[[गोलदीपिका Source: EB]]
[
[TABLE]
[TABLE]
[TABLE]
PREFACE
The edition of the Goladîpikâis based on three plamleafmanuscripts in Malayalam charectersobtained from the Raja ofIdappalli.The manuscript markedक in the foot notes, contains fower mistakes than the other two manuscrits Through the work has neither commentary nor illustrationsn it is published in the hope that it might be of some use to students of Hindu Astronomy.
Theauthor of this work is Parameshwara. He says in the 69th sloka of this work that he has written acommentry called Siddântadîpikâ on the Mahabhâskariya Bhashya. In his Bhâshya on Âryabhatiya, Nîlakanthu observes**“अश्वत्थग्रामजो भार्गव परमेश्वर सिद्धान्तदीपिकया
प्राह”। i e,“Parameshwara of the Bhargava Gotra”, born on the Asvatthagrâma is the same as the present “Âlattur” m kerala country. Agan the wordsअत्रनीलातटे** in the lineगोकर्ण ग्रहणं भानोनोत्र दृष्ट नीलातटे iquoted by Nilakantha as taken from the siddantadipîkâ ofparameshwara, make it evident that Parameshwara must have also been an number of some place on the banks of the Nilâ Nilakantha observes in another place in his Bhâshya that Parameshwara was written n word calledदृग्गणित from which he (Nilakantha) quotes the following verse,
“एव दृग्गणित शाके त्रीषुविश्वमितेकृतम्।
परमादीश्वरेणैतत् प्रायाभवति दृक्समम् ॥”
** **It clear from this verse that the Driggunita was written in Saka 1353 and that the author must have lived about 1430 A,O
A commentry called Bhatadipika written by Parameshwara on ÂryabhatÎya has been published in Loiden The author is also known to have written commentaries on the Lilavathi, the Laghumanasa and the Laghubhashariva.
Trivandrum,
11th August 1916
T GANÀPATI SÂSTRÎ
निवेदना।
केरलीयलिस्तालपत्रात्मका इटप्पल्लिराजदत्तास्त्रयआदर्शग्रन्था अस्या गिलदीपिकाया मुद्रणाधारा। तत्र क.सज्ञ इतरापेक्ष्य शुद्धा। व्याख्यानादिविकलापीय गोलव्युत्पत्सूना कमप्युपकारमदधीते सम्प्रति यथामातृक शोधयित्वा प्रकाशिता।
अस्या प्रणेता परमेश्वरः। एष इहव ऊनसप्ततितमे श्लोके महाभास्करीयभाष्यव्याख्या सिद्धान्तदीपिका नाम म्वेन प्रणीतामाह। आर्यभटीयभाष्ये गोलपादान्ते परमेश्वरपुत्रदामोदरशिष्यो नीलकण्ठ आह—“अश्वत्थग्रामजो भार्गव परमेश्वर सिद्धान्तदीपिकाया प्राह” इति।तत्र ‘अश्वत्थग्राम इति आलत्तूरग्राम उच्यते। स च केरलीय प्रसिद्ध। नीलकण्ठेन सिद्धान्तदीपिकाया उद्धृत्योदाहृते
“गोकर्णे ग्रहण भानोर्नात्र दृष्ट निलातटे”
इति परमेश्वरीयश्लोके ‘अत्र निलातटे’ इति निलातटसन्निकृष्टत्वोक्त्या परमेश्वरो निलानदीतटवासात्यपि प्रतीयते। अपि च आर्यभटीयभाष्ये, नीलकण्ठः परमेश्वरेण दृग्गणित कृतमित्युक्त्वा
“एव दृग्गणित शाके त्रीषुविश्वमितेकृतम्।
परमादीश्वरेणैतत् प्रायो भवति दृक्समम् ॥”
इति दृगाणितग्रन्थान्तस्य श्लोकमुदाहृतवान्। तत्र ‘त्रीषुविश्वमिते शांके’ इति कालनिर्देशात् १३५३ तमे शालिवाहनशकाब्दे अस्मद्ग्रन्थकारपरमेश्वरस्य स्थितिरासीदिति स्पष्टमेव।
परमेश्वरेण प्रणीता भटदापिका नामार्यभटीयव्याख्या लीङ्ग्नगरे मुद्रितास्ति। लीलावती-लघुमानस लघुभास्करीयाणामपि व्याख्यानानि अनेन निर्मितानि।
अनन्तशयनम्
११-८-१९१६
त.गणपतिशास्त्रि.
॥श्री.॥
श्रीपरमेश्वरप्रणीता
गोलदीपिका।
विघ्नेशं वाग्देवीं गुरुन् दिनेशादिकान् प्रहान् नत्वा।
वक्ष्ये भगोलमस्मै क्षोणीमानादिक च लघुमतये ॥ १॥
अधऊर्ध्वयाम्यसौम्यगमिह वृत्तं दक्षिणोत्तराख्यंस्यात्।
अधऊर्ध्वाभ्यां घाटिकमक्षाग्रे याम्पसौम्यवोर्लग्नम् ॥२॥
तस्याप्यऊर्ध्वाभ्यां तद्वत् परमा1पमेऽपमं लग्नम्।
घाटिकमध्ये तिर्यग्रशनावृत्तस्य वृत्तमपर स्थात् ॥ ३॥
एतद् विषुवत्सज्ञं घाटिकमपि दक्षिणोत्तरं च तथा ।
अपमण्डलारयवृत्तेपूर्वाभिमुखोरवि सदा चरति ॥४॥
घाटिकमध्यगविपुवद्याम्योत्तरवृत्तयोर्मिथोयोगात्।
स्वस्तिकयुग्मं यत् स्यात् तत्प्रोतो गोलमध्यगतदण्डः॥
समवृत्तामपि भूमि भगोलदण्डस्य मध्यगां कुर्यात्।
काष्टेन वा मृदा वाप्राणिनिवासादि कल्पयेत् तस्याम्॥
प्रवहमरुप्रक्षिप्तो2 भगोल उर्वीं प्रदक्षिणीकृत्य।
अपराभिमुखं षष्ट्या घटिकाभिर्भ्रमति भूयोऽपि ॥७॥
भूपृष्ठादुपरि मरुद्र रवियोजनसंमितान्तरे प्रवहः।
नियतगतिरपरगः स्याद् भृवापुरधश्च तस्य भिन्नगतिः॥
घाटिकषष्ट्यंशस्य भ्रमणे कालोऽत्रनाडिकेत्युदिता।
न तु दिवसषष्ठिभागो गोलभ्रमणाद् यतोऽधिको दिवसः॥
घा3टिकमण्डलपार्श्वे घाटिकवृत्तानुसारि यद् वृत्तम्।
सूर्यस्य भ्रमणस्थं स्वाहोरात्रार्धवृत्तमुदितं तत् ॥१०॥
तानि बहूनि भवन्ति च दिवसे दिवसे यतोऽर्कगतिभेदः।
नक्षत्रगोल4 एष हि बाह्योऽस्य च निश्चलः5 खगोलः5 स्यात् ॥
पूर्वापराधऊर्ध्वगमुदितं सममण्डलं खगोलस्थम् ।
याम्योत्तराधऊर्ध्वगम6पि तस्मिन् दक्षिणोतराख्यंस्यात् ॥
पूर्वापरयाम्योदग्गतमिह भूपार्श्वसंस्थितं क्षितिजम् ।
तस्मिन्नुदयास्तमयौ सर्वेषां हि ग्रहाणां स्तः ॥ १३॥
याम्येऽधश्चोर्ध्वमुदक् क्षितिजादक्षांशकान्तरे लग्नम् ।
प्रागपरयोश्च7लग्नं विद्यादुन्मण्डलं खगोलस्थम् ॥ १५ ॥
उन्मण्डलयाम्योदक्स्वस्तिकयातश्च गोलदण्डोऽयम्।
