[[खण्डखाद्यकं-करणम् Source: EB]]
[
[TABLE]
[TABLE]
[TABLE]
[TABLE]
अथ खण्डखाद्यकस्य विषयानुक्रमणिका
| Preface |
| तिथिनक्षत्राधिकाराध्यायः |
| ग्रहगत्यध्यायः |
| त्रिप्रश्नाध्यायः |
| चन्द्रग्रहणाध्यायः |
| सूर्य्यग्रहणाध्यायः |
| उदायास्ताधिकारः |
| चन्द्रशृङ्गोन्नत्यध्यायः |
| समागमाध्यायः |
| खण्डखाद्यकोत्तरम् |
| खण्डखाद्यके भट्टोत्पलपठिता अतिरिक्तश्लोकाः |
PREFACE
A translation of Brahmagupta’s Khaṇḍanakhādyakawith notes and illustrations was published in 1934 A.D., as Part I of a complete edition. The Part II containing the Sanskrit text with Pṛthudaka’s commentary is now published. It has not been possible to reconstruct the Uttara-Khaṇḍanakhādyaka or the supplementary part of the work in which Brahmagupta gave his own corrections to Āryabhaṭa’s astronomical constants, new methods and additional topics, to make the Khaṇḍanakhādyaka itself a complete manual of Hindu Astronomy. In view of this I have thought it proper to include in this publication all the additional verses that are found in the text as used by Bhaṭṭotpalain his commentary on it. These verses are generally of an explanatory character, and do not all appear to be of Brahmagupta’s composition.
In preparing the Sanskrit portion of this edition, a photographic copy of the Berlin manuscript, obtained by the Calcutta University, has been used. I had access to another manuscript of the work possessed by the Calcutta University Library ; I have also seen the Deccan College manuscript which was kindly secured for me by Dr. N. R. Ray, Ph.D., Librarian of the Calcutta University Central Library. All these three manuscripts are the same, even in respect of omissions and errors. As I send out this part of my edition of the work to the world, I sincerely express regrets for these and other errors, omissions and misprints, which I could not avoid owing to my own shortcomings and to other causes over which I could have no control.
I have to express my thankfulness to Pandit Babuāji MiśraJyautiṣācārya Lecturer, Calcutta University, in the Department of Arts, and my former colleague, who has helped me occasionally in correcting the proof sheets.
CALCUTTA,
February, 1941,
P. C. SENGUPTA.
————————
अथ गणकचक्रचूड़ामणि-भिनमालवकाचार्य्य-
श्रीमद्ब्रह्मगुप्तकृतं
खण्डखाद्यकं करणं
चतुर्व्वेद-पृथूदकस्वामिकृत-खण्डखाधक-विवरण-
नामक-भाष्सयहितं प्रारभ्यते।
यस्मिन् सर्व्वंयतः सर्व्वमिति वेदविदो विदुः।
तं प्रणम्य महात्मानं गोविन्दं सर्व्ववन्दितम् ॥
ज्योतिःशास्त्रं नमस्यं च ताराग्रहसमायुतम्।
व्याख्यास्ये ब्रह्रागुप्तोक्तंकरणं खण्डखाद्यकम्॥
सन्तः श्रेयाधिगमननिमित्तं विघ्नप्रशमनाय शास्त्रारम्भेष्विष्टदेवतानमस्कारं कुर्वन्ति। तदयमपि भिममालवकाचार्य्योब्रह्मगुप्तो महादेव-भट्टारक-वरलब्धप्रसादस्त्रिवर्गाभीष्ट-फलप्रदायिनीं ग्रहगतिं संक्षिप्तां खसूत्रैःकत्तकाम आचारार्थं भगवतः श्रीमहादेवस्यनमस्कारं चक्रे।
प्रणिपत्य महादेवं जगदुत्पत्तिस्थितिप्रलयहेतुम् ।
वक्ष्यामि खण्डखाद्यकमाचार्य्यार्य्यभटतुल्यफलम् ॥ १॥
प्रणिपत्य मनोवाक्कायादिभिरवनम्यमानः1अष्टाङ्गंशरीरं भूमौ निधाय शिरसा नमस्कृत्येत्यर्थः। कमित्याह। महादेवमिति। महांश्चासौदेवश्च महादेवः। तं प्रणिपत्य। किम्भूतमित्याह। जगदुत्पत्तिस्थितिप्रलयहेतुम्। उत्पत्तिः सम्भवः खितिः स्थानं प्रलयो विनाशः। जगदुत्पत्तिखितिप्रलयास्तेषां हेतुः। जगतः सम्भवस्थानविनाशानां कारणमित्यर्थः। किं करिष्यामीत्याह। वक्ष्यामि किमिति। खण्डखाद्यकमिति। खण्डेनमिश्रंखाद्यकं खण्डखाद्यकं भक्ष्यविशेषं भुञ्जानस्य सुखं भवति। तथेदमपि करणं गणयितुः स्वल्पेनैव गणितेन ग्रहगतिं सम्पादयतः सुखं भवति। इति वक्ष्यामि किम्भूतमित्याह। आचार्य्यार्य्यभटतुल्यफलम्। योऽसावार्य्यभटनामाचार्य्यस्तेन यत् प्रणीतं तन्त्रंतदार्य्यभटं तेन सदृशं फलं यस्य तदार्य्यभटतुल्यफलम्। अथ य एवं “नोदयति” यदि खण्डखाद्यकमाचार्य्यार्य्यभतुल्यफलं तदनेन किं प्रयोजनमिति तं प्रत्याह।
प्रायेणार्य्यभटेन व्यवहारः प्रतिदिनं यतोऽशक्यः।
उद्वाहजातकादिषु तत्समफललघुतरोक्तिरतः॥ २॥
आर्य्यभटतन्त्रेण प्रतिदिनं तिथिनक्षत्रादिको व्यवहारः विस्तृतत्वाद् गणितस्य न शक्यते कर्तुम्। अतत्फलसमं स्वल्पेन सूत्रेण गणितेन च कृतवानिति। खण्डखाद्यकमिति। केषु व्यवहारो न शक्यत इत्याह। उद्वाहजातकादिष्विति। आदिग्रहणाद् विवाहजातक-यात्रा-तिथि-नक्षत्र-करण-संक्रान्ति-व्यतीपात-ग्रहणोदयास्तमयशृङ्गोन्नति-समागमादिष्वेतेषु व्यवहार आर्य्यभटस्यातिविस्तृतत्वात् न शक्यते कर्त्तम्। मया स्वल्पोक्त्याकृतमिति। अधुनाऽर्य्यात्रयेणाहर्गणानयनमाह-
शाकोऽगवसुशरोनोऽर्कगुणश्चैत्रादिमाससंयुक्तः ।
त्रिंशदगुणस्तिथियुतः पृथगिषुसहितो द्विधा भक्तः ॥ ३॥
पञ्चाम्बुधिनवमनुभिर्लब्धोनो भाजितः षड़गनन्दैः।
लब्धाधिमासकदिनैरधिकोऽधो रुद्रसङ्गुणितः ॥ ४॥
स्वरनववेदयुतोऽधस्त्रागतिथिरुद्रैर्हृतफलविहीनः।
त्रिखनगहृतः फलावमरात्रोनोऽहर्गणोऽर्कादिः ॥ ५॥
पुनरप्यधः2 कार्य्य इत्यर्थः। अधःस्थापितो राशिः त्रागतिथिरुद्रैर्हृत इति। त्रयश्चागाश्चतिथयश्चरुद्राक्ष त्रागतिथिरुद्रास्तैश्चहृतः ॥१११५७३॥
तस्मात् फलं त्रागतिथिरुद्रैर्हृतफलं तेन फलेन विहीनस्त्रागतिथिरुद्रैर्हृतफलविहीनः। तृतीयस्थानात् त्रिखनगैः। ७०३ ॥ अवाप्तफलोनदिवसः प्रथमराशिरूनः कार्य्य। एवं सोऽहर्गणोऽर्कादिरिति। अह्नांगणोऽहर्गणः। अर्कादिः। अर्कः आदिर्यस्यासावर्कादिः। अहर्गणश्चार्कादिरिति। दिनसमूह आदित्यादिर्भवतीति वाक्यार्थः।
करणम्। शका नाम म्लेच्छा राजानस्ते यस्मिन् काले विक्रमादित्येन व्यापादिता स कालोऽत्यर्थं प्रसिद्धः। तं कालं वर्षसंख्यं च वर्षैज्ञात्वाततस्तस्मात् कालाद् अगवसुशराः शोध्याः।अत्रागवसुशराः स्थापिता वेदितव्या अन्यत्रापि यत्र कुत्रचित् सर्व्वत्रापि। पञ्चशतानि सप्ताशीत्यधिकानीत्यर्थः। ५८७॥ अगवसुशरैरूनः सकलो द्वादशभिर्हतः कार्य्यः। एवंविधः स चैत्रसितादारभ्य ये गता मासास्तैः संयुतः कार्य्यः। तत्र त्रिंशता सङ्गुण्य सितप्रतिपत्प्रभृति यावन्तो व्यतीतास्तिथयस्तैः संयुतः कार्य्यः। एवंविधो राशिः सौरोऽहर्गणोभवति। तमधः कृत्वा पञ्चभिर्युतः कार्य्यः। ततः पुनरप्यधः कृत्वा पञ्चाम्बुधिनवमनुभिर्भजेत्। चतुर्द्दशसहस्त्रैर्नवभिः शतैः पञ्चचत्वारिंशदधिकैरित्यर्थः। १४८४५ । लब्धं दिवसादि फलं भवति। तत् मध्यस्थापिताद्राशेःसंशोधनीयम्। ततस्तस्य राशेः षड़गनन्दैर्भागमपहरेत्। नवभिः शतैः षट्सप्तत्याधिकैरित्यर्थः । ८७६। लब्धं गताधिमासकाः। शेषं सविकलं गताधिमासशेषसंज्ञंभवति। तत्र घटिकास्थाने घटिकासप्तदशकं संयोज्यम्। यस्मात् पुरस्तात् वक्ष्यति। अधिमासावमशेषसंज्ञे भवतः घटिका-सप्तदशमनुभिरभ्यधिके इति। अथ3 वर्त्तमानेऽधिमासको भवति। तदा शेषत्रिंशगुणाञ्च क्लेदनायाति। दिनादि अधिमासदिनगणे…मधीत्येव। अधिमासशेषकमकान्ते स्थापयेत्। तेन उत्तरत्र प्रयोजनं भविष्यतिचन्द्रार्कयोः प्रकारान्तरेणानयन इति। ये लब्धा अधिमासास्तान् त्रिंशता सङ्गुण्य सौराहर्गणे प्रथमराशावित्यर्थः संयोज्य स चान्द्रदिनगणो भवति। ततस्तंचान्द्रं दिनगणम्अधः कृत्वा एकादशभिर्गुणयेत्। ततस्तस्मिन् खरनववेदाः क्षेप्याः। चत्वारि मतानि सप्तनवत्यधिकानीत्यर्थः। ४८७। ततस्तमधः कृत्वा त्रागतिथिरुद्रैर्भजेत्। लक्षेणैकेनैकादशभिः सहस्रैःपञ्चभिःशतैस्त्रिसप्तत्यधिकैरित्यर्थः। १११५७३।लब्धं दिवसादि फलं मध्यमराशेः संशोध्य शेषं त्रिखनगैर्विभजेत्। सप्तभिः शतैस्त्र्यधिकैरित्यर्थः। ७०३ । अवाप्तमवमरात्राणि भवन्ति। शेषं सविकलमवशेष भवति। तत्र घटिकाचतुर्दशकं योजनीयम्। यस्माद्वक्ष्यति “अधिमासावमशेषे घटिका सप्तदशमनुभिरभ्यधिके इति। ततस्तदेकान्ते स्थापयेत्। लब्धान्यवमरात्राणि चान्द्राद् दिनगणात् संयोध्य सावनोऽहर्गणो भवति।
सग्रह4स्तस्मिन्नहनि []4 दिनपो भवति। ऊनरात्रपातो यस्मिन् काले। सदा तिथिद्वये दिनप एक एव लभ्यते। स चैकादि…भवति। भ्रान्तिर्नकार्य्या। स एकतिथिलुप्तो ज्ञेयः। अथ कियान् कालोऽधिमासस्य पतितस्य पतिष्मतोऽवमरात्रस्य ज्ञातुमिच्छति। तदा येऽधिमासशेषगता दिवसाः तावत्कालोत्थितस्याधिमासस्य गतः। तदेव षडगनन्देभ्योऽपास्य यच्छेषो दिवसादिकालः। तावत्कालेऽधिमासस्य पातो भविष्यति। तथावमशेषस्य तदवमशेषदिवसाः। तान् कालान् एकादभिर्विभज्य रविदिवसादिकालो भवति। ऊनरात्रस्य पतितस्य वदेवावमशेषं त्रिखनगेभ्योऽपास्यशेषमेकादशभिर्विभज्य लब्धो दिवसादिकालः। तावत् कालेनोनरात्रस पातो भविष्यति।
अथोदाहरणम्। तद् यथा। शाकः ७८६ तस्मादगवसुशरान् । ५८७। योध्य भेषं १८८ एतद् द्वादशगुणं जातं २३९९। अस्मिंश्चैत्रसितादारभ्य मासमेकं गतम्। संयोग्य तत् २३९८। एतत्रिंशता गुणितं ७१६७०। सितमतिपत्प्रभृति तिथीन् इमान् ११ संयोज्य जातं ७१६८१। पञ्चयुतं ७१५८५। एतत् पृथक्स्थंकृत्वा पञ्चाम्बुधिनवमनुभिर्भागे हृतेलब्धं दिवसादि फलं ४॥४७॥४७॥ अनेन फलेन मध्यमराशिमिमं ७१६८६ न्यूनीकृतं जातं ७१६८१॥१२॥१३॥ अस्य षड़गनन्दैर्भागे हृतेऽवाप्ताधिमासाः ७३ । अधिमासमेषं ४३३।१२॥१३॥ तत्र घटिकासप्तदशकं संयोग्य जातं ४३३।२९।१३ एतदुपयुज्येत प्रकारान्तरेणार्कचन्द्रयोरानयतेइति। लब्धाधिमासका दिनीकृता जाता २१८०। एते सौरेऽहर्गणेऽस्मिन्७१६८१ संयोज्य जातं ७१६८१। एतदेकादशगुणं जातं ८१२५८१।अत्र स्वरनववेदा अमी४९७क्षिप्त्वा८१३०७८ प्रयमधः स्थाप्यः। अस्य त्रागतिथिरुदै ।१११५७३। र्भागे हृते अवाप्तं फलं दिनादि ७।१७।१४। तन्मध्यराशेरस्मात् ८१३०७८ शोध्यं शेषं ८१३०७०।४२।४६।अस्य त्रिखनगैर्भागे कृतेऽवाप्तमवमरात्राणि ११५६ अवशेषं ४०२।४२।४६।अस्मिन् चतुर्द्दश घटिकाः संयोज्य जातं ४०२।५६।४६ एतदुपयुज्येत। अवमरात्राणि इमानि १९५६ चान्द्रदिनगणादस्मात् ७३८७१ संशोध्य जातः सावनोऽहर्गणोऽर्कादिः ७२७१५। अस्य सप्तभिर्भागे हृते शेषं ६ । एवमर्कात् प्रति षष्ठः शुक्रः। अतोऽत्र दिने शुक्रवार इत्येवं यथाकालं सर्वत्रोदाहरणीयमिति। अथाधि मासावमशेषे करणागते यथार्य्यभटतन्त्रकृततुल्ये भवतस्तदर्थमाह।
अधिमासावमशेषे घटिकासप्तदशमनुभिरभ्यधिके।
अधिमासशेषस्यघटिकासप्तदशकं संयोज्यम्। अवमशेषस्य घटिकाचतुर्दश संयोज्यम्। अतएव सर्व्वमेव व्याख्यातमिति। अथ वक्ष्यमाणेन विधिना यौ चन्द्रोच्चपातावागमिष्यतस्तावार्य्यभटतन्त्रादधिकावागमिष्यतः। यस्मादधिकौतस्मादूनीकृतावार्य्यभटतुल्यौ भवतस्तदर्थमाह।
इन्दूच्चचन्दपातावूनौशरदिग्विलिप्ताभिः ॥ ६॥
करणागताच्चन्द्रोच्चात् पञ्चविलिप्ताः संशोध्याः। करणागताच्चन्द्रपाताद् दश विलिप्ताः संयोध्याः। एवं कृते आर्य्यभटतुल्यौ भवतः इत्यर्थः। अथ वक्ष्यमाणेन विधिना बुधशीघ्रशनैश्चरावधिकावागमिष्यतः आर्य्यभटतन्त्रात्। अङ्गारको गुरुश्चोभौ यथार्य्यभटसमौ भवतस्तथा।
तिसृभिः शनिर्ज्ञशौघ्रंद्वाविंशत्या कुलोऽधिको द्वाभ्याम् ।
चतसृभिरधिको जीवोऽर्द्धरात्रिकार्य्यभटमध्यसमाः ॥ ७॥
करणागतात् शनेर्विलिप्तात्रयं शोध्यम्। करणागतान बुधशीघ्रात् विक्षिप्ता द्वाविंशतिः शोध्याः। करणागते कुजे विलिप्ताद्वयं देयम्। करणागते जीवे विलिप्ताचतुष्टयं देयमित्वर्थः। एते सर्व्वेआर्य्यभटसमा भवन्ति। एते ग्रहाअर्हरात्रिका आगच्छन्ति। पुरस्तात् तात्कालिकीकरणंकथयिष्यामोऽस्मिन्नार्य्यसमासोदाहरणं न कृतं प्रकटार्थत्वात्। इदानींमध्यमानयनमर्कबुधसितानां शीघोच्चानयनं च कुजगुरुशनीनामाह।
खखवसुगुणिताद वसुगुणकृताधिकान्मुनिनखद्विनन्दयमैः।
भगणाद्यर्कबुधसिताः शीघ्रोच्चं कुजगुरुशनीनाम् ॥ ८॥
वाक्यार्थः। खं च खं च वसवश्च खखवसवः। तैर्गुणितः खखवसुगुणितस्तस्मात्। खखवसुगुणितात्। कुतः अनन्तरप्रस्तुतादहर्गणादित्यर्थः। वसुगुणकताधिकादिति। वसवश्च गुणाश्च कृताश्च वसुगुणकृतास्तैरधिको वसुगुणकृताधिकस्तस्मात् वसुगुणकताधिकात्। मुनिनखद्विनन्दयमैरिति। मुनयश्च नखाश्च द्वौच नन्दाश्च यमौ च मुनिनखद्विनन्दयमास्तैर्मुनिनखद्विनन्दयमैर्भागमपहरेत्। भगणाद्यर्कबुधसिता इति। भगण आदौ यस्य फलस्य तत् भगणादि। अर्कादीनामित्यर्थः। भगणादितत्फलं अर्कबुधसिताः। तदेव शीघ्रोच्चंकुजगुरुशनीनामित्यर्थः ।
करणे चत्वारो भेदा भवन्ति मध्यममन्दोच्चपातशीघ्रोच्चाख्यास्तत्रार्कचन्द्रयोः शीघ्रोच्चाभावः रवेःपाताभावः। एवमादित्यस्य भेदद्वयम् मध्यममन्दोच्चाख्यम्। चन्द्रमसः भेदत्रयम् मध्यममन्दोच्चपाताख्यम्। भौमादीनां चत्वारो भेदाः मध्यममन्दोच्चपातशीघ्राख्याः। तेनायमर्थः। य एवार्कमध्यमः स एव बुधो मध्यमः स एव शुक्रो मध्यमः। स एव कुजगुरुशनीनां शोघ्रोच्चम् । अथ भूगोलादुपरि चन्द्रकक्षा तदुपरि बुधकक्षा तदुपरि शुक्रकक्षा तदुपरि रविकक्षा तदुपरि भीमकक्षा तदुपरि गुरुकक्षा तदुपरि शनिकक्षा तदुपरि नक्षत्रकक्षा इत्येवमुपर्य्युपरि कक्षास्थितिः। येषामादित्याद उपरि कक्षा तेषामादित्यः शीघ्रः। येषां चन्द्रवर्ज्ज्यमादित्याधः कक्षा तथा तेषामादित्यो मध्यमः। अतएवादित्येनागतेन बुधशुक्रौमध्यमावागतौ भवतः। भौमजीवसौराणां शीघ्रोच्चानि वागतानि भवन्ति तदानयनं व्याख्यायते।
करणम्। इष्टदिनाहर्गणं संस्थाप्य खखवसुभिर्गणयेत्। अष्टभिः शतेरित्यर्थः। ८००। ततस्तस्मिन् वसुगुणकताः क्षेप्याः। चत्वारि शतानि अष्टत्रिंशदधिकानीत्यर्थः। ४३८। ततस्तं मुनिनखद्विनन्दमयैर्भजेत्। लक्षद्वयेन हानवतिभिः सहस्रैःशतद्वयेनसप्ताधिकेनेत्यर्थः। २९२२०७। अवाप्तभगणास्त्याज्याः। शेषं द्वादशाहृतं मुनिनखद्विनन्दयमैर्भजेत्। राशयोलभ्यन्ते। शेषं त्रिंशता सङ्गुण्य तेनैव क्लेदेन भागा लभ्यन्ते ते च भागाः राशीनामधः स्थाप्याः। ततोऽवशिष्टं षष्ट्या सङ्गुण्य तेनैव क्लेदेन लिप्ता लभ्यन्ते। ताश्चभागानामधः स्थाप्याः। एवमादिग्रहणाद् राशिभागलिप्ता विलिप्तातोऽर्कः। स एव मध्यमबुधशुक्रौ। स एव शीघ्रोच्चं कुजगुरुशनीनामिति।
अथोदाहरणम्। तथेष्टदिनाहर्गणः ७२७१५। खखवसुगुणितो जातः ५८१७२०००। अत्रवसुगुणकृतान् । ४३८ । संयोज्य जातं ५८१७२४३८। अस्य मुनिनखद्विनन्दयमरमीभिः २९२२०७ भागेहृते भगणशुद्धशेषं २३२४५। एतद् द्वादशगुणं जातम् २७८९४०। अस्य मुनिनखद्विनन्दयमर्भागे हृते राशयः। शेषमिदम् ३७८९४०। एतत् त्रिंशता गुणितं जातं ८३६८२०० तेनैव भागहारेण लब्धा भागाः २८। शेषं १८६४०४ षष्ट्या सङ्गुण्य जातं १११८४२४०। तेनैव भागहारेण लिप्ता ३८। पुनरपि शेषमिदं ८०३७४ । एतत् षष्ट्या गुणितं जातं ४८२२४४० पुनरपि तेनैव भागहारेण विलिप्ताः १६। एवं राशिभागलिप्ता विलिप्ताः खे खे स्थाने संस्थाप्य जातो मध्यमोऽर्कः।
०२८३८१६
एष एव बुधशुक्रौमध्यमौ। एष एव कुजगुरुशनिशीघ्रोच्चमित्यर्थः। अथ मध्यमचन्द्रानयनम्।
रविगुणतिथिभागयुतः पृथगर्कस्त्रिगुणितादवमशेषात् ।
त्र्यगशशिलब्धांशयुतोऽर्द्धरात्रिको मध्यमचन्द्रः ॥ ९ ॥
वाक्यार्थः। रविभिर्गुणाः रविगुणाः। रविगुणाश्च तास्तिथयः रविगुणतिथयः। ताश्च भागा रविगुणतिथिभागाः। तैर्यतः रविगुणतिथिभागयुतः। कोऽसौ इत्याह। पृथगर्कः द्वितीयस्थानस्थितोऽर्क इत्यर्थः। विगुणितादवमशेषात्। त्र्यगशशिलब्धांशयुतः इति। त्रिभिर्गणितं त्रिगुणितम्। तदवमशेषं च तत्। तस्मात् त्रिगुणितादवमशेषात्। त्र्यगशशिलब्धांशयुत इति। त्रयच अगाश्चशशी च त्र्यगशशिनः। तैलब्धाः त्र्यग-शशिलब्धाः। त्र्यगशशिलब्धाश्च ते अंशाश्च तैरंशैयुतो लब्धांशयुतः। लब्धेनांशादिना फलेन रविर्युक्तोमध्यमचन्द्रो भवतीत्यर्थः ।
अथ करणम्। अहर्गणे क्रियमाणे मासादारभ्य यावत्यस्तिथयो दत्ता स्ता द्वादशभिर्गणा भागा भवन्ति। तेषां त्रिंशता भागे हृते राशयो भवन्ति। एवं राशयो भागाश्चद्वितीयस्थानस्थितेऽर्के योजनीयाः। ततोऽवमशेषं पूर्व्वानीतं सविकलं संस्थाप्य तत् त्रिभिः सङ्गुण्य त्र्यगशशिभिर्विभजेत्। त्रिसप्तत्यधिकेन शतेनेत्यर्थः । १७३। अवाप्तं भागादि फलं भवति। रविगुणतिथिभागयुतेऽर्के संयोज्य मध्यमश्चन्द्रो भवति। इत्येवमर्द्धरात्रिकौ मध्यमौ रविचन्द्रावागतौ लङ्कासमयाम्योत्तरेखायामिति।
अथोदाहरणम्। अहर्गणे क्रियमाणे तिथय एतावत्योदत्ताः ११ । एता द्वादशगुणाः १३२। आसां त्रिंशता भागे हृते उपरि राशयो अधोभागा४)१२एते मध्यमार्केस्मिन्०२८३८१६ संयोज्य जातं ५१०३८१६पूर्व्वानीतमवमशेषमिदं ४०२।५६।४६ एतत्त्रिगुणितं जातं १२०८।५०।१८। अस्य त्र्यगशशिभिः । १७३ । भागे हृते लब्धा भागाः । ६ । शेषं षष्टया सङ्गुण्य तेनैव १७३ क्लेदेन लिप्ता ५९। पुनरपि शेषं षष्ट्यासङ्गुण्य तेनैव क्लेदेन विलिप्ताः १५ एवं भागादिफलं ६।५९।१५। एतदेककर्म्मसंस्कृतेऽर्के ५।१०।३८।१६ संयोज्यजातो मध्यमोऽर्द्धरात्रिकश्चन्द्रमाः ५।१७।३७।३१ एवं सर्व्वत्रोदाहरणीयमिति। अहर्गणादर्कः कृतोऽधुनाहर्गणाश्चन्द्रानयनमाह।
खखरसगुणितात् सशरांशमुनीन्दुकृताधिकात् त्रिनवगुणाष्टिहृतात्।
भगणादिर्वा हिमांशुर्नवयमतार्नैःकलारहितः ॥ १०॥
वाक्यार्थः। द्युगणादहर्गणाद्इत्यर्थः। खखरसगुणितात्। खं च खं च रसाश्चसखरसाः तैर्गुणितः खखरसगुणितः। तस्मात् खखरसगुणितात्। सशरांशमुनीन्दुकृताधिकादिति। सशरांशाश्च मुनयश्चइन्दुश्चकृताश्चसशरांशमुनीन्दुकृताः। तैरधिकःसशरांशमुनीन्दुकृताधिकस्तस्मात्।सशरांशमुनीन्दुकृताधिकात्। त्रिनवगुणाष्टिहृतादिति - त्रयश्च नव च गुणाश्चअष्टिश्च त्रिनवगुणाष्टयः, तैः हृतः, तस्मात् त्रिनवगुणाष्टिहृतात्। भगणादिः- भगणः आदौ यस्यासौ भगणादिः चक्रादिरित्यर्थः। भगणादिश्चासौ हिमांशुश्च। चक्रादिचन्द्रमा भवतीत्यर्थः। वाशब्दोऽत्र प्रकारान्तराय। एवं कृते चन्द्रमा भवतीत्यर्थः। किं विशेषमस्तीत्वाह। नवयमतानैःकलारहितः। अहर्गणादाप्तेन लिप्तादिना फलेन पूर्व्वागतचन्द्रमा ऊनीकार्य्यइत्यर्थः। करणम्। इष्टदिनाहर्गणं संस्थाप्य खखरसैर्गुणयेत्। षड्भिः शतरित्यर्थः। ६००। ततस्तं सशरांशमुनीन्दुकृतैरधिकं कार्यम्। चतुर्भिः शतैः सप्तदशाधिकैः घटिकाद्वादशकयुतैरित्यर्थः । ४१७।१२। ततस्तं त्रिनवगुणाष्टिभिर्भजेत्। षोडशभिः सहस्रैस्त्रिभिः शतैस्त्रिनवत्याधिकैरित्यर्थः। १६३९३। लब्धं भगणादिचन्द्रो भवति। भगणशेषं द्वादशभिः सङ्गुण्य तदधस्तात् द्वादशघटिका द्वादशभिरेव गुणयेत्। तेषां षष्ट्या भागे हृते द्वौचतुर्विंशतिघटिकासहितौ लभ्येते तावुपरि योजयेत्। ततस्त्रिनवगुणाष्टिभिर्भागे हृते राशयो लभ्यन्ते। राशिशेषं त्रिंशता सङ्गुण्य तदधस्तात् चतुर्विंशतिः घटिकाः। ता अपि त्रिंशता गुणयेत्। तेषां षष्ट्याभागे हृते हादश लभ्यन्ते तानुपरि योजयेत्। शेषं पूर्व्ववत् तस्येदं करणम् अर्कवदन्येषां ग्रहाणां भौमादीनां राशिभागलिप्ता विलिप्तादिकमित्यर्थः। ततो भूयोप्यहर्गणस्य नवयमतानैर्भागमपहरेत्। चतुर्भिः सहस्रैःनवभिः शतैरेकोनत्रिंशदधिकरित्यर्थः। ४९२९। अवाप्तं लिप्तादिकं फलं पूर्व्वागते चन्द्रमसि विशोध्य मध्यमोऽर्द्धरात्रिकचन्द्रमा भवेत्। अनेन प्रकारेण -
उदाहरणम्। तद् यथाहर्गणः ७२७१५ एषः खखरसगुणितः ४३६२९००० अस्मिन् सशरांशमुनीन्दुकृतान् ४१७।१२ संयोज्य जातं ४३६२९४१७।१२ अस्य त्रिनवगुणाष्टिभिः १६३९३ भागे हृते राश्यादिरर्कवञ्चन्द्र आगतः ५।१७।५१।१५।(पृथूदककृता इयं गणना भ्रमात्मिका, शुद्धफलमत्र राश्यादिकं ५।१७।५२।१६ इति सम्पादकस्य) भूयोप्यहर्गणस्य ७२७१५ नवयमतानरमीभिः ४९२९ भागे हृते अवाप्तं लिप्तादि १४।४५ (ततो मध्यमचन्द्रः ५।१७।३६।३० पृथूदकगणनयायाति) एतत् पूर्व्वागतं न भवतीत्यस्मात् संशाध्य मध्यमश्चन्द्रो जातः ५।१७।३७।३१ (अत्र किञ्चिदपि संशोधनं निष्प्रयोजनं यतः कलादिफलमिदमेव १४।४५ प्रथमागताच्चन्द्राद्
५।१७।५२।१६ अपास्य अर्द्धरात्रिको मध्यमश्चन्द्रः पूर्व्वानीतवद्5राश्यादिकः ५।१७।३७।३१) इयमार्य्याभिप्रायेण ब्रह्मगुप्तकृता न भवति। इत्यस्मात् क्रमवद् एवं दिनगणादागतश्चन्द्रमाः चन्द्रार्कानयनन्यायसिद्धत्वाद् आचार्येणाभिहितम्। यस्माद् रविगुणतिथिभागोनादवमशेषास्त्रिगुणात् त्र्यगशशिलब्धमंशकादिफलं च मध्यमचन्द्राद्विशोध्यार्को भवति इत्यतो न व्याख्यातमिति। इदानीमहर्गणानयनेऽर्कचन्द्रानयनमाह आर्य्याद्वयेन -
द्विनवरसभक्तमवमावशेषमाप्तदिनादितत्सहितात्।
अधिमासशेषकाच्च त्रिंशद्गुणितादृतुखदिग्भिः ॥ ११ ॥
मासदिनप्रथमैक्यं एथक् त्रयोदशगुणं द्वितीयोनो।
द्वावप्येवं मध्यो राश्याद्यावर्कचन्द्रो वा॥ १२ ॥
वाक्यार्थः। द्विनवरसभक्तमिति। द्वौ च नव च रसाश्च द्विनवरसाः। तैर्भक्तं द्विनवरसभक्तम्। किं तदित्याह। अवमशेषमिति। अवाप्तदिनादीति। अवाप्तं च तद्दिनादि च तद्भागाद्यमित्यर्थः। तेन सहितं तत्सहितं तस्मात्। कस्माद् अपि अधिमासशेषकात्। त्रिंशद्गुणितात् त्रिंशता गुणितं त्रिंशद्गुणितम्। द्विनवरसैरवमशेषादाप्तेन दिनादिनाऽधिमासशेषमधिकं कृत्वा त्रिंशता गुणितमित्यर्थः। तस्माद् ऋतुखदिग्भिरिति। ऋतवश्च खं च दिशश्चार्तुखदिशः। ताभिः ऋतुखदिग्भिः। दिनादि अवाप्तमित्यर्थः। मासदिनप्रथमैक्यं मासाश्चदिनानि च मासदिनानि तैः सह प्रथमैक्यं मासदिनप्रथमैक्यमिति। चैत्रसितादारभ्याहर्गणे ये दत्ता मासास्तिथयश्च ताभिरधिकं द्विनवरसैरवमशेषाद् दिनाद्यं कार्य्यमित्यर्थः। पृथक् त्रयोदशगुणमिति। पृथक् द्वितीयस्थानस्थमित्यर्थः। त्रयोदशभिर्गुणं त्रयोदशगुणम्। मासदिनप्रथमैक्यं हितीयस्थानगतं त्रयोदशभिर्गुणनीयमित्यर्थः। एवंविधौ राशी ततो द्वितीयेनोनौ द्वितीयोनौ। अधिमासशेषं ऋतुखदिग्भिरवाप्तेन दिनादिना द्वावप्यूनीकार्य्यावित्यर्थः। द्वावत्येवंविधौ। राशिः आदौ ययोस्तौ राश्यादौच तावर्कचन्द्रौ च राश्याद्यावर्कचन्द्रौ। च शब्दोऽत्र प्रकारार्थः।
करणम्। अनेन प्रकारेणार्य्याद्वितयस्य करणम्। इष्टदिनावमशेष संस्थाप्य तद्द्विनवरसैर्विभजेत्। षड्भिः शतैर्द्वानवत्यधिकैरित्यर्थः । ६८२ । अवाप्तं दिनानि भवन्ति। यान्येव दिनानि त एव भागाः कल्प्याः। शेषं षष्ट्यासङ्गुण्य तेनैव छेदेन लिप्ताः एवं भागादिफलं प्रथमाख्यं स्थापयेत्। ततस्तेन तदवशिष्टमधिमासशेषमधिकं कार्यम्। ततस्त्रिंशता सङ्गुण्य ऋतुखदिग्भिः विभजेत्। षडधिकेन सहस्रेणत्यर्थः ।१००६। लब्धं दिनादि भवति। इति तद्दिनाद्येनभागादि परिकल्प्यम्। तस्य द्वितीय इत्याख्या। ततो यावत्संख्यानां तिथीनां वाधिमासशेषकृते। तावत्संख्या मासा राशयः परिकल्प्याःतिथयश्च भागाः। ततो राश्याद्येन प्रथमाख्ये राशिः संयोज्यः। मासदिनप्रथमैक्यमिति तस्य संज्ञा। ततो मासदिनप्रथमैक्याद् अनष्टाद् द्वितीयाख्यं संशोध्यार्द्धरात्रिकोऽर्कः भवति। अन्यत्र मासदिनप्रथमैक्यं त्रयोदशभिः सङ्गुण्य द्वितीयाख्येनोनं कृत्वाऽर्द्धरात्रिकश्चन्द्रो भवति। अथ वर्त्तमाने अधिमासो भवति। तदाधिमासशेषं षडगनन्दाधिकं कृत्वा तस्मादुक्तवद्द्वितीयाख्यमानेतव्यम्।
अथोदाहरणम्। तद् यथा। अवमशेषम् ४०२।५६।४६ अस्य द्विनवरसैरमीभिः ।६९२। भागे हृते दिनादिफलं ०।३४।५६ एतदधिमासशेषेऽस्मिन् ४३३।२९।१३ संयोज्य जातमिदं ४३४।४।९। एतत्त्रिंशता गुणितं जातमिदं १३०२२।४।३० अस्य ऋतुखदिग्भिरमीभिः १००६ भागे हृते दिनादिफलं द्वितीयाख्यमिदं १२।५६।३९चैत्रसितादारभ्य मासदिनानि। अत्र मासा राशयः १।११ दिनानि भागाः एतान् १।११।०।० प्रथमेऽस्मिन् ०।३४।५६ संयोज्य जातं मासदिनप्रथमैक्यं १।११।३४।५६ अस्माद् द्वितीयाख्यमिदं १२।५६।४० संशोध्य जातो मध्यमोऽर्कः०।२८।३८।१६अथ मासदिनप्रथमैक्यं त्रयोदशभिः सङ्गुण्य जातं ६।०।३४।८ अस्माद् द्वितीयाख्ये शोधिते चन्द्रो जातः ५।१७।३७।२८। एवमर्कचन्द्रौ सदृशौजातौपूर्व्वागतौयथाहर्गणादिति। अथार्कचन्द्रयोर्मन्दोच्चानयनमाह -
भागाशीतिरिनोच्चं शशिनः पादोनकृतशरकृतोनाद्।
भगणादिर्द्वित्रिरदैर्वसुनवयमनवगुणैः सकलम् ॥ १३ ॥
वाक्यार्थः। भागानामशीतिर्भागाशीतिः। इनस्यउच्चम् इनोच्चम्।राशिद्वयमंशकाश्च विंशतिः। अर्कस्यमन्दोच्चमित्यर्थः। शशिनश्चाहर्गणात्। किम्भूतादित्याह। पादोनकृतशरकृतोनात् । पादोनाश्चकृताश्च पादोनकृताः। पादोनकृताश्च शराश्च कृताश्च तैरूनः। पादोनकृतशरकृतोनः। तस्मादहर्गणादित्यर्थः। भगणश्चादौ यस्य तद् भगणादि चन्द्रोच्चं लभ्यते इत्यर्थः। द्वित्रिरदैरिति। द्वौच त्रयश्च रदाश्च द्वित्रिरदास्तैः द्वित्रिरदैः। वसुनवयमनवगुणैस्तैरहर्गणादाप्तं कलादिकमित्यर्थः। ताभिः कलाभिः सह वर्तत इति सकलम्। लिप्तादिना फलेन पूर्व्वागतं चन्द्रोच्चं युक्तं कार्य्यमित्यर्थः।
करणम्। अशीतिभागाः अर्कस्य मन्दोच्चं भवति। अस्य त्रिंशता भागे हृते लब्धं राशिद्वयं विंशतिभागाः २।२०।०० एतदर्कस्य मन्दोच्चम्। अथ शशिनः तदाहर्गणं संस्थाप्य तस्मात् पादोनकृतशरकृताः संशोध्याः। चत्वारि शतानि त्रिपञ्चाशदधिकानि पञ्चचत्वारिंशद्घटिकाधिकानीत्यर्थः। ४५३।४५।ततोऽवशिष्टं द्वित्रिरदैर्विभजेत्। त्रिभिः सहस्रैःशतद्वयेन द्वात्रिंशदधिकेनेत्यर्थः ।३२३२। लब्धा भगणास्त्याज्याः। भगणशेषात् सविकलादर्कवच्चन्द्रोच्चमानयेत्। ततो भूयोऽप्यहर्गणं संस्थाप्य वसुनवयमनवगुणैर्विभजेत्। एकोनचत्वारिंशद्भिःसहसः शतद्वयेनाष्टनवत्यधिके नेत्यर्थः। ३९२८८। अवाप्तं लिप्तादि फलं। पूर्व्वागते चन्द्रोच्चे संयोज्य तस्माद् विलिप्तापञ्चकं शोधयेत्। यस्मादुक्तमिति। इन्दूच्चचन्द्रपातावूनी शरदिग्विलिप्ताभिः। इत्येवं कृतेऽर्द्धरात्रिकं चन्द्रोच्चं भवति।
अथोदाहरणम्। तद्यथाऽहर्गणः ७२७१५।अस्मात् पादोनकृतशरकृतोनात् ।४५३।४५।संशोध्य शेषं ७२२६१।१५। अस्य द्वित्रिरदैरमीभिः ३२३२ भागे हृते भगणशुद्धशेषं ११५७।१५। अस्मात् सविकलाद् द्वादशभिर्गुणितात् छेदहृतादर्कवत् फलं चन्द्रोच्चमिदं ४।८।५४।५। अथभूयोऽप्याहर्गणस्यास्य७२७१५ वसुनवयमनवगुणैरमीभिः ३९२९८ भागे हृते लिप्तादिकं १।५१।एतत् पूर्व्वागते चन्द्रोच्चेऽसिन् ४।८।५४।५ संयोज्य विलिप्तापञ्चकं संशोध्यचन्द्रोच्चमिदं ४।८।५५।५१।इदानीं चन्द्रपातानयनमाह -
द्व्यगगुणहीनाद्द्युगणालब्धंभगणादि शरनवागरसैः।
षडिषुरसाध्वीन्दुशरैः सांशं चक्राच्च्युतंपातः ॥ १४ ॥
वाक्यार्थः। द्व्यगुणहीनादिति। द्वौ च अगाश्च गुणाश्चद्व्यगगुणास्तैर्हीनःद्व्यगगुणहीनः तस्माद् द्व्यगगुणहीनाद्। अहर्गणादित्यर्थः। लब्धंभगणादि भगण आदौ यस्यभगणादि चक्राद्याप्तमित्यर्थः। कैर्लब्धमिति। शरनवागरसैः शराश्च नव च अगाश्च रसाश्च शरनवागरसास्तैर्लब्धमित्येव। षडिषुरसाब्धीन्दुशराः तैः सहांशैर्वर्ततेइति सांशम्। षडिषुरसाब्धीन्दुशरैरहर्गणादाप्तेन अंशादिना फलेन पूर्व्वागतराश्यादिफलमधिकं कार्य्यमित्यर्थः। चक्राच्च्युतं पात इति। चक्राच्च्युतं राशिद्वादशकात् पतितमित्यर्थः एवं कृते पातो भवतीत्यार्य्यार्थः।
करणम्। इष्टदिनाहर्गणं द्व्यगगुणहीनं कार्य्यम्। द्वासप्तत्यधिकेन शतत्रयेणेत्यर्थः। ३७२। ततोऽवशिष्टं शरनवागरसैर्विभजेत्। षड्भिः सहस्रैःसप्तभिः शतैः पञ्चनवत्यधिकैरित्यर्थः। ६७९५ । लब्धा भगणास्त्याज्याः। एवं राश्याद्यर्कवत् फलं भवति। ततो भूयोऽप्यहर्गणस्य षडिषुरसाब्धीन्दुशरैर्भागमपहरेत्। लक्षपञ्चकेन चतुर्द्दशभिः सहस्रैःषड्भिः शतैः षट्पञ्चाशदधिकैरित्यर्थः। ५१४६५६।अवाप्तं भागादिफलं पूर्व्वागते राश्यादिके फले संयोज्य यद् भवति तद्राशिद्वादशकादपास्य चन्द्रपातो भवति। तम्माद् विलिप्ता दशकं संशोध्यं यस्मादुक्तं चन्द्रोच्चचन्द्रपातावूनौ शरदिग्विलिप्ताभिरिति। ततस्तस्मात् षण्णवतिः कलाः संशोध्याः सम्प्रदायावच्छेदाः। पारम्पर्येणैवं कृते कर्म्मयोग्यश्चन्द्रपातो भवति।
अथोदाहरणम्। तद्यथा। अहर्गणः ७२७१५। अस्माद् द्व्यगगुणान् इमान् ३७२ संशोध्य शेषं ७२३४३। अस्य शरनवागरसैरमीभिः ६७९५ भागे हृते भगणशुद्धशेषमिदं ४३९३। अस्माद् द्वादशादिगुणकारैःस्वच्छेदेनार्कफलवद् राश्यादिफलमिदं ७।२२।४४।३०। भूयोऽप्यहर्गणस्य७२७१५ षडिषुरसाब्धीन्दुशरैरमीभिः ५१४६५६ भागे हृते अवाप्तंभागादिफलमिदं ०।८।२८ एतत् पूर्व्वागते राश्यादिकेऽस्मिन् ७।२२।४४।३०संयोज्य, जातमिदम् ७।२२।५।५८। एतद्राशिचक्रादमात् १२।०।०।० संशोध्य शेषम् ४।७।७।२ अस्माद् विलिप्ता दशकं षण्णवतिलिप्ताश्चसंयोध्य जातोऽर्द्धरात्रिकचन्द्रपातः ४।५।३०।३२ एषः सर्व्वदा कर्म्मयोग्य इति ।
अथैतेऽर्कचन्द्रचन्द्रोच्चचन्द्रपाताश्चअर्द्धरात्रिकाआगताः। अन्यस्मिन् काले तात्कालिके कर्म्मणि कृतेतात्कालिका भवन्ति। देशान्तरविधौच लङ्कयाउत्तरेण या रेखा यावन्मेरुगता एतस्याः अन्यत्र देशान्तरकर्म्मणा कृतेन स्वदेशिका भवन्तीति। तत्र तात्कालिकीकरणं देशान्तरकर्म्म च भुक्तैर्विना न जायते कर्त्तुम्। तत्र करणमाचार्य्यस्य ग्रहानयनन्यायसिहमतो न व्याख्यातम्। अस्माभिस्तु बालव्युत्पादनार्थं यत्स्पष्टं प्रदर्श्यते। तत्र दिनानामेकमहर्गणं परिकल्प्यमध्यमग्रहवत् ग्रहस्यैकदैवसिका भुक्तिः कार्य्या। अथोदाहरणम्। अर्कभुक्तिस्तावत् तद्यथा। एक एव अहर्गणः । १ । खखवसुगुणितो जातः ८००। अस्य मुनिनखद्विनन्दयमैर्भागे हृते भगणस्थाने ०शेषं द्वादशगुणितं जातं ९६००। तेनैव छेदेन राशिस्थाने०। शेषमिदं ९६०० त्रिंशता गुणिरा २८८००० षष्ट्या सङ्गुण्य तेनैव छेदेन भागे हृते भागाः ०। शेषं २८८००० षष्ट्या ६० सङ्गुण्य तेनैव छेदेन लिप्ताः ५९। शेषं षष्ट्यासङ्गुण्य तेनैव छेदेन विलिप्ता ८। एवं राश्यादिकाऽर्कभुक्तिः०।०।५९।८
अथ चन्द्रभुक्तिः। एकस्तिथिः ।१। द्वादशगुणः ।१२। एवं भागा आदित्यभुक्तावस्मिन् ०।०।५९।८ संयोज्य जातं ०।१२।५९।८।तथा तिथ्यैकयाएकादशावमशेषं भवति ।११॥ एतत्त्रिगुणं ३३। अस्य त्र्यगशशिभिरवाप्तं भागादि ०।११।२६ एतद्रविगुणतिथिभागयुतावर्कभुक्तावत्र ०।१२।५९।८ संयोज्य जातं ०।१३।१०।३४।अथ प्रकारान्तरेण भुक्तिः क्रियते। रूपमेकमहर्गणः १। खखरस ६०० गुणितः अस्य त्रिनवगुणाष्टिभिर्हृतेतेभगणास्त्याज्याः शेषमर्कवद् राश्यादिका कार्य्याःचन्द्रभुक्तिः ०।१३।१०।३४।५३।अथ भूयोऽप्यहर्गणस्य नवयमतानैर्भागे हृते न किञ्चित् प्राप्तमिति। एषैव चन्द्रभुक्तिरिति।
अथ प्रकारान्तरेणार्कभुक्तिःक्रियते। तिथिः १। द्वादशगुणः १२। एते भागावन्द्रभुक्तेरस्याः०।१३।१०।३४ संशोध्य शेषं ०।१।१०।३४।अथावमशेषं ११। एतत्त्रिगुणं ३३। अस्य त्र्यगशशिभिर्भागे हृते लब्धमंशादि फलं ०।११।२६।एतत्पूर्व्वागदादस्मात् ०।१।१०।३४।संशोध्य शेषं जाताऽर्कभुक्तिः०।०।५९।८।
अथ प्रकारान्तरेणार्कचन्द्रयोर्भुक्तीक्रियेते। तद्यथा। अवमशेषं ११। अस्य द्विनवरसैर्भागे हृते लब्धं दिनादि ०।०।५७।एतद् भागादि परिकल्प्यम। एकमेवाधिमासशेषम्। अस्मिन् प्रथममिदं ०।०।५७।संयोज्यजातं १।०।५७। एतत्त्रिंशदघ्नं ३०।२८।३०। अस्य ऋतुखदिग्भिर्भागे हृतेऽवाप्तं द्वितीयाख्यं भागादि ०।१।४९। अथ प्रथमराशावत्र ०।०।५७। मास दिनैक्यं ०।१।०।०संयोज्यजातं भागादि १।०।५७। अस्माद् द्वितीयाख्यमिदं ०।१।४९। संशोध्य जातार्कभुक्तिः ०।५९।८। पुनरपि मासदिनप्रथमैक्यं ०।१।०।४९। पृथक्त्रयोदशगुणं जातं १३।१२।२१। अस्माद् द्वितीयाख्यमिदं ०।०।१।४८ संशोध्य जातं ०।१३।१०।३२।इयं चन्द्रभुक्तिः ।
अथ चन्द्रोच्चभुक्त्यर्थमहर्गणः ।१। अस्य शरनवागरसैर्भागेहृते भगणाः ०। शेषं १। अस्माद् ग्रहवद्राश्यादिका चन्द्रोच्चभुक्तिः ०।०।६।४०।
अथ चन्द्रपातभुक्त्यर्थमहर्गणः १। अस्य शरनवागरसैर्भागे हृते भगणाः ०। शेषं १। अस्माद् ग्रहवत् पातभुक्तिः कलादिका ३।११।
एवमेकोनषष्टिः लिप्ता विलिप्ताष्टकमादित्यभुक्तिः। शतानि सप्त नवत्यधिकानि लिप्तानां विलिप्ताश्चतुस्त्रिंशत् चन्द्रभुक्तिः। लिप्ताः षट् विलिप्ताश्चत्वारिंशच्चन्द्रोच्चभुक्तिः। लिप्तास्त्रयः विलिप्ता एकादश चन्द्रपातभुतिः। अङ्गेनापि लिख्यते -
| रवि | चन्द्र | चन्द्रोच्च | चन्द्रपात |
| ५९ | ७९० | ६ | ३ |
| ८ | ३४ | ४० | ११ |
एता लिप्ताद्या अर्कचन्द्रचन्द्रोच्चचन्द्रपातानां यथाक्रम भुक्तयः।
अथ ग्रहस्येष्टकाले तात्कालिकीकरणं व्याख्यायते।
ग्रहस्यांशकलादिका भुक्तिः (ग्रहाद्) विशोध्यातीतेऽह्निअर्द्धरात्रिकोग्रहो भवति। अर्द्धरात्रिदिनप्रमाणसंयोगाहतां भुक्तिं षष्ट्या विभज्याप्तं लिप्तादि फलं ग्रहात् संशोध्य वर्तमानेऽह्नि औदयिको ग्रहोभवति । भुक्तेरर्द्धंविशोध्य माध्याह्निकोग्रहो भवति। वर्तमाने दिने अर्द्धरात्रप्रमाणाहतां भुक्तिं षष्ट्या विभज्यावाप्तं फलं ग्रहे दत्त्वा एष्यदिने माध्याह्निको ग्रहोभवति। दिनार्द्धरात्रहतां भुक्तिं षष्ट्या विभज्यावाप्तं फलं ग्रहे दत्त्वा एष्यदिने अस्तमनान्तिकः स्यात्। सकलां भुक्तिं दत्त्वा एष्यदिनेऽर्द्धरात्रिको ग्रहः स्यात्।
* * *
भवाप्तं फलं ग्रहे दत्त्वा तात्कालिको ग्रहो भवति । अथैष्य रात्रगते
* * *
अथदेशान्तरकर्म्म व्याख्यायते। सङ्कात उत्तरेण या रेखा यावन् मेरुगता तस्यां रेखायां ते ग्रहा आगताः। भागे च ते पूर्व्वेणापरेणवा रेखान्तरकर्म्मणा स्वदेशिका भवन्ति। तत्र या रेखा पूर्व्वापरेण योजनसंख्या युज्यते सान ज्ञायते। रेखापरिज्ञाने सति तदर्थमाचार्य्येणोक्तमुज्जयिनीयाम्योत्तररेखाया इति। ततोऽप्युज्जयिन्या उत्तरेण न ज्ञायते केषु केषु जनपदेषु भागता इत्येके पौलिशाःपठन्ति ।
उज्जयिनीरोहितकुरुजमा हिमनिवासिमरूणां ।
देशान्तरं न कार्य्यंतल्लेखा मध्यसंस्थत्वात् ॥
इयमार्य्याप्रायेण पुलिशकृता न भवति कुतन्त्रत्वात्। यस्माद्देशान्तरकर्म्म विना कुरुजन्मा हिमनिवासिनां दृक्प्रग्रहणयोरैक्यं न भवति तत्र चार्थे प्रतिजानीमहे निश्चयेन वयम्। अथ देशं परिज्ञातुमिच्छति किं रेखा पूर्व्वेणापरेण वा। तदाभीष्टदेशे स्फुटब्रह्मगणितेन गणयित्वा देशान्तरकर्म्मणाविना ततो निर्म्मलाचारगुटिका आरोप्य निरूपयेत्। यदि करणागतेन प्रग्रहेण तुल्यं प्रग्रहणं तदा स्वदेशो रेखायां स्थितः। अथ करणागतात् प्रग्रहणात् पूर्वमेव दृक्प्रग्रहणं भवति तदा स्वदेशो रेखाया अपरेण ज्ञातव्यः। अथ करणागतात् प्रग्रहणानन्तरं दृक्प्रग्रहणं भवति तदा रेखायाः पूर्व्वार्धेज्ञातव्यमिति। अथ कियद्भिःः योजनैरयं देशः पूर्व्वार्द्धेऽपरेण वा ज्ञातुमिच्छति तदा करणागत-प्रग्रहणदृक्प्रग्रहणयोरन्तरे या घटिकास्ताभिः खखाष्टवेदान् सङ्गुण्य षष्ट्याविभज्यावाप्तं देशान्तरयोजनानि भवन्ति। तथाचोक्तंब्रह्मसिद्धान्ते षोडशाध्याये -
दृग्गणित-प्रग्रहयोरन्तरघटिकाफलं ग्रहे मध्ये।
देशान्तरं धनं प्राकं प्रग्रहणे च क्षयः पश्चात् ॥ २७ ॥
प्रग्रहणान्तरघटिकाभूपरिधिवधं विभाजयेत् षष्ट्या।
फलयोजनेष्ववन्त्वाप्रागधः प्रागपरयोर्देशः ॥ २८ ॥
अथ तैर्योजनैर्यत् कर्म्म तदाह।
उज्जयिनी-याम्योत्तर-रेखायाः प्रागृणं धनं पश्चात् ।
देशान्तरभुक्तिवधात् खखाष्टवेदैः कलाद्याप्तम् ॥ १५ ॥
वाक्यार्थः। उज्जयिन्योपलक्षिता या याम्योत्तररेखा सा उज्जयिनीयाम्योत्तररेखा तस्याउज्जयिनीयाम्योत्तररे-खायाः प्रागुयंपूर्व्वदेशेषु ऋणमित्यर्थः। धनं पश्चादिति। अपरादेशेषु धनमित्यर्थः। तत एतदित्याह। देशान्तरभुक्तिवधात् खखाष्टवेदैः कलाद्याप्तमिति। देशान्तरेण भुक्तिवधो देशान्तरभुक्तिवधः देशान्तरयोजनैरिष्टग्रहभुक्तेर्वध इत्यर्थः तस्मात्। खं च खं च अष्टौ च वेदाश्चखखाष्टवेदास्तैःकलाद्याप्तं कला आदौ यस्य फलस्यतत् कलादि, कलादि च तद आप्तं च। लिप्तादीष्टग्रहस्य फलं भवति इत्यार्य्यार्थः।
करणम्। इष्टदेशेदेशान्तरयोजनानि ग्रहभुक्त्यासङ्गण्यखखाष्टवेदैर्विभजेत्। चतुर्भिः सहस्रैरष्टभिः शतैरित्यर्थः। ४८००। अवाप्तं लिप्तादि फलम् भवति। तन्मध्यमे ग्रहे धनमृणंवा कार्य्यम्। कदेत्युच्यते। लेखातः पूर्व्वदेशेषु ऋणमपरदेशेषु धनमिति। एवं कृते देशान्तरकर्म्मकृतोग्रहो भवति। रविचन्द्रचन्द्रोच्च-चन्द्रपातभौमबुधशीघ्रजीवशुक्रशीघ्रसौराणामन्यतमस्यसम्बन्धिन्या भुक्त्या देशान्तरयोजनानां वधः सम्भवतीत्यर्थः।
अथोदाहरणम्। कुरुक्षेत्रे करणागतात् प्रमाणात् पश्चाद्दृग्ग्रहणं सार्द्धया घटिकया भवति। अतो योजनानि क्रियन्ते। तद्यथा। भूपरिधिरियम् । ४८०० । नवत्या पलैःसङगुण्य षष्ट्याविभज्यलब्धं७२०० । एषः सार्द्धयाघटिकया गुणितो जातः। अथषष्ट्याभागे हृते योजनानि कुरुक्षेत्रे। १२० । एवमन्यत्राप्युदाहरपीयमिति। अथ देशान्तरकर्म्म तद्यथा। देशान्तरयोजनानि १२०। अर्कभुक्त्यानया ५९।८ गुणितानि योजनानि ७०९६। खखाष्ट-वेदैर्भागे हृते लब्धंलिप्तादि १।२८। अर्कादस्मात् ०।२८।३६।४८। संशोध्य जातो देशान्तरसंस्कृतोऽर्कः ०।२८।३६।४८। एवं चन्द्रचन्द्रोच्च-चन्द्रपात-भौम-बुध-शीघ्र-गुरु-शुक्र-शीघ्रसौराणांभुक्तयो यथाक्रमेणमध्यमाः। तद्यथा - सप्त शतानि नवत्यधिकानि लिप्तानां विलिप्ताश्चतुस्त्रिंशत् चन्द्रस्य। लिप्ताःषट् विलिप्ताश्चत्वारिंशद इन्दूच्चस्य। लिप्तात्रयं विलिप्तादशचन्द्रपातस्य। एकत्रिंशल्लिप्ताविलिप्ताः षड्विंशतिर्भौमस्य। लिप्तानांशतद्वयं पञ्चचत्वांशिदधिकं द्वात्रिंशदं विलिप्ताः शीघ्रगतेर्बुधस्य। लिप्ताश्चतस्रएकोनषष्टिर्विलिप्ता जीवस्य। षण्णवतिलिप्ताः सप्त विलिप्ताः शुक्रशीघ्रस्य ।द्वे लिप्ते मध्यमभुतिः शनैः। अङ्केनाऽपि लिख्यते।
[TABLE]
एता देशान्तरयोजनैरमीभिः ।१२०। गुणिता जाता यथाक्रमेण च९४८७०।८००।३८०।६७७२।२९४६४।५९८।११५३४।२४०। अत्र अत्र खखाष्टवेदैर्भागे हृते फलानि
| चन्द्र | उ | पा | म | बु | वृ | शु | श |
| १९ | ० | ० | ० | ६ | ० | २ | ० |
| ४५ | १० | ४ | ४७ | ८ | ७ | २४ | ३ |
यदेवार्कस्य तदेव बुधशुक्रयोः। एतानि मध्यमानां ग्रहाणां देशान्तरकर्म्म-फलानि कुरुक्षेत्रे सर्व्वेषां शोध्यानि पूर्व्वस्यां रेखातः स्थितत्वाद् देशस्येति।
एवं देशान्तरं स्वदेशे गणकैरुदाहरणीयम्। अधुनाऽस्य स्पष्टीकरणमाह।
पञ्चगुणाः सप्तरसाः शरनन्दाः षोडशेन्दवो गोऽर्काः ।
कृतगुण चन्द्रा राश्यर्द्धलिप्तिकाः पिण्डिताः सवितुः ॥ १६ ॥
अत्र च करणम्। इष्टदेवसिकमिष्टकालिकं मध्यमार्कं संस्थाप्य ततस्तस्माद् राशिद्वयंविंशतिभागा अर्कस्य मन्दोच्चं २।२०।०।०। विशोध्य केन्द्रं भवति। तमादं वक्ष्यति आचार्य्यः"ग्रहः केन्द्रमुच्चोनः” इति। ततकेन्द्रात् ज्याकेन्द्रं कार्य्यम्। तत्करणमाचार्य्योवक्ष्यति। विषमे भुक्तस्य समे भोग्यस्येति। तत्रराशित्रयस्यकेन्द्रे प्रथमपदमिति संज्ञा। तत्रयावद्राशित्रयं तावद्विषमपदलब्धकेन्द्रम्। ततो यावद्राशिषट्कं तावत्समपदम्। अतो यावद्राशिनवकंतावद्विषमं पदम्। अस्मात्परं यावद् राशिद्वादशकं तावत् समपदम्। एवं विषमपदस्थेकेन्द्रे भुक्तात्फलमानेतव्यमिति। समपदस्थेभोग्यादिति। एतदुक्तं भवति केन्द्रंप्रथमपदे भवति तदा तदेव ज्याकेन्द्रम्। अथ द्वितीये पदे भवति तदा राशिषट्कादपास्यज्याकेन्द्रं भवति। अथ तृतीये पदे भवति तदा तस्माद्राशिषट्कमपास्य शेषं ज्याकेन्द्रम्। अथ चतुर्थे पदे भवति तदा राशिचक्रा।१२।दपास्य शेषं ज्याकेन्द्र भवति। एवं ज्याकेन्द्रं कृत्वा तस्मात् फलमानयेत्। तदा विषमे भुक्तस्य समे भोग्यस्येति न्यायेनानीतं फलं भवति। एवं ज्याकेन्द्रस्य राश्यर्द्धेखण्डकंभवति। अतो राशित्रितये षट् खण्डकानि। पञ्चगुणाद्यानि। राशित्रयाद् ऊर्द्धं ज्याकेन्द्रं नास्ति। तत्रप्रथमे राश्यर्द्धेपञ्चगुणाः पञ्चत्रिंशत्। द्वितीये राश्यर्द्धेसप्तरसाः सप्तषष्टिः। तृतीये राश्यर्द्धे शरनन्दाः पञ्चनवतिः। चतुर्थे षोड़शेन्दवः शतं षोड़शाधिकम्। पञ्चमे गोऽर्काः एकोनविंशदधिकं शतम्। षष्ठराश्यर्द्धेकृतगुणचन्द्राः चतुस्त्रिंशदधिकं शतम्। अङ्केनापि ३५।६७।९५।११६।१२९।१३४। तत्र यावत् संख्यानि केन्द्रस्य राश्यार्द्धानिभुक्तानि भवन्ति तावत् संख्यानि खण्डकानि पञ्चगुणाद्यानि गणयित्वा तावत् संख्ये यल्लब्धमिति तदेकान्ते स्थापयेत्। ततो राश्यर्द्धान्यपास्यावशेषं भागादिकं लिप्तापिण्डोकार्य्यम्। तद्भुक्तभोग्यान्तरेण सङ्गुण्य नवभिः शतैर्विभज्यावाप्तलिप्तादिफलं तद्भुक्तखण्डके संयोज्यार्कफलं भवति। करणम्। ज्याकेन्द्रं लिप्तापिण्डीकृत्य नवभिः शतैर्विभजेत्। लब्धाङ्कसंख्यया खण्डकं भवति। शेषं च विकलसंज्ञं भवति। तद् भुक्तखण्डकस्यभोग्यखण्डकस्य चान्तरं कार्य्यं तद्गुणकारं भवति। तदेकान्ते स्थापयेत्। भुक्त्यर्थंततो गुणकारेण विकलं सङ्गुण्य नवभिः शतैर्विभज्यावाप्तं लिप्तादिफलं भुक्तखण्डके संयोज्यार्कफलं भवति। तस्य षष्ट्या भागे हृते भागा भवन्ति। तन्मध्यमार्के धनमृणं वा कार्य्यं तस्माद् वक्ष्यति। “खफलमृणं धनं मध्य इति कार्य्यमिति भण्यते।” “षड्राश्यूनेकेन्द्रे ऋणमधिके धन"मिति। एवं कृते मध्यमोऽर्कः स्फुटो भवति।
अथोदाहरणम्। तद्यथा। देशान्तरसंस्कृतोऽर्द्धरात्रिको मध्यमार्कोऽयं ।०।२८।३६।४८ अस्मादर्कमन्दोच्चमिदं ।२।२०।०।०। संयोध्य जातं १०।८।३६।४८।एतच्चतुर्थपदस्थितत्वाद् राशिद्वादशकाद् ।१२।अपास्य शेषं केन्द्रमिदं ।१।२१।२३।१२। अस्मात् समे भोग्यस्येति व्याख्यास्यते। एतल्लिप्ता पिण्डीकृतं जातं ३०८३।१२अस्य नवभिः शतैः।९००। भागे हृते अवाप्तानि त्रीणि ज्याखडकानि पञ्चगुणाद्यानि। तृतीयं शरनन्दाः ।९५। तस्मादिदमवाप्तं भुक्तखण्डं९५। शेषं विकलसंज्ञमिदं ३८३।१२ एतद्भुक्तभोग्यखण्डयोरनयोः ९५।११६ अन्तरेण २१ गुणितं जातं ८०४७।१२।अस्यनवभिः शतैर्भागे हृते अवाप्तं लिप्तादिफलं ८।५६।एतद्भुक्तखण्डकेऽस्मिन् ९५ संयोज्य जातं १०३।५६।अस्य षष्ट्याभागे हृतेभागादिफलम्१।४३।५६।एतत् केन्द्रस्य षड्राश्यधिकत्वाद् धनसंज्ञम्। एतन्मध्यमेऽर्केऽस्मिन् ०।२८।३६।४८। संयोज्यजातः स्फुटोऽर्कः कुरक्षेत्रे १।०।२०।४४।
