चक्र चक्र स्थित जम्मादि कोष्ठ के अङ्को में यथा क्रम से योग करे अर्थात् प्रथम शेषाङ्क को प्रथम में द्वितीय को द्वितीय में तृतीय को तृतीय में योग करके स्वस्वध्रुवाङ्क जोड़ कर उन्ही गुणनाङ्को से गुणा कर वैसे ही यथा क्रम से७।८।६ से भाग देकर जो शेष हो उनको नैसर्गिक चक्र के ही रीति से अधोऽधः स्थापित करे। एवं योग चक्र होता है।
अथतिश्र्याद्यानयनमाह—
गणयित्वा निर्णयं वर्षे वर्षप्रभाग कल्पना।
पञ्चभिश्च हृते शेषे नन्दाद्या मृत्यु कारणम्॥ ८६॥
** सं० टी०**—पञ्चस्वरचक्रं विधाय तत्र वक्ष्यमाणयोगैर्मृत्युं निश्चित्य तत्कालजनितं तिथ्याद्यानयनं प्रदर्शयति। वर्षे निर्णयंमरण निश्चयं गणयित्वा ज्ञात्वा तदा वर्षप्रभागकल्पना कार्या किन्तु कस्मिन् विभागेऽर्थात्कस्मिनुदितादिस्वरजानां द्विसप्ततिदिनात्मकमासानामन्तरे मृत्युर्भविष्यतीति विचारणीयम्। तद्यथा। पूर्वोक्तवयोराशिस्वराङ्कानां योगसमे प्रथमाङ्कवृन्दे पञ्चभक्ते सत्येकादिशेषवशाद्विहितोदितादिस्वरादधःस्थे द्विसप्ततिदिनात्मके मासे मृत्युः कथनीयः। अत्रेदमवधेयम्। एकशेषे पूर्वविहितोदितस्वरस्य वर्षभागे। चेद्द्वौशेषौ तदा भ्रमितस्वरस्य वर्षभागे। त्रिशेषे भ्रान्तस्वरस्य वर्ष विभागे चतुर्मिते शेषे सन्ध्यास्वरवर्षभागे पञ्चमिते शेषेऽस्तस्वरवर्षभागे द्विसप्ततिदिनात्मके मरणं वदेत्। एवं पञ्चस्वराणां मध्ये यस्मिन् जन्मादिकोष्ठे मरणमायाति तत्रापि द्विसप्ततिदिनानां मध्ये कस्मिन् त्रिभागे चतुर्विंशतिदिनात्मके मरणं भवेदितिज्ञानमुच्यते। यस्मिन् जन्मादिकोष्ठे मरणनिर्णयं प्राप्तं तत्रोर्ध्वमध्याधःस्थेस्थानत्रये यस्मिन् शून्यं स्यात्ताद्विभागे मरणं भवेत्। अयं भावः। उर्ध्वस्थाने शून्ये तदा प्रथमत्रिभागे चतुर्विंशतिदिने। यदि मध्यस्थानेऽङ्काभावस्तदा चतुर्विंशतिदिनात्परभष्टचत्वारिंशदिनावधि। एवं यदि सर्वाधः स्थाने शून्यं तदा तृतीयभागेऽर्थादष्टचत्वारिंशद्दिनात्परं द्विसप्ततिदिनं यावन्मरणं भवेत्। अत्रैवं यदि चोर्ध्वमध्याधः स्थानत्रये सर्वस्मिन् शून्यानि वा स्थानद्वये च शून्यं तदा कस्मिन् त्रिभागे मरणं भवेदिति प्रतिपाद्यते। तदा पूर्वं वर्षेशत्रयमध्ये यो बली तस्य शून्यं किन्तु शून्यकोष्ठस्थचतुर्विंशतिदिनाभ्यन्तरे मरणं भवेत्परमेवं तदैव यदि त्रयो वर्षेशाः पापाः स्युः। अथ यदि तेषु वर्षेशेषु शुभग्रहेषु तदा जन्मकाले केद्रत्रिकोणादतिरिक्तस्थानषु स्थित सौम्यग्रहजनितोर्ध्वमध्याधःस्थचतुर्विंशतिदिनाभ्यन्तरे मृत्युर्वाच्यः। अथवा वर्षेशसम्बन्धाभावानामपि पापानां कोष्ठभागे चतुर्विंशतिदिनाभ्यन्तरे मृत्युः। तत्र यदि स्थानत्रये सौम्या एव तदा जन्मकाले केन्द्रत्रिकोणेतरगतसौम्यभागे मरणम्। अथ चतुर्विंशतिदिममध्येऽपि कस्मिन् दिने निधनं स्यादिति परामर्शे अप्ययदीक्षितनामा गणको वदति। तद्यथा। तत्र स्वरोदयोक्तसर्वतोभद्रचक्राक्तपञ्चविद्धं यत्र दृश्यते तत्र दिने मृत्युर्वाच्यः। अथ नन्दादिज्ञानमुच्यते पूर्वोक्ते प्रथमाङ्कवृन्दे पञ्चभिर्भक्ते रूपशेषे नन्दीयाम्। द्विशेषे भद्रायाम्। त्रिशेषे जयायाम्। चतुः शेषे रिक्तायाम्। पञ्चशेषे पूर्णायाम्। इति मरणं विभाव्यम्। अथैवं नन्दादितिथिज्ञाने सति षट्सु नन्दासु कस्यां नन्दायां मरणं भविष्यतीतिज्ञानं प्रदश्यते। तद्यथा। पूर्वोके प्रथमांकवृन्दे षड्भक्ते रूपशेषे प्रथमनन्दायामर्थाच्छुक्लप्रतिपदि। द्विशेषे द्वितीयनन्दायां शुक्लषष्ट्याम्। त्रिशेषे तृतीयनन्दयां शुक्लैकादश्याम्। चतुःशेषे चतुर्थनन्दायां कृष्णप्रतिपदि। पञ्चशेषे पञ्चनन्दायां कृष्णषष्ठ्यां। षट्शेषे षष्ठनन्दायां कृष्णैकादश्याम्। एवं प्रथमांकवृन्दात्पञ्चभक्ताद्विशेषेन ज्ञातायां भद्रायां सत्यां षट्सुभद्रासु कस्यां भद्रायामितिज्ञानं प्रथमांकवृन्दात्षड्भक्तादेकादिशेषवशेषैक्तविधिना भवेत्। एवं सर्वत्र बोध्यम्। अथ तिथिज्ञाने मतान्तरं प्रतिपाद्यते। पूर्वोक्तांकवृन्दे पञ्चभक्ते रूपादिशेषवशाद्यस्मिन् जन्मादिस्वरे मरणमायाति तत्स्वराधःस्था या नन्दादिका तिथिर्वर्णस्वरचक्रे भवति तस्यां मरणं वदेदेवंनक्षत्रादिकनिर्णयमपि भवेदिति कैश्चिदुदितम्॥ ८६॥
** भा० टी०**—एवं पूर्वोक रीति से पञ्चस्वर चक्र की रचना करके आगे कथित “रवि मन्दकुञ्जे वर्षे” इत्यादि षोडश योगों से मृत्यु का निश्चय करके वर्ष प्रभाग की कल्पनाकरे यर्थात् किस द्विसप्तिति ७२ दिनात्मक मास में मृत्यु होगी। इसका ज्ञान प्रकार पूर्वोक्त जो “क्यो, राशि, स्वराङ्क,” का योग है उसमें ५ पांच से भाग देने से यदि १ एक शेष हो तो उदितस्वर के वर्ष भाग में २ दो शेष रहे तो भ्रमित स्वर के वर्ष भागमें एवं ३ तीन रहे भ्रान्त स्वर के वर्ष भाग में तथा ४ शेष रहे तो सन्ध्या स्वर के और ५ पांच शेष रहे तो अस्त स्वर के विभाग में मरण कहना चाहिये इस ७२ द्विसप्तति दिनात्मक मास का तीन विभाग करना चाहिये, जिस कोष्ठ में मरण प्राप्त हो उस कोष्ठ के उर्ध्व स्थान में शून्य हो प्रथम विभाग में मध्य में शून्य हो तो द्वितीय स्थान में तथा यदि नीचे के स्थान में शून्य हो तृतीय भाग में मृत्यु होती है। यदि तीनों स्थान में अथवा दो स्थान में शून्य हो तो वर्षेशों के बलाबल के अनुसार प्रथम द्वितीय अथवा तृतीय भाग में मृत्यु कहना चाहिये। अथ उत्तरार्ध से नन्दादि तिथियों का ज्ञान कहते हैं। पूर्वोक्त योगांक में५ के भाग देने से यदि १ शेष बचे तो नन्दा तिथि में २ शेष बचे तो भद्रा तिथि में एवं तीन शेष से जया तिथि में ४ शेष से रिक्ता तिथि में ५ शेष से पूर्ण तिथि में मरण कहना चाहिये॥ ८६॥
अथ तिथ्यादि ज्ञानमाह—
षड्भि र्भक्त्वा तिथिर्ग्राह्या वारो ग्राह्यश्च सप्तभिः।
पक्षेन्दुशेषिते लग्नं घटीभिश्च घटीं वदेत्॥ ८७॥
अथ प्रथमाङ्कवृन्दं षड्भिर्भुक्त्वा शेषमिता तिथिर्ग्राह्या तथा तदंकवृन्दं सप्तभिर्भक्त्वा शेषमितो बारो ख्यादिवाशे ग्राह्यः। तदंकवृन्दे पक्षेन्दुशेषिते द्वादशशेषिते सति लग्नं वदेत्। तदंकवृन्दे घटीभिर्लग्नप्रमाणदण्डैर्भक्ते सति शेषांच्च घटीमर्थाच्छेषतुल्ये लग्नदण्डे मृत्युं वदेत्। अयं भावः। तत्र तिथ्यानयनं पूर्वश्लोकार्थव्याख्यानावसरे स्फुटं वर्णितमेव। तदंकवृन्दे सप्तभक्ते रूपशेषे रविवासरः। द्विशेषे चन्द्रवासरः। त्रिशेषेकुजः—वेदशेषे बुधः। पञ्चशेषे गुरुः। रसावशेषेशुक्रः। सप्तशेषे शनिः। पक्षान्तरे “वारो ग्राह्यस्तुपञ्चभिरित्यन्ये” तर्त्रैकशेषे रविभौमौ द्वौ चेत्तदा चन्द्रबुधो त्रयञ्चेद्गुरुश्चत्घारश्चत्तदा शुक्रः। पञ्चमितावशेषे शनिरिति र्बोध्यम्। अथ लग्नानयनमुच्यते। तदङ्कबृन्दे द्वादशभिर्भक्ते सति रूपशेषे मेषलग्नं तथा द्वादशावमेषेमीनलग्नमेवान्यदपि बोध्यम्। तदङ्कवृन्दे लग्नप्रमाणदण्डैर्भक्त शेषमिते तल्लग्नदण्डे मृत्युः स्यात्। अत्र वारादौ नियमो नास्ति किन्तु तिथिपर्यन्तमेव मृत्युकारणं वदेदिति ज्योतिर्विदां सम्प्रदायः॥ ८७॥
** भा० टी०**—पूर्व श्लोक से नन्दादि तिथियों का ज्ञान हुआ परञ्च किस नन्दा तिथि या किस भद्राद्रि तिथि को मरण होगा इससे इसका ज्ञान बताते हैं। पूर्वोक्त जो प्रथमांक योग ( वयो राशि स्वरांक योग ) में ६ से भांग दे यदि १ शेष हो प्रथम नन्दा ( अर्थात् शुक्ल पक्ष के प्रतिपद ) को एवं प्रथम भद्रादि तिथियों ( शुक्लपक्ष के २, ३, ४, ५ तिथियों ) को मरण होगा एवं दो शेष हो तो द्वितीय नंन्दादि तिथियों ( शुक्लपक्ष के ६।७।८।९।१० ) को मरण होगा। अर्थात् प्रथम श्लोक से नन्दा तिथि का ज्ञान हुआ पुनः पूर्वोक्त योग में ६ से भाग दिया तो यदि १ शेष रहा तो प्रथम नन्दा अर्थात् शुक्ल पक्ष के प्रतिपद को २ शेष से द्वितीय नन्दा अर्थात् शुक्लपक्ष के ६ षष्टी को ३ शेष से शुक्ल पक्ष के ११ एकादशी को चार शेष से कृष्ण पक्ष के प्रतिपद को, ५ शेष से कृष्ण पक्षकी षष्टी, ६ शेष हो तो कृष्ण पक्ष के ११ एकादशी को मरण कहना चाहिये एवं भद्रादि तिथियों का भी पृथक् पृथक निश्चय करना चाहिये।
अथ वारानयन—पूर्वोक्त प्रथमांक योग में ७ से भाग दे यदि १ शेषरहे रविवार २ शेष से चन्द्रवार ३ शेष से मंगलवार एवं ४।५।६।७ शेष से क्रमशः बुध गुरु शुक्र शनिवार जानना चाहिये। परञ्च दैवज्ञगण प्रायः तिथि ज्ञान ही पर्यन्त आदेश करते हैं वार ज्ञान को नहीं आदेश हैं।
लग्नानयन ज्ञानमाह—एवं पूर्वोक योग में १२ का भाग दे यदि १ शेष बचे तो मेष तथा दो शेष से वृष एवं ३ तीन आदि शेष से मिथुनादि लग्न जानना चाहिये।
तथा घटीभिश्च घटींवदेत् अर्थात् जब लग्न का ज्ञान हो गया तो पूर्वोक्त योगांक में लग्न प्रमाण दण्ड से भाग देकर शेष परिमित तुल्य उस लग्न में भी दण्ड गत जानना चाहिये।
अथ पूर्वोक्तयोगाङ्के क्षेत्रमाह—
एकं देयं तु हेयं वा वर्षे या इति सङ्ग्रहे।
न देयं वा न हेयं वा मध्ये चेच्छुक्ल कृष्णयोः॥ ८८॥