उन्मण्डलोर्ध्वभागे भ्रमणं गोलस्य खाग्निनाडीभिः॥
उन्मण्डलदधःस्थं सौम्ये याम्ये तदूर्ध्वगं क्षितिजम्।
तस्मात् सौम्यगतेऽर्के दिनमधिकं याम्यगे निशाप्यधिका॥
कृत्वा वा प्रागपरं घाटिकमन्यच्चतद्वशात् कृत्वा।
उन्मण्डलयाम्योदक्स्वस्तिकनिष्प्रोतदण्डकं कुर्यात्॥
अचलानि भानि तेषामधः क्रमान्मन्दजीवकुजदिनपाः।
भूगबुधशशिनश्चैते प्राग्गतयो गोलवेगतोऽपरगाः ॥१८॥
योजनसंख्या8 तुल्या तेषां दिवसे गतौ कला भिन्नाः।
कक्ष्या महत्युपरिगा यस्माल्लिप्ताः समाश्चसर्वासु॥ १९ ॥
मन्दगतिरिन्दुरार्किः शीघ्रगतिस्तारकास्तु शीघ्रतराः।
गच्छन्त्यपराभिमुखं सर्वेऽप्येवं वदन्ति किल केचित् ॥
एतन्न युक्तमिति हि ब्रुवन्ति गोले कृतश्रमा गणकाः।
वक्रगविहगस्य यतः स्वपश्चिमाशागतर्क्षसंयोगः ॥ २१ ॥
मण्डलमर्कादीनां गोलाकारं स्मृतं गणकवर्यैः ।
तैजसमर्कस्य तु तच्चन्द्रस्याप्यं स्वतः प्रकाशोनम् ॥२२ ॥
दर्पणवृत्ताकारं मण्डलमिच्छन्ति ये तु ते मुग्धाः।
शौक्ल्यस्य क्रमवृद्धिर्घटते यस्माद् विधोर्न तत्पक्षे ॥२३॥
सलिलमये शशिगि रवेर्दीधितयो मूर्छितास्तमो नैशम् ।
क्षपयन्ति दर्पणगता मन्दिरगमिवेति चार्यजनवाक्यम्॥
गोलाकारा पृथिवी खेतिष्ठति सर्वदा स्वशक्त्यैव ।
स्थलबहुलमृर्ध्वगार्धं जलबहुलमधोऽब्धयोऽत्र दीपाः॥
भूमिरनन्तेन धृतेत्येऽन्ये दिग्गजैरिति ब्रुवते।
आधारस्य च कल्प्योऽत्राधारोऽतोऽनवस्थितिस्तेषाम्॥
पूर्वाभिमुखं भ्रमति क्षोणी नास्ति भ्रमः खगर्क्षाणाम् ।
इति किल वदन्ति केचिन्नाभिमतं तदपि चार्यभ9टबुधस्या॥
अधउपरिपार्श्वभागेप्वत्या नियतं वसन्ति वसुधायाः।
दितिसुतदेवनराद्याः प्राणिविशेषास्तथा सरिदगाद्याः॥
भूमध्यगतं चक्रं सर्वेषां प्राणिनामधःस्थानम्।
भूपृष्ठे सर्वत्र प्राणिजलादेः स्थितिस्ततो घटते ॥ २९ ॥
योजनसङ्ख्या गदिता भूवृत्तस्याङ्करन्ध्रयमलगुणाः।
आर्यभटेन तथोक्तं योजनमात्रो भवेच्च मेरुरिति ॥
भूमेर्योजनमानं बहुकोटिमितं वदन्ति सुधियोऽन्ये ।
नैतद्गणकाभिमतं यतोऽन्यथा मानसिद्भिरक्षवशात् ॥
समयाम्योदग्देशद्वयपलभागान्तरोद्धृता तु तयोः।
विवरगभूमिश्चक्रांशताडिता स्याद् भुवः परिधिमानम् ।
योजनमितपलसङ्ख्या भूपृष्ठे चेदनेकलक्षमिता ।
भूगोलान्तर्योजनपलसङ्ख्या चेदनेककोटिमिता ॥३३॥
प्राणिनिवासो ह्यन्तः पातालेष्वपि च भवति मेदिन्याः ।
वाक्यविरोध एवं विचिन्त्य सुधिया सुधीभिरिह नेयः॥
अत्युन्नतिश्च मेरोर्न चिन्त्यते गोलविद्भिरिह गणकैः।
यस्माद् ध्रुवस्य सौम्ये प्राग्गमिन्यो भवन्ति रवेताराः ॥
केचिद् वदन्ति भूमेरूर्ध्वं चाधः प्रविष्ट इति मेरुः।
आर्यभटेनात्रोक्तं भूगोलात् तस्य मानमूर्ध्वगतम् ॥
लङ्कायामुपरि गतो गोलान्ते10ऽर्को ध्रुव. सदा क्षितिजे।
मेरौ सोऽर्कः क्षितिजे ध्रुवउपरि यतोऽनयोः स्वभूमिरधः॥
स्थलजलमध्या11 लङ्का भूकक्ष्याया भवेच्चतुर्भागे।
उज्जचिनी लङ्कायाः पञ्चदशांशे समोत्तरतः ॥ ३८ ॥
स्वर्मेरू स्थलमध्ये नरको वडवामुखश्च जलमध्ये।
एषा सार्धा त्वार्या भटेन गढितात्र लिख्यतेऽस्माभिः ॥
स्थलमध्यगमेरुस्था देवास्तवधोजलस्थगा दनुजाः।
शशिमण्डलमध्यस्था•पितरो मनुजाः कुगोलपार्श्वगताः॥
उत्तरगोलगमर्क पश्यन्त्यमराः सदान्यगं दितिजाः ।
मेषादिराशिषट्कदिनममराणां निशा नदसुराणाम् ॥
प्रोक्तं दिनं पितृृणां कृष्णाष्टम्यर्धकालमारभ्य।
शुक्लाष्टभ्यर्धान्तं पश्यन्ति यतः सदैव ते दिनपम् ॥ १२ ॥
लङ्काद्यनक्षदेशे त्रिशद्धिटिका दिनं तथैव निशा।
अक्षाभावात् स्थलजलसन्धौ स्थानानि चाह भटः॥
उदयो यो लङ्कायां सोऽस्तमयः सवितुरेव सिद्धपुरे।
मध्याह्नो ययकोट्यां रोमकविषयेऽर्धरात्रमिति ॥४४॥
दिनरात्रिकालयोगे पष्टिर्घटिकाः स्युरक्षयुतदेशे।
तत्रोदग्गोलेऽर्के दिनस्य वृद्धिर्निशाधिका याम्ये॥४५॥
परमापमेन तुल्या यस्मिन् देशोऽवलम्बकज्यास्यात् ।
तत्र यमान्तगतेऽर्के नाडीपष्ट्या दिनं तदुक्तं च ॥ १६ ॥
यत्र तोयनिधिमेखलातले नास्तमेति मिथुनान्तसंस्थितः। तप्तहाटकनिभो दिवाकरस्तत्रभोऽक्ष12परिमाणमुच्यताम्
इति तत्र पलज्यास्यात् परमापमकोटिसंमिता तस्मात् ।
पञ्चदश स्युश्चरदलघटिकाः षष्टिदिनेऽप्यतो घटिकाः ॥
तत्पूर्वापरदिवसास्तस्मान्न्यूनाः क्रमेण तद्देशे।
चापान्तेऽर्के तु निशा तद्वत् तत्पार्श्वगा निशाश्च तथा ।
राशिद्वयापमसमा लम्बज्या यत्र तत्र चापमृगौ।
यातो नेदयमस्तं कर्कियमौ यान्ति हरिजमन्येऽष्टौ।
वृषभानन्तरलग्नं सिंहः कोर्प्यूर्ध्वलग्नमपि कुम्भः।
वीणैणकर्किधिनुषां लग्नत्वं तत्र विद्यतेनैव ॥ ५१ ॥
एकर्क्षापमतुल्या लम्बज्या चेन्न यान्ति वृषभाद्याः।
चत्वारोऽस्तं वृश्चिकधनुरेणघटास्तथा न यान्त्युदयम् ॥
मीनो मेषः कन्या तुलाधरश्चेति तत्र लग्नानि।
चत्वार्येवं क्रमशो नान्येषां हरिजसङ्गतिर्यस्मात् ॥५३॥
मेषाद्याः षण्नास्तं मेरौ वान्त्युदयमपि च जूकाद्याः।
दृश्यादृश्यविभागौ कल्प्यौ व्यत्यासतोऽसुरसुराणाम् ॥
द्वादाराशिषुभानोश्चारादिह मानुषं भवेद् वर्षम् ।
दिव्यं तदहोरात्रं दिव्याब्दः खरसवह्निभिः स्वदिनैः॥
दिव्यैर्वर्षसहस्रैर्द्वादशभिः स्याश्चतुर्युगं त्वेकम्।
दिव्यं युगमिति कथितं चतुर्युगं चैकमाचार्यैः॥ ५६ ॥
अहिवेदा रसरामाः कृतदस्त्रा द्वीन्दवश्च शतनिहताः ।
दिव्याब्दाःसन्ति कृते त्रेतायां द्वापरे कला क्रमशः ॥
दिवसे चतुर्युगानां विधेः सहस्रं भवेत् तथा रात्रौ ।
सृष्टिःस्थितिश्च दिवसे लोकस्य विनाश एवचास्य निशि ॥
दिनमिदमुदितं कल्पश्चतुर्दश स्तुर्दिने विधेर्मनवः।
