अधि(क)मासपरीक्षा

[[अधि(क)मासपरीक्षा Source: EB]]

[

[TABLE]

॥ अत्रेयमभ्यर्थना ॥

अस्माकं मुद्रालये वेद-वेदान्त-धर्मशास्त्र-प्रयोग-योग-सांख्य-ज्योतिष-पुराणेतिहास-वैद्य-मंत्र-स्तोत्र-कोश-काव्य-चम्पू-नाटकालंकार-संगीत-नीति-कथाग्रंथाः, बहव स्त्रीणां चोपयुक्ता ग्रंथाः, बृहज्ज्योतिषार्णवनामा बहुविचित्रचित्रितोऽयमपूर्वग्रंथः, संस्कृतभाषया, हिन्दी-मार्वाड्यन्यतरभाषाग्रन्थास्तlत्तच्छास्त्राद्यर्थानुवाद-काः, चित्राणि, पुस्तकमुद्रणोपयोगिन्यो यावत्यस्सामग्र्यः,स्वस्वलौकिकव्यवहारोपयोगिचित्रचित्रितालि-खितपत्रवत्पुस्तकानि च, मुद्रयित्वा प्रकाशन्ते सुलभेन मूल्येन विक्रयाय॥ येषां यत्राभिरुचिस्तत्तत्पुस्तका-द्युपलब्धये एवं नव्यतया स्वस्वपुस्तकानि मुमुद्रयिषुभिः सुलभयोग्यमौल्येन सीसकाक्षरैः स्वच्छोत्तमोत्तम-पत्रेषु मुद्रिततत्पुस्तकानां स्वस्वसमयानुसारेणोपलब्धये च पत्रिकाद्वारा तैः प्रेरणयोऽस्मि॥

अधिकमस्मदीयसूचीपुस्तकानां भिन्नभिन्नविषयाणां
प्रापणेन “श्रीवेङ्कटेश्वरसमाचार” पत्रिकाप्रा-
पणद्वारा च ज्ञेयमिति शम्।

क्षेमराज श्रीकृष्णदास,

“श्रीवेङ्कटेश्वर” (स्टीम् ) यन्त्रालयाध्यक्ष - मुम्बई.

[TABLE]

अधिमासपरीक्षायां प्रमाणीकृतग्रन्थकृतां नामानि ।

[TABLE]

एतद्ग्रन्थमुद्रणोपायः।

आर्षसिद्धान्ततत्त्वबोधार्थं विहितेयमधिमासपरीक्षा मुम्बापुरीगौरवस्तम्भाय श्रेष्ठिकुलावतंसाय श्रीकृष्णदास-सूनवे श्रीक्षेमराजमहोदयाय समर्पिता। तेनोत्साहभाजा यशस्विना स्वयन्त्रालये विदुषा मानन्दाय संमुद्र्येतेति शिवम्।

१२\।४\।१९०१

जयपुरम्

पं० श्रीदुर्गाप्रसाद द्विवेदशर्मा.

॥ भूमिका ॥

चित्रं देवानामुदगादनीकं चक्षुर्मित्त्रस्यवरुणस्याग्नेः।
आप्रा द्यावापृथिवी अन्तरिक्षँ सूर्य आत्मा जगतस्तस्थुषश्च॥

अयि श्रुतिस्मृतिसदाचरणप्रणयिनो महाशयाः! यावत्तत्रभवतां भगवत्सु महर्षिषु प्रत्यक्षधर्मत्वपरावरज्ञत्ववि-दितवेदि तव्यत्वाधिगतयाथातथ्यत्वोपश्लिष्टा प्रेक्षा जागर्ति, जागर्ति च तदनुषङ्गेण तदीयासु सूक्तिषूपादेय-ता, तावदस्माकीनोऽयं लेखोऽतितरां सुखाकुरुतात्।

अस्मिन्महर्षीणां वचनानुरोधेनाष्टपञ्चाशदुत्तरैकोनविंशति शततमे विक्रमाब्दे १९५८ आषाढः श्रावणोवाऽ-धिमासो भवितुमर्हतीति सम्यक् परीक्षितम्।

तथा महर्षिग्रन्थेषु मूलाशुद्धिं व्यवस्थाप्य हानसेन्1-न्यूकम्ब्2प्रभृतीनां युरोपियन्गाणितिकानां पुस्तकाधारेण यत्तिथिपत्त्रंनिर्मीयते तत्खलु दृष्टगणितमात्रोपयुक्तमित्यपि किञ्चिन्निरूपितम्।