अथ चन्द्रमसः स्पष्टीकरणमाह।
चन्द्रमसः सप्तनगा वसुमनवौनवनखा रसेषुयमाः ।
रसवसुयमलाः षणवयमा ग्रहः केन्द्रमुच्चोनः ॥ १७ ॥
करणम्। इष्टदैवसिकमिष्टकालिकं मध्यमं चन्द्रं संस्थाप्य तस्मात् तात्कालिकं खमन्दोच्चमपास्य केन्द्रं भवति। तस्मादर्कवत् फलमानेतव्यम्। किन्तु विशेषोऽत्र। तत्रपञ्चगुणाद्यैःफलमानेतव्यम्। अत्रेन्दोः सप्तनगाद्यैरमीभिःप्रथमाख्ये राश्यर्द्धेसप्तनगाः सप्तसप्ततिः द्वितीये राश्यर्द्धेवसुमनवोऽष्टचत्वारिंशदधिकं शतम्। तृतीये नवनखा नवाधिकशतद्वयम्। चतुर्थे रसेषुयमाः षट्पञ्चाशदधिकं शतद्वयम्। पञ्चमे रसवसुयमलाः षडशीत्यधिकं शतद्वयं षष्ठे राश्यर्द्धेषणवयमाः षण्णवत्यधिकं शतद्वयम्। अङ्केनापि लिख्यन्ते। ७७।१४८।२०९।२५६।२८६॥२९६।एतैःपूर्व्ववद् ज्याकेन्द्रलिप्ताः पिण्डीकृत्यनवभिः शनैर्विभजेत्। अवाप्ताङ्कसमंखण्डं लब्धंभवति। सप्तनगादीनां तद्भुक्तखण्डं भवति। नवशतभुक्तस्यलिप्तापिण्डस्ययत् शेषं तद्विकलसंज्ञम्। तद् भुक्तभोग्यान्तरखण्डेनसङ्गुण्यनवभिः शतैर्विभज्यावाप्तं कलादिफलं भुक्तखण्डके संयोज्य पन्द्रफलं भवति। तन्मध्यमचन्द्रमसि धनमृणंवा कार्य्यमिति। कदेति भण्यते। षड्राश्यूने केन्द्रे ऋणमधिके धनमिति। एवं कृते चन्द्रः स्कटो भवति। ग्रहःकेन्द्रमुच्चोन इति। ग्रह एवं केन्द्रं भवति। किम्भूत इत्याह। उच्चोनः उच्चेन ऊनः उच्चोनः। सर्व्वस ग्रहस्यमन्दकर्म्मणिग्रहान् मध्मायन् मन्दं विशोध्यमन्दकेन्द्रं भवति।
अथोदाहरणम्। तद्यथा। देशान्तरसंस्कृतः कुरुक्षेत्रे मध्यमचन्द्रोऽर्धरात्रिकोऽयं ५।१७।१७।४६। अस्मान्मन्दोच्चमिदं ४।८।५५।४१ संशोध्य जातं १।८।२२।५।एतल्लिप्तापिण्डीकृतं जातं २३०२।५।अस्यनवशतैर्भागे हृतेऽवाप्तं२।एतल्लब्धाङ्कसमखण्डमिदं १४८ शेषं ५०२।५ एतद्भुक्तभोग्यान्तरेणानेन ६१ सङ्गुण्य नवभिः शतैर्विभज्यावाप्तं लिप्तादिफसमेतत् ३४।१ भुक्तखण्डेऽस्मिन् १४८ संयोज्य चन्द्रफलं लिप्तादि जातं १८२।१। अस्य षष्ट्याभागे हृतेऽंशादिफलमिदं ३।२।१।एतत्केन्द्रस्य षड्राश्यूनत्वाद् ऋणम्। अतो मध्यमचन्द्रादस्मात् ५।१७।१७।४६ विशोध्य जातं ५।१४।१५।४५।अस्य भांशोऽर्कफलस्येत्यादि। अर्कफलमिदं १०३।५६अस्य भांशशिष्टेन। भैः समांशः भांशः। सप्तविंशत्या भागमपहृत्यावाप्तं लिप्तादि ३।५५।एतत्फलमर्कवद् धनं कृते जातः स्फुटचन्द्रः ५।१४।१९।४०। एवं सर्व्वत्रोदाहरणीयमिति। अधुना कस्मिन् पदे वर्तमानात् केन्द्रात् भुक्तस्य फलमानीयते कस्मिन् पदे भोग्यस्य च । कदा धनं कदा ऋणम्। तथार्कफलेन चन्द्रमसो यत्कर्त्तव्यं तदाह।
विषमे भुक्तस्यसमे भोग्यस्य स्वफलमृणधनं मध्ये।
भांशोऽर्कफलस्येन्दोः षड्राश्यूनाधिके केन्द्रे ॥ १८ ॥
वाक्यार्थः। विषमे भुक्तस्येति। विषमपदे केन्द्रे प्रथमतृतीयपदयोः स्थितइत्यर्थः। तत्र पदस्य यद् भुक्तंतज्ज्याकेन्द्रमिति। समे भोग्यस्येति। समपदे केन्द्रे द्वितीय-चतुर्थपदयोः स्थित इत्यर्थः। तत्र पदस्य यद् भोग्यं तज्ज्याकेन्द्रमिति। षड्राश्यूने केन्द्रे ऋणम्। अधिके धनमिति। क्क इति मध्ये। मध्यमग्रह इत्यर्थः। भांशोऽर्कफलस्येन्दोरिति। अर्कफलस्य भैः समोऽंशोभांशः। सप्तविंशतितमो भाग इत्यर्थः। स इन्दोश्चन्द्रमसः अर्ककेन्द्रवशाद् धनमृणं वा कार्य्यः। चन्द्रमसीत्यार्य्यार्थः। इयमार्य्यार्कचन्द्रयोः स्फुटीकरणे व्याख्याता पुनरपि बालव्युत्पादनार्थे विव्रियते। तद्यथा।
करणम्। यदि प्रथमपदे राशित्रयोनं केन्दं भवति तदा तमात् फलमानेतव्यम्। अथ द्वितीये भवति राशिषट्कादपास्य, तृतीये पदे भवति तदा राभिषट्कं विशोध्य ; चतुर्थे पदे तदा राशिचक्रादपास्य केन्द्रं भवति।
तस्मात् फलमानेतव्यम्। एवं सर्व्वत्र मन्दकर्म्मणि। क्रान्तिकरणे ज्वाकरणेचरदलकर्म्मणिअत्रापि यत्र केन्द्रमुद्दिश्य फलमानीयते तत्रानेनैव प्रकारेण शीघ्रकेन्द्रं वर्ज्जयित्वा। ग्रहाणां तत्राभिहित एव प्रयोगः आचार्य्येणेति फलानयनं व्याख्यातम्। भौमादीनामर्कवन् मन्दफलं कार्य्यम्। यस्माद् वक्ष्यति प्राग्वत् शुक्रादीनामिति। धनमृणं वा तेनैव प्रकारेण मन्दकर्म्मणीति। भांशोऽर्कफलस्येन्दोरित्येतद् व्याख्यायते। अर्कस्फुटीक्रियमाणे यत्फलमागतं तत् सप्तविंशत्या विभज्यावाप्तं लिप्तादिफलं भवति। अर्ककेन्द्रे षड्राश्यूनेऋणमधिके धनमिति स्फुटचन्द्रमसि कार्य्यमिति। अत्रोदाहरणं पूर्व्वमेव प्रदर्शितमिति। इदानींस्फुटीकरणं चन्द्रार्कयोर्भुक्त्योराह।
पञ्चदशकेन विभजेद भानुमतो भोग्यमानकं पिण्डम् ।
शशिनोऽगगुणं वसुभिः क्षयधनधनहानयः स्वगतो ॥ १९ ॥
अत्र करणम्। आदित्ये स्फुटीक्रियमाणे यद् भुक्तभोग्यखण्डान्तरं प्राक् स्थापितं तस्य पञ्चदशभिर्भागमपहृत्यावाप्तं लिप्ताद्यमर्कभुक्तिफलम्। चन्द्रमसि स्फुटीक्रियमाणे यद् भुक्तभोग्यखण्डान्तरं प्राक् स्थापितं तस्य सप्तगुणस्याष्टभिर्भागमपहृत्याप्तं चन्द्रभुतिफलम्। तच्चार्कचन्द्रयोः खभुक्तिफलम्। केन्द्रे प्रथमपदस्थे स्वभुक्त्याऋणं कार्य्यंद्वितीयपदस्थे धनमिति। एवं कृतेऽर्कचन्द्रयोः स्फुटभुक्तौभवतः। तद्यथा - अर्कभोग्यमानपिण्डकानीमानि ३५।३२।२८।२१।१३।५ एतेभ्यः पञ्चदशहृतेभ्यः फलानि -२२०२८१५२१२४०५२०२०एषामन्यतमं०५२अर्कफलं मध्यमभुक्तावत्र ५९।८ मकरादिस्थेकेन्द्रे रवौऋणम्। कर्कादिस्थेधनम्। एवं हृते अर्कभुक्तिःस्फुटा भवति।
अथ चन्द्रस्य भुक्तिः। यथा चन्द्रस्य भोग्यमानकसंज्ञानि षट्खण्डाणीमानि ७७।७१।६१।४७।३०।१० एतेभ्यः सप्तगुणेभ्योऽष्टहृतेभ्यः फलानि -६७२२६२७५३२२४१७२३१५८४५मकरादिस्थेचन्द्रकेन्द्रे ऋणम्।कर्कादिस्थेधनम् । एवं कृते चन्द्रभुक्तिः स्कुटा भवति। अत्रोदाहरणंप्रकटार्थत्वात् न प्रदर्शितमिति। अथान्यत्स्फुटान्तरभुक्तिस्फुटीकरणार्थमाह
गतिभोग्यखण्डकवधालब्धं नवभिः शतै रवीन्दुफलम् ।
प्राग्वच्छुक्रादीनां क्षयधनधनहानयः स्वगतो॥ २० ॥
वाक्यार्थः। गतिभोग्यखण्डेन वधः। गतिभोग्यखण्डकवधः। तस्माल्लब्धमिति। करित्याह। नवभिः शतैरपि किं तत्। रवीन्दुफलम्। रविश्चइन्दुश्च रवीन्दू तयोः फलं रवीन्दुफलम्। प्रागवत् पूर्व्ववदित्यर्थः। भयमभिप्रायः आचार्य्यस्य। यथा न केवलं भोग्यखण्डकवधाल्लब्धम्। नवभिः शतैः शुक्रादीनां स्वफलं कार्य्यम्। भुक्तेर्यावत् मन्दकर्म्मणि अर्कवत्फलमानेतव्यम्।
सर्व्वेषामपि पञ्चगुणाद्यैः धनमृणं चार्कवदित्यर्थः। क्षयधनधनहानयः। इति। कार्य्याइत्यर्थेकरणं। यद्यपि सामान्येनोक्तं गतिभोग्यखण्डकवधादिति तथापि ग्रहस्य मध्यमभुक्तौ स्वमन्दोच्चमध्यमभुक्तीनां ग्रहे स्फुटीक्रियमाणे यद् भोग्यखण्डकमासीत् तेन संगुण्य नवभिः शतैर्विभज्यावाप्तं लिप्तादिफलं भवति। ततः स्वभुक्तौधनमृणं वा कार्य्यम्। स्वकेन्द्रे प्रथमपदस्थेऋणम्। द्वितीयपदस्थे धनम्। तृतीयपदस्थे धनम्। चतुर्थपदस्थे ऋणमिति। स्वमध्यमभुक्तौएवं कृते स्फुटाभुतिर्भवति। तद् यथा अर्कस्य पञ्चगुणाद्यैर्भोग्यखण्डकैर्मध्यमभुक्तिं संगुण्य नवभिः गतैर्विभज्यावाप्तम्। लिप्तादिफलानि यथाक्रमेणेमानि यथाकालं धनमृणं वा कार्य्यम्। कदा धनं कर्कटादौकेन्द्रे। मकरादौ ऋणम्। रविभुक्तावत्र १९।८एवं कृतेऽर्कभुक्तिः स्फुटा भवति।
[TABLE]
चन्द्रमसः यथा सप्तनगाद्यैःखण्डकैःकेन्द्रभुक्तिमिमां ७८३।५४ संगुण्य नवभिः शतैर्विभाज्यावाप्तं कलादिफलं यथाक्रमेणेदं
[TABLE]
यथाकालमन्यतमं फलं स्वकेन्द्रे मकरादि-राशिषट्के ऋणम्। कर्कटादिगे धनं कार्य्यम्। चन्द्रभुक्तावस्यां ७९०।३४ एवं कृते चन्द्रभुक्तिःस्फुटा भवति। एवं शुक्रादीनामिति। स्वमध्यभुक्तिं भोग्यखण्डेन संगुख्य नवभिः शतेर्भागमपहृत्यावाप्तम्। स्वमन्दकेन्द्रवशेन धनमृणंवा कार्य्यम्।अर्कवत्। नकेवलं भुक्तेःयावद् ग्रहस्यापि मन्दफलमर्कवदानेतव्यम्। ततः इन्दुसुतस्य द्विगुणितमित्यादिकं कार्य्यम्। प्राग्वत् शुक्रादीनामिति। इत्यस्मात् वचनात् एव गम्यते। आचार्य्यस्यायमभिप्रायः इति। तथा धनमृणं चार्कवदेव मन्दकर्मणि कार्य्यमिति। ननु वसुधासुतादीनामपि किमर्थमाचार्य्यःपठति यत्तारा ग्रहाणां वारादिगणनया अथ शीघ्रापेक्षया। तथा बुधः शीघ्रः। अथ मन्दापेक्षया तथापि। सौरो मन्द इति। वा ततः यस्मात्शुक्रादीनामित्युक्तम्।
अत्रोच्यतेग्रन्थस्य वक्ष्यमाणापेक्षया शुक्रादीनां कृतार्य्यायस्मात् -
शुक्रस्य सूर्यवत् फलमिन्दुसुतस्य द्विसङ्गणितम्।
भौमस्य पञ्चगुणितं गुरोः खरांशेन संयुतं द्विगुणम्।
सौरमनुभागयुतं चतुर्गुणं पञ्चाशोनमिति।
अभिप्रायमिति तथा ज्ञापयति। यथा शुक्रादीनां शुक्रभुक्तावपि शुक्रस्य अर्कवत् फलमित्यादिकं कर्म्म कर्तव्यम्। इत्यथोदाहरणम। तद् यथा। भुक्तिमिमां ५९।८ संशोध्य जाता स्फुटा भुक्तिः ५८।४८6भोग्यखण्डकेनानेन २१ अर्कभुक्तिं संगुण्य नवभिः शतैराप्तं लिप्तादि १।२२। एतत् केन्द्रस्य चतुर्थपदत्वात् अर्कस्य मध्यमभुक्तेरस्याः ५९।८ संशोध्य जाता स्फुटाकभुक्तिः ५७।४६।
अथ चन्द्रमध्यमभुक्तेरस्याः ७९०।३४ चन्द्रोच्चभुक्तिमिमां ६।४० संशोध्य जाता केन्द्रभुक्तिः ७८३।५४। एतत् भोग्यखण्डेनानेन ६१ संगुण्य नवभिः शतैर्विभज्यान्यावाप्तं लिप्तादिफलं ५३।८। एतत् केन्द्रस्य प्रथमपदस्थितवात् चन्द्रमध्यमभुक्तेरस्याः ७९०।३४ संशोध्य जाते स्फुटभुक्तिरियं ७३७।२७। एवं कृते चन्द्रार्कौभुक्तिसहितौ स्फुटाविमौ रविः १।०।२०।४४ चन्द्रः ५।१४।१९।३६ एवं सर्व्वत्रोदाहरणीयं गणकैरिति। अथ नक्षत्रतिथिकरणच्छेदः क्रियते तदर्थंदिनप्रमाणमुपयुज्यते। तत्रस्वदेशे चरदलानयनमुपयुज्यते। तच्चकरणमाचार्य्यस्त्रिप्रश्नाध्याये वक्ष्यति। मया चोपयोगित्वादिहैवाभिधीयते। तस्मात्स्वदेशे चरदलानयनमाह -
नवतिथयोऽष्टिविभक्ताः पञ्चरसा वसुहृता दशत्रिहृताः।
विषुवच्छायागुणिता स्वदेशजा चरदलविनाड्यः॥ २१ ॥
वाक्यार्थः। नव च तिथयश्च नवतिथयः षष्टिविभक्ताः षोडशविभक्ताइति। पञ्च च रसाश्च पञ्चरसाः। वसुहृताः षष्टभिर्विभक्ताइति। दशत्रिहृताइति। विषुवच्छायागुणिता इति। विषुवच्छाया विषुवत् छाया, तया गुणिताः। त्रिषु स्थानेषु स्वदेशविषुवच्छाया गुण्यते तथा स्वच्छेदेन विभाजनीया इत्यर्थः। एवं कृते स्वदेशजाश्चरदलविनाड्यःइति स्वदेशाः। का ता इति भणति। चरदलविनाड्यः चरार्द्धचषका भवन्तीत्यर्थः।
करणम्। नव तिथयः एकोनषष्ट्यधिकं शतमित्यर्थः ।१५९। एताः स्वदेशविषुवच्छायया संगुण्य अष्टिभिर्विभजेत्। षोडशभिरित्यर्थः। अवाप्तं स्वदेशमेषचरदलचषका भवंतीत्यर्थः। पञ्चरसाः पञ्चषष्टिरित्यर्थः ।६५। एताः खदेशविषुवच्छायया संगुण्य वसुभिर्विभजेत्। अष्टभिरित्यर्थः। लब्धं स्वदेशवृषचरदलचषका भवन्ति। दश १०। तांश्च खदेशविषुवच्छायया संगुण्य त्रिभिः ।३। विभजेत् लब्धं स्वदेशमिथुनचरदलचषका भवन्ति।
अथोदाहरणम्। तद् यथा। नव तिथयः। १५९। एताः कुरुक्षेत्रविषुवच्छाययानया ।७। संगुण्याष्टिभिर्विभज्यावाप्तं ६९। कुरुक्षेत्रे मेषचरदलचषकाः। अथ पञ्च रसाः। ६५। विषुवच्छाययानया। ७। संगुण्याष्टभिर्विभजेदवाप्तं ५७। एते वृषचरदलचषकाः। दश एतेविषुवच्छायया ७ । संगुण्य त्रिभिर्विभज्यावाप्तं २३। एते तत्रैवमिथुनचरदलचषकाः। एवं खदेशिकाश्चरदलचषका इति। अथ तैश्चरखण्डकैः प्रतिदैवसिकं चरदलानयनं व्याख्यायते। तत्र स्फुटार्कं केन्द्रं परिकल्प्यतस्मात् ज्याकेन्द्रं कार्य्यम्। ततो ज्याकेन्द्रेराशिर्नभवति तदा ज्याकेन्द्रं लिप्तापिण्डीकृत्य स्वदेशमेषचरदलखण्डेन संगुण्याष्टादशभिः शतैर्विभज्यावाप्तम्। स्वदेशेऽभीष्टचरदलखण्डका भवन्ति। इष्टदिने। अथ ज्याकेन्द्रे राशिद्वयं भवति। तदा भागादिकं लिप्तापिण्डीकृत्य स्वदेशमिथुनचरदलखण्डेन संगुण्याष्टादशभिः शतैर्विभज्यावाप्तम् इष्टदिने स्वदेशमिथुनचरदलचषका भवन्ति। मेषवृषचरदलखण्डे संयोज्य इष्टदिने चरदलं भवति। अथ इष्टदिने केन्द्रं राशित्रयंभवति तदा चरखण्डानि त्रीणि लभ्यन्ते। एवं राशित्रयात् पूर्व्वंज्याकेन्द्रं सम्भवति इति। एवं प्रतिदिनं चरार्द्धकरणमिति।
अत्रोदाहरणम्। तद् यथा। स्फुटोऽर्कः १।१०।२०।४४ अत्रैकोराशिः अतः प्रथमं चरखण्डकमित्यर्थः। इदं ।६९। अत्र भागादिलिप्तापिण्डीकृतं२०\।४४। एतत् वृषचरदलखण्डेनानेन ।५७। संगुणितं जातम् ।११७४। अष्टादशभिः शतेर्विभज्यावाप्तं न किञ्चित्। तस्मादिदमेव ।६९। तस्मिन् दिने चरदलमिति। अथ तेन प्रतिदिनं चरार्द्धेनयत् कर्म्मतदाह।
चरदलविनाड़िकागतिकलावधात् खखरसाग्निलब्धकलाः।
ऋणमुदयेऽस्तमये धनमुत्तरगोलेऽन्यथा यान्ये॥ २२ ॥
चरदलविनाडिकानां गतिकलावधः। तद्दैवसिकैः चरदलचरखण्डकैः अभीष्टग्रहभुक्तेर्वध इत्यर्थः। तस्मात् खखरसाग्निलब्धकला इति। खं च खं च रसाश्च अग्नयश्च खखरसाग्नयः तैः लब्धं खखरसाग्निलब्धम्, लब्धं च तत्कलाश्च ता लब्धकलाः लिप्ताद्यमित्यर्थः। ऋणमुदयेऽस्तमये धनमिति। ऋणमुदये औदयिके ग्रहे ऋणमित्यर्थः। अस्तमये धनमिति। अस्तमयिके ग्रहे धनमित्यर्थः। किं तद्धनमिति किं निमित्तमाहोस्विद्विशेषोऽस्तीत्याह। उत्तरगोलमिति मेषादिराशिषट्के वर्तमानेऽर्केइत्यर्थः।
करणम्। अर्द्धरात्रिकग्रहस्य स्वभुक्तिपदं विशोध्यास्तमयिका ग्रहो भवति। तथा स्वभुक्तेःपत्त्रिगुणं विशोध्यार्द्धरात्रिकात् औदयिके कर्म्मयोग्यः। चरदलाख्ये कर्म्मणिननु पुनर्येन प्रकारेण पूर्व्वं व्याख्यातौतेनेष्टदिनचरदलचरखण्डकैर्ग्रहभुक्तिं संगुण्य खखरसाग्निभिर्विभजेत् ।३६००। त्रिभिः सहस्रैः षट्शतैरित्यर्थः। अथाप्तं लिप्तादिग्रहफलं भवति। तद्धनमृणं वा। औदयिके अस्तमयिके वा कार्य्यम्। मेषादिराशिषट्के वर्तमानेऽर्केऽस्तमयेऽर्केधनमुदयिके ऋणम्। तुलादिराशिषट्के वर्तमानेऽर्केऽस्तमयिके ग्रहे ऋणमुदयिके धनमेवं पादोनभुक्तित्रिभागोनभुक्त्या ग्रहयोरन्तरं कार्य्यंनन्वन्यथा कम्मिन् काले इति।
अत्रोदाहरणं निष्प्रयोजनत्वादस्यामार्य्यायांखण्डखाये न प्रदर्शितमिति। इदानीं दिनरात्रिप्रमाणप्रदर्शनार्थमाचार्य्य आह -
पञ्चदशहीनयुक्ताश्चरार्द्धनाडीभिरुत्तरे गोले ।
यान्येयुक्तविहीनादिसङ्गुण्यारात्रिदिननाड्यः ॥ २३ ॥
वाक्यार्थः। पञ्चदशघटिका इत्येवं हीनयुक्ताचरार्द्धनाडिभिरिति। चरदलमेव चरार्द्धंतस्य नाडिकास्ताभिरेकस्मिन् देशे पञ्चदशविहीना अन्यस्मिन् प्रदेशे युक्ता इति। एवं कदेति। उत्तरगोल इति। मेषादिषट्के इत्यर्थः। दक्षिणगोले तुलादिगेऽर्के युतहीना इति। एता एव पूर्व्वस्मिन् प्रदेशे युता अन्यस्मिन् प्रदेश हीना विपरीता इत्यर्थः। एवंविधाः सन्त्यः द्विसंगुणाः ।२। द्वाभ्यां गुणिता रात्रिदिननाड्यइति। रात्रेश्च दिनस्य च यथाक्रमेण नाडिका भवन्तीत्यर्थः।
करणम्। पूर्व्ववद् इष्टदिन-चरकालखण्डका आनीयन्ते। तेषां षष्ट्याभागमपहृत्य चरार्द्धघटिका भवन्ति । तत्र चरदलघटिकास्थानद्वये संस्थाप्य पूर्व्वस्मात् प्रदेशात् चरार्द्धघटिका विशोधयेत्। अपरस्मिन् योजयेत्। मेषादिषट्के वर्तमानेऽर्के। अथ तुलादिके राशिषट्केऽर्केभवति तदा पूर्व्वस्मिन् प्रदेशे शोधयेत् । अपरस्मिन् योजयेत्। एवं कृते पूर्व्वस्मिन प्रदेशे रात्र्यर्द्धंभवति। अपरस्मिन् प्रदेशे दिनार्द्धंभवति। ततो रात्र्यर्द्धंद्विगुणीकृत्य रात्रिप्रमाणं भवति। दिनार्द्धंद्विगुणीकृत्य दिनप्रमाणं भवति।
अथोदाहरणम्। तद् यथा। चरदलखण्डका अत्र दिनेऽमी ।६९। एतेषां षष्ट्याभागमपहृत्य घटिकादि १।९८षअथ पञ्चदशटिका द्विस्थानस्थाः
[TABLE]
अत्रार्कस्योत्तरगोलत्वात्। पूर्व्वस्मात् प्रदेशे चरार्द्धंविशोध्य अपरमिन् संयोज्य जाते रात्र्यर्द्धदिनार्द्धे। रात्र्यर्द्धंद्विगुणं रात्रिप्रमाणमिदं २७।४२। दिनार्द्धद्विगुणं दिनप्रमाणमिदम् ३२।१८। एवमत्र रात्रिदिनप्रमाणे इति । इदानीं नक्षत्रच्छेदानयनमाह।
भान्यश्विन्यादीनि ग्रहलिप्ताःखखवसुहृता लब्धम् ।
भुक्तिहृते गतगम्येदिवसाः षष्ट्याहृते घटिकाः ॥ २४ ॥
वाक्यार्थः। ग्रहलिप्ताः ग्रहस्य लिप्ता खखवसुहृता। खं च खं च वसवश्चतैः हृताः खखवसुहृताः। यल्लब्धंतत् किमित्याह। भान्यश्विन्यादीनि। भानि नक्षत्राणि। अश्विन्यादिर्येषां तान्यश्विन्यादीनि अश्विनीतः भुक्तानि नक्षत्राणि लभ्यन्ते। इत्यर्थः। गते गम्ये च गतगम्ये तेऽपि भुक्त्याहृते दिवसाः इति। शेषे द्वेअपि षष्ट्यागुणिते कृत्वातया स्वभुक्त्या हृता। घटिका भवति इत्यार्य्यार्थः।
करणम्। इष्टदिने स्फुटग्रहस्य लिप्तापिण्डं कृत्वा खखवसुभिर्भजेत्। अष्टभिः शतैरित्यर्थः। अवाप्ताङ्कसमान्यश्विन्यादीनि नक्षत्राणि तावन्ति ग्रहेण भुक्तानि। शेषं गतसंज्ञंभवति। तदेव खखवसुभ्योऽपास्य यदवशिष्यते तत् गम्यसंज्ञंभवति। ततो गतगम्ये च गतं गम्यं च स्फटभुक्त्या भागमपहृत्य दिवसा भवन्ति। शेषं षष्ट्या संगुण्य तथैव स्फुटभुक्त्या विभज्यावाप्तं घटिका भवन्ति। पुनरपि षष्ट्यासंगुण्य तेनैवच्छेदेन विघटिका भवन्ति। एवं दिवसादिकाल आगतः। तावत्कालः तस्य ग्रहस्य तत्र नक्षत्रे प्रविष्टस्य गतः। एवं गम्यादपि भुक्तिहृतात् दिवसाः षष्टिगुणशेषात् भुक्त्याहृतात् घटिकाः विघटिकाः। एवं दिवसादिकालः आगतः तावत्कालेन ततो नक्षत्रात् यातोऽन्यस्मिन् नक्षत्रे इति। चन्द्रस्य च चारवशेनप्रत्यहं नक्षत्रं भवति। तस्मात् स्फुटचन्द्रं लिप्तापिण्डं कृत्वा अष्टभिः शतैर्विभजेत्। लब्धाङ्कसमानि भुक्तनक्षत्राणि भवन्ति। नवेति गतगम्ये च पूर्व्ववद् ज्ञात्वा गतं षष्ट्यासंगुण्य चन्द्रस्फुटभुक्त्यावाप्तम्। घटिकाशेषं षष्ट्या संगुण्य तेनैव छैदेनावाप्तं विघटिकाः। एवं घटिकादिफले स्थापयेत्। तद् यथा यः कालः कृतः। तस्य छेदो व्याख्यायते। लब्धकालोऽर्द्धरात्रिघटिकाभ्यः संशोध्य यदवशिष्यते तदपि दिनप्रमाणात् संशोध्य यावदवशिष्यते तावत् काले लब्धाङ्कनक्षत्रसमनक्षत्रे दिवसे निर्गतमिति वक्तव्यम्। अथ लब्धकालादर्द्धरात्रप्रमाणे वा…… अपि संशोध्यते। तदा ते संशोध्य यदवशिष्यते तावत्काले रात्रिशेषे लब्धाङ्कसमनक्षत्रादनन्तरं नक्षत्रस्यप्रवृत्तिर्भवति। एवं गतविकलाः। अथ गभ्याद् यः काल आगतः तमर्द्धरात्रिघटिकाभ्योऽपास्य यच्छेषं तावत्कालेन राविशेषेण लब्धाङ्कसमनक्षत्रादनन्तरनक्षत्रं तस्य प्रवृत्तिर्भविष्यतीति वेदितव्यम्। अथ लब्धकालोऽर्द्धरात्राधिको भवति तदा तस्मादर्द्धरात्रघटिका विशोध्य यच्छेषं तावत्काले लब्धाङ्कसमनक्षत्रादनन्तरं नक्षत्रं निर्गतमपरसिमन् दिने इति।
अथ लब्धकालोऽर्द्धरात्रिदिनप्रमाणसंयोगादधिको भवति। तदार्द्धे अप्यर्द्धरात्रिदिनप्रमाणं विशोध्य यः कालोऽवशिष्यते तावत्कालोलब्धाङ्कसमादनन्तरनक्षत्रमपरस्यार्द्धरात्रात्प्रविष्टं वक्तव्यम्। अथ गतं न भवति तदा लब्धाङ्कसमनक्षत्रादनन्तरनक्षत्रसार्धरात्रादेवप्रवृत्तिः। गम्ये वा सम्भवाभाव इति।
अथोदाहरणम्। तद् यथा स्फुटश्चन्द्रमा अयम् ५।१४।१९।२६ एतल्लिप्तापिण्डीकृतं जातम् ९८५९।२६।अस्य खखवसुभिः ।८००। भागे हृतेऽवाप्तम् १२।अश्विनीप्रभृतिद्वादशभमुत्तरा एवमुत्तरा चन्द्रमसा भुक्तेति। शेषं च गतसंज्ञमिदम् २५९।२६ एतत् खखवसुभ्योऽपास्य गम्यसंज्ञमिदम् ५४०।३४ एवमत्रापि भुक्त्या भागं न प्रयच्छति। ततो दिवसो न प्राप्त एकोऽपि। एवं गतं षष्ट्यासंगुण्यचन्द्रभुक्त्यानया। ७३६ विभज्यावाप्तदिवसादिकालः ०।२१।९। एवम गम्यादपि षष्ट्यासंगुण्य चन्द्रभुक्त्यानया ७३६ विभज्यावाप्तघटिकादिकालः ४४।१। अथ गतात् छेदः २१।९ क्रियते तद् यथा। अत्र दिने रात्र्यर्द्धमिदम् १३।५२ एतत् गतकालादस्मात् २१।९ऊनमेवार्द्धरात्रप्रमाणं संशोध्य शेषं ७।१७। एतद्दिनप्रमाणं तस्मात् संशोध्य शेषम्। एतावत्कालः। तत्र दिने लब्धाङ्कसमनक्षत्रम्। अथ गम्यात् ४४।१ रात्रार्द्धमिदं १३।५२ संशोध्य शेषम् ३०।९। एतावान् कालो द्वितीयदिने लब्धाङ्कसमनक्षत्रादनन्तरनक्षत्रमिति। एवं नक्षत्रप्रकरणम्। इदानींतिथिच्छेदानयनार्थमार्य्यामाह -
अर्कोनचन्द्रलिप्ताः खयमस्वरभाजिताः फलं तिथयः ।
गतगम्येषष्टिगुणे भुक्त्यन्तरविभाजिते घटिकाः ॥ २५ ॥
वाक्यार्थः। अर्केनोनोऽर्कोनः अर्कोनश्चासौचन्द्रश्च अर्कोनचन्द्रः । तस्य लिप्ताः अर्कोनचन्द्रलिप्तास्ता विभाजिताः, भक्ताः। कैरित्याह। खयमस्वरैरिति। खं च यमौ च स्वराश्चखयमस्वरास्तैः फलं च तास्तिथयश्च। खयमस्वरभागहृतास्तिथयो लभ्यन्ते इत्यर्थः। गतं च गम्यं च गतगम्ये ते द्वेऽपि षष्ट्यागुणिते भुक्त्यन्तरभाजिते इति। भुक्तिश्चभुक्तिश्चभुक्ती। तयोरन्तरं भुक्त्यन्तरं तेन विभाजिते। विभक्ते इत्यर्थः। गतगम्ये षष्टिगुणे चन्द्रार्कस्फुटभुक्त्यन्तरेण विभाजनीये इत्यर्थः। एवं यथा स्वंघटिकादिफलं भवतीत्यार्य्यार्थः।
करणम्। अर्द्धरात्रिक-स्फुटचन्द्रमसः अर्द्धरात्रस्फुटार्कंविशोध्य यदवशिष्यते तल्लिप्तापिण्डीकार्य्यंततस्तस्य लिप्तापिण्डं खयमस्वरैर्विभजेत्। सप्तभिः शतैर्विंशत्यधिकरित्यर्थः ।७२०। अवाप्ताङ्कसमास्तिथयः सितप्रतिपत्प्रभृतिभुक्ता लभ्यन्ते इत्यर्थः। शेषं गतसंज्ञंतदेव खयमस्वरेभ्यो विशोध्य गम्यसंज्ञंभवति। एवं गतगम्ये द्वेऽपि षष्ट्या संगुण्य अर्कचन्द्रयोः स्फुटभुक्त्यन्तरेण विभजेत्। लब्धं घटिकादिफलं भवति। पृथक् पृथक् तत्र यः कालो गताद् गम्याद्वालब्धः तावत्कालो लब्धाङ्कसमसंख्यायास्तदनन्तरतिथिप्रवृत्तिर्ज्ञातव्या। गम्यो यः कालोऽप्यागतस्तावत्कालो लब्धाङ्गसमायास्तिथेरनन्तरा या तिथिस्तस्याः अनन्तरायास्तिथेःप्रवृत्तिर्भविष्यतीति एवं वेदितव्यम्। तेन पुनः छेदेन नक्षत्रवत्।
उदाहरणं यथा। स्फुटचन्द्रमाः ५।१४।१९।३६। अस्मात् स्फुटार्कोऽयं १।०।२०।४४ विशोध्य शेषम् ४।१३।५८।५२ एतल्लिप्तापिण्डोकृतं ८०३८।५२।अस्य खयमस्वरैर्भागे हृतेऽवाप्तम् ११। एतास्तिथयःभुक्ताः शेषं गतसंज्ञमिदम् ११८।५२। एतत् खयमस्वरेभ्योऽपास्य गम्यसंज्ञमिदम् ६०१।८। एवं षष्ट्यासंगुण्य रविचन्द्रयोः स्फुटभुक्तयोरनयोः७३७२७५७४६अन्तरेणानेन६७९४१
विभज्यावाप्तं घटिकादिफलं १०।३० एवं गम्यादपिषष्ट्यासंगुण्य भुक्त्यन्तरेण भागे हृते घटिकादिकालोऽयम् ५३।४ एतत् छेदेन नक्षत्रवत्। एवम् अर्द्धरात्रिकाच्चन्द्रान् नक्षत्रं कृतम्। तेनार्द्धरात्रात् कालः सर्व्वेणापरेणास्माभिरुदाहृतम्। एवम् अन्यस्मिन्नपि काले तावत्कालिकात् ग्रहात् तत्कालादेव छेदोऽनेन प्रकारेण कालो वाच्यः। एवमादित्य-भौम-बुधजीवशुक्रशनैश्चराणामपि नक्षत्रानयनम्। राहोरप्यस्तीति। तिथिरपि यत्र काले चन्द्रार्कौस्फुटौ ततः कालात् सर्व्वेणापरेण दर्शितविधिना छेदः कार्य्य इति। अधुना स्थिरकरणानाम् परिज्ञानार्थम् आर्य्यामाह -
कृष्णचतुर्द्दश्यन्ते शकुनिः पर्व्वणि चतुष्पदम् प्रथमे ।
तिथ्यर्द्धेऽन्त्ये नागं किंस्तुघ्नं प्रतिपदाद्यर्द्धे॥ २६ ॥
स्पष्टार्थेयम् आर्य्यातदपि व्याख्यायते। कृष्णचतुर्द्दश्यां तिथ्यर्द्धेद्वितीयेशकुनिर्नामकरणं भवति। तस्मादाद्यर्द्धेऽमावस्यायाम् चतुरंघ्रिनामकरणं भवति। द्वितीये अर्द्धे नागकरणम्। ततः प्रतिपत् प्रथमार्द्धे किस्तुघ्नाख्यं करणं भवति। एवं चत्वारि करणानि स्थिराणि । अथ चलकरणानाम् आनयनार्थम् आर्य्यामाह -
व्यर्केन्दुकलाभक्ताः खरसगुणैर्लब्धमूनमेकेन ।
चलकरणानि ववादीन्यगहृतशेषं तिथिवदन्यत् ॥ २७ ॥
वाक्यार्थः। विगतोऽर्को यस्य स व्यर्कः। स चासाविन्दुश्च तस्य कला व्यर्केन्दुकलास्ताः भक्ताः कैरिति खरसगुणैः। खं च रसाश्च गुणाश्च तैर्लब्धं खरसगुणैर्लब्धम्। तदूनमेकेनेति। एकेन। रूपोनं कार्य्यमिति। एवं कृते चलकरणानि भवन्ति। कानि तानीत्याह ववादीनि। ववः आदिर्येषां तानि ववादीनि। वव-बालव-कालव-तैतिल-गर-वणिग्विष्टय इति। अगहृतशेषमिति। अगैर्हृतम् अगहतम् तस्य शेषम् ववादीन्येव तिथिवदन्यदिति। अन्यत् गम्यादिकं तिथितुल्यं भवति इत्यार्य्यार्थः।
करणम्। तत्र तावत् यानि स्थिरकरणानि पठितानि तानि मपठितकाले भवन्ति। कृष्णचतुर्दश्यादिषु मासेन सह भवति इत्यर्थः। यानि पुनश्चलकरणानि तान्येव तत्कालमुद्दिष्टं त्यक्तान्येषु कालेषु पुनः सम्भवन्तीति मासेनैकमेकम् वाराष्टकं भवन्ति इत्यर्थः। तत्रानेन गणितेन तिथ्यर्द्धभोगिनां करणानां परिज्ञानम्। व्यर्केन्दुकला इत्यादि तेनायम् अर्थो भवति। स्फुटचन्द्रात् स्फुटार्कं विशोध्य लिप्तापिण्डं कृत्वातत् खरसगुणैर्विभजेत्। त्रिभिः शतैः षष्ट्यधिकैर्यल्लब्धम् तद्रूपहीनं कृत्वा सप्तभिर्विभजेत्। तत्रायं क्रमः वववालव-कौलव-तैतिल-गरवणिग्विष्टयश्चेति। ततः शेषं गतं तदेव खरसगुणेभ्योऽपास्य शेषं गम्यमाभ्यां चन्द्रार्कभुक्त्योरन्तरेण काले एव तिथिवत्। इति वचनात् छेदः। पूर्व्ववत् । तिथितद्अत्र छेद इत्यर्थः।
उदाहरणम्। व्यर्केन्दूलिप्ता८०३८५०अस्य खरसगुणैर्भागेऽवाप्तं २२, एतल्लब्धंरूपहीनम् २१।अस्य सप्तभिर्भागे शेषम्०। ववादीनि सप्तमं करणं
विष्टिरतो भुक्तम्। विष्टिकरणं शेषं गतसंज्ञंचेदम्११८५०एतत् खरसगुणेभ्योऽपास्य गम्यसंज्ञमिदम्। २४११०आभ्यां छेदस्तिथिवदस्त्येव। तिथ्यध्यायमुपसंजिहीर्षर्व्यतीपातवैधृतयोः क्रान्तिसाम्यानयनं व्याख्यायते। ते च ग्रन्थगौरवभयात् व्यतीपातवैधृतार्थमार्य्या-समुच्चयार्थं स्पृशन्नाह।
रविचन्द्रयुतोव्यतिपातवैधृतोभार्द्धचक्रयोर्दिवसाः
गतियुतिहृतमूनाधिकमपक्रमांशैःसमैःपीतः ॥ २८ ॥
वाक्यार्थः। रविश्व चन्द्रश्च रविचन्द्रौ तयोर्युतिः तस्या युतौ व्यतीपातवैधृतो व्यतीपातश्च वैधृतश्चव्यतीपातवैधृतौ। कथं च। तो यथासंख्यं भणति। भार्द्धचक्रयोरिति। भार्द्धंचक्रं च तयोः भार्द्धसमीपे व्यतीपातः। चक्रसमीपे वैधृतिः। अयमभिप्रायः।गतियुतिहृतमिति गतिश्चगतिश्च गती। तयोर्युतिः। गतियुतिः तया युत्या हृतम्। गतियुतिहृतम्। कि तदित्याह। ऊनाधिकमिति। ऊनश्चापि अधिकं च ऊनाधिकम् । किं तद् भवतीत्याह। दिवसा इति। दिवसादिकालो भवतीत्यर्थः। अपक्रमांशैःसमैःपातः इति। ऊनाधिकं भुक्तियोगेन विभज्य भूयोभूयस्तावत् कार्य्योयावदपक्रमांशासमा भवतीत्यभिप्रायः। आचार्य्यस्य तैः समगतैः पातकालो भवतीत्यार्य्यार्थः।
करणम्। इष्टदिने चन्द्रार्कावर्द्धरात्रिकौस्पष्टौ कार्य्यौतत्र तयोर्योगः कार्य्यः। तत्र योगे कृते यदा राशिषट्कं भवति। तदा तत् सन्निकृष्टो व्यतोपातो ज्ञातव्यः। यदा तु राशिद्वादशकं भवति तदा तत्समीपे वैधृतेन पतितव्यमिति। तस्मात् व्यतीपातध्रुवकं राशिषट्कम्। वैधतध्रुवकं राशिद्वादशकं भवति। तत् कर्म्म विधीयते। चन्द्रार्कयोर्योगेध्रुवकादप्यधिके अतीत। ध्रुवकेऽधिके चन्द्रार्कयोर्योगे ध्रुवकालः।तत्र करणं अर्कचन्द्रयुतेःध्रुवकस्य चान्तरं कार्य्यंतल्लिप्तापिण्डीकृतम्। प्रथम् रविभुक्त्यासंगुणयेत्। ततश्चन्द्राभुक्तियोगेन विभजेत्। अवाप्तं लिप्ताद्यर्कफलं भवति। ततो लिप्तापिण्डं भूयोऽपि पृथग्गतं पातभुक्त्यासंगुण्यचन्द्रार्कभुक्तियोगेन विभज्यावाप्तं लिप्तादिराहुफलं भवति।
पुथग्गतात् लिप्तापिण्डात् अर्कफलं विशोध्य चन्द्रफलं भवति। एवं त्रीणि अपि सफलानि भवन्ति। धनमृणं कदेत्युचते। युतेरपि अधिके ध्रुवके देयम्। स्वफलं चन्द्रार्कयोः पाते शोध्यम्। ध्रुवादप्यधिकायंयुतौशोध्यं स्वफलमर्कचन्द्रयोः पाते देयम्। एवं ध्रुवककालिका भवन्ति। अथ कस्मिन् काले ध्रुवककालिका इति भातुमिच्छति ततः लिप्तापिण्डं पृथकस्थं चन्द्रार्कयोः स्फुटभुक्त्या विभज्यावाप्तो दिवसादिकालः। एष्यातीतेति परिज्ञानं पूर्व्वमेव व्याख्यातमिति। अथ क्रान्तिसाम्यानयनं व्याख्यायते। तथैतान्युपकरणानि युज्यन्ते। अर्कक्रान्तिः चक्रात् स्वक्रान्तिः ज्याकरणविक्षेपानयन-चापकरणानि। तत्र तावत् क्रान्तिकरणमाचार्य्यस्त्रि-प्रश्नाध्याये वक्ष्यति। मया चोपयोगित्वाद् इहैवाभिधीयते। तत् क्रान्तिकरणर्थमार्य्यामाह -
क्रान्तिकला द्विरसगुणास्त्रिखमुनयो द्विखदिशो वसुत्र्यर्काः।
वसुवसुविश्वेखकृतमनवः स्वविक्षेपयुतवियुताः॥ २९॥
वाक्यार्थः। क्रमणं क्रान्तिस्तस्याः कलाः क्रान्तिकलाः कास्ता इति द्विरसगुणाः। एतदुक्तंभवति। स्फुटार्कं केन्द्रं परिकल्प्य तस्माज्-ज्याकेन्द्रं कार्य्यम्। ततोऽर्कवत् फलमानेयम्। इयान् विशेषोऽत्र प्रथमे राश्यर्द्धेद्विरसगुणाः त्राणि शतानि द्विषष्ट्याधिकानीत्यर्थः। द्वितीये त्रिखमुनयः सप्त शतानि त्र्यधिकानीत्यर्थः। तृतीये द्विखदिशः सहस्रं ह्यधिकमित्यर्थः। चतुर्थेवसुत्र्यर्का द्वादश शतानि अष्टत्रिंशदधिकानीत्यर्थः। पञ्चमे वसुवसुविश्वेत्रयोदशशतान्यष्टाशीत्यधिकानीत्यर्थः। षष्ठे खकृतमनवः। चतुर्द्दशतानि चत्वारिंशदधिकानीत्यर्थः। अङ्केनापि लिख्यन्ते ।
३६२७०३१००२१२३८१३८८१४४०
एतैः खण्डकैरर्कफलमानीय अर्कक्रान्तिर्भवति। अन्यस्यादपि स्फुटग्रहादनेनैव प्रकारेण, तैरेव खण्डकैः क्रान्तिः कार्यति। एवं कृते क्रान्तिर्भवति। स्वविक्षेपयुतवियुताइति। खक्रान्तिवशाद् गोलपरिज्ञानम्। उदाहरणम्। प्रकटार्थत्वात् न दर्शितमिति। इष्टज्याकरणमाचार्य्यस्त्रिप्रश्नाध्याये वक्ष्यति मया चेह व्याख्यायते।
त्रिंशत्सनवरसेन्दुजिन(तिथि)विषयागृहार्द्धचापानां ।
अर्द्धज्याखण्डानि ज्याभुक्तैक्यं सभोग्यफलम् ॥ ३० ॥
अत्र करणं यत्र कुवचित् ज्या क्रियते। तत्र ज्याकेन्द्रात् प्रथमे राश्यर्द्धेसनवत्रिंशत् एकोनचत्वारिंशद् इत्यर्थः। द्वितीये सरसाः त्रिंशत् षट्त्रिंशद् इत्यर्थः। तृतीये सेन्दुत्रिंशद् एकत्रिंशदित्यर्थः। चतुर्थे जिनाः चतुर्विशतिरित्यर्थः। पञ्चमे तिथयः पञ्चदशेत्यर्थः। षष्ठे विषयाः पञ्चेत्यर्थः। राश्यर्द्धचापानामर्द्धज्याखण्डानीति। राशीनां चापानि अष्टादशशतप्रमाणानि तैर्नवशतप्रमाणैराशिचापार्द्धैरेकैकं ज्याखण्डं लभ्यते इति। ज्याभुक्तैक्यं सभोग्यफलमिति। भुक्तानामैक्यं भुक्तैक्यं किम्भूतमित्याह। सभोग्यफलमिति। एतदुक्तं भवति ज्याखण्डानीमानि।
३८३५३१२४१५५ ज्याकेन्द्रं लिप्तापिण्डीकृतं नवभिः शतैर्विभज्यावाप्तं यावत्भुक्तानि ज्याखण्डानि लभ्यन्ते तावन्त्येकीकृत्यततो भोग्येन ज्याखण्डेन विकलं संगुण्य नवभिः शतैर्विभज्यावाप्तं भुक्तैक्यं कृत्वा सर्व्वदा सर्वत्र ज्येति भवति। अत्रोदाहरणं प्रकटार्थत्वान्नदर्शितमिति। विक्षेपानयनं चाचार्य्यश्चन्द्रग्रहणाध्याये वक्ष्यति। मया चोपयोगित्वादिहैवाभिधीयते। विक्षेपानयनार्थमार्य्यार्द्धमाह -
पातोनचन्द्रजीवा विक्षेपो नवगुगोषुहृता।
पातनोनः पातोनश्चासौ चन्द्रश्च पातोनचन्द्रः। तज्जीवा पातोनचन्द्रजीवा स विक्षेपो भवति। किम्भूता इत्याह। नवगुणेषुहृतेति नवभिर्गुणा नवगुणा इषुभिर्हृता इषुहृता। पातोनचन्द्रजीवा नवगुणा सति इषुभिर्विभज्यावाप्तं चन्द्रविक्षेपो भवति। इति वाक्यार्थः।
करणम्। स्फुटचन्द्रात् पातं विशोध्य जीवा कार्य्या। त्रिंशत् सनवेति। पूर्व्ववदनन्तरोक्तविधिनाततस्तां नवभिः संगुण्य पञ्चभिर्विभजेत्। अवाप्तं लिप्तादिफलम्। चन्द्रविक्षेपो भवति। इत्युदाहरणं प्रकटार्थत्वान्नदर्शितमिति। चन्द्रार्कमानानयनं तत्रैव वक्ष्यति। मया इहैवाभिधीयते । तस्मान् मानानयनमाह -
भवदशगुणिते रविशशिगतो नखैः स्वरजिनैर्हृतेमाने ॥ ३१ ॥
भवदशगुणिते इति। एते यथासंख्यं रविशशिभुक्ती द्वेअपि। हृते इति। कैरित्याह। नखैः स्वरजिनैरिति। अत्रापि यथासंख्यम्। एवं माने भवत इति वाक्यार्थः।
करणम्। अर्कस्फुटभुक्तिमेकादशभिः संगुण्य विंशत्या विभज्यावाप्तं लिप्तादिफलं मानं भवति। चन्द्रस्फुटभुक्तिं दशभिः संगुण्य स्वरजिनैर्विभजेत्। शतद्वयेन सप्तचत्वारिंशदधिकेनेत्यर्थः। २४७। एतैर्विभज्यावाप्तं लिप्तादिफलं मानं भवति चन्द्रमसः। उदाहरणं प्रकटार्थत्वान्नदर्शितमिति। चापानयनं चाचार्य्यस्त्रिप्रश्नाध्याये वक्ष्यति। मया चोपयोगित्वादिहाभिधीयते।
चापकरणार्थमार्य्यामाह -
ज्याखण्डोने शेषे गुणिते नवभिः शतैरशुद्धहृते।
क्षेप्यानि शुद्धखण्डैर्गुणितानि शतानि नव चापम् ॥ ३२ ॥
ज्याखण्डेनोनः ज्याखण्डोनः तस्मिन् ज्याखण्डोने शेषे। किंभूत इत्याह। गुणिते नवभिः शतैरशुद्धहृते इति। नवभिः शतैर्गुणितः नवशतगुणितः। तत्राशुद्धेन ज्याखण्डेन हृते। तस्मिन् क्षेप्याणि कानीत्याह। शतानि नव किम्भूतानि इति। शुद्धखण्डैर्गुणितानि। एवं कृते चापं भवतीत्याय्यार्थः।
करणम्। यावन्तीनां लिप्तानां कर्त्ता चापं कर्त्तुमिच्छति तावन्तीभ्यो लिप्ताभ्यो यावन्ति त्रिंशत्सनवादीनि खण्डकानि शुद्ध्यन्तितावन्ति संशोध्य शेषं नवभिः शतैर्गुणयेत्। ततश्चाशुद्धज्याखण्डेन भागमपहृत्यावाप्तं लिप्तादिकं फलं भवति। तत् शुद्धज्याखण्डकसंख्याकगुणितेषु नवशतेषु क्षिपेत्। एवं कृते चापं भवति। अत्रोदाहरणम्। तद् यथा । अत्र त्र्यशीतिलिप्तानां चापं क्रियते। आभ्यो ज्याखण्डशुद्धशेषं ८ एतन्नवशतगुणितं जातं ७२०० असावशुद्धखण्डकेनानेन ३१ विभज्यावाप्तं लिप्तादिफलं २३२।१५ एतत् शुद्धाङ्कद्वयेन। अपि तु खण्डकसंख्ययाङ्कैः२ द्वाभ्यामित्यर्थः। गुणेषु नवशतेषु १८०० संयोग्य जातं २०३२।१५ एवं सर्व्वत्रोदाहरणीयमिति।
अथ करणानि कृत्वा। इदानींक्रान्तिसाम्यानयनं व्याख्यायते। तत्र तावद् ध्रुवककालिकाद् रवेःक्रान्तिः कार्य्याचन्द्रस्य ततः क्रान्तिः कार्य्याविक्षेपश्च। तयोश्चक्रान्तिविक्षेपयोरेकदिग्योगः। भिन्नदिग्वियोगः। एवं कृते चन्द्रस्य क्रान्तिर्भवति। द्वेअपि क्रान्ती यदा तुल्ये तदा सव्यतीपातकालः। अथ तदा सम्भवति यदा ध्रुवककालिकस्य चन्द्रमसो विक्षेपामावो भवति। अन्यथा नेति। अथ क्रान्ती तुल्ये न भवतः। तदा चन्द्रविक्षेपः रविक्रान्तौवा धनमृणं वा कार्य्यम। कदेति। चन्द्रक्रान्तिविक्षेपयोर्दिग्भदे धनं कार्य्यंदिक्साम्ये ऋणम्। रविक्रान्तिं कृत्वा ततस्तस्याः कान्त्याः चापं कार्य्यंयत्र तत्र चापं क्रियते तत्र तत्र त्रिंशत् सनवेति जीवाभिः। इहाष्ट (?) पुनरयं विशेषः। क्रान्तिखण्डैश्चापं क्रियते तत्र प्रथमे खण्डे द्विषष्ट्याधिकंशतत्रयम्। हितोये खण्डके एकचत्वारिंशदधिकं शतत्रयम् । तृतीये एकोनं शतत्रयम्। चतुर्थे षट् त्रिंशदधिकं शतद्वयम्। पञ्चमे सार्द्धशतम्। षष्ठे द्विपञ्चाशत्। अङ्केनापि न्यासः।
३६२३४१२९९२३६१५०५२ एतैः खण्डकैः त्रिंशत् सनवाद्यैःस्वेपूर्व्वोक्तविधिना चापं कार्य्यंतस्य षष्ट्याभागमपहत्य भागा भवन्ति। भागानां त्रिंशता भागे हृते रामयः एवं राश्यादिफलं स्थाप्यं ततो यदि ध्रुवककालिकचन्द्रः प्रथमपदे भवति। तदा स एव पातकालिकश्चन्द्रमा भवति। ध्रुवककालिकश्चन्द्रमा यदि द्वितीयपदे भवति तदा राश्यादिफलं अर्द्धचक्रादपास्य ततः पातकालिकचन्द्रः स्यात्। अथ तृतीये पदे तदा तद्राश्यादिफलस्य राशिषट्कं संयोज्य चन्द्रः पातकालिकः स्यात्। अथ चतुर्थे पदे भवति तदा तद् राश्यादिकं फलं चक्रादपास्य तात्कालिकश्चन्द्रमा भवति। एवं पातचन्द्रं कृत्वा। ततोऽर्द्धरात्रिकचन्द्रपातचन्द्रयोरन्तरंलिप्तापिण्डं कृत्वा। स्फुटभुक्त्या विभज्याव्याप्तं दिवसादिकालः। तावत्कालोऽतीतस्यैष्यस्यवा ज्ञातव्यः। कदेति। अर्द्धरात्रिकचन्द्रात्। पातः यदाधिको भवति तदा एष्यःपातः। अथार्द्धरात्रिकचन्द्रात् पातचन्द्र ऊनो भवति। तदातीत इति। एवं कालं परिज्ञायततस्तेन कालेन दिवसादिना अर्कपातभुक्तीसंगुण्यषष्ट्याविभज्यावाप्ते द्वेअपि फले भागाद्येपथक् पृथक् स्थाप्ये। ततो यद्यतीतस्तदा स्वफलमर्कं ऋणं कार्य्यम्।अथैष्यःपातकालस्तदा स्वफलमर्के धनं कार्य्यम्।राहोरन्यथेति। एवं कृते पातकालिकौअर्कपातौभवतः। चन्द्रश्चय एव यावत् चन्द्रस एव पातकालिक इति। एवं रविचन्द्रपातांस्तात्कालिकीकृत्य पुनरर्कक्रान्तिः कार्य्या। चन्द्रस्य विक्षेपयुतवियुता स्वक्रान्तिः ततो निरूपयेत् यदि क्रान्तेः साम्यं भवति। तदा स एव पातकालः। न चेत् तदा चन्द्रविक्षेपो रविक्रान्तिः (?)। चन्द्रतत्क्रान्तिविक्षेपयो दिगभेदे योजयेत्। दिक्साम्ये शोधयेत् । तस्य क्रान्तिखण्डकैःद्विरसगुणाद्यैःपूर्व्ववच्चापं कृत्वा ततः पूर्व्वोक्तेन विधिना पातचन्द्रं कृत्वा ततः कालं दर्शितविधिना भूयोऽप्यर्कपातौतात्कालिकौकृत्वाएतदेव कर्म्म कार्य्यम्। एवं तावत् कार्य्यंयावच्चन्द्रपातः स्थिरो भवति। यत्र काले पातचन्द्रः स्थिरीभूतस्तत्रकाले रविराहू तात्कालिकौकार्य्यौ। चन्द्रपाते चन्द्रः स्थिर एव। तत्र कालेऽर्कक्रान्तिः कार्य्या। चन्द्राच्च स्वक्रान्तिस्तस्मिन् काले तयोःक्रान्त्योःसाम्यं भवतीति निश्चयेत्। ततस्तस्य पातचन्द्रस्यार्द्धरात्रिकचन्द्रस्य चान्तरात् पूर्व्ववत् कालः आनेतव्यः। अर्द्धरात्रात् पूर्व्वेणवा परेण वा। अथैतस्मिन्नपिकर्म्मणि क्रियमाणे पातचन्द्रस्थिरो न भवति। तदा क्रान्त्योःसाम्याभावः। एतच्च यदा सम्भवति। तदुच्यते। मिथुनान्ते यदा चन्द्रो भवति। ध्रुवकालिकस्तस्य विक्षेपयुता स्वक्रान्तिः सा यदा तात्कालिक-रविक्रान्तेश्चोनाभवति तदा क्रान्तिसाम्याभावः। अथ धन्विन्यन्ते ध्रुवककालिकश्चन्द्रमा भवति। अत्रस्थस्य रविक्रान्तेः जना स्वक्रान्तिर्भवति तत्काले तदापि क्रान्तिःसाम्याभावः। तदभावे पातस्याप्यभावः। अत्रावसरे यदि सपरिवर्त्तकर्म्म क्रियते तदा साम्यं नोत्पद्यते इति। प्रतिजानीमहे वयम्। अथ मिथुनान्तस्थस्य धन्विन्यन्तस्थस्यचन्द्रमसो रविक्रान्तिश्चअधिका स्वकान्तिर्भवति। तदा वारद्वयंक्रान्तिसाम्यंभवति। तदा पाताभाव एव। यत उक्तं ब्राह्मेचतुर्द्दशेऽध्याये -
चक्रार्द्धेऽर्कशशियुतौ भिन्नायनयोरपमसमत्वे च ।
रविशशिनोः सममधु-कृतयोगाद्विषदो व्यतीपातः ॥ ३३ ॥
चक्रे वैधृतमेकायनस्थयोः क्रान्तिजीवयोः साम्ये ।
इन्धनरविमणियोगादग्निवदूनाधिककलाभ्यः ॥ ३४ ॥
इति।अथ दुष्टकाले स्थित्यर्हकरणं व्याख्यायते। तत्रोक्तेरवि-चन्द्रमाने कार्य्ये। तयोर्योगः कार्य्यः। तस्य योगस्यार्द्धंषष्ट्या संगुख्य अर्कचन्द्रयोः स्फटभुक्त्यन्तरेण विभज्याप्तं स्थित्यर्द्धंभवति। तं पातकालात् संशोध्य प्रग्रहकालो भवति। द्वितीये स्थाने पातक्रान्तियोज्य-मोक्षकालो भवति। चन्द्रग्रहणवत्। तच्च प्रग्रहणमोक्षयोरन्तरे यो घटिकादिकालः स दुष्टाख्यः। सर्व्वक्रियास्वशुभो वर्जनीयः। ननु सर्व्वरात्रिदिवसो वा।
तथा चार्य्य-वराहमिहरः -
विषप्रदिग्धेन हतस्य पत्रिणा
मृगस्य मांसं शुभदं क्षतादृते।
यथा तथैव व्यतिपात-दूषितः
क्षणोऽत्र दुष्टो न तिथिर्नवासरः।
अथोदाहरणम्। तद् यथा। शाकः ७८६ मासः १ तिथयः १० तस्मिन् दिने स्फुटावर्द्धरात्रिको रविचन्द्राविमौ ०।२९।१२।५०।५।२।२।३४। अनयोर्योगः ६।१।१५।२४ एतदर्धचक्रादधिकम्। अतोऽर्द्धचक्रं विशोध्य ०।१।१५।२४ एतत् पृथक कलीकृतमर्कभुक्त्यानया ५७,४६ गुणितं जातं ४०५५।३६ अस्यार्कचन्द्रयोर्भुक्तियोगेनानेन ७९४।२८ भागे हृते अवाप्तं रविफलं ०।०।५।२८। एतत् पृथकस्थादस्मात् ७५।२४ संशोध्य जातं चन्द्र फलम् ६९।५६।पुनरपि पृथक्स्थौद्वौसंगुण्यार्कचन्द्रयोः स्फुटभुक्तियोगेन विभज्यावाप्तं लिप्तादि राहुफलं ०।१८। एवं त्रीणि फलानि ध्रुवकादधिकानि यस्मात् युतिरर्कचन्द्राभ्यां स्वस्वफलं विशोध्य पातस्य दत्वा ध्रुवकालिका अर्कचन्द्रपाता जाताः।
रवि०२९७२२चन्द्र५०५२३८पात४५२४२१
अथ कस्मिन् काले ध्रुवकालिका जाताः तदर्थं पृथक्कृतस्यास्य लिप्तापिण्डस्य ७५।२४ भुक्तियोगेनानेन ७९४।२८ भागमपहृत्यावाप्तं दिवसादिकालः अर्द्धरात्रात् पूर्व्वेण युतेरधिकत्वात् ध्रुवकादयं ५।४१।अथ ध्रुवकालिका
चन्द्रक्रान्तिरियं ६८३।३चन्द्राश्च क्रान्तिविक्षेपयुतवियुतोऽयं ७९७।४७। अत्र काले द्वेअपि समाने जाते। ततोऽयं पातकालो न भवति। अथ कर्म्मान्तरमुदाह्रियते।
तद् यथा। रविक्रान्तेरस्याः ६८३।३ चन्द्रविक्षेपमिदं ११४।४१ संशोध्य चन्द्रक्रान्तिः। तद्विक्षेपयोः एकदिकत्वात् जातं ५६८।२२ अस्याःक्रान्तिखण्डेन जातं चापं यथा १४४४।३९अस्य षष्ट्यादिभिश्छेदेन राश्याद्यःएतच्चक्रार्द्धात्संशोध्य ध्रुवकचन्द्रस्य द्वितीयपदत्वात् जातः पातचन्द्रः ५।५।५५।२१।अथार्द्धरात्रिकचन्द्रस्य चान्तरमिदम् ०।३।५२।४७। एतलिप्तापिण्डीकृतं जातं २३२।४७ एतच्चन्द्रस्फुटभुक्त्यानया ७३६ विभज्यावाप्तदिनादिकालोऽयं ०।१८।४७अथैतावान् कालोऽर्द्धरात्रात् पूर्व्वेणकिमपि परेणैतद् जिज्ञासते तदर्थं पातचन्द्रोऽयं ५।५।५५।२१। आर्द्धरात्रिकचन्द्रादस्मात् ५।२।२।३४ अधिको जातः। अतः पातकालो भावी। अनेन कालेनेति ०।१८।५७। अथैतेन दिनादिना अर्कपातभुक्तीइमे ५७ ४६॥ ३॥११ गुणिते जाते १०९४।६६० षष्ट्याभागे हृते द्वेअपि फले भागाद्ये ०।१८।१४॥ ०।१।१० एते फले रविपातयोरर्द्धरात्रयोः पातस्य भावित्वात् अर्केदत्त्वा पानतेविशोध्य जाता पातकालिका अर्कचन्द्रराहवः -
अर्क०२९३१४चन्द्र५५५५२१राहु४५२३२
एवं तात्कालिकाद् रवेः क्रान्तिरियं २१।३२।२। चन्द्रमसक्रान्तिरियं ९।२८।२१।अत्राप्येते क्रान्ती न दुष्यतः। चन्द्रक्रान्तिविक्षेपयोरेकभावाद्विक्षेपमिमं १३६।२३ रविक्रान्तेरस्याः ६९८।२ विशोध्य जातं५५५।३९। अस्या
बा. क्रान्तिखण्डैरिदं १४०९।३० तस्य षष्ट्यादिभिश्छेदैर्भागाद्यं च ०।२३।२९।३०। एतदेवार्द्धचक्रादपास्यपातचन्द्रोऽयं ५।६।३०।३० पुनरप्यर्द्धरात्रिकचन्द्रेणानेन ५।२।२।३४ सहान्तरं जातं ०।४।२७।५६ पूर्व्वोक्तेन विधिना पुनरप्यर्कपातौ। तात्कालिकौभूतौ पातचन्द्रः स्थिरः। एवं चेति क्रमेणाऽर्कादयस्तात्कालिकाः यथा लिख्यन्ते। एवं पुन-स्तात्कालिकाद् रखवेःक्रान्तिरियं ६९४।चन्द्रमसश्चक्रान्तिरियं ६९४।६ एवं द्वे अपि क्रान्ती जाते। अर्द्धरात्रात् परेणास्मिन् कालेऽर्द्धरात्रात् परेण कालः। अस्मादर्द्धरात्रप्रमाणमिदं संशोध्य शेषं ८।१ एतावत्कालेन गतेन द्वितीयदिने व्यतीपातः। अथार्कचन्द्रयोर्माने ३१।४५॥ २९।४९।अनयोर्योगः ६१।३४ अस्यार्द्धं३०।४७ एतत् षष्ट्यासंगुण्य चन्द्रार्कयोः स्फुटभुक्त्यन्तरेणानेन ६७९।६ विभज्यावाप्तं स्थित्यर्द्धमिदं २।४३। अथ पातकालः त्रिस्थानगतः८१८१८१
आदावृणमन्ते धनं कृवा जातः प्रग्रहण-मध्यममोक्षकालः ५२७८११०४४एवमुत्तरायांपातः। एवं यथासम्भवं गणकेरुदाहरणीयमिति। तथैवासिन्नेव व्यतीपातकर्म्मणिपञ्चविंशतिः श्लोकाः कथिताः से चेह मया।