मन्वन्तरे युगानां सैका स्यात् सप्ततिः परं सन्ध्या ॥
कल्पस्यादावन्ते मनुविवरेष्वपि च पश्चदश सन्ध्याः।
षण्णां चतुर्युगानां पञ्चदशांशः स्मृतोऽत्र सन्ध्येति॥
मनुविवरे सन्ध्यायाः पूर्वापरकालयोः कमात् संज्ञा।
सन्ध्यांशः13 सन्ध्येति च कालविभागः कुतो बुधैः कैश्चित्॥
पञ्चाशत् स्वा अब्दा विधेर्गता आद्या एव शेषस्य।
कल्पेऽस्मिन् भनवः षड् गताः परस्यापि भैर्मितयुगानि॥
अष्टाविंशेऽपि युगे कृतादयोऽस्मिन् गतास्त्रयः पादाः।
शेषोऽयं कलिपादः प्रवर्तते पूर्वसूरिवचनमिति ॥ ६३॥
अतिदूरगं दिनेशं पश्यति कल्पे सदा कमलपोनिः।
प्रलये रवेरभावादू ब्रह्मापि रविं निरीक्षते नेव ॥ ६४ ॥
एकेनैव हि रविणा दैवं पित्र्यं च मानुषं ब्राह्मम्।
दिनमिति चतुर्विधं स्याद् गोलविदां तानि गोलगम्यानि॥
सूर्योपरीन्युरिति यैरुक्तं तेषां हि संस्थितिर्मेरौ।
भानामूर्ध्वं मुनयः सर्वेषां च ध्रुवो यतस्तेषाम् ॥६६॥
तत्रोदग्विक्षिप्तः शश्युपरि च दृश्यते यमान्तेऽर्कात्।
तस्मात् तथोक्तिरेषां तत्रान्यद्वास्ति दैवतं सौम्यम् ॥
परमादिनोक्तमेवं संक्षेपादीश्वरेण गोलस्प।
संस्थानं लघुमतये वक्तव्यं चान्यदस्ति गोलगतम् ॥
युक्तिः प्रदर्शिता प्राङ् मया महाभास्करीयभाष्यस्य।
सिद्धान्तदीपिकायां विवृतौ वक्ष्ये तथापि शङ्कादेः॥
घटिकापममण्डलयोर्योगस्थार्कस्य या महाच्छाया।
दिनमध्ये साक्षज्यालम्बकजीवाथ तस्य सःशङ्कुः स्यात् ॥
याम्योत्तराख्यवृत्ते घटिकासममण्डलान्तरं ह्यक्षः।
अवलम्बकस्तु तस्मिन् घटिकाक्षितिजारयवृत्तयोर्विवरम् ॥
क्षितिजध्रुवयोर्विवरे जाता जीवाथवाक्षजीया स्यात् ।
व्योन्नोमध्यध्रुवये र्विवरभवा ज्या तु लम्बवण्या स्यात् ॥
स्फुटदोर्ज्या सप्तनवत्र्येकैर्निहता त्रिराशिगुणविहृता।
कान्तिः स्यात् तविज्याक्रतिविवरपदं भवेद् द्युदलजीवा॥
अक्षज्यामाघ्ना क्रान्तिर्लम्बकजीवोद्धृता क्षितिज्या स्यात् ।
भूज्या त्रिज्यानिघ्ना द्युदलज्याभाजिता चरज्या स्यात् ।
उन्मण्डलेऽर्कयोगाज्जीवा याम्योत्तरापमज्या स्यात्।
स्वाहोरात्रार्धज्या द्युज्यावृत्तस्य योऽर्धविष्कम्भः॥ ७५ ॥
क्षितिजोन्मण्डलविवरे द्युगण्डलज्या स्मृता क्षितिज्येति।
त्रिज्याकर्णस्य भुजा क्रान्ति कोटिद्युमण्डलार्धज्या॥
भ्रमणं द्युमण्डलानां घटिकावृत्तस्य चापि कालसमम् ।
घटिकावृत्तज्योक्ता भ्रमितांशे तस्य हीष्टकाले ज्या ।
भूज्या भ्रमणे या ज्या घटिकावृत्ते भवेच्चरज्या सा।
चापीकृता चरज्या प्राणात्मकमुच्यते चरार्धमिति ॥
यस्मात् प्राणादीनां लिप्तादीनां च संस्थितिर्वृत्ते।
चापस्यैव ततः स्यात् प्राणादित्वं च लिप्तिकादित्वम्॥
चापीकरणं युक्तं त्रिज्यावृत्ते द्युमण्डलेषु न तु ।
पठिताः सर्वा जीवास्त्रिज्यावृत्तोद्भवा भवन्ति यतः॥८०॥
परमापमो यदि स्यात् त्रिराशिदोर्जीवया तदातु कियान् ।
भवतीष्टेदोर्ज्ययेति. त्रैराशिकमपमसिद्धये भवति ॥ ८१॥
यदि लम्बकारख्यकोट्या पलजीवा जायते तदा कियती।
इष्टापमकोट्येति ज्ञेय त्रैराशिकं क्षितिज्यायाम् ॥
भूज्या द्युमण्डले यदि भवति व्यासार्धमण्डले तु तदा।
कियती जीवा स्यादिति वेद्यं त्रैराशिकं चरज्यायाम्॥
त्रिज्याहतापमज्या लम्बकजीवा भवेदिहार्काग्रा।
सा क्षितिजभानुयोगात् क्षितिजे याम्योचरा हि ज्या ॥
कान्तिज्योन्मण्डलगा कोटिर्भूज्या भुजा द्युमण्डलजा ।
क्षितिजस्थार्काग्रा स्यात् कर्णस्त्र्यंश्रंभवेत् त्रिभिश्चैवम् ॥
कोटिभुजाकणेषु द्वाभ्यां द्वाभ्यां हि सिद्विरन्यस्य ।
वर्गैक्यपदं भज्याक्रान्त्योस्तस्माद् भवेदिनाग्रा वा ॥
त्रिज्यालम्बककोट्याः कर्णश्चेद् को भवेदपमकोट्याः।
कर्णस्त्रैराशिकमिति सूर्याग्राया अवाप्तये वेद्यम् ॥ ८७॥
कृत्वाक्षव्यारार्धद्युमण्डलं दण्डनाभिहरिजान्ते।
तन्मध्यगपललम्बौ तथास्य परिधिस्थतच्छ्रुतिश्चोह्या ॥
गोलान्तात् खेटान्तं खेटस्य भुजा धनुर्भुजा तज्ज्या।
अयनान्ताद् विहगान्त कोटिधनुः कोटिरचिततज्जीवाः॥
वाह्रु. क्रान्तिरभीष्टाभीष्टनुजज्या श्रुतिश्च कोटिस्तु।
स्वाहोरात्रेऽभीष्टा जीवा त्र्य14श्रं भवेदभीभिश्च ॥ ९०॥
परमद्युज्या शशिकसविधुरामास्तद्धता भुजज्येष्टा।
त्रिज्या भ(क्तो^(?)क्ते) स्वाहोरात्रे जीवा भवेदभीष्टाख्या॥
कोटिः परमद्युज्या त्रिज्यायाश्चेदभीष्टदोर्ज्यायाः।
केतिद्युमण्डलेष्टेज्यायास्त्रैराशिकं विचिन्त्यं स्यात् ॥ ९२ ॥
इष्टापमदोर्जीवाकृत्योर्विवरस्यमूलमथया स्यात्।
स्वाहोरात्रेष्टज्या राशीनां मानसिद्धये कथिताः ॥ ९३ ॥
स्वाहोरात्रेष्टज्या त्रिज्याघ्ना स्वद्युशिञ्जिनीभक्ता।
चापीकृतास्युरसस्तद्योर्भागोदाय हि लङ्कायाम्॥ ९४ ॥
इयती द्युज्यावृत्ते ज्या चेद् व्यासार्धमण्डले कियती।
इति घटिकावृत्ते ज्या स्याद् दोर्भागोदये हि लङ्कायाम्॥
एकभमानेनोनं भद्वयमानं द्वितीयभमितिः स्यात्॥
भद्वयमानेनोनं भत्रयमानं तृतीयराशिमितिः ॥ ९६ ॥
स्वचरदलेनैणादौ हीनाः कर्क्यादि(गे^(?)के) युता एते।
तत्तद्दोर्भागोदयकालप्राणा भवन्ति देशे स्वे ॥ ९७ ॥
एणाद्या उद्यन्ति क्षिप्रं कर्क्यादिकाः शनैरेव।
उदगुन्नत भगोलं यस्माश्चरसंस्कृतावियं युतिः ॥ ९८ ॥
शशिकृतविधुरामघ्ना वेष्टभुजा स्वद्युशिञ्जिनीभक्ता।
चापीकृताः स्युरसवो लङ्कायामिष्टबाहुधनुरुदये॥ ९९ ॥
त्रैराशिकायुगसिद्धा भमितिरिहाद्ये हरस्त्रिराशिज्या।
अन्यत्र सा गुणोऽतस्तद् द्वयहीनं च कर्मयुक्तमिदम् ॥
सत्ययने सायनयोरिष्टस्याद्यन्तयोः पृथड्मानम् ।
कुर्यात् तयोस्तु विवरं स्वादिष्टमितिश्चरार्धमिह तद्वत्॥