यदा जन्मकाले चन्द्रः पूर्णबलस्तदा साधिते तदङ्कवृन्दे चैकं योज्यम्। यदा जन्मसमये चन्द्रः क्षीणबलस्तदा तदङ्कवृन्दे चैकं हेयं शोध्यम्। एवं शुक्लकृष्णयोर्म्मध्ये यदा जन्म किन्तुसमवले चन्द्रे यदा जन्म तदा न योज्यं नशोध्यं किन्तु यथास्थितमेव। अत्र शुक्लदशमीमारभ्य कृष्णपञ्चमीं यावत्पूर्णबलश्चन्द्रः। एवंकृष्णषष्ठीमारभ्य दर्शान्तं यावत्क्षीणचन्द्रः। शुक्लप्रतिपदारभ्य दशमी यावन्मध्यमश्चन्द्रः। अत्र तिथिसङ्ग्रह इतिपाठान्तरे केचिदेवं वर्णयन्ति जन्मकाले वर्षाधिपश्चन्द्रः पूर्णबलो वर्षेचैकं देयम्। यदि जन्मकाले वर्षेशसम्बन्धाभावश्चन्द्रः पूर्णबलस्तदा तिथावेकं देयम्। अन्यत्पूर्वदिति॥ ८८॥
** भा० टी०**—यदि जन्म काल में चन्द्रमा पूर्ण बलवान् हो तो पूर्वोक्त साधित योगांक में ( वयोराशि स्वरांक योग में ) १ एक योग करे। यदि क्षीण बल हो तो योगांक में १ घटाना चाहिये एवं शुक्ल कृष्ण के मध्य अर्थात् चन्द्रमा सम वल युक्त9 हो तो न जोडना चाहिये और न घटाना चाहिये।
अथ निधनस्य योगचक्रजानूषोडशयोगानाह—
रबिमन्दकुजे वर्षे राहौ वा द्वित्रि संस्थिते।
सप्त शून्यानि चेत्तत्र मृत्युर्भवति नान्यथा॥ ८९॥
पूर्वविहिते पताकीचक्रत्रये चेद्यदि रविमन्दभौमा वर्षेशाः स्युर्वा राहौ द्वित्रिसंस्थिते वर्षेशद्वये वा वर्षेशत्रये प्राप्ते सति पुनर्यदि योगजचक्रे सप्त शून्यानि भवन्ति तत्र वर्षे तदाऽवश्यं मृत्युर्भवति। अन्यथा कथितयोगाभावस्तदा न मृत्युः॥ ८९॥
तथा च खना वाक्यम् —
सातशून्यबहुतरपापा ताहां जीवन नहि रे बापा।
हँसे खेलैनाकरे भिन्ना अवश्य हँसा करे पयाना॥ १॥
रे वाषा अहो तात यत्र सातशून्यशून्यसप्तकं पुनर्यदि बहुतरपापा त्रयेपि वर्षेशाः पापाः स्युः। तहां तत्र जीवन प्राणो नहि नतिष्ठति। तत्र हंसा जीवो इस हास्यं खेलैखेलनं नाकरे न करोति किञ्चावश्यं भिन्नास्वर्गाय पयाना प्रयाणं करे करोति॥ १॥
** भा० टी०**—यदि पूर्व कथित तीनों पताकीचक्रों (केतुपताकी, केतु—कुण्डली और गुरु कुण्डली चक्र ) में सूर्य, मंगल और शनि वर्षेश हों अथवा दो या तीन प्रकार से राहु वर्षेश हो और जन्मादि कोष्ठ साधन चक्र में यदि सात शून्य हो तो अवश्य मृत्यु होती है। अन्यथा यदि कथित योग का अभाव हो तो मृत्यु नहीं होती है किन्तु अरिष्ट मात्र होता है॥ ८९॥
** भा० टी०—**जहाँ ( जिस वर्ष ) सात शून्य हो तथा तीनों वर्षेश पाप ग्रह हों बाप रे बाप ? वहाँ ( उस वर्ष ) प्राण नहीं रहता है। वहां प्राण (जीव ) हँसता खेलता नहीं है किन्तु यात्रा ( कूच ) कर जाता है॥ १॥
अथवा पाप संयुक्त दश शून्यानि सन्ति चेत्।
तदा मृत्युं व्रजेदेव देवराज समोपि वा॥ ६०॥
** सं० टी०**—अथ वा प्रकारान्तरेणपापसंयुक्ते किन्तु वर्षेशत्रये पापे सति पुनर्यदि योगचक्रे राहुरूपाणि दश शून्यानि भवेयुस्तदा देवराजसमोपि शक्रतुल्योपि नरो मृत्युं ब्रजेत्प्राप्तोनोति वा निश्चयार्थे॥ ९०॥
** भा० टी०—**अथवा वर्षेश तीनों पाप ग्रह हों तथा जन्मादि कोष्ठ साधन चक्रों में १० शून्य हो तो इस योग में इन्द्र तुल्य पराक्रमी व्यक्ति की भी मृत्यु होती है॥ ९०॥
योगान्तरमाह—
आदौ चन्द्रो द्वि शून्यं च अन्ते कुज चतुष्टयम्।
मध्ये बुध त्रयं चैव गुरोर्मध्येथ वा रबिः॥ ६१॥
पापद्बये त्रये वापि संयुक्त हायनेऽपि च।
मरणं तत्र वक्तव्यं नात्र कार्या विचारणा॥ ६२॥
आदौ प्रथमे चन्द्रस्ततो द्विशून्यं स्थानद्वये शून्यम्। पुनर्यदि चान्ते कुजचतुष्टयं चत्वारो मङ्गलाः। पुनर्यदि मध्ये मध्यकोष्ठे बुधत्रयं त्रयो बुधाः। तत्र गुरोमर्ध्येरविर्वा पुनर्यदि हायने वर्षे पापद्वये वा पापत्रये संयुक्ते सहिते सति। तदा तत्र वर्षे मरणं वक्तव्यं कथनीयम्। अत्र विचारणा न कार्या।
अत्रेदमवधेयम्। जन्मकोष्ठे चोर्ध्वस्थाने द्वितीयाङ्करूपश्चन्द्रः। तथा जन्मकोष्ठे मध्याधः स्थानद्वयेऽपि शून्योपलक्षितो राहुः। अन्त्येसर्वाधःस्थाने कर्मादि कोष्ठचतुष्टयेपि त्र्यंकरूपो मङ्गलः। पुनर्यदि मध्ये जन्मरन्ध्रकाष्ठयोर्मध्ये किन्तु कर्मादिकोष्ठयेपि मध्यस्थाने च चतुर्थांकरूपा बुधः। अवशेषस्थानेषु पञ्चसु ग्रहनियमाभावः। अत एवं जातं तच्चक्रस्य रूपम्।
प्रथम चक्रम्।
[TABLE]
** सं० टी०**—अथवा कर्मादिकोष्ठचतुष्टयेपि गुरोर्मध्ये रविःस्यादर्थादूर्ध्वान्त्यस्थानद्वये पञ्चांकरूपो गुरुस्तथा मध्यस्थाने चैकाङ्करूपो रविः। तदापि योगो भवत्यर्थाद्यथा प्रदर्शितकुजबुधनिवेशेन वशाद्यात्फलं तत्फलमेवार्कगुरुनिवेशजे योगे स्यात्। पुनर्यदि पताकीत्रयजानां वर्षेशानां मध्ये त्रयः पापाः स्युर्वा द्वौ पापौ तदा मरणं स्यात्। अत्र वर्षेशानां मध्ये कथितपापाभावस्तदा मरणस्य विचारणा न कार्याऽर्थात्तत्रमरणं न स्यात्। अत्र केचिदेवं वदन्ति। पूर्वोक्तग्रहानियमस्थानेषु स्थानद्वये किन्तु कर्माधानकोष्ठयोः। वा कर्मपिण्डयोः। कर्मरन्ध्रयोः। आधानपिण्डयोः। आधानच्छिद्रयोः। एकत्रिशून्यांकौपलक्षितः १।३।० पापः। अथवा पापत्रये स्थानत्रये पापः स्यादर्थात्कर्माधानपिण्डेषु। तथा कर्माधानच्छिद्रेषु। वा कर्मपिण्डच्छिद्रेषु। वा आधानपिण्डच्छिद्रेषु। यथा संभव पापः स्यात्। तत्र हायने वर्षे मरणं कथनीयम्। एवं सति तत्राब्दे किं भविष्यतीति विचारणा न कर्तव्या किन्त्ववश्यं तदा मृत्युर्भवति। परञ्चेदं परमतं नादरणीयमिति सधीभिर्विभाव्यम्। यतः “अथवा पापसंयुक्तेजायते संशयोमहान्” इति पापवर्षे संशये प्राप्ते सति तन्निर्णयाय नैसर्गिकचक्रत्रयानयनं विहितमर्थात्पापवर्षाभावे सति तच्चक्रत्रयमपि न विचारणीयमिति। अत्र पूर्वोक्तमेव समीचीनं स्यादिति मम मतम्॥ ९९॥ ९२॥
** भा० टी०**—जन्म कोष्ठ के प्रथम स्थान में चन्द्रमा हो ( अर्थात् २अङ्क हो ) तथा शेष दो स्थानों शून्य हो तथा अन्त में चार मंगल हो अर्थात् कर्मादि चारों’ कोष्ठके तृतीय स्थानमें ३ सङ्ख्योपलक्षित मंगल हों और मध्यके तीन स्थानों में ४ सङ्ख्योपलक्षित बुध हो अर्थात् कर्म आधान और पिण्ड कोष्ठों के मध्य स्थान में बुध हो ( जो कि उपरोक्त चक्र में स्पष्ट है ) तथा शेष जो पांच स्थान है उनमें चाहे कोई ग्रह हो। अथवा कर्मादि चारों कोष्ठ में गुरु के मध्य में रवि हो अर्थात् उर्ध्वाधर स्थानों गुरु में हो तथा मध्य में रवि हो ( यह नीचे लिखे गये चक्र में स्पष्ट है ) ऐसी यदि चक्र की स्थिति हो और वर्ष में भी दो पापग्रह वर्षेश हों अथवा तीनों वर्षेश पापग्रह हों तब मृत्यु होती है। अन्यथा यदि ऐसे वर्षेश न हों तो मृत्यु नहीं होती है॥ ९१॥ ९२॥
द्वितीय चक्रम्।
[TABLE]
योगान्तरमाह—
स्थानत्रये यदा सूर्यः सूर्यादौ शून्ययुग्मकम्।
अवश्यं मरणं चैव तस्मिन् वर्षे भवेत्तदा॥ ९३॥
यदा स्थानत्रये सूर्यः पताकीत्रये वर्षेशाः सूर्याः। तथा यदि पञ्चस्वरेषु चादौ सूर्यस्तदग्रे सर्वत्र शून्यद्वये तदा तस्मिन् वर्षेऽवश्यं मृत्युः॥ ९३॥
** भा० टी०**—तीनों ( पताकी चक्रोंसे ) वर्षेश रवि हो तथा जन्मादि पञ्चस्वरा चक्र में आदि स्थानों में सूर्य हो तथा शेष दो स्थान शून्य से युक्त हो तो उस वर्ष अवश्य मृत्यु होती है॥ ९३॥
चक्रम्।
[TABLE]
योगान्तरमाह—
बुधेपि शून्ययुगले रवौ वर्षशतां गते।
बुधेप्यन्तर्गते चैव मरणं तन्न संशयः॥९४॥
यदि रवौ वर्षेशतां गते पताकीत्रयेपि वर्षेशः सूर्यः। तथा पञ्चस्वरेषु चादौ बुधे सति ततः शून्ययुगले शून्यद्वयं स्यादयमेको योगः। यदि पञ्चस्वरषु मध्ये बुधस्तथाऽऽदावन्ते च शून्यद्वयं पुनर्यदि पताकीत्रयोत्थो वर्षेशः सूर्यः। तदा मरणं स्यादिति संशयो न। तथोक्तमन्यैः “ज्ञः शून्ययुग्मव बुधः खमध्येऽर्केब्देश्वरे तत्र निमीलने स्यात्। खमध्ये शून्य द्वयमध्ये बुधः। निमीलनं मरणं स्यादन्यत्सुगमम्॥ ९४॥
** भा० टी०**—यदि तीनों पताकी चक्रों में वर्षेश रवि हो तथा यदि पञ्चस्वरा चक्र में सभी आदि स्थानों में बुध हो तथा शेष स्थानों में शून्य हो तो मृत्यु होती है। अथवा पश्चस्वरा चक्र में सभी मध्य स्थानों में बुध हो तथा शेष उर्ध्वाधर सभी स्थान शून्य से युक्त हो ( तथा तीनों प्रकार से वर्षेश रवि हो ) तो अवश्य मृत्यु होती है॥ ९४॥
प्रथम चक्रम्।
[TABLE]
द्वितीय चक्रम्।
[TABLE]
अथ योगान्तरमाह—
गुरौ शून्यद्वये प्राप्ते कुजश्चान्ते भवेद्यदि।
प्राणत्यागो भवेत्तत्र पापे वर्षेशतां गते॥ ६५॥
पापे वर्षेशतां गते पताकीत्रये पापा वर्षेशाः। तथा यदि पञ्चस्वरमध्ये चादौ गुरौ शून्यद्वये प्राप्ते गुरुः शून्यद्वयसंयुतः। तथाऽन्ते छिद्रकोष्ठे सर्वाधःस्थाने च कुजः स्यात्। तत्र प्राणत्यागो भवेत्॥ ९५॥
** भा० टी०**—यदि तीनों पताकी चक्रो में वर्षेश पापग्रह हों तथा यदि पञ्चस्वरा चक्र में आदि कोष्ठ ( जन्म कोष्ठ ) में बृहस्पति दो शून्य से युक्त हो तथा अन्त में अर्थात् छिद्र कोष्ठ के अन्त में ) यदि मंगल हो तो अवश्य मृत्यु होती है॥ ( शेष स्थानों में कोई ग्रह हो॥ ९५॥
[TABLE]