भवन्ति चात्र प्राचीनतत्त्वावगाहिनः श्लोकाः -

मूलाशुद्धिर्महर्षीणां वचने यदि तर्क्यते।
तदास्मदादिवत्तेषां सर्वज्ञत्वं न युज्यते॥
अतस्तदुक्तधर्मेषु मिथ्यात्वादिविभावनात्।
वेदोक्तफलसिद्ध्यर्थं प्रतिभा नावतिष्ठते॥
इत्थं प्रसज्जते सर्वविश्वासाभावभावना।

तिथ्यादितदनुष्ठेयकर्मणां तु कथैव का॥
आस्तां तावद्भूरिवादा लौकायतिककल्पना।
या निरस्ता समस्तैव प्रशस्तश्रुतिशालिभिः॥
प्रकृते तु महर्षीणां सर्वज्ञत्वप्रथाजुषाम्।
आज्ञयैव प्रवर्तन्ते धर्मकर्माणि यत्नतः॥
तैरेव पुनरादिष्टा द्वेधा गणितकल्पना।
दृष्टादृष्टफलप्राप्त्यै ततो धर्मव्यवस्थितिः॥

॥श्रीगणेशाय नमः ॥

॥अधि(क)मासपरीक्षा॥
__________

॥नवग्रहेभ्यो नमः ॥

प्रत्यग्रस्तनयित्नुमञ्जिमहरं तापिच्छगुच्छच्छवि-
व्याकोशासितसारसालिसुषमाद्वैराज्यसज्जस्पृहम्।
यत्कृष्णात्मकमप्यपारतिमिरप्राग्भारमुन्मूलय-
न्नित्यं स्वान्तसरोरुहे सुकृतिनां हंसायते तन्नुमः॥
सिद्धान्तसंहितातत्त्वक्षोदोदञ्चत्कलेवरा।
अधिमासपरीक्षेयं क्रियते धीमतां मुदे॥

अथ खलु गजेषुनन्देन्दुमिते १९५८ विक्रमवत्सरे आषाढः श्रवणोवाऽधिमासकोटिं प्रवेष्टुमीष्ट इतीतस्ततो वर्धमानं सांवत्सराणां भूयांसं कलकलमाकर्ण्य संदिहानैरन्तेवासिभिरसकृदावेदितैरस्माभिरुच्चावचान्निब-न्धानाकलय्य वादतरङ्गिणीती रारूढप्रज्ञं किञ्चिदुदीर्यते-

तत्राषाढाधिमासपक्षपातिनः सूर्यसिद्धान्तमकरन्दरामविनोदादिभ्यस्तिथिपत्त्रं साधयन्तः सौरपक्षावलम्बितया प्रतीताश्चिरन्तनाः। श्रावणाधिमासपक्षपातिनस्तु द्विविधाः, एके ब्रह्मसिद्धान्तकरणकुतूहलप्रभृतिभ्यस्तिथिपत्त्रं संपादयन्तो ब्रह्मपक्षावलम्बितया प्रसिद्धाः। परे युरोपियन्गणितप्रतिरूपकेण तिथिपत्रं प्रवर्त्तयन्तो नूतनाः।

सर्वेऽप्येते श्रौतस्मार्तक्रियाफलकामुका आस्तिका इत्यंशेन मनागपि विप्रतिपत्तिकाण्डम्। इतरथा मानानां स्वातन्त्र्ये गगनकुसुमायतेऽधिकमासमीमांसा।

अथ कस्तावदधिमासः किंरूपकश्चेति विविदिषायामित्थ माह स्म श्रीविश्वरूपाचार्यः—

‘अधिमासैः सौरमासा लभ्यन्ते यदि का तदा।
एकाधिमासकेनैवमनुपाताप्तमासकैः॥
सौरैश्चान्द्रोऽधिमासः स्यात्रिंशदिष्टेन्दुवासरः।
गौणमेनमुपेक्ष्यास्य परिणामः कृतो बुधैः॥
दर्शान्तावधिके मध्यचान्द्रमासे तु वर्जिते।
मध्यार्कसंक्रमेणास्य परिणामः स्फुटे स्फुटः॥’ इति