इष्टं द्विपदगतं चेत् तस्य तु तत्तत्पनस्य भागमित्तिम् ।
कुर्यात् पृथक् तदैक्यंस्वादिष्टमितिश्चरं स्वपदविहितम्॥
अस्तोदयाख्यसूत्रं पूर्वापरगं भवेदिनाग्रान्तात् ।
क्षितिजात् स्वाहोरात्रे चरतोऽर्कस्योन्नतिर्हि शङ्कुः स्यात् ॥
शङ्कोर्मूलास्तोदयसूत्रान्तरमुच्यतेऽत्र शङ्कग्रम्।
स्वाहोरात्रेष्टज्या शङ्कुशिरोस्तोदयख्याताविवरगता॥
कर्णोऽत्रेष्टद्युज्या शङ्कुः कोटिर्भुजा तु शङ्कग्रम्।
एपमिहाक्षानिमित्तं क्षेत्रं प्रोक्तं बहूनि तानि स्युः ॥ १०५॥
वाह्नाद्यैरेकस्मिन् क्षेत्रे जातैरिहानुपातेन।
क्षेत्रान्तरसिद्धिःस्थात् सर्वेयामाश्रयोक्षमेव यतः॥१०६॥
स्वाहोरात्रेष्टज्या घटिकावृत्तोत्थजीवया साध्या।
गतगन्तव्यासुज्या घटिकावृत्तोद्भवा हि जीवा स्यात्॥
जीवाग्रहणमयुक्तं क्षितिजादुन्मण्डलाद्धि युक्तं तत्।
उन्मण्डलमेव स्याद् भगोलमध्वस्थितं यतो नान्यत्॥
सौम्ये चरहीनानां गोले याम्ये चरार्धयुक्तानाम्।
गतगन्तव्यासूनां जीवा ह्युन्मण्डलोर्ध्वगा भवति ॥ १०९ ॥
इष्टद्युवृत्तवाह्यो घटिकावृत्ते प्रकल्पिते ज्ञेया ।
युक्तिश्चरसंस्कारे द्युगते चरभूज्ययोः स15रूपं वा ॥११०॥
सोन्मण्डलोर्ध्वगा ज्या स्वाहोरात्राहता त्रिगुणभक्ता।
उन्मण्डलोर्ध्वभागे स्वाहोरात्रेष्टजीवकाऽ भवति ॥११९ ॥
इयती घटिकावृत्ते ज्या चेत् कियती तदा द्युमण्डलजा।
त्रैराशिकमिति वेद्यं स्वाहोरात्रेष्टऽ जीवकानयने ॥ ११२॥
भूज्यारहिता याम्ये सौम्ये भूज्यान्विता च सा द्युज्या।
क्षितिजोर्ध्वभागजाता स्वाहोरात्रेष्टजीवका16 भवति ॥
सा ज्या लम्बकनिहता त्रिज्याभक्ता भवेन्महाशङ्कुः।
तच्चिज्यातिभेदान्मृलं छाया च तस्य शङ्कोः स्यात्॥
यदि लम्बककोटिः स्यात् त्रिज्याकर्णेन का सदा कोटिः।
इष्टद्युजीवया स्याच्छङ्को त्रैराशिकं भवेदेवम् ॥ ११५॥
रविनिहता सा महती च्छाया भक्ता च शङ्कुना महता।
अर्काङ्गुलशङ्को स्यच्छाया वैराशिकादियं चाप्ता ॥११६॥
द्युज्यार्कघ्नात् क्षितिजाच्चलकर्णहृताथवा महाशङ्कुः।
द्युज्या सा क्रान्तिघ्ना सूर्याग्रहृताथा महाशङ्कुः ॥११०॥
सौम्यायतकर्णयशाच्चोर्ध्वायतकोटिसाधनमिहोक्तम् ।
तद्युक्तमेव यस्मज्जातं तद् द्वन्द्वमक्षतो भवति ॥ ११८ ॥
अक्षज्याघ्नः शङ्कुर्लम्बकभजिते भवेच्च शङ्क्वग्रम्।
यस्माल्लम्बकाशङ्कोः शङ्क्वग्रं पलगु17णोऽत्र युक्तिरिति॥
अथवाशङ्क्वग्रं स्यात् पलाङ्गुलघ्नोऽर्कभाजितः शङ्कुः।
भूज्याघ्नो वा शङ्कुः क्रान्तिज्याभाजितश्च शङ्क्वग्रम् ॥
अक्षज्याल्पाक्रान्तिः सौम्या त्रिज्याहता पलज्याप्ता।
सममण्डलस्थशङ्कुः पूर्वापरसूत्रगे रवौ भवति ॥१२१॥
सममण्डलगेभानौ शङ्क्वग्रमिनाग्रया समं हि भवेत् ।
स्यात् कान्तेश्चार्काग्रा तस्माच्छङ्कग्रमिह भवेत् कान्तेः॥
कान्तेः शङ्क्वग्रं स्यादनुपाताच्छङ्कुरपि च शङ्क्वग्रात्।
त्रैराशिकयुग्मं स्यात् सममण्डलशङ्कुसिद्धयेऽत्रेति ॥
हर इह लम्बक आद्ये स तूपरिगणोऽथ नष्टयोस्तु तयोः।
त्रिज्या तु गुणोऽक्षज्या हारः कान्ते फलं तु समशङ्कुः ॥
चारश्चन्द्रादीनां स्वे स्वे विक्षेपमण्डले कथितः ।
अपमण्डले तु तेषां चरन्ति पाता विलोमगास्ते स्युः॥
अपमण्डले स्वपाते तस्य च क18तमे विमण्डलं लग्नम् ।
परमक्षेपान्तरितं पादान्तं वस्व सौम्ययाम्यदिशोः ॥
मन्दस्फुंटात् स्वपाताः शोध्याःशीघ्रोच्चतस्तु बुधसितयो।
पातो न भुजा परमक्षेपघ्ना त्रिज्ययोहृता क्षेपः ॥ १२७ ॥
स पुनार्व्यासार्धहतो मन्दस्फुटभाजितः स्फुटः कथितः।
सोऽपि व्यासार्धहृतो भौमादेः स्यात् स्वशीघ्रकर्णहृतः॥
वेदा द्वावष्टरसा दिश इति भागा दशाहतारते स्युः।
भौमादेः पातांशा बहुतरकालेन भुक्तिरल्पैपाम् ॥
नवतिर्व्योमदिनेशाः षड्भिः खार्काः खनेत्रशिशिरकराः।
परमा विक्षेपकला भूमिजबुधगुरुसितार्कतनयानाम्॥
परमक्षेपो यदि चेत् त्रिराशिदोर्जीवया तदा तु कियान् ।
भवतीष्टदोर्ज्ययेति क्षेपे त्रैराशिकं भवेदिष्टे ॥ १३१ ॥
कर्णे स्वल्पे वृद्धिस्तासां ह्रासो भवेत् तथा महती।
दूरादूरविशेषैः क्षेत्रस्य हि लिप्तिकाभेदा ॥ १३२ ॥
शैघ्रान्मन्दाच्चोच्चाद् भौमादे. स्वादधोगतिश्चोर्ध्वम्।
कर्णद्वयेन तस्माद्र ग्रहभूम्योरन्तरालमितिसिद्धिः।
भौमेड्यामन्दपाताः शोध्याः स्वात्स्वास्फुटादितिब्रुवताम्।
शीघ्रज्यासंस्कारो ग्रहवत् पाते निजे भवेत् पक्षे ॥ १३४ ॥
कर्णस्थितिसिद्ध्यर्थं स्फुटसिद्ध्यर्थच लिख्यतेऽत्रापि।
कक्ष्यात्रयं झपान्ते प्राची दिग् भवति सर्ववृत्तेषु ॥१३५॥
भूमध्यकेन्द्रमाद्यं भारयं वृत्तं तु भवति सर्वेषाम् ।
तन्मध्याच्छीघ्रदिशि स्थान्त्यफलान्ते कुजार्यमन्दानाम् ॥
शैघ्रस्य केन्द्रमुदितं बुधभृग्वोर्मन्ददिशि तु सान्दस्य।
स्वान्त्यफलान्ते केन्द्रद्वितीयमध्यात् कुजादीनाम्॥
मन्ददिशि मान्दकेन्द्रं द्वितीयपरिधिस्थभानुफेन्द्रमथ।
शैघ्रं ज्ञशुक्रयोः स्यादन्त्ये वृत्ते चरन्ति सर्वेऽपि ॥ १३८ ॥
अन्त्ये वृत्तेतेषां चारो मध्याख्यया सदा गत्या।
खगचारजा भचक्रेया गतिरनुमीयते स्फुटाख्या सा॥
अन्त्यं शैघ्रान्त्यफलं व्यासार्धं स्याज्ज्ञशुकयोर्वृत्तम्।
त्रिगुणकृतान्यन्यानिक्षेपो वृत्तत्रयस्य युगपत् स्यात् ॥
अन्त्यपरिधिस्थखेटात् सूत्रं कुर्यादुपान्तकेन्द्रान्तम्।
तत्कर्णोभौमादेर्सान्दो भवति ज्ञशुक्रयोः शैघ्रः ॥ १४१ ॥
श्रुतिमार्गगोष्टसूत्रं द्वितीयपरिधौ तु यत्र तत्र भवेत् ।
मन्दस्फुटः कुजादेस्तत्र तु शीघ्रस्फुटो ज्ञभृगुसून्वोः॥
मन्दस्फुटात् कुजादेर्बुधभृग्वोः शीघ्रजात् स्फुटात् सूत्रम्।
कुर्याद् भचक्रकेन्द्रान्तमेतदुक्ता श्रुतिः कुजादीनाम्॥