तथा खनावाक्यम—
गुरु प्रथम दुइशून्य आइसे अन्त्ये कुज काले पसे।
हँसे खेले नाकरे भिन्ना अवश्य हँसा करे पयाना॥ २॥
प्रथमगुरु प्रथमं गुरुः। ततो दुइ शून्य शून्यद्वयं आइसे आयाति। तथा अन्त्ये कुज छिद्रकोष्ठेऽधः स्थाने मङ्गलः। तदा कालपेसे तस्य नरस्य कालप्राप्तः किन्तु मरणम्। अन्यत्पूर्ववत्॥ २॥
** भा० टी०—**उपरोक्त अर्थ से तथा चक्र से स्पष्ट है॥ २॥
योगान्तरमाह—
शून्यद्वये कुजे प्राप्ते चान्त्येपि कुजसम्भवे।
विशेषेण मृतिर्ज्ञेया वर्षे वै पाप संयुते॥ ९६॥
कुजे शून्यद्वये प्राप्ते पञ्चस्वरेष्वादौशून्यद्वयविशिष्टः कुजः। तथाऽन्ते छिद्रकोष्ठेऽधः स्थानेपि कुजसम्भवे सति कुजस्य स्थितिः स्यात्। पुनर्यदि पापसंयुते वर्षे पताकीत्रये पापा अब्देशाः स्युः। तत्र विशेषेण मृतिर्ज्ञेया। तथान्यैरुक्तम् “शून्ये कुजश्चान्तयगतः कुजश्चेति॥ ९६॥
** भा० टी०—**यदि पञ्चस्वरा चक्र मेंआदि स्थान में मंगल शून्य द्वय करके युक्तअन्तमें भी मंगलहोतथा यदि तीनों पताकी चक्र मेंपापग्रहवर्षेशहों तो अवश्य मृत्यु होती है ( शेष स्थानों में कोई ग्रह हों)॥ ९६॥
चक्रम्।
[TABLE]
योगान्तरमाह—
शुक्रे शून्यद्वये प्राप्ते वर्षे वै पापसंयुते।
द्वितीयस्वरसंयोगे मरणं तस्य निश्चितम्॥ ९७॥
पापसंयुते वर्षे पताकीत्रयोत्था वर्षेशाः पापाः। पुनर्यदि द्वितीयस्वरसंयागे शून्यद्वये प्राप्ते शुक्रे सति किन्तु कर्मकोष्ठस्वरे चादौशुक्रस्तथा शून्यद्वयं च स्यात् तदा तस्य मरणं निश्चितमिति। ग्रन्थान्तरे चास्मिन् योगे कुजसम्बन्ध उक्तः शुक्रः खयुग्मं रुधिरोऽथवेति॥ ९७॥
** भा० टी०—**यदि तीनों पताकी चक्र से वर्षेश पाप ग्रह हो तथा द्वितीय स्वर अर्थात् कर्म स्वर के कोष्ठ में शुक्र दो शून्य से युक्त हो तो अवश्य मृत्यु होती है॥ ९७॥
[TABLE]
शेष कोष्ठोमें कोईग्रह हो।
योगान्तरमाह—
प्रथम त्रीणी शून्यानि छिद्रे च कुजसंस्थितिः।
बर्षं तत्क्लेशदं ज्ञेयं शुभयोगे शुभप्रदम्॥ ९८॥
प्रथमं जन्मकोष्ठे त्रीणि शून्यानि चोर्ध्वमध्याधःस्थानेषु शून्यानि। तथा यदि छिद्रकोष्ठेऽधःस्थाने कुजसस्थितिर्मङ्गलस्यावस्थानं स्यात्। तथाऽब्देशाश्च पापास्तदा तद्वर्षं क्लेशदं ज्ञेयम्। तत्र योगे शुभयोगे सति किन्तु यदा वर्षेशाः शुभास्तदा तद्वर्षं शुभप्रदं ज्ञेयमिति॥ ९८॥
** भा० टी०**यदि पञ्च स्वरा चक्र के जन्म कोष्ठ में तीनों स्थान शून्य से युक्त हो तथा छिद्र कोष्ठ के अन्त में मंगल हो तब यदि वर्षेश पाप ग्रह हों तो क्लेश होता है अन्यथा यदि वर्षेश शुभ ग्रह हों तो वह वर्ष शुभ प्रद शून्य होता है॥ ९८॥
चक्रम्।
[TABLE]
शेष कोष्ठो में कोईग्रह हो।
योगान्तरमाह—
जन्मभ्यर्कगुरु कर्मण्यथ राहु दिवाकरौ।
आधाने मन्द भौमौ च जन्तोर्मरणमादिशेत्॥ १०१॥
जन्मनि जन्मकोष्ठेऽर्कंगुरू तथा कर्मणि कर्मकोष्ठे राहुदिवाकरौ स्याताम्। पुनर्यदि चाधाने मन्दभौमौ शनिमङ्गलौस्तः। अत्रापि यदि वर्षेशाः पापाः स्युरित्यनुक्तमपि बोध्यम्। तदा जन्तोः पुरुषस्य मरणं वदेत् ग्रन्थान्तरेप्युक्तम् ‘जनुषि ब्रध्नपूज्यौ क्रमेण राहुर्भानुश्च कर्मण्यवनिजरविजौ चेत्तृतीये स्वरे स्यान्मृत्यु रिति’॥ १०१॥
यदि पञ्चस्वरा चक्र के जन्म कोष्ट में सूर्य, बृहस्पति कर्म कोष्ठ में राहु सूर्य और आधान कोष्ठ में यदि शनि मंगल हो तो ( यदि वर्षेश पाप ग्रह हों तो ) मरण होता है॥ १०१॥
चक्रम्।
[TABLE]
शेषकोष्ठो कोईग्रह हो।
योगान्तरं दर्शयति—
विधूराहू विधूश्चेति योगो वाऽन्योन्य सम्भवे।
गुरुचन्द्रशनैर्वर्षंतदापि मृत्युमादिशेत्॥ १०२॥
अत्र पञ्चसु कोष्ठेषु विधुराहू तथा विधुः पुनश्चन्द्र इत्येषां परस्परसम्भवे सति यदि योगः। अर्थात्पञ्चसु कोष्ठेषु प्रथमं चन्द्रस्तदग्रे राहुस्तदग्रे चन्द्र इति। तथा गुरुचन्द्रशनेर्वर्षं गुरुचन्द्रशनीनां वर्षं तदापि मृत्युमादिशेत्। कथयेत्॥१०२॥
भा० टी०—यदि पञ्चस्वरा चक्र में जन्मादि सभी कोष्ठो में क्रमशः चन्द्रमा राहु और चन्द्रमा हो तथा बृहस्पति चन्द्रमा और शनि वर्षेश हों तो अवश्य मृत्यु होती है॥ १०२॥
चक्रम्।
[TABLE]
योगान्तरमाह—
पापद्वयान्विते वर्षे शून्यषट्कं भवेद्यदि।
कुजश्चान्ते भवेद्यस्य तस्य मृत्युर्न संशयः॥ १०३॥
वर्षे पापद्वयान्विते सत्यर्थात्पताकीत्रयोत्थानां वर्षेशानां मध्ये पापद्वयं तथा यदि पञ्चस्वरेषु राहुरूपं शून्यषट्कं भवेत्। तथा यदि चान्ते छिद्रकोष्ठेऽधः स्थाने कुजो मङ्गलः। एवं यस्य भवेत्तस्य तदा मृत्युः स्यादिति संशयो न स्यात्॥ १०३॥
** भा० टी०**—यदि पताकी चक्रों से दो पाप ग्रह वर्षेश हों ( तीनों वर्षेशों में से कोई दो पाप ग्रह बर्षेश हों ) तथा पञ्चस्वरा चक्र के जन्मादि सभी कोष्ठों में मिलकर ६ शून्य हो और छिद्र कोष्ठ के अन्त में यदि मंगल हो तो अवश्य मृत्यु होती है इसमें सन्देह नहीं॥ १०३॥
तथा च खनावाक्यम् —
दुइ पाप षट् शून्य तदीशाः अन्ते कुज काल परे।
हँसे खेले नाकरे भिन्नाअवश्य हँसा करे पयाना॥ ३॥
दुइ पाप वर्षेशद्वयं पापरूपं तथा षट्शून्यं शून्यषट्कं यथा अन्ते कुज छिद्रकोष्ठाधः स्थाने कुजो भवेत्। तदा कालपरे मृत्युर्भवेत्। उत्तरार्धस्यार्थः पूर्ववदवधेयः॥ ३॥
स्पस्टम्।
योगान्तरं दर्शयति—
बुधत्रयं कुजद्वयं दश शून्यं भवेद्यदि।
मन्दार्कार युते वर्षे राहौ वा स्यात्तदा मृतिः॥ १०४॥
वर्षे मन्दार्कारयुते पताकीत्रये क्रमेण शनिरविभौमा वा राहुर्वर्षेशाः। तथा पञ्चस्वधुरे बुधत्रयं तथा त्र्यङ्करूपं भौमद्वयम्। तथा यदिदशशून्यञ्च। तदा मृतिः स्यात्॥ १०४॥
** भा० टी०**—यदि तीनों पताकी चक्र में क्रमशः शनि सूर्य और मंगल वर्षेश हों अथवा राहु वर्षेश हो तथा यदि पञ्चस्वरा चक्र के जन्मादि कोष्ठों में कहीं भी तीन स्थान में बुध और दो स्थान में मंगल हो और शेष दश कोष्ठों में शून्य हो तो अवश्य मृत्यु होती है॥ १०४॥
तथा च खनावाक्यम्—
तीनबुध दुइ मङ्गल आइसे लिखिआ दश शून्य जहार आइसे।
शनि रवि मङ्गल राहु गणना सेइ वत्सर मरण बोले खना॥ ४॥
तीन बुध बुधत्रयं दुइ मङ्गल मङ्गलद्वयम्। दशशून्य दशशून्यानि लिखिआ रणयित्वा जहार यस्य आइसे आगच्छेयुः। शनिरविमङ्गलराहुगणना शनिरविमङ्गलानां वा राहोश्चाब्देश मध्ये गणना स्यात्। सेइ वत्सर तस्मिनेव वर्षे मरणबोले मरणं वदति॥ ४॥
** भा० टी०**—पूर्व श्लोक के अर्थ से स्पष्ट है॥ ४॥
योगान्तरमाह—
पञ्च स्वरे यदा भौमः पञ्चमः सप्तमो भवेत्।
पाप त्रयान्विते वर्षे तथैव मृत्युमादिशेत्॥ १०५॥
पञ्चस्वरे पञ्चस्वरमध्ये यदा भौमः पञ्चमः पञ्चमस्थानगतः किन्तु कर्मकोष्ठस्य मध्य स्थानेस्थितः। तथा सप्तमः सप्तमस्थानगतः किञ्चाधानकोष्ठस्योर्ध्व स्थाने स्थितो भवेत्। तथा यदि पापत्रयान्विते वर्षे सत्यर्थात्पताकीत्रयोत्था अब्देशाः पापाः स्युः। तथैव मृतिमादिशेत्। तथान्यैरप्युक्तम्।
“भौमो यदा कर्मणिमध्यमः स्यात्कोष्ठो तुयोये प्रथमो भवेत्सः।
मृत्युर्ब्रजेदेवहि हायनेऽस्मिन् तथैव पापत्रयसंयुतेऽब्द इति”॥ १०५॥
तथा च खनावाक्यम्—
मङ्गल सप्तम पञ्चम वा प्रमाण,
जीवन मरण स्फुटं तत्क्षण जान॥ ५॥
स्पष्टम्॥ ५॥
** भा० टी०**—यदि पञ्चस्वरा चक्र के पञ्चम तथा सप्तम स्थान में ( अर्थात् कर्म कोष्ठ के मध्य में और आधान कोष्ठ के प्रथम स्थान में ) यदि मंगल हो और पताकी चक्रों से यदि तीनों वर्षेश पाप ग्रह हों तो उस वर्ष में अवश्य मृत्यु होती है॥ १०५॥
विशेषमाह—
पापग्रहदशायान्तु पापस्यान्तर्दशा यदि।
अरियोगे भवेन्मृत्यु र्मित्रयोगे न संशयः॥ १०६॥
यदा पापग्रहस्य महादशायां पापग्रहस्यैवान्तर्दशा भवेत्। तद्ग्रहद्वयस्यारियोगे सत्यर्थात्तयोर्दशान्तर्दशास्वामिनोः शत्रुत्वे मृत्युर्भवेत्। यथा यदि तयोर्मित्रयोगे मित्रत्वे सति संशयो न स्यादर्थात्मृत्युर्न स्यात्। किन्तु क्लेशमात्रं स्यात्। अत्र शुभदशायामप्यरियोगे मृत्युः स्यादिति॥ १०६॥
** भा० टी०**—यदि पाप ग्रह की दशा में पाप ग्रह की अन्तर्दशा को तथा दशा नाथ और अन्तर्दशा के स्वामी परस्पर शत्रु हो तो उस अन्तर्दशा में मृत्यु होती है। अन्यथा यदि दशा और अन्तर्दशा के स्वामियों परस्पर मित्रता हो तो मृत्यु नही होती है परन्तु क्लेश अवश्य होता है॥ १०६॥
उपसंहार माह—
ज्योतिर्बिदः प्रपश्यन्तु ग्रहाणां सुविचारकाः।
पञ्चस्वरादितो यद्वै सङ गृहीतं सुनिश्चितम्॥ १०७॥
ग्रहाणां सुविचारका ज्योतिर्विदः ज्योतिः शास्त्रज्ञा इदं प्रपश्यन्तु। पञ्चस्वदितः पञ्चस्वरावलम्बनवशान्मया प्रजापतिदासनाम्ना गणकेन यच्छुभाशुभं सुनिश्चितंसुनियतं सङ्गृहीतमिति। अत्रायमाशयः। जन्मलग्नस्य पापविद्धे पापग्रहाणां यामार्धदण्डयोर्जन्म चायं सर्वमरणयोगानां सहायकः। तथा विश्वेश्वरोपि–
“यत्राब्दे बहवः क्रूराः सौम्या न्यूनाश्च यत्र हि।