भार्द्धादूनाधिका लिप्ताश्चक्रादूनाधिकास्तथा।
रविचन्द्रयुतौ जाता हन्यात्तास्तु पृथग् गताः ॥ १ ॥
रविभुक्त्या ततो भक्ता गतियुक्तार्कचन्द्रयोः ।
लब्धमर्कफलं ज्ञेयं पृथकस्थस्तेन हीनकः ॥ २ ॥
इन्दोः फलं तदेवं च राहुभुक्त्यार्कवत् फलम् ।
ऊने ध्रुवे युतं शोध्य मिनेन्द्वोःस्वफलं तु यत् ॥ ३ ॥
अधिके योजयेदेवं पाते कर्त्तव्यमन्यथा।
एवं च ध्रुवकालोने जायन्ते भार्द्धचक्रयोः ॥ ४ ॥
तात्कालिका रवेः क्रान्तिः खक्रान्तिश्चैव शीतगोः ।
कृत्वेयं च दिने तुल्येपातकालः स संज्ञितः ॥ ५ ॥
अथ चेदधिकोने ते तदा कर्म्मविधीयते।
चन्द्रविक्षेपतः क्रान्त्योदिग्भेदेचाप्युपक्रमः ॥ ६ ॥
योजयेश्चन्द्रविक्षेपं दिक्साम्ये शोधयेत् ततः ।
तस्याश्चापंभवेद् यत्र क्रान्तिखण्डैःस चन्द्रमाः ॥७॥
हृतः षष्ट्यादिभिञ्छेदै राश्याद्यपातकालिकः ।
चन्द्रश्चेत् प्रथमे पादे चक्रस्य ध्रुवकालिकाः ॥ ८ ॥
भार्द्धाच्छोध्येद्वितीये तु तृतीये भार्द्धसंयुतः ।
चक्राढूनश्चतुर्थेतु पातकाले तु स स्कुटः ॥ ९॥
अर्द्धरात्रिकचन्द्रस्य पातचन्द्रस्य चान्तरात्।
लिप्तापिण्डीकृतं भक्तं स्कुटभुक्त्या तु शीतगोः ॥ १० ॥
पातचन्द्रेऽधिके भावि हीने भूतोऽर्द्धरात्रिकात्।
ततोऽर्कपातभुक्तीद्वेहन्यात् कालेन ते पृथक् ॥ ११ ॥
अवाप्तो दिवसादिर्योनिर्विशेषः कृतःस्फुटः ।
कालो भवति पातस्य निर्विशेषः स उच्यते ॥ १२ ॥
फले तुल्ये धृते द्वेतु भागाद्येरविपातयोः ।
क्षयं भूते विशोध्ये च पातार्के चार्द्धरात्रिके ॥ १३ ॥
राहो ऋणं धनं व्यस्तं पातकाले तु तौस्थितौ।
एवं तात्कालिकार्केन्द्वोःपुनः क्रान्ती स्वके पृथक् ॥ १४ ॥
तत्राद्यदिनतुल्ये तु पातकालस्तदोच्यते ।
नवे चन्द्रेऽत्र विक्षेपं पूर्व्वोक्तं रव्यपक्रमे ॥ १५ ॥
कर्म्म कुर्य्यात् पुनश्चन्द्रः पुनः कालस्ततो भवेत् ।
एवं तावत् पुनः कुर्य्यात् यावच्चन्द्रोऽविशेषतः ॥ १६ ॥
पातचन्द्रः स्थिरो यत्र कालेऽर्कचन्द्रयोस्तथा।
क्रान्त्यंशैःसमतां याति सर्व्वदैव न संशयः ॥ १७ ॥
यदापक्रमयोः साम्यं नोत्पद्येतार्कचन्द्रयोः।
पात एवं तदा नास्ति यत्र चैतत् तदुच्यते ॥ १८ ॥
धन्विन्यन्ते यदा क्रान्तिर्मिथुनान्ते च शीतगोः ।
रव्यपक्रमतश्चोना तदा साम्यं न विद्यते ॥ १९ ॥
अथ चेदधिका क्रान्तिस्तदा वारद्वयंभवेत् ।
तत्रैकं गृह्यते साम्यमिदानींच तदुच्यते ॥ २० ॥
मेदायने यदार्केन्द्वोर्व्यतीपातस्तदा भवेत् ।
वैधृतं च तदापि स्याद् भित्रगोलकयोः स्वयोः ॥ २१ ॥
मधुधृते यथा तुल्ये विषतां गच्छतस्तदा ।
इनेन्द्वोःक्रान्तिभागाच्च समागच्छति दुष्टताम् ॥ २२ ॥
षष्ट्याघ्नान् मानयोगार्द्धाद्भुक्त्यन्तरविभाजितात् ।
स्थित्यर्हंच भवेदेवं वैधृतान्तरतस्ततः ॥ २३॥
क्षयं धनं ततः कुर्य्यात् प्राक् पश्चात् पातकालतः।
स कालो दुष्टकालाख्यः सर्व्वकर्म्मविगर्हितः ॥ २४ ॥
एवं पातपरिज्ञानं मयोक्तंतु यथागमम् ।
पञ्चविंशतिभिः श्लोकैः ॐ नमः परमात्मने ॥ २५ ॥
पृथुस्वामिकृतं चेदं क्रान्तोरानयनं स्फुटं
शिष्याणामुपकाराय स्वयशोऽभिविवृद्धये॥ २६ ॥
एवं व्यतीपातप्रयोगोऽस्माकं पारम्पर्य्येणागतः। ब्रह्मोक्त-प्रयोगो नास्माभिर्व्याख्यातः। कर्म्मबहुत्वात् न कश्चिल्लिखितमपि शक्तइति। ज्ञातं यावद् बाह्यं गणितं तस्माद् हितार्थे शिष्याणामनेन प्रयोगणास्माभिर्व्याख्यातं चेति। अथ संक्रान्तिप्रकरणं व्याख्यायते।
ग्रहस्य तद् यथा। राशेर्यावद् ग्रहेणाभुक्तं भागादिकं तल्लिप्तापिण्डं कृत्वा स्फुटभुक्त्या विभजेत्। अवाप्तं दिवसादि कालो भवति। तत्कालेन ततो राशेर्ग्रहो यास्यत्यग्रतः। एवं ऋजुगतिग्रहे। वक्रिणि विपर्य्ययेण। एवं स्थूलं च पुनः पुनः कृत्वा निरन्तरमिच्छताऽसकृत् कर्म्मणाकालः साध्य इति। अथार्कसंक्रान्तिपरिज्ञानं व्याख्यायते। तत्रार्कमानार्द्धं षष्ट्या संगुण्य तस्यैव स्फुटभुक्त्या विभज्यावाप्तो घटिकादिकालः। करणागतात् संक्रान्तितः पुण्यकालः पूर्व्वेणापरेण वा स्नानादियोग इति। न केवलं खे (?) र्यावदन्येषामपि ग्रहाणां स्वमानार्द्धंषष्ट्यासंगुण्य स्फुटभुक्त्या विभज्यावाप्त-घटिकादिकालः पुण्यसंक्रान्तिकालः। पूर्व्वापरेण तावत्कालो राशिद्वयेऽपि ग्रहो भवेत्। छेदोऽस्य। अन्यत्रार्कचन्द्रभुक्त्यन्तरेणेति तिथिकरणयोः। छेदस्य तावत् कालो नक्षत्रद्वयस्य फलं भवतीति तिथिद्वयस्य चेति। तथा च ब्राह्मे मानार्द्धात्षष्टिगुणाद् भुक्तिहृतान्नाडिकादिलब्धेन राश्यन्तः ततः प्रागादिः पश्चादन्तोऽर्कसंक्रान्तिः पुण्यकालो यल्लब्धंनाडिकादि तद्द्विगुणम्। स्नान-जप-होम-दानादिकोऽत्र धर्म्मोविशिष्टफलः।एवं नक्षत्रात् तिथिकरणान्तं शशिप्रमाणार्द्धात्। षष्टिगुणाद् रविशशिनोर्भुक्त्यन्तरेण लब्धघटिकाभिः संक्रान्तिच्छेदो यथावत् करोति मित्रफलग्रहस्तावत्। यस्मात् तस्मात् द्वेष्टे (?) राज्यं परिहरति लोक इति ।
अथात्रखडखाद्यके वर्षाधिपमासाधिपानयनमाचार्य्येण नाभिहितम्।ग्रन्थगौरवभयात् तदन्तरेण लोकव्यवहारो न शक्यते कर्त्तुम्। यतस्तमुद्दिश्य संहिताकारैःफलान्यभिहितानि। तथा चाचार्य्योवराहमिहरः -
सर्व्वत्र भर्विरलशस्ययुता वनानि
दैवाद् विभक्षयिषुदंष्ट्रि-समावृतानि।
स्यन्दति नैव च पयः प्रचुरं स्रवन्तो
रुग्भेषजानि न तथातिबलान्वितानि ॥
तोक्ष्णंतपत्यदितिजः शिशिरेऽपि काले
नात्यम्बुदा जलमुचोऽचलसन्निकाशाः।
नष्टप्रभर्क्षगणः शीतकरं नभश्च
सीदन्ति तापसकुलानि सगोकुलानि॥
हस्त्यश्वपत्तिमदसत्त्वबलैरुपेता
बाणासनासिमुशलातिशयाश्चरन्ति।
घ्नन्तो नृपा युधि नृपानुचरैश्चदेशान्
संवत्सरे दिनकरस्य दिनेऽथ मासे ।7
इत्येवमादीनां परिज्ञानादिः दैवज्ञत्वं नित्यमतोऽहं ब्राह्मादाकृष्यप्रयुजे।खण्डखाद्यकाहर्गणेन वर्षाधिपमासाधिपयोरानयनमाह। तद् यथा वर्षाधिपतिस्तावत् इष्टदिने खण्डखाद्यकाहर्गणे नन्देन्दुगुणसंयुतं कार्य्यम। त्रिभिः शतैरेकोनविंशत्या अधिकैरित्यर्थः ३१९। एतैरधिकं कृत्वा षष्ट्यधिकैः त्रिभिः शतैर्विभजेत् ३६० लब्धफलं त्रिगुणं कृत्वा त्रिभिरधिकं कार्य्यम्। एवंविधस्य राशेः सप्तभिर्भागमपहृत्यावशेषाङ्कसमोऽर्कात् प्रभृति वर्षाधिपो भवति। षष्टिशतत्रयभक्ता (?) यदि शोध्याच्छेषं तावद्भिर्दिनैः सवर्षाधिपतिर्भविष्यतीति। एवं प्रतिवर्षमन्यत्रान्यदिने वर्षाधिपतिर्भवति। ननु पुनः चैत्रसितादि नित्यम्। अत्रोदाहरणम्। तद् यथा। अहर्गणः ७२६७५ अत्र नन्देन्दुगुणानिमान् ३१९संयोज्य जातं ७२९९४। अस्य षष्ट्याधिकैस्त्रिभिः शतैर्भागे हृतेऽवाप्तं २०२ एतत्त्रिगुणं ६०६ (पुनस्त्रियुतं ६०९) अस्य सप्तभिर्भागे हृते शेषम् ०। अतोऽत्र वर्षे शनैश्चराधिपतिस्तावत् कियन्ति दिनानीति। अत्र शेषमिदम् २७४। एतावन्ति दिनानि प्रवृत्तस्य शनैश्चरस्य एतत् षष्ट्यधिकशतत्रयेभ्योऽपास्य शेषं ८६ एतावन्तो दिवसा पस्य एष एवाधिपतिः। अत्रशाके७८६ एवमाषाढपूर्व्वमङ्कारक-आधिपत्यं भविष्यतीति। एवं व्यभिचारेण वर्षाधिपतेः प्रवृत्तिः। ये पुनर्व्यावर्तन्ते चैत्रसितादेः संवत्सराधिपत्यादौनां प्रवृत्तिः। तेन ज्ञानंब्राह्मम्। असद्व्याख्यातारस्ते यतः कल्पादारभ्य षष्ट्यधिकैस्त्रिभिः शतैर्दिनात् प्रतिवर्षं वर्षाधिपो भवति। सावनमानेन वर्षाधिपतिः मासाधिपतिर्दिनपतिश्चेति। अथ मासाधिपतिः इष्टदिने खण्डखाद्यकाहर्गणंनवरूपाधिकं कुर्य्यात्। एकोनविंशत्यधिकमित्यर्थः ।१९। एतैरधिकं वा त्रिंशता विभजेत् ।३०। अवाप्तं फलं द्विगुणीकृत्य द्वाभ्यांसंयुक्तं कार्य्यम्। एवंविधस्य सप्तभिर्भागमपहृत्य शेषाङ्कसमोऽर्कात् प्रभृति मासाधिपतिर्भवति। ब्राह्मेगणिते इत्यर्थः। त्रिंशता भागे हृते यच्छेषं तावन्ति दिनानि तस्य प्रवृत्तस्य गतानि। तदवशेषं विंशतोऽपास्य यच्छेषं तावन्ति स एव मासाधिपतिर्ज्ञेयः। एवं कालव्यभिचारात् मासाधिपतेरपि प्रवत्तिर्ननुपुनः सितपक्षादेरारभ्य नित्यमिति।
उदाहरणम्। ७२६७५।अस्मिन्नहर्गणे नवरूपाणीमानि १९संयोज्य जातम् ७१६९४। अस्य त्रिंशता भागे हृते फलम २४२३। एतद्द्विगुणीकृत्य अधिकं जातं जातं ४८४८। अस्य सप्तभिर्भागे हृते शेषम् ४। अतोऽत्र - बुधाधिपतिः। अथ त्रिंशतः शेषम् ४। एतावन्ति दिनानि प्रवृत्तस्य। एतत् त्रिंशतोऽपास्य शेषम् २६। एतावन्ति दिनानि बुधस्य एष्याणि। अत ऊर्द्धंमासाधिपोऽन्यो भविष्यति। एवं द्वादाशान्तमासाधिपस्यान्यस्य प्रवृप्तिः। एवं कल्पाव्यभिचारेण नित्यं मासाधिपसंप्रवृत्ति ज्ञातव्या इति। यतः कल्पादारभ्य त्रिंशहिनानि प्रत्येको मासाधिपो भवति। सावनमानेनेति। अथास्मिन्नेवार्थेसंवत्सराधिपमासाधिपतयोरानयनार्थंप्रयोगः। श्लोकत्रितयं मया कृतं तथेदम् -
नन्देन्दुगुणसंयुक्तं द्युगणं भाजितं ततः।
शून्यषष्ट्यन्निभिर्लब्धं त्रिगुणं चाधिकं त्रिभिः॥ १ ॥
सप्तभिः शुद्धशेषंतदर्काद्योऽब्दपः सदा।
ब्रह्मागते समत्वेन मया प्रोक्तं प्रयोगतः ॥ २ ॥
नवरुपाधिकाद् भक्ताद् द्युगणास्त्रिंशताफलम् ।
द्विगुणंकरसंयुक्तं लगशुद्धंस मासपः ॥ ३ ॥
तथा ब्राह्मेस्फुटसिद्धान्ते त्रयोदशाध्याये -
द्युगणात् त्रिंशद्भक्ताल्लब्धं द्विगुपितं सरूपं तत् ।
सप्तविभक्तं शेषः सावनमासाधिपोऽर्कादिः ॥ ४३ ॥
षष्टिशतत्रयभक्तात्कल्पगताहर्गणात् फलं त्रिगुणम्।
सैकं सप्तविभक्तं सावनवर्षाधिपोऽर्कादिः ॥ ४४ ॥
अस्य ब्राह्मप्रयोगस्य प्रयोजने निरूप्यमाने एक एवार्थो भवति होराधिपतिपरिज्ञानमाचार्य्येण नाभिहितं व्यवहारे सर्व्वत्रविभागो तथा च यात्रायाम्। यद्यस्य फले दिवसे तदवशेषं कालहोराया एवमादिफलानां परिज्ञानं स्यात्। होरापरिज्ञाने सति तस्मात् नव्याख्यायते। यथेष्टदिनेऽभीष्टकाले लग्नं कार्य्यम्। तस्मात्
तात्कास्फुटार्कंसंशोध्य शेषं भागपिण्डंकृत्वा पञ्चदशभिर्विभजेत्। लब्धं होरा भवन्ति। तथोत्तरा होरा न तत्र काले भवति। तदा रूपंयो ततः सप्तभिर्विभज्यशेषाङ्क-समो दिनपतेः प्रवृत्तिर्होराधिपो भवति।तथा ब्राह्मे -
अर्कोनलग्नहोरा पञ्चगुणा सविकला यदि सरूपा
सप्तविभत्ता शेषो दिनपाद्यः कालहोरिशः ॥ इति ।8
अन्येषां त्वार्य्यभटादीनां मतम्। यथा दिनगतघटिद्विगुणाः पञ्चभिवपुर लब्धं भुक्ता होरा भवन्ति। तत्र दिनपस्य प्रथमा होरा द्वितीया द्विषष्ठस्य। एवं षष्ठात् षष्ठात् क्रमेण ज्ञातव्यो होराधिपः। अत्रप्रयोगेण यत् पूर्व्वंव्याख्यातं तच्छोभनं द्वितीयं गतघटिकादिमिः सर्व्वत्रायं क्रमः। वर्षाधिपतेश्चतुर्थो वर्षाधिपतिः द्वितीये वर्षे। मा परेस्तृतीयो द्वितीये मासि भवति। होराधिपतेःषठो द्वितीयहोराया एवं यदत्राध्यायेऽधिकमूनं व्याख्यातंतद्विद्विद्भिःक्षमनीयम्। यदावि धारितम्। सर्व्वथैव व्याख्येयमिति।
इति चतुर्व्वेद-पृथूदकस्वामिकृतेखडखाद्यविवरणे
तिधिनक्षत्राधिकारः प्रथमः॥
——————
अथ ग्रहगत्यध्यायः
प्रणम्य शिरसा देवमनादिं नित्यमव्ययम्।
प्रवक्ष्यामि ग्रहगतौभाष्यंसम्यक् परिस्फुटम्॥
अथातो ग्रहगत्यध्यायो व्याख्यायते। तत्रादावङ्गारकमध्यमानयनमाह।
पादोनरसनवोदधि ४९६-हीनाद् भगणाद्यहर्गणाद् भौमः । सप्ताष्टरसैः ६८७ सकलो
नवतत्त्वाब्धिस्वरशशाङ्कैः१७४२५९॥१॥
वाक्यार्थः। पादोना रसाश्च नव च उदधयश्च पादोनरसनवोदधयः। तैर्हीनः पादोनरसनवोदधिहीनः तस्मात्। कुतः भणति। अहर्गणाद्दिनगणादित्यर्थः। भगणादिरिति। भगणः आदौ यस्य सः चक्रादिरित्यर्थः। को भौम इति। सप्ताष्टरसैरिति। सप्त च अष्टौ च रसाश्च तैर्भगणाद्याप्तमित्यर्थः। सकलो नवतत्त्वाब्धिस्वरशशाङ्कैःअहर्गणात् कलाद्याप्तेन फलेन स एव भौमाधिकः कर्त्तव्य इत्यार्य्यार्थः।
करणम्। इष्टदिनाहर्गणं स्थापयित्वा तस्मात् पादोनरसनावोदधयः शोधनीयाः दिनानाम्। चत्वारि शतानि पञ्चनवत्यधिकानि घटिकाश्चपञ्चचत्वारिंशत् शोधनीया इत्यर्थ ।४९५।४५ शेषस्य सप्ताष्टरसैर्भागो हार्य्यः षड्भिः शतैःसप्ताशीत्यधिकैरित्यर्थः ।६८७। लब्धा भगणास्त्याज्याभगणशुद्धशेषाद् राश्यादिचन्द्रोच्चवद् भौमो भवति। ततो भूयोऽप्यहर्गणस्य नवतत्वाब्धिस्वरशशाङ्कैर्भागो हर्त्तव्यः। लक्षैकेन चतुःसप्ततिसहस्रैःशतद्वयेनैकोनषष्ट्यधिकेनेत्यर्थः १७४२५९। अवाप्तं लिप्तादिफलम्। पूर्व्वागते भौमे प्रक्षिप्यततस्तस्मिन् विलिप्ताद्वयं संयोजनीयम्। कुजोऽधिको द्वाभ्यामिति वचनात्। एवं कृते यल्लब्धंभवति स अर्द्धरात्रिको मध्यमो लङ्कायां भौमो भवति। अथभौमभुक्त्यर्थमहर्गणः।१।अस्यैव सप्ताष्टरसैर्भागे हृते भगणः०। शेषादियं राश्यादिभौमभुक्तिः ०।०।३१।२६पुनरप्यहर्गणस्यास्य नवतत्त्वाब्धिस्वरशशाङ्कैःभागे हृत विलिप्ता ।०। एवं भौमस्यैकवत्रिंशल्लिप्ताःषड्विंशतिविलिप्तामधमभुक्तिः इति।
अथोदाहरणम्। तद् यथा। शाकेऽस्मिन् ७
५६ मासाः ०तिथयः अस्मिन् दिने अहर्गणः ७२६७५ एतस्मात् पादोनरसनवोदधिहीनात् ४९५।४५ संशोध्य शेषं ७२१७९।१५ अस्य सप्ताष्टरसैरमीभिः ६८७ भागे हृते लब्धं भगणाः १०५।भगणशुद्धशेषं ४४।१५ अस्माद्द्वादशादिगुणकारैः चन्द्रोच्चवत् राश्यादिको भौमः ०।२३।११।१६। पुनरप्यहर्गणः ७२६७५ अस्मान्नवतत्त्वाब्धिस्वरशशाङ्कैरमीभिः १७४२५९भागे हृते कलादि फलं ०।२५।एतत् पूर्व्वागते भौमेऽस्मिन् ०।२३।११।१६ संयोज्य द्वेविकले च जातो लक्षायां मध्यमोऽर्द्धरात्रिको भौमः ०।२३।११।४३। भौमभुक्तिः मध्यमा पूर्व्वमेवोदाहृतेति। एवं भीममध्यमानयनम्। अथ बुधशीघ्रानयनमाह।
बुधशीघ्रं शत १००-गुणितात्
शशिधृतियमोनात्।
सप्तनवस्वरवसुभिः ८७६७
कृतखमनुनगैः ७१४०४ कलाभ्यधिकम् ॥ २ ॥
शतगुणितादहर्गणादित्यर्थः। न केवलं शतगुणितात्। यावत् शशिधृतियमोनात्। शशी च धृतयश्च यमश्चशशिधृतियमाः। तैरूनः शशिधृतियमोनः। शतगुणोऽहर्गणः शशिधृतियमैरूनः कार्य्यः। तस्मात् शतगुणितात् शशिधृतियमोनात्। सप्तनवस्वरवसुभिरिति। सप्त च नव च स्वराश्च वसवश्चसप्तनवस्वरवसवः तैः शतगुणादहर्गनात् शशिधृतियमोनात् भगणादिबुधशीघ्रंलभ्यते इति। कृतखमनुनगैः कलाभ्यधिकमिति। कृताश्च खं च मनवश्चनगाश्चकृतखमनुनगाः तैस्तस्मादहर्गणात् कलाद्याप्तेनफलेन बुधशीघ्रमधिकं करणीयमित्यर्थः।
करणम्। इष्टदिनाहर्गणंसंस्थाप्य शतगुणं कृत्वा तस्मात् शशिधृतियमान् संशोधयेत्। सहस्रद्वयं शतमेकाशीत्यधिकमित्यर्थः। २१८१। एतान् संशोध्य शेषस्य सप्तनवस्वरवसुभिर्भागे हृते भगणास्त्याज्याः। शेषात्भौमवत् राश्यादि बुधशीघ्रंभवति। पुनरप्यहर्गणस्य कृतखमनुनगैर्भागो हर्त्तव्यः। एकसप्ततिसहस्रैःचतुःशतैः चतुर्भिरधिकैरित्यर्थः ७१४०४ एतैर्भागे हृते कलादिफलंपूर्व्वागते बुधशीघ्रेसंयोज्य ततस्तस्मात् द्वाविंशतिः
विशिष्टाः शोध्याः। बुधशीघ्रेद्वाविंशतिः आदिवचनात्। एवं कृते यद् + + + + +मधममर्द्धरात्रिकं लङ्कायां बुधशीघ्रंभवति। अथ बुधशीघ्र+ + + + +१। शतगुणितो जातः १००। अस्य सप्तनवस्वरवसुभिर्भागे + + + + + त्यज्याः।शेषात् ग्रहवद् राश्यादिका बुधशीघ्रभुक्तिः०।४।५।३२। + + + + +र्हगणः।१। अस्य कृतखमनुनगैर्हृते विलिप्तापि न प्राप्ता।+ + + + + चतुष्कं पञ्चलिप्ता द्वात्रिंशद्विलिप्ताः बुधशीघ्रोच्चभुक्तिः।
अथोदाहरणम्। तद् यथा। अहर्गणः ७२६७५ एतत् शतगुणं जातं७२६७५०० अस्मात् शशिधृतियमानेतान् २१८१ संशोध्य शेषं ७२६५३१९ सप्तनवस्वरवसुभिरमीभिः८७२९७ भागे हृते भगणशुद्धशेषं७५९४ अस्मात् पूर्व्ववद् राश्यादिकंबुधशीघ्रम् । पुनरप्यहर्गणस्यास्य ७२६७५ कृतखमनुनगैः + + + + +हृते कलादाप्तं १।१ एतत् पूर्व्वागते बुधशीघ्रेऽस्मिन् संशोध्य विलिप्ताद्वाविंशतिकं संशोध्य जातं बुधशीघ्रंआर्द्धरात्रिकं + + + + +। बुधशीघ्रभुक्तिः पूर्व्वमेवोदाहृतेति। एवं बुधशीघ्रानयनम्। अथ+ + + + +
शोनगुणेशाद्व्यूाद्व्युगणाद् रदत्रिकृतलब्धम् ।
-
-
- +दिनुरुः शशियमरसयमषोडशभिरंशोनम् ॥ ३ ॥
-
+ + + + + ऊनाः पञ्चांशोनाः। ते च गुणाश्चपञ्चांशोनगुणः। पञ्चांशोन+ + + + +द्वौ चपञ्चांशोनगुणेशद्वयःतेरूनः तस्मात् पञ्चांशोनगुणेश+ + + + +अहर्गणादित्यर्थः। रदत्रिकृतलब्धमिति। रदाश्चत्रयश्च+ + + + +त्रिकृतलब्धम्। भगणादिगुरुरिति। भगणा आदौ यस्थास्यौ+ + + + +। चक्रादिजीवो लभ्यते इत्यर्थः। शशियमरसयम+ + + + +इति। शशीच यमौ च रसाश्चयमौ च षोडश च।+ + + + +मादिना स एव गुरुरूनः कार्य्यःइत्यर्थः।
+ + + + +ष्टदिनाहर्गणं संस्थाप्य तस्मात् पञ्चांशोनगुणेशद्वयःशोध्याः+ + + + +द्वादशाधिकम् अष्टचत्वारिंशद्घटिकामित्यर्थः। शेषस्य+ + + + +।सहस्रचतुष्केण शतैस्त्रिभिःद्वाविंशदधिकैरित्यर्थः + + + + +हृते भगणास्त्याज्याः।भगणमशुद्धशेषात् भौमवत् तेनैव+ + + + +जीवो भवति। ततो भूयोऽप्यहर्गणस्य॥ शशियमरसयमषोडशभिर्भागो हार्य्यः। लक्षैकेन द्वाषष्टिभिः सहस्रैः षड्भिः शतैः एकविंशत्यधिकैरित्यर्थः ।१६२६२१।अवाप्तेनांशादिफलेन स एव जीवः ऊनः कार्य्यः। तस्मिन् विलिप्ताश्चतस्रः संयोज्या चतसृभिरधिको जीव इति वचनात्। एवं कृते यद् भवति सोऽर्द्धरात्रिको मध्यमो लङ्कायां जीवो भवति। अथ जीवभुक्त्यर्थमहर्गणः ।१। अस्य रदत्रिकृतैर्भागे हृते भगणाः ।०। शेषम् ।१। अस्मात् द्वादशादिगुणकारैर्ग्रहवत् राश्यादिका जीवभुक्तिः ०।०।४।५९। अथ भूयोऽप्यहर्गणस्यास्य ।१। शशियमस्वरयमषोडशभिर्भागे हृते विलिप्तापि न प्राप्ता। तस्माल्लिप्ताचतुष्टयमेकोनषष्टिविलिप्ता जीवभुक्तिः।
अत्रोदाहरणम्। यथेष्टाहर्गणः ७२६७५ अस्मात् पञ्चांशोनगुणेशद्वय एतान् २११२।४८ संशोध्य शेषं ७०५६२।१२। अस्य रदत्रिकृतैरमीभिः ४३३२ भागे हृते भगणशुद्धशेषम् १२५०।१२ अस्मात् भौमवर्त्मेनैव च छेदेन राश्यादिको जीवः ३।१३।४८।१८ भूयोऽप्यहर्गणस्यास्य ७२६७५ शशियमरसयमषोडशभिरमीभिः १६२६२१ भागे हृते अंशादिफलं ०।२६।४८। एतत् पूर्व्वागतात् जीवाद् अस्मात् ३।१३।४८।१८ संशोध्य शेषं ३।१३।२१।३० एषोऽर्द्धरात्रिको लङ्कायामिति। जीवमध्यमभुक्तिः प्रथममेवोदाहृतेति । एवं जीवमध्यमानयनम्।
अथ शुक्रशीघ्रानयनमाह -
पादयुतागगुणोनाद् दशगुणितान्मण्डलादि सितशीघ्रम् ।
मुनिजिनयमलैः सांशं व्यर्कनगात् त्रिकृतखनगागैः ॥ ४ ॥
वाक्यार्थः। पादेन युताः पादयुताः ते अगाश्चपादयुतागाः। पादयुता अगाश्च गुणाश्च पादयुतागगुणाः तैरूनः पादयुतागगुणोनः तस्मात् दशगुणाद् इति। सितशीघ्रगामिनि मण्डलमादीयस्य फलस्य तन्मण्डलादि चक्राद्याप्तमित्यर्थः। सितस्य शीघ्रं सितशीघ्रंमुनिजिनयमलैरिति। मुनयश्च जिनाश्चयमलौ च मुनिजिनयमलाः तैर्भगणादि सितशीघ्रं लभ्यते इत्यर्थः। सांशं व्यर्कनगात् त्रिकृतखनगागैरिति। सहांशैवर्त्तते इति साशं कुतो भणति। अर्कश्चनगाश्च अर्कनगाः ते विगता यस्मात् अहर्गणात् सोऽयं व्यर्कनगः।तस्मात् व्यर्कनगात्। त्रयश्च कृताश्च खं च नगाश्च अगाश्च तैस्त्रिकृतखनगागैः व्यर्कनगादहर्गणादाप्तेनांशादिना फलेन सितशीघ्रमधिकं कार्य्यमित्यर्थः।
करणम्। इष्टदिनाहर्गणं संस्थाप्य तस्मात् पादयुतागगुणाश्च शोधनीयाः। सप्तत्रिंशद् दिवसा पञ्चदशघटिकाश्चेत्यर्थः। एताः संशोध्य शेषं दशगुणं कृत्वा मुनिजिनयमलैर्विभजेत्। सहस्रद्वयेन द्विशताधिकेन सप्तचत्वारिंशद्भिरित्यर्थः। २२४७। अवाप्तभगणास्त्याज्याः। भगणशेषाङ्केनैव क्लेदेन भौमवद् राश्यादिकं सितशीघ्रं भवति। भूयोऽप्यहर्गणात् अर्कनगान् संशोधयेत्। सप्त शतानि द्वादशाधिकानीत्यर्थः। ७१२। एतत् संशोध्य शेषस्य त्रिकृतखनगागैर्भागो हर्त्तव्यः। सप्तसप्ततिभिः सहस्रैस्त्रिचत्वारिंशदधिकैरित्यर्थः ७७०४३ एतैर्भागे हृते अंशादिफलं भवति। तत्पूर्व्वागते सितशीघ्रेसंयोज्य अर्द्धरात्रिकं लङ्कायांसितशीघ्रं भवति। भुक्त्यर्थमहर्गणः १। एतद् दशगुणम् ।१०। अस्य मुनिजिनयमलैर्भागे हृते भगणाः ।०। शेषाद् ग्रहवद् राश्यादिका सितशीघ्रभुक्तिः ।०।१।३६।७ भूयोप्यहर्गणस्यास्य त्रिकृतखनगागैर्भागे हृते विलिप्तापि न प्राप्ता। अत एवैको भागः षड्विंशतिर्लिप्ताः सप्तविलिप्ताः मध्यमसितशीघ्रभुक्तिरिति।
अथोदाहरणम्। तद् यथा। अहर्गणः ७२६७५ अस्मात् पादयुताग गुणानेतान् ३७।१५ संशोध्य शेषं ७२६३७।४५ एतद् दशगुणं जातं ७२६३७०।४५०। घटिकाराशेरस्य ४५० षष्ट्याभागे हृते लब्धम् ७ शेषम् ३० एतत् पूर्व्वाङ्केऽस्मिन् ७२६३७० संयोज्य जातम् ७२६३७७।३० अस्य मुनिजिनयमलैरमीभिः २२४७ भागे हृते भगणशुद्धशेषं ५९६।३० अस्मात् पूर्व्ववद् राश्यादि सितशीघ्रं ३।५।२६।२ भूयोऽप्यहर्गणस्यास्य ७२६७५ अर्कनगान् संशोध्य ।७१२। शेषम् ७१९६३ अस्य त्रिकृतखनगागैरमीभिः ७७०४३ भागे हृते अंशादिफलम् ०।५६।२ एतत् पूर्व्वागते सितशीघ्रेऽस्मिन् संयोज्यजातम् ३।६।२२।४। मध्यमं लक्षायामर्द्धरात्रिकं सितशीघ्रंभवति। सितशीघ्रभुक्तिः पूर्व्वोदाहृता। एवं सितशीघ्रानयनम्। अधुना शनिमध्यमानयनमाह -
सार्द्धेन्दुनवजिनोनाद् भगणादिशनिः षड्ऋत्वगखचन्द्रैः।
खशराब्धिशून्यवसुभिर्लिप्तोनोऽङ्गारकादीनाम् ॥ ५ ॥
सार्द्धश्चासाविन्दुश्च सार्द्धेन्दुः। नव च जिनाश्च तैरूनः सार्द्धेन्दुनवजिनोनः तस्मात् सार्द्धेन्दुनवजिनोनात्। कुतः। अहर्गणादिति। भगणादिशनिरिति। भगणा आदौ यस्य सः भगणादिः भगणादिश्चासौ शनिश्च। भगणादिशनिः चकादिसौर इत्यर्थः। षड्ऋत्वगखचन्द्रैरिति। षट् च ऋतवश्चअगाश्चखं च चन्द्रश्च ते। तैः षड्ऋत्वगखचन्द्रैःअहर्गणाद् भगणादिशनिर्लभ्यते इत्यर्थः। खशराब्धिशून्यवसुभिर्लिप्तोन इति। खं च शराश्च अब्धयश्च शून्यञ्च वसवश्चते। तैः खशराब्धिशून्यवसुभिः अहर्गणाल्लिप्तादिफलेनोनः करणीयः इत्यर्थः। अङ्गारक आदिर्येषां ते अङ्गारकादयः। तेषामङ्गारकादीनामित्युत्तरसम्बन्धो भविष्यतीति वाक्यार्थः।
करणम्। इष्टाहर्गणं संस्थाप्य तस्मात् सार्द्धेन्दुनवजिनान् एतान् संशोध्य सहस्रद्वयेन शतचतुष्टयेनैकनवत्यधिकेनेत्यर्थः २४९१।३० एतान् संशोध्य शेषस्य षड्ऋत्वगखचन्द्रैर्भागो हर्त्तव्यः। सहस्रैर्दशभिः शतैः सप्तभिः षट्षष्ट्याधिकैः १०७६६ एतैर्भागे हृते भगणास्त्याज्याः। भगणशुद्धशेषात् भौमवत् राश्यादिशनिर्भवति। भूयोऽप्यहर्गणस्य खशराब्धिशून्यवसुभिर्भागो हर्त्तव्यः। अशीतिसहस्रैःशतैश्चतुर्भिः पञ्चाशदधिकैरित्यर्थः। ८०४५०। एतैर्भागे हृते लिप्तादिफलं भवति। एतत् पूर्व्वागतात् शनैश्चरात् संशोध्य ततस्तस्माद् विलिप्तात्रयं शोधनीयं तिसृभिः शनिरिति वचनात्। एवं कृते यद् भवति सोऽर्द्धरात्रिको मध्यमो लङ्कायां शनिः स्यात्। अथ शनिभुक्त्यर्थमहर्गणः १। अस्मात् षड्ऋत्वगखचन्द्रैर्भागे हृते शेषम् १। अस्माद् ग्रहवत्राश्यादिका सौरभुक्तिः ०।०।२।०। अथ भूयोऽप्यहर्गणः। अस्मात् खशराब्धिशून्यवसुभिर्भागे हृते विलिप्तापि न प्राप्ता। अतएव लिप्ताद्वयं सौरस्य मध्यमा भुक्तिः।
अथोदाहरणम्। तद् यथा। इष्टदिनाहर्गणः ७२६७५ अस्मात् सार्द्धेन्दुनवजिनानिमान २४९१।३० संशोध्य शेषं ७०१८३।३० अस्य षड्ऋत्वगखचन्द्रैर्भागेहृतेभगणशुद्ध-शेषमिदं ५५८७।३० अत्र पूर्व्ववद् राश्यादिशनिः ६।६।५०।१७।अथ भूयोऽप्यहर्गणः ७२६७५ अस्य खशराब्धिशून्यवसुभिः ८०४५०भागे हृते लिप्तादिफलं ०।४५। एतत् पूर्व्वागतात् शनैः संशोध्य विलिप्तात्रयं च जातः आर्द्धरात्रिको लङ्कायां मध्यमः शनिः ६।६।४९।२०सौरभुक्तिर्मध्यमापूर्व्वमेवोदाहृतेति। एवं सौरमध्यमानयनं यत्र ते ग्रहा लङ्कायां मध्यमार्द्धरात्रिका आगताः। त एवोज्जयिनी-याम्योत्तर-रेखायां मध्यमार्द्धरात्रिका भवन्ति। रेखायाः प्राग्देशेषु देशान्तर-स्वफलेनोना अर्द्धरात्रिकाः स्वदेशमध्यमा भवन्ति। रेखायाञ्चापरदेशेषु देशान्तरस्वफलेनाधिका अर्द्धरात्रिकाः स्वदेशे मध्यमा भवन्ति। देशान्तरकर्म्म च तिथ्याद्यानयनाध्याये व्याख्यातम्। एवं मध्यमग्रहाणामानयनम्।
अधुना भौमादीनां मन्दोच्चानयनम् -
मन्दांशा दशगुणिता रुद्रा द्वियमाश्च षोडशाष्टजिनाः।
रुद्राश्च द्वियमाश्च षोडश च अष्टौ च जिनाश्च एते एव दशगुणिता मन्दोच्चांशाभवन्ति। केषामङ्गारकादीनामिति। प्रागार्य्याभिहितं यथासंख्यं भौमबुधजीवसितसौराणामिति वाक्यार्थः।
करणम्। रुद्रा एकादश। से दशगुणिता दशोत्तरशतं भौममन्दांशा। द्वियमाः द्वाविंशतिः। एते दशगुणाः शतद्वयंविंशत्यधिकं बुधमन्दांशाः। षोडश दशगुणाः षष्ट्यधिकं शतं जीवमन्दांशाः। अष्टौ दशगुणाः अशीतिः सितमन्दांशाः। जिना दशगुणाः शतद्वयं चत्वारिंशदधिकम् शनिमन्दांशाः। अङ्केनापि यथाक्रमं लिख्यते
म११०बु२२०वृ१६०शु८०श२४०
अंशानां त्रिंशता भागे हृते राश्यादोनि भौमादीनां मन्दोच्चानि। यथा -
३।२०
७।१०
५।१०
२।२०
८।०
अधुना शुक्रादीनां मन्दफल-संस्कारार्थमाह-
शुक्रस्य सूर्य्यवत् फलमिन्दुसुतस्य द्विसंगुणितम् ॥ ६ ॥
भौमस्य पञ्चगुणितं गुरोः स्वरांशेन संयुतं द्विगुणम्।
सौरेर्मनुभागयुतं चतुर्गुणं शीघ्रकेन्द्रांशैः॥ ७ ॥
शुक्रस्य सूर्य्यवत् सूर्य्येण तुल्यं सूर्य्यवत्। यथा सूर्य्यस्यापि कृतं फलं धनमृणं वा तथा शुक्रस्यापि करणीयमित्यर्थः। इन्दुसुतस्य द्विसंगुणितम्। इन्दुसुतो बुधस्तस्य द्वाभ्यां संगुणितम्। बुधस्य मन्दकर्म्मणि यत् फलं तद् द्विगुणं कार्य्यमित्यर्थः। भौमस्य पञ्चगुणितमिति। भौमस्य मन्दफलं पञ्चभिर्गुणनीयम्। यत् गुरोर्मन्दफलं तत् स्वकीयेन स्वरांशेन संयुतं द्विगुणं करणीयमित्यर्थः। सौरेर्मनुभागयुतं चतुर्गुणमिति। सौरेर्मन्दफलं मनुभागयुतं चतुर्द्दशभागाधिकं चतुर्गुणमित्यर्थः। एवंविधं तत् चतुर्गुणं चतुर्भिर्गणनीयमित्यर्थः। शीघ्रकेन्द्रांशैरिति। शीघ्रकर्म्मणि केन्द्रं शीघ्रकेन्द्रम्। तस्यांशाः शीघ्रकेन्द्रांशाः तैः शीघ्रकेन्द्रांशैः। भौमोऽष्टयमांशैरित्येवमादिसम्बन्धो भविष्यतीति वाक्यार्थः।
करणम्। सूर्य्यवद् इति प्रत्येकस्य ग्रहस्य सम्बध्यते। शुक्रस्य केन्द्रात् पञ्चगुणाद्यैः खण्डकैः सूर्य्यवत् फलमानेयम्। तद्द्विगुणं बुधस्य मन्दफलं भवति। भौमस्य मन्दकेन्द्रात् पञ्चगुणाद्यैर्यत् फलमागतं तत् पञ्चगुणं भौमस्य मन्दफलं भवति। जीवस्य मन्दकेन्द्रात् पञ्चगुणाद्यैः फलमानीय तद्विशिष्टं कृत्वा सप्तभिर्भजेत्। अवाप्तं द्विगुणे पृथक्स्थे संयोज्य जीवमन्दफलं भवति। अत्र समासकरणात् ज्ञायते। यथा स्वरांशं द्विगुणे फले संयोज्यते। अथवा स्वरांशेन संयुतं कृत्वा द्विगुणं क्रियते। समासकरणाद् इति। सौरेर्मन्दकेन्द्रात् पञ्चगुणाद्यैःसूर्य्यवत् फलमानीय तस्य पृथक्स्थस्य चतुर्द्दशभिर्भागे हृते यदवाप्यते तत् पृथकस्थे संयोज्य चतुर्गुणं कृत्वा शनेर्मन्दफलं भवति। शीघ्रकेन्द्रांशैरिति। भौमादीनां प्रत्येकस्य ग्रहस्य शीघ्रकर्म्मणि दर्शयिष्यामः। अथ शीघ्रकेन्द्रांशैर्भौमस्य स्फुटीकरणमाह -
भौमोऽष्टयमै रुद्रान् भुक्ता पूर्व्वोदितोरदैरर्कान्।
खगुणैर्दशरूपगुणैः सप्तांशा मनुभिरर्द्धांशान् ॥ ८ ॥
धनमृणमग्निशशाङ्कैस्त्रीनष्ट्याभास्करानतो वक्री ।
नवभिस्त्रयोदशनगैर्द्वादशसार्द्धान्विलोमोऽतः ॥ ९ ॥
करणम्। इष्टदैवसिकमिष्टकालिकं मध्यमार्कं स्थापयेत्। यस्मात् स एव भौमस्यशीघ्रम्। ततोऽनन्तरं द्वितीयस्थाने इष्टदैवसिकमिष्टकालिकंमध्यमं भौम संस्थापयेत्। तस्मात् चारं भौमोऽष्टयमैः स्थापयेत्। ततः शीघ्रान् मध्यमं भौमं संशोध्य शीघ्रकेन्द्रं भवति। यस्माद् वक्ष्यति। शीघ्रं मध्योनकं केन्द्रमिति। शीघ्रकेन्द्रं भागपिण्डं कारयेत्। भागपिण्डाद् यदा अष्टाविंशतिर्भागा न शुध्यन्ते किञ्चिदवशिष्यते तदा भागपिण्डमेकादभिः संगुण्याष्टाविंशतिभिर्विभज्यावाप्तं फलं धनं भवति। तत्र भागादिः। अथ भागपिण्डात् अष्टाविंशतिभागाः शुध्यन्ते न किञ्चिदवशिष्यते तदा एकादशभागा फलं धनं भवति। तस्मिंश्चाहनि भौमस्य पूर्व्वस्यां दिश्युदयो ज्ञेयः। एतच्च केन्द्रे यदा राशिस्थाने शून्यं भागाश्चाष्टाविंशतिर्भवन्ति। तदा सम्भवति। अथ भागपिण्डात् अष्टाविंशतिभागाः शुध्यन्ते। ततः परं द्वात्रिंशन्नशुध्यन्ते तदा विकलं द्वादशभिः सङ्गुण्य द्वात्रिंशता विभजेत्। अवाप्तं भागादि एकादशसु संयोज्य फलं धनं भवति।
अथ भागपिण्डात् अष्टाविंशतिर्द्वात्रिंशच्चशुध्यन्ते ततः परं त्रिंशच्चशुध्यन्ते । तदा विकलं दशाहतं
[TABLE]
कृत्वात्रिंशताविभजेत्। अवाप्तं भागाः त्रयोविंशतिषु संयोज्यफलं धनं भवति। अथ भागपिण्डादष्टाविंशतिर्द्वात्रिंश त् त्रिंशच्चशुध्यन्ते। ततः परं एकत्रिंशच्चशुध्यन्ते। तदा विकलं सप्तहतं एकत्रिंशता विभजेत्। अवाप्तं भागादि त्रयस्त्रिंशत्सु संयोज्य फलं धनं भवति। अथ भागपिण्डात् अष्टाविंशतिः, द्वात्रिंशत्, विंशत्, एकस्त्रिंशत् च शुध्यन्ते। चतुर्द्दश च न शुध्यन्ते। तदा विकलस्यार्द्धांशेनाहतस्य चतुर्द्दशभिर्भागे हृतेऽवाप्तं चत्वारिंशत्सुसंयोज्यफलं धनं स्यात्। अथ भागपिण्डात् अष्टाविंशतिः, द्वात्रिंशत्, त्रिंशत्, एकवत्रिंशत् चतुर्द्दश च शुध्यन्ते। न किञ्चिदवशिष्यते तदा परं फलं धनं चत्वारिंशद्भागाः सार्द्धाभवन्ति। एतत् शीघ्रकेन्द्रे यदा राशिचतुष्कं भवति भागाच्चपञ्चदश तदा परं फलं धनं भवति। परं च केन्द्र ४।१५।०।०।अथ धनकेन्द्राधिकं शीघ्रकेन्द्रं भवति। तदा शीघ्रकेन्द्रात् धनकेन्द्रमपास्यशेषं भागपिण्डं कार्य्यम्। तस्मात्भागपिण्डात्यदा त्रयोदशभागपिण्डा न शुध्यन्ते तदाविकलं त्रिभिः संगुण्य त्रयोदशभिर्विभजेत्। अवाप्तं फलमृणं भागादिर्भवति। तत् धनफलात् चत्वारिंशतः सार्द्धायाःसंशोध्य शेषं फलं धनं भवति। अथ शेषभागपिण्डात् त्रयोदश शुध्यन्ते। ततः परं षोडश न शुध्यन्ते तदा विकलं द्वादशाहतं षोडशभिर्विभज्यावाप्तं भागादिफलं त्रिषु संयोज्य यद् भवति तत् चत्वारिंशत्सार्द्धायाः संशोध्य शेषं फलं धनं भवति। अथ शेषभागपिण्डात् प्रयोदश च षोडश च शुध्यन्ते न किञ्चिदवशिष्यते तदा पञ्चदशभागा ऋणं चत्वारिंशत्सार्द्धायांसंशोध्य शेषं फलं धनं स्यात्। तस्मिन् दिने भौमो वक्रो ज्ञेयः। एतच्च शीघ्रकेन्द्रे यदा राशिपञ्चकं चतुर्द्दशभागाधिकं भवति ।५।१४।०।० अथ शेषभागपिण्डात् त्रयोदश षोडश च शुध्यन्ते। तदा विकलं त्रयोदशहतं नवभिर्विभजेत्। अवाप्तं भागादिफलं पञ्चदशसु संयोज्ययद् भवति तच्चत्वारिंशतः सार्द्धायाःसंशोध्य शेषं फलं धनं भवति। अथ भागपिण्डात् त्रयोदश षोडश नव च शुध्यन्ते। ततः परं सप्त न शुध्यन्ते। तदा विकलं द्वादशभिः सार्द्धैःसंगुण्य सप्तभिर्विभजेत्। अवाप्तं भागादि अष्टाविंशतौसंयोज्य यद् भवति तच्चत्वारिंशतः सार्द्धायाःसंशोध्य शेष फलं धनं भवति। अथ शेषभागपिण्डात् त्रयोदश षोडश नव सप्त च शुध्यन्ते। न किञ्चिदवशिष्यते तदा फलं चत्वारिंशत्सार्द्धभागादि ऋणं भवति। धनफलात् चत्वारिंशतः सार्द्धायाःसंशोध्य न किश्चिदवशिष्यते तदा शीघ्रफलाभावः। एतच्च शीघ्रकेन्द्रे यदा राशिषट्कं भवति तदा सम्भवति ६।०।०।०। अथ यदा शीघ्रकेन्द्रं राशिषट्काधिकं भवति ततस्तस्माद् राशिषट्कमपास्य शेषं भागपिण्डं कार्य्यम्। तस्माद् भागपिण्डात् यदा सप्त न शुध्यन्ते तदा विकलं द्वादशभिः सार्द्धैःसंगुण्य सप्तभिर्भजेदवाप्तंभागादि ऋणं भवति। अथार्द्धचक्रोनात् भागपिण्डात् सप्त शुध्यन्ते ततः परं नव न शुध्यन्ते तदा विकलं त्रयोदशभिः संगुण्य नवभिर्भजेत्। अवाप्तभागा द्वादशसु सार्द्धेसुसंयोज्य ऋणंफलं भवति। अथार्द्धचक्रोनाद् भागपिण्डान् सप्त नव च शुध्यन्ते। अतः परं न किञ्चिदवशिष्यते तदा तस्मिन् दिने भौमो न वक्रो ज्ञेयः। एतत् शीघ्रकेन्द्रे यदा राशिषट्कं षोडशभागाधिकं भवति तदा सम्भवति ६।१६।०।०अर्द्धवक्रोनभागपिण्डात् सप्त शुध्यन्ते, ततः परं नव च शुध्यन्ते, ततः परं षोडशशुध्यन्ते, अतः परं त्रयोदश न शुध्यन्ते। तदा विकलंत्रिभिः संगुण्यत्रयोदशभिर्विभजेत्। अवाप्तं सप्तविंशतः सार्द्धायाःसंयोज्य फलमृणं भवति। अथ चक्रार्द्धोनाद् भागपिण्डात्सप्त, नव, षोडश, त्रयोदश च शुध्यन्ते। न किश्चिदवशिष्यते। तदा चत्वारिंशत्सार्द्धाःपरमऋणफलं भवति। एतच्च यदा शीघ्रकेन्द्रे राशिसप्तकं पञ्चदशभागा भवन्ति। केन्द्राद् ऋणकेन्द्रमपास्य शेषं भागपिण्डं कार्य्यम्। तस्माद् यदा चतुर्द्दश न शुध्यन्ते विकलस्य सार्द्धांशेनाहतस्य चतुर्द्दशभिर्भागे हृतेऽवाप्तं भागादिफलं भवति। तच्चत्वारिंशत्सार्द्धायाःसंशोध्य फलमृणं भवति। अथ शेषभागपिण्डात् चतुर्द्दश शुध्यन्ते, अतःपरं एकत्रिंशन्नशुध्यन्ते, तदा विकलं सप्ताहतमेकत्रिंशता विभजेत्। अवाप्तं भागा अर्द्धेसंयोज्य फलं धनं भवति। तच्च चत्वारिंशतः सार्द्धायाःसंशोध्य शेषफलमृणं भवति। अथ शेषभागपिण्डात् चतुर्द्दश शुध्यन्ते। ततःपरमेकत्रिंशत् शुध्यन्ते। अतःपरं त्रिंशन्नशुध्यन्ते। तदा विकलं दशाहतं त्रिंशता विभजेत्। सप्तसु सार्द्धेषुसंयोज्यफलं धनं भवति। तच्च चत्वारिंशत्सार्द्धायाःसंशोध्य शेषमृणफलंभवति। अथ शेषभागपिण्डात् चतुर्द्दशैकत्रिंशत् द्वात्रिंशच्चशुध्यन्ते। अतःपरं न किञ्चिदवशिष्यते। तदैकोनविंशत्सार्द्धाभागाः फलं धनं भवति। तच्च चत्वारिंशत्सार्द्धायाःसंयोज्य शेषमृणं फलं भवति। तस्मिन् दिने भौमस्य पञ्चार्द्धेऽस्तमयो ज्ञेयः। एतच्च शीघ्रकेन्द्रे राश्येकादशकं द्विभागाधिकं भवति। ११।२।०।०। तदा सम्भवति। अथ शेषभागपिण्डात् चतुर्द्दशैकत्रिंशद् त्रिंशद् द्वात्रिंशच्चशुध्यन्ते ततः परमष्टाविशतिर्न शुध्यन्ते। तदा विकलमेकादशभिः संगुण्याष्टाविंशत्या भागमपत्यावाप्तमेकोनत्रिंशत्सार्द्धायाःसंयोज्यधनं भवति। एतच्चत्वारिंशत्सार्द्धायाःसंयोध्य शेषमृणं फलं स्यात्। अथ शेषभागपिण्डात् चतुर्द्दशैकत्रिंशद् त्रिंशद् द्वात्रिंशदष्टाविंशतिश्चशुध्यन्ते। न किञ्चिदवशिष्यते। तदा चत्वारिंशत्सार्द्धाभागाः फलं धनं भवति। तदृणफलाच्चत्वारिंशत्सार्द्धायाअपास्यन किश्चिदवशिष्यते। तदापि शीघ्रफलाभावः एतच्च, शीघ्रकेन्द्रे यदा राशिद्वादशकं भवति तदा सम्भवति १२।०।०।०। एवं यथासम्भवं शीघ्रफलमुत्पाद्यतच्चार्द्धंकार्य्यम्। तत्करणागते मध्यमे ग्रहे धनमृणं वा कार्य्यम्। कदेत्युच्यते।धमफलादागतं धनं ऋणफलादागतं ऋणम्। एवं कृत्वैककर्मो भौमो भवति। यस्माद्वक्ष्यति शीघ्रफलार्द्धमनष्टमिति।ततस्तस्माद् राशित्रयमंशकाश्च विंशतिः मन्दकेन्द्रं भवति। ततस्तस्मादर्कवत् फलमानीय तत् पञ्चगुणं कार्य्यम्। यस्मादुक्तं भौमस्य पञ्चगुणितमिति। तदर्द्धंकार्य्यम्। एतदेककर्म संस्कृते मध्यमभौमे षड्राश्यूनेऊनमधिके धनमिति। यस्माद् वक्ष्यति- मन्दफलार्द्धंचेति। ततस्तस्मात् द्विकर्म्मसंस्कृताद् भौमान् मन्दोच्चमपास्य केन्द्रं भवति। तस्मादर्कवत् फलमानीय तत् पञ्चगुणं कृत्वा सकलं करणागते मध्यमे षड्राश्यूनेमन्दकेन्द्रे ऋणमधिके धनं कार्य्यम्। यस्मात् वक्ष्यति मन्दशीघ्रफले सकले मध्य इति। एवं कृते मन्दस्फुटो भौमो भवति। ततो मन्दस्फुटाद भौमात् शीघ्रकेन्द्रंभवति। यस्माद् वक्ष्यति। शीघ्रं मध्योनकं केन्द्रमिति। तस्मात् पूर्व्ववत् शीघ्रफलमानीय तत् सकलं मन्दस्फुटे भौमे धनादागतं धनं कार्य्यमृणादागतं ऋणं कार्य्यम्। एवं कृते स्फुटो भौमो भवति। यस्माद वक्ष्यति -मन्दशीघ्रफले सकले मध्ये स्पष्ट इति। अथ भौमशीघ्रभुक्तिरियम्। ५९।८ अस्यां भौममध्यमभुक्तिमिमां ३१।२६ संशोध्य शेषं २०।४२ एतत् प्रथमकर्म्मणि यत् ग्रहगुणकार आसीत् तेन संगुण्य तेनैव भागापहारेण विभज्यावाप्तं लिप्तादिफलम्। तदधिकृत्य धनादागतं धनं ऋणादागतं ऋणं कार्य्यं मध्यम भुक्तावत्र। ततो भूयोऽपि द्वितीयगुणकारेण संगुण्य नवभिः शतैर्विभज्यावाप्तं लिप्तादिफलं भवति। तत् पञ्चगुणं कृत्वार्धीकार्य्यम्। तदेककर्म्मकतायां भौममध्यमभुक्तौमकरादिमन्दकेन्द्रे ऋणं कर्कादौ धनं कार्य्यम्। यस्माद् उक्तम्-प्राग्वत् शुक्रादीनां क्षयधनधनहानयः स्वगतौ। एवं कृते द्विकर्म्मकृता भौमभुक्तिर्भवति। वा तृतीयकर्म्मोद्भव गुणकारेण संगुण्य नवभिः शतैर्विभज्यावाप्तं लिप्तादिफलं भवति। तत् पञ्चगुणं कृत्वा सकलं कर्कटादौ धनं मकरादौ ऋणं कार्य्यम्। भौमभुक्तावत्र ३१।२६ एवं कृते मन्दस्फुटा भुक्तिर्भवति। तां शीघ्रभुक्तेरपास्य अस्या५९।८ शेषं चतुर्थकर्म्मोद्भवगुणकारेण संगुण्य तेनैव भागहारेण विभज्यावाप्तलिप्तादिफलं भवति। तत् सकलं मन्दस्फुटायां भुक्तौधनागतं धनमृणागतमृणं कार्य्यम्। एवं कृते स्फुटा भौमभुक्तिर्भवति। यमाद् वक्ष्यति। कार्य्येवं स्फुटभुक्तिरिति। अथ चेद् ऋणगतफलमधिकं स्यात् तदा विपरीतशोधनं कृत्वा वक्रा भुक्तिः स्यात्। एवं भौमभुक्तिस्फुटीकरणम्। अधुना शीघ्रकेन्द्रांशैःबुधफलानयनमाह।
एकेषुभिस्त्रयोदश भुक्त्वाऽभ्युदितोऽपरेण सोमसुतः ।
अष्टाग्निभिः खरान् शशिगुणैः सार्द्धांशकं स्वमृणमस्मात् ॥ १० ॥
षड्विंशत्या विषयान् वक्री नवभिर्दलाधिकं त्रितयम् ।
अपरेऽस्तमितस्तत्त्वैस्त्रयोदशांशान् विलोमः प्राक् ॥ ११ ॥
बुधचारान् संस्थापयेत्। तेषां स्थापना-
[TABLE]
ततः शीघ्रान् मध्यमं बुध संशोध्य शीघ्रकेन्द्रं भवति। ततः शीघ्रकेन्द्रं भागपिण्डीकार्य्यम्। यदि यस्मात् भागपिण्डादेकपञ्चाशन्न शुध्यन्ते ततो विकलं त्रयोदशभिःसंगुण्य एकपञ्चाशता विभज्यावाप्तं भागादिफलं धनं स्यात्। अथ यदा भागपिण्डादेकपञ्चाशत् शुध्यन्ते न किञ्चिदवशिष्यते सदा त्रयोदशभागाः फलं धनं भवति। तस्मिंश्चदिने बुधः पश्चिमायां दिशिउदयं करोति। अथ भागपिण्डादेकपञ्चाशत् शुध्यन्ते, ततः परमष्टत्रिंशन्नशुध्यन्ते तदा विकलं सप्तभिः संगुण्य अष्टत्रिंशता विभज्यावाप्तं त्रयोदशसु संयोज्यफलं धनं भवति। अथ भागपिण्डादेकपञ्चाशदष्टत्रिंशच्चशुध्यन्ते ततः परमेकत्रिंशन्नशुध्यन्ते। तदा विकलं सार्द्धेनसंगुण्यएकत्रिंशता विभज्याप्तं भागादि विंशतौसंयोज्य फलं धनं भवति। अथ भागपिण्डादेकपञ्चाशदष्टत्रिंशद् एकत्रिंशच्चशुध्यन्ते न किञ्चिदवशिष्यतेतदैकविंशतिर्भागाः सार्द्धाःपरमफलं भवति। एतच्च यदा शीघ्रकेन्द्रे राशिचतुष्कं भवति तदा सम्भवति। ४।०।०।० एतद्धनकेन्द्रे। यदा धनकेन्द्रात् शीघ्रकेन्द्रमधिकं भवति तदा तस्माद् धनकेन्द्रमपास्यावशेषं पिण्डीकार्य्यम्। तस्मात्भागपिण्डात्। अथ षड्विंशतिर्न शुध्यन्तेतदा विकलं पञ्चहतं षड्विंशत्या विभन्यावाप्तं भागादिफलमृणं भवति। तदेकविंशतेः सार्द्धायाःसंशोध्य शेषं फलं धनं भवति। अथ शेषभागपिण्डात् षड्विंशतिः शुध्यन्ते न किञ्चिदवशिष्यते। तदा फलं पञ्चभागा ऋणं भवति। तदेकविंशत्याः सार्द्धायाःसंशोध्य शेषं फलं धनं भवति। तस्मिन् दिने बुधो वक्रो ज्ञेयः। एतच्च शीघ्रकेन्द्रे यदा राशिचतुष्कं षड्विंशतिर्भागाश्चभवन्ति। तदा सम्भवति ४।२६।०।०। अथ शेषभागपिण्डात् षड्विंशतिः शुध्यन्ते अतःपरं नव न शुध्यन्तेतदा विकलं त्रिभिः सार्द्धैःसङ्गुण्य नवभिर्विभज्यावाप्तं पञ्चसु संयोज्य फलमृणं भवति। तदेकविंशतेःसार्द्धायाःसंशोध्यशेषफलं धनं भवति। अथ शेषपिण्डात् षड् विंशतिः शुध्यन्ते, नव च शुध्यन्ते, न किञ्चिदवशिष्यते, तदा फलमष्टभागाः सार्द्धाःऋणं भवति। तदेकविंशतेःसार्द्धायाःसंशोध्य शेषं फल धनं भवति। तस्मिन् दिने पश्चार्द्धेबुधस्यास्तमयो ज्ञेयः। एतच्च शीघ्रकेन्द्रे राशिपञ्चकं पञ्चभागाधिकं भवति। तदा सम्भवति ५।५।०।०। अथ शेषभागपिण्डात् षड्विंशतिः नव च शुध्यन्ते अतःपरं पञ्चविंशतिर्नशुध्यन्ते तदा विकलं त्रयोदशाहतं पञ्चविंशत्या विभज्यावाप्तं फलम् अष्टसु सार्द्धेषुसंयोज्यफलमृणं भवति। तदेकविंशतेःसार्द्धायाःसंशोध्य शेषं फल धनं भवति। अथ शेषभागपिण्डात् षड्विंशतिः नव पञ्चविंशतिश्चशुध्यन्ते तदा एकविंशतिः सार्द्धाभागाः परमृणं फलं भवति। तद्धनं फलादेकविंशतेःसार्द्धायाःसंशोध्य न किश्चिदवशिष्यते। तदा शीघ्रफलाभावः। एतच्च शीघ्रकेन्द्रे राशिषट्के भवति। तदा सम्भवति६।०।०।०। अर्द्ध-चक्रादधिकं शीघ्रकेन्द्रं भवति। तदार्द्धचक्रमपास्य शेषं भागपिण्डीकार्य्यम् तस्माद् भागपिण्डात् यदा पञ्चविंशतिर्नशुध्यन्ते तदा विकलं त्रयोदशभिः संगुण्यपञ्चविंशत्यावाप्तं भागादिफलमृणं भवति। अथार्द्धचक्रोनभागपिण्डात् पञ्चविंशतिः शुध्यन्तेन किञ्चिदवशिष्यते तदा त्रयोदशभागाः फलमृणं भवति। तस्मिंश्चाहनि पूर्व्वार्द्धेबुधोदयो ज्ञेयः। एतच्च यदा केन्द्रे राशिषट्कं पञ्चविंशतिभागाधिकं भवति। तदा सम्भवति ६।२५।०।०। अथार्द्धचक्रोनाद् भागपिण्डात् पञ्चविंशतिर्नव च शुध्यन्ते, न किञ्चिदवशिष्यते। तदा षोडश भागाः सार्द्धाःफलमृणंभवति। तस्मिंश्चाहनि बुधोऽनुवक्री ज्ञेयः। एतच्च यदा केन्द्रे राशिसप्तकंचतुर्भागाधिकं भवति तदा सम्भवति ७।४।०।०। अथार्द्धचक्रोन भागपिण्डात् पञ्चविंशतिर्नव च शुध्यन्ते। अतःपरं षड्विंशतिर्न शुध्यन्ते तदा विकलं पञ्चहतं षड्विंशत्या विभज्यावाप्तं षोडशसु सार्द्धेषुसंयोज्यफलमृणं भवति। अथार्द्धचक्रोनभागपिण्डात् पञ्चविंशतिर्नव षड्विंशतिश्चशुध्यन्ते। अतःपरं किञ्चिन्नावशिष्यते। तदेकविंशतिः सार्द्धाभागाः परमफलमृणं भवति। एतच्च शीघ्रकेन्द्रे यदा राश्यष्टकं भवति तदा सम्भवति ८।०।०।०। एतदृणकेन्द्राद् यदा केन्द्रमधिकं भवति तदा ऋणकेन्द्रं विशोध्य शेषं भागपिण्डीकार्य्यम्। तस्माद् भागपिण्डात् यदा एकत्रिंशन्नशुध्यन्ते तदा विकलमध्यर्द्धहतमेकत्रिंशता विभज्यावाप्तं भागादिफलं धनं भवति। तदृणफलाद् एकविंशतेःसार्द्धायाःअपास्य शेषफलमृणं भवति। अथ भागपिण्डादेकत्रिंशत् शुध्यन्ते, अतः परमष्टत्रिंशन्नशुध्यन्ते, तदा विकलं सप्तहतमष्टविंशत्या विभज्यावाप्तमध्यर्द्धेसंयोज्य फलं धनं भवति। तदेकविंशतेःसार्द्धायाःअपास्य शेषमृणफलं भवति। अथ शेषभागपिण्डादेकत्रिंशदष्टत्रिंशच्च शुध्यन्ते न किश्चिदवशिष्यते। तदाष्टौ सार्द्धाभागाः फलं धनं भवति। तदेकविंशतेःसार्द्धायाःसंशोध्य शेषं फलमृणं भवति। अत्र च दिने पूर्व्वार्द्धेबुधस्यास्तमयः। एतच्च शीघ्रकेन्द्रे यदा राशिदशकं नवभागाधिकं भवति तदा सम्भवति १०।९।०।०।अथशेषभागपिण्डादेकत्रिंशदष्टत्रिंशच्चशुध्यन्ते। एकपञ्चाशन्न शुध्यन्ते। तदा विकलं त्रयोदशहतमेकपञ्चाशता विभज्यावाप्तमष्टसु सार्द्धेषुसंयोज्यफलं धनं भवति। तदेकविंशतेःसार्द्धायाःसंशोध्य शेषं फलमृणं भवति। अथ शेषभागपिण्डादेकत्रिंशदष्टत्रिंशद् एकपञ्चाशच्चशुध्यन्ते न किञ्चिदवशिष्यते तदैकविंशतेःसार्द्धाभागाः फलं धनं भवति। तदृणफलादेकविंशतेःसार्द्धायाःसंशोध्य न किषिदवशिष्यते। तदा शीघ्रफलाभावः । एतच्च शीघ्रकेन्द्रेयदा राशिद्वादशकं भवति तदा सम्भवति १२।०।०।०।एवं यथासम्भवं भागादिफलं शीघ्रमुत्पाद्य तदर्द्धंकार्य्यम्। तन्मध्यमे बुधे धनादागतं धनमृणादागतमृणं कार्य्यम्। ततस्तस्माद् राशिसप्तकं दशभागाधिकं मन्दोच्चमपास्य शेषं मन्दकेन्द्रे भवति। तस्मादर्कवत् फलमानीय तद् द्विगुणं कार्य्यम्। इन्दुसुतस्य द्विगुणमिति वचनात्। ततस्तदप्यर्द्धंकार्य्यम्। तदेककर्म्मसंस्कृते षड्राश्यूनेमन्दकेन्द्रेऋणम्। षड्राश्यधिके धनं कार्य्यम्। ततस्तस्माद् भूयोऽपि मन्दोच्चमपास्यकेन्द्रं कार्य्यम्। तस्मादर्कवत् फलमानीय तत् द्विगुणं कृत्वा सकलं करणागते मध्यमे बुधे षड्राश्यूनेकेन्द्रे ऋणमधिके धनं कार्य्यम्। एवं कृते बुधो मन्दस्फुटो भवति। ततस्तं शीघ्रादपास्य शीघ्रकेन्द्रं कार्य्यम्। तस्मात् प्राग्वत् फलमानीय तत् सकलं मन्दस्फुटे बुधे धनमृणं वा कार्य्यम्। एवं कृते स्पष्टो बुधो भवति। अथ शोधभुक्ति २४५।३२।अस्याः बुधभुक्तिमिमां ५९।८ संशोध्य शेषं १८६।२४। एतत् प्रथमकेन्द्रोद्भवगुणकारेण संगुण्य तद्भागापहारेण विभज्यावाप्तं लिप्तादिफलं भवति। तदधिकत्य धनादागतं धनमृणादागतं ऋणं कार्य्यम्। बुधमध्यमभुक्तावत्र ५९।८। अथ द्वितीयकर्म्मोद्भवगुणकारेण संगुण्य नवभिःशतैर्विभज्यावाप्तं लिप्तादिफलं भवति। तद्द्विगुणीकत्यार्धीकार्य्यम्। तदेककर्म्मसंस्कृतायां बुधभुक्तौकर्कटादौ मन्दकेन्द्रेधनं मकरादौ ऋणं कार्य्यम्। ततस्तद् द्विकर्म्मकृतां भुक्तिं तृतीयकर्म्मोद्भवगुणकारेण संगुण्य नवभिः शतैर्विभज्यावाप्तं लिप्तादिफलं भवति। तद् द्विगुणं कृत्वा सकलं ककटादौ केन्द्रे धनं मकरादौ ऋणं कार्य्यंबुधस्य मध्यमगतावत्र ।५९।८। एवं कृते मन्दस्फुटा भुक्तिर्भवति। ततस्तां बुधशीघ्रगतेरस्या २४५।३२ अपास्य चतुर्थकर्म्मोद्भवगुणकारेण संगुण्य तद्भागहारेण विभज्यावाप्तं लिप्तादिफलं तत् सकलं मन्दस्फुटायां भुक्तौधनादागतं धनं ऋणादागतमणं कार्य्यम्। एवं कृते स्फुटभुक्तिर्भवति। अथ चेदृणादागतं मन्दस्फुटभुक्तेःसकाशादधिकं फलं भवति। तदा विपरीतशोधनं कृत्वा तत्रवका भुक्तिर्भवति। एवं बुधस्फुटीकरणम्। अधुना शीघ्रांशैर्जीवस्यफलानयनमाह।