शैघ्रान्ययोस्तुमान्दा(^(?))श्रुतिमार्गगसूत्र भाख्यपरिधियुतौ।
शैघ्रस्फुटः कुजादेस्तत्र तु मन्दस्फुटो ज्ञभृगुसून्वोः॥
द्युच्चानां स्फुटयुगलं भवतिभपरिधौ गतः स्पृटो हि खगः।
भेदस्तस्य कदाचित् साक्षात् स्फुटखेचराद् भवेदल्पः ॥
मन्दश्रुतिश्च शैघ्रं फलं कुनादेस्तु भेदहेतुः स्यात् ।
शीघ्रश्रुतिश्च मान्दं फलं विभेदे सितज्ञयोर्हेतुः ॥ १४६ ॥
जीवाफलार्धसंस्कृतमध्यान्मान्दं फलं ततः क्रियते।
सर्वेषांबुधसितयोःकमभेदोऽप्यत्र कल्पितस्तस्मात् ॥
अन्त्यपरिधिस्थखेटादिहान्त्यकेन्द्रान्तमपि कृते सूत्रे।
तत्सूत्राद्यापरिध्योर्योगे साक्षात् स्फुटग्रहो भवति ॥
मध्यान्तगते कर्णे क्षेपो मध्यान्तवृत्तयोरिष्टः।
यदि चेत् त्रिज्याकर्णे कः स्यादिति मध्यपरिधिगः क्षेपः॥
प्रथमद्वितीययोश्चेत् कर्णे मध्यान्तगे त्वयं क्षेपः।
त्रिज्याकर्णे कःस्यादिति विक्षेपः स्फुटो भचके स्यात् ॥
स्फुटयुगसिद्धस्य यथा दृग्भेदोऽल्पो ग्रहस्य भवति तथा।
कर्णद्वयसिद्धस्य क्षेपस्यापीति कस्यचिच्चिन्ता ॥ १५१ ॥
अर्केन्द्वोर्द्वे वृत्ते भवृत्तकेन्द्रान्निजोच्चदिशि मान्दम्।
वृत्तं स्वान्त्यवफलान्ते स्फुटकर्मेकं भवेद् यथा स्वोच्चम्॥
विक्षेपापमधनुपोस्तुल्यदिशोर्भिन्नयोर्युतिर्वियुतिः।
प्रोक्तं स्वकान्तिधनुस्तस्य ज्या स्वस्फुटापमज्या स्वात्॥
याम्योत्तरवृत्तेऽपमयोगाद् राशित्रयान्तरे वेधौ।
कार्यो सर्वर्क्षाणांसंपाताद् राशिकूटसंज्ञौ तौ ॥ १५ ॥
गोलस्य दक्षिणोढक्स्यस्तिकयुग्माद् यथा घटीवलयम्।
चकतुरीयांशे स्वाद् भकूटयुग्मात् तथापमाख्यं च ॥
याम्योदगायता स्यात् खेटस्थकला भकूटयुग्मान्ता।
खेटस्थलिप्तिकायां क्षेपस्तस्यापमात् सदा याति ॥
क्षेपस्थोर्ध्वाधोगतिरुन्मण्डलतोऽस्त्यातो भकूटवशात्।
क्षेपापक्रमधनुषोरतोऽत्र योगाद्ययुक्तमिति केचित् ॥
लग्नेऽयनान्तगे स्यादुन्मण्डलगं भकूटयुगलमथ।
गोलान्तेऽधश्चोर्ध्वं कोटिवशात् स्यात् तदुन्नतिरतोऽत्र ॥
अयनान्तस्फुटखेचरविवरजलङ्कोदयासुगुणनिहता ।
परमकान्तिस्त्रिज्याविहृता स्यादुन्नतिर्भकूटस्य ॥ १५९ ॥
सोम्योन्नतिरेणादौ विहगे याम्योन्नतिः कुलीरादौ ।
विहगस्योदय एवं व्यस्तं स्थादुन्नतिस्तदस्तमये ॥
लङ्कोदयकालसमं गोलभ्रमण ततो भकूटस्य।
गोलभ्रमजोन्नतिरपि लङ्कोदयकालजीवया साध्या ॥
खगकोटिर्वन्त्यापमनिहता स्थूलोन्नतिस्त्रिगुणभक्ता।
स्थूलापि नाप्रदर्श्या लघुता यदि कर्मणो भवेत् तत्र ॥
विक्षेपघ्ना त्रिज्याभक्ता या चोन्नतिर्भकूटस्य।
तत्क्षेपवर्गविवरात् पदं स्फुटक्षेप ईरितः कान्त्याम्॥
तत्कान्त्योश्चापैक्यं तुल्यदिशोर्भिन्नयोर्धनुर्भेदः।
अपमधनुः स्यात् स्पष्टं स्पष्टा भूज्यादयोऽपि तज्ज्यातः॥
ऊर्ध्वाधोगमनात् स्यात् क्षेपस्योन्मण्डलादुदयभेदः।
अपमादपि याम्योदक्स्थित्या दृक्कर्मणि ग्र19हेतस्तत् ॥
विक्षेपेणाभिहता त्रिगुणेन हृतोन्नतिर्भकूटस्य।
क्षेपस्योन्नतिरथवातस्यैवोन्मण्डलादवनतिः स्यात् ।
क्षेपो यदि राशीनां कूटोन्नतिभागगस्तदा तस्य।
क्षेपस्योन्नतिरुदिता विपरीतदिगाश्रितस्य चावनतिः॥
क्षेपोन्नतिर्भुजा स्यात् कर्णक्षेपोऽस्य भवति या कोटिः।
सोन्मण्डलगः क्षेपः क्रियते कान्तेस्तु धनुषि यच्चापम्॥
क्षेपोन्नतिस्त्रिजीवागुणिता द्युदलोध्द्रृता च या तस्याः।
चापं भलिप्तिका खेटगतर्क्षासुभाजितं स्वर्णम्॥
ऋणमुन्नतापवनतौ धनमुदये तद्वदेव वास्तमये।
उन्नतिरुदयभवा यदि सास्तभवा चेद् धनादि विपरीतम्॥
खेटास्तर्क्षप्राणा हरस्य (चे)दस्तदृक्फलावाप्तौ।
राशेः कालोऽस्तमये स्वसप्तमर्क्षोदयासुतुलित इति॥
खाभ्राहीन्दुकला यदि लभ्यन्ते स्वासुभिर्विलग्नस्य।
स्पर्दृक्फलासुभिः का भवनि त्रैराशिकमितीह ॥१७२॥
लङ्कोदयासहरणं ये त्वत्रेच्छन्ति दृक्फलावाप्त्यै।
सुधियस्ते गणकाः स्युः किन्त्विह गोलैकदेशवेत्तारः॥
स्वास्तमये कालस्य स्वसप्तमर्क्षोदयासतुल्यत्वम्।
भानां भवति चरस्य व्यस्तत्वादुदयकालतोऽस्तमये।
विक्षेपसंस्कृता या क्रान्तिज्या केवला व यात्र तयोः।
विवरं विक्षेपभवा क्रान्तिः स्यादक्षदृक् फलं तु ततः॥
अपमोविक्षेपभवस्त्वक्षहतो लम्बकज्यया विहृतः।
त्रिज्याघ्नो द्युदलाप्तस्तस्य धनु-क्षेपकृतपरांशः स्यात्॥
क्षेपचरं भकलाघ्नं20 खेटस्थार्क्षासुभाजितं शोध्यम्।
उदये क्षेपे सौम्पे देयं याम्योऽन्यथा खगस्यास्ते ॥१७७॥
दृक्कर्मद्वयमेतत् प्रोक्तं खेटोदयास्तलग्राप्त्यै।
न तु तत्स्फुटाङ्गमेतद् द्वितयं वैकेन कर्मणा सिध्येत्॥
अपमस्यार्धं ह्युदितं सर्वत्रार्ध तथा सदास्तगतम्।
उदितांशस्य तु मध्ये दृक्क्षेपाख्यं सदा स्थितं लग्नम् ॥
उदितांशस्य च मध्यं लग्नास्तविलग्नयोर्हि मध्ये स्यात्।
दृक्क्षेपलग्नमुदितं प्राग्लग्नं भत्रयेण हीनमतः ॥१८०॥
याम्योत्तरवृत्तेऽपमभागो मध्याख्यलग्नमिति कथितम्।
तद्धग्रर्को मध्याह्ने नतिलङ्कामितिवशाच्च साध्यं तत्॥
दृक्क्षेपज्या चोक्ता खमध्यदृक्क्षेपलग्नविवरज्या।
दृक्क्षेपलग्नगेऽर्के के दृक्क्षेपज्या स्मृता महाच्छाया ॥१८२॥
उदयविपरीतमस्ते राशेश्चरसंस्कृतिर्यतस्तस्मात्।
न स्यात् खमध्यगे सा लङ्कामितिरेव मध्यमानमतः ॥
मध्यविलग्नकान्त्याः परजीवायाश्च चापयोः समयोः।
योगाद् विदिशोर्विवराज्जाता जीवा च मध्यजीवोक्ता॥
घाटिकखमध्यघटिका द्युवृत्तिविवरे पलापमौ हि स्तः।
ताभ्यां द्युमण्डलनभोमध्यान्तरजीवकाः ततः साध्या॥
त्रिज्यामध्यज्याकृतिविवरपदं मध्यशङ्कुरिति कथितः।
मध्यविलग्नानोदयलग्नभुजज्या तु मध्यशङ्कुभुजा॥
मध्याख्यशकुनिहतं व्यासार्धंमध्यशङ्कुभुजचासम्।