तत्र क्लेशं बिजानीयात्कार्यमात्रेन संशयः॥ १॥
स्वोच्चादिपपदगाः क्रूराः सदा सफलदायकाः।
नीचादिपदगाः सौम्या न शुभाः सर्वथा नृणाम्॥ १०७॥
इति श्रीप्रजापतिदासविरचितः पञ्चस्वराख्यो ग्रन्थः समाप्तः।
** भा० टी०**—मैं “प्रजापति दास” नामक ज्योतिषी अकारादि पाचों स्वरो के आधार पर जो कुछ संग्रह करके निश्चय किया हूँ उसे श्रेष्ठ ज्योतिषी लोग बिचार पूर्वक गौर से देखें। अर्थात् मेरे परिश्रम को सफल करें॥ शुभम्॥
इतीह मृत्यु निर्णये चलाख्यचक्रसम्भवे॥
प्रपूर्णतां सुबोधिनी मनीषितोषकारिणी॥ १॥
चन्द्रसूर्यगृहे राहुश्चन्द्रः सूर्ययुतो यदि।
सौरिभौमेक्षितं लग्नं पक्षमेकं न जीवति॥ १॥
अथ बहुषु पुस्तकेषु स्थिताः श्लोकाः सङ्गृहीतरूपा ये तानपि प्रसङ्गाद्वयाख्यास्यामः।
यस्य जन्मकाले राहुश्चन्द्रसूर्यगृहे कर्कसिंहराशौस्थितः। तथा यदि चन्द्रः सूर्ययुतः सूर्येण सहितः। तथा यदि लग्नं जन्मकालिकलग्नं सौरिभौमेक्षितं शनिमङ्गलाभ्यां दृष्टम्। तदा स च बालकः पक्षं जन्मतः पञ्चदशदिनं यावन्न जीवति किन्तु पञ्चदशदिनाभ्यन्तरे प्राणवियोगं करोति॥ १॥
** भा० टी०**—जिस के जन्म समय राहु कर्क अथवा सिंह राशि का हो चन्द्रमा सूर्य से युक्त हो और लग्न शनि तथा मंगल से दृष्ट हो तो वह बालक १५ दिन के अन्दर हो मृत्यु को प्राप्त करता है॥ १॥
मात्रासहारिष्टयोगः—
कर्मस्थाने स्थितः सौरिः शत्रुस्थाने कला निधिः।
क्षितिजः सप्तमस्थाने स मात्रा म्रियते शिशुः॥ २॥
** सं० टी०**—सौरिः शनिः कर्मस्थाने लग्नाद्दशमस्थाने स्थितः। तथा यदि कलानिधिश्चन्द्रः शत्रुस्थाने स्थितः। पुनर्योद क्षितिजो मङ्गलःसप्तमस्थाने गतः। एवं विधे योगे जातः शिशुःस मात्रा मातृसहितो म्रियते प्राणवियोगं करोति॥ २॥
** भा० टी०**—जिस के जन्म समय में शनि दशम स्थान में तथा चन्द्रमा षष्ठ में और मंगल सप्तम स्थान में स्थित हों उस बालक की माता के साथ मृत्यु होती है॥ २॥
अरिष्ट योगमाह—
लग्ने भास्करपुत्रश्च निधने चन्द्रमायदि।
तृतोयस्थो यदा जीवः स याति यममन्दिरम्॥ ३॥
यदि भास्करपुत्रः शनिर्लग्ने जन्मलग्ने स्थितः। पुनर्यदि चन्द्रमा निधनेऽष्टमे स्थितः। पुनर्यदा जीवो बृहस्पतिस्तृतीयस्थः। यस्यैवं बिधे योगे जन्म स यममन्दिरं यमगृहंमृत्युं याति प्राप्नोति॥ ३॥
जिसके जन्म समय लग्न में शनि, अष्टम में चन्द्रमा और तृतीय स्थान में यदि बृहस्पति स्थित हो तो वह बालक शीघ्रमृत्यु को प्राप्त करता है॥ ३॥
अन्यच्च—
होरायाः सप्तमे सूर्यः सप्तमे च शनैश्चरः।
एकादशे गुरुः शुक्रो मासमेकं न जीवति॥ ४॥
सूर्यो होरायाः किन्तु लग्नात्सप्तमे स्थितः। पुनर्यदि शनैश्चरः सप्तमे स्थितः। गुरुः शुक्रश्चैकादेश स्थितः। तदा शिशुरेकं मासं न जीवति किन्तु मासाभ्यन्तरे जातस्य मृत्यु॥ ४॥
** भा० टी०**—जिस के जन्म समय जन्म लग्न से सप्तम में सूर्य शनि और एकादश में यदि गुरु शुक्र हों तो वह बालक १ मास के अन्दर ही मृत्यु को प्राप्त करता है॥ ४॥
अन्यच्च—
लग्नसंस्थौ शनिकुजावष्टमस्थो यदाशशी।
भवेत्षष्ठे यदा जीवो जीवनं तस्य दुर्लभम्॥ ५॥
शनिकुजौ शनिमङ्गलौ लग्नसंस्थौ स्तः। तथा यदि शशी चन्द्रोष्टमस्थः। तथा यदा जीवः षष्ठे स्थितः। षष्ठेऽष्टमे भवेज्जीवो ११ इतिपाठान्तरे जीवः षष्ठेऽष्टमे गतः। एवं विधे योगे यस्य जन्मतस्य जीवनंदुर्लभंस्यादर्थात्स न जीवति॥ ५॥
** भा० टी०**—जिस के जन्म समय लग्न में शनि मंगल और अष्टम में चन्द्रमा तथा षष्ठ में यदि बृहस्पति हो तो उस का जीवन दुर्लभ है॥५॥
अन्यच्च—
अरिगेहस्थितश्चन्द्रो भास्करोपि यदा भवेत्।
मार्कण्डेयसमोपि स्यान्मासमेकं न जीवनं॥ ६॥
चन्द्रस्तथा भास्करः सूर्यो यदाऽरिगेहस्थितः षष्ठस्थाने गतस्तदा मार्कण्डेयसमोपि मार्कण्डेयेन मुनिना दीर्घायुषा तुल्योपि नर एकं मासं न जीवति॥ ६॥
** भा० टी०**—जिस के जन्म समय सूर्य तथा चन्द्रमा युगपत् यदि षष्ट स्थान में हो वह एक मास जीवित नहीं रहता है, यदि मार्कण्डेय मुनिके समान भी दीर्घायु पुरुष का यदि इस योग में जन्म हो तो वह भी एक मास के अन्दर ही सुर लोक को प्राप्त करता है॥ ६॥
अन्यच्च—
अष्टमस्थो यदा पापः सौम्यश्चद्वादशे स्थितः।
तदा मृत्यु ब्रजेदेव देवराज समोयदि॥ ७॥*10
यदा पापः पापग्रहो लग्नाद्दष्टमस्थः। पुनर्यदा सौम्यः शुभग्रहो द्वादशे स्थितः। षष्ठाष्टमे १ इति पाठान्तरम्। तदा देवराजसम इन्द्रतुल्योपि नरो मृत्युं ब्रजेत्॥ ७॥
** भा० टी०**—यदि जन्म समय अष्टम में पाप ग्रह तथा द्वादश में शुभ ग्रह स्थित हों तो इन्द्र के समान पराक्रमी पुरुष भी मृत्यु को प्राप्त करता है॥ ७॥
पितृभ्यां सहमृत्यु योगः—
षष्टाष्टमगतश्चन्द्रो रविजः सप्तमे स्थितः॥
पितृमातृ विनाशी स्यान्मास मेकं न जीवति॥ ८॥
चन्द्रः षष्ठाष्टमगतः। तथा यदिरविजः शनिः सप्तमस्थितः। तदैवं विधे योगे जातः शिशुः पितृमातृविनाशी किन्तु पितृमातृविनाशकरः स्यात्तथा स्वयमप्यैकं मासं न जीवति॥ ८॥
जिस के जन्म समय लग्न से षष्ट अथवा अष्टम में चन्द्रमा और सप्तम में यदि शनि हो तो वह बालक माता पिता का नाश करके स्वयं भी १ मास के अन्दर ही मृत्यु को प्राप्त करता है॥ ८॥
अरिष्टयोगमाह—
शुभे लग्ने यदा जातश्चाष्टमे व निशाकरः॥
शनैश्चरश्च बन्धुस्थो द्विमासे मृत्युमिच्छति॥ ९॥
** सं० टी०**—यदा शुभे शुभराशौ लग्ने जात उत्पन्नो नरो भवेत्। तथा यदि निशाकरश्चन्द्रोऽष्टमे गतः। पुनर्यदि शनैश्चरो बन्धुस्थः “मृत्युस्थः” इति पाठान्तरे चाष्ठमगतः। तदा स च नरो द्विमासे मृत्युमिच्छति किन्तु जन्मतो मासद्वयं यावन्मृत्युं प्राप्नोति॥ ९॥
** भा० टी०**—यदि जन्म लग्न में शुभ ग्रह की राशि हो तथा अष्टम में चन्द्रमा और चतुर्थ में शनि हो तो २ मास के अन्दर ही मृत्यु होती है॥९॥
अन्यच्च—
यस्य जन्मविलग्नस्थाः सूर्यशुक्रशनैश्चराः॥
द्वादशस्थो गुरुश्चैव पञ्चभासं न जोवति॥ १०॥
यस्य सूर्यशुक्रशनैश्चरा जन्म लग्नस्थाः स्युः। तथा यदि गुरुर्द्धादशस्थः स च पञ्चमासं नजीवत्यर्थात्पञ्चमासाभ्यन्तरे मृत्युं प्राप्नोति॥ १०॥
जिस के जन्म समय जन्म लग्न में सूर्य शुक्र तथा शनैश्वर और द्वादश स्थान में यदि गुरु हों तो वह बालक ५ मास के अन्दर मृत्यु को प्राप्त होता है॥ १०॥
अथ भातृरिष्ट योगमाह—
पूर्वमुक्तं शिशोरिष्टं मातृरिष्टमथोच्यते॥
दिवा शुक्रो भवेन्माता रात्रौ माता च चन्द्रमा॥ १॥
पूर्वार्धं स्वष्टम्। यस्य दिवा दिवसे जन्मतस्य शुक्रो माता किन्तु मातृकारकः स्यात्। एवं यस्य रात्रौ जन्म तस्य चन्द्रमा माता मातृसंज्ञकः स्यात्॥ १॥
** भा० टी०**—प्रथम बालारिष्ट कह कर अब मातृरिष्ट योगों को कहता हूँ। यदि दिन में जन्म हो तो शुक्र मातृकारक और यदि रात्रि में जन्म हो तो चन्द्रमा मातृ कारक होते हैं (अथवा यों कह सकते हैं कि दिन में शुक्र माता संज्ञक तथा रात्रि में चन्द्रमा माता संज्ञक होते हैं )॥ १॥
प्रसवे च दिवाभागे शुक्रे च पापसंयुते॥
अथवा पाप सन्दृष्टे माता च म्रियते ध्रुवम्॥ २॥
दि्वाभागे दिवसे प्रसवे जन्मनि सति। तथा शुक्रे पापसंयुते पापग्रहसहिते सति।अथवा शुक्रे पापसन्दृष्टे पापग्रहदृष्टेसति। जातस्य माता ध्रुवं निश्चितंम्रियते॥ २॥
यदि दिन में जन्म हो और शुक्र पाप ग्रह युक्त अथवा पाप ग्रह से दृष्ट हो ( शुभ ग्रह से युक्त दृष्ट न हो ) तो जातक के माता की निश्चय मृत्यु होती है॥ २॥
आत्मगेहस्थितः शुक्रः पापान्तः पापसंयुतः।
अथवा पापसन्दृष्टो माता च म्रियते ध्रुवम्॥ ३॥
यदि शुक्र आत्मगेहस्थितः स्वराशावर्थाद्वृषतुलाराशौ गतः। तथा पापान्तः पापग्रहमध्यगतस्तथा पापसंयुतः। अथवा तादृशः शुक्रः पावसन्दृष्ठः तदा ध्रुवं निश्चितं माता म्रियते॥ ३॥
** भा० टी०—**यदि वृष अथवा तुला राशि स्थित शुक्र पाप ग्रहोंकेमध्य में हो पाप ग्रह से युक्त हो अथवा पाप ग्रह से दृष्ट हो तो निश्चय माता की मृत्यु होती है॥ ३॥
प्रसवे रात्रिसमये चन्द्रः पापग्रहेक्षितः।
माता च म्रियते तस्य यदि पापसमन्वितः॥ ४॥
** सं० टी०**—रात्रिसमये प्रसवे सति तथा चन्द्रः पापग्रहेक्षितः पापग्रहसन्दृष्टः। पुनर्यदि पापसमन्वितः पापग्रहयुतः। यस्यैवं विधो योगो जनौभवेत्तस्य माता म्रियते॥ ४॥
** भा० टी०**—जिसका जन्म रात्रि के समय हो और चन्द्रमा पाप ग्रह से दृष्ट होकर पाप ग्रह से युक्त हो तो उसकी माता मृत्यु को प्राप्त होती है॥४॥
“आत्मगेह स्थितः शुक्र” इति पूर्वोक्तस्य भङ्गमाह—
आत्मगेहस्थितः शुक्रो पापे च परक्षेत्रगे।
शुभग्रहाः प्रपश्यति रिष्टभङ्गो भवेत्तदा॥ ५॥
** सं० टी०—**यदि शुक्र आत्मगेहस्थिनः स्वराशौ स्थितः। पुनर्यदि पापे पापग्रहे परक्षेत्रगे स्वराश्यम्यराशिगते सति। तत्र यदि तं शुक्रं शुभग्रहाः प्रपश्यन्ति विलोकयन्ति। तदा “आत्मगेहस्थितः शुक्रः पापान्तः पापसंयुतः” इति योरिष्टस्तस्य भङ्गो नाशो भवेत्॥ ५॥
** भा० टी०**—यदि शुक्र स्वगृह का हो परञ्च पाप ग्रह अन्य की राशियों में हींतथा शुक्र शुभ ग्रहों से दृष्ट हो तो “आत्मगेह स्थितः शुक्रो” इत्यादि पूर्वोक्त श्लोक से कहे गये अरिष्ट का नाश होता है॥ ५॥
अथवा क्षोणचन्द्रं च पापाः पश्यन्तिसर्वतः।