मनुभिः सत्र्यंशौ द्वौभुक्त्वाप्रागुद्गतः खवेदैः षट्।
षट्कृत्या त्रीन् धृत्या दशलिप्ता धनमृणोक्तिरतः ॥ १२ ॥
द्विकयमलैरध्यर्द्धंवक्री मनुभिर्द्वयंनखैश्चतुरः
अष्ट्या चतुरो भागान् विपरीतमतः पुनर्जीवः॥ १३ ॥
[TABLE]
करणम्। इष्टदैवसिकमिष्टकालिकं मध्यमार्कंसंस्थाप्य यस्मान् मध्यमजीवस्य अर्क एव शीघ्रम्। ततोऽनन्तरं द्वितीयस्थाने मध्यमं जीवं स्थापयेत्। जीवचारं चान्यत्र स्थाने लिखनीयमिति। ततः शीघ्रान् मध्यमजीवं संशोध्य शीघ्रकेन्द्रं भवति। तद् भागपिण्डं कृत्वा तस्मात् यदा चतुर्द्दश न शुध्यन्ते तदा विकलमंशद्वयेन सविभागेन संगुण्य चतुर्द्दशभिर्विभज्यावाप्तं भागादिफलं धनं भवति। अथ भागपिण्डात् चतुर्द्दश शुध्यन्ते। न किञ्चिदवशिष्यते तदा सविभागद्वयं फलं धनं भवति। अत्रैवाङ्गि पूर्व्वस्यां दिशि जीवस्योदयो ज्ञेयः। एतच्च यदा शीघ्रकेन्द्रे भागचतुर्द्दशकं भवति तदा सम्भवति ।०।१४।०।०।अथभागपिण्डात् चतुर्द्दश शुध्यन्ते। चत्वारिंशन्नशुध्यन्ते। तदा विकलं षड्भिःसंगुण्यचत्वारिंशता विभज्यावाप्तं सविभागे भागद्वयेसंयोज्यफलं धनं भवति। अथ भागपिण्डाच्चतुर्द्दशचत्वारिंशन्नशुध्यन्ते चत्वारिंशत्शुध्यन्ते। तदा विकलं त्रिगुणं षट्त्रिंशताविभज्यावाप्तं भागादिफस सविभागे भागाष्टके संयोज्य फलं धनं भवति। अथ भागपिण्डात् चतुर्द्दश चत्वारिंशत् षट्त्रिंशच्चशुध्यन्ते। अतः परमष्टादश न शुध्यन्ते। तदा विकलं लिप्तादशकेन ०।१० संगुण्याष्टादशभिर्विभज्यावाप्तंसविभागेष्वकादशसुसंयोज्य फलं धनं भवति। अथभागपिण्डाच्चतुर्द्दश चत्वारिंशत् षट्त्रिंशष्टादश च शुध्यन्ते न किञ्चिदवशिष्यते। तदा परमफलमेकादशभागाः सार्द्धाभवन्ति। एतच्चयदा शीघ्रकेन्द्रे राशित्रयमष्टाभागाधिकंभवतितदा सम्भवति ३।१८।०।०। एतद् धनकेन्द्रम्। यदा धनकेन्द्रात् शीघ्रकेन्द्रमधिकं भवति। ततस्तस्मात् धनकेन्द्रमपास्यावशेषं भानपिण्डं कार्य्यम्। ततो यद्यवशेषभागपिण्डात् द्वाविंशतिर्न शुध्यन्ते तदा विकलमर्द्धेनसंगुण्य द्वाविंशत्या विभज्यावाप्तं भागादिफलमृणं भवति। तद् धनफलादेकादश सार्द्धेभ्योऽपास्य शेषं धनं फलं भवति। अथ शेषपिण्डात् द्वाविंशतिः शुध्यन्ते न किञ्चिदवशिष्यते तदा सार्द्धभागा ऋणं भवति। तद् भागैकादश सार्द्धेभ्योऽपास्य शेषं फलं धनं भवति। तत्राहनि जोवो वक्री ज्ञेयः। एतच्च यदा शीघ्रकेन्द्रे राशिचतुष्टयं दशभागाधिकं भवति तदा सम्भवति ४।१०।०।०। अथ शेषभागपिण्डात् द्वाविंशतिः शुध्यन्ते चतुर्द्दश न शुध्यन्ते। तदा विकलं द्वाभ्यां संगुण्यचतुर्द्दशभिर्विभज्यावाप्तं भागाद्यमध्यर्द्धेनसंयोज्य फलमृणं भवति। तदेकादशसार्द्धेभ्योऽपास्यशेषं फलं धनं भवति। अथ शेषभागपिण्डात् द्वाविंशतिःचतुर्द्दशच शुध्यन्ते। अतःपरं विंशतिर्नशुध्यन्ते। तदा विकलं चतुर्भिः संगुण्य विंशत्या विभज्यावाप्तं भागादिफलं त्रिषु सार्द्धेषु संयोज्य फलमणं भवति। तदेकादशसार्द्धेभ्योऽपास्य शेषं फलं धनं भवति। अथ शेषभागपिण्डात् द्वाविंशतिश्चतुर्द्दशविंविशतिः षोडश च शुध्यन्ते। न किश्चिदवशिष्यते। तदा एकादशभागाः सार्द्धाःपरमफलमृणं भवति। तद्धनफलादेकादश सार्द्धेभ्योऽपास्य न किञ्चिद् भवति तदा शीघ्रफलाभावः। एतच्च शीघ्रकेन्द्रे यदा राशिषट्कं स्यात् तदा सम्भवति। ६।०।०।०।अथ शीघ्रकेन्द्रमर्धचक्रादधिकं भवति। ततस्तस्मादर्धचक्रमपास्यावशेषं भागपिण्डं कार्य्यम्। ततस्तस्माद् भागपिण्डात् यदा षोडशन शुध्यन्ते तदा विकलं चतुर्भिः संगुण्यषोडशभिर्विभज्यावाप्तंभागादिफलमृणं भवति। अथार्द्धचक्रोनाद् भागपिण्डात् षोडशशुध्यन्ते। अतःपरं विंशतिर्नशुध्यन्ते। तदा विकलं चतुर्भिः संगुण्य विंशत्या विभज्यावाप्तं भागादिफलं चतुर्ष संयोज्यफलमृणंभवति। अथार्द्धचक्रोनाद् भागपिण्डात् षोडश विंशतिश्चशुध्यन्ते। अतःपरं चतुर्द्दशशुध्यन्ते। तदा विकलं द्वाभ्यांसंगण्यचतुर्द्दशभिर्विभज्यावाप्तं फलमष्टसुसंयोज्य फलमृणंभवति। अथार्द्धचक्रोनाद् भागपिण्डात् षोडश विंशतिश्चतुर्द्दश च शुध्यन्ते न किञ्चिदवशिष्यतेतदा दश भागाः फलमृणं भवति। तत्र च दिने जीवोऽनुवक्रीज्ञेयः।एतच्च यदा शीघ्रकेन्द्रे राशिसप्तकंविंशतिभागाधिकं भवति। तदा सम्भवति ७।२०।०।०।
अर्थाद्धचक्रोनाद् भागपिण्डात् षोडश विंशतिश्चतुर्द्दश च शुध्यन्ते। द्वाविंशतिर्न शुध्यन्ते। तदा विकलमर्द्धेनसंगुण्य द्वाविंशत्या विभज्यावाप्तं भागादि दशसु संयोज्यफलमृणं भवति। अथार्द्धचक्रोनाद् भागपिण्डात् षोडश विंशतिः चतुर्द्दश द्वाविंशतिश्च शुध्यन्ते। न किञ्चिदवशिष्यते। तदा परमफलमेकादशभागाः सार्द्धाःफलमृणं भवति। एतच्च यदा शीघ्रकेन्द्रे राश्यष्टकं द्वादशभागाधिकं भवति तदा सम्भवति ८।१२।०।०। एतदृणं केन्द्रम्। ऋणकेन्द्राद् यदा शीघ्रकेन्द्रमधिकं भवति ततस्तस्मादृणकेन्द्रमपास्य शेषं भागपिण्डीकार्य्यम्। तस्माद् भागपिण्डात् यदाष्टादश न शुध्यन्ते, तदा विकलं लिप्तादशकेन संगुण्याष्टादशभिर्विभज्यावाप्तं फल धनं भवति। तद् ऋणादेकादशसार्द्धेभ्योऽपास्य शेषं फलमृणं भवति। अथ शेषभागपिण्डादष्टादश शुध्यन्ते षट्त्रिंशन्नशुध्यन्ते तदा विकलंत्रिभिः संगुण्य षट्त्रिंशता विभज्यावाप्तं दशसु लिप्तासु संयोज्य फलं धनं भवति। तदृणफलादेकादशसार्द्धेभ्योऽपास्य शेषं फलमृणं भवति। अथ शेषभागपिण्डादष्टादश षट्त्रिंशच्चशुध्यन्ते ततः परं चत्वारिंशन्नशुध्यन्ते तदा विकलं षड्भिः संगुण्य चत्वारिंशता विभज्याप्तंदशलिप्ताधिकेषु त्रिषु संयोज्य फलं धनं भवति। तहृणफलादेकादशसार्द्धेभ्योऽपास्य शेषं फलमृणं भवति। अथ भेषभागपिण्डादष्टादश षट्त्रिंशच्चत्वारिंशच्चशुध्यन्ते न किञ्चिदवशिष्यते। तदा नव भागाः षड्भागसहिताः फलं धनं भवति। तदृणफलादेकादशसार्द्धेभ्योऽपास्य शेषं फलमृणं भवति । अथ शेषभागपिडात् अष्टादशषट्त्रिंशच्चत्वारिंशट्टशुध्यन्ते न किञ्चिदवशिष्यते। तदा नव भागाः षड्भागसहिताः फलं धनं भवति। तदृणफलादेकादशसाहर्द्धेभ्योऽपास्य शेषं फलमृणंभवति। तस्मिंश्चाहनिपश्चार्द्धेजीवस्यास्तमयो ज्ञेयः। एतच्च यदा शीघ्रकेन्द्रे राश्येकादशकं षोडशभागाधिकं भवति तदा सम्भवति ११।१६।०।०।अथशेषभागपिडादष्टादश षट्त्रिंशत् चत्वारिंशच्चशुध्यन्ते ततः परं चतुर्द्दशशुध्यन्ते। तदा विकलं भागाद्वयेनसंगुण्यचतुर्द्दशभिर्विभज्याप्तं भागादि नवसु षड्भागाधिकेषुसंयोज्यफलंधनं भवति।तदृणादेकादश सार्द्धेभ्योऽपास्य शेषमृणफलं भवति। अथ शेषभागपिण्डादष्टादश षट्त्रिंशत् चत्वारिंशच्चतुर्द्दशच शुध्यन्ते न किञ्चिदवशिष्यते। तदैकादशभागाः सार्द्धाःपरमफलं धनं भवति। तदृणफलादेकादशसार्द्धेभ्योऽपास्य न किञ्चिदवशिष्यते। तदा शीघ्रफलाभावः। एतच्च शीघ्रकेन्द्रे राशिद्वादशकं भवति। १२।०।०।० एवं यथासम्भवमादिशीघ्रफलं कृत्वा तदर्धीकृत्यपृथक् मध्यमे जीवे धनादागतं धनमृणादागतमृणंकार्य्यम्। ततस्तस्माद् राशिपञ्चकं दशभागाधिकं मन्दोच्चमपास्य मन्दकेन्द्रं भवति। ततस्तस्मादर्कवत् फलमानीय तदधः कृत्वा सप्तभिर्विभजेत्। लब्धं लिप्ताद्यूर्द्धस्थेद्विगुणे संयोज्य तदर्धीकार्य्यम्। एतदेककर्म्मसंस्कृते जीवे षड्राश्यूने केन्द्रे ऋणमधिके धनं कार्य्यम्। ततस्तस्मात् स्फुटात् भूयोऽपि मन्दोच्चमपास्य मन्दकेन्द्रं कार्य्यम्। तस्मादर्कवत्फलमानीय तदधः कृत्वा सप्तभिर्विभज्य लब्धं लिप्ताद्यूर्द्धस्थेद्विगुणे संयोज्य मन्दफलम्। तत् सकलं करणागते जीवे षड्राश्यूनेकेन्द्रे ऋणमधिके धनं कार्य्यम्। एवं कृतेमन्दस्फुटो जीवो भवति। ततः शीघ्रादपास्य शीघ्रकेन्द्रं कृत्वातस्मात् प्रथमवत् फलमानीय तत्सकलं मन्दस्फुटे जीवे धनमृणं वा कार्य्यम्। एवं कृते जीवः स्फुटो भवति। अथ जीवशीघ्रभुक्तेरस्याः ५९।८। जीवस्य मध्यमभुक्तिरिमां ५।० संशोध्य शेषं ५४।८ एतत् प्रथमकर्म्मोद्भवगुणकारेण संगुण्य तेनैव भागहारेण विभज्यावाप्तं लिप्तादिफलं भवति। तदर्धीकृत्य धनादागतं धनं ऋणादागतम् ऋणं कार्य्यम् जीवस्य मध्यमभुक्तावत्र ४।५९। एतद्द्वितीयकर्म्मोद्भवगुणकारेण संगुण्य नवभिः शतैर्विभज्यावाप्तं लिप्तादिफलं मकरादौ मन्दकेन्द्रे ऋणं कर्कटादै धनं कार्य्यम्। एवं कृते मन्दस्फुटा जीवभुक्तिर्भवति। ततस्तां शीघ्रभुक्तेरस्याः ५९।८ संशोध्य शेषं चतुर्थकर्म्मोद्भवगुणकारेण संगुण्यतेनैव भागहारेण विभज्यावाप्तं लिप्तादिफलं भवति। तद् धनादागतं धनं ऋणादागतं ऋणं कार्य्यंसकलम्। मन्दस्फुटायां जीवभुक्तौकृत्वा स्फुटा जीवभुक्तिर्भवति। एवं जीवस्फुटीकरणम्। अधुना शीघ्रकेन्द्रांशैःशुक्रस्यफलानयनमाह।
भुक्त्वोदितो जिनैर्दशपश्चान्नन्दाग्निभिर्भृगुसुतोऽष्टिम्।
त्रिगुणैः सूर्य्यान् त्रिघनेन सप्त धृत्या सपादांशम् ॥ १४ ॥
स्वमृणं त्र्यैकैश्चतुरः पादाभ्यधिकान् भवैर्दिशो वक्री।
सूर्य्यैर्जिनानदृश्य स्त्रिभिरष्टौ प्राक् विलोममतः ॥ १५ ॥
शुक्रकरणम्। इष्टदैवसिकमिष्टकालिकं सितशीघ्रं सस्थाप्य तदनन्तरं द्वितीये स्थाने मध्यमार्कं स्थापयेत्। ततः शीघ्रान् मध्यमसितमपास्य शीघ्रकेन्द्रं भवति।
तद् भागपिण्डं कार्य्यम्। तस्माद् यदि चतुर्विशतिर्न शुध्यन्ते तदा विकलं दशभिः संगुण्य चतुर्व्विंशत्या विभज्यावाप्तं धनं भवति। अथ भागपिण्डाच्चतुर्विंशतिः शुध्यन्ते न किश्चिदवशिष्यते।
[TABLE]
तदा दशभागाः धनं भवति। अत्र दिने पश्चार्द्धेशुक्रोदयो ज्ञेयः। एतच्च शीघ्रकेन्द्रे यदाचतुर्विंशतिभागा भवन्ति ।०।२४।०।०।
अथ भागपिण्डात् यदा चतुर्विंशतिः शुध्यन्ते। ततःएकोनचत्वारिंशन्नशुध्यन्ते तदा विकलं षोडशभिः संगुण्य एकोनचत्वारिंशता विभज्यावाप्तं भागादिफलं दशसुसंयोज्य फलंधनं भवति। अथ भागपिण्डात् चतुर्विंशतिरेकानवचत्वारिंशच्च शुध्यन्ते। अतःपरं त्रयस्त्रिंशन्नशुध्यन्ते। तदा विकलं द्वादशभिः संगुण्य त्रयस्त्रिंशता विभज्यावाप्तं भागा षड्विंशत्यां संयोज्य फलं धनं भवति। अथ भागादिपिण्डाच्चतुर्विंशतिरेकोनचत्वारिंशत्त्रयस्त्रिंशच्च शुध्यन्ते। अतःपरं सप्तविंशतिर्न शुध्यन्ते तदा विकलंसप्तहतं सप्तविंशत्या विभज्यावाप्तं भागाद्यष्टत्रिंशत्सु संयोज्य फलं धनं भवति। अथ भागपिण्डात् चतुर्विंशादिखण्डचतुष्कं शुध्यते। ततोऽष्टादश न शुध्यन्ते तदा विकलं सपादांशेन हतमष्टादशभिः विभज्यावाप्तं भागादि पश्चचत्वारिंशता संयोज्य फलं धनं भवति। अथभागपिण्डात् चतुर्विंशत्यादि पञ्च शुध्यन्ते न किञ्चिदवशिष्यते। तदा षट्चत्वारिंशद्भागाः सपादांचशाःपरमफलं धनं भवति । एतच्च यदा शीघ्रकेन्द्रे राशिचतुष्कमेकविंशभागाधिकं भवति तदा सम्भवति। ४।२१।०।०।एतद् धनकेन्द्रम्। यदा धनकेन्द्रात् शीघ्रकेन्द्रमधिकं भवति तदा तस्मात्धनकेन्द्रमपास्य शेषं भागपिण्डीकार्य्यम्। ततस्तस्मात् शेषभागपिण्डात् यदा त्रयोदश न शुध्यन्ते तदा विकलं चतुर्भिः सपादैः संगुण्य त्रयोदशभिर्विभज्यावाप्तं भागादिफलमृणं भवति। तत् षट्चत्वारिंशतः सपादायाः संशोध्यशेषं फलं धनं भवति। अथ शेषभागपिण्डात् त्रयोदश शुध्यन्ते। अतःपरमेकादश न शुध्यन्ते। तदा विकलं दशभिः संगुण्य एकादशभिर्विभज्यावाप्तं भागादि चतुर्षु सपादेषुसंयोज्यफलमृणं भवति। तत् षट्चत्वारिंशतः सपादायाः संशोध्यशेषं फलं धनं सात्। अथ शेषभागपिण्डात् त्रयोदशैकादश च शुध्यन्ते, न किश्चिदवशिष्यते। तदा चतुर्द्दशभागाः सपादाः फलमृणम्। तत् षट्चत्वारिंशतः सपादायाः संशोध्यशेषं धनं फलं भवति। अत्र चाङ्किशुक्रो वक्री ज्ञेयः। एतद् यदा शीघ्रकेन्द्रे राशिपञ्चकं पञ्चदशभागाधिकं भवति तदा सम्भवति ५।१५।०।०। अथ शेषभागपिण्डात् त्रयोदश एकादग च शुध्यन्तेऽतःपरं हादश न शुध्यन्ते तदा विकलं चतुर्विंशत्या संगुण्य द्वादशभिर्विभज्याप्तं भागादि चतुर्द्दशसु सपादेषु संयोज्य फलमृणं भवति। तस्मिंश्चाहनि शुक्रस्य पश्चिमार्द्धेऽस्तमयो ज्ञेयः। एतच्च यदा शीघ्रकेन्द्रे राशिपञ्चकं सप्तविंशतिभागाधिकं भवति तदा सम्भवति ५।२७।०।०। अथ शेषभागपिण्डात् त्रयोदशैकादश हादश च शुध्यन्ते। अतःपरं त्रयं न शुध्यन्ते। तदा विकलमष्टाभिः संगुण्य त्रिभिर्विभज्यावाप्तं भागादि अष्टविंशत्सपादायाः संयोज्य फलमृणं भवति। तत् षट्चत्वारिंशतः सपादायाः संशोध्यशेषं फलंधनं भवति। अथ शेषभागपिण्डात् त्रयोदशादि त्रीणि खण्डानि शुध्यन्तेऽतःपरं न किश्चिदवशिष्यते। षट्चत्वारिंशद् भागाः सपादाः परमफलमृणं भवति। तद् धनफलात् षट्चत्वारिंशतः सपादायाः संशोध्यन किञ्चिद् भवति। तदा शीघ्रकेन्द्रफलाभावः स्यात्। एतच्च शीघ्रकेन्द्रे राशिषट्कं भवति तदा सम्भवति ६।०।०।०।अथार्द्धचक्रात्शीघ्रकेन्द्रमधिकं भवति। तदार्द्धचक्रमपास्यावशेषं भागपिण्डं कार्य्यम्। तस्माद् भागपिण्डात् त्रयः न शुध्यन्ते तदा विकलमष्टहतं त्रिभिर्विभजेत्। लब्धभागादिफलमृणंभवति। अथार्द्धचक्रोनाद् भागपिडात् त्रयः शुध्यन्ते न किञ्चिदवशिषते। तदाष्टभागादिफलं ऋणं भवति। तत्र च दिने पूर्व्वार्द्धेशुक्रस्योदयो ज्ञेयः। एतच्चशीघ्रकेन्द्रे राशिषट्केत्रिभागाधिके सम्भवति ६।३।०।०।अथ शेषभागपिण्डात् त्रयः शुध्यन्ते, ततो द्वादश न शुध्यन्ते तदा विकलं चतुर्व्विंशत्या संगुण्यद्वादशभिः विभज्यावाप्तमाष्टसुसंयोज्यफलमृणंभवति। अथार्द्धचक्रोनात् भागपिण्डात् त्रयो द्वादश एकादश च शुध्यन्ते। त्रयोदश न शुध्यन्ते तदा विकलं चतुर्भिः सपादैः संगुण्यत्रयोदशभिर्विभजयाप्तं भागादि द्वाचत्वारिंशता संयोज्यफलमृणं भवति। अथार्द्धचक्रोनाद् भागपिण्डात् त्र्यादिखण्डत्रयं शुध्यन्ते न किञ्चिदवशिष्यते तदा षट्चत्वारिंशद्भागाः सपादाः परमफलमृणं भवति। एतच्चशीघ्रकेन्द्रे राशिसप्तकं नवभागाधिकं भवति तदा सम्भवति ७/९।०।०एतद् ऋणकेन्द्रम् तदृणकेन्द्रात् यदा शीघ्रकेन्द्रमधिकं भवति तदा तस्माद्ऋणकेन्द्रमपास्यावशेषं भागपिण्डं कार्य्यम्। तस्माद् भागपिण्डाद् यदाष्टादश न शुध्यन्ते तदा विकलंसपादांशेन संगुण्याष्टादशभिः विभज्यावाप्तं भागादिफलं धनं भवति। तत् षट्चत्वारिंशतः सपादायाः संशोध्यशेषं फलमृणं भवति। अथ शेषभागपिण्डात् अष्टादश शुध्यन्तेऽतःपरं सप्तविंशतिर्न शुध्यन्ते। तदा विकलंसप्तहतं सप्तविंशत्या विभज्याप्तं भागादि सपादांशे संयोज्यफलं धनं भवति। तदृणकेन्द्रात् षट्चत्वारिंशतः सपादायाःसंशोध्यशेषं फलमृणं भवति। अथ शेषभागपिण्डात् अष्टादश सप्तविंशतिश्चशुध्यन्तेऽतःपरं त्रयस्त्रिंशन्नशुध्यन्ते। तदा विकलं द्वादशभिः संगुण्य त्रयस्त्रिंशताविभजावाप्तं भागाद्यष्टसुसपादेषु संयोज्यफलं धनं भवति। तत् षट्चत्वारिंशतः सपादायाः संयोध्यशेषंफलंभवति। अथ शेषभागपिण्डादष्टादशादिखण्डत्रयंशुध्यन्ते। ततः एकोनचत्वारिंशन्नशुध्यन्ते। तदा विकलं षोडशभिःसंगुण्यएकोनचत्वारिंशता विभज्यावाप्तंभागादि सपादविंशत्या संयोज्यफलं धन भवति। तत् षट्चत्वारिंशतः सपादायाः संंयोज्यऋणंफलं भवति। अथशेषभागपिडाद् अष्टादशादि चत्वारि खण्डानि शुध्यन्ते। न किञ्चिदवशिष्यते। तदा षट्त्रिंशद्भागाःसपादाः फलं धनंभवति। तत् षट्चत्वारिंशतः सपादायाः संशोध्यशेषं फलमृणंभवति। तस्मिंश्चाहनि शुक्रस्यास्तमयो ज्ढञेयः पूर्व्वस्याम्। एतच्च शीघ्रकेन्द्रे राश्येकादशकं षड्भागाधिकं भवति। तदा सम्भवति ११।६।०।०।अथशेषभागपिण्डात् अष्टादशादि चत्वारि खण्डानि शुध्यन्ते। ततश्चतुर्विंशतिर्न शुध्यन्तेतदा विकलं दशभिः संगुण्यचतुर्विंशत्या विभज्यावाप्तं भागादि षट्त्रिंविंशत्सपादेषु संयोज्यफलं धनं भवति। ततः षट्चत्वारिंशतःसपादायाः संयोध्यशेषमृणंफलं भवति। अथ शेषभागपिण्डादष्टादशादि पञ्चैव शुध्यन्ते न किञ्चिदवशिष्यते। तदा षट्चत्वारिंशद्भागाः सपादाः परमफलं धनं भवति। तदृणफलात् षट्चत्वारिंशतः सपादायाः संयोध्यन किञ्चिद्भवति। तदा शीघ्रफलाभावः। एतच्च यदा शीघ्रकेन्द्रे राशिद्वादशकं भवति तदा सम्भवति १२।०।०।०। एवं च यथासम्भवं भागादिशीघ्रफलमुत्पाद्य तदर्धीकृत्यमध्यमे शुके धनमृणंकार्य्यम्। ततः तस्माद् राशिद्वयमंशकाश्चविंशतिः शुक्रस्यमन्दोच्चं विशोध्यकेन्द्रं कार्य्यम्। तस्मादर्कवत्फलमानीय तदर्धीकार्य्यंतदेककर्म्मसंस्कृते शुक्रे षड्राश्यूनेमन्दकेन्द्रे ऋणं षड्राश्याधकिकेधनं कार्य्यम्। तस्माद् भूयोऽपि मन्दोच्चं विशोध्यकेन्द्रं कार्य्यम्। तस्मात् भूयोऽपि अर्कवत् फलमानीय तत् सकलं करणागते शुक्रेषड्राश्यूनेमन्दकेन्द्रे ऋणमधिकं धनं कृत्वा मन्दस्फुटः शुक्रो भवति। ततस्तं शीघ्रकेन्द्रादपास्य शीघ्रकेन्द्रं कार्य्यम्। तस्मात् प्रथमवत् फलमानीय तत्सकलं मन्दस्फुटे शुक्रे धनादागतं धनमृणादागतं ऋणं कृत्वा शुक्रः स्फुटो भवति। अथ सितशीघ्रभुक्तेरस्याः ९६।८सितमध्यमभुक्तिमिमां ५९।८ संशोध्यशेषं ३७।०एतत् प्रथमकर्म्मोद्भव-गुणकारेणसंगुण्य तेनैव भागहारेण विभज्याप्तंलिप्तादिफलं तदर्धीकृत्य धनमृणं वा कार्य्यंसितमध्यमभुक्तावत्र ५९।८ ततो द्वितीयकर्म्मोद्भव-गुणकारेण संगुण्य नवभिः शतैर्विभज्यावाप्तं लिप्तादिफलंतदर्धीकृत्य एककर्म्मसंस्कृतायां सितमध्यमभुक्तौ मकरादौ मन्दकेन्द्रे ऋणं कर्कटादौ धनं कृत्वा ततस्तां द्विकर्म्मस्फुटां तृतीयकर्म्मोद्भव-गुणकारेण संगुण्यनवमिः शतैर्विभज्यावाप्तं लिप्तादिफलं मकरादौकेन्द्रे ऋणंकर्कटादौ धनं कार्य्यंसितमध्यमभुक्तात्र५९।८ ततस्तां शीघ्रभुक्तेरस्याः५९।८ संशोध्य चतुर्थकर्म्मोद्भवगुणकारेण संगुण्यतेनैव भागहाारेणविभज्याप्तंलिप्तादिफलंतत् सकलं मन्दस्फुटायां भुक्तौधनादागतं धनं ऋणादागतं ऋणंकार्य्यम्। एवं शक्रभुक्तिःस्फुटा स्यात्। अथ तेदृणादागतमधिकं स्यात्तदा विपरीतशोधनं कृत्वा वक्राभुक्तिर्भवति। एवं शुक्रस्फुटीकरणम्। अधुनाशनेः शीघ्रकेन्द्रांशैःफलानयनमाह
विंशत्या द्वौभुक्त्वाप्रागुदितो रसहुताशनैस्त्रितयम् ।
खयमैरंशमेकं नखैस्त्रिभागांशकं स्वमृणम् ॥ १६ ॥
विंशत्यांशत्र्यंशंवक्री सप्तदशभिः शनिर्भागम्
द्वाविंशत्या द्वितयं तत्त्वैस्त्रितयं विलोमोऽतः ॥ १७ ॥
[TABLE]
शनेः करणम्। इष्टदैवसिकमिष्टकालिकं मध्यमार्कं स्थापयेत्। यस्मात् स एव शनेःशीघ्रम्। ततोऽनन्तरं द्वितीयस्थानेमध्यमं शनिंस्थापयेत्। शनिचारस्य स्थापनं ( यथा पार्श्वे)। ततः शीघ्रात् मध्यमं शनिं संशोध्य शीघ्रकेन्द्रं भवति। तत् भागपिण्डीकार्य्यम्। तस्मात् भागपिण्डात् विशतिर्न शुध्यन्ते । तदा विकलं द्वाभ्यां संगुण्य विंशत्या विभज्यावाप्त-भागादिफलं धनं भवति। अथ भागपिण्डात् यदा विंशतिःशुध्यन्ते न किञ्चिदवशिष्यते। तदा भागद्वितयं धनं फलं भवति। तस्मिंश्चाहनि शनिः पूर्व्वार्द्धेउदेति । एतच्च यदा शीघ्रकेन्द्र विशतिभागा भवन्ति १।२०।०।०। अथ भागपिण्डात् वंशतिः शुध्यन्ते। अतःपरं षट्त्रिंशन्नशुध्यन्ते। तदा विकलंत्रिभिः संगुण्य षट्त्रिंशता विभज्यावाप्तं भागादि द्वितये संयोज्य फलं धनं भवति। अथ भागपिण्डात् विशतिः षट्त्रिंशच्च शुध्यन्तेऽतःपरं विंशतिर्न शुध्यन्ते। तदा विकलमेकगुणं विंशत्या विभज्यावाप्तं भागादि पञ्चसुसंयोज्य फलं धनं भवति। अथ भागपिण्डात् विंशत्यादीनि त्रीणि शुध्यन्ते। ततो विंशतिर्न शुध्यन्ते। तदा तद्विकलं त्रिभागांशेन संगुण्यविंशत्याविभज्यावाप्तं भागादि षट्सु संयोज्यधनंफलं भवति। अथ भागपिण्डात् विंशत्यादि चत्वारि शुध्यन्ते न किञ्चिदवशिष्यते। तदा षड्भागास्त्रिभागाधिकाःपरं फलं धनं भवति। एतच्च शीघ्रकेन्द्रे यदा राशित्रयंषड्भागाधिकं भवति तदा सम्भवति ३।६।०।०।एतद्धनकेन्द्रम्। यदा धनकेन्द्रात् शीघ्रकेन्द्रमधिकं भवति तदा तस्माद्धनकेन्द्रमपास्यशेषं भागपिण्डंकार्य्यम्। तस्माद् भागपिण्डात् विंशतिर्न शुध्यन्ते। तदाविकलं त्रिभागांशेन संगुण्यविंशत्या विभज्यावाप्तं भागादिफलमृणं भवति। तद् धनफलात् षड्भ्यस्त्रिभागाधिकेभ्योऽपास्य शेषं फलं धनं भवति। अथ शेषभागपिण्डात् विंशतिः शुध्यन्ते न किञ्चिदवशिष्यते। तदा त्रिभागांशकं फलमृणं भवति। तत्त्रिभागाधिकेभ्यः षड्भागेभ्योऽपास्य शेषं धर्म फलं भवति। तस्मिंश्चाहनि शनिर्वक्रीभवति। एतच्च यदा शीघ्रकेन्द्रे राशित्रितयं षड्विंशतिभागाधिकं भवति तदा सम्भवति ३।२६।०।०। अथ शेषभागपिण्डात् विंशतिः शुध्यन्तेऽतःपरं सप्तदश न शुध्यन्ते तदा विकलमेकगुणं सप्तदशभिर्विभज्यावाप्तं’ भागादि त्रिभागांशेन संयोज्य फलमृणं भवति। तद् धनफलात् सत्रिभागषड्भागेभ्योऽपास्य शेषं धनं स्यात्। अथ शेषभागपिण्डात् विंशतिः सप्तदश च शुध्यन्तेऽतःपरं द्वाविंशतिर्न शुध्यन्ते। तदा तद्विकलं द्वाभ्यां संगुण्य द्वाविंशत्या विभजावाप्तं भागादि सत्रिभागांशेन संयोज्य फलमृणं भवति। तत् षड्भ्यस्त्रिभागाधिकेभ्योऽपास्य शेषं धनं भवति। अथ शेषभागपिण्डात् विंशत्यादि त्रीणि शुध्यन्ते। पञ्चविंशतिर्नशुध्यन्ते। तदा विकलं त्रिभिः संगुण्य पञ्चविंशत्या विभज्यावाप्तं भागादि सत्रिभागेषु त्रिषुसंयोज्य ऋणंफलंस्यात्। तत् षड्भागेभ्यः सत्रिभागाधिकेभ्यः संशोध्य शेषं धनं फलं स्यात्। अथ शेषभागपिण्डात् विंशत्यादि चत्वार्य्यपिशुध्यन्ते न किञ्चिदवशिष्यते तदा षट्भागाः सत्रिभागाधिकाः परमफलमृणम्। तदा धनफलं षड्भ्यः सत्रिभागेभ्योऽपास्यन किञ्चिद् भवति। तदा शीघ्रफलाभावः। एतच्च यदा शीघ्रकेन्द्रेराशिषट्कं भवति तदा सम्भवति ६।०।०।०। अथ यदार्द्धचक्रादधिकं शीघ्रकेन्द्रं भवति तदा तस्मादर्द्धचक्रमपास्य शेषं भागपिण्डीकार्य्यम्। तम्माद् यदा पञ्चविंशतिर्नशुध्यन्ते तदा त्रिगुणं कृत्वा पञ्चविंशत्याविभज्यावाप्तभागादिफलमृणं भवति। अथार्द्धचक्रोनाद भागपिण्डात् पञ्चविंशतिः शुध्यन्ते। अतःपरं द्वाविंशतिर्न शुध्यन्तेतदाविकलं द्वाभ्यां संगुण्य द्वाविंशत्या विभज्यावाप्तं भागादि त्रिषु संयोज्यफलमृणं भवति। अथार्द्धचक्रोनाद भागपिण्डात् पञ्चविंशतिर्द्वाविंशतिश्चशुध्यन्तेऽतःपरं सप्तदश न शुध्यन्ते तदा विकलमेकगुणं कृत्वा सप्तदशभिर्विभज्यावाप्तंभागादि पञ्चसु संयोज्यभागादिफलमृणंस्यात्। अथार्द्धचक्रोनाद् भागपिण्डात् पञ्चविंशत्यादि-विपरीतानि त्रीण्येवशुध्यन्ते। न किञ्चिदवशिष्यते तदा षड् भागाः फलमृणंभवति। अत्रदिने शनिरनुवक्रोज्ञेयः। एतच्च यदा शीघ्रकेन्द्रे राश्यष्टकं चतुर्भागाधिकं भवति तदा सम्भवति ८।४।०।०।अथार्द्ध-चक्रोनाद् भागपिण्डात् पञ्चविंशत्यादित्रयं शुध्यन्तेऽतःपरं विंशतिर्नशुध्यन्ते। तदा विकलंत्रिभागांशेन संगुण्य विंशत्या विभज्यावाप्तं भागादि षट्सु संयोज्यफलमृणं भवति। अथार्द्ध-चक्रोनाद भागपिण्डात् पञ्चविंशत्यादि चत्वार्यपि शुध्यन्ते न किञ्चिदवशिष्यते तदा षड्भागाः सत्र्यंशाः परमफलमृणं भवति। एतच्च शीघ्रकेन्द्रे राश्यष्टकं चतुर्विंशतिभागाधिकं भवति तदा सम्भाति ८।२४।०।० एतदृणकेन्द्रम्। ऋणकेन्द्रात् यदा शीघ्रकेन्द्रमधिकं भवति तदा ऋणकेन्द्रमपास्यावशेषं भागपिण्डीकार्य्यम्। तस्मात् शेषभागपिण्डात् यदा विंशतिर्नशुध्यन्ते तदा विकलं त्रिभागांशेन संगुण्यविंशत्याविभज्यावाप्तं भागादिफलं धनं भवति। तदृणफलात् षड्भ्यः सत्रिभागेभ्योऽपास्यावशेषं फलमृणं भवति। अथ शेषभागपिण्डात् विंशतिश्च शुध्यन्ते ततोद्वितीयविंशतिर्न शुध्यन्ते। तदा विकलमेकगुणं कृत्वाविंशत्याविभज्यावाप्तं भागादि त्रिभागांशके संयोगज्यफलं धनं भवति।तदृणफलात् षड्भ्यः सत्रिभागेभ्योऽपास्य शेषं फलमृणं भवति। अथ शेषभागपिण्डात् विंशतिर्विंशतिश्चशुध्यन्ते। ततः परं षट्त्रिंशन्नशुध्यन्ते। तदा विकलंत्रिगुणं कृत्वाषट्त्रिंशताविभज्यावाप्तं भागादि सत्रिभागांशके संयोज्यफरलंधनं भवति। तदृणफलात् षड्भ्यः सत्रिभागेभ्योऽपास्य शेषं फलमृणंस्यात्। अथ शेषभागपिण्डात् विंशतिर्विंशतिः षट्त्रिंशच्चशुध्यन्ते। नकिञ्चिदवशिष्यते। तदा भागचतुष्टयं धनं भवति तदृणफलात् षड्भ्यःसत्रिभागेभ्योऽपास्यशेषं फलमृणं भवति। तस्मिंश्चदिने पश्चिमार्द्धेशनैरस्तमयो ज्ञेयः। एतच्चयदा शीघ्रकेन्द्रे राश्येकादश-दशभागाधिक भवति तदा सम्भवति ११।१०।०।०। अथ शेषभागपिण्डात् विंशतिर्विंशतिः षट्त्रिंशच्चशुध्यन्ते। अतःपरं विशतिर्न शुध्यन्ते तदा विकलं द्विगुरणंविंशत्याविभज्यावाप्तं भागादि चतुर्षु सत्रिभागेषु संयोज्यफलं धनं भवति। तदृणफलात् षड्भ्यःसत्रिभागेभ्योऽपास्यशेषमृणंभवति। अथ शेषभागपिण्डात् विंशतिर्विंशतिः षट्त्रिंशत्विंशतिश्चशुध्यन्ते। न किञ्चिदवशिष्यते। तदा षड्भागाःसत्र्यंशाःपरमं धनफलं भवति। तदृणफलात् षड्भ्यः सत्रिभागेभ्योऽपास्यन किञ्चित्भवति। तदा शीघ्रफलाभावः। एतच्च शीघ्रकेन्द्रे राभिद्वादशकेसभवति १२।०।०।०।एवं यथासम्भवंशीघ्रफलमुत्पाद्य तदर्धीकृत्य पृथक्स्थेमध्यमे शनौधनादागतं धनमृगादणागतमृणं कृत्वा। तस्मात्राश्यष्टकं स्वमन्दोच्चं विशोध्यकेन्द्रं कार्य्यम्। तस्मादर्कवत् फलमानीय तदधः कृत्वा चतुर्द्दशभिर्विभजेत्। लब्धं लिप्ता ऊर्द्धस्थेसंयोज्य चतुर्गुणं कार्य्यम्। तदर्धीकृत्यएककर्म्मसंस्कृते मध्यमे शनौषड्राश्यूनेमन्दकेन्द्रे ऋणमधिके धनं कृत्वा। तस्मात् स्फुटात् भूयोऽपि मन्दोच्चं विशोध्य मन्दकेन्द्रं कार्य्यम्। तस्मात् पुनरर्कवत् फलमानीय तदधः कृत्वा चतुर्द्दशभिर्विभजेत्। लब्धं लिप्तादिफलमूर्द्धस्थे संयोज्य चतुर्गुणं कार्य्यम्। तत्फलंकरणागते मध्यमे शनौ षड्राश्यूनेमन्दकेन्द्रे ऋणमधिके धनं कार्य्यम्। एवं कृते मन्दस्फुटः शनिर्भवति। ततस्तं शीघ्राद् विशोध्य शीध्रकेन्द्रं कार्य्यम्। तस्मात् प्रथमवत् फलमानीय तत्सकलं मन्दस्फुटे शनौधनादागतं धनमृणादागतं ऋणं कृत्वा शनिस्फुटो भवति।
अथशनिशीघ्रभुक्तेरस्याः ५९।८ शनिमध्यम-भुक्तिरिमां २।० विशोध्य शेषम् ५७।८। एतत् प्रथमकर्म्मोद्भव-गुणकारेण संगुण्य तेनैव भागहारेण विभज्यावाप्तं लिप्तादिफलं तदर्धीकृत्य धनादागतं धनमृणादागतमणं कार्य्यम्। शनि-मध्यमभुक्तावत्र २।०। ततोद्वितीय-कर्म्मोद्भव-गुणकारेण संगुण्यनवभिः शतैर्विभज्यावाप्तं लिप्तादिफलं तदधः चतुर्द्दशभिर्विभजेत्। लब्धंलिप्ताद्यूर्द्धे संयोज्य चतुर्गुणं कृत्वा तदर्धीकृत्य एककर्म्मकृतायांशनिभुक्तौमकरादौ मन्दकेन्द्रेऋणं कर्कादौधनं कृत्वा ततस्तां द्विःस्फुटां तृतीयकर्म्मोद्भव-गुणकारेणसंगुण्यनवभिः शतैर्विभज्यावाप्तम् लिप्तादिफल तदधःकृत्वाचतुर्द्दशभिर्विभज्य लब्धंलिप्ताद्यूर्द्धस्थेसंयोज्य चतुर्गुणं कार्य्यम्। तत्सकलम् मकरादौ मन्दकेन्द्रे ऋणम्कर्कटादौधनम् कार्य्यम्। शनिमध्यमभुक्तावत्र २।०।ऐवं कृते मन्दस्कटा भुक्तिर्भवति। ततस्तां शीघ्रभुक्तेरस्याः५९।८ संशोध्य चतुर्थ-कर्म्मोद्भव-गुणकारेण संगुण्यतेनैव भागहारेण विभज्यावाप्तं लिप्तादिफलं भवति। तत्सकलं मन्दस्कटायां भुक्तौधनादागतं धनमृणादागतमृणं कृत्वा स्फुटाशनिभुक्तिर्भवति। अथचेदृणाद् धनाधिकंवा स्यात् तद् तस्मात् फलात् मन्दस्फटां भुक्तिंविशोध्य वक्रभुक्तिःस्यात्। एवं शनेःस्फटीकरणम्।
अथ भौमस्फटीकरणोदाहरणम्। तद् यथा - कुरुक्षेत्रेदेशान्तरसंस्कृतौ शीघ्रभौमौ।
[TABLE]
ततः शीघ्रादस्मात् ११।१९।११।१९ मध्यममिदम् ०।२३।१०।५० संशोध्य जातम् १०।२६।०।२९।
अस्मादर्धचक्रमपास्य शेषम् ४।२६।०।२९एतद् भागपिण्डं कृतम् १४६।०।२९। अस्माद् भागपिण्डाद् उत्क्रमेण सप्त नव षोडश त्रयोदश च शुध्यन्ते। एवं ऋणफलं समग्रं लब्धम् ४०।३०। ऋणं केन्द्रशुद्धशेषमिदम् १०१।०।२९। अस्माद् धनार्द्धखण्डानीमानि त्रीणि १४।३१।३० शुध्यन्ते तस्मात् संशोध्य शेषम् २६।०।२९। अस्माद् द्वात्रिंशन्नशुध्यन्ते। तदा तद्विकलमिदं द्वादभिर्भोग्यफलेन गुणितं जातम् ३१२।५।४८ एतद् द्वात्रिंशता भोग्यखण्डेनानेन (३२) विभज्यावाप्तं भागादि फलम् ९।४५।१० एतद्धनसंयोगेऽस्मिन् १७।३० संयोज्य जातं धनफलमिदम् २७।१५।१०। एतदृणफलादस्मात् ४०।३०।० संशोध्य शेषमृणफलमिदम् १३।१४।५०।एतदर्धीकृतं जातम् ६।३७।२५। एतन्मध्यमभौमेऽस्मिन् ०।२३।१०।५०ऋणं कृत्वा जातम् ०।१६।३३।२५। अस्मान्मन्दोच्चमिदम् ३।२०।०।० संशोध्य जातं मन्दकेन्द्रमिदम् ८।२६।३३।२५। अस्मादर्कवत् फनमानीतम् १३३।१ एतत् पञ्चगुणं जातम् ६६५।५ तदर्धीकृतंभागादि ५।३२।३२।तुलादित्वादेक-कर्म्म-संस्कृते भौमेऽस्मिन् ०।१७।३।२५ धनं कृत्वा जातम् ०।२२।३५।३७।अस्माद् भूयोऽपि स्वमन्दोच्चमिदम् ३।२०।०।० अपास्य मन्दकेन्द्रमिदं ९।२।३५।३७ अस्मादर्कवत् फलमानीतम् १३३।८ एतत् पञ्चगुणं जातम् १६५।४० एतल्लिप्तादि। षष्ट्याभागे हृतेजातं भागादिफलं ११।५।४०एतत् सकलं मन्दकेन्द्रस्य तुलादित्वात् करणागते भौमे देशान्तरसंस्कृते मध्यमेऽस्मिन् ०।२३।१०।५० धनं कृत्वा जातोऽयम् १।४।१६।३० एतत् शीघ्रादपास्यास्मात् ११।१९।११।१९ जातं शीघ्रकेन्द्रमिदम् १०।१४।१४।५० अस्मात्पूर्ववत् फलमानीतम्। ऋणादिकत्वाद् ऋणसंज्ञमिदं भागादि १७।२४।२८ एतत् सकलं मन्दस्फुटादस्मात् मध्यम-भौमात् संशोध्य जातः स्फुटो भौमः ०।१६।५२।३।अथभौमशीघ्रभुक्तेरस्याः ५९।८ मध्यमभुक्तिमिमां ३७।२६संशोध्य शेषम् २७।२४ एतत् प्रथमकर्म्मोद्भव-गुणकारेणानेन १२ संगुण्यद्वात्रिंशता विभज्यावाप्तं लिप्तादिफलं ५।११ धनादागतत्वात् धनं कृतंभौममध्यमभुक्तावत्र३१।२६ जातैककर्म्मकृता भुक्तिः३६।३७ एता द्वितीयकर्म्मोद्भव-गुणकारेणानेन संगुण्यनवभिः शतैः९००विभज्यावाप्तम् लिप्तादिफलम् ०।१२ एतत् पञ्चगुणं कृत्वा १।०अर्द्धीकृतम् ०।३० एतन्मन्दकेन्द्रस्य कर्कादित्वादेक-कर्म्मकृतायां भौमभुक्तावत्र ऋणं कृतं जातम् ३६।७ एतां तृतीयकर्म्मोद्भवगुणकारैणानेन ५ संगुण्य नवभिः शतैर्विभज्याप्तं लिप्तादिफलम् ०।१२ एतत् पञ्चगुणीकृत्य१।० तृतीयमन्दकेन्द्रस्य मकारादित्वात् ऋणं मध्यमभुक्तावत्र ३१।२६जाता मन्दस्फुटा भुक्तिः ३०।२६ एतां शीघ्रभुक्तेरस्याः ५९।८ संशोध्य शेषम् २८।४२ एष एव गतयेयः कलाच्छेदाख्यो राशिः अनेनोत्तरत्र प्रयोजनं भविष्यतीति। चतुर्थकर्म्मोद्भव-गुणकारेणानेन १२ संगुण्य तद्भागहारेणानेन ३२ विभज्यावाप्तं लिप्तादिफलं १०।४५। एतद् धनादागतत्वात् धनं मन्दस्फुटायां भुक्तावत्र ३०।२६ कृत्वाजाता भुक्तिः ४१।११ एवं भौमस्फुटीकरणम्। शेषाणां बुधादीनां अस्माभिर्व्याकुलत्वात् कर्म्मबहुत्वाच्च नोदाहृतम्। तद्गणकैः पूर्वप्रदर्शितविधिना यथासम्भवमुदाहरणीयमिति। प्रधुना ग्रहाणां मन्दशीघ्रफलविनियोगार्थंशीघ्रकरणं चाह।
शीघ्रफलार्द्धंमध्ये मन्दफलार्द्धंच मन्दशीघ्रफले ।
सकले मध्ये स्पष्टः शीघ्रं मध्योनकं केन्द्रम् ॥ १८ ॥
इयमार्य्याप्रतिग्रहस्फुटीकारे प्रदर्शिता। अतएव गतार्था कृतात् त एव पुनरपि ध्रियते। अधुना ग्रहभुक्तेरतिदेशार्थंवक्रावक्रोदयास्तगमानां चातीतैष्य-परिज्ञानं चाह।
कार्य्येवं स्फुटभुक्तिस्तृतीय-मन्दस्फुटोन-शीघ्रगतिः ।
गतयेयः कलाच्छेदो दिनानि गतभुक्त-भोग्यानि ॥ १९ ॥
कार्य्या कर्तव्या। एवमनेन प्रकारेण कोऽर्थः। यथाग्रहे कर्म्मचतुष्टयम् तथा स्वभुक्तावपि कर्म्मचतुष्टयं कृत्वा स्फुटाभुक्तिर्भविष्यतीत्यर्थः। अतएवास्माभिः तेनैव प्रकारेण प्रतिग्रह-स्फुटीकरणं भुक्तेःस्फुटीकरणं प्रदर्शितमिति। तृतीय-मन्दस्फुटोन-शोघ्रगतिरिति। तृतीयकर्म्मपि मन्दात्मकं भुक्तौस्फुटीक्रियमाणायां तेन या स्फुटीकृता मध्यमा भुक्तिः सा तृतीया मन्दस्फुटेत्युच्यते। अस्माभिश्चल मन्दस्फुटेति व्याख्याता। यतयाजाश्व(?) शीघ्रगतिः कार्य्यासा गतयेयः कलाच्छेदो भवति। अन्वर्थसंज्ञेयम्।गतानां कलानां छेदः।
येयानां कलानाञ्च। अतएवाचार्य्येणगतयेयकलाच्छेद इत्युक्तम्। अनेन यत् कर्म्मविशेषेणव्याख्यायते। तस्माद् भौमादीनां पूर्व्वार्द्धोदयकेन्द्रागणिराशिस्थाने शून्यम्। अष्टाविंशतिर्भागाः भौमस्य। राशिषट्कं पञ्चविंशतिर्भागा बुधस्य। राशिस्थाने शून्यं चतुर्द्दशभागा जीवस्य। राभिषट्कं त्रयो भागाः शुक्रस्य। राशिः शून्यं विंशतिर्भागाः शनैश्चरस्य। अङ्केनाऽपि
०२८००६२५००१४००६३०००२०००
एतानि पूर्व्वार्द्धोदयकेन्द्राणि। अथ पश्चिमार्द्धेऽस्तमयकेन्द्राणि। राश्येकादशकं भौमस्य विभागाधिकं । राशिपञ्चकं पञ्चभागाधिकं बुधस्य। राश्येकादशकं षोडशभागाधिकं जीवस्यराशिपञ्चकं सप्तविंशतिभागाधिकं शुक्रस्य। राश्येकादशकं दशभागाधिकं शनेः। अङ्केनापि
११२००५५००१११६००५२७००१११०००
एतानि पश्चिमार्द्धेऽस्तमयकेन्द्राणि। अथ बुधशुक्रयोः पश्चिमार्द्धोदयकेन्द्रे राश्येका एकविंशतिभागा बुधस्य। राशिस्थाने शून्यं चतुर्व्विंशतिभागा सितस्य। अङ्केनापि एते पूर्व्वार्द्धेऽस्तमयकेन्द्रे। अथ भौमादीनां वक्रकेन्द्राणि।
१२१०००२४००राशिपञ्चकं चतुर्द्दशभागाधिकं भौमस्य। राशिचतुष्कं षड्विंशतिभागाधिकं बुधस्य। राशिचतुष्कं दशभागाधिकं जीवस्य। राशिपञ्चकं पञ्चदशभागाधिकं शुक्रस्य। राशित्रितयं षट्विंशति-भागाधिकं मन्दस्य अङ्केनापि तद्यथा।
मं५१४००बु४२६००बृ४१०००शु५१५००शु३६००
अथ भौमादीनामनुवक्रकेन्द्राणि। राशिषट्कषोडशभागादिकं भौमस्य। राशिसप्तकं चतुर्भागाधिकं बुधस्यराशिसप्तकं विंशतिभागाधिकं जीवस्य। राशिषट्कंपञ्चदशभागाधिकं शुक्रस्य। राश्यष्टकं चतुर्भागाधिकं मन्दस्य। एतानि अनुवक्रकेन्द्राणि
मं६१६००बु७४००बृ७२०००शु६१५००श८४००
ग्रहे स्फुटीक्रियमाणे चतुर्थे मर्म्मणियत् शीघ्रकेन्द्रं तद् यदि उदयकेन्द्रसमं भवति तदा तस्मिंश्चाहनि ग्रहस्योदयो ज्ञेयः। अथासाऽस्तमयसमकेन्द्रं भवति चतुर्थे कर्म्मणि तदा तस्मिन्नेव दिने तस्य ग्रहस्यास्तमयो ज्ञेयः। अथ स्ववक्रसमं केन्द्रं भवति। तदा तस्मिन् ग्रहो वक्री ज्ञेयः। अथस्वानुवक्रसमं केन्द्रं भवति तदा तस्मिन् दिने ग्रहोऽनुवक्रीज्ञेयः। अथ चतुर्थकेन्द्रं न्यूनाधिकं भवति वक्रानुवक्रोदयास्तमयानाम् अन्यतमस्मात् केन्द्रध्रुवात् तदा तस्यचतुर्थकर्म्मकेन्द्रस्य चान्तरं कार्य्यम्। तल्लिप्तापिण्डं मत्वा गतयेयास्थेन छेदेन विभजेत्। लब्धं दिवसादिकालः। तदा चतुर्थे केन्द्रध्रुवकेऽधिके सति तावता कालेन भविष्यति। तदा ध्रुवक-केन्द्राच्चतुर्थेकेन्द्रमधिकं भवति तावत् कालोऽतीतस्य गतः। वक्रानुवक्रोदयास्तमयानामन्यतमस्य यस्य सम्बन्धिना सह केन्द्रेण चतुर्थकेन्द्रान्तरं कृतं तस्येत्यर्थः। एवं यावदुदयास्तमयौ विहितौतौस्फुटौ न भवतः। कुत एव तत्। उत्तरत्रानयोः पुनर्विधानसामर्थ्यात् यौ वक्रानुवकौअभिहितौस्फुटावुत्तरत्र विधिना भावादिति। अथोदाहरणम्। तद् यथा। भौमस्यान्वेषणं च। भौमे स्फुटीक्रियमाणे चतुर्थकर्म्मणिशीघ्रकेन्द्रमिदम् १०।१४।५१।१३।अस्तमयमपि केन्द्रमिदं ११।२।०।०।अनयोरन्तरम्०।१७।४७ एतल्लिप्तापिण्डं कृतं जातं १०२८ ४७ भौमस्य भुक्तेस्फुटीक्रियमाणायां तृतीय-कर्म्मणि मन्दफलमिदम् १।०। एतन्मन्दकेन्द्रस्य तृतीयपदवात् धनं कृतं मध्यमभुक्तावत्र ३१।२६ जाता तृतीय-मन्दस्फुटा भुक्तिः३२।२६ एतां शीघ्रकेन्द्रभुक्तेरस्याः५९।८ संशोध्य जातो गतयेयः कलाविच्छेदो भवति। अनेन केन्द्रान्तर-लिप्तापिण्डान्तरमिदं १०२८।४७ विभज्यावाप्तोदिवसादिकालः ३८।३१।५२। अत्रास्तमयकेन्द्रादस्मात् चतुर्थशीघ्रकेन्द्रमिदमं १०।१४।५१।१३एवं गतात्तावता कालेनास्तमयो भविषतीति। एवं सर्व्वेष्वपिवक्रानुवकास्तमयोदयादिषु गणकैरुदाहरणीयमिति।
इति श्रीभट्टमधुसूदन-सुत-चतुर्व्वेद-पृथूदक-स्वामिकृतेखण्डखाद्य-
विवरणेस्फुटनत्वाधिकारोद्वितीयः।
——————
अथ त्रिप्रश्नाध्यायः
क्षीरोदधौ शयानस्य लक्ष्म्या सह सुरप्रभोः।
पादपद्मनिषणस्तु त्रिःप्रश्नान् विवृणोम्यहम्॥
अथातस्त्रिप्रश्नाध्यायो व्याख्यायते। के त्रयः प्रश्नाः ? लग्नप्रश्नः, छायाप्रश्नः, तृतीयः कालप्रश्नश्च। लग्नप्रश्न इष्टघटिकादेरित्यादि। छायाप्रश्नः कान्त्यंशैरूनमित्यादि। कालप्रश्नः दिनदलकर्म इत्यादि। तत्रादावेवार्य्यात्रितयं चरदलकर्म्मण्याह।
नव तिथयोऽष्टिविभक्ताः पञ्च रसा वसुहृता दशत्रिहृताः।
विषुवच्छायागुणिताः स्वदेशजाश्चरदलविनाड्यः॥ १ ॥
चरदलविनाडिकागति-कलावधात् खखरसाग्निलब्धकलाः।
ऋणमुदयेऽस्तमये धनमुत्तरगोलेऽन्यथा याम्ये ॥ २ ॥
पञ्चदश हीनयुक्ताश्चरार्द्धनाडीभिरुत्तरे गोले
यम्ये युक्तविहीना द्विसंगुणा रात्रिदिननाड्यः॥ ३ ॥
एतदार्य्यात्रयं तिथिनक्षत्राध्याये व्याख्यातम्। अधुना निरक्षदेशेनाह।
लङ्कोदया विनाड्योवसुभानि छिद्रनवयमास्त्रिरदाः ।
अत्र लङ्कोदयलक्षणार्थम्। अन्यत्राथ लङ्कादेशे च स्वाएव स्वोदयाः। तद् यथा। वसुभानि। शतद्वयमष्टसप्तत्यधिकमित्यर्थः २७८। एते लङ्कायां मेषोदयखण्डकाः। छिद्र-नवयमाः एकोनं शतत्रयमित्यर्थः२९९। एते लङ्कायां वृषोदयखडकाः। त्रिरदाः शतत्रयं त्रयोविंशत्यधिकमित्यर्थः। ३२३। एते लङ्कायाःमिथुनस्वोदय-खण्डकाः। य एव मिथुनस्य त एव कुलीरस्य। य एव वृषस्य त एव सिंहस्य। य एव मेषस्य त एव कन्यायाः। एवं मेषमिथुनानां पुनरपि क्रमेण यथासंख्यंतुलवृश्चिकधनुषाम्। पुनरप्युत्क्रमेण मिथुनवृषमेषोदयाः यथासंख्यं मकरकुम्भमीनानामिति। अथ तैर्निरक्षोदयैर्यथा स्वोदयाः क्रियन्ते। तथा चाह-
स्चवरार्द्धोनाव्यस्ता व्यस्तयुताः स्वोदय-विनाड्यः ॥ ४ ॥
अनन्तरोक्त-लङ्कोदयास्ते स्थापयित्वा। स्वचरार्द्धखण्डैरूनाः कर्तव्याः। मेषोदयः स्वदेशचरखण्डेनोनः कर्त्तव्यः। वृषोदयः स्वदेशवृषचरखण्डेनोनः कार्य्यः। मिथुनोदयः स्वदेशमिथुनचरखण्डेनोनः कर्त्तव्यः। एवं कृते यथाक्रमेण मेषवृषमिथुनानां स्वोदया भवन्ति। यस्मादुक्तं स्वचरार्द्धोना भवन्ति। व्यस्ता व्यस्तयुता इत्यत्रोच्यते। स एव लङ्कोदया मेषवृषमिथुनानां व्यस्ताः स्थाप्या विपरीता इत्यर्थः। त एव विपरीताः सन्तः व्यस्तयुताः कार्य्याः। विपरीतयुता इत्यर्थः। एतदुक्तं भवति मिथुनवृषमेष-लङ्कोदयाः स्थाप्याः। स्वदेशमिथुनवृषमेषचरखण्डैर्युताःकार्य्याः। यथा मिथुनलङ्कोदयो मिथुनचरखण्डेन युतः कार्य्यः। स कर्कटस्योदयो भवति । वृषस्योदयो वृषचरखण्डन युतः कार्य्यः। स सिंहस्योदयो भवति । मेषचरखण्डेन लङ्कोदयो मेषस्य युतः सः कन्या स्वोदयो भवति। एवं मेष-वृष-मिथुन-कर्कट-सिंह-कन्यानां स्वोदयाः मिहाः स्युः। एवं य एव कन्यायाः स एव तुलस्य, य एव सिंहस्य सएव वृश्चिकस्य। य एव कर्कटस्य सएव धनुषः। य एव मिथुनस्य सएव मकरस्य। य एव वृषस्य स एव घटस्य । य एव मेषस्य स एव मीनयुगस्येति। तथा चोक्तं ब्राह्मेतृतीयाध्याये
स्वचराभिरूनयुक्तां क्रमेण क्रमोत्क्रमन्यासः ।
उदयप्राणा व्यस्ताश्चार्कंतात्कालिकं कृत्वा ॥ १७ ॥
अथोदाहरणम्। सप्ताङ्गुलविषुवच्छायादेशे चरार्द्धखण्डानि६९।५७।२३ एतैर्लङ्कोदया ऊनीकता यथाक्रमेण जाताः २०९।२४२।३००। एतैरेवोत्क्रमेणलङ्कोदयाः युताः ३४६।३५६।३४७ सप्ताङ्गुल-विषुवच्छाये देशे स्वोदयाः। एत एव विपर्य्ययेण तुलादीनां षण्णांस्वोदयाः स्युः।
अधुना लग्नानयनमाह।
दृष्टघटिकाभिरुदयैरनुपातादं वर्द्धितो रविर्लग्नम्।
इष्टघटिका स्वघटिका उच्यन्ते। तामिरिष्टघटिकाभित्रैराशिकेन आगतेन वर्द्धितोरविः स एव लग्नंभवतीति वाक्यार्थः।