दृक्क्षेपशङ्कुरुक्तोदृक्क्षेपज्या स्फुटा च तच्छाया ॥
मध्यविलग्नक्षितिजान्तरज्यया मध्यशङ्कुरिह चेत् स्यात्।
दृक्क्षेपहरिजविवरे त्रिजीवया कोऽत्र शङ्कुरिति युक्तिः॥
दृक्क्षेपज्या तुलिता भानां कूटोन्नतिस्तदन्यदिशि।
क्षितिजात्तु गोलपादे खमध्यमपमाद्यतो भकूटमपि॥
क्षितिजस्थे खिष्टखगे दृक्क्षेपज्याहतस्त्रिगुणभक्तः।
विक्षेपः क्षितिजात् स्यात् क्षेपस्य प्रोन्नतिस्त्ववनतिर्वा॥
दृ21क्क्षेपेतरदिक्स्थे विक्षेप प्रोन्नतिर्भवेत् तस्य।
दृक्क्षेपश्यादिक्स्थे विक्षेपे त्ववनतिर्भवेत् तस्य॥ १९१॥
क्षेपस्योन्नतिरथवावनतिस्त्रियाहतावलम्बहृता।
त्रिज्याघ्ना द्युदलाप्ता चा तच्चापं हि दृक्फलप्राणाः॥
खखधृतिनिहता लग्नप्राणाप्ता दृक्फलादिहोन्नतिजात्।
लिप्ता. शोध्या उदये क्षेप्याश्चास्तेऽन्यथावनतिजाच्चेत्॥
पलगुणमध्यविलग्नकान्त्योरक्ष22स्य या तु दिक् सैव।
मध्यज्यादृक्क्षेपज्ययोर्भवेत् सकलदृक्फलमिहोक्तम्॥
समरेखायां मध्यमभानोरुन्मण्डलोदये हि बुधैः।
उदिता विहगास्तस्मात् संस्कारास्तेषु देशजाद्या. स्युः॥
समरेखानिजभूम्योरन्तरजैर्योजनैर्हता भुक्तिः।
निजभूवृत्तिहृता स्वं रेखायाः पश्चिमे त्वृणं प्राच्याम्॥
समरेखायाः प्राच्यां प्रागुदय. पश्चिमे खेः पश्चात्।
देशगतिरतः प्राच्यां विशोध्यते दीयते तथा पश्चात्॥
निजभूवृत्तभ्रमणे दिनभुक्तिर्यदि भवेत् तदा कियती।
समरेखानिजभूम्योर्विवरभ्रमणेऽत्र युक्तिरिति चिन्त्या॥
पूर्वाभिमुखं गच्छन् निजभूवृत्ते सदा नरो गच्छेत्।
दर्शनमर्कस्य यतो निजभूवृत्तानुसारि दिक् चार्कात्॥
पलयोः साम्यं च ययोः पूर्वपरसंज्ञितौ हि देशौ तौ।
निजभूवृत्ते ह्येव च तत् साम्यं हारकोऽत इह तत् स्यात् ॥
त्रिज्यालम्बोनर्क्षे भुवृत्तं रन्ध्रगोश्विगुणतुलितम्।
स्याच्चेदभीष्टलम्बे किं स्यान्निजभूमिवृत्तलाब्धिरिति॥
रविदोःफलं हि भानोः स्फुटमध्यमयोः कलात्मकं विवरम्।
तन्निहता ग्रहभुक्तिश्चक्रकलाप्तं ग्रहे धनर्णं स्यात् ॥
रविदोःफलपत् तस्मिन्नृणे यतो मध्यमोदयात् प्राक् स्यात्।
स्फुटतीक्ष्णांशोरुदयो धनेऽन्यथास्फुटरविर्ब्रजेद्ध्युदयम्॥
गोलभ्रमणे स्याच्चेद् दिनभुक्तिः का भुजापलभ्रमणे।
इति युक्तिं ब्रुवतेऽन्ये दो.फलकालो भवेदिहेच्छेति॥
रविचरदलासुनिहता दिनासुभक्ता गतिस्त्वृणं सौम्ये।
गोले भानोरुदये याम्ये देया खगेऽन्यथास्तमये ॥ २०५॥
उन्मण्डलोदयात् प्राक् सौम्ये गोले यतो वेरुदयः।
पश्चाद्याम्येऽस्तमयो व्यस्तं तस्मादृणादिविधिरेवम्॥
यदि भवति दिवसभुक्तिर्दिनासुभिः का तदा चरार्धभवैः।
प्राणैस्त्रैराशिकमिति खेटे च चरार्धसंस्कृतौ वेद्यम्॥
हारोऽत्र चरदलादौ रविगतिलिप्ताधिका दिनप्राणाः।
इत्यन्ये सार्कगतेर्भ्रमणाद् गोलस्य भवति दिवस इति ॥
अथ समच्छावया दिग्दलच्छायया च स्फुटार्कानयनमुच्यते। तत्र समच्छाययामुद्देशकः–
छाया रवौ नरसमा सममण्डलस्थे
हीना तत्तोऽपरदिने यदि तत्र कोऽर्कः।
यद्वाधिकापरदिने यदि तत्र को वा
विद्वन् ! वदस्वरकृताङ्गमिता पलज्या ॥ २०९॥
इति ॥
अत्र करणसूत्रमार्याद्वयं-
छायासाध्यः शङ्कुः शङ्कोः शड्क्वग्रमिह हि तदिनाग्रा।
अर्काग्रातः क्रान्तिः कान्तेर्दोर्ज्या च तद्धनुरिनः स्यात्।
यद्यधिकापरदिनजाच्छाया दोश्चापहीनमत्र भवेत्।
चकस्यार्धं सायनभानुर्यस्मादिहायानं याम्यम्॥ २११॥
अथ23च्छायायामुद्देशकः-
शङ्कोरर्धमिता प्रभा दिनकरे याम्यां शलाकां गते
तत्राष्टांशामिताथवाथ दिनपे सोम्यां शलाकां गते।
सप्तांशिन मिता च सापरदिने सर्वा महत्योऽथवा
हीना ब्रूहि कवे! रवीनग(^(?))चतुष्षड्भिः पलज्या समा।
इति ॥
अत्र करणसूत्रमार्यापञ्चकं—
दिवसदले महती पाच्छाया सा प्रोच्यते नतज्येति।
नतपलधनुषोर्विवरं क्रान्तिधनुर्याम्यगे रवौमध्यात्॥
सौम्येऽर्के नतपलयोरेक्यं क्रान्तिस्तदा तु गोलमुदक्।
पूर्वत्र नते त्वधिके याम्यं गोलं पलेऽधिके सौम्यम्॥
वाम्ये खमध्यातोऽर्के छायावृद्धौ तु याम्यमयनं स्यात्।
तद्धान्यामुदगयनं व्यस्तं सौम्ये खमध्यतोऽर्के स्यात्॥
कान्तर्दोर्ज्या साध्या चापं तस्या रविर्भवेद् गोले।
सौम्येऽयने च सौम्ये याम्ये त्वयने तदूनचक्रवलम्॥
भानुः सषड्भचापं याम्ये गोलेऽयनं च यदि याम्यम्।
……………..चापोनं सायनो रविर्भवति ॥ २१७ ॥
क्रान्तिनतचापयोः स्याद् विवरं समयोर्युतिस्तु भिन्नदियो।
पलधनुरन्तरमयनं छायागणिताप्तयोस्तु रव्योःस्यात्॥
एकस्मिन् स्थिरशङ्कुच्छायाग्रं कालयोर्ययोर्विन्दौ।
पतति तयोर्मध्यस्थे कालेऽर्कः सायनोऽयनान्ते स्यात्॥
इष्टाशास्थे भानौ छाया साध्या विशेषविधिनात्र।
आशावृत्ते कल्प्या छायासूत्रेण वृत्तमिह कार्यम् ॥ २२०॥
समयोः शड्क्वग्रार्काग्रयोर्युतिर्भिन्नयोस्तपोर्विवरम्।
छायाकर्णक्षेत्रे दिग्बाहुर्भवति याम्यसौम्यशिराः॥ २२१॥
सार्धर्क्षस्य हि जीवा दिग्जीवा कोणगे रवौ भवति।
तद्दलजीपामध्ये सुरपाग्न्योरुह्यमेवमपरमपि ॥ २२२ ॥
दिग्ज्येष्ठा छायाघ्ना त्रिज्याप्ता साध्यबाहुरिति कथितः।
दिग्बाहुसाध्यवाहू तुल्यौ चेदिष्ठदिशि गतोऽर्कः स्यात् ॥
दिग्बाहुसाध्यवाह्वोः समयोर्विवराद् विदिक्वयोरैक्यात्।
गुणनिहताद्धाराप्तं छायायामृणमत.स्वमिष्टायाम् ॥२२४॥
दिग्वाहौ साध्याख्याद्याम्यगते स्वं विशोध्यमथ सौम्ये।
व्यस्तं सोम्यनतौ स्याच्छायाद्वन्द्वे कृतं तथा कार्यम्॥
महति पले सौम्यनते यद्यधिका दिग्गुणादिनाग्रास्यात्।
एकस्पामेव दिशिच्छाये द्वे स्तो यतो गतिर्वृत्ते ॥ २२६ ॥
दिग्वाहावल्पे खच्छायायां फलमिहाधिके शोध्यम्।