शुभग्रहा न पश्यन्ति माता च म्रियते तदा॥ ६॥
** सं० टी०**—अथवा पापाः पापग्रहाः क्षीणचन्द्रं नष्टवीर्यं चन्द्रं सर्वतः पश्यन्ति। तथा यदि तं क्षीणचन्द्रं शुभग्रहा न पश्यन्ति। तदैवं विधे योगे जातस्य माता म्रियते॥ ६॥
** भा० टी०**—जिसके जन्म के समय क्षीण चन्द्रमा को सभी पाप ग्रह देखते हों शुभ ग्रह बिलकुल न देखते हों तो उसके माता की निश्चय मृत्यु होती है॥ ६॥
निधनारिगतश्चन्द्रो भौमश्च सप्तमे भवेत्।
तस्य मातृविनाशः स्याद्यदिपापैः समन्वितः॥ ७॥
** सं० टी०—**यदि चन्द्रो निधनारिगतः किञ्चाष्टषष्ठस्थानगतः। पुनर्यदि भौमः सप्तमे स्थाने भवेत्। तत्र यदि पापैः पापखेटैश्चन्द्रः समन्वितो युतो भवेत्। एवं विधे योगे यस्य जन्म तस्य मातृविनाशः स्यात्॥ ७॥
** भा० टी०—**जिसके जन्म समय चन्द्रमा पाप ग्रहों से युक्त होकर षष्ट में अथवा अष्टम में हो और सप्तम में मंगल हो तो उसके माता की मृत्यु होती है॥ ७॥
चन्द्राष्टमगते भौमे शत्रुस्थे क्रूरवीक्षिते।
मातुस्तस्य भवेद्धानिः पिता तस्य विदेशगः॥ ८॥
** सं० टी०—**भामे मङ्गले चन्द्राष्टमगते चन्द्रादष्टमस्थे तथा शत्रुस्थे लग्नात्षष्ठस्थे तथा क्रूरवीक्षिते पापग्रहदृष्टे सति। तस्य मातुर्हानिर्विनाशः स्यात्। तथा तस्य पिता विदेशगःस्यादर्थाद्विदेशगस्य पितुः परोक्षस्य जन्म स्यात्॥ ८॥
** भा० टी०**—जिसके जन्म समय चन्द्रमा से अष्टम में और लग्न से षष्ट में यदि मंगल हो ( अर्थात् लग्न से षष्ट में मंगल एकादश में चन्द्रमा हो ) एवं स्थित मंगल पाप ग्रह से दृष्ट हो तो पिता के परोक्ष में उसका जन्म होता है तथा उस की माता मृत्यु को प्राप्त होती है॥ ८॥
लग्नाच्चतुर्थगः पापो यदि स्याद्बलवत्तरः।
तदा मातृवधं कुर्याच्चन्द्रोपेतो विशेषतः॥ ९॥
** सं० टी०**—यदि पापः पापग्रहो लग्नाच्चतुर्थंगस्तथा बलवत्तरो बीर्याधिकः तदा स च पापो मातृबधं मातृनाशं कर्यात्। अथैवं यदि तादृशः पापश्चन्द्रोपेतश्चन्द्रेण सहितः। तदा विशेषतः मातृनाशो भवेत्॥ ९॥
** भा० टी०**—यदि जन्म समय अति बलवान् पाप ग्रह लग्न से चतुर्थ में हो तो माता की मृत्यु करता है। यदि एवं भूत पाप ग्रह चन्द्रमा से युक्त हो तो निश्चय माता की मृत्यु करता है॥ ९॥
शनिमङ्गलयोर्मध्ये यदि तिष्ठति चन्द्रमा।
तदा मातृबधो ज्ञेयो भौमार्कौ संयुक्तौ तथा॥ १०॥
** सं० टी०**—यदि चन्द्रमा शनिमङ्गलयोर्मध्ये तिष्ठति तथा यदि भोमार्कौ संयुतौरविमङ्गलावेकत्र स्थितौ तदा मातृबधो ज्ञेयो गणकेनेति शेषः॥ १०॥
** भा० टी०**—यदि जन्म समय चन्द्रमा शनि और मङ्गलके अन्तर्गत ( मध्यगत) हो तथा मंगल रबि युक्त हो तो माता की मृत्यु होती है॥ १०॥
चन्द्रः पापसमायुक्तो लग्नात्केन्द्रगतो यदि।
तदा मातृवधो ज्ञेयः सप्ताहान्नात्र संशयः॥ ११॥
यदि चन्द्रः पापसमायुक्तः पापसहितः। पुनर्यदि लग्नात्केन्द्रत्रिकोणगः। तदा सप्ताहात्यप्तवासरान्मातृबधो ज्ञेयः। इति संशयो न॥ ११॥
** भा० टी०**—यदि जन्म समय चन्द्रमा पाप ग्रहों से युक्त होकर लग्न से केन्द्र स्थान में हो तो १ सप्ताह के अन्दर ही माता की मृत्यु होती है इसमें संशय नहीं है॥ ११॥
दिवसे तु पिता मित्रः पिता रात्रौ शनैश्चरः।
भ्राता दिवाकरो रात्रौदिवसे च शनैश्चर॥ १॥
दिवसे प्रसवे सति मित्रः सूर्यः पिता पितृसंज्ञकः स्यात्। रात्रौ प्रसवे सति शनैश्चरः पिता स्यात्। तथा रात्रौ प्रसवे सति दिवाकरः सूर्यो भ्राता भ्रातृसंज्ञकः स्यात्। दिवसे प्रसवे सति शनैश्चरश्चशब्दोपादानाद्भातृृसंज्ञकः स्यात्॥ १॥
** भा० टी०**—यदि दिन में जन्म हो तो सूर्य पितृकारक होते हैं तथा रात्रि में जन्म हो तो शनिश्चर पितृकारक होते हैं। एवं दिन में जन्म हो तो शनिश्चर तथा रात्रि में जन्म हो तो सूर्य भ्रातृ कारक होते हैं॥ १॥
निधने च गते सूर्ये सौरिभौमेक्षिते यदि।
शुक्रगुर्वोर्नचालोकः सपिता म्रियते शिशुः॥ २॥
** सं० टी०**—यदि सूर्ये निधने लग्नादष्टमे गते तथा सौरिभोमेक्षिते शनिमङ्गलाभ्यां दृष्टे “सोरिभोमयुते” इति वा पाठान्तरे ताभ्यां सहिते। तथा विधे सूर्ये सूर्योपरि यदि शुक्रगुर्वोःशुक्रबृहस्पतिग्रहृद्वयस्य चावलोको दृष्टिर्नास्ति तदा सपिता पितृसहितः शिशुन्म्रियते॥ २॥
** भा० टी०**—यदि जन्म समय शनि और मंगल से दृष्ट सूर्य लग्न से अष्टम में हो और बृहस्पति अथवा शुक्र इन दोनों में से किसी से दृष्ट न हो तो पिता के साथ नवजात शिशु की मृत्यु होती है॥ २॥
अष्टमस्थो यदा चन्द्रो गुरुराहू द्वितीयगौ।
सौरिभौमान्विते सूर्ये पितृहा सप्तधारात्॥ ३॥
यदा चन्द्रो लग्नादष्टमस्थः। तथा गुरुराहू द्वितीयगौ। तथा यदि सूर्ये सौरिभौमान्विते शनिमङ्गलसहिते सति। जातः शिशुः सप्तवासरात्पितृहा पितृनाशकरः स्यात्॥ ३॥
** भा० टी०**—यदि जन्म लग्न से अष्टम स्थान में चन्द्रमा, द्वितीय मेंगुरु और राहु हों तथा यदि सूर्य मंगल और शनि से युक्त होकर किसी स्थान में हो तो सात दिन के अन्दर ही पिता की मृत्यु होती है॥ ३॥
लग्नाष्टमगते भौमे द्वादशे वा द्वितीयगे।
पितृनाशो भवेत्तस्य शुभै र्यदि न दृश्यते॥४॥
** सं० टी०**—भौमे लग्नाष्टमगते वा द्वादशे वा द्वितीयगे तथा यदि शुभैः स च भौमो न दृश्यते तदा तस्य शिशोःपितृनाशः स्यात्। वा षष्ठाष्टमगते भौमे रिष्फे पापद्वये त्रये इति पाठान्नरे तु भौमे षष्ठाष्टमगते तथा रिष्फे द्वादशे पापद्वये द्वौ पापग्रहौ वा त्रये त्रयः पापाः। अन्यत्पूर्ववदिति॥ ४॥
** भा० टी०—**यदि जन्म लग्न से अष्टम या द्वादश अथवा द्वितीय में यदि मंगल हो तथा एवं बिध मंगल शुभ ग्रह से यदि दृष्ट न हो तो शीघ्र पिता की मृत्यु होती है॥ ४॥
अष्टमस्थो यदा भानुर्लग्ने राहुसमन्विते।
पिता वा म्रियते तस्य स्वयं च म्रियते शिशुः॥ ५॥
यदा भानुः सूर्योऽष्टमस्थस्तथा लग्ने राहु समन्विते राहुयुते सति। तस्य पिता म्रियते वा स्वयं शिशुर्म्रियते॥ ५॥
** भा० टी०**—यदि जन्म लग्न से अष्टम में सूर्य तथा जन्म लग्न में राहु हो तो उसके पिता की मृत्यु होती है। अथवा बालक स्वयं ही मृत्यु को प्राप्त होता है॥ ५॥
सोम सिद्धान्ते—
भौमे वा निधने चन्द्रः पापयुक्तो भवेद्यदि।
पितृघाती परोक्षे च माता वा म्रियते ध्रुवम्॥ ६॥
भौमो मङ्गलो वा चन्द्रो यदि निधनेऽष्टमे स्थितस्तथा पापयुक्तः पापग्रहयुतः। तदैवं विधे योगे जातः शिशुः पितृृघाती पितृनाशकरः। वा तस्य परोक्षे ध्रुवं निश्चितं माता म्रियते॥ ६॥
** भा० टी०**—जिस के जन्म लग्न से अष्टम में मंगल अथवा चन्द्रमा पाप ग्रहों से युक्त हों तो जातक के पिता की मृत्यु होती है अथवा पिताके परोक्ष में माताकी मृत्यु होती है॥ ६॥
रन्धेऽर्के सप्तमे भौमे निधनस्थे च सूर्यजे।
पितृमृत्युर्भवेत्तस्य शुभैयदि न दृश्यते॥ ७॥
अर्के रवौ रन्ध्रेऽष्टमस्थे तथा यदि भौमे सप्तमे तथा च यदि सूर्यजे शनैश्चरे निधनस्थेऽष्टमस्थे सति। एवं विधो योगो यदि शुभै र्न दृश्यते तदा तस्य बालकस्य पितृमृत्युर्भवेत्॥ ७॥
** भा० टी०**—जिस के जन्म लग्न से अष्टम में सूर्य और शनि तथा सप्तम में मंगल हों तथा ये ग्रह यदि शुभ ग्रह से दृष्ट न हों तो पिता की मृत्यु होती है॥ ७॥
सूर्याच्च सप्तमस्थाने शनिर्भौमौ यदा स्थितौ।
तदा पितृवधो ज्ञेयस्तयोर्मध्येऽथवा रविः॥ ८॥
यदा सूर्यात्सप्तमस्थाने शनिभौमौ स्थितौ स्यातामित्येको योगः। अथवा रविस्तयोः शनिमङ्गलयोर्मर्ध्येस्थितः। तदा पितृबधो पितृनाशो ज्ञेयः॥ ८॥
** भा० टी०**—जिस के जन्म समय सूर्य से सप्तम में यदि मंगल तथा शनि हो अथवा शनि और मंगल के मध्यगत रवि जिस किसी स्थान में हो तो पिता की मृत्यु को करता है॥ ८॥
कुजेन सहितो भानुः शनिना यदिवीक्षितः।
शनिना संयुतो वापि कुजेन यदि वीक्षितः॥ ९॥
** सं० टी०**—यदि भानुः सूर्यः कुजेन मङ्गलेन सहितस्तथा शनिना वीक्षितः सन्दृष्टः। अथवा भानुः शनिना संयुक्तः कुजेन वीक्षितः। तदैवं विधे योगद्वये जातस्योक्तवत्फलं स्यात्॥ ९॥
** भा० टी०**—जिस के जन्म समय मंगल से युक्त सूर्य को शनि देखता हो अथवा शनि से युक्तसूर्य को मंगल देखता हो तो उसके पिताकी मृत्यु होती है॥ ९॥
दशभिश्च रवौमीने पञ्चभिश्चन्द्रमाहरौ।
द्वाभ्यां चैव कुजे मेषे पितृहासप्तवासरात्॥ १०॥
रवौ दशभिमाने तथा चन्द्रमा पञ्चभिर्हरीसिंहे। तथा कुजे द्वाभ्यां मेषे तदा सप्तवासरात्वितहा स्यात्॥ १०॥
** भा० टी०**—जिस के जन्म समय सूर्य मीन के १० अंश पर चन्द्रमा सिंह में ५ अंश पर और मंगल मेष में २ अंश पर हो तो एवं बिध योग में सात दिन के अन्दर उसके पिताकी मृत्युहोती है॥ १०॥
पञ्चभिर्भार्गवे युग्मे बह्निना म्रियतेशिशुः॥*11