अत्र करणम्। यदा घटिकानां कर्त्तालग्नं कर्त्तुमिच्छति तदा ताभिर्घटिकाभिरूनाधिकाभिरर्कोमध्यमस्तात्कालिकः कार्य्यः। देशान्तरं कृत्वास्फिटीकार्य्यः। तस्माच्चस्फुटार्कोदयभुक्तभागान् संगृह्यलिप्तापिण्डंकारयेत्। तल्लिप्तापिण्डंयत्र राश्यावादित्यो व्यवस्थितस्तत्प्रमाणस्वोदयचषकैःसंगुण्याष्टादशशतैर्विभज्यावाप्तं चषकादि फलं तद भुक्तसंज्ञंभवति। तत इष्टघटिकाश्चचषकीकृत्य तस्मात् चषकपिण्डात् अभुक्तसंज्ञाश्चषकाः संशोध्य अभुक्तभागा आदित्ये क्षेप्याः। एवं कृते निरंशसंज्ञोसूर्य्योभवति। तत्पूर्व्वाक्रान्तराशेः विना यावन्तो राभ्युदयाः इष्टघटिकाः चषकपिण्डमध्यात् शुध्यन्ते तावन्तः शोध्याः। आदित्ये निरंशेतावन्तोराशयः क्षेप्याः। यो राशिर्नशुध्यति स भागहारः। तेन भागहारेण विंशद्गुणिताः शेषचषकाः विभाज्याः। अवाप्तं भागादिफलंनिरंशके सूर्य्येसंयोज्यघटिकानां लग्नंभवति। अभुक्तसंज्ञाश्चषका इष्टघटिका च चषकेभ्यो न शुध्यन्ते तदा यत्र राशावर्को व्यवस्थितः स एव राशिर्भागाहारः। तेनेष्टघटिकाः चषकाः त्रिंगद्गुणा विभज्याप्राप्तं भागादिफलं तात्कालिकेऽर्केप्रक्षिप्यतात्कालिकं लग्नं भवति। अथ रात्रिशेषे कश्चिलग्नंकर्त्तुमिच्छति तदा इष्टघटिकाभिः अर्कः कर्त्यव्यः। तस्मादुक्ता भागा ग्राह्याः, लिमापिण्डीकृत्यादित्याक्रान्त-राण्शुदयेन संगुण्याष्टादशशतैर्विभज्यावाप्तं चषकाः भुक्तसंज्ञा भवन्ति। तत इष्टघटिकाश्चचषकीकृत्य ताभ्यो भुक्तसंज्ञाश्चषकाःसंशोध्याः। भुक्तभागा आदित्येसंशोधनीयाः। एवं कृतेऽर्को निरंशसज्ञोभवति। भुक्तचषकैः शुद्धैरिष्टघटिकासम्बन्धिनां चषकाणां मध्यात् आदित्याक्रान्तराशेर्विनावैपरीत्येन यावन्तो राशयः शुध्यन्ते तावन्तः शोध्याः। तेभ्यो यावन्तो राशयः शुद्धास्तावन्तो राशयोऽर्केसंशोधनीयाः। ये च न शुध्यन्ते तेभ्यः चषकेभ्यः स राधिर्भाजकः। तेन भाजकेन शुद्धमिष्टचषकाः त्रिंशता संगुण्यविभज्यावाप्तं भागादिफलं भवति। तेन भागफलेन निरंशोऽर्कः ऊनीकृत्य इष्टघटिकानांरात्रिशेषे लग्नं भवति। अत्रोदाहरणंपञ्चानां घटिकानां लम्बं क्रियते। ततः तात्कालिकोऽर्को देशान्तरसंस्कृतः स्फुटः ११।१९।४६।३६अस्माद्भुक्तभागाः ०।१०।१३।२४। एते लिप्तापिण्डीकृत्यादित्याक्रान्त-राश्यददवेगानेन २०९ संगुण्याष्टादशशतैर्विभज्यावाप्तम्। चषकादिफलं अभुक्तसंज्ञं चेदं ७१ तत इष्टघटिकाश्चषकीकृत्य सासा ज्ञेयम्३००।एतेभ्यः चषकेभ्योऽभुक्तचषकान् संशोध्य शिष्टाः २२९। ततः पूर्व्वस्थापिताभुक्तनभागान् संक्षिप्यार्का निरंशसंज्ञोजातः ०।०।०।० अभुक्तशुद्धशिष्टचषका एते२२९। एभ्यो मेषस्योदयमिदम् २०९संशोध्य शेषम् २०। आदित्ये राशिं दृष्ट्वाजातोऽर्कः १।०।०।० ततोऽवशिष्टादस्मात् २० वृषप्रमाणं न शुध्यते। तस्मात् २०। स एव राश्यद्यो भाजकः तेन भाजकेन शुद्धशिष्टचषकास्त्रिंगद्गुणा विभज्यावाप्तं भागाः २। शेषं षष्ट्यासंगुण्यतेनैव छेदेन विभज्यावाप्तं लिप्ताः २८। पुनः शेषं षष्ट्या संगुण्य तेनैव छेदेन विलिप्ताः ४५। एतद् भागादिफलं निरंशेऽर्कंप्रक्षिप्य जातं लग्नम् ।१।२८।४५।
अथ राशिभेषस्योदाहरणम्। तत्र प्रश्नघटिकास्तिस्रः ।३। एताभिरर्कस्फुटस्तात्कालिकः कृतो जातः ११।१९।३८।३९अस्माद् भुक्तभागाः १९।३८।३९ एते लिप्तापिण्डीकृता जाताः ११७८।३९ एते स्वदेशमीनोदयेनानेन २०८९ संगुण्याष्टादशशतैर्विभज्यावाप्तं चषकादिभुक्तासंज्ञम्। तच्छेदम् १३७ तत इष्टघटिकास्तिस्रः ३। चषकीसत्य जातम् १८०। एतेभ्यो चषकेभ्यो भुक्तसंज्ञाःचषकाः संशोध्य शेषं ४७ तात्कालिकादर्कादपि भुक्तभागाः संशोध्य जातं निरंशसंज्ञमिदंजमिदम् ११।०।०।०। एतस्मात् कुम्भोदयप्रमाणं न शुध्यते। कुम्भोदयप्रमाणमिदं २४२। तस्मात् कुम्भोदयो भाजकः। अनेन भाजकेन त्रिंशद्गुणान् शेषचषकान् विभज्यावाप्तं भागाः ५ शेषं षष्ट्या संगुण्ख तेनैव छेदेन लिप्ताः १९। तथैव विलिप्ताः ५०। एवं भागादिफलम् ५।१९।५० एतत् निरंशकात् संशोध्य रात्रिशेषे इष्टघटिकानां त्रयाणां लग्नंजातम् १०।२४।४०।१०। तथा चोक्तं ब्राह्मे -
रविणाभुक्तराशेः कलागुणान् स्वोदयासुभिर्भक्तान् ।
राशिकलाभिर्लब्धंप्रश्नस्तेभ्योऽशंकाः शोध्याः ।
प्रक्षिप्य राश्यपभुक्तंशेषासुभ्यः क्रमेण यावन्तः ।
शुध्यन्त्युदयाः सूर्य्येतावन्तो राशयः क्षेप्याः ।
शेषास्त्रिंशद-गुणितात्ततोऽविशुद्धोदयासुभिर्विभजेत् ।
लब्धं भागादि रवौप्रक्षिप्य तथाकृते लग्नम् । इति ।
अत्ररात्रिगते काले लग्नंक्रियते। सदा तात्कालिकोऽर्कः षड्राश्यूनःकार्य्यः। शेषदिनलग्नवत् रात्रिगते व्याख्यातं पूर्व्वम्। एकस्य लग्नस्य राशीनपास्य भुक्तंभागाद्यंयत् तल्लिप्तापिण्डीकृतमकान्ते स्थापयेत्। तत्रकर्म्मभूमौ नवशतैर्भागमपहृत्य भुक्ता होरा लभ्यन्ते। तस्यैव षड्भिः शतैःभागे हृतेभुक्ताद्रेक्काणालभ्यन्ते । तस्यैव शतद्वयेन भागे हृते भुक्तानवांशो लभ्यते। तस्यैव सार्द्धशतेन भुक्तोद्वादशांशो लभ्यते। तस्यैव षष्ट्याभागे हृते भुक्तत्रिंशांशो लभ्यते इति। एवं लग्नस्य होराद्रेक्काणादि-षष्ट्याद्यार्द्धोकरणम्। एतच्च जातकयात्रासूपयोग्यमिति।
अधुना लग्नात् तात्कालिककालानयनमाह -
अनुपात-वर्द्धितेऽर्के लग्नसमे स्वोदयैर्घटिकाः ॥ ५ ॥
अनुपातेन त्रैराशिकनार्को लग्नसमः करणीयः। अर्वाच्चलग्नसमात् कालो ज्ञायते। तात्कालिकादर्कादभुक्तासंज्ञाश्चषकाः प्रागवत् कर्त्तव्याः। लग्नाच्च भुक्तचषकाः ततोऽभुक्तभुक्ताचषका एकीकृत्य आदित्यलम्नयोरन्तरराश्युदयैः युक्ताः कर्त्तव्याः। अर्केच तावन्तो राशयो भुक्तभोग्यैः सह क्षेप्याः। लग्नसमोऽर्को भवति। ततो लग्नचषकाणां षष्ट्याभागमपहृत्य प्रश्नघटिका भवन्ति। तस्मिन् काले लग्नमिति। अथ एकस्मिन् राशौलग्नार्कौभवतः तदा तयोरन्तरं कार्य्यम्। तल्लिप्तापिण्डीकृत्य अर्काक्रान्तराश्युदयेन संगुण्याष्टादशशतैर्भविभज्यावाप्तंफलं प्रश्नचषकाः भवन्ति। अथ लग्नकालिकोऽर्को न ज्ञायते केवलमर्द्धरात्रिको ज्ञायते। तदा कालानयनं कथ्यते। प्राग्वल्लग्नार्कयोरन्तरालः कालः साध्यः। तेन कालेनार्कस्तात्कालिकः कार्य्यः। तस्यार्कस्य लग्नस्यारात् पुनरपि कालः साध्यः। पुनरप्यर्कस्तात्कालिकः कर्त्तव्यः। तस्यार्कलग्नस्य चान्तरकालः साध्यः। एवं भूयोभूयस्तावत् कार्य्यंयावत्कालोऽविशेषः। स अर्कस्य लग्नकालो भवति।
अथोदाहरणम्। तद् यथा। इष्टकालिकोलग्नार्कोकृतौलिख्यते । इमौ-
लग्न१२२८३०अर्क१११९४६३७
अर्कादभुक्तचषकाः ७१ लग्नाश्च भुक्तचषकाः २० एते एकीकृत्यजाताः ९१।सान्तरोदयाश्च ३०० एतेषां षष्ट्याभागे हृते ५ एतस्मिन् काले लग्नं जातम्। एवं सर्व्वत्रोदाहरणीयमिति। यदार्कादधिकं लग्नं भवति तदैवम्। अथोनं तदा रात्रिशेषे इति। यदा रात्रिशेषे जातं लग्नं तदा वैपरीत्येनार्कभुक्तोन लग्नादभुक्तेन कालेनान्तरोदयकालो भवत्यर्केऽप्यन्तरोदयभुक्तसहितं शोध्यलग्नसमोऽर्को भवति। तथा च ब्राह्मे -
रविराश्यभुक्तलिप्ता उदयगुणिता हृता गृहकलाभिः ।
लब्धं प्राणाः स्थाप्याः प्रक्षिप्यार्के गृहाभुक्तम् ॥
तावत् सूर्य्येराशीन् क्षिपेत् समो लग्नराशिभिर्यावत्
क्षिप्तगृहाणांप्राणान् प्रक्षिप्य स्थापितेऽष्वसषु ॥
तदपि सविकलोदयवधं राशिकलाभिर्जभेत् फलप्राणान् ।
प्रक्षिप्य प्राणेषु प्राणाः सूर्य्योदयादसकृत् ॥
रात्रिशेषे च
कृत्वैवमूनपर्कवत् लग्नसमं प्राग् भवेत् कालः॥
अधुना ज्याकरणे ज्याखण्डमाह -
त्रिंशत्-सनवरसेन्दु-जिनतिथिविषया गृहार्द्धचापानाम् ।
अर्द्धज्याखण्डानि ज्याभुक्तैक्यंक्यं सभोग्यफलम् ॥ ६ ॥
इयमार्य्यातिथि-नक्षत्राध्याये व्याख्याता।
अथ क्रान्ति-करणमाह -
क्रान्तिकला द्विरसगुणास्त्रिखमुनयो दिखदिशो वसुत्र्यर्काः।
वसुवसुविश्वे खकृतमनवः स्वक्षेपयुत-वियुताः ॥ ७ ॥
इयमार्य्याव्यतिपाते व्याख्याता। अष्टदिने मध्याह्नच्छायानयनमाह -
क्रान्त्यंशैरूनयुतं स्वाक्षमनष्टं विशोध्य नवताेर्ज्या।
छेदोऽनष्टज्यायाः सूर्य्यगुणाया दिनार्द्धेभा ॥ ३८ ॥
क्रान्तेरंशाःक्रान्त्यंशाः तैः क्रान्त्यंशैःऊनयुतं स्वाक्षं स्वदेशाधख्यमक्षं स्वाक्षंमेषादूनं तुलादधिकं तदनष्टसंज्ञं भवति। तच्च विशोध्य नवतेः त्रिगृहाद्इत्यर्थः शेषस्य ज्या छेदो भवति। कन्या उच्यते अनष्टज्यायाः। किम्भूतायाःसूर्य्यगुणायाः। लब्धंदिनार्द्धेभादिनार्द्धे मध्याह्नेया भाच्छाया भवतीत्यर्थः।
अत्र करणम्। अथेष्टदिने मध्यमार्कंमाध्याह्निकं कृत्वा स्फटीकार्य्यम्। तस्मिन् द्विरसगुणाद्यैः क्रान्तिखण्डकैःक्रान्तिं कृत्वा स्वदेशाक्षं सदा दक्षिणं तयोर्मेषादायावर्केवर्त्तमाने अन्तरं तुलादौ योगं कार्य्यम्। एवं कृते यद् भवति तदनष्टसंज्ञंभवति। तद्दैवसिकं नतांशाख्यं् भवतीत्यर्थः। तदभागान् नवतेःविशोध्य यदवशिष्यते तस्य त्रिंशत्-मनवादिभिर्जीवाः कार्य्याः। स छेदो भवति। तथा उच्यते। अनष्टसंज्ञस्यत्रिंशत्मनवादिभिः जीवा सा द्वादशहृता छेदेन विभज्यावाप्तं फलमङ्गलादि तत अभीष्टदेशे मध्याह्नेछाया भवति। यदा यत्रोत्राक्रान्तिः स्वाक्षसमा शोध्यमाना भवति तदा तस्मिन् दिने नष्टच्छायो मध्याह्नः। यद्युत्तराक्रान्ति स्वाक्षादधिका भवति तदा मध्याह्नेछाया दक्षिणाभिमुखी भवति। एतदप्युज्जयिन्याः दक्षिणे देणे सम्भवति। यस्माच्चतुर्विशत्यंशेभ्यः ऊनोऽक्षः उज्जयिन्याः दक्षिणदेशेष्विति।
उदाहरणम्। मध्याकालिकः स्फुटोऽर्कः११।१९।५३।२४ अस्मात् क्रान्तिदक्षिणा २४२।२४। सप्ताङ्गुल-विषुववेशे स्वाक्षः १८१२ तुलादित्वात् क्कान्तियुतं जातं २०४५।२८ एतदनष्टसंज्ञम्। एतद् नवतिभागकलाभ्यः ५४०० संशोध्य जातं ३३४।३२, अस्य ज्या १२३।१२ एष छेदसंज्ञः। ततोऽनष्टज्या८३।४५, एषा द्वादशभिः संगुणिता अङ्गुलादिलब्धम् १००५। छेदेन अनेन १२३।१२ विभज्यावाप्तमङ्गुलादिका जाता दिनार्द्धच्छाया ८।११।एवमन्यत्राप्युदाहरणीयम्। अथेष्टदिने दिनदलकर्णानयनमाह -
क्रान्त्यक्षांशैक्यान्तरहीनत्रिगृहज्यया हृता त्रिज्या।
द्वादशभिः सङ्गुणिताङ्गुलादि-लब्धं द्युदलकर्णः ॥ ९ ॥
क्रान्तेरक्षांशानां च ऐक्यान्तरं क्रान्तक्षांशैक्यान्तरम्। तेन हीनं त्रिगृहंराशित्रयमित्यर्थः। तस्माच्चतज्ज्या। हृताका सा त्रिज्यासार्द्धशतमित्यर्थः १५०। किम्भूताद्वादशभिः संगुणिता अङ्गुलादि-द्युदलकर्णो भवतीत्यर्थः। वाक्यार्थः।
करणम्। माध्याह्निकात् स्फुटार्कात् क्रान्तिः कर्त्तव्या। तस्याः स्वदेवाक्षेण सह एकदिग्योगो भिन्नदिग्वियोगः कार्य्यः। तद्योगमन्तरं वा भागनवतेःसंशोध्य अवशेषस्य त्रिंशत्-सनवेति ज्या जाता १२३।१३ अस्य ज्या छेदो नाम। कस्य उच्यते। त्रिज्याया द्वादशगुणायाः । अष्टादशथतानामित्यर्थः। लब्धंफलमङ्गुलाद्यभीष्टदिने मध्याह्नेकर्णो भवति। शाङ्कप्रच्छायाग्रयोरन्तरे सूत्रं कर्णशब्देनोच्यते। अत्रोदाहरणम्। तद् यथा। माध्याह्निकादर्कात् क्रान्तिर्दक्षिणा २४२।२४ स्वदेशाक्षश्च१८१२।४ अनयोरेकदिक्त्वात् योगः कृतः २०५४।२९। एतेन हीनं विग्रहम् ३३४५।३१।अस्य ज्या १२३।१२ एष छेदसंज्ञः। द्वादशगुणिता त्रिज्या १८०० छेदेन विभज्यावाप्तम् ।४।३५ एष मध्याह्नकर्णोऽस्मिन् अहनि इति। अत्रापि यद्युत्तरा क्रान्तेःऊनाधिका भवति तदा विपरीतशोधनं कृत्वा दक्षिणाभिमुखी छाया भवति। एतदप्युज्जयिन्या दक्षिणेन सम्भवति इति। अधुना कर्णज्ञानच्छायानच्छायाज्ञानस्य कर्णात् ज्ञानमाह -
कर्णच्छायाकृत्योःशङ्कुकृतिविहीनयुक्तयोर्मूले।
छायाकर्णो द्युदलं नतहीनदिवसगतशेषम् ॥ १० ॥
वाक्यार्थः। कर्णकतिश्चछायाकतिश्चकर्णच्छायाकृतौ। तयोः कर्णच्छायाकृत्योः। यथासंज्ञंशङ्ककृत्याविहीनयुक्तयोर्मूले। मूलं मूलं च मूले। ते यथासंख्य छायाकर्णौभवतः। इति वाक्यार्थः। करणम्-यदा कार्यात् छाया क्रियते तदा कर्णवर्गात् शङ्कवर्गम् इति। शङ्कः द्वादशाङ्गलः तस्य वर्गः चतुश्चत्वारिंशदधिकं शतम् १४४। एषः कर्णर्गात् विशोध्य मूलं सा छाया भवति। अथ छायातः कर्णः क्रियते तदा छायावर्गे शङ्कुवर्गंसंयोज्ययद् भवति तस्यमूल कर्णः स्वात्।
अथ उदाहरणम्। तद् यथा। इष्टकर्णं१४।३५ अस्यवर्गो गोमूत्रिकया जातः २१२।४८ अस्मात् शंखकृतिम् १४४ इमाम् विशोध्य शेषम् ६८। ४८।अस्यमूलम् ८।१९, एषा तस्मिन् काले छाया इयम् ८।१९अस्याःकृतिः ६८।४८, अस्याः शङ्खकृतिरिमाम् १४४ संयोज्यमूलम् १४।३५।एष कर्णस्तमिन् काले ज्ञेयः। अथ नतं व्याख्यायते। दिनार्द्धाद्इष्टकालगतं शेषंवाऽपास्य यदवषिष्टं तन्नतसंज्ञं भवति। एतदुक्तंभवति। मध्यात् पूर्व्वेणापरेण वायः कालः स नतसंज्ञोभवति। एवमन्येषां चन्द्रादीनामपि स्वकीयमध्याह्नात् पूर्व्वेणापरेण वा यः कालः तस्य नतसंज्ञो भवति। वक्ष्यति च शृङ्गोन्नतौ। सूर्य्यवत् छायेति। यत्र चन्द्रमध्याह्नेछायाकर्णानयनमभिहितम्। न चाक्षं ज्ञायते। तस्मात् लम्बाक्षयोरानयनमाह -
विषुवत्कर्णविभक्ते शङ्कुच्छायाहृते पृथक् त्रिज्ये ।
लम्बाक्षज्ये चापं विषुवज्जयायाः स्वदेशाक्षः ॥ ११ ॥
विषुवतः कर्णो विषुवत्कर्णः। तेन विषुवत्कर्णेन विभक्तेकृते। पृथक् त्रिज्ये किम्भूते शङ्कच्छायाहते। यथासंख्ये फले लम्बाक्षज्ये भवतः। विषुवज्ज्यायाश्चापं च ततः स्वदेशातो भवति। इत्यार्य्यार्थकरणम्। त्रिज्या सार्द्धशतं द्वादशशङ्कुःतेन गुणिता अष्टादशशतानि भवन्ति। विषुवत्कर्णेनविभज्यावाप्तं लम्बज्या भवति। तथा त्रिज्या स्वदेश-विषुवच्छायया संगुण्य विषुवत् कर्णेन विभज्यावाप्तमक्षज्या लभ्यते। ततो विषुवज्जायाश्चापं कार्य्यम्। तत् स्वदेशाक्षा भवन्ति। लम्बज्यायाश्चापं न कुत्रचिदुपयुज्यते। सा तत्रैव लम्बज्याकर्ण-शृङ्गोन्नत्यादिषु क्रियते। विषुवच्छाया च समायामद्वये द्वादशाङ्गुलशङ्कुंनिधाय विषुवदिने सममध्यगते रवौग्राह्या। सा तस्मिन् दिने विषुवच्छाया भवति। तस्याः कर्णो विषुवत्कर्णः। अत्रोदाहरणं प्रकटार्थत्वान्नदर्शितमिति। अधुना चापकरणमाह -
ज्याखण्डोने शेषे गुणिते नवभिः शतैरशुद्धहृते।
क्षेप्याणि शुद्धखण्डैर्गुणितानि शतानि नव चापम् ॥ १२ ॥
इयमार्य्याव्यतीपातकरणे व्याख्याता।
अधुनेष्टछायाकरणमाह -
त्रिज्याचरार्द्धजीवायुतहीनाऽन्त्या नतोत्क्रमज्योना।
छेदोऽन्त्याया दिनदलकर्णगुणायाः फल कर्णः ॥ १३ ॥
त्रिज्यासार्द्धंशतं १५० सा चरार्द्धजीवया युतहीना मेषादावर्के युता तुलादौहीनाऽन्या भवति। सा चान्त्या नतोत्क्रमज्यया ऊना छेदो भवति। कस्य उच्यते। अन्त्यायाः किम्भूतायाः दिनार्द्धकर्णगुणायाः फलं तदिष्टकालकर्णो भवति। इति वाक्यार्थः।
करणम्। इष्टदिने चरदलस्य जीवा कार्य्या। अत्र कालाज्जीवा क्रियते तत्र कालं प्राणीकृत्य यथाक्षलिप्ताभ्यस्तथा काले प्राणेभ्यःत्रिंशत्-सनवेति जीवा कार्य्या। तया त्रिज्या मेषादावर्के वर्त्तमाने युता तुलादिगे हीनाऽन्त्याभवति। सा चानष्टा नतोत्क्रमज्योना यत्र कालेऽभीष्टे छाया क्रियते। स कालो दिनार्द्धादपास्य यदवशिष्यते। तन्नतसंज्ञंभवति। तस्य त्रिंशत्सनवाद्यैर्ज्याखण्डैर्विपरीतजीवा कार्य्या। तद् यथा। प्रथमे राश्यर्द्धेपञ्च द्वितीये पञ्चदश तृतीये चतुर्विशतिः चतुर्थेएकत्रिंशत् पञ्चमे षट्त्रिंशत् षष्ठे एकोनचत्वारिंशत् इति अङ्केनापि लिख्यते।
[TABLE]
ज्याभुक्तैक्यसभोग्यफलमिति पूर्व्ववत् कर्त्तव्यम्। तत्काले जीवा क्रियमाने घटीपञ्चदशकस्य त्रिज्या भवति। नतकालो यदा पञ्चदशघटिकाभ्योऽधिको भवति तदा नतकालात् पञ्चदशघटिका अपास्य क्रमज्यां कृत्वा त्रिज्यायुतां कृत्वा अन्त्या ऊना कार्य्या। एवमुत्क्रमोज्योनाऽन्त्या छेदो भवति। कस्य उच्यते। अन्त्यायाः दिनदलकर्णगुणायाः। यदावाप्तं फलं तदङ्गुलादि अभीष्टकालस्यछाया कर्णो भवति। तस्मात् कर्णच्छायाकृत्योरिति छाया कार्य्या। सा च प्रश्रकाले तात्कालिकस्य शङ्कोः छाया भवतीति। अन्यत्रापि यत्र कुत्रचित् नतज्या क्रियते। सा तत्रोत्क्रमेणैव कार्य्येति। तदा चरार्द्धमिदं ०।२३ एतत् प्राणोकृतं १३८ अस्य ज्या ५।५९अनया तुलादित्वादर्केत्रिज्या हीना त्याज्या जाता १४४ एषाऽन्त्या। घटिकानां पञ्चानां छाया क्रियते। तदा पञ्चघटिका दिनार्द्धादस्माद् १४।४६ अपास्य शेषम् ८।४६ एतन्नतसंज्ञम्। अस्मात् उत्क्रमज्या ०।१५ अनया ऊना त्रिज्या १५० जाता ७८।४५ एष छेदसंज्ञः। अन्त्याच दिनदलकर्णगुणा जाता २१०२।३९एतां छेदेन विभज्यावाप्तं २९।३० एष कर्णः तस्मिन् काले। तत्कर्णच्छायाकृत्योरिति छायाकृता जाता २५।५१। एषा छाया पञ्चानां घटिकानां तस्मिन् दिने इति। नतच्छाया कृता।
अधुना छायया नतानयनमाह -
पूर्व्वापरयोर्दिनगतशेषस्य चरार्द्धहीनयुक्तस्य ।
क्रमजीवा चरदलजीवया युतोनाऽथवा छेदः ॥ १४ ॥
पूर्व्वापरयोर्दिनगतयोः यथासख्यं दिनगतशेषस्य किम्भूतस्य चरार्द्धहीनयुक्तस्य मेषाद्यर्केहीनस्य तुलाद्यर्केयुतस्य क्रमेणजीवा क्रमजीवा चरदलजीवया युतोनामेषाद्यर्केयुता तुलादिगे ऊना। अथवानेन प्रकारेण छेदः क्रियते। अथवा शब्दोऽत्र प्रकारान्तराय। तेन विकलो नताद्यः कृतच्छेदस्तेन सदृशोभवतीति वाक्यार्थः।
करणम्। पूर्व्वाह्नेदिनगतस्यापराह्नेशेषस्य कालः समच्छाया भवति। तावत् प्रमाणस्य नित्यमेव यावत् घटिकानां शेषाणां वा ताभ्यो घटिकाभ्यश्चरदलघटिका अपास्य शेषं प्राणीकृत्यक्रमेण ज्या कार्य्यात्रिंशत्-सनवेति। मा चरदलजीवया मेषादावर्केवर्त्तमाने युता तुलादौ हीना छेदोभवति। छेदेन पूर्व्ववत् कर्म्माण्यत्रापि। उन्नतज्याक्रमेणैव कार्य्या। यदा चरार्द्धं न शुध्यतेदिनस्यगतात् शेषाद् वा तदा विपरीतशोधनं कृत्वा क्रमात् ज्या कार्य्या। तयोना चरदलजीवा छेदो भवति। छेदेनान्त्यादिनदलकर्णगुणा विभज्येष्टकर्णइति। तस्याःकर्णछायाकृत्योः इति छाया कार्य्येति।
अत्रोदाहरणम्। पूर्व्वाह्नेगता टिका ५। गतकालश्चरार्द्धयुतो जातः५।३२ अस्मात् क्रमज्या ७९।४५ चरदलजीवया ५।५९ तुलादित्वात् ऊनोकृत्यजाता ७३।४६ एषः छेदः पूर्व्वागतेन सदृशः। शेषं पूर्व्ववत् कालच्छायेयम्। दिनार्द्धात् पूर्व्वेणापरेण छायाकालः छाया कृता।
अधुना छायातः कालानयनमाह -
दिनदलकर्णगुणान्त्याछायाकर्णोद्धृता फलोनान्त्या।
शेषस्योत्क्रमजीवा धनुर्दिनार्द्धान्नतप्राणाः ॥ १५ ॥
दिनस्य दलकर्णोदिनदलकर्णः। तेन दिनदसकर्णेनगुणा दिनदलकर्णगुणा।का सा ?अन्त्या। पूर्व्वेणापरेणवा नतकालस्य ग्राह्याभवन्ति। इत्यार्य्यार्थः।
करणम्। इष्टदिने मध्याह्नकर्णः कर्त्तव्यः। तेन गुणा अन्त्या तात्कालिकच्छायाकर्णेन। कर्णच्छायाकृत्योरिति यः कर्णः कृतः तेन विभजेत्। यल्लब्धं फलं तेन फलेनोनान्त्याप्रागानीता यदवशिष्यते तस्योत्क्रमज्याया धनुः कार्य्यः। तेन दिनार्द्धान्नत-प्राणा भवन्ति पूर्व्वापरेण वा। यदा फलेनान्त्या त्रिज्यातोऽधिका भवति तदा तस्याः त्रिज्यामपास्य शेषस्य क्रमजीवाभिश्चापं कृत्वा तत्त्रिज्याचापे चतुःपञ्चाशच्छतेषु ५४०० संयोज्यतेन दिनार्द्धान्नतप्राणा भवन्ति। यदि नतगते काले छाया गृहीता तदा तद्दिनार्द्धात्पूर्व्वेण। अथ दिनशेषे तदापरेण। अथ यदेतद् व्याख्यातं पञ्चदशेभ्यो घटिकाभ्योऽधिकं नतं क्रमज्यया संयुतं क्रियते। तथान्त्यात्रिज्याभ्योऽधिका भवति तदा क्रमधनुषायुतमुत्क्रमधनुः क्रियते। एतन् मयाभिहितं क्रियते न्यायसिद्धत्वादन्यथाकालविसंवादो स्यात्। तथा चोक्तं ब्राह्मे -
उत्क्रमजीवाभ्यधिकं क्रमज्यासंयुतं धनुर्धनुषा इति।
(त्रिप्रश्न, ४६।)
अथोदाहरणम्। तद् यथा। दिनदलकर्णः १४।३६। अनेनान्त्येयं१४४ संगुणिता जाता २१०२।३९। तात्कालिक-छायाकर्णः २८।३०। अनेन विभज्यावाप्तं फलम् ७३।४६ अनेनोनान्त्याजाता ७०।१५ अस्याः उत्क्रमज्याभिः शोध्य चापमिदं३४६३ एते दिनार्द्धाद्पूर्व्वेण नतप्राणाः। एतेषां षष्ट्याषड्भिर्भागे हृते घटिकाः ९।३७। एता दिनाार्द्धादस्मात् १४।३७ विशोध्य घटिका ५। एवमन्यत्रापि उदाहरणीयम्। छायातो नतकालः कृतोन्यच्छाययैवोन्नतकालानयनमाह -
चरदलजीवोनाधिकफलक्रमज्याधनुश्चरार्द्धान्।
युतहीनं पूर्व्वाह्नेदिवसगतं शेषमपराह्ने॥ १६ ॥
वाक्यार्थः। चरदलजीवया ऊनाधिकं चरदलजीवोनाधिकम्। किं तदुच्यते। फलम्। मेषादावूनं तुलाद्यर्केधनम्। तस्य क्रमज्याभिश्चापंचरार्द्धेनयुतहीनम्। मेषाद्यर्केयुतं तुलादिगे हीनं पूर्व्वाह्नेदिवसगतं भवति। शेषमपराह्नेभवतीति वाक्यार्थः।
करणम् । इष्टदिने चरदलस्य जीवा कार्य्यातयोनाधिकं प्रागार्य्याभिहितं यत्फलसंज्ञम्। कदोनं कदाधिकं भवति? भण्यते। मेषादिस्थेऽर्केऊनं तुलादिस्थेऽधिकम्। एवमूनाधिकस्य क्रमज्याभिश्चापं कार्य्यम्। चरार्द्धेनप्राणीकृतेन मेषादावर्के युतं तुलादिगे हीनम् एवं कृते यद् भवति तस्यषड्भिर्भागमपहृत्य विनाड्यःभवन्ति। चषकाणां षष्ट्या भागे हृते पूर्व्वाह्नेगतघटिकाः स्युः। अपराह्ने शेषा इति। अस्योदाहरणम्। यथा चरदलजीवेयम् ५।५९अनया फलमिदम् ७३।४६तुलादित्वादधिकं कृतं जातम् ७९।४५ अस्य क्रमज्याभिश्चापमिदं १९३८ एतच्चरार्द्धप्राणैरमीभिः१३८ तुलादित्वादूनं कृतं जातम् १८००। अस्यषड्भिर्भागमपहृत्य लब्धंचषकाः ३००। षष्ट्या भागे हृते घटिका ५ एषः कालो दिवसस्य गतः। अथ चेदपराह्नस्यतदा शेष इति। एवमन्यत्राप्युदाहरणीयमिति।
इति भट्टमधुसूदनसूत-चतुर्व्वेदपृथूदकस्वामिकृते
खण्डखाद्यविवरणेत्रिप्रश्नाध्यायस्तृतीयः ।
———————
अथ चन्द्रग्रहणाध्यायः
प्रणम्याहंसुररिष्या(?) पादानमरपूजितान् ।
चन्द्रग्रहे प्रवक्ष्यामि भाष्यंबुद्धिकरं महत्।
अथातो चन्द्रग्रहणाध्यायोव्याख्यायते। बाहुल्येन पर्व्वज्ञानार्थं सकलं ज्ञानमिष्यते शिष्टैःतस्य च पर्व्वणांदर्शनं नास्ति। अन्येषामपि तिथि-नक्षत्र-करणानां तथा तेषां शनिभास्करग्रहयोरव्यक्तिर्यस्मात्। शशिभास्करग्रहणयोर्दग्गणितैक्यं लोकः पश्यति। तस्मात्तिथ्यादिष्वप्यर्थेषु दैवज्ञवाक्यंलोके आद्रियते। अतो ग्रहणं वक्ष्यामि।
ते चतुर्द्दशगभेदभिन्नाः। के ते चतुर्द्दशभेदाः ?उच्यन्तेयथा -
दिग्वर्णवलनवेला-निमीलनोन्मीलन-स्थितिर्विमर्दाः ।
स्पर्शच्छायामोक्ष-ग्रासेष्टग्रास-परिलेखाः।*9
इत्यार्य्या। तत्रादावेव समलिप्तीकरणमाह -
रविचन्द्रौ समलिप्तौ तिथिगतगम्यघटिकाफलोनयुतौ।
तत्र तावत् पौर्णमास्यां चन्द्रार्कौअर्द्धरात्रिकौस्फुटौ कर्त्तव्यौ। राहुश्चषण्णवतिकलारहितः सम्प्रदायविच्छेदः। ततश्चन्द्रार्काभ्यां सकाशात् तिथ्यन्तमुत्पाद्यगताद् गम्याच्चततो रविचन्द्रौसमलिप्ताविति रविश्चचन्द्रश्च तौ। समलिप्तौ कथ्यन्ते भण्यन्ते। तिथिगत-घटिकाभिर्गम्यघटिकाभिर्वा रविचन्द्रयुता मध्यमे संगुण्यषष्ट्या विभज्यावाप्तम्। स्वफले। ताभ्यां स्वफलाभ्यामर्द्धरात्रिकौमधमौ तिथ्यन्ते ज्ञेयौ। यदार्द्धरात्रात् पूर्व्वेण तिथ्यन्तस्तदा स्वफलेनोनौतिथ्यन्तेभवतः। अर्द्धरात्रादपरेणतिथ्यन्तं तदा स्वफलेनाधिकौतिष्यन्तकालिकौभवतः। ततः स्पुटौकार्य्यौ। पुनरपि तिष्यन्तमेवमसकृत् कार्य्यं यावत् तिथ्यन्तंस्थिरं भवति। तौ चतस्मिन् काले समलिप्तौभवतः। किञ्चिद्यूनाधिकौषड्राश्यन्तकाविति।
अत्रोदाहरणम्। शाकेऽस्मिन् ५८७ मांसा एव १० तिथयः १५। अस्मिन् दिनऽर्कचन्द्रौदेशान्तर-संस्कृतौ स्फटौ जातौ
र१०६२४४४च४६४३१०
आभ्यां सकाशात् अर्द्धरात्रादूर्द्धेनतिथिघटिका १।३० एतैः रविशशिचन्द्रोच्चभुक्तयो मध्यमा उच्यन्ते ।५९८७९०३४६४०
संगुण्य षष्ट्या विभज्यावाप्तानि फलानि यथाक्रमेण१२८१९४६०१०एभिश्च फलैरूनीकृताः तिथ्यन्तेजाताःमध्यमा रविशशिचन्द्रोच्चा यथाक्रमेणैव। अङ्केनापि
१०४४८४६४६५८३६३२९२७३२
अस्मिन्नेवकाले रविचन्द्रौ स्फुटौ राहु-सहितौ
[TABLE]
एतौ समलिप्तौजातौषड्राश्यन्तरितौ। एवमन्यत्राप्युदाहरणीयमिति। अर्कास्तमयादनन्तररात्रौप्रविष्टास्तिथिघटिका १५।२४।एतस्मिन्नेव काले मध्यग्रहणम्। एतेनान्तरोक्ता मध्यग्रहणिका रविचन्द्रराहवइति।
अथ वक्षेपानयनमाह -
पातोनचन्द्रजीवा विक्षेपो नवगुणेषुहृता ॥ १ ॥
एतदार्य्यार्द्धंनक्षत्राध्याये प्रसङ्गेन व्याख्यातम्। अधुना रविचन्द्रयोर्मानानयनमाह -
भवदशगुणिते रविशशिगती नखैः स्वरजिनर्हृते माने।
एतदार्य्यार्द्धंव्यतीपातकरणे तिथिनक्षत्राध्याये व्याख्यातम्। अधुना राहोर्मानानयनमाह -
तत्त्वाष्टगुणितभुक्त्योः षष्ट्या हृतमन्तरं तमसः ॥ २ ॥
रविशशिभुक्त्योर्यथासंख्यं तत्वाष्टगुणितयोर्यदन्तरं तत् षष्ट्या विभज्य राहुमानं भवतीति वाक्यार्थः।
करणम्। रविभुक्तिस्तत्त्वैः संगुण्य पञ्चविंशतिभिरित्यर्थः। शशिभुक्तिचाष्टभिः। ततस्तयोरन्तरं षष्ट्या विभज्यावाप्तं लिप्तादि राहुमानं लभ्यते।
उदाहरणम्। रविभुक्तिः ६१ एषा तत्वैर्गुणिता जाता १५२५ चन्द्रस्फुटभुक्तिरियं ७२३ अष्टगुणा जाता ५७८४ अनयोरन्तरम् ४२६३। एतत् षष्ट्या विभज्यावाप्तम् ७१।३ एतद् राहुमानमिति। अधुना ग्रहस्य भावाभावज्ञानमाह -
विक्षेप संशोध्य प्रमाणयोगार्द्धतस्तमश्छन्नम्।
प्रमाणं प्रमाणं च प्रमाणे। तयोर्योगः। तस्यार्द्धंप्रमाणयोगार्द्धंतस्मात् प्रमाणयोगार्द्धतः। संशोध्य किं तत् भणति। विक्षेपम्। यदवशिष्टं तत्तमसः छन्नंभवति। मध्यमग्रहणे। करणम्। चन्द्रग्रहणे चन्द्रो ग्राह्यः। राहुर्ग्राहकः। सूर्यग्रहणे सूर्य्योग्राह्यः चन्द्रो ग्राहकः। ग्राह्यग्राहकयोर्योगं कृत्वा तदर्द्धंकार्य्यम्। तस्मान् मध्यमग्रहणिकं विक्षेपं संशोध्य यदवशिष्यते तावन्मात्रोमध्यग्रहणिको ग्रासो भवति। यदा मध्यमग्रहणिकविक्षेपंप्रमाणयोगार्द्धान्नशुध्यन्ते तदा ग्रहणिकाभावः। इति।
उदाहरणम्। तद् यथा। ग्राह्यमानम् २९।१७ ग्राहकमानम् ७१।३ अनयोर्योगः १००।२० अस्यार्द्धम्५०।१०। तस्मान् मध्यग्रहणिकविक्षेपमिदं१७।०संशोध्य शेषम् ३३।१०।एतावन्तो मध्यग्रहणेग्रासलिप्ताः। अथ सर्व्वग्रहणखण्डग्रहणयोःपरिज्ञाममाह -
सर्व्वग्रहणंग्राह्यादधिके खण्डग्रहणमूने ॥ ३ ॥
मानैक्यार्द्धाद्विक्षेपं संशोध्य यदवशिष्यते तद् यदि ग्राह्यमानाधिकं भवति तदा सर्व्वग्रहणम्। अथ न तदा खण्डग्रहणम्।
अथोदाहरणम्। मानैक्यार्द्धाद् विक्षेपं संशोध्य शेषम्३३।१०। एतत् ग्राह्यमानादस्मात् २९।१७अधिकमतएव सर्व्वग्रहणमिति।
अधुना स्थित्यर्द्धमार्दार्द्धयोरानयनमाह -
छाद्यार्द्धेन छादकदलस्य युक्तोनकस्य वर्गाभ्याम् ।
विक्षेपकृतिं प्रोह्यपदे तिथिवत् स्थितिविमार्दार्द्धे॥ ४ ॥
छाद्यस्यार्द्धम् छाद्यार्द्धंतेन युक्तोनकस्य। कस्येत्युच्यते। छादकदलस्य। यथासंख्यं वर्गाभ्यां विक्षेपकृतिं प्रोह्य। पृथक् पृथक् शेषस्य पदे। पदं च पदं च पदे। ते द्वेतिथिवत् क्रियते। यथासंख्यं स्थित्यर्द्धविमर्दार्द्धेभवतः। इति वाक्यार्थः।
करणम्। कादकदलं हिस्थं व्याप्य एकस्मिन् प्रदेशे छाद्यार्द्धेन युतं कर्त्तव्यम्। अन्यस्मिन् छाद्यार्द्धेनोनम्। तस्य छाद्यार्द्धेनयुक्तोनकस्य पृथक पृथक् कृते कृती। ताभ्याम् विक्षेपकृतिमपास्य मूले षष्टिघ्ने भुक्त्यन्तरेण विभज्यावासे फले यथासंख्यं स्थित्यर्द्धविमर्द्दार्धेभवतः।
अथोदाहरणम्। छादकदलमिदम् ३५।३१ अस्मिन् छाद्यार्द्धमिदम् १४।३८ दत्वाजातम् ५०।१०अस्य कृतिरियम् २५१६।४०। अस्य विक्षेपकृतेरियम २८९। संशोध्य जातम् २२२७।४०।अस्य मूलम् ४७।११।एतत् षष्ट्यासंगुण्यभुक्त्यन्तरेण विभज्यावाप्तं घटिकादिफलम् ४।१६एतत् स्थित्यर्द्धम्। अथ विमर्द्दार्धोदाहरणम्। छादकदलमिदम् ३५।३२ अस्मात् छाद्यार्द्धमिदम् १४।३८।संशोध्य जातम् २०।५४।अस्य कृतीः ४३६।अस्मात् विक्षेपकृतिमिमां २८९संशोध्य जातम् १४७।अस्यमूलम् १२।७ एतत् षष्ट्या संगुण्यभुक्त्यन्तरेण विभज्यावाप्तंघटिकादिफलं १।५।एतत् विमर्द्दार्द्धम्। अधुना स्थित्यर्द्धविमर्द्दार्द्धयोःस्फुटीकरणमाह -
भुक्तिः षष्टिहृता स्थितिविमर्ददलनाड़िकागुणार्केन्द्रोः।
आदावृथमन्ते धनमसकृत् तेनान्यथा पाते ॥ ५ ॥
भुक्तिः षष्ट्याहृता षष्टिहृता स्थितिविमर्ददलनाडिकागुणा च पृथक् पृथक्स्थयोःरवेरिन्दोरवाप्तफलंआदावृथं प्रग्रहणेऊनमित्यर्थः। अन्तेधनंमोक्षे धनमित्यर्थः। एवं विमर्द्दार्द्धागतेन फलेन आदावृणं कृते निमीलनकालो भवतीत्यर्थः। अन्ते धनं कृतेनोन्मीलनकालो भवतीत्यर्थः। एवमसकृत्कृत्वैवं स्थित्यर्द्धविमर्द्दार्द्धेकर्त्तव्ये। अन्यथा पात इति। राहोर्विपरीतं चन्द्रार्काभ्यां धनर्णमिति।
करणम्। अत्रार्कग्रहणमादित्यग्रहणार्थम्। अतएव चन्द्रराह्वोर्भुक्तौस्थित्यर्द्धनाडिकाभिः संगुण्य षष्ट्या विभज्याप्तफले। ततः समलिप्तश्चन्द्रमाः स्वफलेनोनः कार्य्यः। मध्यग्रहणिको राहुः स्वफलेनाधिकः कत्तव्यः। ततस्ताभ्यां चन्द्रराहुभ्यां विक्षेपं कृत्वा तस्य कतिर्मानैक्यार्द्धकृतेर्विशोध्य शेषस्यमूलं षष्टिघ्नं भुक्त्यन्तरेण विभज्यावाप्तं प्रग्रहणस्थित्यर्द्धंभवति। ततः स्थित्यर्द्धेनभूयोऽपि चन्द्रराह्वोर्भुक्तिं संगुण्य षष्ट्या विभज्यावाप्तेन समलिप्तचन्द्रमा ऊनः कार्य्यः। राहुश्चाधिकः कार्य्य। भूयोऽपि ताभ्यां विक्षेपात् पुनः स्थित्यर्द्धम्। तेन स्थित्यर्द्धेनपुनरपि चन्द्रराहूतात्कालिकौकर्त्तव्यौ। एवं भूयोभूयः तावत् कार्य्यंयावत् प्रग्रहणस्थित्यर्द्धंस्थिरं भवति। तौ च चन्द्रराहूप्रग्रहणकालिकौस्फुटौ भवतः। अथ मोक्षः। प्रथमेन स्वफलेन चन्द्रमा अधिकः कार्य्यःराहुश्चोनः कार्य्यः। ततस्ताभ्यांचन्द्रराहुभ्यां विक्षेपः। तस्य कृतिं मानक्यैर्द्धकृतेसंशोध्य यदवशिष्यते तत् षष्टिघ्नंभुक्त्यन्तरेण विभज्यावाप्तं मोक्षस्थित्यर्द्धंभवति। तेन स्थित्यर्द्धेनचन्द्रराहुभुक्ती संगुण्य षष्ट्याविभज्यावाप्तेन फलेन समलिप्तश्चन्द्रमा अधिकः कार्य्यःराहुश्चोनः कार्य्यः। ततस्ताभ्यां चन्द्रराहुभ्यां प्राग्वत् विक्षेपः स्थित्यर्द्धंच। एवं भूयोभूयः स्थित्यर्द्धंतावत् कार्य्यं यावन्मोक्षस्थित्यर्द्धंस्थिरं भवति। तौ च मोक्ष-कालिकौस्फुटौ भवतः। अथ निमौलनं। चन्द्रराह्वोर्भुक्तौनिमीलन-मर्द्दार्द्धेनसंगुण्य षष्ट्याविभज्यावाप्तेस्वफले भवतः। तेन स्वफलेन समलिप्तश्चन्द्रमा ऊनः कार्य्यः। ततस्ताभ्यां विक्षेपः। तस्यकृति मानान्तरार्द्धकृतेःसंशोध्य यदवशिष्यतेतस्यमूलं षष्टिघ्नं भुक्त्यन्तरेणविभज्यावाप्तं फलं निमीलनमार्दार्द्धंभवति। तेन मर्द्दार्द्धेनसमलिप्तिकौचन्द्रराहूतात्कालिकौकार्य्यौ। ततस्ताभ्यां विक्षेपः। तेन पुनरपि विमर्द्दार्द्धम्। एवं तावत् काप्यं यावन् निमीलनमर्द्दार्द्धंस्थिरंभवति। तौ च निमीलनकालिकौभवतः। अथोन्मीलनविमर्द्दार्द्धात् स्वफलेनचन्द्रश्चाधिकः राहुश्चोनःताभ्यांविक्षेपःतस्यकृतिर्मानान्तरार्द्धकृतेःसंशोध्यशेषस्य मूलं षष्टिघ्नंभुक्त्यन्तरेण विभज्यावाप्तं फलं उन्मीलनविमर्द्दार्द्धंभवति। तेन भूयोऽपि चन्द्रराहू तात्कालिकौकृत्वाताभ्यां विक्षेपः। तेन विमर्द्दार्द्धम्। एवं भूयोभूयस्तावत् कार्य्यंयावदुन्मीलनमर्द्दार्द्धंस्थिरं भवति। तौ च उन्मीलनकालिका स्फुटौ भवतः।
अथोदाहरणम्। तद् यथा। चन्द्रराह्वोर्भक्तौ७२३।३०। एते स्थित्यर्द्धेनमध्यमेनानेन ४।१६ संगुण्य षष्ट्याविभज्यावाप्ते फले ५१।२६।०।१०। ततः समलिप्ताश्चन्द्रात् स्वफलं विशोध्य राहोर्दत्वावा प्रग्रहणकालिकौजातौ४।५३।३१।४।१०।१७।आभ्यां विक्षेपः २१।२ अस्य कृतिः ४४०।२४ मानैक्यार्द्धकृतेरस्याः २५१६।४० संशोध्य शेषं २०७६।१६ अस्य मूलमिदं ४५।३२ एतत् षष्ट्यासंगुण्य भुक्त्यन्तरेणावाप्तं घटिकादिफलं तच्चेदम्। ४।६। पुनरप्यनेन स्थित्यर्द्धेनसमलिप्तिकौकृतौ जाताविमौ। ४।५।३३।५८।४।१०।१।३७ आभ्यां विक्षेपः २०।५३।अस्य कृतिः ४३५।२०। मानैक्यार्द्धकतेरस्याः२५१६।४० संशोध्य शेषं २०८१।२० अस्य मूलमिदं ४५।३८ एतत् षष्ट्यासंगुण्य भुक्त्यन्तरेण विभजावाप्तं घटिकादिफलं ४।७ एतद्वितीये कर्म्मणि स्थित्यर्द्धम्अनेन चन्द्रराहूतात्कालिकौजाताविमौ ४।५।३।३।६। ४।१०।१।३७ आभ्यां विक्षेपः २०।२५।२ अस्य कृतिः ४३५।२५ मानैक्यार्द्धकृतेरस्याः२५१६।४० संशोध्य शेषं २०८१।१५ अस्य मूलं ४५।३५ एतत् षष्ट्यासंगुण्यभुक्त्यन्तरेण विभजवावाप्तं घटिकादिफलं ४।७ एतत् प्रग्रहणिकं स्फुटं स्थित्यर्द्धम्। तच्चेदम् ४।२३।* (?) मोक्षकालिकौचन्द्रराहू४।७।१६।१५॥ ४।१०।१।११एवं निमीलन-मर्द्दार्द्धमसकृत् करणेन स्थिरीभूतम्।तच्चेदं०।५८निमीलन-कालिकौचन्द्रराहू४।६।११।४०॥ ४।१०।११।२७। अथ उन्मीलनमर्द्दार्द्धमसकृत् करणेन स्थिरीभूतं तच्चेदम्१।३२ उन्मीलन-कालिकौचन्द्रराहू४।६।३८।०॥४।१०।१।१२॥ अथैतयोः स्थित्यर्द्ध-विमर्द्दर्द्धयोःस्फुटीकृतयोः विनियोगो ब्रह्मगुप्तेन कृतः। तस्मात् व्याख्यायते। पौर्णमास्यन्तंपञ्चसुप्रदेशेषु संस्थाप्यएकस्मात् प्रग्रणिक-स्थित्यर्द्धंविशोध्य प्रग्रहणकालो भवति। अन्यस्मिन्उन्मीलन-मर्द्दार्द्धंदत्वाउन्मीलनकालो भवति। अन्यस्मिन्नुन्मीलन-मर्द्दार्द्धंविशोध्यनिमीलनकालोभवत। अन्यस्मिन्नुन्मीलनमर्द्दार्द्धंदत्वा उन्मीलनकालो भवति। यश्चपौर्णमास्यन्तं स एतन्माधिकस्वित्वर्ध्दम्।मध्यग्रहणकालः। प्रग्रहणमोक्षकालयोर्यदन्तरं स स्थितिकालः। तावत्कालं ग्राह्यमण्डले ग्राहकस्यावस्थानमित्यर्थः। निमीलनोन्मीलनयोर्यदन्तरं स विमर्द्दकालः। तावत्-कालं ग्राह्यमण्डलमदृश्यं भवतीत्यर्थः। प्रग्रहणिकस्फुटस्थित्यर्द्धं४।७ निमीलन-विमर्द्दार्द्धं०।५८ उन्मीलन-विमर्द्दार्द्धं१।२२ मोक्षस्थित्यर्द्धंस्फुटम् ४।२३ एतैर्यथोक्तन्यायेन पौर्णमास्यन्तरमस्तमनादूर्द्धमेतत्१५।२४ संस्कृतं जातं प्रग्रहणनिमीलनमध्योन्मीलन-मोक्षकम् ११।१७॥ १३।२६॥ १५।२४॥ १६।४६॥ १९।४७॥ तथा चोक्तंब्राह्मे -
स्फुटतिथ्यन्ते मध्यं प्रग्रहणं स्थितिदलोनकेऽभ्याधिके ।
मोक्षो निमीलनोन्मीलने विमर्द्दार्द्धहीनयुते ॥ १५ ॥
अधुना इष्टग्रासानयनमाह ।
वीष्टस्थितिदलविक्षेपलिप्तिकावर्गयुतिपदेनोनम् ।
मानैक्यार्द्धंछन्न मध्ये विक्षेपलिप्तोनम् ॥ ६॥
व्याक्यार्थः। प्रग्रहणाद् गते काले अभीष्टमोक्षाद्वाभीष्टकाले साध्यं यस्मिन् काले कर्त्ता इष्टग्रासं कर्त्तुमिच्छति तत् कालंप्रग्रहणस्थित्यर्द्धादपास्य मौक्षिकाहा यच्छिष्टं तद्वीष्टस्थितिदलं भवति। तेन चन्द्रराह्वोर्भुक्तौसंगुण्य षष्ट्याविभज्याप्तेनफलेन चन्द्रमा ऊनः कार्य्यः। प्रग्रहणाद् गते काले राहुश्चाधिकः कार्य्यः।
अथ मोक्षाच्छेषे काल इष्टग्रासः क्रियते तदा स्वफलेन चन्द्रोऽधिकः राहुश्चोनः। एवं यथोक्तेन विधिना तात्कालिकौकृत्वा ताभ्यां विक्षेपः सकोटिः परिकल्प्यलिप्तिकाश्चभुजतो जायन्ते। कास्ता लिप्तिकाः। ब्रह्म गुप्तेन नोक्तं कथमिति। न्यायसिद्धत्वात्। यदानेनाहोरात्रप्रमाणेन ६०षष्टिघटिकेनरविचन्द्रभुक्त्यन्तरं संगुण्य षष्ट्या विभज्यावाप्तलिप्तिकाः सा भुजा भवति। ततो भुजा भवति। ततो भुजावगकोटिवर्गयोर्योगमूलं कर्णो भवति। तेन कर्णेन ग्राह्यग्राहकैक्यार्द्धं ऊनीकत्य यच्छेषं स तात्कालिको ग्रासो भवति। मध्ये विक्षेपलिप्तीनमिति। यथेष्टग्रासकर्णेनोनं मानैकार्द्धंकत्वा मध्यग्रामो भवति।
अथोदाहरणम्। प्रग्रहणान्ते काले इष्टग्रासः क्रियते। तत्रप्रग्रहणस्थित्यर्द्धमिदम् ।४।७। अस्मादभीष्टकालोऽयम् १।० संशोध्य शेषम् ३।७। एतद्वीष्टस्थितिदलम्। अनेन भुक्त्यन्तरमिदम् ६६२।३० संगुण्य षष्ट्या विभज्यावाप्तलिप्तिकाः ३४।२५। एषा भुजा। वीष्टस्थितिदलेन चन्द्रराहूतात्कालिकौजातौइमौ ४।५ ४५।४८॥ ४।१०।३२॥ आभ्यां विक्षेपः२०।० एषा कोटिःअस्या वर्गः ४००। तथा भुजवर्गोऽयम् १८८४।२०अनयोर्योगः २२८४।२०। अस्यमूलम् ३९।४८। एतन्मानैक्यार्द्धादस्मात् ५०।१० विशोध्य शेषम् १०।२२ एव तात्कालिको ग्रासः। एवमन्यत्राप्युदाहरणीयमिति तथा चोक्तं ब्राह्मे -
भुक्त्यन्तरमिष्टोनस्थितिदलघटिकागुणां हृतं षष्ट्या।
बाहुः प्राग्वत् तत्फलहीनयुतैःसूर्य्यशशिपातैः ॥
तात्कालिकविक्षेपः कोटिस्तद्वर्गयुतिपदं कर्णैः।
मानैक्यार्द्धात्कर्मंविशोध्य तात्कालिको ग्रासः ॥ इति ।
अधुना ग्रासतात्कालिकानयनमाह। सब्रह्मगुप्तेनयोऽत्राभिहितः व्याख्यायते। यासां ग्रासलिप्तानां कालःक्रियते ता लिप्ताः ग्राह्यग्राहकमानाद विशोध्य शेषस्य कृतेः मध्यग्रहणिकविक्षेपस्य कृतिं विशोध्य शेषस्य मूलं षष्टिघ्नभुक्त्यन्तरेण विभज्यावाप्तादिफलम्। तेन लिप्तादिफलेन चन्द्रराह्वोर्भुक्तौसंगुण्यषष्ट्याविभज्यावाप्तंफलेन चन्द्रोऽधिकः कार्य्यः। राहुश्चोनः। ततस्ताभ्यां विक्षेपः तस्य कृतिं मानैक्यार्द्धाकृतेःसंशोध्य शेषस्य मूलं षष्टिघ्नंभुक्त्यन्तरेण विभज्यावाप्तंघटिकादिफलं भवति। तेन भूयश्चन्द्रराहूतात्कालिकौताभ्यां विक्षेपः। तस्य कृतिम् इष्टग्रासोनमानैक्यार्द्धकृतेःसंशोध्य शेषस्य मूलं षष्ट्याहृतं भुक्त्यन्तरेण विभज्यावाप्तं घटिकादिफलम्। एवं तावत् कार्य्यंयावत् घटिकादिफलविशेरषंभवति। तच्च प्रग्रहणिकस्फुट-स्थित्यर्द्धादपास्य शेषः कालोभवति तासां ग्रासलिप्तानां ग्रहणादूर्धम्। अथ मोक्षशेषे ग्रासलिप्ताप्रश्नः। तदा मोक्षस्थित्यर्द्धादपास्य यः कालो भवेदिति। तद यथा ग्रासलिप्ता१०।१२ एता मानेक्यार्द्धादस्मात् ५०।१०संशोध्य शेषं ३९।५८ अस्यकृतिः१५८६।२४ अस्माद्विक्षेपकृतिरियं २८९संशोध्य शेषमिदं १३०७।२४ अस्यमूलं ३६।९एतत् षष्ट्यासंगुण्यभुक्त्यन्तरेण विभज्यावाप्तंघटिकाटिफलम् ३।१५ अनेन चन्द्रराह्वोर्भुक्तौसंगण्यषष्ट्याविभज्यावाप्तेफले३९।१०।०।० प्रग्रहणात् गतकालत्वात् प्रश्नस्यस्वफलेन समलिप्तश्चन्द्र ऊन। राहुश्चाधिकः। एवं प्रश्नकालिकौजातौ४।५।४४।१३॥ ४।१०।१।६४॥ आभ्यां विक्षेपः २०।४ अस्य कृतिः ४२०।४० इष्टग्रासोनमानैर्द्धकृतेरस्याः१५९६।२४ संशोध्य शेषस्यमूलं ३४।३३। षष्ट्यासंगुण्य भुक्त्यन्तरेण विभज्यावाप्तं घटिकादिफलम् ३।७ अनेनचन्द्रराहू तात्कातिकौकृतौजातौ ४ ५।०।४९॥ ४।१०।१।३४ आभ्यां विक्षेपवर्गः ४०० इष्टग्रासोनमानैक्यार्द्धकृतेरस्याः१५९६।२४ संशोध्य शेषम् ११९६।२४ अस्य मूलम् ३४।३५ एतत् षष्ट्यासंगुण्य भुक्त्यन्तरेण विभज्यावाप्तंघटिकादिफलं३।७ एतत् स्थिरीभूतं प्रग्रहणस्थित्यर्द्धादस्माद्४।७विशोध्य शेषम् १।० एतावान् कालो दशानांग्रासलिप्तानांपञ्चभागाधिकानामिति। तथा चोक्तंब्राह्मे -
असकृद् ग्रासकलोनप्रमाणयुतिदलकृतेर्वशोध्य कतिम् ।
तात्कालिकविक्षेपस्य शेषस्य मूलं कृतं तिथिवत् ॥
प्रग्रहणस्थित्यर्द्धाद्प्रोह्यप्रग्रहणतांभवेत् कालः ।
मोक्षं विशोध्य मोक्षस्थित्यर्द्धाद्प्राग्भवेन् मोक्षात् ॥ इति ।
अधुना वलनांशानयनमाह -
त्रिज्याप्तचापभागैर्नताक्षजीवावधादुदगयाम्यैः
पूर्व्वापरयोः पूर्व्वात्रिभयुग्ग्राह्यायनांशैश्च ॥ ७ ॥
त्रिज्याप्तं तस्य चापं त्रिज्याप्तचापं तस्य भागाः त्रिज्यप्तचापभागास्तैस्त्रिज्याप्तचापभागैः। न ज्ञायते कुतःत्रिज्यापमाद्यं भवति। नताक्षजीवावधात्। नतेनअक्षज्यायावधः नताक्षजोवावधः। तस्मान्नताक्षजीवावधात्। तैरंशैरुदगयाम्यैः। पूर्व्वापरयोर्यथासंख्यंग्राह्यमण्डलपूर्व्वादिक् वलनं भवतीति। त्रिभयुक् ग्राह्यायनांशैश्चेति। न केवलमक्षांशैर्ग्राह्यमण्डलस्यपूर्व्वावलिता भवतीति यावत् त्रिभयुग् ग्राह्यायनांशैरुत्तरैर्दक्षिणैर्वावलिता भवन्तीति वाक्यार्थः। करणम्। यमिन् काले कर्त्तावलनं चिकीर्षति प्रग्रहण-निमीलनमध्योन्मीलनोमोशेटपासानामन्बतमे तदा तस्मिन्काले गतं ग्राह्यम्। आदित्यग्रहेचादित्वमयाजा चाही पन्द्रमयाजा पउदयास्तलग्ने प्रसाध्य तदन्तरादिनप्रमाणं कृत्वा तदर्द्धंचन्द्रदिनार्द्धंभवति। तस्माच्चन्द्रदिनार्द्धात्नतं ग्राह्यम्। अत्र केचित् चन्द्रग्रहणे अर्द्धरात्रान्नतं गृह्णन्ति। अल्पान्तरत्वात् कर्म्मबहुत्वाच्च। तसाद्यथोक्तेन विधिना नतं गृहीत्वा तस्मादुत्क्रमज्या ग्राह्या॥ पञ्चदश-घटिकाभ्योऽधिकं नतं भवति तस्मात् प्राणीकृतादुत्क्रमज्या कर्त्तव्या। साच स्वदेशाक्षज्याया संगुण्य विजाया विभज्यावाप्तं लिप्तादिफलम्। तस्य ज्याखण्डोन इति चापं कार्य्यम्। तस्य षष्ट्या भागमपहृत्याक्षवलनांशा भवन्ति।
ते च पूर्व्वकपालस्थे ग्राह्ये उत्तराः। अपरकपालस्थे दक्षिणा इति। स्वरात्रार्द्धात्मध्याह्नंयावत् तावत् ग्राह्यस्य पूर्व्वकपालम्। स्वमध्याह्नादारभ्यार्द्धरात्रंयावदपरकपालम्। अथ च वलनम्। तात्कालिकग्रहे राशित्रयं दत्त्वा तस्मात् द्विरसगुणाद्यैःखण्डाः कर्त्तव्याः। तद् यथाप्यत्रोक्तं तथाप्युत्क्रमेण कार्य्या। यस्मादुक्तम् ग्राह्यात् सत्रिगृहात् क्रान्तिरुत्क्रमज्याभिरानयेत्। सा च चन्द्रस्यापि विक्षेपयुतवियुता न कार्य्याविक्षेपस्यपृथक् विनियोगत्वात् परिलेखे यस्मादुक्तम् व्यासार्द्धेवलनज्यामानैक्यार्द्धेपृथक् स्वक्षेपाः इति। यतोऽयनांशानां व्यासार्द्धवृत्ते विनियोगः। विक्षेपस्य पुनः मानैक्यार्द्धवृत्ते तस्मात् विरुद्धमिति चन्द्रमसोयुतवियुता तत्कान्तिर्नकर्त्तव्येति। तावत् संक्रान्तिखण्डकैरेव कृतानां क्रान्तिविकलानां षष्ट्याभागमपहृत्य येऽयनांशाभवन्ति ते च सात्रिभे ग्राह्याः। मेषादिस्थेउत्तरा तुलादिस्थे दक्षिणा इति। तत्रापि केचित् मकरादावुत्तरमयनमिच्छन्ति। कर्कादौ दक्षिणमिति। तन्नेष्यते। विकल्पेन मेषादावुत्तरं तुलादौ दक्षिणमिति। ततस्तेषामयनांशानां अक्षवलनांशानां च एकदिक्त्वे योगः। अन्यदिक्त्वे वियोगः। योगे दिक् ज्ञायते इति। वियोगे योऽधिकस्तस्य या दिक् सा वलनांशानां दिगिति।तावद्भिरंशैर्ग्राह्यमण्डलस्य पूर्व्वादिक् वलिता भवति।
अथोदाहरणम्। चन्द्रप्रग्रहेनतज्येयम्२५।४६ अनया स्वदेशाक्षज्यामिमां ७५।२६संगुण्य जाता १९४२।४० अस्य त्रिज्यया भागे हृतेऽवाप्तं लिप्तादिफलं १२।५७ प्रस्व चापमिदं २९४ अस्य षष्ट्याभागे हृते वलनांशाः ४।५४ एते ग्राह्यस्यपूर्व्वकपालत्वादुत्तरा। प्रग्रहणिको ग्राह्यःसत्रिभः ७५।३३।४६अस्य क्रान्त्यंशादक्षिणगोलत्वात् याम्याः ४।४९।३१ एतेषामक्षवलनांशैःसह भिन्नदिक्त्वाद् वियोगः। क्रान्तिं मूलत्वाद् उत्तरा (?) एते ०।४।२९एतावद्भिरंशैःचन्द्रमण्डलस्य पूर्व्वादिक् उत्तरवलिता भवति। एवं निमीलन-मध्योन्मीलन-मोक्षेष्टग्रासेषु तात्कालिकग्राह्ये तात्कालिकया नतज्ययावलनांशा आनेया इति। एतच्चार्थमुत्तरे सप्रपञ्चं परिलेखोदाहरणं वक्ष्यामि।
इति भट्टमधुसूदनसुत-चतुर्व्वेद-पृथूदकस्वामिकृते
खण्डखाद्यविवरणे चन्द्रग्रहणाध्यायश्चतुर्थः॥
————————
अथ सूर्य्यग्रहणाध्यायः
विष्णुंत्रैलोक्यभर्त्तारं प्रणम्य शिरसा शुचिः।
भाष्यंतत्वार्थबहुलं वक्ष्येऽर्कग्रहणे स्फुटम्॥
अथादित्यग्रहणाध्यायो व्याख्यायते। तत्रादवेवामावस्यायंअर्कचन्द्रावर्द्धराात्रिकौकृत्वा राहुश्च। ततोऽर्कचन्द्राभ्यां सकासात्तिथ्यन्तमुत्पाद्य तस्मिन् तिथ्यन्ते चन्द्रग्रहणोक्तविधिनार्कचन्द्रावसकृत् कर्म्मणा स्फुटौकार्य्यौ। तौच तिथ्यते समलिप्तो भवतः। पातश्चतात्कालिकः कार्य्यः। एवं कृत्वाधुना मध्यग्रहणिकस्फुटतिथ्यन्तार्थंलम्बनघटिकानयनार्थमार्य्याद्वयमाह -
वित्रिभलग्नापक्रमविक्षेपाक्षांशयुतिविशेषोनात्