प्रथमप्रभार्थमेवं कार्यं व्यस्तं द्वितीयभावाप्त्यै॥ २२७ ॥
नतदिश्युदये हारस्त्रिज्यासूर्याग्रयोर्भवेद् विवरम्।
योगोऽन्यथा विशेषे त्रिच्या मध्याह्नभा24न्तरन्तु गुणः॥
अत्रोक्तौ गुणहारौ दिग्भिर्भक्तौ शतेन वेष्टेन।
तौ वा गुणहारौ स्तो न ह्यविशेषेऽल्पमेदतो दोष.॥२२९॥
छायात. शङ्कुःस्याच्छड्क्वग्रमतो भुजाद्वयं च तयोः।
विवरात् प्रभा च भूयोऽप्येषं वाह्वोस्तु साम्यमिह यत्नात्॥
अत्रोदाहरणं-
कोर्प्यान्तगेऽर्के दहनस्यदिक्स्थिते
वृषान्तगेने शिवदिक्स्थिते प्रभे।
के ब्रूहि शङ्कोस्तुलितस्य भास्करै-
र्विद्वन् ! पलज्या नगवेदषन्मिता ॥ २३१ ॥
वह्नेराशांमेषमध्यस्थितेऽर्के
याते वीणामध्यगे चेन्द्रशम्भ्वोः ।
आशामध्यं नः पृथग् ब्रूहि विद्व-
च्छायां प्राग्वच्छङ्कुरक्षोऽपि चात्र ॥ २३२ ॥
स्वार्धादियुतं ग्राह्यं फलमपि शेषे शनैर्यदासक्तिः।
ऊर्ध्वाधोगमनं चेच्छैघ्राद्युक्त्या25 दलाद्यूनम् ॥ २३३ ॥
अन्तरमधया वाह्वोः केवलमथवा द्विगुणमपि दलिता(?)।
छायायां स्वर्णं स्यादवशिष्टफलं प्रसाध्यमिह यस्मात्॥
कोणगतेऽर्के छायाकर्णस्य समे स्मृते भुजाकोटी।
छायावर्गार्धपदं तस्मान्मानं तदा भुजाकोट्योः ॥
पूर्वापरायता स्यात् कोटिर्याम्योदगायतात्र भुजा।
छाया कोटिसमा स्यात् पूर्वीपरगा द्विवृत्तकोटिरपि ॥
खार्कान्तरकालज्या पूर्वापरगा भवेद् घटीवृत्ते।
नतसंज्ञितनाडीनां जीवेति च कथ्यते तदा सैव ॥ २३७॥
नतजीवया यदि स्याद् द्युवृत्तकोटिस्तदा भवेत् कियती।
त्रिभजीवयेति भवति द्युज्यावृत्तस्य चात्र विष्कम्भः॥
स्वाहोरात्रार्धादिह साध्या कान्तिर्भुजा धनुःकान्तेः।
तद्वनुरिह भानुः स्यात् तद्राहितं मण्डलार्धमथवार्कः॥
अध याम्ये गोले स्याच्चकार्ध तद्धनुर्युतं भानुः।
तद्धनुरुनं चक्रं वार्को दिवसद्वयप्रभा मानात् ॥ २४०॥
अविशेषकर्मणाक्षज्यात्र च साध्या प्रभा भुजादिवशात्।
क्रान्तिः केनापि युता सूर्याग्रेत्यत्र कल्प्यते प्रथम26म् ॥
समविदिशोः सूर्याग्रच्छायावाह्वोः क्रमाद वियोगयुती ।
शङ्क्वग्रं तच्छङ्कोर्वर्गैक्यं (च) द्युमण्डलज्येष्टा ॥ २४२ ॥
त्रिज्या शङ्क्वग्रहता भक्तेष्टद्युज्यया पलज्या स्यात्।
पलतो लम्बज्या स्याल्लम्बापमतो भवेत् स्फुटार्काग्रा।
पुनरपि कुर्याच्छाया वाहुदिनेशाग्रयोर्वियोगादि27।
शङ्क्वग्रेष्टद्युज्ये पलजीवालम्बजीवके28ऽर्काग्रा ॥ २४४ ॥
अविशेषान्तमिहैवं स्फुटा विशिष्टा भवेत् पलज्यात्र।
अत्रोदाहरणं–
छायाद्यङ्गेरसैकसंमितनरस्योक्ता नवैकाब्धिभि-
स्तुल्या रुद्रदिशं गते दिनपतौ व्योमार्कयोश्चान्तरे।
प्राणा भूधरवेदवाणनयनैरम्ध्यंशकैः संमिता
वाय्योऽर्कश्च पलं त्वया गणितविद! गोले कृतश्चेच्छ्रंमः॥
अथ याम्यगोले उदाहरणं
शङ्कोरेकदशांशकं रसवियच्चन्द्रांशकं च त्यजे–
च्छङ्कोःशेषइह प्रभा दिनपतौ याते कृशानोर्दिशम्।
प्राणाश्चार्कनतोद्भवा रसधरा रन्ध्रक्षमाभिः समा
ब्रुहि प्राज्ञ!दिवाकरं पलमपि त्वं गोलवित् स्या( द्य^(?)य)दि॥
इष्टादिवस्थेसवितर्यप्यनेन न्यायेन सकलं साध्यम्।
वृत्ते कुमध्यकेन्द्र निजकक्ष्यासंमिते भ्रमन्ति खगाः।
द्रष्टा कुपृष्टगः स्यात् कुपृष्टमध्यं ततोऽस्य वृत्तम् ॥
क्षितिजाद् भृमध्यगताद् भूव्यासर्ध्यान्तरे भवेदूर्ध्वम्।
द्रष्टुः स्वीयं क्षितिजं यस्मात् तत्रोदयोऽस्य चास्तमयः ॥
भूमध्यात् क्षितिजस्थो विहगो द्रष्टुर्भवेदधः क्षितिजात्।
भूव्यासार्धमिताधो गतिश्च सा तस्य लम्बनमिहोक्तम्॥
भूमध्यस्योर्ध्वगतं विहगं अष्टा च पश्यति स्वोर्ध्वम्।
तस्मात् समध्यसंस्थे विहगे न तु लम्बनं भवेत् तस्य ।
न स्यान्नभसो मध्ये क्षितिजे स्याल्लम्बनं परं यस्मात् ।
दृग्ज्यात. साध्यं स्यादनुपाताल्लम्बनं खगस्य ततः ॥
त्रिज्यान्तरे खमध्याद् भूव्यासार्ध यदि स्वकक्ष्यायाम् ।
दृग्ज्यान्तरे तदा किं स्यादिति तत् काललम्बनं भवति ॥
लम्बनयोजनमाने तुल्येऽप्यत्रैकलिप्तिकास्थानात् ।
लम्बनालिप्ता भिन्नाः कक्ष्याभेदाद्भवन्ति विहगानाम् ॥
लम्बनयोजनमानं निजकक्ष्यापामियत् खगस्य यदि ।
त्रिज्यावृत्ते स्यात् कियदिति लम्बनलिप्तिकामितिर्भवति॥
त्रिज्यामण्डलमुदितं लिप्तासमयोजनं ततोऽत्राप्यम् ।
योजनफलमपि लिप्ताफलं भवेन्नामभेदएव यतः॥
एककलास्थान् विहगान् पश्यति तस्मात् कुपृष्टगो द्रष्टा ।
भिन्नस्थानाच्छीघ्रस्तत्राधःस्थोऽल्पभुक्तिरुर्ध्वगतः॥
निजलम्बनान्तरसमं ग्रहयोर्विवरं तदाधऊर्ध्वगतम्।
द्रष्टा पश्यति यस्मातुभयोरपि लम्बनं निजं भवति ॥
निजनिजलम्बनलिप्तात्स्वात्स्वाच्छङ्कोर्विशोध्य शिष्टं तु।
भूपृष्ठे स्फुटशङ्कुः स्वीयः स्यादिति च सिद्धमत्र भवेत् ॥
छेद्यकदृश्यमिदं स्याद् विलिखेद् वृत्ते भुवोऽथ तन्मध्यम्।
केन्द्रं कृत्वा स्वं स्वं कक्षासूत्रंलिग्वेद् सदियक्मूत्रम् ॥
केन्द्रं कृत्वा याम्योदक्सूत्रकपरिधियोगमथ विलिखेत्।
वृत्तं त्रिज्यासूत्रेणैतद् दृङमण्डलं सदियसूत्रम् ॥
भागैरङ्किसमथवा घटिकाभिः सर्ववृत्तमिह कार्यम् ।
याम्योदक्सूत्रमिह प्रकल्प्यमधऊर्ध्वयातसूत्रमिति ॥
कक्ष्यावृत्ते स्वीये यतमे भागे ग्रहस्तदा चरति ।
दृङ्मण्डलेऽपि ततमे भागे कुर्यात् खगर्क्षविन्दुमिह ॥
कक्ष्यापरिधिगखेचरदृड्मण्डलकेन्द्रगस्यसूत्रस्य ।
दृङ्मण्डलपरिधियुतौ बिन्दुं ग्रहसंज्ञितं पुनः कुर्यास् ॥
अनयो. खगर्क्षखेचरसंज्ञितविन्दोर्यदन्तरालं स्यात् ।
लम्बनलिप्तामान तद् भवति हि खेचरस्य तदा ॥२६५॥
पक्ष्याव्याससमे द्वे सूत्रे दिग्वृत्तमध्यतो नेये।
विन्दुद्वयगे च तयोः शिरोन्तरं लम्बयोजनस्य मितम्॥