अष्टाविशन्मृगे भौमे पितृहा सप्तवासरात्॥ ११॥
भार्गवे शुक्रे पञ्चभिर्युग्मे मिथुने तदा शिशुर्बह्निना म्रियते। अथ भौमे चाष्टाविशन्मृगे किञ्चाष्टाविंशतिभिर्मकरे तदा सप्तवासरात्पितृहा स्यात्॥ ११॥
** भा० टी०**—जिस के जन्म समय शुक्र मिथुन में ५ अंश पर हो उस बालक की मृत्यु अग्नि से होती है। तथा जिसके जन्म समय मंगल मकर में २८ अंश पर हो उसके पिता की मृत्यु ७ दिन के अन्दर होती है॥११॥
इति पितृरिष्टम्।
अथ पुंस्त्री जन्मज्ञानमाह—
पुरुषः पुरुषक्षेत्रं यदि पश्यति सर्वथा।
तदा पुमान् संजानीयादन्यथा युवतिर्भवेत्॥ १॥
योषित्क्षेत्रगतः शुक्रो बुधो वा यदि पश्यति।
तदा कन्यां विजानीयादन्यथा पुरुषो भवेत्॥ २॥
** सं० टी०**—यदि पुरुषः पुरुषाभिधः खेटः पुरुषक्षेत्रं पुरुषसंज्ञकं राशिं सर्वथा पश्यति तदा पुमान् नरजन्म संञ्जानीयात्। अन्यथा किन्तु स्त्रीसंज्ञकः खेटः स्त्रीराशि पश्यति तदा युवतिः कन्या भवेत्॥१॥
यदि शुक्रो वा बुघो योषित्क्षेत्रगः स्त्रीराशिगतः। तथा वा स्त्रीराशि पश्यति तदा कन्यां विजानीयात्। अन्यथा पुरुषो भवेत्॥ २॥
** भा० टी०**—जिस जन्माङ्ग में पुरुषसंज्ञकग्रह ( सूर्य मङ्गल और बृहस्पति ) पुरुष संज्ञक (मे. मि. सि. तु. ध. कुं.) जन्म लग्नको देखते हो उसमें पुरुष का जन्म कहना चाहिये। अन्यथा स्त्री ग्रह यदि स्त्री संज्ञक जन्म लग्नको देखते हों तो कन्या का जन्म कहना चाहिये॥ १॥
अथ यदि स्त्रीराशिगत शुक्र या बुध स्त्री राशि संज्ञक जन्म लग्न को देखे तो स्त्री का जन्म का जन्म कहना चाहिये अन्यथा पुरुष का जन्म कहना चाहिये॥ २॥
अथ क्लीवजन्मशानमाह—
सौरिदृष्टं बुधयुते शुभयोगविवर्जिते।
बुधमन्दगृहे जातः क्लीव एव न संशयः॥ ३॥
शनिदृष्टे युते वापि बन्ध्या भवति निश्चितम्।
सुतस्थाने द्विपापे च त्रिपापे वाथ संयुते॥ ४॥
तदा स्त्रीपुरुषौ बन्ध्यौ विज्ञेयौ शत्रुषोक्षितौ॥ ५॥
जिस जन्माङ्ग में मिथुन कन्या मकर कुंभ इनमें से कोई जन्म लग्न बुध से युक्त और शनि से दृष्ट हो तथा शुभ ग्रह के योग से रहित हो तो जातक नपुंसक होता है॥ ३॥
यदि पञ्चम भाव शनि से दृष्ट युक्त होतथा दो २ या तीन ३ पाप ग्रह यदि पञ्चम भाव में हो और शत्रु यह से दृष्ट हो तो इस योग में उत्पन्न कन्या तथा पुरुष दोनों सन्तान रहित होते हैं॥ ४॥ ५॥
** अथ द्रेष्काण बशेन स्त्री पुरुष ज्ञानञ्चाह—**
मेषादिद्वादशे राशौ द्रेष्काणं च विनिर्दिशेत्।
एकैकेन तु ऋक्षेण तृतयं तृतयं भवेत्॥ १॥
आदिमध्यान्तभागेन ज्ञातव्यः पुरुषः स्त्रियः।
स्त्रीभागे च भवेत्कन्या पुंभागे पुरुषोभवेत्॥ २॥
** भा० टी०**—मेषादि बारह राशियों में प्रत्येक राशि में तीन तीन द्रेष्काण होता है। अर्थात् प्रत्येक राशि में आदि मध्य और अन्त्य भाग होता है वक्ष्यमाण प्रकार से स्त्री पुरुष द्रेष्काण ज्ञात कर अर्थात् स्त्रीद्रेष्काण मेंस्त्री और पुरुष द्रेष्काण में पुरुष का जन्म होता है॥ १॥२॥
मेषस्य प्रथमे भागे द्रेष्काणे पुरुषो भवेत्।
क्रोधनो वक्रनेत्रश्च कृष्णवर्णो दुरासदः॥ ३॥
द्वितीयभागे सम्प्राप्ते नारी भवति निश्चितम्।
स्थूलोदरी स्थूलमुखी युवती लोहिताकृतिः॥ ४॥
तृतीये पुरुषः शूरो निर्भयश्चाति दुर्मतिः।
कपिलोदारुणश्चैव सत्यशौचविवर्जितः॥ ५॥
** भा० टी०—**मेष राशि के प्रथम द्रेष्काण में क्रोधी बक्र ( तिरछी ) नेत्र से युक्त कृष्ण वर्ण तथा भयङ्कर पुरुष का जन्म होता है॥ ३॥
द्वितीय द्रेष्काण में निश्चय करके स्थूल उदर (पेट) तथा मुख से युक्त और लाल वर्ण वाली स्त्री का जन्म होता है॥ ४॥
तथा तृतीय द्रेष्काण में शूर निर्भय अति दुष्ट तथा कपिल ( भूरा ) वर्ण से युक्त कठोर और सत्य तथा पवित्रता से रहित पुरुष का जन्म होता है॥ ५॥
अथ बृषराशिस्थद्रेष्काणजस्वरूपमाह—
वृषस्य प्रथमे भागेभवेन्नारो पतिव्रता।
स्थूलोदरी दग्धपटा स्वल्पकेशो प्रिंयंवदा॥ ६॥
द्वितीयभागे सम्प्राप्ते कुशलः सर्वकर्मसु।
बृहत्कायो बृहत्पादस्तृतीये पुरुषो महान्॥ ७॥
** भा० टी०**—वृष राशि के प्रथम द्रेष्कारण में स्थूल उदर (पेट) से युक्त जले या फटे कपड़ो से युक्त तथा स्वल्प केशों सेयुक्त औरमधुर बोलनेवाली तथा पतिब्रता स्त्री का जन्म होता है॥ ६॥
द्वितीय द्रेष्काण में सभी कार्यों में चतुर तथा बृहत् शरीर और वृहत्पाद ( चरणों) से युक्त पुरुष का जन्म होता है। एवं वृष के तृतीय द्रेष्काण में श्रेष्ठपुरुष का जन्म होता हैं॥ ७॥
मिथुनराशिस्थद्रेष्ककाणाज स्वरूपमाह—
द्रेष्काणे प्रथमे युग्मे नारी भवति सुन्दरी।
द्वितीये पुरुषः शूरो धनुर्विद्याविशारदः॥ ८॥
तृतीये पुरुषो धन्वी पण्डितो रत्नसंयुतः।
गोधनैरपि संयुक्तः कृषि कर्मणि तत्परः॥ ९॥
** भा० टी०**—मिथुन लग्न के प्रथम द्रेष्काण में सुन्दरी स्त्री का जन्म होता। द्वितीय द्रेष्काण में शूर तथा धनुर्विद्या में चतुर पुरुष का जन्म होता है॥ ८॥
एवं तृतीय द्रेष्काण में धनुषधारी चतुर रत्नों से युक्त तथा गो धन ( गाय बैल इत्यादि) से युक्त और कृषि कार्य में तत्पर पुरुष को जन्म होता है॥ ९॥
कर्कराशिस्थद्रेष्काणज स्वरुपभाह—
कर्कटप्रथमे भागे शरीर हस्तिवद्दृढम्।
मुखं सूकरवज्ज्ञेयं जायते पुरुषो महान्॥ १०॥
द्वितीये सुन्दरी नारो तृतीये सुन्दरः पुमान्।
जनप्रियः सुरूपश्च नौकावाणिज्यतत्परः॥ ११॥
** भा० टी०—**कर्क लग्न के प्रथम द्रेष्काण में हाथी के तरह दृढ शरीर तथा सूकर के तरह लम्बा मुख वाले श्रेष्ठ पुरुष का जन्म होता है॥ १०॥
द्वितीय द्रेष्काण में सुन्दर लोक प्रिय तथा शोभनाकार से युक्त और नौका से वाणिज्य करने वाले पुरुष का जन्म होता है॥ ११॥
अथ सिंह तथा कन्या राशिस्थद्रेष्काणज स्वरुपमाह—
पुरुषःप्रथमे सिंहे मुखं जम्बुकवद्दृढम्।
द्वितीये पुरुषो धन्वी उच्चनाशः सुरूपकः॥ १२॥
तृतीये पुरुषो जातः उच्चनासो हि कन्धरः।
कन्यायाः प्रथमे नारी द्वितीये खेलकः पुमान्॥ १३॥
तृतीये सुन्दरी नारीतुङ्गधौतार्द्रवाससा।
हास्ययुक्ता चन्द्रमुखीलज्जासन्ताबर्जिता॥ १४॥
** भा० टी०**—सिंह लग्न के प्रथम द्रेष्काण में सियार के तरह दृढ मुख से युक्त पुरुष होता है। द्वितीय द्रेष्काण में धनुष को धारण करने वाला तथा उच्च नासिका से युक्त सुन्दर पुरुष होता है। तृतीय द्रेष्काण में उत्पन्न उच्च नासिका तथा कन्धे युक्त पुरुष होता है। कन्या लग्न के प्रथम द्रेष्काण में स्त्री का जन्म होता है, द्वितीय द्रेष्काण में खेल ( क्रीड़ा ) करने वाले पुरुष का जन्म होता है। तृतीय द्रेष्काण में सुन्दर कन्या का जन्म होता है जो कि श्रेष्ठ धौत ( धुले हुए ) तथा आर्द्र बसनों से युक्त हास्य युक्त और चन्द्रमुखी होती है पर लज्जा तथा सन्तान से रहित होती है॥१२॥ १३॥ १४॥
अथ तुला वृश्चिकयोः राशिस्थयोः द्रेष्काण फलमाह—
पुरुषः प्रथमे चैवतुलायाश्च तुलाधरः।
क्षुधितस्तृषितश्चैव द्वितीये पुरुषो भवेत्॥ १५॥
तृतीये पुरुषो दीनो सदा दीर्घमुखः स्मृतः।
स्थाने च्युता भवेन्नारी वृश्चिकप्रथमे भवेत्॥ १६॥
द्वितीये च भवेन्नारी सुखं वाञ्छति सर्वदा।
तृतीये पुरुषश्चैव तस्करश्चञ्चलो भवेत्॥ १७॥
** भा० टी०**—तुला लग्न के प्रथम द्रेष्काण में तराजू तौलने वाले तथा भूखे प्यासे पुरुष का जन्म होता है तथा द्वितीय भाग में भी पुरुष का जन्म होता है। तृतीय द्रेष्काण में दीन तथा दीर्घ मुख पुरुष का जन्म होता है। वृश्चिक लग्न के प्रथम द्रेष्काण में स्थान भ्रष्टा नारी का जन्म होता है। द्वितीय द्रेष्काण में सर्वदा सुख को चाहने वाली कन्या का जन्म होता है। तथा तृतीय द्रेष्काण में पुरुष का जन्म होता है जो कि तस्कर और चञ्चल होता है॥ १५॥ १६॥ १७॥
अथ धनुर्मकरराशिस्थयोः द्रेष्काणफलमाह—
धनुषः प्रथमे धन्वी पुरुषो जायते महान्।
सदा सुरूपा गौराङ्गी द्वितीये सुन्दरी भवेत्॥ १८॥
तृतीये पुरुषः शूरो धनुर्विद्याविशारदः।
मकरप्रथमे भागे पुरुषो जायते महान्॥ १९॥
स्वर्णालङ्कारसंयुक्ता द्वितीये सुन्दरी भवेत्।
तृतीये पुरुषो धन्वी भवेत्स्थूलमुखः सदा॥ २०॥
** भा० टी०**—धन लग्नके प्रथम द्रेष्काण में श्रेष्ठ तथा धनुषधारी पुरुष का जन्म होता है। द्वितीय द्रेष्काण में सर्वदा पुरुष गौरवर्ण युक्त सुन्दरी कन्या का जन्म होता है। तृतीय द्रेष्काण में शूर तथा धनुर्विद्या में कुशल पुरुष का जन्म होता है। मकर लग्न के प्रथम द्रेष्काण में श्रेष्ठ पुरुष का जन्म होता है। द्वितीय द्रेष्काण में सुवर्ण के आभूषणों से संयुक्त सुन्दरी का जन्म होता है। तथा तृतीय द्रेष्काण में स्थूल मुख तथा धनुष धारण करने वाला पुरुष का जन्म होता है॥ १८॥ १९॥ २०॥
अथ कुम्भमीन राशिस्थयोः द्रेष्काण फलमाह—
कुम्भस्य प्रथमे भागे पुरुषस्थूलदन्तकः।
स्थिरबुद्धिः सती चैव द्वितीये सुन्दरी भवेत्॥ २१॥