भत्रितयाज्ज्याछेदस्त्रिज्यार्द्धकृतेः फलेन हृता ॥ १ ॥
वित्रिभलग्नार्कान्तर-जीवा घटिकादिलम्बन सूर्य्ये
ऋणमधिक धनमूने वित्रिभलम्नात्तिथावसकृत् ॥ २ ॥
विगतं त्रिभंवित्रिभम्। वित्रिभं च लग्नं च वित्रिभलम्नं तस्मात् वित्रिभलम्बात्। अपक्रमविक्षेपौवित्रिभलग्नापक्रमविक्षेपौ। अपक्रमविक्षेपौ च अक्षांशाश्चतेऽपक्रमविक्षेपांशाः। तेषां युतिः योगजाः तेषां भिन्नदिक्त्वेसति शोधनीयमित्यर्थः। तेनापक्रमविक्षेपाभ्यांसंयुतिविशेषोणम्। किं तत् भत्रितयम्। राशित्रयमित्यर्थः। तस्मादपक्रमविक्षेपांशयुतिविशेषोनात्। ज्याछेदो भवति। कस्या उच्यते त्रिज्यार्द्धकृतेः। त्रिज्यायाः अर्द्धंत्रिज्यार्द्धंतस्य कृतिः त्रिज्यार्द्धकृतिःतस्याः त्रिज्यार्द्धकृतेःफलेन हृता यदवाप्तं तेन हृता कासौ वित्रिभलग्नार्कान्तरजीवा वित्रिभलग्नार्कयोरन्तरं वित्रिभलग्नार्कान्तरम्। तस्मात् जीवावित्रिभलग्नार्कान्तरजीवा विभक्ता फलेन लब्धंघटिकादिफलं लम्बनम्। ऋणमधिके धनमृणेसति सूर्य्यः ऊनः। वित्रिभलग्नात् कस्मिन्ऋणंधनं वा। तिथौयश्चदशतिथौ इत्यर्थः।
करणम्। समलिप्तादर्कादभुक्तभागान् संगृह्यपञ्चदश्यन्तमिष्टकालं परिकल्प्यतस्मात् क्रान्तिं प्रथमवत् कृत्वा तथा स्वदेशाक्षंसदा दक्षिणमेदिक् युतं कर्त्तव्यं भिन्नदिक् वियुतमेवं कृते यद् भवति तत् युतिविशेषं भवति। अत्र यद्यपि विक्षेपः पठितः तथाप्यत्र नति-कर्म्मणि च कर्त्तव्ये न लम्बन-कर्म्मणि इति सम्प्रदायः।
तथा चोक्तं ब्राह्मे -
लग्नास्त्रिराशिहीनादपक्रमाक्षांशयुतिविशेषोनात् ।
भत्रितयाद् ज्या भक्ता त्रिज्यार्द्धकृतेः फलेन हृता ॥
वित्रिभलग्नार्कान्तरजीवा घटिकादिलम्बनं सूर्य्ये। इति।
पुनरपि कथ्यते। लम्बनकर्म्मणि विक्षेपो न कर्त्तव्य। क्रान्त्यंशानामक्षांशानां च युतिविशेषं कृत्वा तच्च भवति। तान् संशोध्य भागनवतेरित्यर्थः। शेषस्य जीवा कार्य्या। तया त्रिज्यार्द्धकृतिं विभज्यषट्पञ्चाशत् शतानि पञ्चविंशत्यधिकानीत्यर्थः। ५६२५। ताभ्यां विभज्य छेदेन लब्धंफलसंज्ञंभवति। ततो वित्रिभलग्नसमलिप्तार्कयोरन्तरं कृत्वा तस्माज्जीवा कार्य्या। तां फलेन विभज्य घटिकाः तिथ्यन्ताशोध्याः। वित्रिभलग्नादूने समलिप्ते सूर्य्येलम्बनघटिकास्तिथ्यन्तेज्ञेयाः। एवं कृते मध्यमग्रहणिकःस्फुटतिथ्यन्तो भवति। स चासकृत् कर्त्तव्यः। तत् करणम्। लम्बन-घटिकाभिरर्कभुक्तिं संगुण्य षष्ट्या विभज्यावाप्तं घटिकादिफलं सूर्य्येधनमृणं वा कार्य्यम्। यदि तिथ्यन्ते लम्बनघटिका धनंकृताःतत् सूर्य्येऽपि फलं धनम्। अथवा ऋणं कृतं तत् सूर्य्येऽपि फलमृणमिति। ततस्तात्कालिकात् सूर्य्यात् प्राग्वल्लग्नंकृत्वा भत्रयरहित कार्य्यम्। तस्मादपक्रमांशाः। ते स्वाक्षांशैःसह समदिग्योगः। भिन्नदिग्वियोगः। एवं कृते युतिविशेषं भवति। तत् भत्रितयादपास्य शेषस्य ज्या कार्य्या। तया त्रिज्यार्द्धकृतिं विभज्य लब्धफलेन वित्रिभलम्नान्तरं विभज्यघटिकादिफलं लम्बनं लभ्यते। तच्च पञ्चदश्यन्ते लम्बनसंस्कृते सूर्य्येऋणमधिके धनम् इति धनमृणंकृत्वा सूर्य्यंच तात्कालिकं कृत्वा तस्माल्लग्नम्। ततो वित्रिभलग्नेति पुरःसरेण कर्म्मणा लम्बनघटिका आनीय ताभिःपञ्चदश्यन्तमसकृत् संस्करणीयम्। एवं भूगोभूयस्तत्कार्य्यंयावल्लम्बनघटिका अविशेषा भवन्ति। पञ्चदश्यन्तं च लम्बनसंस्कृतं स्थिरं भवति। स च मध्यग्रहणिकतिथ्यन्तो भवति। अत्र केचित् लम्बनघटिकाः पूर्व्वकपाले ऋणमपरकपाले धनमिच्छन्ति पञ्चदश्यन्ते तन्नेष्यते। यम्मादपरकपालेऽपिकिञ्चिन्नते सवितरि बहून् वारान् लम्बनमृणं भवति तथा किञ्चिदूने मध्याह्नेबहून् वारान् लम्बनं धनं भवति। तस्मात् सूर्य्येऽधिक ऋणमूने धनं भवति। सर्व्वदैवं कार्य्यम्। अत्र यदा समलिप्तार्कसमं वित्रिभं भवति तदा लम्बनाभावः। लम्बनाभावे य एव पञ्चदश्यन्तः स एव मध्यग्रहणिकः स्फटतिथ्यन्तः। अथोदाहरणं तद् यथा।
शाकेऽस्मिन् ७८४ अस्मिन्नेव दिने कुरुक्षेत्रे अर्कचन्द्रौ देशान्तरसंस्कृतौस्फुटौ कृत्वा ताभ्यां तिथ्यन्तमुत्पाद्यासकृत्कर्म्मणाऽमावस्यान्तमिदं २२।५०। अस्मिन् काले अर्कचन्द्रौ समलिप्तौ जातौ११।१२।३९।१७॥ ११॥१२॥३९॥१७॥ अस्मादादित्यात् त्रिप्रश्नोक्तविधिना लग्नम् ४।१२।४८।३८ एतत् त्रिराशिरहितं कृत्वा अस्मादपक्रमांशाः १५।५८।१९एते उत्तराः। स्वाक्षांशा एते ३०।१२। एतेषां भिन्नदिक्त्वाद वियोगं कृत्वा जातम् १४।१३ ४१।एते युति विशेषभागाः भागनवतेःसंशोध्य शेषं भागाः ७५।४६।१९एतेषां जीवया अनया त्रिज्यार्द्धकृतिमिमां ५६२५ विभज्यावातफलं ३८।४३ अनेन छेदेन समलिप्तार्कवित्रिभलग्नान्तरज्यामिमां १३०।९विभज्यावाप्तं घटिकादिफलं धनंचच्चेदं ३।६। एतत् पञ्चदश्यन्ते २२।५० सूर्य्यस्य वित्रिभलग्नादूनत्वात् धनं कृत्वा जातः स्फुटतिथ्यन्तः २५।६। एताभिरेव लम्बन-घटिकाभिः सूर्य्यस्य स्फुटभुक्तिमिमां ५९।८ संगुण्यषष्ट्याविभज्यावाप्तं फलं ३४ एतेन फलेन समलिप्तिकोऽर्को जातः११।१२ ४२।२१। अस्मात्त्रिप्रश्नोक्तविधिना लम्बनसंस्कृततिथ्यन्तमिष्टकालं परिकल्प्यलग्नं कृतं ४।२८।३४।२ एतस्माद् राशित्रयमपास्य जातं वित्रिभं १।२८।३४।२ अस्मादपक्रमांशाः२०।१५।२७॥ एते उत्तराअक्षांशेभ्यः एतेभ्यः ३०।१२ संशोध्य शेषं ९।५६।३३ एतन्नवतेः संशोध्य शेषं ८०।३।२७ अस्य जीवा १४६ अनया त्रिज्यार्द्धकृतिं विभज्यावाप्तं फलम् ३८। अनेन वित्रिभलग्नार्कान्तरज्यामिमां१४६ विभज्यावाप्तं घटिकादिलम्बनम् ३।४७ एतत् पञ्चदश्यन्ते धनं कृत्वामध्यग्रहणिकः स्फुटतिथ्यन्तो जातः २६।३७। अस्मिन् काले तात्कालिकोऽर्कः कृतो जातः ११।१२।४३।० अस्मात् त्रिप्रश्नोक्तविधिना स्फुटतिथ्यन्तमिष्टकालं परिकल्प्यलग्नं कृतं ५।२।४।०त्रिराशिहीनं २।२।४।० अस्मात् क्रान्तिरुत्तरा १२।५८। अक्षेणसह वियोगं कृत्वा जातं युतिविशेषं ५५४। एतद् भत्रितयात् संशोध्य शेषम् ८०।४५। अस्यज्या १४७ अनया त्रिज्यार्द्धकृतिं विभज्यावाप्तं फलं ३८ अनेन वित्रिभलग्नार्कान्तरज्यांविभज्यावाप्तं फलं धनं तच्चेदम् ३।४९एतत् पञ्चदश्यन्तेऽस्मिन् २२।५० धनं कृत्वा जातः स्फुटतिथ्यन्तः २६।३९। अस्मिन् कालेऽर्कस्तात्कालिकः एवं तावत् कार्य्यं स्थिरीभूतमेवं पञ्चदश्यन्ते करणगते धनं कृत्वाजातो मध्यग्रहणिकः स्फुटतिथ्यन्तः २६।३९। अनेनार्कचन्द्रराहुभुक्तयः पृथक् संगुण्य षष्ट्याविभज्यावाप्तानि फलानि। ततः स्वफलेनार्कचन्द्रावधिकौकतौराहुश्चोनः। लम्बनस्याधिकत्वात्। अथचेदं ऋणगतंस्यात्तदा स्वफलेनार्कचन्द्रावूनीकार्य्यौ। अस्मिन्नुदाहरणम्। लम्बनं धनगतं तेनार्कचन्द्रावधिकौकृतौ राहुश्चोनः। जाता मध्यग्रहणिकार्कचन्द्रराहवः।
१११२४१२३१११२२७५८५१६४३२१
एवमन्यत्राप्युदाहरणीयम्। अधुना च गत्यानयनमाह -
ये युतिविशेषभागास्तज्ज्यावनतिर्गुणा त्रयोदशभिः ।
खाब्धिहृता विक्षेपं कृत्वा तात्कालिकशशाङ्कात् ॥ ३ ॥
ये इत्यनेन सर्व्वनाम्नागतार्थं परामृशति। असकृत् कर्म्मणि लम्बने क्रियमाणे युतिविशेषभागाः तेषां ज्या सावनतिर्भवति। किम्भूता त्रयोदशगुणाखाब्धिहृताचत्वारिंशता इत्येत्यर्थः। विक्षेपंकृत्वा तात्कालिकशशाङ्कादिति मध्यमग्रहणिकचन्द्रात्। मध्यमग्रहणिकेन पातेन चन्द्रग्रहणोक्तेन विधिनाविक्षेपः कर्त्तव्यइति वाक्यार्थः।
करणम् यस्मिन् वित्रिभेलम्बनं स्थिरीभूतं तस्मादपक्रमांशाःकार्य्याः। तत्रवित्रिभंचन्द्रमसं परिकल्प्यतस्मान् मध्यमग्रहणिकं राहुं विशोध्य शेषस्यजीवा नवमभिःसंगुण्यपञ्चभिर्विभज्यावाप्तंफलंविक्षेपोभवति। ततोऽपक्रमांशानामक्षांशानांच विक्षेपस्यएकदिक्योगःकार्य्यः।
भिन्नदिक् वियोगः एवं कृते युतिविशेषभागाः भवन्ति। तेषां युतिविशेषभागानां त्रिंशत्सनवेति जीवा कार्य्या। सा त्रयोदशभिः संगुण्य चत्वारिंशता विभज्यावाप्तं लिप्तादिफलमवनतिर्भवति। तस्या युतिभागवशेन दक्षिणोत्तरत्वं ज्ञातव्यम्। यदि युतिविशेषभागाः दक्षिणाः तदा दक्षिणा। यदोत्तराः तदोत्तरा। सा च यत्र देशे अष्टाविंशतिभागाः सर्व्वाःस्वाक्षांशाः यस्माद्देशादुत्तरेण ये देशास्तेषु न कदाचिदप्युत्तराभवति। अथ प्रकारान्तरेण अवनतिर्वानीयते। युतिविशेषभागज्यांरविशशिमध्यमभुक्त्यन्तरेण संगुण्याम्बरपञ्चयमाखिभिर्विभज्यावाप्तम्। द्वाविंशतिभिः सार्द्धैःशतैरित्यर्थः२२५०। लब्धं फलं लिप्ता अवनतिर्दक्षिणा। एवमवनतिं प्रसाध्य मध्यग्रहणिकचन्द्रात् मध्यग्रहणिकपातं विशोध्य चन्द्रग्रहणोक्तविधिना विक्षेपः कार्य्यःइति। यस्मादुक्तं विक्षेपं कृत्वा तात्कालिकशशाङ्कादिति।
अथोदाहरणम्। तद यथा। असकृत् कर्म्मणि वित्रिभ लग्नम् २।२।४।४२। अस्मादक्रमांशाः उत्तराः। अस्मादपि चन्द्रविक्षेपः २६१। स्वाक्षांशाः ३०।१२। एतेषां त्रयाणां क्रान्त्यांशाःभिन्नदिशः। अस्मादक्षांश-विक्षेपयुतेः संशोध्य शेषाः युतिविशेषभागाः १३।२७ एतेषां त्रिंशत् सनवेति जीवा कृता ३५। एषा त्रयोदशगुणा जाता ४५५। अस्य चत्वारिंशता भागे हृते फलंलिप्तादि ११।२२ एषावनतिः। युतिविशेषभागाः दक्षिणाः। अथमध्यग्रहणिको चन्द्रपातौ-१११२२७५४५१६४६४१अभ्यां विक्षेपः उत्तरः १५।२८
अधुना विक्षेपस्फुटीकरणं शशिनो निर्द्देशार्थं चाह।
संयोगान्तरमवनतिशशाङ्गविक्षेपयोः समान्यदिशोः ।
स्फुटविक्षेपः शशिवत् स्थित्यर्द्धविमर्द्ददलनाड्यः॥ ४ ॥
संयोगान्तरं वा समान्यदिशोःकर्त्तव्यम्। समान्यदिशोरवनतिशशाङ्कविक्षेपयोः। अवनतिश्चशशाङ्कविक्षेपस्य अवनतिशशाङ्कविक्षेपौतयोरवनतिशयशाङ्कविक्षपयोः। एकदिक् योगो भिन्नदिक् वियोगः। एवं कृते मध्यग्रहणिक-स्फुटविक्षेपो भवति।
करणम् - ये युतिविशेषभागेति यावनतिः। कृत्वा तस्य मध्यग्रहणिकचन्द्रात् मध्यमग्रहणिकपातेन यः कृतो विक्षेपः तेन विक्षेपेन विक्षेपं संशोध्य से ग्रासलिप्ताःसाध्याः। छाद्यार्द्धछादकदलस्य युक्तोनकस्य वर्गाभ्यां विक्षेपकृतिं प्रोह्येतिन्यायेन स्थित्यर्धविमदार्धेप्रसाध्ये। उदाहरणम्। तद् यथा। अवनतिर्दक्षिणा ११।२५। मध्यग्रहणिकविक्षेपश्चोत्तरः १५।२८ अनया भिन्नदिक्त्वाद्वियोगं कृत्वा जातम् ४।३। विक्षेपस्यान्तराधिकत्वात् एष स्फुटविक्षेपो उत्तरः मध्यग्रहणिकः। अनेन प्राग्वत् ग्रासलिप्ताः साध्याः। स्थित्यर्द्धंविमर्द्दार्द्धंचेति। शशिवत् स्थित्यर्द्धविमर्द्दार्द्धदलनाड्यइति। शशिना तुल्यं शशिवत्। एतदुक्तं भवति। तद् यथा स्थित्यर्द्धविमर्द्दार्द्धदलनाड्यःकृताः। एवं सूर्य्यस्यापि कार्य्याइति। तत् करणम्। एकादशदशगुणिते हृते नखैः स्वरजिनैर्गती माने। इत्यर्कचन्द्रयोर्माने प्रसाध्ये। राहुमानेनात्र प्रयोजनं नास्ति। यतोऽर्कः ग्राह्यः। चन्द्रमा ग्राहक इति। ततो विक्षेपं संशोध्य प्रमाणयोगार्द्धतस्तमश्छन्नमिति ग्रासलिप्ताः प्रसाध्याः। ततः सर्व्वग्रहणम् ग्राह्यादधिके खण्डग्रहणमूने। इति खण्डग्रहणं सर्व्वग्रहणं वा परिज्ञातव्यम्। ततः छाद्यार्द्धेन छादकदलस्य युक्तोनकस्य वर्गाभ्यां विक्षेपकृतिं प्रोह्यपदे तिथिवत् स्थितिविमर्द्दार्द्धइति स्थित्यर्द्धविमर्द्दार्द्धे प्रसाध्ये ततो भुक्तिः षष्टिहृता स्थितिविमर्ददलनाडिका गुणार्केन्दोः। आदावृणमन्ते धनमसकृत्तेनान्यथापाते। इत्यसकृत् स्थित्यर्द्धविमर्द्दार्द्धेसाध्ये ते चोपकरणस्थित्यर्द्धविमर्द्दार्द्धेभवतः। तयोः स्पष्टीकरणं वक्ष्यति। प्राग्लग्नमसकृदिति । इष्टग्रासः शशिवत् कार्य्यः।स च स्फुटतिथ्यर्द्धेनविना न शक्यते कर्त्तुम्। तस्मात् स्फुटयोः स्थितिविमर्द्दार्द्धयोरिष्टकाल वक्ष्यति। इति शशिवत् वलनांचशाः। त्रिज्याप्तचापभागैर्नताक्षजीवावधादुदक् याम्यैः। पूर्व्वापरयोः पूर्व्वात्रिभयुक् ग्राह्यायनांशैश्चेति। अथोदाहरणम् - भवदशगुणिते रविधिगती इति रविचन्द्रयोर्माने३२४३३०५७३२४३
विक्षेपं (४।३) संशोध्येति ग्रासलिप्ता२७४७एता ग्राह्यमानादस्यात् ऊना इति। तस्मात् खण्डग्रहणम्। ततः स्थित्यर्द्धविमर्द्दार्द्दे।
क्लादकदलं १५।२९एतत् छाद्यार्द्धमाननानेन १६२१युतं जातं ३१।५० अस्यकृतिः १०।१२।४०। अस्माद् विक्षेपकृतिमिमां १६।२४ संशोध्य शेषं ९९६।१६ अस्माद् मूलमेतत् ३१।३२ षष्ट्यासंगुण्य भुक्त्यन्तरेण विभज्यावाप्तं २।४१ एतत् स्थित्यर्द्धम्। अथ विमर्द्दार्द्धंतद् यथा - छादकदलमिदम् १५।२९अस्मात् छादकदलमिदम् १६।२१ न शुध्यति तस्मात् विमर्द्दार्द्धाभावः। भागे तुपुनः शशिवत् मर्द्दार्द्धंकार्य्यम्। अथ स्थित्यर्द्धमसकृत् क्रियते। भुक्तिःषष्टिहृतेति प्रग्रहणिकं स्थित्यर्द्धंस्थिरीभूतं तच्चेदम् २।४०। मौक्षिकं च स्थिरीभूतं तच्चेदं २।४१ एते त्रिप्रकारेण स्थिरीभूते। विमर्द्दार्द्धेऽप्येवंकर्त्तव्ये।
अत्रोदाहरणं नास्तीति। अधुना स्थित्यर्द्धविमर्द्दार्द्धयोः स्थिरीकरणमन्यत् द्वितीयमाह -
प्राग्वल्लम्बनमसकृत्तिथ्यन्तात् स्थितिदलेन हीनयुतात्
तन्मध्यान्तरयुक्तं स्थितिदलमेवं विमर्द्दार्द्धम्॥ ५ ॥
अधिकोऽधिकान्तरज्यालम्बनमेवं तदृणधनैकत्वे ।
हीने हीनं भेदे तदैक्ययुतमुक्तमन्ते च ॥ ६ ॥
प्राग्वल्लम्बनं कार्य्यम्। तच्चासकृत् कार्य्यं कुत इति चेत् तिथ्यन्तात् किम्भूतात् स्थितिदलेन हीनयुतात्। हीनागीनाच्चकर्त्तव्यं युताश्च। तमध्यान्तरयुक्तं कर्तव्यम्। प्रग्रहणमध्यलम्बने परामृशति। तथा मध्यमोशलम्बने च। तयोर्मध्यंतन्मध्यम्। प्रग्रहणमध्यलम्बनयोर्मध्य इत्यर्थः। तथा मध्यमोशलम्बनयोरित्यर्थः। तेन मध्यान्तरेण युक्तं तन्मध्यान्तरयुक्तंकिं तदुच्यते स्थितिदलम्। यथा स्वकीयेन स्वकीयस्थितिदलं युतंकर्त्तव्यमित्यनेन विमर्द्दार्द्धंयथा स्थितिदलेन हीनयुतात् तिथ्यन्तात् प्रग्रहणमोमोच्चसम्बने कृते एवमपि तिव्वन्तात् विमर्हार्देननो हीनयुतात् निमौसमोबीसने, साध्ये इति। पत्वमान बनसहमित्यायः। किं नित्यमाहोलिय निवामिति भवति। अधिकेऽधिकान्तरवालम्बन एतद्दृखधनैधात्वे इति। अत्राधिकान्तरज्याखम्बन शुद्धे क्रियमाणे लम्बनमुच्यते। प्रग्रहधिकं मौषिवं वा। तेनायंवाक्यार्थः। अधिकेसति। कस्मिन्। अधिकान्तरज्वाज्ञज्यने कुतःमध्यग्रहणलम्बनात्। ऊने प्रग्रहणे सति मौखिके चाधिके सति तदृणधनैकत्वेइति। तयोर्ग्रहणमध्यलम्बनयोर्यदि ऋणैकत्वंस्यात् तदा मध्यमोक्षलम्बनयोश्चधनैकत्वंस्यात्। तदा तन्मध्यान्तरेण युक्तं स्थितिदलमिति प्रागार्य्याभिहितं कार्य्यम्। यस्मादुक्तम्। तन्मध्यान्तरयुक्तंस्थितिदलमेवं विमर्द्दमधिकेऽधिकान्तरनज्यालम्बनमेवं तदृणधणैकत्वे इति। यथोक्तेन धमर्णंज्ञेयमिति। मध्यलम्बनात् प्रग्रहणे हीने ऋणैकत्वे च । तन्मध्यान्तरहीनं स्थितिदलं कार्य्यम्। यस्मादुक्तं हीने हीनमिति। शेषं च धनैक्यन्यायसिद्धत्वात्। तया प्रग्रहणमध्यम्लम्बनयोः धनैकत्वं स्यात्। प्रग्रहणिके श्चोनं यदा भवति। ततः अर्थादिदमान्नंभवति। तन्मध्यान्तरयुक्तं स्थितिदलं कार्य्यम्। ततः प्रग्रहणमध्यलम्बनयोः धनैकवे सति प्रग्रहणिकमधिकं भवति। तदाप्यर्थादिदमापन्नं भवति। तन्मध्यान्तरहीनं स्थितिदलं कार्य्यम्। यदा मध्यमोदलम्बनयोः ऋणैकत्वेऽपि मौक्षिकमधिकं भवति तदापि तन्मध्यान्तरहीनं स्थितिदलमर्थ्या(?)दापद्यते। भेदे तदैक्ययुतमिति। यदा प्रग्रहणिकमध्यलम्बनयोर्भेदः प्रग्रहणिकमृणगतं मध्यग्रहपिकं धनगतं तदा तयोरैक्यंकृत्वा तेन युतं स्थितिदरलंकार्य्यम्। मध्यमोक्षलम्बनयोरपि यदा भेदः स्यात् मध्यग्रहणिकमृणगतं मौक्षिकं च धनगतं तदापि तयोरेक्यंकृत्वातेन युतं स्थितिदलं कार्य्यमिति। उक्तवच्चेति। ते च स्थित्यर्द्धविमर्द्दार्द्धेउक्तवत् काय्ये। असकृत् कर्त्तव्ये इत्यर्थः। यत् प्रग्रहणलम्बने धनर्णविधानं तत् सर्व्वंनिमीलने वा विशेषं कार्य्यम। यच्च मौक्षिकं लम्बनविधानं तत् सर्व्वमुन्मीलने चावशेषं कार्य्यमिति वाक्यार्थः।करणम्। तिथ्यन्तो यः करणागतो द्वितीयो लम्बनसंस्कृतः। तल्लम्बनसंस्कुतात्तिथ्यन्तात् मध्यग्रहणिकादसकृत् स्थिरीभूतं प्रग्रहणिकमुपकरणस्थित्यर्द्धंविशोध्यशेषमिष्टकालंपरिकल्य्यतेन स्थित्यर्द्धेनार्कस्तात्कालिकःकर्त्तव्यः। तसादुक्तभागैः त्रिप्रश्नोक्तविधिनालग्नंकार्य्यम्। तद्वित्रिभं कृत्वातस्माद्वित्रिभलग्नेति न्यायेन सम्बन्धंकार्य्यम्। तद् यदि मध्यग्रहमिकलम्बनाधिकंभवति उभेअपि प्रग्रहणिकमध्यलम्बने ऋणगते भवतः तदा तयोरन्तरं कृत्वानेनान्तरेणस्थितिदलहीनंकार्य्यम्। अथप्रग्रहणिकमध्यलम्बनेधनगते भवतः। प्रग्रहणिकं चलम्बनमृणंभवति। तदा तयोर्मन्मानयोरतरंकृत्वा तदनन्तरं तात्कालिकेस्थितिदले ज्ञेयम् । अथधनकत्वेऽपि प्रग्रहणिकं लम्बनमधिकं भवति। तदा तयोरन्तरं कृत्वा तेनान्तरण तात्कालिकं स्थितिदलं हीनं कार्य्यम्। अथ तयोः प्रग्रहणमध्यलम्बनयोर्भेदो भवति। प्रग्रहणिकमृणगतं मध्यं धनगतं तदा तयोर्लम्बनयोरैक्यं कृत्वा तात्कालिके स्थितिदले ज्ञेयम्। एवं कृते यद् भवति तत् प्रग्रहणिकं स्थितिदलं भवति। तेन स्थितिदलेनार्कस्तात्कालिकः कर्त्तव्यः। स्थितिदलं च लम्बनसंस्कृतात्तिथ्यन्तादपास्य शेषमिष्टकालं परिकल्प्यत्रिप्रश्नोक्तेन विधिना लग्नं कार्य्यम्। तत् वित्रिभं कृत्वा तस्माद्वित्रिभलग्नेति पुनरसकृत् कर्म्मणा लम्बनं कार्य्यम्। तच्च मध्यमग्रहणिकलम्बनेन सहान्तरयोगं कृत्वा तात्कालिके स्थितिदले प्रागुक्तेन विधिना देयं शोध्यं वा। तत् स्फुटतिथ्यान्तरादपास्य पुनरप्यर्कस्तात्कालिकः कर्त्तव्यः। तस्माल्लग्नं वित्रिभं कृत्वा तस्माद् भूयोऽपि वित्रिभलग्नेति पुरःसरकर्म्मणा लम्बनं कार्य्यम्। तन्मध्यग्रहणिकस्थितिदलेन सहान्तरयोगं वा कृत्वा तात्कालिके स्थितिदले यथोक्तेन विधिना धनमृणं वा कार्य्यम्। एवं तावत् कार्य्यम् यावत् स्थित्यर्द्धंस्थिरं भवति। लम्बनं तत् प्रग्रहणिकं स्फुटं स्थित्यर्द्धंभवति। तल्लम्बनसंस्कृतात्तिथ्यन्तरादपास्य प्रग्रहणकालः स्फुटो भवति। तेन प्रग्रहणिकस्फुटतिथ्यर्द्धेनार्कच-न्द्रराहुभुक्तयः संगुण्यष्ष्टया विभज्यावाप्तकलादिफलेनार्कचन्द्रावूनौका-र्य्यौराहुश्चाधिकः कार्य्यः। एवं कृतेऽर्कचन्द्रराहवः प्रग्रहणकालिकाः स्फुटा भवन्ति। तस्मात् प्रग्रहणकालिकाद् वित्रिभलग्नाद् वित्रिभलग्नोपक्रमविक्षेपाक्षांशयुतिविशेषभागाः कार्य्याः। तेभ्यो जीवा त्रयोदशगुणा खाब्धिहृतेत्यवनतिः कार्य्या। तमः प्रग्रहणिकाच्चन्द्रात् प्रग्रहणिकेन पातेन विक्षेपः कार्य्यः। ततस्तयोरेकदिकं योगं भिन्नदिक् वियोगं कृत्वा स्फुटप्रग्रहणिकविक्षेपो भवति। एवं प्रग्रहणे।अथ मोक्षोमध्यग्रहणिकस्फुटतिथ्यन्ते मोक्षोपकरणस्थित्यर्द्धमसकृत् स्थिरीभूतं दत्त्वा तस्मिन् कालेऽर्कंतात्कालिकं कृत्वा स्फुटतिथ्यन्तं मोक्षस्थितिदलेन युतमिष्टकालं परिकल्प्यत्रिप्रश्नोक्तेन विधिना लग्नं कार्य्यम्। तद्वित्रिभंकृत्वा तस्माद्वित्रिभलग्नेति पुरःसरकर्म्मणा लम्बनं कार्य्यम्। तद् यदि मध्यग्रहणिकलम्बनाधिकं भवति उभेअपि धनगते मध्यमोक्षलम्बने भवतः। तदा तयोर्मध्यमोक्षलम्बनयोरन्तरं कृत्वा तात्कालिके स्थितिदले देयम्। अथतयोर्धनैकत्वेऽपि मौखिकमृणं स्यात्। ततस्तयोरन्तरेकृत्वा तेनान्तरेण तात्कालिकं स्थित्यर्द्धंहीनं कार्य्यम्। अथ मोक्षमध्ययोर्लम्बने ऋणगते भवतः। मौक्षिकं चीनं भवति। तदा तन्मध्यान्तरेणस्थितिदलं युतं कार्य्यंतात्कालिकम्। अथ ऋणैकत्वेऽपि मोक्षलम्बनमधिकं भवति मध्यलम्बनात् तदा मध्यान्तरेण हीनं स्थितिदलं कार्य्यम्। अथ तयोर्भेदः स्यात्। मध्यलम्बनमृणगतं मौक्षिकं च धनगतं तदा तयोर्लम्बनयोरैक्यं कृत्वा तात्कालिके स्थितिदले देयम्। एवं कृते मौक्षिकं स्फुटस्थित्यर्द्धंभवति। तेन स्थित्यर्द्धेनार्कस्तात्कालिकः कार्य्यः। तच्च स्फुटतिथ्यन्ते दत्त्वा तदिष्टकालं परिकल्प्यतस्मालग्नं कृत्वा तद्वित्रिभं कृत्वा तस्माद्वित्रिभलग्नेति पुरःसरकर्म्मणा पुनर्लम्बनं कार्यम्। तच्च मध्यलम्बनेन सहान्तरयोगं वा कृत्वा प्रागुक्तेन विधिना धनमृणं वा कार्य्यम्। तेन स्थितिदलेन भूयोऽपि तिथ्यन्तमधिकं कृत्वार्कस्तात्कालिकः कार्य्यः। ततस्तदिष्टकालं परिकल्प्यतस्माद्वित्रिभलग्नेति पुरःसरकर्म्मणालम्बनं कार्य्यम्। तस्य भूयोऽपि मध्यलम्बनेन सहान्सरं योगं वा कृवा यथोक्तेन विधिना तात्कालिके स्थितिदले देयं शोध्यं वा। एवं भूयोभूयस्तावत् कार्य्यंयावत् लम्बनं स्थित्यर्द्धंच स्थिरं भवति। तन्मौक्षिकं स्फुटं स्थित्यर्द्धं भवति।ततस्तेन स्थित्यर्द्धेनार्कचन्द्रराहुभुक्तयः संगुण्य षष्ट्याविभज्यावाप्तस्वफलेनार्कचन्द्रावधिकौकार्य्यौ। राहुश्चोनःकार्य्यः। एवं कृते मौक्षिकाः स्फुटा ग्रहाः भवन्ति । ततो मौक्षिकाद् वित्रिभलग्नादपक्रमविक्षेपांशयुतिविशेषभागाः कार्य्या। तेभ्यो ज्या त्रयोदशगुणा खाब्धिहृतेत्यवनतिर्भवति। ततो मोक्षकालिकाच्चन्द्रात् तात्कालिकेन पातोनचन्द्रजीवेत्यादिना विक्षेपः कार्य्यः। ततस्तयोरेकदिक् योगो भिन्नदिक् वियोगं कृत्वा मोक्षकालिकःस्फुटविक्षेपो भवति। एवं मोक्षम्। अथ निमीलनम् ।स्फुटमध्यग्रहणिकतिथ्यन्तान् निमीलनमर्द्दार्द्धंविशोध्यार्कस्तात्कालिकः कार्य्यः।तद्विमर्द्दार्द्धहींनं स्फुटतिथ्यन्तमिष्टकालं परिकल्प्यत्रिप्रश्नोक्तविधिना लग्नंकार्य्यम्। तद्वित्रिभं कृत्वा तस्माद्वित्रिभलग्नेति पुरःसरकर्म्मालाब्मनंकार्य्यम्। तस्य मध्यलम्बनं कार्य्यम्। तस्य मध्यलम्बनेन सह प्रग्रहणोन विधिना तयोरेक्वान्तरं कृत्वा तेन विमर्र्दार्द्धंसंस्कृत्यैवमसकृद्विमर्द्दार्द्धसंस्कृतं स्पुटं निमीलनकालिकं भवति। तेन विमर्द्दार्द्धेनार्कचन्द्रराहवस्तात्कालिकाः कार्य्या। ततो निमीलनवित्रिभात् यथोक्तेन विधिनावनतिः कार्य्या। तेन निमीलनकालिकेन पातेन विक्षेपः कार्य्यः। तयोरन्तरमैक्यं समान्यदिशोः कृत्वा स्फुटोनिमीलनकालिको विषपो भवति। तद विमर्द्दार्द्धंस्फुटतिथ्यन्तादपास्यनिमीलनकालःस्फुटो भवति। एवं निमीलनमिति। अथोन्मीलने। स्फुटमध्यग्रहणिके तिथ्यन्ते उन्मीलनमर्द्दार्द्धंदत्त्वार्कं चतात्कालिकं कृत्वा तद्विमर्द्दार्द्धयुतस्फुटतिथ्यन्तमिष्टकालंपरिकल्प्यत्रिप्रश्नोक्तविधिनालम्नं कार्य्यम्। तद्वित्रिभम्। तस्माद्वित्रिभलग्नेति पुरःसरकर्म्मणालम्बनं कार्य्यम्। तस्य मध्यमलम्बनेन सहान्तरयोगं वा कृत्वामोक्षलम्बनोक्तेन धनर्णविधानेन उन्मीलनमर्द्दार्द्धेनऋणं वा कार्य्यम्। एवमसकृत्संस्कृतंविमर्द्दार्द्धंउन्मीलनकालिकं स्फुटं भवति। तनार्कचन्द्रराहवस्तात्कालिकाः कार्य्याः। ते उन्मीलनकालिकाः स्फुटाः भवन्ति। ततः स्फुटतिथ्यन्ते तद् विमर्द्दार्द्धंदत्वोन्मीलनकालःस्फुटो भवति। उन्मीलमवित्रिभादवनतिः कार्य्या। उन्मीलनचन्द्राद् विक्षेपः कार्य्यः। तयोः समान्यदिशोर्योगान्तरं वा कृत्वाउन्मीलनविक्षेपः स्फुटो भवति।
अथोदाहरणम्। तद् तथा। मध्यग्रहस्फुटतिथ्यन्तः २६।३९। अस्मात् प्रग्रहणिकमुपकरणस्थित्यर्द्धमिदम्२।४०संशोध्य शेषम् २३।५९। तदिष्टकालंपरिकल्प्यार्कस्तात्कालिको जातः ११।१२।४०।३५। अस्माद् यथोक्तेनविधिना लग्नमिदं ४।१८।३७।३५तद्वित्रिभं १।१८।३७।३५ एतस्मात् क्रान्तिरुत्तरा१०५८ एता अक्षादस्मात् १८।१२। भिन्नदिक्त्वाद्विशोयध्यशेषं७५४ एतद् भत्रयादूनं ४६४६। अस्य ज्या१४६ अनया त्रिज्यार्द्धकृतिं विभज्याप्तं ३८ अनेन वित्रिभलग्नार्कान्तरज्यामिमां १३६विभज्यावाप्तं घटिकादि फलं लम्बनं चेदं ३।३३ तन्मध्यलम्बनादस्माद्३।४९ऊनमुभेऽपि धनागते। तयोरन्तरं कृत्वातात्कालिकेस्थितिदले देशान्तरमिदं ०।१६स्थितिदलेदेयम् २।५२ अनेन स्थित्यर्द्धेनार्कस्तात्कालिकीकृतोजातः। स्फुटतिथ्यन्तं चोनीकृतं जात २३।४२। एतदिष्टकालंपरिकल्प्यत्रिप्रश्नोक्तेन विधिना लग्नंकृतं यावत् स्थिरीभूतं १।१७।२६।०अस्माद्वित्रिभलग्नेति लम्बनं कृत्वाजातं ३।३३अस्य मध्यलग्नेन ३।४९ अनेनान्तरं जातम्०।१६ एतदुभयोरपि धनप्रग्रहणयोर्ऋणत्वाच्चस्थितिदलेऽस्मिन्संयोज्य जातम्। स्कुटग्रणिकंस्थित्यर्द्धं २।५६। एतत् स्थिरीभूतं एतन्मध्यग्रहणिकतिथ्यन्तादस्मात् २६।३९संशोध्य प्रग्रहणकालः स्फुटो जातः ३३।४३। अनेन स्फुटस्तिथ्यर्द्धेनार्कचन्द्रराहवः तात्कालिकीकृताः प्रग्रहणकालिकाः जाताः।
१११२४०९१११२५०३२५१६४३३०
अस्मिन् काले वित्रिभमस्मात् क्रान्तिरुत्तरा जाता १०४० विक्षेपश्चदक्षिणः १२।३५। स्वाक्षांशा ३०।१२। एतेषाम् त्रयाणामपक्रमभिन्दिशं विशोध्य विक्षेपाक्षयुतिविशेषं १००७। एतद्युतिविशेषमस्मात् ज्या ४३। एतां त्रयोदशभिः संगुण्य चत्वारिंशता विभज्यावाप्तं लिप्तादि १४।४। एष्ववनतिर्दक्षिणा। युतिविशेषवशात् प्रग्रहणिकाच्चन्द्रात् प्रग्रहणिकेनानेन विक्षेपमानीतम् १०।१९। अनयोर्भिन्नदिक्त्वात् वियोगं कृत्वा प्रग्रहणिकः स्फुटविक्षेपो जातः ४।६। एष चन्द्रविक्षेपश्चाधिकत्वात् उत्तरपरिलेखे उपयोग्य इति। एवं प्रग्रहणं मोक्षोदाहरणं तद् यथा। मध्यग्रहणिकः स्फुटतिथ्यन्तः २६।२९। अस्मिन् मौक्षिकमुपकरणस्थित्यर्द्धं२।४।२ संयोज्य जातं २८।३३ अस्मिन् कालेऽर्कस्तात्कालिकः कृतो जातः ११।१२।४५।४३। स्थित्यर्द्धयुतं स्फुटतिथ्यन्तमिष्टकालं परिकल्प्यत्रिप्रश्नोक्तेन विधिना लग्नं कृतं जातमिदम् ५।१६।१८।० एतद्वित्रिभं २।१६।१८।०।अस्मात् क्रान्तिरुत्तरा १३९१। एतां स्वाक्षादस्मात् १८।१२ विशोध्यशेषं ४२१। एतन्नवतेःसंशोध्य ज्या १४८। अनया त्रिज्यार्द्धकृतिं विभज्यावाप्तं लिप्तादिफलं तच्चेदम् ३८। अनेन वित्रिभलग्नान्तरज्यामिमां १४९विभज्यावाप्तं लिप्तादिफलं तच्चेदम् १२।४५। एतन्मध्यग्रहणिकलम्बनादस्मात् ३।४९अधिकं द्वे अपि मध्यलम्बने धनगते मोक्षे वाधिकमेतयोर्मध्यान्तरेण स्थितिदलयुक्तमिदं तात्कालिकं जातम् २।४७। एतन्मध्यग्रहणिके तिथ्यन्तेऽस्मिन् २६।२९संयोज्यजातम् २९।१६। अस्मिन्कालेऽर्कस्तात्कालिको जातः।
१११२४५४८ अस्मात् यथोक्तेन विधिना वित्रिभं२।६।३५।०।अस्माद्वित्रिभलग्नेति पुरःसरकार्म्मणालम्बनम् ३।४५। एतत् स्थिरीभूतम्। अस्यमध्यग्रहणिकलम्बनेन ३।४९सहान्तरेणकृतेजातम् ०।५। एतन्मध्यान्तरम्। उभे अपिधनगते मौक्षिकं चाधिकम्। एता एवैतन्मध्यान्तरयुक्तं जातम्। मौक्षिकं स्फुटस्थितिदलमिदं २।४७। अनेनार्कचन्द्रराहवः। तात्कालिकाः मौक्षिका जाताः। इमे -
१११२४५१८१११४३२१५१६४२१४
एतत् स्थित्यर्द्धंमध्यग्रहणिके तिथ्यन्ते संयोज्य जातः स्फुटो मोक्षकालिकतिथ्यन्तः २८।२६। मौक्षिकं वित्रिभम् २।१६।३३।०। अस्मादानीतावनतिर्दक्षिणा मौक्षिकाञ्चन्द्रान्मौक्षिकेन पातेन विक्षेपः कृतो जातः १२।२९अनयोर्भिन्नदिशोर्वियोगे कृतै मौक्षिकः स्फुटविक्षेपो जातः २।४८ एष परिलेखे उपयोग्य इति। एवं मोक्षे। अथ निमीलनोदाहरणम्। विमर्द्दार्द्धस्योदाहरणावाप्तिः। अथ चेद् भवति तदा प्रकरणोक्तेन लम्बनविधानेन विमर्द्दार्द्धं लम्बनेन संस्करणीयमिति। मौक्षिकं लम्बनोक्तेन विधानेनोन्मीलनमर्द्दार्द्धम्। स्वलम्बनेनासकृत्कर्म्मणा संस्करणीयमिति। एवं प्रग्रहणमध्यग्रहणमोक्षकालाः स्फुटा जाताः।
२३४२२६३९२९२६
अस्मिन् दिने दिनप्रमाणम् २८।४२। एतस्मात् मोक्षकालात् २८।२६ संशोध्य शेषम् ०।४४। एतावति काले शेषे सूर्य्यास्तमयात्। तस्माद् ग्रस्तास्तमिदं ग्रहणम्। अत्रेष्टग्रासमुदाहरियामः। तथा चोक्तंब्राह्मे -
प्राग्वल्लम्बनमसकत् तिथ्यन्तात् स्थितिदलेन हीनयुतात्।
अधिकोनं तन्मध्यादृणयोरूनाधिक धनयोः ।
यद्यधिकं स्थित्यर्द्धंतदान्तरेणान्यथोनमृणमेकम् ।
अन्यद् धर्मं तदैक्येनाधिकमेवं विमर्द्दार्द्ध ॥
अथ स्वल्पेन प्रयोगेण स्थित्यर्द्धविमर्द्दार्द्धंस्कुटीक्रियते। तद् यथा—स्फुटतिथ्यन्तादुपकरणस्थित्यर्द्धं संशोध्यार्कं च तात्कालिकं कृत्वा लग्नं कार्य्यम्। तस्माद्वित्रिभलग्नेति पुरःसरकर्म्मणालम्बनं कार्य्यम्। तल्लम्बनं करणागते तिथ्यन्ते तात्कालिकेन स्थित्यर्द्धेनयदृणगतं तदृणंकार्य्यम्। अथधनगतं तदा धनमिति। एतन्मध्यग्रहणोक्तन्यायेन सूर्य्येऋणमधिके धनमूने वित्रिभलग्नादिति। एवमसकृत्कर्म्मणा कार्य्यम्। तस्मिन् करणागते तिथ्यन्ते तात्कालिकतिथ्यन्तस्थित्यर्द्धोनेलम्बनं तावत् कार्य्यंयावत्तिथ्यन्तं स्थिरं भवति। स प्रग्रहणिकः स्फुटतिथ्यन्तोभवति। अथ मोक्षे स्फुटतिथ्यन्ते मौक्षिकानुपकरणस्थित्यर्द्धंसंयोज्य तदिष्टकालं परिकल्प्यार्कं च तात्कालिकं कृत्वा लग्नंकार्य्यम्। तद्वित्रिभं कृत्वा तस्माद्वित्रिभलग्नेतिपुरःसरकर्म्मणा गते तिथ्यन्ते तात्कालिकस्थितिदलयुते ऋणे धने वा मध्यग्रहणोक्तेन विधिनाऽसकृत् कर्म्मणा कार्य्यम्। ऋणमूने धनमधिके वित्रिभलग्ने तिथावसकृत्। इति तावत् कार्य्यं यावल्लम्बनानामविशेषं तिथ्यन्तं च भवति स्फुटो मोक्षकालो भवति। प्रग्रहणमध्यग्रहणतिथ्यन्तयोर्यदन्तरं तत् प्रग्रहणकालिकं स्फुटं स्थित्यर्द्धंभवति। अथ निमीलने स्फुटतिथ्यन्तात् निमीलनमर्द्दार्द्धंविशोध्य तदिष्टकालं परिकल्प्यवित्रिभलग्नं कार्य्यम्। तद्वित्रिभलग्नेति पुरःसरकर्म्मणालम्बनं कार्य्यम् । तत् करणागते तिथ्यन्ते विमर्द्दार्धोने ऋणं धनं वा कार्य्यम्। मध्यग्रहणोक्तेन विधिना ऋणमधिके धनमूने इति तावत् कार्य्यं यावल्लम्बनमविशेषं भवति। मिथ्यच सस्फुटनिमोलनकालो भवति। अथोन्मीलनम्। तद् यथा। मध्यग्रहणतिथ्यन्ते विमार्द्दार्द्धंदत्त्वा तस्मिन् काले लम्बनम्। तं लम्बनं करणागते तिथ्यन्ते विमर्द्दार्द्धयुक्तेन धनमृणं वा कार्य्यम्। तन्मध्यग्रहणोक्तेन विधानेन ऋणमधिके धनमृणे वित्रिभलग्नादिति। एवं तावत् कार्य्यं यावल्लम्बनमविशेषं भवति। तिथ्यन्तश्त। स उन्मीलनकालःस्फुटो भवति। ततो निमीलनमध्यग्रहणतिथ्यतन्तयोर्यदन्तरं तन्निमीलनमध्यग्रहणतिथ्यन्तयोर्यदन्तरं (?) तदुन्मीलन-विमर्द्दार्द्धम्। अथोदाहरणम्। तद् यथा स्फुटतिथ्यन्तः २६।१९अस्मादुपकरणस्थित्यर्द्धमिदम् २।४० संशोध्य शेषं २३।५९अस्मिन् अर्कस्तात्कालिकः ११।१२।४०।०। स्थित्यर्धोनस्फुटतिथ्यन्तमिष्टकालं परिकल्प्यलग्नं कृतम् ४।१८।३७।० तद्वित्रिभं कृत्वा तस्माद्वित्रिभलग्नेति पुरःसर-कर्म्मणालम्बनमानीतम् ३।३२। एतत् धनगतं करणागततिथ्यन्तमिदं २२।५०। एतत्तात्कालिकस्थित्यर्द्धोनं जातम् २०।१०। अस्मिन् धनागतत्वाल्लम्बनमिदम् ३।३२। धनं कृत्वा जातःप्रग्रहणिकस्फुटतिथ्यन्तः२३।४२। अस्मिन् काले पुनरप्यर्कस्तात्कालिको जातः ११।१२।४० अस्माद्वित्रिभलग्नम् १।१७।१२।४८ अस्माद्वित्रिभलग्ने इति कर्म्मणालम्बनम् ३।३२। एतत् करणागते तिथ्यन्तः तात्कालिक-स्थित्यर्द्धेनास्मिन् २०।१०। धनं कृत्वा जातः प्रग्रहणिकस्फुटतिथ्यन्तः २३।४२ एषोऽधिकेऽधिकम्। अन्तरज्यालम्बनविधानेन संस्कृतेन प्रग्रहणिकेन सदृशमिति। ततो मध्यग्रहणिकतिथ्यन्तः २६।३९अनयोरन्तरम् २।५७। एतत् प्रग्रहणिकं स्फुट स्थित्यर्धम्। प्रागुदाहृतेन सदृशमिव। एवमन्यत्राप्युदाहरणीयमिति। निमीलनोन्मीलनमोक्षेष्टग्राश्चेति। एतदुपदेशगम्यं मया भिन्नत्वेन प्रोक्तं मुखेन स्थित्यर्द्धविमर्द्दार्द्धयोःस्फुटीकरणम्। अथ मध्यलम्बनं भवति। तदा प्रग्रहणिकं लम्बनं तन्मध्यान्तरं परिकल्प्यतात्कालिक उपकरणस्थित्यर्द्धे देयम्। तत् स्फुटं प्रग्रहणिकं स्थित्यर्द्धंभवति। अथ मध्यलम्बनाभावो भवति। तदा मोक्षलम्बनं तन्मध्यान्तरं परिकल्प्यतात्कालिके मौक्षिकोपकरणस्थित्यर्द्धेदेयम्। तत् स्फुट प्रग्रहणिकं स्थित्यर्द्धंभवति। अथ मोक्षलम्बनाभावो भवति। तदा मध्यलम्बनं मौक्षिके उपकरणस्थित्यर्द्धेदेयम्। तन्मौक्षिकं स्फटं स्थित्यर्द्धंभवति। विमर्द्दार्द्धेऽप्येवं कर्त्तव्यमिति।
अस्मिन्नार्य्याद्वितयेगणकानामूनो राशिर्भवति। तथा चैतस्त्रिःप्रदर्शितम्। प्रथमं वाक्यार्थ्येन द्वितीयं करणेन तृतीयमुदाहरणेन। मया यत्किञ्चिदयुक्तमुक्तं सत्सर्व्वंगणकैः क्षमणीयमिति।
अथेष्टग्रासोव्याख्यायते। तत् यदा प्रग्रहणाद् गते कालेऽभीष्टग्रासप्रश्नः। तदा सकालः प्रग्रहणिकः स्फटस्थित्यर्द्धाद्विशोध्य शेषं वीष्टस्थितिदलकालो भवति। अथमोक्षादर्वाक् तदा मौक्षिक-स्फुटस्थित्यर्द्धाद्विशोध्य शेषं बीष्टस्थितिदलकालो भवति। तेन वीष्टस्थितिदलकालेन रविशशिनोःभुक्तन्त्यरं संगुण्यषष्ट्याविभज्यावाप्तं भुजलिप्ताभवति। ताश्चतात्कालिकेन स्थित्यर्द्धेनसंगुण्ययदि प्रग्रहणाद् गते काले प्रश्नाः तदा स्फटप्रग्रहणिकेन स्थित्यर्द्धेनविभज्यावाप्ताःस्फटा भवति। अथमोक्षात् शेषकाले प्रश्नः। तदा मौक्षिकेन स्फुटेनस्थित्यर्द्धेनविभज्यावाप्तं तयोर्योगमूलं करण्म्। तेन रविचन्द्रप्रमाणयोगदलमूनं कृत्वातात्कालिकस्फुटग्रासोभवति।
अथोदाहरणम्। तद् यथा। अस्मिन्नेव मोक्षादर्वाक्चतुश्चत्वारिंशच्चषकैःआदित्यास्तमनम्। तस्मादेवं प्रश्नःचतुश्चत्वारिंशच्चषकैःकियान् ग्रासो भविष्यतीति। तद् यथा मोक्षस्तित्यर्द्धमिदं २।४७। अस्मात् प्रस्नचषकान् ४४ संशोध्य शेषं २।३। एतदीष्टस्तितिदलं अनेन भुक्त्यन्तरमिदम् ७०५।गुणितं जातम १४४५।१।५। एतत् षष्ट्याविभज्यावाप्तंलिप्तादिफलं २४।५ एष भुजः शशिवदानीता। एतस्मात्कालिकोपकरणं स्तित्यर्द्धेनानेन २।२४ संगुण्यमोक्षास्थिर्द्धेनानेन २।४७ विभज्यावाप्तं स्फटो भुजः २३।११। ततस्तेन वीष्टस्थितिदलेन ३।२ अर्कचन्द्रराहवः मध्यग्रहणिकास्तात्कालिका जाताः।
१११२४५०१११३५४०५१५४३०
अस्मिन् काले वित्रिभलग्नं २।१२।४५ अस्मादवनतिर्दक्षिणा १०।३ ततस्तात्कालिकात् चन्द्रात् तात्कालिकेन राहुणा विक्षेपः १३२६। एषस्तात्कालिकविक्षेपः अनयोरन्तरे कृते स्फुटविक्षेपः ३।२३। अस्य कृतिः १।१८। भुजवर्गः ५४५। अनयोर्योगः५५६ । अस्य मूलं २३।३५। एष कर्णः मानैक्यार्द्धादस्मात् ३१।५० विशोध्य शेषं ८।१५ एतदग्रासलिप्ता शेषा आदित्यास्तमयकाले। एवमन्यत्राप्युदाहरणीयमिति।
अथ ग्रासात् कालानयनं व्याख्यायते। तत्र यावन्तो ग्रासलिप्ता प्रश्ने भवन्ति तावन्तो रविचन्द्रमानैक्यार्द्धाद्विशोध्य शेषस्य कृतिः कार्य्या। तस्याः कृतेः मध्यग्रहणिकविक्षेपकृतिं विशोध्य शेषस्य पदं ग्राह्यम्। यदि प्रग्रहणयोर्मध्ये प्रश्नः तदा प्रग्रहणिकेन स्फटस्थित्यर्द्धेनसंगुण्यतात्कालिकेन विभजेत्। यदवाप्तं फलं तत् षष्ट्यासंगुण्य भुक्त्यन्तरेण विभज्यावाप्त फलं घटिकादिर्भवति। तेन कालेनार्कचन्द्रराहवः मध्यग्रहणिकास्तात्कालिकाः कार्य्याः। तेभ्यः स्फुटविक्षेपः। तत्र विक्षेपस्य कृतिमिष्टग्रासोनमानैक्यार्द्धकृतेःसंशोध्य शेषमूलं तात्कालिकेन स्थित्यर्द्धेन विभक्तेस्फटस्थित्यर्द्धेन प्रग्रहणिकेन मौक्षिकेन वा हृतमवाप्तं षष्टिघ्नंभुक्त्यन्तरेण विमज्यावाप्तंघटिकादिफलम्। तेन फलेनार्कचन्द्रराहवस्तात्कालिकीकृताः। तेभ्यः स्फुटविक्षेपः। तस्य कृतिः। इष्टग्रासोनमानैक्यार्द्धकृतेःसंशोध्य शेषमृणम्। स्फटस्थित्यर्द्धेनप्रग्रहणिकेन मौक्षिकेन वा हृतं तात्कालिकेन स्थित्यर्द्धेन विभक्तमवाप्तं षष्टिघ्नं भुक्त्यन्तरेण विभज्यावाप्तं घटिकादिफलम्। एवं तावत् कार्य्यंयावत् घटिकादिफलमविशेषं भवति। ततो यदि प्रग्रहणात् गते प्रश्नः ततस्तत् फलं प्रग्रहणिकस्थित्यार्द्धादपास्य प्रश्नग्रासलिप्तानां कालो भवति। अथ मोक्षात् पूर्व्वेण प्रश्नः। तदा मोक्षस्फुटस्थित्यर्द्धादपास्य प्रश्रग्रासलिप्तानां कालो भवति। तद् यथा। अष्टानां ग्रासलिप्तानां सपादानां कियत्काल इति प्रश्नः। इष्टग्रासलिप्ताः ८।१५ एता मानैक्यार्द्धादस्मात् ३१।५० विशोध्य शेषं २३।३५ अस्य कृतिः ५५५।५०। अस्या मध्यग्रहणिकविक्षेपकृतिरियम् १६।२४ विशोध्य शेषम् ५३९।२७। अस्य मूलम् २३।१३। एष प्रश्नो मोक्षादर्वाक् तस्मान्मौक्षिकस्थित्यर्द्धेनानेन २।४७ संगुण्य जातं ५४।३९तात्कालिकेन स्थित्यर्द्धेनानेन २।४२ विभज्यावाप्तम् २३।५६ एतत् षष्ट्यासंगुण्य जातम् १४३६।अस्य भुक्त्यन्तरेणानेन ७०५ भागे हृतेघटिकादिफलं २।२ अनेनार्कचन्द्रराहवो मध्यग्रहणिकास्तात्कालिकीकृताः
१११२४५०१११३५४०५१५४३०
वित्रिभं तात्कालिकम् २।१२।३९।४८ अस्मादवनतिर्दक्षिणा १०।३। तात्कालिकाश्चन्द्राच्च विक्षेपः १३।१६ अनयोरन्तरे कृते स्फुटविक्षेपः ३।२३ एष तात्कालिके विक्षेपअस्य कृतिमिमाम् ११ इष्टग्रासोनमानैक्यार्द्धकृतेरस्याः ५५५ संशोध्य जातम् ५४४ अस्य मूलम् २३।२१ एतत् स्फुटमौक्षिकस्थित्यर्द्धेनानेन २।४७ संगुण्य तात्कालिकेन स्थित्यर्द्धेनानेन २।४४ विभज्यावाप्तम् २४।४ एतत् षष्ट्यासंगुण्य भुक्त्यन्तरेणानेन ७०५ विभज्यावाप्तं घटिकादिफलम्२।३एतत् स्थिरीभूतम्। अनेन मोक्षस्थित्यर्द्धमिदम् २।४७ ऊनीकृतंशेषम् ०।४४ एषोऽष्टानां प्रासलिप्तानां सपादानां मौक्षिकात् पूर्व्वेणगतकालः। एवमत्राप्युदाहरीयमिति। एष च ग्रासकालो यस्मिन् शशिवत् यथोक्ताः। तथा च न सिध्यन्ते किन्त्वनेन प्रकारेण स्फुटौ भवतः। वलनांशाः शशिवत् कार्य्याः। किन्तु विशेषः तत्र चन्द्रमा ग्राह्यः। इह तु पुनरादित्यो ग्राह्यः। शेषं सामान्यमेव। आदित्यग्रहणं चोत्तरे सप्रपञ्चं सपरिलेखं सोदाहरणं व्याख्यास्यामः।
इति भट्टमधुसूदनसुत-चतुर्व्वेदपृथूदकस्वामिकृते
खण्डखाद्यविवरणे सूर्य्यग्रहणाध्यायः पञ्चमः ॥
———————
अथ उदयास्ताधिकारः
नारायणं सुरश्रेष्ठं नत्वाहं प्रभुमव्ययम्
उदयास्तमनाध्याये वक्ष्ये भाष्यं परिस्फुटम् ॥
अथातोउदयास्तमताध्यायो व्याख्यायते। तत्र च ग्रहाणांद्विविधावुदयास्तमयौ। एकः प्रतिदै वसिकः। स च सर्व्वेषां च ग्रहाणां पूर्व्वार्द्धेउदयः पश्चार्द्धेऽस्तमयः। द्वितीयः आदित्योपसर्पणास्तमयः। तत्समीपनिर्गमादुदयः। तत्र स्फुटार्कभुक्तेःसकाशात् यस्य ग्रहस्य स्फटभुक्तिरधिका भवति स शीघ्रगतिः ग्रहः। यस्या्र्कस्फुटभुक्तेःसकाशात् नित्यमधिका तेषां पश्चार्द्धेउदयः पूर्व्वार्द्धेऽस्तमयः। मन्दग्रहस्य तु पूर्व्वार्द्धेउदयः पश्चार्द्धेऽस्तमयः । बुधशुक्रौयदा वक्रगती भवतः तदा तयोरभुक्तः सकाशात् जना स्फुटभुक्तिर्भवति। तन तौ मन्दौ भवतः । तदा तयोः पूर्खाई उदयः पचाईऽस्तमयः। बुधशुको वक्रगती भवतः। तथा तयोरर्कभुक्तेरधिका स्फुटभुक्तिर्भवति। तदा तौ शीघ्रौ। तेन तयोः पश्चार्द्धेउदयः पूर्व्वार्द्धेऽस्तमयः। भौमजीवसौराणां नित्यमर्कस्फुटभुक्तेरूना स्फुटभुक्तिःतेन मन्दा। तस्मात्तेषां नित्यं पूर्व्वार्द्धेउदयः पश्चार्द्धेऽस्तमयः। ततो यस्य ग्रहस्य पूर्व्वार्द्धेउदयोऽस्तमयो वा क्रियते तत्र च दृक्कर्म्मसक्तकर्म्मद्वयंक्रियते। तस्मिंश्च दृक्कर्म्मणिविक्षेपः उपयुज्यते। तदानयनं समागमाध्याये वक्ष्यति। मया चोपयोगित्वादिहैवाभिधीयते। विक्षपानयने च कर्ण उपयुज्यते तस्मात् कर्णानयनमाह।
केन्द्रज्याऽन्त्यफलज्यागुणिता फलजीवया हृता कर्णः।
केन्द्रस्य ज्या केन्द्रज्या सा गुणिता कया उच्यते। अन्त्यफलज्यया अन्त्यं च फलमन्त्यफलम्। परमफलमित्यर्थः। तस्य ज्या अन्त्यफलज्या। फलजीवयाहृत्यकर्णः। फलस्यजीवा फलजीवा। अवाप्तं कर्णोभवतीति वाक्यार्थः।
करणम्। यस्य ग्रहस्य पूर्व्वार्द्धेउदयोऽस्तमयो वा गण्यते सोऽर्कास्तमनान्तिको मध्यमः स्वशीघ्रसहितः कर्त्तव्यः। ततः स्फुटीकार्य्यः। तस्मिन् स्फुटीक्रियमाणे यत् केन्द्रं तस्यजीवा कार्य्या। सा स्वकीयान्त्यफलज्यया संगुणनीया। चतुर्थे कर्म्मणि यत् शीघ्रफलं तस्य जीवा कृत्वा तया विभजेत्। लब्धं लिप्तादि कर्णो भवति। तत्र च सर्व्वेषां ग्रहाणां अन्त्यफलज्या स्थिरा तस्मात्तेषामन्त्यज्याःप्रदर्श्यन्ते। तत्र तावदन्त्यफलानि। कुजबुधजीवसितसौराणां यथाक्रमेणेमानि
कुज११०२०बुध०३१३०जीव०११३०शुक्र११६१०शनि०६२०
एतेभ्यो जीवास्ता यथा। षणवतिलिप्ता द्वाचत्वारिंशद्विलिप्ताः कुजस्यान्त्यफलज्या। चतुःपञ्चाशल्लिप्ताः षड्विंशतिर्विलिप्ता बुधस्यान्त्यफलज्या। एकोनत्रिंशल्लिप्ताः चतुःपञ्चाशल्लिप्ता जीवस्यान्त्यफलज्या। लिप्तानां शतमष्टाधिकं शुक्रान्त्यफलज्या। षोड़शलिप्ता अष्टाविंशतिविलिप्ताः सौरान्त्यफलज्या। अङ्केनापि लिख्यते।
९६४२५८२४२९५४१०८०१६२८
एता भौमादीनां परमशीघ्रफलजीवा। एवं यथा स्वकीयान्त्यफलज्यया स्वकीयचतुर्थकर्म्मणि केन्द्रज्यां संगुण्यचतुर्थशीघ्रस्वफलज्यया विभज्यावाप्तं लिप्तादि स्वान्त्यकर्णो भवति। तद् यथोदाहरणम्। शाकेऽस्मिन् ७८५ मासाः ७ तिथयः १९। अस्मिन् दिने शुक्रस्यपश्चार्द्धोदयो गण्यते। तद् तथा। अर्द्धरात्रिको मध्यमौ देशान्तरसंस्कृतौ शीघ्रशुक्रौ
८९२७२७२२२४६
एतौ पश्चार्द्धत्वादस्तमनान्तिकौमध्यमावेव ८।९।२०।३३॥ ७।२१।४६।३०अस्मिन् काले स्कुटीकृतःशुक्रः। चतुर्थकर्म्मणि केन्द्रम् ०।२८।४६।४९अस्मात् ज्या ७२ चतुर्थकर्म्मणिशीघ्रफलम् ११।५७।४० अस्मात् ज्या १२१।० केन्द्रशेषम् ७२। अन्त्यफलज्या १०८ अनया ज्या गुणिता जाता ७७७६ एताश्चतुर्थफलज्ययानया ३१ विभज्यावाप्तम् २५० एष कर्णः। एवमन्येषामपि ग्रहाणामुदाहरणीयमिति। अथ यदा चक्रार्द्धे चतुर्थकेन्द्रं भवति चक्रे वा तदा कर्णानयनमाह।
त्रिज्यान्त्यफलज्योना चक्रार्द्धेसंयुता चक्रे ॥ १ ॥
त्रिज्यान्त्यफलज्ययाऊना त्रिज्यान्त्यफलज्योना। कदा उच्यते। चक्रार्द्धेशीघ्रकेन्द्रे सति। अन्त्यफलज्यया ऊनः कर्णो भवति। चक्रार्द्धेशीघ्रकेन्द्रे सति अन्त्यफलज्यया युतः कर्णो भवति। इति वाक्यार्थः।
करणम्। ग्रहे स्फुटीक्रियमाणे चतुर्थकर्म्मणि यत् केन्द्रं तस्मिन् राशिद्वादशकं च भवत्यंशादिरहितम्। तदा चतुर्थकर्म्मणि शीघ्रफलस्याप्यभावः। तदाभावे कर्णानयनं कथ्यते। त्रिज्या स्वकीयान्त्यफलज्यया युता कार्य्या चक्रे चतुर्थे केन्द्रे सति स स्वान्त्यकर्णोभवति चक्रान्त्ये। अथ चक्रार्द्धेकेन्द्रे कर्णाः स्थिराः। कुजबुधजीवसितसौराणां तद् यथा। त्रिपञ्चाशल्लिप्ताःअष्टविंशतिविलिप्ताः कुजस्य चक्रार्द्धेऽन्त्यकर्णः। पञ्चनवतिलिप्ताः चतुर्विंशतिविलिप्ता बुधस्य चक्रार्द्धेऽन्त्यकर्णः। लिप्तानां शतंविंशत्यधिकं विलिप्ताः षट् जीवस्यचक्रार्द्धेऽन्त्यकर्णः। द्विचत्वारिंशल्लिप्ताःशुक्रस्य चक्रार्द्धेऽन्त्यकर्णः। लिप्तानां शतं त्रयस्त्रिंशदधिकं द्वात्रिंशद्विलिप्ताः सौरस्य चक्रार्द्धेऽन्त्यकर्णः।
५३२८९५२४१२०६४२०१३३३२