दृङ्मण्डल एव स्याद् विहगाभिमुखे बिलम्बनं सततम्।
लम्बनमिति दृग्भेदो दृष्टिर्द्रष्टुः खगानुगा च यतः ॥२६७॥
कर्णात्मकमुक्तमतो लम्बनमपमानुगा तु तस्य नतिः।
बाहुरतदितरगा स्यात् कोटिग्रहणे विलम्य गनती ते॥
लम्बनमित्यपमगतिग्रहणे विहगस्य कल्प्यते गणकैः।
नतिरिति च स्वादपमाद् विक्षेपस्ते ततो भुजाको(टि29^(?)टी)॥
दृक्क्षेपणात् साध्या कोटिर्वाहुस्तु दृग्गतिज्योक्ता।
दृग्ज्यादृक्क्षेपज्याकृतिविवरपदं हि दृग्गतिज्योक्ता॥
शून्ये सति दृक्क्षेपे लम्बनमपमण्डले स्थितं सर्वम्।
अपमण्डलमेव तदा यस्माद् दृङ्मण्डलं ग्रहाभिमुखम्॥
त्रिगुणसमे दृक्क्षेपे लम्बनमपमस्य पार्श्वगं निखिलम्।
दृड्मण्डलस्य मध्ये यस्माद् रशनावदपमवृत्तमिह॥
दृक्क्षेपाभिधकोट्या वृद्धिवशाद् स्वादतोऽत्र नतिवृद्धिः।
++दृग्गतिवार्वृद्धिवशाल्लम्बनस्य वृद्धिरपि ॥ २७३ ॥
भूमिव्यासार्धहताद् दृक्क्षेपाद् दृग्गतेश्च ये लब्धे।
त्रिज्याभिधकर्णेन क्रमशो नतिलम्बयोजनमिती ते ॥
योजनकर्णे योजनमेतावच्चेत् कियत् त्रिगुणकर्णे।
इति नतिलम्बनयोरिह साध्या लिप्तात्मिका मितिश्चापि॥
दृग्गतिक्क्षेपज्ये दृग्ज्याकर्णस्य बाहुकोटी चेत्।
लम्बनकर्णस्य तु के इति वा ग्रहणोक्तलम्बननती स्तः॥
योजनकर्णे भानोः पञ्चाहीष्वाङ्कवाणजलधिसमः।
इन्दोर्योजनकर्णः पर्वतनगरामवेददहनसमः ॥२७७॥
अविशेषकर्णनि30हतौ त्रिज्याभक्ताविमौ स्फुटौ भवतः।
नीचोच्चभागगोऽस्मादध उपरि चरेद् पतो ग्रहः स्थानात्॥
व्योमेन्दूदधिवेदैस्तुलितो भानोर्विधोस्तिथिज्यलने।
खेषुखविधुभिर्भूमेर्व्यासो बिम्बस्य योजने प्रोक्त॥
बिम्बव्यासावुदितौ रविशशिनोस्त्रिगुणतापि तो,च तयोः।
स्फुटयोजनकर्णाभ्यां विहृतो लिप्तात्मकौ स्फुटोभवतः॥
स्वाधःस्थितेन शशिना छादनमुदितं रवेर्निजं ग्रहणम्।
कक्ष्याभेदादनयोः प्रतिदेशं छादनं रवेर्भिन्नम्॥
निजमार्गगभृच्छायाप्रवेश इन्दोर्निजं ग्रहणमुक्तम्।
तमसि प्रविष्ट इन्दुः सर्वत्रकप्रकार एव भवेत् ॥ २८२॥
तमसा वाध्यश्चन्द्रः कथमिति चेदुच्यते तमोहन्ता।
भानो करा हि शशिनः करास्ततस्तमसि ते कथस्युरितिः॥
तेजःसूत्रं यस्मिन् पतति स्थानं हि तत् प्रकाशयुतम्।
तेजस्सूत्रविहीनं स्थानं तमसावृतं भवेन्निखिलम्॥
यत्र रविर्भूच्छन्नस्तत्रस्थतमो भवेत् क्षितिच्छाया।
तस्या मानं साध्यं छायायुक्त्या प्रदर्श्यते चात्र ॥ २८५॥
शङ्कुरिनाद्गुतुल्यस्तद्विगुणसमोन्नतिः प्रदीपस्य।
शङ्कुप्रदीपविवरे भू शङ्कुमितात्र चिन्त्यते छाया ॥२८६॥
दीपात् प्रवृत्तसूत्र शङ्कशिरस्स्पृक् पतेत् क्षितौ यत्र ।
छायाग्रंतत्र भवेच्छङ्को सूत्रं च कर्णसंज्ञं तत् ॥ २८७ ॥
छायाग्रकर्णमूलान्तरभूर्वाहुस्तु शङ्कुकोट्या स्यात्।
छायाग्रदीपमूलान्तरभुर्वाहुः प्रदीपफोट्याश्च ॥ २८८ ॥
शङ्कनदीपकोट्या बाहुः शङ्क्वग्रदीपविवरगतः।
कर्णस्तु बाहुकोट्योग्रद्वयविवरगं भवेत् सूत्रम् ॥ २८९ ॥
शङ्कूनदीपकोट्या बाहुश्चेच्छङ्कुदीपविवरभुवा।
लितोऽत्रशङ्कुकोट्य31 को वाहुरिति प्रभा भवेच्छड्कोः।
+++++++++दीपो भूव्यासदलमिह तु शङ्कुः।
स्फुटयोजनकर्णः स्याद् भानोः शङ्कुप्रदीपविचरजभूः ॥
अत्रोदितस्य शङ्कोर्या छाया सा भवेत् क्षितिच्छाया।
वृत्ता सा भूमिसमा मूलेऽल्पा शिरति पुच्छचत् साग्ने ॥
रविपरिधिनिर्गतानां सूत्राणां पत्र भूपरिधिगानाम्।
संयोगो व्योम्नि भवेद् भूच्छायाया भवेद्धि तत्राग्रम्॥
स्फुटयोजनकर्णोऽतो भानोर्भूव्यासताडितोऽर्कभुवोः।
व्यासान्तरेण भक्तो भूच्छायादैर्ध्ययोजनमितिः स्यात् ॥
इच्छाराशेरत्र द्वैगुण्याज्जायते न फलभेदः।
यस्माद् द्वाभ्यां निघ्नः प्रमाणराशिश्च परिगृहीतोऽत्र ॥
स्फुटयोजनकर्णोनादिन्दोर्भूव्यासताडिताल्लब्धम् ।
छायादैर्ध्यं छायादैर्ध्येण व्यासमानामह तमसः ॥ २९६॥
तमसो व्यासस्त्रिज्यानिहतचन्द्रस्य योजनश्रुत्या।
विहृतंस्तमसो बिम्बंकलात्मकं भवति शिशिरकरमार्गे॥
छायादैर्ध्यं शशिन. स्फुटयोजनकर्णविवररहितं यत्।
शशिमार्गोर्ध्वगतच्छायाभागस्य दैर्ध्यमानं तत् ॥१९८॥
छायाग्रात् तद्दैर्घ्यान्तरे कुतुल्यो हि भवति तद्व्यासः।
शशिमार्गोर्ध्वगताशान्तरे तदा स्यात् कइति समोव्यास॥
यदि शशिकक्ष्यायां स्थादेतावान् कस्तदा त्रिगुणवृत्ते।
इति तमसो बिम्बं स्यात् कलात्मकं शिशिरदीधितेर्मार्गे।
छाद्यच्छादविपरक्षेत्रं तद् बिम्बटलयुतेरुनम्।
यावत् तावद्ग्रहणं ततोऽधिके दृश्यते ग्रहः सकलः॥
इत्युदिता संक्षेपादस्माभिर्गोलदीपिका य हमाम् ।
पुरुषः पठेत् स लोके गोलविदां गण्यते नृणां मध्ये ॥३०२॥
इति गोल्दीपिका समाप्ता।
___________________
शुभं भूयात् ।
]
-
" मपमण्डलल ग पाठः” ↩︎
-
“‘प्त भगोलमु’क पाठः” ↩︎
-
“‘घटिकाम’ क ख पाठः” ↩︎
-
“‘लमेतद् वा’” ↩︎
-
“‘गस्मिन्नपि द’” ↩︎
-
" स्तु ग. पाठ.” ↩︎
-
“‘ख्या तेषा दिवसे तुल्या ग’ क पाठ” ↩︎
-
“‘भट्टम्य।’ इति वृत्तानुगुण ‘भटकस्य’ इति वा” ↩︎
-
“‘न्तेऽर्काद् ध्रु’” ↩︎
-
" ध्याल्लङ्का क पाठ" ↩︎
-
“अक्षाकारस्य पूर्वरूप चिन्त्यम्।” ↩︎
-
“शस्तुल्येति ख.ग.पाठ” ↩︎
-
“‘त्र्यश ग’ ख पाठ” ↩︎
-
“‘स्व’ ख ग पाठ” ↩︎
-
“जीविका इति स्यात्” ↩︎
-
“ग क पाठ” ↩︎
-
“‘कामे’ ख ग पाठ” ↩︎
-
“‘ग्रहे तन्त.’ क ग पाठ” ↩︎
-
“‘घं’ क. ग. पाठ” ↩︎
-
“‘विक्षे’ क ग पाठ” ↩︎
-
“‘धिक्स्य’ ख पाठ” ↩︎
-
" थ समच्छा क. ग. पाठ." ↩︎
-
“‘भन्तुः’ ख ग पाठ” ↩︎
-
" क्ता क.ग. पाठ" ↩︎
-
" म ख. पाठ" ↩︎
-
“‘दिम्।’ स ख पाठ” ↩︎
-
“‘को’ क. ग पाठ” ↩︎
-
“‘टि।’ क ग पाठ” ↩︎
-
“‘नीतौ’ क ग पाठ” ↩︎
-
“‘ट्यो’ ख पाठ” ↩︎