तृतीये पुरुषः श्यामो रोगकर्णो भवेत्सदा।
पुरुषः प्रथमे मीने भवेल्लोकप्रियः सदा॥ २२॥
द्वितीये सुन्दरी गौरी तृतीये पुरुषो भवेत्।
नारीपुरुषयोर्म्मध्ये सर्वभेदः प्रकीर्त्तितः॥ २३॥
इति स्त्रीपुरुषविचारः।
** भा० टी०**—कुंभ लग्न के प्रथम द्रेष्काण में स्थूल दांत वाले पुरुष का जन्म होता है। द्वितीय द्रेष्काण में स्थिर बुद्धि तथा पतिव्रता स्त्री का जन्म होता है। तृतीय द्रेष्काण में पुरुष का जन्म होता है जो कि श्याम वर्ण तथा कर्णरोग से युक्त होता है। मीन लग्न के प्रथम द्रेष्काण में लोक प्रिय पुरुषका जन्म होता है। द्वितीय द्रेष्काण मेंसुन्दरीतथा गौरवर्णाङ्गी कन्या का तथा तृतीय द्रेष्काण मेंपुरुष का जन्म होता है। ये सभी स्त्री पुरुष के ज्ञानके लिये कहे गये हैं॥ २१॥ २२॥ २३॥
इति स्त्री पुरुष विचार।
अथ जारजकन्याजन्मयोगमाह—
द्वादश्यां तु द्वितीयायां सप्तम्यां भग्नऋक्षके।
रविमन्दकुजे जाता जारजा परिकीर्त्तिता॥ १॥
** सं० टी०**—द्वादश्यां वा द्वितीयां वा सप्तम्यां तिथों तथा भग्नऋक्षके12तथा रविमन्दकुजे वासरे। जाता किञ्चोत्पन्ना कन्या जारजा अन्योत्पन्ना परिकीर्तिता कथिता॥ १॥
** भा० टी०**—जिसके जन्म समय रविवार भौमवार शनिवार इनमें से कोई एक दिन हो तथा भग्न नक्षत्रों ( कृ. पुन. उ. फा. वि. उ. पा. पूभा ) में से कोई एक नक्षत्र हो द्वादशी द्वितीया सप्तमी में से एक कोई तिथि हो अर्थात् इन दिन नक्षत्र और तिथियों में से एक २ का योग हो तो इस योग में जन्मी हुई कन्या जार से ( अन्य से ) पैदा होती है॥ १॥
जारजातभङ्गमाह—
जीवक्षेत्रेऽथजीवाढ्ये जीवेनालोकितेऽथवा।
जीवांशकादिसम्बन्धे जारयोगविभङ्गकृत्॥२॥
** सं० टी०**—जीवक्षेत्रे गुरुराशौ, तथा जीवाढ्ये गुरुयुते। अथवा जीवेनालोकिते गुरुदृष्टे। तथा जीवांशकादिसम्बन्धे गुरोर्नवांशकादिषड्वर्गे सति। तदा जारयोगविभङ्गकृदर्थात्पूर्वोक्तजारयोगस्य नाशकृत्स्यात्॥ २॥
इति सामान्यजारयोगः॥13
** भा० टी०—**यदि जन्म समय जन्म लग्न अथवा चन्द्रमा कोई भी बृहस्पति की राशि में हो अथवा बृहस्पति से युक्त हो अथवा वृहस्पति के अंशादि ( द्रेष्काण वा नवांश वा द्वादशांश या त्रिशांश) में हो तो जारजात योग का नाशक होता है अर्थात् एवं योग में जात बालक अपने पिता का औरस पुत्र होता है॥ २॥
अथाङ्गभङ्ग योगानाह—
मौमक्षेत्रे गते लग्ने रविक्षेत्रे शनैश्चरे।
स पापेन युतो वापि भुजच्छेदो भवेद्ध्रुवम्॥ १॥
** सं० टी०**—लग्ने भौमक्षेत्रगते मेषवृश्चिकराशिगे तथा शनैश्चरे रविक्षेत्रे सिहराशिगते तथा स च पापेन पापग्रहेण युतः सहितः। तदा ध्रुवं निश्चितं भुजच्छेदो हस्तनाशो भवेत्॥ १॥
** भा० टी०**—जिसके जन्म समय मेष या वृश्चिक लग्न हो और शनि पाप ग्रह से युक्त होकर सिंह राशि में हो तो उसका निश्चित भुजच्छेद ( अर्थात् हाथ किसी शस्त्र से कट जाता है ) होता है॥ १॥
शत्रुगेहे यदा शौरिः शत्रुयुक्तोरिवीक्षितः।
एकपादकरच्छेदः प्राक्तनैः परिकीर्त्तितः॥ २॥
यदा शौरिः शनिः शत्रुगेहे स्वशत्रुराशिगः। तथा शत्रुयुक्तः स्वशत्रुणा सहितः। तथारिवीक्षितः शत्रुदृष्टः। तदा प्राक्तनैः प्राचीनगणकैरेकपादकरच्छेदः स्यादर्थादेकचरणस्य तथैकहस्तस्य च नाशो भवेत्। इति कथितः॥ २॥
** भा० टी०**—जिस के जन्म समय शनि शत्रु ग्रह से युक्तऔर शत्रु से दृष्ट होता हुआ शत्रु ग्रहकी राशि में हो तो उसके एक हाथ तथा एक पैर का भंग ( नाश होता है॥ २॥
मृत्युस्थानगतो भौमः शनिराहुयुतेक्षितः।
चतुर्हस्तपदच्छेदो मुनिभिः परिकीर्त्तितः॥ ३॥
भौमौ मृत्युस्थानगतो लग्नादष्टमस्थानस्थितः। तथा शनिराहुयुतेक्षितः शनिराहूभ्यां युतदृष्टः। तदा मुनिभिश्चतुर्हस्तपदच्छेदः परिकीर्तितः किन्तु चतुर्हस्तस्तथा चरणनाशश्च कथितः॥ ३॥
** भा० टी०**—जिस के जन्म समय शनि तथा राहु से युक्त दृष्ट भौम अष्टम स्थान में हो तो उसके चारों हाथ और पैर का भंग होता है॥ ३॥
शनिगेहे यदा राहुः शशी सिहेभवेद्यदि।
शिरश्छेदाख्ययोगोऽयं विष्णुना परिकीर्त्तितः॥ ४॥
** सं० टी०**—राहुः शनिगेहे मकरकुम्भराशौ गतः। तथा शशी चन्द्र सिंहे भवेत्। तदा विष्णुनाऽयं शिरश्छेदाख्ययोगः परिकीर्तितः कथितः॥ ४॥
** भा० टी०**—जिसके जन्म समय राहु मकर या कुम्भ में हो तथा चन्द्रमा यदि सिंह राशि में हो तो उसका शिरच्छेद होता है (अर्थात् चोट आदि से शिर कुछ कट जाता है अर्थात् घाव वगैरह होने से चीड़ा जाता है ) यह शिरच्छेद योग श्री विष्णु भगवान से कहा गया है॥ ४॥
अष्टमस्थो यदा सोमो रबियुक्तोभवेद्यदि।
शिरश्छेदाख्ययोगोऽयं विष्णुना प्रकीर्त्तितः॥ ५॥
** सं० टी०**—यदा सोमश्चन्दोष्टमस्थस्तथा यदि रवियुक्तः। तदा विष्णुनैवायं शिरश्छेदाख्ययोगः प्रकीर्तितः॥ ५॥
** भा० टी०**—यदि सूर्य से युक्त चन्द्रमा अष्टम में हो तो यह भी शिरच्छेद योग होता है यह भी श्री विष्णु भगवान् से कहा गया है इस योग में उत्पन्न बालक का शिर किसी कारण से चीड़ फाड़ को प्राप्त होता है॥ ५॥
नेत्रनाश योग माह—
पापत्रययुतः सोमः शत्रुगेहे व्यवस्थितः।
शुभग्रहा न पश्यन्ति चक्षुर्नाशो भवेद्ध्रुवम्॥ ६॥
यदा सोमश्चन्द्रः पापत्रययुतः पापग्रहत्रयेण सहितस्तथा शत्रुगेहे स्वशत्रुराशौ व्यवस्थितः संस्थितः। तथा शुभग्रहास्तं चन्द्रं न पश्यन्ति। तदा ध्रुवं निश्चितं चक्षुर्नाशो नेत्रनाशो भवेत्॥ ६॥
** भा० टी०—**यदि तीन पाप ग्रहों से युक्त होकर चन्द्रमा पष्ट स्थान ( भाव ) में हो तथा कोई भी शुभ ग्रह उसे देखता नही हो तो निश्चित नेत्र नाश करता है॥ ६॥
अथ खञ्जयोगमाह—
कन्टकस्थो यदा सौरिः शशियुक्तोभवेद्यदि।
शुभग्रहा न पश्यन्ति खञ्जो भवति नान्यथा॥ ७॥
यदा सौरिः शनिः कन्टकस्थः केन्द्रगतस्तथा शशियुक्तश्चन्द्रसहितः। तथा शुभग्रहास्तं शनिं न पश्यन्ति तदा जातः खञ्जः पङ्गुर्भवति। अन्यथा न स्यात्। कर्कटस्थो” इति पाठान्तरम्॥ ७॥
** भा० टी०—** यदि चन्द्रमा से युक्त शनि केन्द्र स्थान में हो तथा शनि को शुभ ग्रह नहीं देखते हो तो जातक खञ्ज अर्थात् पङ्गु होता॥ ७॥
अथ काणयोगमाह —
अष्टमस्थो यदा भानुः शशिशुक्रावलोकितः।
रिपुगेहे विशेषेण काणयोगो भवेद्ध्रुवम्॥ ८॥
** सं० टी०**—यदा भानुरष्टमस्थस्तस्था शशिशुक्रावलोकितश्चन्द्रशुक्राभ्यां सन्दृष्टः। तथा रिपुगेहे शत्रुराशौ स्थितः। तदा विशेषेणायं ध्रुवं काणयोगो नेत्रनाशकयोगो भवेत्॥ ८॥
** भा० टी०**—यदि चन्द्रमा तथा शुक्रसे दृष्ट सूर्य यदि शत्रु ग्रहके राशिका होकर अष्टम स्थान में हो तो विशेष करके काण योग होता है॥ ८॥
अथ महापातक योगमाह—
राहुणा सहितो मन्दः पापर्क्षेशत्रुवीक्षितः।
महापातकयोगोऽयं यदि ब्रह्मसमो भवेत्॥ ९॥
** सं० टी०**—यदा मन्दः शनी राहुणा सहितस्तथा पापर्क्षे पापराशौ गतस्तथा शत्रुवीक्षितिः शत्रुदृष्टस्तदाऽयं महापातकयोगः स्यादर्थादस्मिन् योगे यस्य जन्म स च महत्पापकारको भवेत्। यदि ब्रह्म समोभवेत्तथापि जातो महत्पापकारकः॥ ९॥
** भा० टी०**— यदि शत्रु ग्रह से दृष्ट तथाराहु सेयुक्त शनि पाप ग्रहके राशि में हो तो यह पातक योग होता है इस योग में उत्पन्न नर यदि ब्रह्मा के तुल्य भी हो तो महत्पाप कारक अर्थात् ब्रह्म घाती होता है॥ ९॥
अन्यच्च माह —
पापत्रययुतश्चन्द्रो रविभौमावलोकितः।
स भवेद्ब्रह्मघाती च शनियुक्तश्च गोवधी॥ १०॥
यदा चन्द्रः पापत्रययुतस्त्रिभिः पापग्रहैः सहितः। तथा रविभौमाबलोकितः। तदा स च जातो ब्रह्मघाती ब्रह्महत्यादिपापकारकः। अत्रैवं यदि स चन्द्रः शनिना युक्तस्तदा जातो गोवधी गोहननकारकः स्यात्॥ १०॥
** भा० टी०**—जिसके जन्म समय सूर्य तथा भौम से दृष्ट चन्द्रमा तीन पापग्रहों से युक्त हो वह ब्रह्मघातक होता है। अथ यदि रवि तथा मंगल से दृष्ट चन्द्रमा केवल शनि से युक्त हो तो जातक गोघातक होता है॥ १०॥
अथ आत्मघातकयोगमाह—
एकत्र च त्रयः पापा ग्रहास्तिष्ठन्ति यस्य च।
शूलयोगो भवेत्तस्य नात्र कार्या विचारणा॥ ११॥
यस्य जन्म समये त्रयः पापग्रहा एकत्रस्थाने तिष्ठन्ति। तस्य शूलयोगो भवेत्। अत्रास्मिन् शूलयोग विचारणा न कार्या अर्थादस्मिन्योगे समुत्पन्नस्य नरस्य किमुतफल वक्तव्यं किन्तु स्वतः स च शूलादिना पापकारकः॥ ११॥
** भा० टी०—**जिसके जन्म समय तीन पाप ग्रह एकत्र स्थित हो ( परञ्च शुभ से युक्त दृष्ट न हों ) तो वह जातक स्वयं फांसी आदि लगाकर आत्म हत्या करताहै इस में विचार ने की आवश्यकता नहीं है॥ ११॥
अथ पापिष्ठयोगमाह—
पापत्रययुतः सूर्यः शुक्राचार्यविवर्जितः।
पापिष्ठं कुरुते नित्यं स्वल्पायुश्च न संशयः॥ १२॥
यदा सूर्यः पापत्रययुतः पापग्रहत्रयेण सहितः। तथा शुक्राचार्यविवर्जितः शुक्रेण युतो न तथा दृष्टो न स्यात्। तदा स चार्कः पापिष्ठं नरं नित्यं कुरुते तथा स्वल्पायुश्व भवेदिति संशयो न स्यात्॥ १२॥