एवं भौमादीनां चक्रार्द्धेऽन्त्यकर्णाःप्रदर्श्यन्ते। लिप्तानां शतद्वयंषट्चत्वारिंशदधिकं द्वाचत्वारिंशद्विलिप्ता भौमस्य चक्रान्तेऽन्यकर्णः। लिप्तानां शतद्वयं चतुरधिकं षड्विंशतिविलिप्ता बुधस्यचक्रान्तेऽन्तकर्णः। लिप्तानां शतमकोनाशीत्यधिकं चतुःपञ्चाशद्विलिप्ता गुरोश्चक्रान्त्यकर्णः। लिप्तानां शतद्वयमष्टपञ्चाशदधिकं शुक्रस्य चक्रान्त्यकर्णः। लिप्तानां शतं षट्षष्ट्याधिकमष्टाविंशतिर्विलिप्ताःशनैश्चरस्य चक्रान्त्यकर्णः।
२४३४२२०४२६१७९५४२५८०१६६२८
एते भौमादीनां चक्रान्त्यकर्णा इति। अथ भौमादीनां पातानयनमाह -
कृतयमवसुरसदशकाः पातांशाः दशगुणाः कुजादीनाम् ।
कृताश्च यमौ च वसवश्च रसाश्च दशकं च कृतयमवसुरसदशकाः एते एव दशगुणाः सन्तः पातांशाः भवन्ति। केषामुच्यते। कुजादीनाम्। कुज आदिर्येषां ते कुजादयः तेषाम्। यथासंख्यं कुजबुधजीवसितसौराणां पातांशाः भवन्ति इति वाक्यार्थः।
करणम्। कृताश्चत्वारो दशगुणाश्चचत्वारिंशत् कुजस्य पातांशाः। यमौ द्वौदशगुणौविंशतिर्बुधस्य पातांशाः। वसवोऽष्टौ दशगुणा अशीतिर्ज्जीवपातांशाः। रसाः षट् दशगुणाः षष्टिः शुक्रस्य पातांशाः। दशदशगुणाः शतं सौरपातांशाः। अंशानां त्रिंशता भागमपहृत्य राश्यादयो भौमादीनां पाताः।
म११००बु०२००वृ२२००शु२००श३१००
अधुना भौमादीनां मध्यविक्षेपमाह ।
नवरविरसार्कमासा विक्षेपकला गुणा दशभिः ॥ २ ॥
नव च रवयश्चरसाश्चार्काश्च कश्चित् मासाश्चनवरविरसार्कमासाः। एते दशगुणाः सन्तः विक्षेपकला भवन्ति। एषां भौमादीनाम्। अन्तत्वात् इति वाक्यार्थः। करणम्। नव दशगुणा नवतिर्भौमस्य मध्यमविक्षेपकलाः रवयो द्वादश दशगुणा विंशत्यधिकं शतं बुधस्य मध्यमविक्षेपकलाः। रसाः षट् दशगुणाः षष्टिर्जीवस्य मध्यमविक्षेपकलाः। अर्का द्वादश दशगुणाः शतं विंशत्यधिकं सितमध्यमविक्षेपकलाः। मासा द्वादश ते दशगुणा विंशत्यधिकं शतं लिप्तानां शनेर्मध्यमविक्षेपः ९०।१२०।६०।१२०।१२०।
एता भौमादीनां मध्यमविक्षेपकलाः। केचित् परमविक्षेपा इति व्याख्याताः। तन्निष्पन्नःकुतः। यदा च मध्यमविक्षेपात् स्वान्त्यकर्णोऽल्पः स्वान्त्यकर्णाश्च समलिप्तपातानां ज्याधिका तदा नित्यमेव स्वमध्यविक्षेपात् सस्फुटविक्षेपो भवति। अस्मात् परमविक्षेपा इत्युक्तम्। मध्यमविक्षेपा इति शोभनमिति।
अधुना स्फुटविक्षेपानयनमाह -
स्व स्व विशोध्य पातं समलिप्तात् सौम्यशुक्रयोः शीघ्रात्
जीवाविक्षेपगुणा हृतान्त्यकर्णेन विक्षेपः ॥ ३ ॥
स्वकीयंस्वकीयं पातं विशोध्य कुतः समलिप्तात् तात्कालिकात्। स्फुटग्रहादित्यर्थः। सौम्यशुक्रयोः शीघ्रात् तात्कालिकात् पातं विशोध्य शेषस्य ज्या विक्षेपगुणा स्वमध्यविक्षेपेण गुणनीयेत्यर्थः। हृता केन उच्यते। अन्त्यकर्णेन यदवाप्तं स्फुटविक्षेपो भवति।
करणम्। भौमजीवसौराणं यदा पूर्व्वेउदयो गण्यते अन्त्यतमस्य। तदार्कोदयकालिकात् स्वकीयं पातं विशोध्य केन्द्रं भवति। अत्र समलिप्तिकग्रहणं तात्कालिकोपलक्षणार्थम्। यस्मात्तात्कालिको ग्रहः समलिप्तशब्देनोच्यते। अथ पश्चार्द्धेकुजगुरुसौराणामस्तमयं गण्यते। तदार्कास्तमनान्तिकात् स्फुटग्रहाच्चस्वीयं पातं विशोध्य केन्द्रं भवति। अथ बुधशुक्रयोः पूर्व्वार्द्धेउदयो वा गण्यते। तदा तयोरर्कोदयकालिकात् शीघ्रात्स्वपातं विशोध्य केन्द्रं भवति। अथ तयोः पश्चार्द्धेउदयोऽस्तमयो वा क्रियते। तदा तयोरर्कास्तमनान्तिकाच्छीघ्रात् स्वपातं विशोध्य केन्द्रं भवति। अन्यत्रापि यत्र कुत्रचित् विक्षेपः क्रियते। कुजगुरुसौराणामन्यतमस्य तात्कालिकस्फुटग्रहात् पातं विशोध्यकेन्द्रं कार्य्यम्। अथ बुधशुक्रयोस्तु तात्कालिकात् शीघ्रात् स्वपातं विशोध्य केन्द्रं कर्त्तव्यमिति। एवं यथोक्तेन विधिना केन्द्र कृत्वा तस्मात् त्रिंशत्मनवेति जीवाभिर्जीवाकार्य्या। मा च स्वमध्यविक्षेपेणगुणनीया तात्कालिकेन स्वान्त्यकर्णेन विभज्यावाप्तं लिप्तादि स्फुटविक्षेपो भवति। स च मेषादिकेन्द्रे उत्तरः। तुलादिकेन्द्रे दक्षिणः। इति।
उदाहरणम्। शुक्रस्य पश्चार्द्धोदयत्वात् शुक्रशीघ्रोऽस्तमनान्तिकोऽयं ८।९।२०अस्मात् शुक्रपातमिमं २।०।०संशोध्य जातम्६।९।२७एतत् केन्द्रम्। अस्मात् ज्या २४।१६ एषा भुक्तमध्यमविक्षेपणानेन १२०संगुण्य स्वान्त्यकर्णेनानेन २५० विभज्यावाप्तंलिप्तादिफलं ११।३८। एष तात्कालिकः स्फुटविक्षेपः। केन्द्रस्य दक्षिणगोलत्वाद् दक्षिणा इति।
अधुना दृक्कर्म्मद्वयस्य प्रथमं दृक्कर्म्म चाह -
विक्षेपसत्रिराशिज्याघातादिन्द्वगाग्निभिर्लब्धकलाः
विक्षेपायनसाम्ये शोध्या भेदे ग्रहे क्षेप्याः ॥ ४ ॥
विक्षेपज्या……कया भण्यते। सत्रिराशिज्यया। सहत्रिराशिज्ययासहत्रिराशिभिर्वर्तत इति सत्रिराशिः। तस्मात् सत्रिराशिज्यातया विक्षेपस्य ज्यातद्वध इत्यर्थः। तस्माद्विक्षेपसत्रिराशिज्याघातात्। इन्द्वगाग्निभिर्लब्धकलाः। इन्दुश्च अगाश्च अग्नयश्च। इन्द्वगाग्नयस्तैरिन्द्वगाग्निभिः लब्धाः कलाः। ताः कला विक्षेपायनसाम्ये शोध्याः। तयोर्विक्षेपायनयोर्यदा भेदः स्यात्तदा क्षेप्याः। क्व भनति स्फुटग्रहे एवं कृते दृक्कर्म्मसंस्कृतो ग्रहो भवति। इति वाक्यार्थः।
करणम्। तात्कालिकं स्फुटग्रहं सन्निभं कृत्वा तस्मात् विंशत्सनवेति जीवाभिर्जीवा कार्य्या।सा तात्कालिकविक्षेपेण संगुण्य इन्द्वगाग्निभिर्विभजेत्। एकसप्तम्याधिकैस्त्रिभिः शतेरित्यर्थः। ३७१। लब्धं लिप्तादिफलं ग्रहे देयं शोध्यं वा कदेति भन्यते। तात्कालिकविक्षेपस्य सत्रिभस्यायनस्य च साम्ये शोध्याः। अदत्तराशित्रयात् स्फुटग्रहात्। भेदे तु अदत्तराशित्रये स्फुटग्रहेलिप्तादिफलं देयम्। अस्य विक्षेपस्य दिक्परिज्ञानंपूर्व्वमेव व्याख्यातम्। सत्रिराशेश्चमेषादावयनमुत्तरं तुलादौदक्षिणमिति। अत्र केचित् व्याचक्षते मकरादावयनमुत्तरं कर्कादौ दक्षिणमिति तदयुक्तम्। यदन्यत्राप्याचार्य्येणोक्तं त्रिभयुग्… स्वायनांशैश्च। तत्राप्ययनामिषादौ सत्रिभे ग्राह्ये उत्तराः। तुलादौदक्षिणा इति। ता विन्यस्य पादोरूपं गत्यर्द्धेवर्द्धतेइति। (?) अयनम् -
अथ चोक्तं ब्राह्मेस्फुटसिद्धान्ते -
विक्षेपसत्रिराशिक्रान्तिवधो व्यासदलहृतो लिप्ताः ।
शोध्यास्तयोः समदिशोर्यदन्यदिशोस्तयोः क्षेप्याः ॥
एवं तर्हि केनैव प्रकारेण मकरादावयनमुत्तरम्। तुलादौ दक्षिणमिति नप्राप्यते। तस्मान्मेषादावयनमुत्तरं तुलादौ दक्षिणमिति। विकल्पेन विकल्पेन सत्रिराशिपरिकल्पनीयम्।
उदाहरणम्। तद् यथा। अर्कास्तमनान्तिकः स्फुटः शुक्रः ७।२२।३१। अस्मिन् राशित्रयं दत्वा जातः सत्रिराशिः १०।२२।३१ एतस्मात् ज्या ९०।२।५० एषा तात्कालिकेन विक्षेपणानेन ११।३८ गुणिता जाता १०५१।१०६४। एता इन्द्वगाग्निभिर्विभज्यावाप्तं २।५० लिप्तादिफलमेतत्। अत्र विक्षेपो दक्षिणः। सत्रिराशेश्च तुलादित्वाद दक्षिणमयनम्। तस्मादिदं फलं तात्कालिक-स्फुटग्रहादत्रिराशेरस्मात् ७।२२।३१ विशोध्य जातः कृते दृक्कर्म्मणि शुक्रः ७।२२।२८। यस्मादुक्तं विक्षेपायनसाम्ये शोध्यमिति।
अधुना द्वितीयदृक्कर्म्मनयनमाह -
विषुवच्छाया-गुणिताद् विक्षेपाद्द्वादशोद्धृतात् सौम्यात् ।
फलमृणधनं धनर्णं याम्यादुदयास्तमयलग्ने ॥ ५ ॥
विषुवच्छायया गुणितो विषुवच्छायागुणितः। कः असौ भणति। विक्षेपः। तस्माद्विषुवच्छायागुणिताद्विक्षेपात् द्वादशोडद्धृतात् सौम्यादुत्तरादित्यर्थः फलमृणं धनं यथासंख्यम्। क्व भणति। उदयास्तमयलग्ने। उदयलग्नं चास्तमयलग्नं च उदयास्तमयलग्नं तस्मिन्नुदयास्तमयलग्ने। उदयलग्ने फलमृणम्। अस्तलग्ने धनमित्यर्थः। अथ चेद् याम्याद्विक्षेपादागतः तत्फलं तदा धनर्णंयथासंख्यम्। उदयास्तलग्ने ऋणमिति। एवं कृते ग्रहस्योदयास्तलग्ने ते भवतः। एतदुक्तं भवति। पूर्व्वार्द्धेस्थिते ग्रहेऽर्कोदयकालिकस्य ग्रहस्योदयलग्नविधानेन दृक्कर्म्मद्वयं कार्य्यम्। तथा पश्चार्द्धेग्रहस्योदयेऽस्तमये वा गण्यमाने नित्यमस्तसग्ने कार्य्यंन कदाचिदप्येवं विकल्पनीयम्। यदा ग्रहस्योदये गण्यमाने उदयलग्नमिति। तद् यथा द्वितीय-दृक्कर्म्मणि क्रियमाणे तात्कालिकं स्फुटविक्षेपं स्वदेशविषुषच्छायया संगुण्य द्वादभिर्विभज्यावाप्तं लिप्तादिफलम्। एकदृक्कर्म्मकृते ग्रहेधनमृणं वा कार्य्यंकदेति। उत्तराद्विक्षेपादागतं फलमुदयलग्नेविचार्य्यमाणे ऋणं कार्य्यम्। अस्तलग्नेधनम्। अथ दक्षिणाद्विक्षेपादागतं फलम्। तथोदयलग्ने धनमस्तलग्ने ऋणमिति। उदयलग्नस्याद्यंनाम। अस्तलग्नस्यान्त्यमिति।
अथोदाहरणम्। तद् यथा। शुक्रस्स गण्यते। तथापि पश्चार्द्धेऽवस्थित-त्वादस्तलग्नोक्तेन विधानेन द्वितीयं दृक्कर्म क्रियते। अस्तमनान्तिके एकदृक्कर्म्मस्फुटे शुक्रेऽस्मिन् ७।२२।२८। तद् यथा। तात्कालिकविक्षेपः ११।२८। स्वदेशविषुवच्छाययानया ७ गुणितो जातः ८१।२६ अस्माद् द्वादशो तात् फलं ६।४० एतद्दक्षिणाद्विक्षेपादागतं अस्तलग्नवत् ग्रहस्य कृतदृक्कर्म्मग्रहादस्मात् विशोध्य जातो दृक्कर्म्मस्फुटशुक्रः ७।२२।२१। एतदस्तलग्नम्। अस्यान्यत् संज्ञेति।
अथ शुक्रादीनां दृश्यादृश्यांशानाह -
शुक्रगुरुज्ञार्किकुजाः कालांशैर्द्व्युत्तरैर्नवभिः ।
दृश्यादृश्याः दृक्कर्म्मणा रवेर्र्द्वादशभिरिन्दुः ॥ ६ ॥
शुको नवभिः कालांशैःरवेर्विप्रकृष्टो दृश्यते। ऊनैर्नदृश्यते। तथा जीवः एकादशभिः कालांशैःरवेर्विप्रकृष्टो दृश्यते। तथा बुधः त्रयोदशभिः कालांशैः रवेर्विप्रकृष्टो दृश्यते। ऊनैर्नदृश्यते। तथा शनिः पञ्चदशभिः कालांशैःरवेर्विप्रकृष्टो दृश्यते। ऊनैर्नदृश्यते। तथा कुजः सप्तदभिः कालांशैःरवेर्विप्रकृष्टो दृश्यते। ऊनैर्नदृश्यते। तथा चन्द्रः रवेर्विप्रकृष्टो द्वादशभिः कालांशैःदृश्यते। ऊनैर्नदृश्यते। य एते बुधशुक्रयोः कालांशाः पठिताः एतैर्दृग्गणितैः किं न भवति कदाचिदपि महदन्तरं न भवति। तथा तयोर्यथादृग्गणितैः किं न भवति। तथा ब्राह्मेण मतेनोत्तरेऽभिधास्याम इति। अङ्केनापि
शु९बृ११बु१३श१५म१७च१२
एतदृश्यादृश्यांशाः शुक्रगुरुज्ञार्किकुजचन्द्रमसां क्रमेणेति।
प्रागृणमाद्यमधिकं पश्चाल्लग्नाद् ग्रहोदयोऽस्तमयः ।
षड् भयुतमन्यमुदयैर्घटिकाः कृत्वोनमधिकसमम् ॥ ७ ॥
प्रागृणंंप्रथममूनम् आद्यं ग्रहोदयं लग्नमित्यर्थः। प्रागुदयं करोति इत्याख्यम् ऊनं ऊनलग्नात् तात्कालिकादर्कादित्यर्थः। अधिकं पश्चात् आदित्यादस्तमयं करोतीत्यर्थः। एवं परिजाते सति यदुदययदूनं स्वोदयैःकृत्वा कालांशाः कार्य्याः। इति।
करणम्। यस्य ग्रहस्य पूर्व्वार्द्धेउदयोऽस्तमयो वा गण्यते स ग्रहोऽर्कोदयकालिको मध्यमः कार्य्यः। ततः स्फुटीकृत्योदयलग्नविधिनादृक्कर्म्मद्वयंकृत्वा ततो निरूप्यार्कः स्वोदयिकः स्फुटः कार्य्यः। उदयलग्नंपरिकल्प्यउदयास्तमयं विचार्य्यते। यदि लग्नात् ग्रहोदयमूनं भवति तदा ग्रहस्य प्रथममुदयो भवति। पश्चादादित्यस्य। यदा तु लग्नात् ग्रहोदयलग्नमधिकं तदा प्रथमादित्योदयो भवति। पश्चाद् ग्रहस्य। अथ पश्चार्द्धेग्रहस्योदयोऽस्तमयो वा क्रियते तदा मध्यमो ग्रहोऽस्तमनान्तिकः कार्य्यः। ततः स्फुटीकृत्यास्तलग्नोक्तेन विधिना दृक्कर्म्मद्वयंकृत्वाऽस्तमनान्तिकं लग्नं भवति। ततो निरूप्यम्। यद्यस्तमनान्तिकलग्नात् ग्रहास्तलग्नमूनं तदा ग्रहस्य पूर्व्वमस्तमयो भवति पश्चादर्कस्य। यदास्तमनान्तिकलग्नात् ग्रहास्तलग्नमधिकं भवति तदा प्रथममर्कस्यास्तमयः पश्चाद् ग्रहस्य। पूर्व्वार्द्धर्कोदयलग्नात् ग्रहोदयं लग्नमूनं भवति। तयोश्चान्तरे दृश्यसमाः कालांशाः उत्पद्यन्ते तदा ग्रहो दृश्यः। यदा पुनरर्कोदयलग्नात् ग्रहोदयद्नमधिकं भवति तदा ग्रहस्य दर्शनं नास्ति।
अथ कालांशानयनं व्याख्यायते। उदयैर्घटिकाः कृत्वोनमसिति समिति (?)। तत्र पूर्व्वार्द्धेऽर्कोदयलग्नसमश्चोदयैर्घटिका इति कालः साध्यः। अथ पश्चार्द्धेऽर्कास्तमनान्तिक-लग्नात् सषड्ग्रहयुता चान्तरं कालःसाध्यः। उदयो यदूनं यदधिकं समं स्वोदयैस्त्रिप्रश्नोक्तेन विधिना कालःसाध्यः। एतदुक्तंभवति। यदा पूर्व्वोक्तोदयकालिकग्रहमुदयलग्नं चैकराशिस्थौ भवतः तदा तयोरन्तरं लिप्तापिण्डीकृत्य यस्मिन् राशावर्कोदयकालिको ग्रहउदयसग्नस्य व्यवस्थितस्तेन खराश्युदयेन संगुण्याष्टादशभिः शतैर्विभज्यावाप्तंचषकादिकालः। ततो यदि भिन्नराशिस्थौभवतः तदा तयोर्यदूनं तस्य भुक्तभागैः। अधिकस्य भुक्तभागैःकालः साध्यः यदा राश्यन्तरितौभवतः तदूनस्याभुक्तचषकाः साध्याः। अधिकस्यभुक्तचषकाः। तेषां योगेऽन्तरराश्यदयचषकाः संयोज्य कालांशाभवन्ति। एवं पश्चार्द्धेकिन्तु शेषः। अस्तमनान्तिके षड्भिः संगुण्यप्राणाःकार्य्याः। य एवं प्राणस्य एव कालघटिका यस्मात् क्षेत्रलिप्ताःसकालैःप्राणाभवतीत्वतः प्राणानां षष्ट्याभागमपहृत्यकालांशाभवन्ति। अथचषकाणां षष्ट्याभागमपहृत्यघटिकाभवन्ति। ताश्च षड्गुणिताःकालांशा भवन्ति। एक एवार्थः तथा चोक्तं ब्राह्मे - अन्तरघटिकाः षड्गुणिताः तैः कालांशैरिति। ततः स्वदृश्यादृश्यांशैःः सह विचारः कार्य्यः। तत उदये विचार्य्यमाणे यस्य स्वदृश्यादृश्यांशेभ्यःकालांशाः ऊनाः तस्योदयो भावो। यस्याधिकास्तस्य वृत्तः। अस्तमये विचार्य्यमाणे यस्यस्वदृश्यादृश्यांशेभ्यः कालांशा अधिका भवन्ति तस्यास्तमयो भावाी। यस्योना तस्य वृत्तः। एवमुदयास्तमयं वा अतीतमेष्यंवा परिज्ञायते स्वदृश्यादृश्यांशानां कालांशानां चान्तर कार्य्यम्। तदन्तरं लिप्तापिण्डं कृत्वार्कस्फुटभुक्तिग्रहस्फुटभुक्त्योरन्तरेण योगेन वा विभजनीयम्। कदेति। ऋजुगतिमाश्रिते ग्रहे भुक्त्यन्तरेण ……योगेन लब्धं दिवसादिकालः। तेन कालैनार्कग्रहौमध्यमौ तात्कालिकौकार्य्यौ। ततस्तस्मिन् काले ग्रहः स्फुटीकार्य्यः। तस्य दृक्कर्म्मद्वयं कार्य्यम्। अर्कश्च तात्कालिकः स्फुटीकार्य्यः। ततस्तयोरन्तरं लिप्ताःपूर्व्वार्द्धेऽर्काक्रान्तराश्यदयचषकैः संगुण्याष्टादशशतैर्विभज्यावाप्तं कालः। अत्रापि यद्येकराशिस्थौ भिन्नराशिस्थौवा भवतः तदा प्रथमवत्। षड्भयुतोनं कृत्वोनमधिकसममिति ततः तस्य चषकाः षड्भिः संगुण्य प्राणीकार्य्याः। प्राणानां षष्ट्या भागमपहृत्य कालांशका भवन्ति। ततः स्वदृश्यादृश्यांशैःसह भूयोऽपि विचारःकार्य्यः। एवं तावत् कार्य्यं यावत् स्वदृश्यादृश्यांशैःसमाः कालांशाभवन्ति। इति यस्मिन् काले समीभूताः समः स्फुट-उदयकालो वा भवति। अन्यत्र वाऽसकत् कर्म्मणि लोकस्य भ्रान्तिर्भवति। अस्य च राशिषट्कं दत्त्त्वाजातमस्तमनान्तिकं तस्माद्विशेषेण व्याख्यायते। तथा पूर्व्वे उदयास्तमयो वा क्रियते। तदाऽर्कसहोदयलग्नान्तरलिप्ता आदित्याक्रान्तराश्युदयेन संगुण्य पूर्व्ववद् विभज्यावाप्तः कालो भवति यद्येकराशिस्थौ। अथ भिन्नराशिस्थौतदा प्रथमवत्। अथ पश्चार्द्धेग्रहस्य उदयोऽस्तमयो वा गण्यते। तदार्कग्रहास्तलग्नान्तरघटिका रविक्रान्तराश्युदयः सप्तमराश्युदयेन संगुण्य पूर्व्ववद् विभज्याप्तकालः यद्येकराशिस्थौ भवतः। अथ भिन्नराशिस्थौ तदा पूर्व्ववत् षड्भयुतौकृत्वा समधिकसममिति ततश्चषकाः षड्भिः संगुण्य पूर्व्ववत् कालांशा इति। एतच्चासत्कर्म्मकर्त्तव्यं प्रथमेन कदाचित् भिन्नराशिस्थौकदाचिद् राश्यन्तरितौ भिन्नराशिस्थौ कदाचित् राश्यान्तररितौभवतः यदा तदा पूर्वववत्।
उदाहरणम्। तद् यथा। अर्कास्तमनान्तिककृतदृक्कर्म्मणि स्फुटः शुक्रः७।२२।२१। अथान्यदिशि इति संज्ञापश्चार्द्धेऽवस्थितत्वात्। यद्यप्यस्योदयो गण्यते। तथाप्यस्तालग्नमेतत् पश्चार्द्धेस्थितत्वात् षड्भयुतमश्चदिगिति वचनात् षड़्भयुतो जातः १।२२।२१ एतत् शुक्रस्यास्ते लग्नम्। अस्तमनान्तिकश्च स्फुटोऽर्कः७।१०।३०।अस्य च राशिषट्कं दत्त्वा जातमस्तलग्नमिदम् १।१०।१०। अत्र विचार्य्यते। अस्तमयलग्नादस्मात् शुक्रस्यास्तमयलग्नमिदम् १।२२।२१ अधिकं तस्मात् पूर्व्वमादित्यास्तमयम् पश्चात्शुक्रस्येति। अनयोश्चान्तरं स्वदृश्यान्तरेभ्योऽधिकाः कालांलाउत्पद्यन्ते तदा दृष्यः एकः उदित इत्यर्थः। एवं तावत् सामान्येन परिज्ञानम् ।
अथ कालांशानयनम्। तद् यथा-अर्कास्यमयलग्नग्रहास्तलग्ने -
११०३०१२२२५
अनयोरेकराशिष्यव्यवस्थितत्वादन्तरम्
११।५५।एतल्लिप्तापिण्डीकृतंजातम् ७१५। एतत् पश्चार्द्धत्वात्। आदित्याक्रान्तराश्यदयात् सप्तमराश्यदयेनानेन २४३ गुणितं जातम् १७३०५४ अस्या अष्टादशभिः शतैर्भागे हृते अवाप्तम् एते चषकाः ९६ षड़्भिः संगुण्य प्राणीकृता जाताः ५७६एताः कालांशघटिकाः। आसां षष्ट्या भागमपहृत्यावाप्तकालायाः ९।३६ एते स्वदृश्यांशेभ्यः एभ्यः ९ अधिकाः । उदयं च विचार्य्यते। तस्मात् शुक्रोदयो जातः। अथ कियान् कालोऽतीतस्येति तद् यथा। कालांशानामेषां ९।३६ स्वदृश्यांशैःसहितैः९ अन्तरे कृते जातं ०।३६।एतल्लिप्तापिण्डीकृतम् ३६।अस्य भुक्त्यन्तरेणानेन १४।२२ पत्र शक्रयोः शुक्रस्यऋजुगतित्वात् भागे हृतेऽवाप्तो दिवसादिकालः २।२८।३६।एतावान् कालः शक्रस्योदितस्य गतः। अनेन कालेन शीघ्रशुकौतात्कालिकौमध्यमौ कार्य्यौ। एवमन्यत्राप्यदाहरणीयमिति।
अथ पूर्व्वोदाहरणम्। तद् यथा - शाकेऽस्मिन् ७८६मासाः ५ तिथिः१अस्मिन् दिने कुरक्षेत्रे देशान्तरकृतौमध्यमौ शीघ्रबृहस्पतीअर्कोदयकालिकौ
४१४१९३२५२२
अस्मिन् जीवः स्फुटीकृतो जातः ४१२२अत्र चतुर्थकर्म्मकेन्द्रम् ०१५१९अतो ज्या चतुर्थे कर्म्मणि शीघ्रफलं २।३२।३६ अस्य ज्या ६।३९। ततः केन्द्रज्येयं।४०।०। अन्त्यफलज्ययानया ३० गुणिता जाता १२००।चतुर्थफलज्ययानया ६।३९विभज्यावाप्तं कर्णः १८१। ततः स्फुटजीवादस्मात् ४।१।२२। स्वपातमिदं २।२०।०संशोध्य शेषमिदं १।११।२२ अतो ज्या ९८।३०। एता मध्यमविक्षेपेणानेन ६० संगुण्यान्त्यकर्णेनानेन १८१ विभज्य फलम् ३२। एषः स्फुटविक्षेपउत्तरः। अस्मिन् काले स्फुटजीवः सत्रिराशिः ७।१।२२ अस्मात् ज्या ७८ एषा स्फुटविक्षेपेणानेन ३२ संगुण्य इन्द्वगाग्निभिर्विभज्यावाप्तं फलं ४।३७ लिप्तादि चैतत्। एतद्दत्तराशित्रये ग्रहे दत्तम् विक्षेपायनभिन्नदिक्त्वात्। एवं कृतदृक्कर्म्मणो जीवाद्विशोध्य जातो द्वित्रिकर्म्मस्फुटो गुरुः ४।१।१४। एतदुदयलग्नं पूर्व्वार्द्धेव्यवस्थितत्वात् जीवस्याद्यं नाम। अत्र च काल औदयिकोऽर्कस्फुटः ४।१२।२९। असाद् औयिकार्कात् आद्याख्यमिदम् ४।१।१४ ऊनं तस्मात् प्रथमं जीवोदयः। पश्चादर्कस्येति। अनयोरन्तरात् कालांशाः। स्वदृश्यादृश्यांशेभ्योऽधिका उत्पद्यन्ते। अतो दृश्यो जीव उदित इत्यर्थः। अथ कालांशा आनीयन्ते। तद् यथा। ग्रहस्योदयलग्नमाद्यसंज्ञमिदम् ४।१।१४ अर्कस्यौदयिकः स्फुःः ४।१२।२९अनयोरत्तरम् ०।११।१५। एतल्लिप्तापिण्डीकृत्य अर्काक्रान्तराश्युदयेनानेन ३५६ संगुण्याष्टादशशतैर्विभज्यावाप्तम् १३३ एते चषकाः षड़्भिः संगुण्य षष्ट्याविभज्यावाप्तं कालांशाः १३।१ एतेषां स्वदृश्यादृश्यांशैरेतैः११। सहान्तरे कृते जातम् २।१८ एतल्लिप्तापिण्डीकृतं जातम् १३८ अस्य भुक्त्यन्तरेणानेन रविजीवयोर्भागे हृते दिवसादिकालः। अनेन कालेन शीघ्रजीवौमध्यमौ तात्कालिकौकार्य्यौ। एवमन्यत्रापि स्वदेशान्तरेण स्वविषुवच्छायया स्वोदयैश्चगणकैरुदाहरणीयमिति। एवमादित्यसन्निकर्षविप्रकर्षाभ्यामुदयास्तमयो व्याख्यातः। अधुना प्रतिदैवसिकं व्याख्यायते। यत्र यस्य ग्रहस्य प्रतिदैवसिकोदयः। पूर्व्वार्द्धेक्रियते स ग्रहः अर्कोदयकालिकःस्फुटः कार्य्यः। तत्रत्रिप्रश्नोक्तेनविधिना तयोरन्तरात् कालःसाध्यः। ऊनमधिकसममिति। ततो यस्यौदयिकार्कात् ग्रहोदयसग्नमूनं भवति तदा तावता कालेन राशिशेषेण ग्रहस्योदयः। अथोदयकालिकादर्कात्ग्रहोदयलग्नमधिकं भवति। तदा तावति काले दिवसगते ग्रहोदयो भवति। एवं कालं परिज्ञायतस्मिन् काले अर्कग्रहौस्फुटीकार्य्यौ।तावत्कालिकौकृवा ग्रहस्य दृक्कर्म्मद्वयं कृत्वा तयोरन्तरात् कालः। एतैस्तावत् कार्य्यंयावत् कालो भवति। म स्फुटकालो रात्रिशेषे दिवसगते च वा भवति । अथ पश्चार्द्धेग्रहस्यप्रतिदैवसिकस्यास्तमयः क्रियते। तदार्कग्रहावादित्यास्तमनिकौस्फुटौ कार्य्यौ। ततो ग्रहस्यास्तलग्नोक्तेनविधिना दृक्कर्म्मद्वयंकृत्वा षड़्भयुतं कार्य्यम्। अर्कस्य षड़्भयुतं कृत्वास्तमनलग्नं भवति। ततस्तयोरन्तरे त्रिप्रश्नोक्तेन विधिना कालः कार्य्यः। पड़्भयुतं कार्य्यमर्कस्य षड्भयुतादस्तमनान्तकात्सूर्य्याद्यदि ग्रहास्तलग्नमधिकं तदा तावति काले रात्रिगते ग्रहस्यास्तमयो भवति। अथ षड़्भयुतात् सूर्य्यादयस्तमनान्तिकात् ग्रहास्तलग्नमूलं भवति। तदा दिवाशेषेण कालेन ग्रहस्यास्तमयोऽतीतः। एवं कालं परिज्ञाय तस्मिन् कालेऽर्कग्रहौस्फुटौ कत्वा तयोरन्तरात् कालः पुनरपि साध्यः। एवं तावत् कार्य्यंयावत् कालोऽविशेषो भवति। तावत् काले दिवसशेषे भवति। तावत् काले दिनशेषे रात्रिगते वा ग्रहस्यास्तमयो भवति स्फुटः। एवं ग्रहस्यास्तलग्नं प्रसाध्यान्तरे त्रिप्रश्नोक्तेनविधिना कालः साध्यः। ग्रहोदयलग्नमर्कं परिकल्प्यततोऽनुपातवर्द्धितेऽर्के लग्नसमस्वोदयैर्घटिका इति घटिकाःसाध्याः। तावत्प्रमाणं तस्मिन् दिने ग्रहस्यस्वदिनं भवति। एवं ग्रहदिनप्रमाणंकार्य्यम्। एतत् षष्टिघटिकाभ्यो विशोध्य शेषं रात्रिप्रमाभवति। एवमिष्टग्रहस्य रात्रिदिनप्रमाणे भवतः।
अथ पौर्णमास्यां चन्द्रोदयो व्याख्यायते। तत्रार्कचन्द्रावादित्यास्तमनान्तिकौस्फुटौ कार्य्यौ। ततः स्वोदय-लग्नोक्तेनविधिना दृक्कर्म्मद्वयं कार्य्यम्। पूर्व्वार्द्धेस्थितत्वाद् अर्काश्चस्तमनान्तिकःषड़्भयुतः कार्य्यःचन्द्रमाः। आद्यसंज्ञत्वात् षड्भयुतमन्यत् क्रियते नाद्यम्। अतश्चन्द्रमाः षड़्भयुतोन कार्य्यःततस्तयोरन्तरात् कालः ऊनमधिकसमिति। प्रकारेण षड्भयुतात् सूर्य्यात् यदि चन्द्रोदयलग्नमूनं भवति तदा तावत्काेनदिनशेषेणचन्द्रस्योदयः। अथ चेत् षड्भयुतात् सूर्य्यात् चन्द्रोदय-लग्नमधिकं भवति तदा तारुकाले रात्रिगते चन्द्रस्योदयो भविषति। तत् तेन कालेनार्कचन्द्रौतात्कालिकौकार्य्यौ। चन्द्रमसःउदयलग्नोक्तेन विधिना दृक्कर्म्मद्वयंकार्य्यम्। सूर्य्यश्च षड्भयुतः। ततस्तयोरन्तरात् कालः एवं तावत् कार्य्यंयावत् कालोऽविशेषो भवति। स्फुटश्चन्द्रोदयकालः दिनशेषे रात्रिगते वा भवति। एतत्प्रग्रहण-मोक्षादिषूपयोग्यमिति प्रतिदैवसिकमुदाहरणम्। तद् यथा -चन्द्रस्यास्तमनं प्रतिदैवसिकम्।
शाकः ७८६। तिथि १ अस्मिन् चैत्रशुद्धिद्वितीयायां कियता कालेनार्कस्यास्तमितस्य चन्द्रास्तमयो भविष्यतीति प्रश्नः। तद् यथा - अस्तमनान्तिकौरविचन्द्रौ मध्यमौ यथा।
१११९५३५४११०२२३६चन्द्रोच्चं च४४२२३६अस्मिन् काले
अर्कचन्द्रराहवः स्फुटाः। दृक्कर्म्मस्फुटौलग्नविधानिन पश्चार्द्धास्तमनत्वात्
११२२१०५२०१४५५२४४७३८१०चन्द्रषड्भयुक्तः।
अन्यद् वा जातः६१४८४अधिकत्वात् पूर्व्वमादित्यास्तमयः पश्चाच्चन्द्रस्येति परिज्ञातम्।
इति चतुर्व्वेद-भट्टमधुसूदनसुत-पृथूदकस्वामिकृते खण्डखाद्यविवरणे
उदयास्तमयाध्यायः षष्ठः ।
———————
अथ चन्द्रशृङ्गोन्नत्यध्यायः
तस्य भानोः समुत्पन्नोब्रह्मा लोक-पितामहः ।
तं प्रणम्यारभेभाष्यं चन्द्रगृङ्गोन्नतावहम् ॥
अथातः शृङ्गोन्नत्यध्यायो व्याख्यायते। तत्र तावत् चन्द्रमसः कथं शुक्लत्वस्य वृद्धिर्वा हानिर्वा। तत्र केचिदाहुः। यथा दक्षस्याष्टाविंशतिर्दुहितरः कृत्तिकाद्यास्तत्र रोहिण्यामवासक्तस्य कोपः। तस्य शापाच्चैनं किलक्षयः प्राविवेश, तस्य क्षयं दृष्ट्वोषधिभिर्भयभोताभिः सोमस्त्यादक्ष (?)… प्रसादितः। तेनाभिवर्द्धते शौक्त्यंशनैः शनैः पक्ष (?) क्षीयत इति। एवं दक्षशापात् केचिदाहुरिन्दोः क्षयवृद्धीइति। तन्नेष्यते। यदि शापात् सितस्य हानिर्वृद्धिर्वा ज्ञायते सत् कथं गणितेन अस्मात् प्रमितिविषये गणितस्यावतारोभवति। अयं तु प्रमितिविषयो न भवति। यस्मात्पर्वंचन्द्रमसःयोऽयं (?) तस्माद्दक्षशापात् क्षयोवृद्धिर्नभवति। यस्मात् प्रमितिविषये गणितमिति। अपरेइत्याहुः रविकक्षाया उपरि चन्द्रकक्षा तदपि नेष्यते। यद्युपरि चन्द्रमा भवेत् तदा तस्य भूदृश्यमर्द्धंनित्यमेव शुक्लंस्यात्। नित्यमेवार्ककरनिकरविच्छरितत्वात्। तस्मादयमपि न भवति। अथ यथास्य क्षयवृद्धीततो भण्यते। अर्वकक्षा चन्द्रमसोऽधो वर्तते (?)। तद्भवति यदा यस्मिन्नेव भूवृत्तभागेऽ……र्को भवति तस्मिन्नेव यदा शथी भवति तदा इन्दोरर्ककक्षाभिः मुखं सर्व्वशुक्लं भवति। अर्कस्यासन्नत्वात् (?)। कुम्भस्येवातपेनोर्द्धभागः। अर्द्धभागानुपृष्ठे कृणं भवति। एवं भूदृश्यममावास्यायां चन्द्रमसः कृणं भवतीति। अतो न दृश्यते चन्द्रमाः। ततः क्रमात् यथाऽर्कतलात् विप्रकृष्यते तस्मिन् दृश्योऽप्यार्द्धविप्रकर्षक्रमेणार्करश्मिपातो भवति। तेन विप्रकर्षक्रमेणास्माकं सितवृद्धिश्चन्द्रमसि दृश्यते। ततोराशिषट्कान्तरितोऽर्कात् भूवृत्तादपरभागसथःपूर्णचन्द्रो दृश्यते। ततः परं क्रमेणयथार्कस्य सन्निकर्षमुपयाति तथास्यकृणे वृद्धिर्भवति। यावदमावास्येति। तत्र केचिदाहुर्यथा कुतो रात्रावर्करश्मयः। अत्रोच्यते। रात्रावस्माकं भूवृत्तान्तरिताऽर्का न दृश्यते। यत्रच प्रदेशे शशी तत्रच भूवृत्तविप्रकृष्टो दृश्यतेएवेत्यम्बुमयस्य चन्द्रगोलकस्यार्करश्मिवशेन शुक्रता भवति। न केवलं चन्द्रमसो यावत् सर्व्वेषामपि ग्रहाणां नक्षत्राणां चार्करश्मित्वेन शुक्लताभवतीति। तथा च यस्यां दिश्यर्कक्रान्तिवशेन चन्द्रो भवति ततः तस्यां दिशि चन्द्रमसः शृङ्गोन्नतिर्भवतीति सितपक्षान्ते ऊर्द्धमर्द्धमादित्याभिमुखं वा दीप्यते। प्रागर्द्धसितपक्षान्तेऽर्काभिमुखत्वाद् दीप्यते। अर्कचन्द्रयोर्गतिवशेन शृङ्गोन्नतिरुत्पद्यते इति। अथ यद्यर्करश्मिवशेन चन्द्रमसः शुक्लता भवति ततः शुक्लतैव भवतु कथं च लोकमुद्योतते। अत्रोच्यते। एवं प्रादर्श आतपकृतोऽर्करश्मिवशात् तत्रस्थमपि गृहाभ्यन्तरं समन्तात् प्रकटीकरोति एवमपिचन्द्रमस्यम्बुमये गोलकेऽर्करश्मयो जगत् सर्व्वमुद्योतयन्ति। तथा चाचार्य्यवराहमिहरः -
नित्यमधःस्थस्येन्दोर्भातिर्भानोः सितं भवत्यर्द्धम् ।
स्वच्छाययान्यदसितं कुम्भस्येवातपस्थस्य ।
मलिलमये शशिनि रवेर्दीधितया मूर्छितास्तमो नैशम् ।
क्षपयन्ति दर्पणोदरनिहिता इव मन्दिरस्यान्तः ॥
त्यजतोऽर्कतलं शशिनः पञ्चादवलम्बते यथा शौक्ल्यम् ।
दिनकरवशात्तथेन्दोः प्रकाशतेऽधः प्रभृत्युदयः ॥
प्रतिदिवसमेवमर्कात् स्थानविशेषेण शोक्ल्यपरिवृद्धिः।
भवति शशिनोऽपराह्णे प्रश्चाद्भागे घटस्येव ॥ ४ ॥
तत्रादावेव चन्द्रचरदलानयनमाह –
गुणखाद्रिशराग्निशरापक्षनखैःशोधिताः शशिकान्त्या।
चरखण्डानि च तद्वत् क्रमोत्क्रमात् पिण्डिताश्चान्द्रम् ॥ १ ॥
वाक्यार्थः - गुणाश्च खं चाद्रयश्च गुणखाद्रयःशराश्चअग्नयश्चशराश्चशराग्निशराः। पक्षौच नखाश्चपक्षनखाः। एतैर्यथाक्रमेव शोधिताः। शशिक्रान्त्याशशिनः क्रान्तिः मणिकान्तिः तया शशिक्रान्त्या। यथासंख्यं
त्रिष्वपि त्रीणि खण्डानि लभ्यन्ते। मेषवृषमिथुनसम्बन्धोनीत्यर्थः। न केवलं क्रमेण यावत् क्रमाधिकमुत्क्रमेण शोधनीया चरखण्डानि तद्वल्लभ्यन्ते इति। तएव पिण्डिता एकीकृत्यइत्यर्थः। चन्द्रस्येदं चान्द्रम। किम्भूतं चरदलमिति वाक्यार्थः।
करणम् - यस्मिन् काले कर्त्ताशृङ्गोन्नतिंकर्त्तुमिच्छति तस्मिन् काले तेन मध्यमार्कचन्द्रपातास्तात्कालिकाः कार्य्याः। अर्कचन्द्रौस्फुटौ कार्य्यौ। चन्द्राश्च द्विरसगुणाद्यैः खण्डैस्ततक्रान्तिः कार्य्याः। तात्कालिकाच्चन्द्रात् तात्कालिकेन पातेन च विक्षेपः कार्य्यः। ततस्तयोरेकदिग्योगो भिन्नदिग्वियोगः। चन्द्रमसः स्वक्रान्तिर्भवति। योगे दिक् ज्ञायते एव वियोगे योऽधिकस्तस्य या दिक् सैव चन्द्रगोलस्येति। एवं चन्द्रमसः स्वक्रान्तिः। ततस्तस्याः गुणखाद्रयः शोध्याः। त्र्यधिकानि सप्तशतानि इत्यर्थः। यदा न शुध्यन्ते तदा चन्द्रक्रान्तिः स्वदेशमेषचरखण्डकैःसंगुण्य गुणखाद्रिभिः विभज्यावाप्तं यत् तत् स्वदेशचरदलं भवति। अथ चन्द्रकान्तेर्गुणखाद्रयःशुध्यन्ते । ततः परं शराग्निशरा न शुध्यन्ते। पञ्चशतानि पञ्चत्रिंशदधिकानीत्यर्थः। ततः गुणखाद्यूनां चन्द्रक्रान्तिं स्वदेशवृषचरखण्डेन संगुण्य शराग्निशरैर्विभज्यावाप्तं तत्र मेषचरदलचषकैः क्षिप्त्वाचन्द्रचरदलं भवति।
अथ चन्द्रक्रान्तेर्गुणखाद्रयःशराग्निशराश्चशुध्यन्ते ततः परं पक्षनखा न शुध्यन्ते। द्व्यधिकं शतद्वयमित्यर्थः। तदा चन्द्रक्रान्तिं गुणखाद्रिशराग्निशरोनां स्वदेशमिथुनचरदलखण्डेन संगुण्य पक्षनखैर्विभज्यावाप्तं मेषवृषचरदलयोगे संयोज्यचन्द्रमसः चरदलं भवति। अथ चन्द्रक्रान्तेर्गुणखाद्रिशराग्निशराः पक्षनखाश्चशुध्यन्ते क्रमेणततः परं तेषु उत्क्रमेण पक्षनखाश्च न शुध्यन्ते तदा चन्द्रक्रान्तिं गुणखाद्रिशराग्निशरापक्षनखोनां स्वदेशमिथुनचरखण्डकयोगे संयोज्य शशिनश्चरदलं भवति।
अथ चक्रकान्तेःगुणखाद्रिशराग्निशराः पक्षनखाः शुध्यन्ते। ततः परं भूयः शराग्निशरा न शुध्यन्ते तदा चन्द्रक्रान्तिं गुणखाद्रिशराग्निशराद्विगुणितपक्षनखोनां खदेशवृषचरचरदलचषकैःसंगुण्यशराग्निशरैर्भिविभज्यावाप्तं स्वदेश-मेषवृष-द्विगुणित-मिथुन-चरदलखण्डकयोगे संयोज्य चन्द्रमसचरदलं भवति। एतावत् चन्द्रकान्तेःत्क्रमशोधनं भवति। यदा सप्तदशशतानि दशाधिकानि चन्द्रमसः परमक्रान्तिर्भवति। एवं चन्द्रदिनप्रमाणे च। पञ्चदशहीनयुक्तमिति न्यायेन खगोलवशेन दिनरात्रिप्रमाणे कार्य्ये। एवं भौमादीनामपि स्वस्फुटविक्षेप-युतवियुतायाः क्रान्तेर्गुणखाद्र्यादिशोधनेन चरदलं समुत्पाद्यम्। पञ्चदशहीनयुक्तमिति दिनरात्रिप्रमाणे कार्य्येसर्व्वस्यैव ग्रहस्य। स्वोदयाद् यावदस्तमयं तावद्दिनम्। स्वास्तमयाच्च स्वोदयं यावद्रात्रिरिति। अनेन प्रकारेण रात्रिदिनप्रमाणे क्रियेते। अत्र किञ्चिन्न्यूनाधिकेभवतः। स्फुटे उदयास्तलग्ने प्रसाध्य उदयास्तमयोक्तेन विधिना भवतीति।
अथोदाहरणम्- शाके ७८६ तिथि १अस्मिन् दिने शृङ्गोन्नतिः क्रियते। तद्यथा - कुरुक्षेत्रेऽर्कचन्द्रौदेशान्तरकृतौमध्यमौ चन्द्रोच्चसहितावस्तमनान्तिकौ। रवि १०।१९।५२।५४। चन्द्र ।०।१०।१२।२६। उ४।४।३३।२६।अस्मिन्नेव कालेऽर्कचन्द्रौस्फुटौ राहुसहितौ रविः१२।२२।१०।५३ चन्द्रः ०।१४।४४।२४ राहुः ४।७।२४।१०। अस्माच्चन्द्रमसः स्वक्रान्तिः ३६० एषोत्तरा क्रान्तिः। अस्मादपि विक्षेपो दक्षिणः२४७ अनयोर्भिन्नदिक् वियोगः ११२।५५ एषा चन्द्रमसः स्वक्रान्तिः ततोऽधिकत्वात् उत्तरा। अस्या गुणखाद्रयएते ७०३ न शुध्यन्ते तस्मादेषा मेषचरखण्डेनानेन ६९गुणिता जाता ७७९१।१५ गुणखाद्रिभिर्विभज्यावाप्तम् ११ एते चन्द्रमसश्चरदलचषकाः। पञ्चदशहीनयुता इति न्यायेन दिनरात्रिप्रमाणे। एवमन्येषामप्युदाहरणीयमिति।
अधुना भुजकोटिकर्णानयनमाह -
अर्कशशिक्रान्तिकलान्तरैक्यजीवा समान्यगोलकयोः ।
चन्द्रछायाकर्णेन संगुण्य लम्बकविभक्ता ॥ २ ॥
सदृशैर्युताऽन्यथोना विषुवच्छायाङ्गुलैर्भुजौयाम्ये ।
यत्रेन्दुर्द्वादशकः कोटिस्तद्वर्गयुतिपदं कर्णः ॥ ३ ॥
वाक्यार्थः - अर्कश्च शशी चार्कशशिनौतयोः क्रान्तिकला अर्कशशिक्रान्तिकलाः। तासामन्तरैक्यं यथासंख्यं समान्य-गोलकयोः समगोलकयोरन्तरं अन्यगोलकयोरैक्यंतस्य जीवा। सा चन्द्रच्छायाकर्णेनसंगुण्यचन्द्रमसः छायाकर्णस्तेन संगुण्य चन्द्रमसः छायाकर्णेन संगुण्य तात्कालिकेन चन्द्रमसः सम्बन्धिना छायाकर्णेन संगुण्य गुणिता कार्य्याइत्यर्थः। अथ लम्बकविभक्ता स्वदेशलम्बज्ययाविभजनीया इत्यर्थः। सदृशैयता। एकदिग्भिरित्यर्थः। अन्यथोना भिन्नदिक् ऊनेत्यर्थः। कैः भणति। विषुवच्छायाङ्गुलैः। विषुवच्छायाया अङ्गुलानि विषुवच्छायाङ्गुलानि तैः। याम्यदिक् दक्षिणैरित्यर्थः। एवं कृतेऽर्कस्य क्रान्तिकलान्तरैक्यजीवा भुजा भवतीति। यत्रेन्दुः स भुजः। यस्मिन् चन्द्रमा भवतीत्यर्थः। असौ कर्णः कथं भवति इति भणति। द्वादशकः द्वादशाङ्गुल इत्यर्थः। कोऽसौ कोटिः। तद्वर्गयुतिपदं कर्णः। तयोः वर्गौभुजकाटिवर्गौइत्यर्थः। तयोर्वर्गयुतिः। तस्या युतेः पदं तद्वर्गयुतिपदं मूलमित्यर्थः। यदेव पदं स एव कर्णः। तस्याग्रे चन्द्रो भवति इति वाक्यार्थः।
करणम् - यस्मिन् काले शृङ्गोन्नतिः क्रियते तस्मिन् कालेऽर्कचन्द्रौस्फुटौ कार्य्यौ। तयोः क्रान्ती कार्य्ये। चन्द्रस्य स्वविक्षेपयुतवियुता स्वक्रान्तिः कार्य्या। ततस्तयोः क्रान्त्योर्यदादिगैक्यं भवति तदान्तरं कार्य्यम्। अथ तयोर्दिग्भेदो भवति तदैक्यं कार्य्यम्। एवं कृते यद्भवति तस्य त्रिंशत्सनवेति जोवा कार्य्या। सा च तात्कालिकेन छायाकर्णेन गुणनीया। चन्द्रच्छायाकरणं व्याख्यायते। यस्मिन् दिने शृङ्गोन्नतिः क्रियते तस्मिन् दिने चन्द्रमस उदयास्तलग्ने कार्य्ये। तत्र उदयमर्कलग्नं परिकल्प्यअस्तलग्नमिष्टकालिकं लग्नं परिकल्प्यततोऽनुपातवर्द्धितेऽर्केलग्नसमे स्वोदयैर्घटिका इति कालःसाध्यः। तावान् कालः चन्द्रमसः तस्मिन्नहनि स्वदिनं भवति। तस्यार्द्धंचन्द्रदिनार्द्धंतस्मिन् काले कियान् कालः स्वदिनस्य गत इति परिज्ञाय नतं ग्राह्यम्। ततस्तस्योत्क्रमजीवा कार्य्या। तद्देवसिकचन्द्रचरदलस्य च जीवा कार्य्या। चन्द्रमसः मध्याह्निकां स्वक्रान्तिं कृत्वा तत्क्रान्त्यक्षांशैक्यान्तरहीनेतिन्यायेन दिनदलकर्णः कार्य्यः।
ततः “त्रिज्याचरार्द्धजीवायुतहीनान्त्यानतोत्क्रमज्योना। छेदोऽन्त्यायादिनदलकर्णगुणायाः फलं कर्णः”। इति कर्णःकार्य्यः। स तात्कालिकचन्द्रच्छायाकर्णोभवति। तेनान्तरैक्यजीवां संगुण्यस्वदेशलम्बज्ययाविभज्याङ्गुलादिफलं यथादिक्स्यात्। चन्द्रमा उत्तरेणस्थितस्तदोत्तरम्। अथ दक्षिणेनतदा दक्षिणमिति। यस्योत्तरा क्रान्तिः स उत्तरेणयस्यदक्षिणा स दक्षिणेनेति। यदोभयोरुत्तरा तदा यस्याधिका स्वक्रान्तिः स उत्तरेण इतरस्तु दक्षिणेन। अथोभयोरपि दक्षिणा। तदा यस्याधिका स दक्षिणेन इतरस्तूत्तरेणेति। एवं फलाङ्गुलानां दिक् परिज्ञाय ततः स्वदेशविषुवच्छायाङ्गुलैर्नित्ययाम्यैः सहैकदिग्योगो भिन्नदिग्वियोगः कार्य्यः। एवं कृते भुजो भवति। ततो द्वादशकः कोटिरिति परिकल्प्यभुजकोटिवर्गयुतिपदं कर्णो भवति।
अथोदाहरणम्- तद्यथा-तात्कालिकार्कात् क्रान्तिर्दक्षिणा १८८।१४।चन्द्राच्च विक्षेपयुता स्वक्रान्तिरुत्तरा १२।५५।अनयोर्भिन्नदिक्त्वादैक्यं कृतं जातं ३०१।३६ अस्य ज्या १३।४ एषा तात्कालिकेन चन्द्रच्छायाकर्णेन गुणनीया। तद् यथा। चन्द्रच्छायाकर्णः क्रियते। चन्द्रमस उदयास्तलग्ने ०।१२।३९।४।२४। ६।१४।८।४।अनयोरन्तरादूनमधिकसममिति प्रमाणेन घटिका आनीता जाता ३१।२६। एवं चन्द्रमसः स्वदिनप्रमाणम्। अस्मिंश्चकाले चन्द्रदिनस्यैतावत्यो घटिका गताः ।४।२३। एताभ्यश्चन्द्रदिनार्द्धघटिका एताः १५।४३ अपास्य शेषम् ११।२० एतन्नतसंज्ञम् अस्मादुत्क्रमज्या ९४।१२ अस्मिन् दिने चरदलचषकाः ११ एतेभ्यो जीवा २।५३। चन्द्रमध्याह्नेतात्कालिकौचन्द्रपातौ ०।११।३५।५।४।७।३४।५४। आभ्यां सकाशात् विक्षेपयुतवियुता चन्द्रमसः स्वक्रान्तिरुत्तरा ३८।२१।ततः क्रान्तिस्वाक्षांशैक्यान्तरहीनेति न्यायेन दिनदलकर्णगुणायाः फलं कर्ण इतिदिनदलकर्णः १३।४८। ततस्त्रिज्याचरार्द्धजीवा युतहीनान्त्यानतोत्क्रमज्योना। छेदोऽन्त्याया दिनदलकर्णगुणायाः फलं कर्ण इति। ३५५७। अनेनान्तरैक्यज्यामिमां संगुण्यस्वच्छेदेन लम्बज्ययानया १२९।२० विभज्यावाप्तमङ्गुलादि फलं तच्चेदम्। एतदादित्याच्चन्द्रमस उत्तरेणावस्थितत्वात् उत्तरमिति। ततः स्वदेशविषुवच्छायाङ्गुलैरमीभिः ७ सहान्तरे कृते जातम् ३।२२ एषोऽङ्गुलादिर्भजः द्वादशकः कोटिः १२।ततो भुजवर्गः ११।१२ कोटिवर्गः१४४ अनयोर्योगः १५५।१२ अस्य मूलमिदम् १२।२८। एष कर्ण इति।
अधुना शुक्लानयनमाह।
अर्कचन्द्रयोरन्तरांशकास्तिथिविभाजिताः शुक्लम् ।
अर्कश्चचन्द्रश्चार्कचन्द्रौ। तयोरन्तरमर्कचन्द्रयोरन्तरं तस्मिन् येऽंशा अन्तरांशास्ते भागा इत्यर्थः। ते तिथिविभाजितास्तिथिभिर्विभाजिताः। पञ्चदशभिर्विभक्ता इत्यर्थः। लब्धं फलमङ्गुलादि शुक्लंभवतीति वाक्यार्थः।
करणम्- तात्कालिकार्कचन्द्रयोरन्तरं कृत्वा तदन्तरं केन्द्र परिकल्प्यतस्मात् ज्याकेन्द्रं कार्य्यम्। तद्भागपिण्डं कृत्वा पञ्चदशभिर्विभजेत्। लब्धंफलमङ्गुलादि शुक्लम् भवति। कृष्णाष्टम्यार्द्धादारभ्य यावत् शुक्लाष्टम्यर्द्धं तावदेव फलंशुक्लम् । कृष्णाष्टम्यार्द्धादारभ्य कृष्णाष्टम्यर्द्धंयावत् कृष्णं परिकल्प्यमिति।
अथोदाहरणम्। तद् यथा। तात्कालिकावर्कचन्द्रौ ११।१२।१०।५३।०।१४।५५।२४ अनयोरन्तरम् १०।२७।१५।२९। अस्मात् ज्याकेन्द्रं ०।३२।४४।३१ पञ्चदशभिर्भागे हृते अङ्गुलादि लब्धम् २।११।एवं कृष्णमप्युदाहरणीयमिति।
अधुना वियोगमाह -
कर्णेन चन्द्रबिम्बे द्वादशके सूर्य्यवच्छाया ॥ ४ ॥
कर्णेन कर्णप्रमाणेन इत्यर्थः। चन्द्रबिम्बे चन्द्रमसो बिम्बे चन्द्रमण्डल इत्यर्थः। तस्मिन् चन्द्रबिम्बे द्वादशके द्वादशाङ्गुले इत्यर्थः । सूर्य्यवच्छाया सूर्य्येणतुल्यंसूर्य्यवत् कार्य्यमित्यर्थः।
करणम् - तात्कालिकचन्द्रमसः तात्कालिकमर्कंविशोध्ययत् शेषं तद्यदा प्रथमपदे वर्त्तते तदा पश्चिमाभिमुखो भूत्वा परिलेखं कुर्य्यात्। तथाचार्कात् शशीद्वितोये पदे वर्त्ततेतदा पूर्व्वाभिमुखो भूत्वा परिलेखंकुर्य्यात्। अथ तृतीये पदे व्यर्कः शशीतदा पश्चिमाभिमुखो भूत्वा परिलेखं कुर्य्यात्। अथ चतुर्थे पदे व्यकैः शशी वर्त्ततेतदा पूर्व्वाभिमुखो भूत्वा परिलेखं कुर्य्यात्। यदा प्रथमे पदे व्यर्कः शशी तदा शुक्लाशृङ्गोन्नतिः। अथ तृतीये पदे तदापि कृष्णा।अथ चतुर्थेपदे व्यर्कःशशीवर्त्ततेतदा शुक्लाशृङ्गोन्नतिः। एतदुक्तं भवति। शुक्लपक्षेयावदष्टम्यर्द्धंतावत् पश्चिमाभिमुखेनोपदेष्टव्यम्। अतःपरं यावत् पौर्णमासी तावत् पूर्व्वाभिमुखेन। अतःपरं यावत् कृष्णाष्टम्यर्द्धं तावत् पश्चिमाभिमुखेन। अतःपरं यावदमावास्यान्तं तावत् पूर्व्वाभिमुखेन। कृष्णाष्टम्यर्द्धात् यावत् शुक्लाष्टम्यर्द्धंतावत् शुक्ला शृङ्गोन्नतिः। शुक्लाष्टम्यर्द्धात्कृष्णाष्टम्यर्द्धं यावत् कृष्णा शृङ्गोन्नतिः। एवं दिगभिमुखावस्थानं परिज्ञाय शुक्ला कृष्णा वा शृङ्गोन्नतिरिति परिज्ञाय ततः परिलेखः। अथ परिलेखः क्रियते। तद् यथा। समायां भूमौ मध्ये विन्दुः कार्य्यः। तं सूर्य्यं परिकल्प्यततो यदि सूर्य्यात् चन्द्रमा उत्तरेण तदा भुजाङ्गुलप्रमाणं सूत्रं बिन्दुत आररभ्य उत्तरेण देयम्। अथ सूर्य्याच्चन्द्रमा दक्षिणेन तदा दक्षिणेन देयम्। एवं शुक्लायां शृङ्गोन्नतौ। अथ कृष्णायांशृङ्गोन्नतिः परिज्ञाता। तदा भुजाङ्गुलमितं सूत्र बिन्दुत आरभ्य विपर्य्ययेण देयम्। यदि सूर्य्यास्तात् चन्द्रमा उत्तरेण तदा दक्षिणेन। यदा दक्षिणेन तदा उत्तरेण देयम्। एवं यथादिक् भुजं प्रसार्य्य ततो भुजाग्रादात्माभिमुखं कोट्यङ्गुलमितं सूत्रं प्रसारयेत्। अथ द्वितीये व्यर्कः शशीतदा पश्चिमाभिमुखम्। अथ तृतीये तदा पूर्व्वाभिमुखम्। अथ चतुर्थे पदे व्यर्कः शशी तदा पश्चिमाभिमुखमिति। ततः कोट्यग्रात् मध्यविन्दुं यावत् कर्णाङ्गुलमिताङ्गुलमितं सूत्रं नेयं तत्र प्रमाणनैव भवति। एवं त्र्यस्रंक्षेत्रमुत्पाद्य ततः कोटिकर्णयोर्यत्र योगः तत्र बिन्दुं कुर्य्यात्। तं मध्यं कृत्वा षडङ्गुलेन सूत्रेण चन्द्रमण्डलमालिखेत्। तत्र चन्द्रमण्डलकर्णयोर्यत्रसम्पातः तस्मात् शुक्लं कृष्णं वा कर्णमार्गेण चन्द्रमण्डलमध्यं प्रवेश्यम्। यत्रसमाप्यते तत्रबिन्दुः कार्य्यः। स सितासितबिन्दुरित्युच्यते। सितासितयोरन्तरेऽवस्थितत्वात्। तस्माद् बिन्दुत पडङ्गुलेन सूत्रेणचन्द्रमम्डलमालिखितं जातं तच्चेदम्।
ततः कर्णचन्द्रमण्डलयोः संपातादारभ्य कर्णमार्गेण शुक्लंप्रवेश्यसितासितविन्दुर्दत्तः। अस्मिन् सितासितविन्दोरारभ्य षडङ्गुलं सूत्रं चन्द्रमम्डलपटे नीतं यत्र समाप्तं तत्र बिन्दुं दत्त्वा भूयोऽपि षडङ्गुलसूत्रेणवृत्तमुत्पादितं सितासितबिन्दुपर्य्यन्तम्। एवं दक्षिणेन शृङ्गोन्नतिरुत्पद्यते सर्व्वमपास्यकेवलं चन्द्रमण्डलं स्थितम्।
एवं भूमौ फला? पूर्व्वाव्यस्ते कृते। एवं शुक्लाशृङ्गोन्नतिः। कृष्णाचानेन प्रकारेणकिञ्चिद् विशेषः दक्षिणो भुज उत्तरेख देयः। उत्तरश्चदक्षिणेन शेषंसामान्यमेव। एवमन्यत्राप्युदाहरणीयमिति। स्वदेशान्तरेण विषुवच्छायया स्वनतज्याचेति अर्कच्छायेति।
करणम् - यस्मिन् काले अभीष्टे प्रग्रहण-निमीलन-मध्योन्मीलन-मोक्षेष्टग्रासार्थग्रासानामन्यतमे चन्द्रमसः छाया क्रियते तस्मिन् काले चन्द्रचन्द्रोच्चपाता मध्यमास्तात्कालिकाः कार्य्याः। ततश्चन्द्रं स्फुटीकृत्य तस्माच्चन्द्रमसो विक्षेपयुतवियुता क्रान्तिः कार्य्या। तस्याः क्रान्तेर्गुणखाद्रयइति शोधनेन चन्द्रचरदलं साध्यम्। ततश्चन्द्रमस उदयास्तलग्ने साध्ये। तयोरन्तरा दिनप्रमाणं कार्य्यम्। तदर्द्धंकृत्वातस्मिन् काले कियान् कालचन्द्रमसः स्वदिनस्य गत इति साध्यः। ततः स्वदिनमध्याह्ने चन्द्रं स्फुटीकृत्य तस्माद्विक्षेपयुतवियुता स्वक्रान्तिः कार्य्या। ततः क्रान्ति-अक्षांशैक्यान्तरहीन इति न्यायेन दिनदलकर्णः कार्य्यः। तद्दैवसिकस्य चन्द्रवरदलस्य जीवा कार्य्या। तस्मिंश्च काले चन्द्रदिनमध्याह्नात् पूर्व्वेणापरेण वा नतं ग्राह्यम्। तस्य क्रमज्या कार्य्या। एवमुपकरणानि कृत्वा ततः त्रिज्या चरार्द्धजीवायुतहीनान्त्यानतोत्क्रमज्योना छेदोऽन्त्याया दिनदलकर्णगुणायाः फलं कर्णइति तात्कालिकाचन्द्रमसः छायाकर्णःकार्य्यः। ततः कर्णच्छायाकृत्योरिति न्यायेन छाया कार्य्या। तावती छाया द्वादशाङ्गुलस्य शाङ्कोस्तस्मिन् काले चन्द्रमसो भवति। एवमिष्टकाले चन्द्रमसः छाया कार्य्येति। तथा चोक्तं ब्राह्मेस्फुटसिद्धान्ते शृङ्गोन्नतौ परिलेखकरणे पश्चिमाभिमुखो राशिषुमेषतुलादिषु संशोध्य दिवाकरं चन्द्रात्। पूर्व्वाभिमुखं कर्कटमकरादिषु भवति शुक्लसंस्थानंपरिकल्प्यार्कबिन्दं तस्माद् बाहुंयथादिशं दत्त्वाबाह्यग्यात् प्राच्यपरां कोटिं तिर्य्यक्स्थितं कर्णं कर्णाग्रेचन्द्रमसं परिलेख्य सितं प्रवेश्य कर्णेन। शशिबिम्बे शुक्लाग्रापरिलेख्या स्वगतस्तत्रेदेति। स्थानेन्दौशुक्लंपरिलेख्य पश्चिमाभिमुखः प्राच्यपरैविपरीते फलकेऽन्यत् पूर्व्वमुक्तवत् कार्य्यमिति।