** भा० टी०**—जिसके जन्म समय शुक्र के योग तथा दृष्टि रहित सूर्य तीन पाप ग्रहों से युक्त हो तो जातक नित्य अत्यन्त पाप करने वाला होता है तथा अल्पायु होता है॥ १२॥
अन्यच्च—
पापगेहे पापखगो रविभौमावलोकितः।
ब्रह्मघाती भवेन्नित्यं सूर्यपुत्रेण गोवधी॥ १३॥
यदि पापगेहे पापराशौ पापखगः पापग्रहस्तथा रविभौमावलोकितः। तदा नित्यं स च जातो ब्रह्मघाती भवेत्। तथा यदि स च पापग्रहः सूर्यपुत्रेण शनिना सहितस्तदा स च गोवधी स्यात्॥ १३॥
** भा० टी०**—जिसके जम्म समय सूर्य तथा मंगल से दृष्ट कोई पाप ग्रह ( राहु या केतु अथवा शनि) किसी पाप ग्रह के राशि में हो तो वह जातक ब्रह्म घातक होता है तथा यदि शनि से युक्त वह पाप ग्रह हो तो गोबध करने वाला होता है॥ १३॥
अथ पशुभिर्मरण योगमाह—
चन्द्रसूर्यगृहे राहुश्चन्द्रसूर्ययुतो यदि।
मृत्युस्थो मदनस्थो वा पशुभिर्हन्यते तदा॥ १४॥
यदा राहुश्चन्द्रसूर्यगृहे कर्के वा सिंहेगतः तथाचन्द्रसूर्ययुतः। तथा तादृशो राहुर्मृत्युस्थो लग्नादष्टमस्यो वा मदनस्थः सप्तमगतः। तदा स च नर पशुभिर्हन्यते॥ १४॥
** भा० टी०**—जिसके जन्मसमय कर्क अथवा सिंह राशि का राहु अष्टम अथवा सप्तम में हो तथा चन्द्रमा सूर्य के साथ हो तो वह जातक पशु से मृत्यु को प्राप्त होता है॥ १४॥
अथ जलजन्तुभिर्मरण योगमाह—
शत्रुगेहे यदा सौम्यः शत्रुयुक्तोरिवीक्षितः।
षष्ठाष्टमस्थितश्चन्द्रो हन्यतेजलजन्तुभिः॥ १५॥
यदा सौम्यः शत्रुगेहे स्थितस्तथा शत्रुयुक्तः। वारिवीक्षितः शत्रुदृष्ठः। तथा चन्द्रः षष्ठाष्टमस्थितः। तदा जातो नरो जलजन्तुभिः किन्तु गोधादिकैर्हन्यते॥ १५॥
** भा० टी०**—यदि बुध शत्रु से युक्त या दृष्ट होकर शत्रु ग्रहकी राशि में हो तथा चन्द्रमा षष्ट या अष्टम में हो तो जातक गोधादिकों से मृत्यु को प्राप्त होता है॥ १५॥
अथ सर्पेण मृत्यु योगमाह —
मृत्युस्थो यदि वा भौमः शत्रुगेहेन्दुसयुतः।
एष नाशकरो योगो द्विजिह्वेनन संशयः॥ १६॥
यदि वा भौमो मृत्युस्थोः लगादष्टमगस्तथाशत्रुगेहे स्थिः। तथेन्दुसंयुतश्चन्द्रसहितः। तथा “शनियुक्तस्तथा रिपोर्गृहे स्वशत्रुराशौ गतः। तदैष योगोद्विजह्वेन सर्पादिना नाशकरो मृत्युकरः स्यात्। इति संशयो न॥ १६॥
** भा० टी०**—जिसके जन्म समय मंगल अपने शत्रु ग्रह के राशि में चन्द्रमा से युक्त हो तो उसकी सर्प से मृत्यु होती है। इसमें संशय नहीं है॥ १६॥
अथ जातिभ्रष्ट योगमाह—
अष्टमे सप्तमे वापि रविराहुकुजार्कजाः।
ध्रुवमश्नाति नीचान्नं यदि स्यान्मघवानपि॥ १७॥
यदि रविराहुकुजार्कजा अष्टने वा सप्तमेस्थिताः स्युः। तदैवं योगे जातो ध्रुवं नीचान्नं हीनवर्णस्यान्नमश्नाति भक्षति यदि मघवानिन्द्रोपि स्यात्तदैवं योगे जातिभ्रष्टो भवेत्॥ १७॥
यदि रवि राहुमङ्गल और शनि यदि ये चारों ग्रह सप्तम या अष्टम में हो तो इस योग में यदि इन्द्र भी जन्म लें तो वह भी नीचजाति के अन्न को खाते है तो अन्य पुरुष की गणना ही क्या॥ १७॥
अन्यच्च—
लग्नाद्व्ययगतो राहुः पातित्यं कारयेत् ध्रुवम्।
पापक्षेत्रत्विदं वाच्यं मिथ्यावादं शुभालये॥ १८॥
यदा राहुर्लग्नाद्व्ययगतो द्वादशस्थः। तदोत्पन्नंनरं ध्रुवं पातित्यं जातिभ्रष्टं कारयेत्। परञ्चैवं तदैव यदा स च राहुः पापक्षेत्रे पापराशौ स्थितः। यदि तादृशो राहुः शुभालये शुभराशौ गतस्तदा यिध्यावादं कारयेत्॥ १८॥
** भा० टी०—**यदि जन्म लग्न सेव्यय भाव में राहु हो तो जाति भ्रष्टकरता है परञ्च यदि उक्त राहु पाप ग्रहके राशि में हो तो उक्त फल होता है। यदि शुभ ग्रह के राशि में हो तो मिथ्या अपवाद होता है॥ १८॥
अथ रिपुभिर्नाश योगमाह —
शत्रुस्थाने स्थितो जीवो रिपुगेहे बुधेक्षितः।
एष शत्रुहतो योगो यदि शक्रसमो भवेत्॥ १९॥*14
यदि जीवो बृहस्पतिः शत्रुस्थाने लग्नात्षष्ठस्थाने स्थितः। तथा रिपुगेहे स्वशत्रुराशौगतस्तथा बुधेक्षितो बुधदृष्टः। तदैष योगः शत्रुहतो स्वशत्रुणा नाशकरो भवेत्। यदि शक्रसमः स्यात्तथापीदं फलं भवेत्॥ १९॥
इति प्रजापतिदाससङ्गृहीतो दुर्मरणयोग समाप्तः।
** भा० टी०**—जिस के जन्म समय लग्न से षष्ट स्थान में बृहस्पति शत्रु ग्रह की राशि में हो तथा बुध से दृष्ट हो तो यदि जातक इन्द्र तुल्य भी पराक्रमी हो तौभी शत्रु से मारा जाता है॥ १९॥
इति गणितफलितज्यौतिषाचार्य पण्डित श्रीगोबिन्द शर्म
पाण्डेय कृता सरला भाषा—टीका समाप्ताः।
भीभाइनाथोऽजनि विद्वरिष्ठः,
तज्जयेष्ठपुत्रो बवुए पटिष्ठः।
नेनाभिधानः किलतत्कीलतत्कनिष्ठः,
तत्पृष्ठजातो निजधर्मनिष्ठः॥ १॥
कैलूसमाख्योऽस्य च पृष्ठजन्मा,
मुकुन्दमूर्त्तिस्तु मुकुन्दनामा।
ज्येष्ठात्मजाद्यो विदितैकनामा,
सोनेसमाख्यः सुकृतैकधामा॥ ४॥
तस्यानुजः श्रीयुतनन्दलालः,
स्वविक्रमेणाखिललोकलालः।
तत्पृष्ठजः प्राप्तसुतन्त्रजालः,
श्रीलादिनाथाद्वरजः सुशीलः॥ ३॥
श्रीकृष्णदत्तोऽकृत वै विशुद्धां,
सुबोधिनीं सत्स्वरशास्त्रजतम्।
रसाश्विनागेन्दुशकेऽब्दजाते,
पौषेऽतिथावीशपुरेऽवलक्षे॥ ४॥
टीकाकर्त्तुर्वंशपरिचयः।
नागनन्दनिधिभूमितेऽब्दके रामजन्मनि तिथौ शुभे मधौ।
या स्वरेविवृतिराशुगादिमे सा समर्पिशिवयोः पदाम्बुजे॥ १॥
अस्ति श्रीबलियापुरस्य सविधैपूरेतिनाम्नाश्रुतो
ग्रामो भूमिसुरैः सुभाषितशतैर्भ्राजन्मुखैः संश्रितः।
तत्रोदारगुणावलीवलयितो जातो विदामग्रणीः,
शश्वत्श्रीपति पादपद्मनिरतो रामोऽपि योलक्ष्मणः॥ २॥
तस्य श्रीकमलापतेरिव भुजाश्चत्वार आसन् सुताः,
ज्यायान् रामउमेदपण्डितवरोज्योतिर्विदां संमतः।
द्वैतीयीक उदारशक्तिरतुलोलोकेगणेशः सुधीः,
तार्तीयीक इहास्ति भूमिबलये मान्यो महेशो बुधः॥ ३॥
भ्राता तस्य लघुर्गुणैः किलगुरुर्विन्ध्येश्वरी संज्ञया,
वित्तोऽसौ भुवने प्रसादपरया दोषज्ञचूडामणिः।
यः सौमित्रिरिवाग्रजस्य सततं सेवापरः सादरं,
श्रीमन्तं मनुते महेशविवुधं मूर्त्यन्तरं शङ्करम्॥ ४॥
श्रीमन्महेशस्य सुतः सुतीब्र तपःप्रभावोज्ज्वलितस्य लोके।
गोविन्दशर्माऽस्मिमयाब्यधायि पञ्चस्वरे विवृतिरत्रहृद्या॥ ५॥
अन्नपूर्णाविश्वनाथौ जननी जनकाविव।
सर्वस्वं मम तावेव विश्वस्मिन्मङ्गलप्रदौ॥ ६॥
॥ इति शुभम्॥
मुद्रकः—
श्रीरामदास,
श्रीराम प्रेस, बुलानाला, काशी।
]
-
“एवं कर्कादि मीन पर्यन्त राशियों को दो दो राशियों से तथा मेष वृष मिथुन राशि को तीन२ राशियों से ये कहा गया है। गोविन्दशर्मा ।” ↩︎
-
“अत्र तु मानैक्येन नवत्रयमायात्यतः " ↩︎
-
“विशेषता यह है कि मेष वृष मिथुन राशियों में स्वस्थान स्थित अङ्कों का अभाव तथा कर्क सिंह कन्या राशियों में वाम स्थित अङ्कों का अभाव, तुला वृश्चिक धन राशियों में सम्मुख अङ्कों का अभाव और मकर कुम्भ भीन राशियों में दक्षिण कर्ण स्थित अङ्कों का अभाव है इसलिये आचार्य ने तीन २ ही स्थानों के अङ्कों का योग किया है। गोविन्द शर्मा ।” ↩︎
-
“वक्रोदयस्बहहर्म्योष्विति पाठान्तरम्” ↩︎
-
“* क्षीणचन्द्र पूर्णचन्द्रयोर्लक्षणमाह वसिष्ठेन- संपूर्णेन्दूमयाष्टम्यो र्मध्येन्दुः पूर्ण संज्ञकः। विनष्टेन्दुमयाष्टम्यो मध्ये सौ क्षीण संज्ञकः॥ १॥ गोविन्दशर्मा। संपूर्णदुः पूर्णिमा— सारावल्यम्—उच्च राशौ बिलोमे च बलं नान्यैर्हरिष्यते। कालस्याति बहुत्वाच्च तस्मात्स्वोच्चैऽति वक्रिते॥ १॥ गोविन्दशर्मा।” ↩︎
-
“यदुक्तं श्रीवराह मिहिराचाय—अज वृषभ मृगाङ्गता कुलीरा झष वणिजौ च दिवाकरादि तुङ्गाः । दश शिखि मनुयुक् तिथीन्द्रियांशै स्त्रिनवक विंशतिभिश्च तेऽस्तनीचाः ॥ १ ॥” ↩︎
-
“अथाचार्योंक्त कार्तिकादिमाम कल्पना कार्तिक शुद्ध जन्मवतः समीचीनारयात् । अन्येषां जन्मदिनादेव वर्ष प्रभागो फलार्थ गणकैः प्रकल्यः ।” ↩︎
-
“मेषा दुभान्यतः स्वक्षं तिथ्यङ्क योगः इस वाक्य के आधार पर वृषादि से तिथ्यङ्कयोग करते हैं, तथा वृषराशि के जन्मवाले की १ संख्या मिथुन राशिवाले की २ एवं क्रमसे मेष राशिके जन्म वाले की संख्या १२ गणना किया जाता है । तथा यक्रम परस्परा सम्प्रदाय से भी सिद्ध है ।” ↩︎
-
“यथाहः - मासे तु शुक्ल प्रतिपत्प्रवृतेः पूर्वे शशी मध्यबलोदशाहे । श्रेष्ठो द्वितीयेऽल्प बलस्तृतीये सौम्यैश्च दृष्टो बलवान्सदैव ॥ १ ॥” ↩︎
-
“षष्टाष्टमे यदा पापः इति पाठान्तरम् ॥” ↩︎
-
“जथानुक्तकालारिष्टः वर्षनातिक्रामति तथा तत्कालपरिज्ञानञ्चाह श्रीवराहमिहिराचार्य प्रणीते बृहज्जातके- योगे स्थानं गतवति त्रलिनश्चन्द्रे स्वंवा तनुगृहमथवा । पापैर्दृष्टे बलवत्ति मरणं वर्षस्यान्तः किल मुनि गदितम् ॥ १ ॥” ↩︎
-
“भद्राख्य तिथि युक्तेषु, त्रिपादर्क्षान्वितेषु च । मन्दार्क भौमबारेषु ज्ञातमन्योद्भवं विदुः ॥ १ ॥” ↩︎
-
“यदुक्तं भगवान्गार्गिः - गुरुक्षेत्रगते चन्द्रे तद्युक्ते चान्यराशिगे । तद्रेष्काणे तदंशेवा न परैर्जात इष्यते ॥ १ ॥” ↩︎
-
“स्वगेहे शुभगेहे वा षष्टो गुरुरमित्रहा । शत्रुगे अरिणा दृष्टः शत्रुपीडां ददाति सः ॥ होरा रत्ने ॥ गोविन्दः” ↩︎