इति भट्टमधुसूदनसुत-चतुर्व्वेद-पृथूदकस्वामिकृतेखण्डखाद्यविवरणे
शृङ्गोन्नत्यध्यायः सप्तमः ।
———————
अथ समागमाध्यायः
यच्चन्द्रकोटिकरकोरकभारभाजि-
बभ्राम बभ्रुणिजटाकुहरे हरस्य ।
तद्वःपुनातु हिमशैलशिलानिकुञ्ज-
झाङ्कारडम्बरविराजिसुरापगाम्भः ॥
वासुदेवं नमस्कृत्य विशुद्धेनान्तरात्मना।
समागमे प्रवक्ष्यामि भाष्यं तत्वार्थसंयुतम् ॥
अथातः समागमाध्यायं व्याख्यास्यामः। तत्रादावेव भौमादीनां पातानयनमाह-
कृतयमवसुरसदशकाः पातांशा दशगुणाः कुजादीनाम् ।
इयमार्य्यार्द्धमुदयास्तमयाध्याये व्याख्यातम् । अथ भौमादीनां मध्यविक्षेपानाह -
नवरविरसार्कसूर्य्याविक्षेपकला गुणा दशभिः ॥ १ ॥
इदमार्य्याद्वयप्युदयास्तमयाध्याये व्याख्यातम्। अधुना कर्णानयनमाह -
केन्द्रज्यान्त्यफलज्यागुणिता फलजीवया हृता कर्णः ।
त्रिज्यान्त्यफलज्योना चक्रार्द्धेसंयुता चक्रे ॥ २ ॥
इयमार्य्याउदयास्तमयाध्याये व्याख्याता। अधुना समागमकालपरिज्ञानमाह -
भुक्त्यन्तरयुतिभाजितमनुलोमविलोमविवरमाप्तदिनैः।
अधिकेऽल्पगता वेष्यत्यधिकगतौ ग्रहयुतिरतीता ॥ ३ ॥
वाक्यार्थः -भुक्तिश्चभुक्तिश्चभुक्तौतयोरन्तरं भुक्त्यन्तरं विवरं युतिर्योगः। तया भुक्त्यन्तरेणयुत्याभाजितं विभक्तमित्यर्थः। किं तद्भणति। अनुलोमविलोमविवरं यथासंस्यमिति। अनुलोमयोर्विवरमनुलोमविवरम्। एकगत्याश्रितयोर्विवरमित्यर्थः। अनुलोमयोर्विवरं भुक्त्यन्तरेण विभजनीयमित्यर्थः।
विलोमयोर्विवरं प्रतिकूलगत्याश्रितयोर्विवरमित्यर्थः। तद्विलोमविवरम् भुक्त्योर्योगेन विभजनीयमित्यर्थः। आप्तदिनैर्लब्धदिवसैरित्यर्थः। अधिकेऽल्पगतावेष्यतीति। अधिके सति भणति। अल्पगतौअल्प्यागतिर्यस्यामावल्पगतिः। स्वल्पगतिः स्वल्पभुक्तिरित्यर्थः। तस्मिन् अधिके सति एष्यति भविष्यतीत्यर्थः। अधिकगताविति। अधिका गतिर्यस्यासावधिकगतिः। तस्मिन् अधिके सति। अधिकक्रान्तिरित्यर्थः (?)। काऽसौ भणति। ग्रहयुतिः। ग्रहयोर्युतिः ग्रहयोः समागम इत्यर्थः।
करणम् - इष्टदिने ग्रहद्वयं स्फुटीकृत्य ततस्तयोरन्तरं कार्य्यंतदन्तरं लिप्तापिण्डंकार्य्यम्। तस्य लिप्तापिण्डस्य ग्रहयोर्भुक्त्यन्तरेण भुक्तियोगेन वा भागो हार्य्यः। कदेत्युच्यते। यदा ऋजुगतीभवतः तदा भुक्त्यन्तरेण। अथ तौवक्रिणौ भवतस्तदापि भुक्त्यन्तरेण। अथैको वक्री भवति तदा भुक्तियोगेनेति ग्रहान्तरं विभज्य दिवसादिकालो भवति। तावत्कालः समागमस्य एष्यस्यातीतस्य वा भवति। उभयोर्ऋजुगतिमाश्रितयोर्मन्दाधिक्ये समागम एष्यः। शीघ्राधिक्येऽतीतः। अथैको वक्री(?)सन्धेरधिकः तदा समागमो भावी। अथोनस्तदातीतः। अथोभौवक्रिणौभवतः तदा शीघ्राधिक्ये समागमो भावी। मन्दाधिक्येऽतीतः। वक्रिणोरपि ग्रहयोर्यस्याधिका स्फुटभुक्तिः स शीघ्रः। यस्योना स मन्दः। इत्येवं समागमकालं परिज्ञाय ततो दिनकालदिवसादिनामध्यमौ ग्रहौतात्कालिकीकृत्य स्फुटौ कार्य्यौ। ततस्तयोरन्तरं कार्य्यम्। तदनन्तरं लिप्तापिण्डीकृत्य ग्रहयोर्भुक्त्यन्तरेण भुक्तियोगेन वा विभज्यावाप्तंदिवसादिकालः तेन भूयोऽपि मध्यमौ ग्रहो तात्कालिकौकृत्वा स्फटौकार्य्यौ। ततस्तयोरतरं कार्य्यम्। तदन्तरं लिप्तापिण्डीकृत्यान्तरात् पुनरपि काल एवमसकृत् कर्म्मणादिवसं प्राप्य तस्मिन् दिने भूयोऽपि ग्रहौतात्कालिकौस्फुटौकार्य्यौ। तौ च तस्मिन् काले समलिप्तौ किञ्चिन्न्यूनाधिकौभवतः। इति।
अथोदाहरणम् - भाकः७८६मास १ तिथि४। अस्मिन्दिनेकुरुक्षेत्रे देशान्तरकृतौ स्फुटावर्द्धरात्रिको चन्द्रशुक्रौ२।१९।१।२।८।१३ अनयोरन्तरम् ०।१०।४८। एतल्लिप्तापिण्डीकृतम् ६४८ एतद्ग्रहयोर्ऋजुगतित्वात् भुक्त्यन्तरेण चन्द्रशुक्रयोरनेन ६८९ विभज्यावाप्तं दिवसादिकालः ०।५६।२४ एतावान् कालः समागमस्यातीतस्य। चन्द्रमसोऽधिकत्वात् उभयोरपि ऋजुगतित्वाच्चअनेन कालेन मध्यमौ चन्द्रशुक्रौतात्कालिकीकृतौ शुक्रशीघ्रोच्चसहिताविमो २।२।३९।०।२०।४७।४।२७।५६।४।८।८। अस्मिन्नेव काले स्फुटौ चन्द्रशुक्रौ२।७।१।२।२।७।१६।४६एवं किञ्चिन्न्यूनाधिकौसमलिप्तौ जातौ। अनेनैव प्रकारेण समलिप्तौ भवतः। किन्तु विवरं स्वभुक्तिगुणितमितीयमार्य्यानिष्प्रयोजना भवतीत्यन्तः समलिप्तौकृतौ। केवलं दिवसं प्राप्तमित्यर्थः। अधुना ग्रहयोःसमलिप्तीकरणमाह -
विवरं स्वभुक्तिगुणितं पृथक् तथैवोद्धृतं क्षयोऽतीते।
धनमेष्यति समलिप्तौ वक्रगतेः क्षयधनं व्यस्तम् ॥ ४ ॥
विवरमन्तरमित्यर्थः। स्वभुक्तिगुणितं स्वकीयया भुक्त्या गुणितं पृथक् गतिः एकस्मिन् प्रदेशे एकस्य ग्रहस्य अन्यस्मिन् प्रदेशे द्वितीयस्येत्यर्थः। तथैवोद्धृतमिति। तथैव तेनैव प्रकारणेत्यर्थः। उद्धृतं विभक्तम्। यथा पूर्वं ग्रहान्तरं भुक्त्यन्तरेण भुक्तियोगेन वा तथैव विभजनीयमित्यर्थः। क्षयोऽतीते ऋणमित्यर्थः। धनमेष्यति समागमे। एवं जाते समलिप्तौभवत इत्यर्थः। वक्रगते क्षयधनं व्यस्तमिति। वक्रं गतो वक्रगतः पश्चिमाभिमुखगतिरित्यर्थः। अतीते धनमेष्येतु ऋणमित्यर्थः।
करणम्। तयोर्ग्रहयोः किञ्चिन्न्यूनाधिकयोरन्तरं कृत्वा तल्लिप्तापिण्डं कार्य्यम्। ततो लिप्तापिण्डं स्थानद्वयगतं कृत्वा एकस्मिन् प्रदेशे एकस्य प्रहस्यभुक्त्या गुणनीयम् अन्यस्मिन् प्रदेशे द्वितीयस्य। ततः पूर्व्ववद् भागो भुक्त्यन्तरेण भुक्तियोगेन वा हर्त्तव्यः। तिर्य्यग्गतिमाश्रितयोर्ग्रहयोर्भुक्त्यन्तरेण वक्रितयोरपि द्वयोर्भुक्त्यन्तरेण। तथैकस्मिन् वक्रिणिभुक्तियोगेनान्तेपृथक् पृथक् स्वफले भवतः। ताभ्यां स्वफलाभ्यामधिकौकार्य्यौ। एवं कृते समलिप्तौभवतः। ततस्तद्दैवसिकस्यार्द्धरात्रिकस्यग्रहस्य समलिप्तस्य चान्तरं कृत्वा तल्लितापिण्डं कार्य्यं ततः षष्ट्यागुणनीयम्। ततः स्फुटभुक्त्यास्य भागे हृतेघटिकादिकालो लभ्यते। यद्यर्द्धरात्रात् पूर्व्वेणसमागमोऽतीतः। अथापरेणार्द्धरात्रात् समागमः तदा तावतीभिर्भविषति। एवं कालं परिज्ञाय ततो यदि बुधसितयोरन्यतरस्यान्यतरेण सह समागमो गण्यते तदा तयोः स्वशीघ्रस्तात्कालिकः कार्य्योविक्षेप इति प्रकटार्थत्वान्नोदाहृतमिति।
अधुना विक्षेपानयनमाह -
स्वं स्वंविशोध्य पातं समलिप्तात् सौम्यशुक्रयोः शीघ्रात् ।
जीवा विक्षेपगुणा हृताऽन्त्यकर्णेन विक्षेपः ॥ ५ ॥
इयमार्य्याउदयास्तमयाध्याये व्याख्याताः।अधुना ग्रहयोरन्तरपरिज्ञानमाह -
एकान्यदिशोरन्तरयोगैर्विक्षेपयोर्ग्रहान्तरकम् ।
एकादिक्कान्यदिक्कयोर्द्दिशोर्यथासंख्यमन्तरयोगः। अन्तरं विवरं योगो युतिः कार्य्या। कयोर्भणति। विक्षेपयोरेकदिक् वियोगः। भिन्नदिक् योगः कार्य्य इत्यर्थः। ग्रहयोरन्तरं ग्रहान्तरं ग्रहयोर्विवरमिति वाक्यार्थः।
करणम्। यमिन् काले ग्रहौसमलिप्तीभूतौ तस्मिन् काले कुजगुरुसौराणामन्यतमस्य समलिप्तग्रहात् पातं विशोध्य विक्षेपः कार्य्यः। बुधशुक्रयोस्तु समलिप्तकालिकात् शीघ्रात् स्वपातं विशोध्य विक्षेपः कार्य्यः। एवं ग्रहचन्द्रयोरपि विक्षेपौकृत्वा ततस्तयोर्विक्षेपयोरेकदिक्स्थयोरन्तरं कार्य्यम्। भिन्नदिक्स्थयोर्योगः। एवमन्तरं योगं वा कृत्वा ततस्तस्मात् ग्रहयोमानैक्यार्द्धंविशोध्य शेषस्य षष्ट्याभागमपहृत्य हस्ता लभ्यन्ते । (१ हस्तः = ६० कलाःतदैकाङ्गुलिः = २ १/२कलाः ) शेषं द्विगुणं पञ्चभिर्विभज्याङ्गुलानि लभ्यन्ते। तावदन्तरयोः ग्रहयोर्यस्योत्तरोविक्षेपः स उत्तरेण यस्यदक्षिणः स दक्षिणेन। अथोभयोरप्युत्तरो विक्षेपः तदा यस्याधिकः स दक्षिणेन। इतरमुत्तरेण। अथ चन्द्रमसा सहान्यतमस्य ग्रहस्य समागमः क्रियते। तदा चन्द्रमसश्चन्द्रग्रहणोक्तेन विधिना विक्षेपं कृत्वाच निरूप्यमिति। अथ विक्षेपयोरन्तराद् योगाद् वा ग्रहयोर्मानेक्यार्द्धंन शुध्यते तदोर्ध्वस्थोग्रहोऽधःस्थेन ग्रहेण छाद्यतेइति।
अथोदाहरणम्- तद्यथा। चन्द्रशुक्रयोः समागमः क्रियते। ततः समलिप्तकालिकं शुक्रशीघ्रमिदं ४।२७।५२।२८। अस्माच्च पातेनोदयास्तमयोक्तेन विधिना स्फुटविक्षेप उत्तरः १४।३६ चन्द्राच्चसमलिप्तात् स्वपातेन चन्द्रग्रहणोक्तेन विधिना विक्षेपो दक्षिणः। २३।२४। अनयोर्भिन्नदिक्त्वादैक्यं जातम् २५५।अस्माच्चन्द्रशुक्रयोर्मानैक्यार्द्धमिदं १७।५५ संशोध्य शेषं २२७।५ अस्य षष्ट्याभागे हृते हस्ताः ३। शेषस्य द्विगुणस्य पञ्चभिर्भागे हृतेऽङ्गुलानि १९। एतदन्तरं चन्द्रशुक्रयोः। शुक्रस्योत्तरो विक्षेपः अस्मादुत्तरेण शुक्रः। चन्द्रस्य दक्षिणो विक्षेपः। अस्मात् दक्षिणेन चन्द्रमाः। अथ यत्र विक्षेपयोरन्तराद् योगाद् वा मानैक्यार्द्धंन शुध्यते तत्रार्कग्रहणवदिति तदर्थमाह -
ग्रहणवदन्यत् साध्यं स्फुटविक्षेपोऽवनत्यैव ॥ ६ ॥
ग्रहणेन तुल्यं ग्रहणवत्। अर्कग्रहणेन तुल्यमित्यर्थः। अन्यदिति अत्र नोक्तं शेषमित्यर्थः। साध्यं साधनीयम् स्फुटविक्षेपोऽवनत्यैवेति। अवनत्यर्कग्रहणवत् स्फुटविक्षेप इति यथा। इति व्याक्यार्थः।
करणम्- यत्र विक्षेपान्तरयोर्योगाद् वा ग्रहयोर्मानैक्यार्द्धांन शुध्यते तत्रोर्द्धस्थो ग्रहोऽधःस्थेन छाद्यते इति। तद् यथा। तत्र तावत् सर्व्वेषामुपरि सौरस्य कक्षा। तदधो गुरोः। तदधः कुजस्य। तस्मादप्यर्कस्य। तदधः सितस्य। तदधः सौम्यस्य। सौम्यादधश्चन्द्रस्य एवं शनिगुरुकुजार्कसितेन्दुजचन्द्रमसां क्रमेणाधो व्यवस्थिताः कक्षाः। ततः ऊर्द्धस्थं ग्रहमर्कंपरिकल्प्यअधस्यश्चन्द्रमाः। ततो ग्राह्यदिनप्रमाणंकृत्वातस्मिन्काले कियान् ग्राह्यदिनस्य गत इति। ततः समागमकालममावास्यान्तंपरिकल्प्यग्राह्यादभुक्तभागैर्लग्नं कार्य्यम्। तद्वित्रिभं कृत्वा तस्माद् वित्रिभलग्नेति पुरःसरकर्म्मणालम्बनं कार्य्यम्। तत्रसमागमकाले ऋणमधिके धनमूने ग्राह्येति धनमृणंवा कार्य्यम्। एवं कृते समागमकालः स्फुटो भवति। ततस्तस्मिन् काले ग्राह्यताकालिकं कृत्वा पुनरपि लग्नंकार्य्यम्। तस्माद्वित्रिभलग्नेति पुरःसरकर्म्मणालम्बनं कार्य्यम्। तेन भूयोऽपिसमागमकालः संस्कार्य्यः। एवमसकृत् कर्म्मणा संस्कृतः समागमकालः स्फुटो भवति। ततः समलिप्तौ स्फुटसमागमकालिकौकृत्वा वित्रिभलग्नं च ततो “वित्रिभलग्नापक्रमविक्षेपांशयुतिविशेषोना” इत्यवनतिः कार्य्या। ततस्तात्कालिकात् ग्रहादुदयास्तमयोक्तेन विधिना स्फुटविक्षेपः कार्य्यः। ततस्तयोरवनति-ग्रहविक्षेपयोरेकदिक् योगः। भिन्नदिक् वियोगः कार्य्यः। तौ स्फुटविक्षेपौ भवतः। ततस्तस्मिन् काले ग्रहयोर्मानैक्यार्द्धेवक्ष्यमाणेन विधिना। ततो ग्राह्यग्राहकमानयोर्योगार्द्धात् स्फुटविक्षेपं संशोध्य शेषो ग्रासः। स यदि ग्राह्यादधिको भवति तदोर्द्धस्थो ग्रहोऽधःस्थेन (छादितो) दृश्यते। अथोनस्तदा खण्डग्रहणमिति। एवं परिज्ञाय ततः “छाद्यार्द्धेनछादकदलसंयुत्तोनकस्य वर्गाभ्याम्। विक्षेपकृतिं प्रोह्यपदे तिथिवत् स्थितिविमर्द्दार्द्धे” इति स्थित्यर्द्धविमर्द्दार्द्धेकार्य्ये। ततो भुक्तिः षष्टिहृचेति तस्य संवादः।
इति भट्टमधुसूदनसुत-चतुर्व्वेद-पृथूदकस्वामिकृते खण्डखाद्यविवरणे
समागमाध्यायोऽष्टमः ॥
——————
अथ खण्डखाद्यकोत्तरं प्रारभ्यते ।
अकृतार्य्यभटः शीघ्रगमिन्दूच्च पातमल्पगं स्वगतेः ।
तिथ्यन्तग्रहणानां घुणाक्षर तस्य संवादः ॥
मध्यगतिज्ञंवीक्ष्य श्रीषेणार्य्यभटविष्णुचन्द्रज्ञाः
सदसि न भवन्त्यभिमुखाः सिहं दृष्ट्वायथा हरिणाः ॥
दूरभ्रष्टाः स्पष्टाः श्रीर्षेणार्य्यभटविष्णुचन्द्रेषु ।
यस्मात् कुजादयस्ते न च विदुषामादरस्तस्मात् ।
इत्येवमादिष्यिति। तत्रादविवार्कमन्दोच्चमाह -
भानुमतोमन्दोच्चं राशिद्वयमंशकाश्च सप्तदश ।
आदित्यस्योत्तरे मन्दोच्चं राशिद्वयं सप्तदशभागाः २।१७। अधुना चन्द्रोच्चानयनमाह -
द्युगणात् खरुद्रगुणिताद्भवशरयुक्ताच्छशित्रिखाग्निहृतात्।
भगणादि फल शोध्य मध्यमचन्द्राच्छशाङ्कोच्चम् ॥
द्युगणादहर्गणादित्यर्थः। खरुद्रगुणितादिति। खं च रुद्राश्च खरुद्रास्तैर्गुणिताः खरुद्रगुणिताः। तम्मात्। शशित्रिखाग्निहृतादिति शशी च त्रयश्चअग्नयश्चशशित्रिखाग्नयः तैर्हृतात्। शशित्रिखाग्निहृतात्। भगणादि फलमिति। भगणाआदौ यस्य फलस्य तद् भगणादिफलम्। तच्च शोध्यं शोधनीयमित्यर्थः। कुतो भणति। मध्यमचन्द्रात्। मध्यमात् चन्द्रात् शेषं शशाङ्कोच्चम्। शशाङ्कस्य उच्चं शशाङ्कोच्चमिति वाक्यार्थः।
करणम् - इष्टदिने अहर्गणंसंस्थाप्य खरुद्रैर्गुणनीयः। दशाधिकेन शतेनेत्यर्थः। ततो भवशरा योज्याः। पञ्चशतान्येकादशाधिकानीत्यर्थः।ततः शशित्रिखाग्निभिर्विभजेत्। त्रिभिः सहस्रैरोकत्रिंशदधिकैःइत्यर्थः। अवाप्तं भगणास्त्याज्याः। शेषं द्वादशभिः संगुण्य शशित्रिखाग्निभर्विभज्य राशयो लभ्यन्ते। शेषं त्रिंशता संगुण्य पूर्व्वोक्तवद् विभज्य भागा लभ्यन्ते। शेषं षष्ट्या संगुण्य लिप्ताः। शेषं षष्ट्यासंगुण्य विलिप्ताः। एवं राश्याद्यंचन्द्रमसःकेन्द्रं भवति। तच्च मध्यमचन्द्रात् संशोध्य शेषं चन्द्रोच्चं भवति।
अस्योदाहरणम्। तद् यथा - इष्टदिनेऽहर्गणोऽयम् ७२७०८ खरुदैर्गणितो जातः ७९९७८८० अस्मिन् भवशराः क्षिप्ताः ७९९८३९१ अस्य शिशित्रिखाग्निभिर्भागे हृते भगणशुद्धशेषम् २३१३ अस्माद् ग्रहवच्चन्द्रमसः केन्द्रमागतमिदम् १०।१०।२१।१० एतन्मध्यमचन्द्रादस्मात् २।१५।२।५४ संशोध्य शेषम् ४।४।४१।४४। एवं चन्द्रोच्चमुत्तरकृतम्। अथ भुक्त्यर्थमहर्गणः १।खरुद्रैर्गुणितो जातः ११० अस्य शशित्रिखाग्निभिर्भागे हृते राश्यादिकेन्द्रभुक्तिः ०।१३।३।५४ एतच्चन्द्रभुक्तेःसंशोध्य शेषम् ०।०।३।४०। एषा चन्द्रोच्चभुक्तिरिति।
अधुना पातानयनमाह -
सार्द्धकृतेषुगुणोनादहर्गणाद् द्विनवमुनिरसैर्भक्तात्।
यन्मण्डलादि लब्धं चक्रात् संशोध्य तत्पातः ॥ २ ॥
सार्द्धाश्चते कृताश्चसार्द्धकृताः। सार्द्धकृताश्चइषवश्व गुणाश्च सार्द्धकृतेषुगुणाः। तैरूनः सार्द्धकृतेषुगुणोनः। तस्मात् सार्द्धकृतेषुगुणोनात्। अहर्गणाद् दिनसमूहादित्यर्थः। द्विनवमुनिरसैर्भक्तस्तस्माद् द्विनवमुनिरसैर्भक्तात्। यन्मण्डलादि लब्धं भगणाद्यवाप्तमित्यर्थः। ततः संशोध्य। कुतश्चक्राद् राशिद्वादशकादित्यर्थः।
करणम्- इष्टदिनाहर्गणं संस्थाप्य स सार्द्धकृतेषुगुणैरूनः कार्य्यः। त्रिभिः शतैः चतुःपञ्चाशदधिकैस्त्रिंशद्घटिकाभिरित्यर्थः। एवं कृत्वा द्द्विनवमुनिरसैर्भागमपहृत्य भगणादि फलं ग्रहवदानीय तत् फलं चक्रादपास्य शेषं पातो भवति। उत्तरकृतश्चपातो भवति। उत्तरकृताच्चन्द्रपातात् षणवतिः कला न शोध्या इति।
उदाहरणम् - इष्टदिनाहर्गणोऽयं ७२७०८ अस्मात् सार्द्धकृतेषुगुणोनात्।३५४।३० संशोध्य शेषम् ७२३५३।३० अस्माद्विनवमुनिरसैरेतैः६७८२ भागे हृते ग्रहवद राश्यादि फलमिदम् ७।२४।५९।२८ एतच्चक्रात् संशोध्य शेषम् ४।५।०।३२ एष उत्तरकतश्चन्द्रपातः। अस्मात् षणवति कला न शोध्यन्ते । अथ पातभुक्त्यानयनेऽहर्गणः -
अस्माद द्विनवमुनिरसैर्भागे हृतेसति ग्रहवद् राश्यादिका पातभुक्तिः०।०।३।१०। अधुना सर्वत्र ज्याखण्डकानां संस्कारार्थमार्य्यामाह।
गतभोग्यखण्डकान्तरदलविकलवधात् शतैर्नवभिराप्त्या।
तद्युतिदलं युतोनं भोग्याटूनाधिकं भोग्यम् ॥
गतखण्डकं च भोग्यखण्डकं च तयोरन्तरं गतभोग्यखण्डकान्तरंतस्य दन्नं गतभोग्यखण्डकान्तरदलम्। गतभोग्यखण्डकान्तरदलेन विकलस्य वधः। गतभोग्यखण्डकान्तरदलविकलबधः। तस्मात् नवभिः शतैराप्तिर्लब्धिः। तयाप्त्यायुतोनं किं तत् युतिदलम्। तथा खण्डकयोःयुतिः। तद् युतिः। गतभोग्यखण्डकयोर्युतिरित्यर्थः। तस्या युतेर्दलम्। तद्युतिदलम्। तया युतोनम्। कया गतभोग्यखण्डकान्तरदलविकलवधात् शतैर्नवतिराप्त्या इति भोग्यादूनाधिकमिति। तद् युतिदलं भोग्यादूनमधिकं कार्य्यंभोग्यादूनाधिकं चोनमिति। एवं कृते भोग्यखण्डकं लभ्यते इत्यार्य्यार्थः।
करणम्- ज्याकेन्द्रस्य लिप्तापिण्डीकृतस्य नवभिः शतैर्भागे हृते यावत् संख्यान्याङ्कान्यवाप्तानि तावत्संखाकानि ज्याखण्डानि स्थाप्यानि। ततो लब्धज्याखण्डस्य पूर्व्वखण्डं संस्थाप्य तथालब्धं पुनरप्यन्तरम् एवं त्रयाणां स्थापितानां तृतीयाद् द्वितीयं विशोध्य भोग्यखगडं भवति। द्वितीयात्प्रथमं स्थापितं विशोध्य गतखण्डं भवति। एवं त्रिंशत्सनवेति ज्याखण्डानां कार्य्यम्। तदन्तरमर्द्धीकृत्य ततस्तेन ज्याशुद्धशेषं विकलसंज्ञमनष्टं संगुण्यनवभिः शतैर्विभज्यावाप्तं लिप्तादिफलं भवति। ततस्तयोः खण्डकयोर्योगं कत्वार्द्धंकार्य्यम्। तद् यदि भोग्यखण्डका भवन्ति तदा लब्धेन फलेनाधिकं कार्य्यम्। अथ भोग्यखण्डकाधिकं भवति तदा लब्धेन फलेनोनं कार्य्यम्। एवं कृते यद् भवति तद्भोग्यखण्डकं स्फुटं भवति। तेन भोग्यखण्डकेन पूर्व्ववत् कर्म्मकर्त्तव्यमिति।
एतच्च विशेषेण व्याख्यायते। तद् यथा। अर्कस्फुटीकरणे इष्टदैवसिकमिष्टकालिकं देशान्तरकृतं मध्यमार्कं संस्थाप्य ततस्तस्ताद् राशिद्वयमंशकाश्चसप्तदशार्कमन्दोच्चंविशोध्य केन्द्रं भवति। तस्माद् ज्याकेन्द्रंकृत्वा तल्लिप्तापिण्डीकार्य्यंतस्य नवभिः शतैर्भागे हृते यद्येकमपि ज्याखण्डकं न लभ्यते तदा गतभोग्यखण्डकान्तरादिकर्म्माभावः। पञ्चत्रिंशता विकलं संगुण्य नवभिः शतैर्विभज्यावाप्तं द्विकृतांशेधनं कृत्वा विकलं भवति। आदावेकं लभ्यते तदा पृथक्स्थस्य विकलस्य षड्भिः शतैर्भागमपहृत्यावाप्तं तदा त्रिंशतः सार्द्धायाः संशोध्य स्फुटभोग्यखण्डं स्फुटं भवति। अथ त्रीणि भोग्यखण्डानि लभ्यन्ते तदा विकलस्य शतद्वयेन सप्तपञ्चाशदधिकेन भागमपहृत्यावाप्तं चतुर्विंशतेःसार्द्धायाःसंशोध्य स्फुटभोग्यखण्डं भवति। अथ चत्वारि ज्याखण्डानि लभ्यन्ते तदा विकलस्य तत्त्वयमैर्भागमपहृत्यावाप्तं सप्तदशभ्यो विशोध्य स्फुटं भोग्यखण्डं भवति। अथ पञ्च लभ्यन्ते तदा विकलस्य तत्त्वयमैर्भागमपहृत्यावाप्तं लब्धं ज्याखण्डैःसंयोज्य द्विकृतांशोनं कृत्वा रविफलं भवति। एवं यथोत्पन्नेन भोग्यखण्डेन रविमध्यमभुक्तिं संगुण्य नवभिः शतैर्भागमपहृत्यावाप्तं द्विकृतांशोनं कृत्वा रविभुक्तिफलं भवति। शेषं पूर्व्ववदेतत् रविस्फुटीकरणम्।
अथ चन्द्रमसः। इष्टदैवसिकादिष्टकालिकमध्यमचन्द्रादुत्तरकृतमन्दोच्चं विशोध्य केन्द्रं भवति। तस्माद् ज्याकेन्द्रं कृत्वा तल्लिप्तापिण्डीकार्य्यम्। तस्य नवभिः शतैर्भागे हृते यद्येकमपि ज्याखण्डं न लभ्यते तदा विकलं सप्तमप्तत्या संगुण्य नवभिः शतैर्भागमपहृत्यावाप्तं दस्रेषुभागयुतं कृत्वा चन्द्रफलं भवति। अथैकज्याखण्डं लभ्यते तदा विकलस्य त्रिभिः शतैर्भागमपहृत्यावाप्तं चतुः सप्ततेःसंशोध्य स्फुटं भोग्यखण्डं भवति। अथ त्रीणि ज्याखण्डानि लभ्यन्ते पथ चत्वारि ज्याखण्डकानि लभ्यन्ते तदा विकलस्य शतेन षडहृतेन भागमपहृत्यावाप्तं विंशत्या विशोध्य स्फुटं भोग्यखण्डं भवति। एवं यथोत्पन्नेन ज्याखण्डेन विकलं संगुण्यनवभिः शतैर्भागमपहृत्यावाप्तं भुक्तज्याखण्डेरहे संयोज्य दस्रेषुभागयुतं कृत्वा चन्द्रफलं भवति। एवं यथोत्पन्नेन ज्याखण्डेन शशिनः केन्द्रभुक्तिं संगुण्यनवभिः शतैर्भागमहृत्यावाप्तं दस्रेषुभागयुतं कृत्वा चन्द्रभुक्तिफलं भवति। शेषं पूर्व्ववत्। तद् यथा। ज्याकेन्द्रस्य लिप्तापिण्डीकृतस्य नवभिः शतैर्भागे हृतेएकमपि ज्याखण्डं न लभ्यते तदा विकलं त्रिभिः शतैः षष्ट्याधिकैः संगुण्य नवभिः शतैर्विभज्यावाप्तंतत् कान्तिफलं भवति। अथैकज्याखण्डं लभ्यते।10
———————
खण्डखाद्यके भट्टोत्पलपठिता अतिरिक्तश्लोकाः
प्रथमाध्याये
पृथूदकग्रन्थस्य चतुर्द्दशश्लोकात् परम-
रूपं द्युगणं कृत्वा गुणकारैर्भागहारकैः कथितैः।
शोध्यक्षेपविवर्ज्यंग्रहस्य कुर्याद्दिवसभुक्तिम् ॥ १६ ॥
पृथूदकग्रन्थपञ्चदशश्लोकात् परम् -
त्रिज्यादलमेकज्या तद्योगगुणैक्यगुणद्विज्या।
उत्क्रमक्रमणगुणैकज्या ततो मूलमिष्टज्या ॥ १९॥
पृथूदकग्रन्थाष्टादशश्लोकात् परम् -
आतृतीयान्तविकल्पं विशोधयेत् षड्भ्यः ।
षडधिकमूनं षड्भिर्नवाधिकं विशोधयेच्चक्रात् ॥ २३ ॥
लिप्ता खखनन्दहृता लब्धं पिण्डं न्यसेच्छेषात्।
भोग्यान्तरेण गुणितात् प्राग्वद्भुक्तात् फलं क्षिपेन्न्यस्ते (मध्ये) ॥ २४ ॥
पृथूदकग्रन्थोत्तराध्यायप्रथमश्लोकात् परम् -
न स्फिटमार्य्यभट्टोक्तांस्पष्टीकरणं यतस्ततो वक्ष्ये ।
भानुमतो मन्दोच्चंराशिद्वयमंशकाश्चसप्तदश ॥ २५ ॥
पृथूदकग्रन्थोत्तराध्याय-द्वितीयश्लोकात् परम् -
पञ्चगुणा यमरामा वसुपक्षा भूयमाः कृशानुभुवः ।
पञ्चेत्युत्तरकर्म्मणि भानोः स्फुटखण्डकाः कथिताः ॥ ३० ॥
सप्तनगाः शशिमुनयश्चन्द्ररसाः सप्तसागराः शशिनः ।
खगुणाःपुष्करचन्द्राः सौम्याः स्युः खडका हीमे ॥ ३१ ॥
गतभोग्यखण्डकान्तरदलविकलवधाच्छतैर्नवभिराप्त्या।
तद्युतिदलं युतोनंभोग्यादूनाधिकं भोग्यम् ॥ ३२ ॥
द्विकृतांशोनं रविफलमिन्दोर्द्दस्त्रेषुभागयुतम् ।
अर्कफलभुक्तिघाताद् भगणकलाप्तं भुजान्तरं रविवत् ॥ ३३ ॥
पृथूदकग्रन्थे चतुर्विंशश्लोकात् परम् -
रात्रिदलात् संशोध्य प्रदिष्टो दिवागतं मिश्रात् (?) ।
मित्रेफलाद् विशोध्य क्षयावशेषे प्रवृत्तं भम् ॥ ३४ ॥
गम्यफलं खरसेभ्यः शुद्धाशेषस्य गतफलस्य यथा।
छेदं कुर्य्यादथवा रात्र्यर्द्धेनियोजयेत् गम्यम् ॥ ३५ ॥
पृथूदकरग्रन्थेसप्तविंशश्नोकात् परम् -
रविचन्द्रयोगलिप्ताः खखवसुभिर्भाजिताः फलं योगाः ।
गतगम्ये षष्टिगुणे गतियोगविभाजिते नाड्यः ॥ ४० ॥
गतभोग्यकला भक्ताः स्फुटभुक्त्याप्तं दिनादिकः कालः ।
ज्ञेयो ग्रहसंक्रान्तेश्छेदो नक्षत्रवत् तस्य ॥ ४१ ॥
मानार्धात् षष्टिगुणाद् भुक्तिहतान्नाडिकादिलब्धेन ।
राभ्यन्तात् प्रागादिपश्चादन्तोऽर्कस्य संक्रान्तेः ॥ ४२ ॥
संक्रान्तिपुण्यकालो यल्लब्धं नाडिकादि तद्विगुणम् ।
स्नानजपहोमदानादिकोऽपि धर्म्मोऽत्र विशिष्टफलम् ॥ ४३ ॥
शाकं द्विस्थं कृत्वा त्रिंशद्भिर्वासरैस्ततो हत्वा।
भूयः सहितं कृत्वा गुणाङ्गनागाक्षिमभिर्हृत्वा ॥ ४४ ॥
व्योमार्थनेत्रवरूपैःसमादि यत् सविकलं ततो लब्धम् ।
युक्तस्तस्मिन् षष्ट्याशेषे प्रभवादयोऽब्दाः स्यिः॥ ४५ ॥
शश्यश्विभवविहीनाद्युगणात् खत्वर्ग्निभाजितादाप्तम्।
त्रिघ्न्नं सैकं सप्तविभक्त सावनवर्षाधिपोऽर्कादिः ॥ ४६ ॥
शशिमुनिहीनात् त्रिंशद्विभाजितात् फलमहर्गणाद्विगुणम् ।
सैकं सप्तविभक्तं सावनमासाधियोऽर्कादिः ॥ ४७ ॥
आर्क्नोन-लग्नहोरा पञ्चगुणा सविकला यदि स्वरूपा।
सप्तविभक्ताशेषो दिनाधिपाद्यःम कालहोरेशः॥ ४८ ॥
त्रिचतुरन्तरषष्ठाःसावनमासाब्ददिवमहोरेशाः ।
दिनगतघटिका द्विगुणाः पञ्चहृता वाऽन्यतममेतत् ॥ ४९ ॥
खखखशरा लम्बहता व्यासार्द्धहृताः स्फुटपरिणाहः।
द्वितीयाध्याये
पृथूदकग्रन्थसप्तदशश्लोकात् परम् -
शीघ्रादंशकपिण्डात् क्रमोत्क्रमाच्चरखण्डकाच्छुद्धाः।
यश्चन शुष्यति भागो हार्य्यस्तेनैव तत्फलहतश्च ॥ १६ ॥
विकलस्याप्तं योज्यं फलयोगे धनमृणं पृथक कृत्वा।
तद्विवराच्छेषं तेयो (?) ग्रहशैंघ्र्य॥
पृथूदकग्रन्थसप्तमश्नोकात् परम् -
भोग्यफलेन ग्रहवद्भुक्त्यर्थं साधयेत् फलं मान्दम् ।
विनियोगः पूर्व्वोक्तःस्वात् स्वंक्षयाटदृणं कुर्य्यात् ॥
पृथूदकग्रन्थोनविंशश्लोकात् परम् -
उदयादि ध्रुवकाणामन्यतमेनान्तरं तुरीयस्य ।
केन्द्रस्य कला भक्ताछेदेनाप्तंदिनाद्व्यतीतेष्यम् ॥
सप्तदशांशैरधिकं भौमस्योच्चंगुरोर्द्दशभिरंशैः।
सितशीघ्रात् कृतमुनयो लिप्ताः शोध्याः शनेः फलं मान्दम् ॥ २४ ॥
पञ्चाशोनं शैघ्रंषोड़शभागाधिकं बुधस्य फसम् ।
भुक्तगतिफलांशगुणा भोग्यमतिर्भुक्तगतिहृताल्लब्धम् ॥ २५ ॥
भुक्तगतैष्यफलभागास्तद्भोग्यफलान्तरार्द्धहतविकलम् ।
भोग्यगतिहृतलब्धेनाधिकं फलैक्यार्द्धम् ।
भोग्यफलादधिकोनं तद्भोग्यफलं स्फुटं भवति ॥ २६ ॥
तृतीयाध्याये
पृथूदकग्रन्थस्य प्रथमश्लोकात् परम् -
ज्याकेन्द्रं स्फुटभानोः कृत्वा ये राशयश्चरार्द्धानि।
भुक्तानि भोग्यगुणिताच्छेदात्स्वस्वधृतिहृत्याप्तफलंविकलम् ॥ २ ॥
गतिपादं पादोनगतिं विशोध्यास्तत्कालमुदये च ।
संसाध्य येऽन्तस्य ग्रहस्य चरकर्म्मणाऽन्यस्य(?) ॥ ३ ॥
पृथूदकग्रन्थस्य तृतीयश्लोकात् परम् -
मिश्रेष्टान्तरगुणिता भुक्तिर्द्दिवसे निशादले प्रथमे ।
रात्र्यर्द्धेऽभीष्टान्तरहृता परे त्विष्टमिश्रयोगेन ॥ ६॥
मिश्रेणोदयकाले रात्र्यर्द्धेनास्तमयकाले।
षष्ट्याविभज्य लब्धं विशोध्य तात्कालिको ग्रहो भवति ॥ ७ ॥
पृथूदकग्रन्थस्य पञ्चमश्लोकात् परम् -
तात्कालिकार्कराशेर्भोग्यकनलास्तत्प्रमाणसङ्गुणिताः ।
खखवसुशिभिर्ल्लब्धं विशोधयेत् प्रश्नचषकेभ्यः ॥ १० ॥
संयोज्याभुक्तमिनेस्तत्परतः शोधयेत्राश्युदयान्।
यावन्तः संशुद्धास्तावन्तो राशयोऽक्षेप्याः ॥ ११ ॥
सूर्य्येशेषं विभजेदशुद्धचषकैःखरामसङ्गुणितम् ।
लब्धं भगणादि रवौ प्रक्षिप्य तथाकृते लग्नम् ॥ १२ ॥
सूर्य्यादभुक्तभागैर्लग्नाद्भुक्तैःप्रसाध्य यल्लब्धिम् ।
तद्योगे राश्युदयान् तदन्तरस्थान् क्षिपेत् कालः ॥ १३ ॥
रात्रिगते षड्भयुतादर्काद्दिनवत् प्रसाधयेल्लग्नम् ।
दिनलग्ने यद्विहितं तद्विपरीतं निशाशेषे ॥ १४ ॥
लब्धेरूने काले तमेव भक्तार्कराशिमाने ।
प्राग्वलब्धं सूर्य्ये दत्वा लग्नं तदन्तरकम् ॥ १५ ॥
तद्राशिमानगुणितं खखाष्टरूपैर्विभाजितं कृत्वा।
लब्धं कालं विन्द्यान्निशार्द्धं दिनमानसंयुतम् ॥ १६ ॥
पृथूदकग्रन्थस्य दशमश्लोकात् परम् -
पृष्ठस्थमात्मगुणितं तेनैवाधः स्थितं भजेत् खगुणैः ।
लब्धं क्षिपेदथोपर्य्यधः स्थितो द्विगुणितो वर्गः ॥ २२ ॥
पृथूदकग्रन्थस्य सप्तमश्लोकात् परम् -
चापानयने नवशतविकल्पवद् भोग्यलिप्ताभिः ।
कृत्वा भोग्यं त्वसकृल्लब्ध कलाविकलचापम् ॥ २६ ॥
ज्याशुद्धविकलमाहतमम्बरखाङ्कैरशुद्धखण्डहृतम् ।
लब्धंद्वितीयविकलं गतभोग्यान्सरदलेन हृतम् ॥ २० ॥
खाम्बरनन्दविभक्तं प्राग्वल्लब्धेन भोग्यखण्डाख्यम् ।
असकृत्सकृदेवं विकलं कुर्य्यात् स्थिरं यावत् ॥ २८ ॥
उत्तरविधिना सूर्य्यस्य क्रान्तिधनुः सुसंस्कृतेष्वविखिलम् ।
त्रिप्रश्नं विहितं स्यादतः पृथक् तस्य नो कथनम् ॥ २९॥
पृथूदकग्रन्थस्य षोड़शश्लोकात् परम् -
त्रिंशत्सनवार्थनगा (३९।७५)स्तर्कदिशो (१०६)
व्योमवङ्किशीतकराः (१३०)।
बाणाब्धिभुवः (१४५) खशरेन्दवश्च(१५०) कलाः पिण्डाः ॥ ३४ ॥
मूले द्व्यङ्गुलविपुलः सूच्यग्रोद्वादशाङ्गुलीच्छायः ।
शङ्कुस्तलाग्रविद्धोग्रहवेधलम्बऋजुधार्य्यः॥ ३५ ॥
घटिका कलशार्द्धाकृतिताम्रपात्रंतलेऽगुरुच्छिद्रा।
मध्ये तज्जलमज्जनषष्ट्याद्यनिशं यथा भवति ॥ ३६ ॥
चतुर्थाध्याये
पृथूदकाग्रन्थस्य प्रथमश्लोकात् प्रागेव -
दिनवृन्दात् खशरघ्नात् षणवरविभिर्विभाजितादाप्तम् ।
रामर्त्तखेन्दुसहितं क्षिपेद् द्युवृन्दे भजेत् खधृतिभिस्तत् ॥ १ ॥
लम्बः कमलजपूर्व्वःपर्वगणः सप्तभाजितः शेषः ।
खरामासोत्तरवृद्ध्यापर्वेशाःसप्तदेवताः क्रमशः॥ २ ॥
ब्रह्मशशीन्दुकुवेरा वरुणाग्नियमाश्चविज्ञेयाः ।
गतगम्ये तिथ्यूने खगुणोनेवेन्दुसूर्य्यपर्वस्यात् ॥ ३ ॥
तिथिगतगम्ये भुक्तिगुणे भुक्त्यन्तरहृते फलानयुतौ।
रविशिनौसमलिप्तौपातस्तात्कालिकाऽन्यया भवति ॥ ४॥
पृथूदकग्रन्थस्यपञ्चमोक्तात् परम् -
स्पर्शान्निमीलनं स्थितिदलविमर्दार्द्धहीना्त(?)पश्चात् ।
मोक्षादर्वागुन्मीलनं विमर्द्दस्तदर्धैक्यम् ॥
पृथूदकग्रन्थस्य षष्ठश्लोकात् परम्ब्राह्मस्फुटसिद्धान्त-चतुर्थाध्यायस्य ११श-१५शश्लोकाः पठिताः । ततः भट्टोत्पलग्रन्थे पठिता इमे श्लोका लभ्यन्ते
इष्टपग्रासेऽर्केन्दोनिमीलनोन्मीलने कार्य्याः( कार्य्ये ? )।
भुजकोटिश्रवणाख्याः परिलेखार्थं सदा गणकैः ॥
चन्द्रोदयास्तलग्ने प्रसाध्य तदुदयैर्विलग्नमस्तमयम्।
उदयैः कृत्वा शशिनी दिनमानं सुस्फुटं भवति ॥
पञ्चदशेभ्योऽभ्यधिका नतघटिकाः शोधयेत् खरामेभ्यः।
शेषादुत्क्रमजीवा प्राणगणं कारयेत् कालात्॥
कान्त्यंशकलैर्विलोमस्थितैर्ग्रहात् सत्रिभात् सदा क्रान्तिः।
कुर्य्याज्जीवाखण्डैर्ज्याभुक्तैक्यमेतेषाम्।
पृथूदकग्रन्थस्य सप्तमश्लोकात् परम् -
एकान्यदिशोर्यतिवियुतेर्ज्यां प्रग्रहणान्मध्यमोक्षेषु ।
वलनं निमीलनोन्मीलनेष्टफलेष्वतोऽन्यदिशाम् ॥
पञ्चमाध्याये
पृथूदकग्रन्थद्वितीयश्लोकात् परम् - ब्राह्मस्फुटसिद्धान्त-पञ्चमाध्यायस्य सप्तमश्लोकः पठितः।
ततः परम् -
यदि भत्रयं न शुध्यति चक्रं दला ( चक्रयुताद ?) विशोधयेल्लग्नात्।
सूर्य्यादूनो वाच्योऽधिकोऽपि गतत्रिभोनित्यम् ॥
पृथूदकग्रन्थस्य षष्ठश्लोकात् परम् -
लम्बनान्तरसंयुक्तं स्थित्यर्द्धंमध्यमाधिके ।
स्पार्शिकेमौक्षिके हीने ऋणैकत्वेऽन्यथाधने ।
स्पार्शिकेमध्यमाद्धीनं मौक्षिके त्वधिके युतम् ।
स्थित्यर्द्धंविवरणैव धनैकत्वेऽन्यथा ऋणे ॥
भेदे तदैक्येन युतं स्थित्यर्धेकारयेद् बुधः ।
एवमेव विमर्द्दार्द्धंस्पष्टीकार्य्यंतथा बुधैः ।
(एत अनुष्टुभा ग्रथिता ब्रह्मगुप्तकृता न भवन्ति)
ततः परं ब्राह्मस्फुटसिद्धान्त-पञ्चमाध्याय१४श -१९श श्लोका भट्टोत्पलःपठति।
षष्ठाध्याये
आदावेव भट्टोत्पलग्रन्थेएते श्लोका दृश्यन्ते -
सूर्य्यगतिर्यस्योना गतिः समन्दग्रहोऽन्यथाशीघ्रः।
उदयास्तमयौप्राक्पश्चान्मन्दस्यान्यथा तु शीघ्रस्य॥
प्राच्यामुदयेऽस्ते वा सूर्य्योदयकालिकं ग्रहं कुर्यात्।
अपरस्यामेवं सूर्य्यास्तमयान्तिकं नित्यम्॥
प्रागूनभुक्तिरूनो दृश्योऽदृश्यो रवेरधिकमुक्तिः।
पश्चाद्दृश्योऽधिगतिरधिको दृश्यो ग्रहोऽल्पगतिः।
पृथूदकग्रन्थ-सप्तमश्लोकात् परम् -
ऊनादभुक्तभागैरधिकाद्भुक्तैःप्रसाधयेल्लग्नात्।
तद्योगे कालकलास्तदन्तरादेकराशिकयोः॥
वेदाद्यष्टाङ्गदिशः पातांशादिगुणाः कुजादीनाम्।
नवतिथिरसार्कमासा विक्षेपकला दिगभ्यस्ताः ॥
ग्रहवहुधसितपातौ तृतीयलब्ध्याधिकोनकस्पष्टौ।
कुज-जीव-सौरिपातास्तद्विपरीतं चतुर्थ्याप्ताः ॥
मानमहत्त्वात् पश्चादुदयोऽस्तमयः सितस्य दशभिः प्राक् ।
पश्चान्मानमहत्त्वादस्तमयोऽष्टभिरुदयः प्राक् ॥
ज्ञस्यैवं मनुसूर्य्येपठिते कुजजीवसौराणाम् ।
उदयः प्रागस्तमयो मानमहत्वाद् भवति पश्चात् ॥
ताः षड्घ्नाःकालांशास्तैरधिकैरुद्गतोऽन्यथाऽस्तमितः ।
दृश्यादृश्यांशेभ्योऽस्तमये तद्यत्ययो वाच्यः ॥
अंशान्तरं दशाहतमम्बरशून्याष्टरूपसङ्गुणितम् ।
कृत्वाऽऽद्यान्याक्रान्त्युदयप्राणेनविभाजितं लिप्ताः ।
गतियोगविवरभक्ता दिवसादि फलं विनिर्द्दिशेल्लब्धं ।
तेन ग्रहार्कलग्ने कर्त्तव्ये सुस्थिरेयावत् ॥
प्रतिदिनमुदयास्तमयावसकृत्तात्कालिकग्रहविलग्नैः।
सूर्य्यास्तमयादधिकैः शीतांशोः पौर्णमास्यां च ।
अन्तरटिका गुणिता भुक्तिः षष्ट्याहृता फलं शोध्यम् ।
अस्तादभ्युदयेऽस्ते वा ग्रहार्कयोरन्यथा क्षेप्यम् ॥
तेनार्केण विदध्याल्लब्धं दृक्कर्म्मसंज्ञकं चषकम् ।
पुनरपि नाड्यःपूर्ववदाभ्यां यावन्ति शेषम् ॥
उदयास्तमयवदिन्दोः कालांशैरर्कसम्मितैर्वाच्यम् ।
हीनत्वं पूर्णत्वं तदन्तरं या गतिकला स्यात् ॥
राशिचतुष्केण यदा स्वाक्षांशयुतेन भवति तुल्योऽर्कः ।
उदयोऽगस्त्यमुनेश्चक्रार्द्धाच्छोधितेऽस्तमयः ॥
मिथुनस्य सप्तविंशे भागेऽगस्त्यस्य याम्यविक्षेपः ।
मुनिनगसंख्या भागा रविसंख्याश्चास्यैव कालांशाः ॥
उदयाख्यमगस्त्यमुनेर्ल्लग्नंवृद्धिं नयेत्तथाऽस्ताख्यम्।
हीनं कार्य्यं नित्यं घटिकाद्वितयेन राश्यदयैः ।
उदयाख्यमयसूर्यसंज्ञौ ज्ञेयावेतौ भषट्कयुतमन्यत् ।
घटिकाद्वितयेनैव षड्भागयुतेन मृगहन्तुः ॥
एवं नक्षत्राणां घटिकाद्वितयेन सत्रिभागेन ।
दर्शनमदर्शनं स्यादाद्यन्तसमये तु रविलग्ने ।
खक्रान्त्यंशाः स्वाक्षान्नताद्विशोध्यान्नताश्च नवतेः स्युः ।
उदयार्कास्तमयार्कद्यद्यूनस्तत्सदा दृश्यम् ॥
षड्विंशे मिथुनांशे चत्वारिंशता मृगव्याधः ।
दक्षिणतो विक्षिप्तस्त्रयोदशास्यैवकालांशाः ॥
ऋक्षाणां मनुसंख्याः कालांशाः प्रथमकर्म सर्वेषाम् ।
दृक्कसंज्ञकंन कार्य्यंद्वितीयमेषां सदा कार्य्यम् ॥
सप्तमाध्याये
आदावेव भोट्टोत्पलग्रन्थेअयं श्लोकः पठितः -
रविचन्द्रपातलग्नैः स्वक्रान्त्युदयास्तलग्नगतशेषाः ।
घटिकाः स्वचरार्द्धमभीष्टकालिकैःशीतगोः कृत्वा।
पृथूदकग्रन्थस्य प्रथमश्लोकात् परम् -
गोलवशात् स्वक्रान्तिर्या दिक् चन्द्रस्य सैव विज्ञेया।
गोलेऽर्केन्दोः क्रान्तिर्यस्याधिका स तत्रस्थः ॥
पृथूदकग्रन्थस्य चतुर्थश्लोकात् परम् -
कष्णाष्टम्यन्तदलाद्यावच्छक्ताष्टमीदलं पूर्व्वे।
तावन्ति तमा (?) सितमसोः सितेऽन्यथाबाहुविन्यासः ।
व्यर्के चन्द्रे कुर्य्यात् परिलेखं मेषतुलां गते पश्चात् ।
पूर्वाभिमुखं कर्कटमकरादिस्थे भुवि समायाम् ॥
परिकल्प्यार्कंविन्दुं तस्माद् बाहुंयथादिशं दत्त्वा ।
बाह्वग्यात् प्राच्यपरा कोटिस्तिर्यक् स्थिरं कर्णः॥
कर्णाग्रे चन्द्रसमं परिलिख्य षडङ्गुलं श्रवणगत्या ।
शुक्लप्रवेश्यमध्ये तद्विन्दोः सूत्रकृत् षडङ्गुलकम् ॥
नीत्वा तदग्रमन्तः कृत्वा वृत्तं यथा लिखेदिन्दोः ।
मध्ये यानि भवेत् सितासिते सकलके शशिनः ॥
अष्टमाध्याये
अत्रादावेव भट्टोत्पलग्रन्थे श्लोकोऽयं पठितः -
विरवीन्दूनां युतंभौमादीनां समागमः शशिना।
रविणास्तमय उदक्स्थोजयो दक्षिणे शुक्रः ॥
पृथूदकग्रन्थस्य चतुर्थश्लोकात् परम् -
समलितिकार्कात् कृत्वा लग्नं स्वदेशराश्युदयैः।
ग्रहयोः समलिप्तिकयोःस्वदिनो दिननाडिकाः प्राग्वत्॥
ऊनदिनोदितगुणितादधिकदिनादूनदिनहृताल्लब्धम् ।
अधिकं प्राग्युतिरूनं यद्यधिकदिनोदितात् पश्चात् ॥
अन्तरमाद्यंभूयोऽप्यभीष्टघटिकाफलेन युतयोश्च।
प्राक् पश्चाद्वान्तरयोस्तदन्तरेणोद्धृतापाद्यात्॥
युत्यान्यमिष्टघटिका गुणिताः फलनाडिकाभिराद्यवशात्।
प्राक्समलिप्तिकार्कात् पश्चाद्वाग्रहयुतिर्भवति ॥
स्वदिनघटिकाविभक्तस्तदुदितपरदिवसनाडिकाघातः।
तुल्यपरोदिताभिर्घटिकाभिर्यदियुतिग्रहयोः।
एकान्यदिशोरन्तरयोगे विक्षेपयोग्रहान्तरकात्।
ग्रहणवदन्यत्साध्यं स्फुटविक्षेपोऽवनत्या च ॥
शशिबुधसितार्ककुजगुरुशशिभानि यथाक्रमस्वकक्षासु।
तिष्ठन्त्यधःस्थ इन्दुः परिकल्प्यःसूर्य्य ऊर्द्धस्थः॥
मानैक्यदलमध्यात् संशोध्य स्फुटतरं भवति।
मध्ये षष्टिभक्तं लब्धं हस्तास्तदवशेषम्॥
द्विघ्नं पञ्चविभक्तं फलमङ्गलसंज्ञकं भवति।
मध्य ऊने मानैक्यार्द्धात् ग्रहयोर्मर्दंविजानीयात्।
मानैक्यदलान् मध्ये विशोध्य शेषं भवेच्छन्नम्।
छाद्यादधिके सकलो हीने खण्डात्मको ज्ञेयः॥
युतिकालं तिथ्यन्तं वित्रिभपूर्व्वंयथा रविग्रहणे।
लम्बनावनतिविक्षेपस्थित्यर्द्धान्तं यथा कर्म्म।
ग्राह्यग्राहकयोरपि रविविक्षेपद्वयं स्फुटंकृत्वा।
तुल्यान्यदिशोश्चतयोरन्तरयोगौस्फुटश्चविज्ञेयाः॥
द्वे तिस्रःकलाश्चतस्रो जलाधिके ( पे ?) द्वेच।
स्फुटमानकला गुणिता व्यासार्द्धेनस्वकर्णहृता।
नवमाध्याये
एषोऽध्यायः भट्टोत्पलग्रन्थ एव पठितः -
मूलाजाहिर्बध्न्यास्वयुगदितीन्द्रफाल्गुनीद्वितयम्।
त्वाष्ट्रगुरुवरुणार्द्रानिलपौष्णान्येकताराणि ॥ १ ॥
ब्रह्मेन्द्रयमहरीन्दुत्रितयं षड्वङ्किभुजगपित्राणि।
मैत्राषाढाचतुष्कं वासवरोहिणोपञ्च॥ २ ॥
स्वतारागणमध्ये यास्तारा दृश्यन्तेऽतिदीप्तताराः।
ध्रुवविक्षेपौ तासां कथितौ ता योगताराख्याः॥ ३ ॥
अतः परं भट्टोत्पलः ब्राह्मस्फुटसिद्धान्तस्य दशमाध्यायस्य प्रथमात् द्वादशश्लोकपर्यन्तं पठति ।
दशमाध्याये
एषोऽध्यायः पाताधिकारसंज्ञं इति भट्टोत्पलः पठति ।
अत्र श्लोकाः-
रविचन्द्रयुतौवैधृतिव्यतिपातौभार्द्धचक्रयोर्दिवसाः ।
गतियुतिहृतमूनाधिकक्रमापक्रमांशैःसमैःपातः ॥ १ ॥
रविशशिपातगतिघ्नं हीनाधिककर्म्मचन्द्रगतियुत्या।
भक्तं फलयुतोनौरविशशिनावन्यथापातः ॥ २ ॥
तत्क्रान्तिं स्वक्रान्तिं कृत्वाऽर्केन्दोः शशाङ्कविक्षेपम् ।
सूर्य्यकान्तौ चन्द्राद्विपरीतं कारयेन्नित्यम् ॥ ३ ॥
तस्य क्रान्तिकलादिश्चापं चन्द्रो यदाद्यपदे ।
षड्राशितो द्वितीये शोध्यं षड्भिस्तृतीये तु ॥ ४ ॥
युक्तं च्युतं चतुर्थे चक्राच्चन्दोनिशार्धचन्द्रेण ।
विवरं कृत्वा विभजेत् स्फुटभुक्त्याप्तं दिनादिकः कालः ॥ ५ ॥
चापशशिनो यदोनो गत एष्यश्चाधिके विनिर्देश्यः ।
पातश्चतेन चार्कोऽर्धरात्रिकः पातकालिकः कार्य्यः॥ ६ ॥
पातश्चैवं भूयोभूयः कुर्यादपक्रमः स्थिरो यावत् ।
तुल्यः स एव कालो मध्यं व्यतिपातवैधृतयोः ॥ ७ ॥
इन्दोर्मिथुनहयान्ते स्वक्रान्तिः स्थाद्दिवाकरक्रान्तेः।
ऊना यावद्भावस्तावद्भवोऽन्यथा ज्ञेयः ॥ ८ ॥
अयनान्यत्वेऽर्केन्दोः क्रान्त्यासाम्ये भवेद्व्यतीपातः ।
एवं गोलान्यत्वे वैधृतसमयो ग्रहोतव्यः॥ ९॥
रविशशिमानैक्यार्धात् षष्टिगुणाद् गतिविशेषभक्ताद्यत्।
लब्धस्थितिदलघटिका मध्यं हीना स्वमाद्यन्तौ ॥ १०॥
त्रिनवग्रहेन्टुक्रान्तिर्मेषतुलादौ दिवाकरक्रान्तेः।
ऊना यावद्भावस्तावद्भावोऽन्यथा ज्ञेयः॥ ११ ॥
व्यतिपातोऽपक्रमयोर्द्दिक्साम्ये वैधृतं दिगन्यत्वे ।
अधिकोनः कल्प्यो दिग्भेदेऽपक्रमः शशिनः ॥ १२ ॥
मेषतुलादाविन्दोरपक्रमे रव्यापक्रमादूने ।
एष्यत्यधिकेऽतीतो विपरीतं कर्किमकरादौ ॥ १३ ॥
क्रान्तेर्यतिरन्यदिशोरेकदिशोरन्तरं व्यतीपाते।
एकदिशोर्युतिरन्यदिशोरन्तरं वैधृतं प्रथमः ॥ १४ ॥
एवं द्वितीयराशिर्यतिहीनैरिष्टघटिकाः स्वफलैः ।
एष्यमतीतं वा यदि राशिद्वयमपि तदन्तरकम् ॥ १५ ॥
केटोऽन्यथा तदैक्यं पातस्येष्टघटिका प्रथमराश्योः ।
फलघटिकाभिर्मध्यं द्वयोरपि प्रथमराशिवशात् ॥ १६ ॥
असकृत्कर्म्मभिरेभिः पातकालःस्फुटःकार्य्यः।
तात्कालिकैर्ग्रहैरसकृदिष्टघटिकाफलोनयुक्तैस्तैः ॥ १७ ॥
प्राग्वत् प्रथमे छेदः प्रमाणयोऽर्द्धलिप्तानाम् ।
इष्टघटिकागुणानामसकृत् फलनाडिकाभिराद्यन्तौ॥ १८ ॥
कालस्यास्ययथावत् पातस्यैवं स्फुटं ज्ञेयम् ।
व्यतिपातवैधृतानयनमन्यतन्त्रेषु न ग्राह्यम् ॥ १९ ॥
रविविम्बमेकमार्गो शशिविम्बोऽपक्रमो भवति यावत् ।
तावत्फलं तद्भुक्तंतद्भावे तत्फलाभावः ॥ २० ॥
खण्डखाद्यकमिदं तृप्त्यर्थं ग्रहगतिक्षुधार्तानाम् ।
शिष्याणां हितार्थंप्रोक्तंजिष्णुसुतब्रह्मगुप्तेन ॥ २१ ॥
एकादशाध्याये
भट्टोत्पलपठितः परिलेखाध्यायः -
सूर्ये चन्द्रे जह्यात् स्कुटतिथ्यन्तं भवेदेव ।
लिप्तिकाः जत्वा विवरं तद्व्यस्तंकारयेत्तिथिगते वा ॥ १ ॥
गम्येऽपि पुनस्ताभ्यां समलिप्तौ कारयेत् प्राग्वत् ।
दिनगतशेषाल्पयुतं स्वपातयुक्तं दिनं दिनार्द्धहृतम् ॥ २ ॥
अङ्गुलविलिप्ता तुल्यैर्यवोदररङ्गुलैः षड्भिः ।
ग्राह्यग्राहकदलात् समासविक्षेपलिप्तिकाभेदः ॥ ३ ॥
अङ्गुललिप्ता त्रिज्या वलनज्यानां भवेदिष्टः ।
ग्राह्यसमासव्यासाङ्गलार्द्धाङ्गुलेन कर्कटेनोव्याम् ॥ ४ ॥
वृत्तत्रितयं कृत्वा तस्मिन् दिक्साधनं कुर्य्यात् ।
तत्तिथिनतकेन्द्रज्यावधोवरतः (?) शशिनवेन्दुगुणाः ॥ ५ ॥
क्षयधनहानिः प्राक्पश्चादन्यथारवेरिन्दोः ।
इन्दोर्वसुनववेदैस्त्रिज्यातिलब्धविकलितः प्राक् ॥ ६ ॥
पश्चादभ्यधिकोक्तःसकृदथोन्यथेन्दुर्धनहीनः ।
प्राग्वत् पश्चावगतौ धनक्षयक्षयधनानि प्राक् ॥ ७ ॥
केन्द्रण्याकरणे यो गुणकारी रविचन्द्रयोस्ताभ्याम् ।
केन्द्रगती सङ्गुणिते खखनन्दहृते गतिज्ये(?) स्तः ॥ ८ ॥
तद्विवरा(?)त्तिथ्यन्ते प्राक्तिथ्यन्ते नियोजयेदधिके ।
प्राक् प्रभृतीन्दोः पश्चादर्कमस्यदिशः स्ववलनजोवाभिः ॥ ९ ॥
विक्षेपा विपरीताश्चन्द्रस्य यथादिशं सवितुः।
सूर्य्यस्य ग्रहणे शशिनो मोक्षे विपर्य्ययाद्वलना ॥ १० ॥
देया शशिनो ग्रहणे मोक्षे सूर्य्यस्य चानुलोमेन ।
व्यासार्द्धे वलनज्यादेया यावत् समाप्यते यत्र ॥ ११ ॥
यस्मान् मध्यं यावद्रेखां नीत्वा तया तत्र ।
संयोगस्तस्मादपि मानैक्यार्द्धेपृथक् स्वविक्षेपात् ॥ १२ ॥
ग्राह्योविक्षेपाग्रात् परिलेख्यो ग्राहकार्धेन ।
तीक्ष्णाकिरणस्य मध्यग्रहेदिर्ंदक्षिणोत्तरं ज्ञात्वा ॥ १३ ॥
विक्षेपवशात् तस्यां वलना देया विपर्य्ययाच्छशिनः ।
प्रग्रहमोक्षानुगतां तदग्रतो मध्यगां रेखाम् ॥ १४ ॥
नीत्वा विक्षेपमितं सूत्रं निःसारयेत् प्रतोपेतत् ।
मध्ये कृत्वा ग्राह्यंपरिलेखो ग्राहकार्धेन॥ १५॥
प्रग्रहमोक्षग्रासाद् भूपरिलेखे भवत्येव ।
पश्चात्प्रग्रहणे11 प्राङ् मोक्षे रविविम्बमध्यतो बाहुः ॥ १६ ॥
स्ववलनसिद्धज्यादिशि विपरीतः शीतकरमध्यात् ।
भानुमतो बाह्यग्राद्यथादिशं कोटिरन्यथा शशिनः ॥ १७ ॥
रविशशिमध्यात् कर्णस्तिर्यक् कर्णाग्रे कोटियुतेः।
परिलेखं ग्राह्यस्य ग्राहकमानेन पूर्व्ववत् कृत्वा ॥ १८ ॥
तत्कालिकसंस्थानं निमीलनोन्मीलनेऽप्येवम् ।
आद्यन्तयोः सधूम्रःकृष्णः खण्डग्रहेऽर्द्धतोऽभ्यधिके ॥ १८ ॥
ग्रासः कृष्णस्ताम्रःसर्वग्रहणे कपिलवर्णः ।
द्वादशभागादूनं ग्रहणं तैक्ष्णाद्रवेरनादेश्यम् ॥ २० ॥
षोडशभागादिन्दोः स्वच्छत्वादधिकमादेश्यम् ।
पादोनरविभार्द्धाच्चक्रादूनाधिकाः कला भक्ताः ॥ २१ ॥
तदगति(?)युत्याप्तदिनैरासन्नेऽर्कमासान्ते ।
पर्वेन्दोः पक्षान्ते प्रागधिकोनायुतिर्भवति पश्चात् ॥ २२ ॥
चन्द्रस्य दिग्विपरीतं मध्यग्रहणं यदि भानोः पञ्चजिनखभरसाः ।
इन्दोः विषया द्वियमाः खाब्धयो गृहाद्यथेष्टपर्वगुणाः ॥ २३ ॥
क्षेप्याः पर्वण्येथे(१) पातेऽन्यथाऽतीते।
ग्रहणे यदा रवीन्दोः स्पष्टीकरणाद्यामुक्तवत् कृत्वा ॥ २४ ॥
एवं पर्वज्ञानं ग्रहणज्ञानं स्फुटं गणितात् ।
इति खण्डखाद्यके महाकरणे सूर्यचन्द्रग्रहणाधिकारविधिः
सम्पूर्णम्। शुभमस्तु ।
शुद्धिपत्रम्
| पृष्ठे | पङ्क्तौ | अशुद्धम् | शुद्धम् |
| ३२ | ६ | पीतः | पातः |
| ६४ | २९ | भागद्वयेन | सार्द्धभागद्वयेन |
| १२० | ४ | अथातो उदयास्तमताध्यायो | अथात उदयास्तमनाध्यायो |
एतद्व्यतिरिक्ता अशुद्धयो या उपलप्स्यन्ते ताः सर्व्वाविद्वद्भिःकृपया मर्षणीयाः शोधनीयाश्च।
————♦————
**
]
-
“रणश्चमाना in the manuscript,” ↩︎
-
“Here a considerable part of the commentary has been left out in the manuscripts.” ↩︎
-
“The manuscript is faulty at this place.” ↩︎
-
“The rule is quite correct and there is no reason to doubt that it is an inter. polation. Ed.” ↩︎
-
“This step taken by Prthūdaka is evidently wrong.” ↩︎
-
“बृहत्संहितायां ग्रहवर्षफलाध्यायस्य १-३ श्लोकाः।” ↩︎
-
“ब्राह्मस्फुटसिद्धान्ते, १३श अः, ४५ शोकः।” ↩︎
-
“ब्राह्मण ढसिद्धान्ते चतुर्थाध्यास्यद्वितीयःटीकोऽयम्।” ↩︎
-
“आदर्शपुस्तकमसम्पूर्णमिति।” ↩︎
-
“बाह्मस्फुटसिद्धान्तान्तर्गत-षोडशाध्यायस्थाः१६श-१८श-श्लोका होभे।” ↩︎