ननु ‘द्वादशमासाः संवत्सरः’ इति तैत्तिरीयश्रुत्या यद्यपि मस्यते परिमीयते भास्वतो गतिरत्रेति वा मस्येते परिमीयेते चन्द्रमसः कलाविर्भावतिरोभावौ यस्मिन्नित्यापाततः सौरचान्द्रान्यतरपक्षावगाहिबोधोदयेन प्रकृतं नोपस्क्रियते तथापि ‘अस्ति3 त्रयोदशो मासः’ इति तैत्तिरीयश्रुत्यन्तरे पूरणप्रत्ययेन मा सस्य त्रयोदशत्वश्रवणान्मेषादिसंक्रमणानां द्वादशसंख्यातिक्रम णायोगाच्च निर्विकल्पमध्यवसीयतेऽधिकमासीयं सत्त्वम्।

तत्र प्राङ्निरूपितचरमयोगस्य किं वा चन्द्राभिधेयकं ‘मास्’ इति सकारान्तं प्रातिपदिकमासाद्योपपादित-स्यैव मासपदार्थस्य

निर्वचनं संगच्छते। तत एव ‘मासास्तथा च तिथयस्तुहिनांशु मानाद्’ इति तान्त्रिकाणां प्रवादः।

सूर्यसिद्धान्तमतेनैकाधिमाससंबन्धिनः साग्राः सौरमासाः-

३२।१६।३।५५।५
तावति काले सावयवाश्चान्द्रमासाः-
३३।१६।३।५५।५

सृष्ट्यारम्भादेकहेलया प्रवर्त्तमानयोः सौरचान्द्रमानयोरन्तः सौरापेक्षया चान्द्रः एकोधिको धनुःसंक्रमणस्य गतांशेषु १६।३।५५।५ कृष्णद्वितीयाया यातघटिकादिषु ३।५५।५ सामत्र्यमापेद इति संक्षेपः

ब्रह्मसिद्धान्तमतेन त्वेते-
साग्राः सौराः ३२।१६।५।१४।३१
साग्राश्चाान्द्राः ३३\।१६।५।१४।३१

एवं च स्पष्टमानेन स्पष्टचान्द्रमासः : स्पष्टसंक्रमणविकलः स्पष्टाधिमासो मध्यमासंक्रमणलक्षणाधिकमास-परिणामरूपः पर्यवस्यति।

तत्र संक्रमणविशिष्टानां चान्द्रमासानां चैत्रादिसंज्ञायोगित्वं न केवलानाम्। तथा चाह स्म श्रीविश्वरूपाचार्यः-

‘अत एवार्कमेषादिसंक्रमैश्चान्द्रमासकाः।
युक्ता ये ते क्रमेण स्युश्चैत्रायाख्या मुनिस्मृताः॥
सक्रान्तिरहितोऽसंज्ञश्चान्द्रो मासोऽधिको भवेत्।
अधिकत्वादुत्तरे तु मासेऽस्य गणना स्मृता॥ ’ इति

चित्रया युक्ता पौर्णमासी चैत्री, सा यस्मिन् मासि स चैत्र इति व्युत्पादितश्चैत्रादिशब्दश्चान्द्रमासे योगरूढः तथा चोक्तम्

‘चैत्रादिशब्दाश्चान्द्रे स्युर्मुख्या गौणाः परेषु च।
शास्त्रप्रसिद्धेः प्राबल्याल्लौकिक्या गुणयोगतः॥’ इति।

यद्यपि सर्वाः पौर्णमास्यश्चित्राविशाखाज्येष्ठादिनक्षत्रयुक्ता न भवन्ति तथापि स्वात्यनूराधामूलादिनक्षत्रयुक्ता जायन्त इति ततोऽपि चैत्रादिसंज्ञाकरणे न बाधः।

अत्रेदमाकूतम् -

‘नक्षत्रेण सहोदयमुपगच्छति येन देवपतिमन्त्री।
तत्संज्ञं वक्तव्यं वर्षंमासक्रमेणैव॥
वर्षाणि कार्त्तिकादीन्याग्नेयाद्भद्वयानुयोगीनि।
क्रमशस्त्रिभं तु पञ्चममुपान्त्यमन्त्यं च यद्वर्षम्॥’

इत्याचार्यश्रीवराहमिहिरोक्त्या यथा कृत्तिकायां रोहिण्यांवा वर्त्तमाने गुरौ कार्त्तिकसंज्ञाकरणं तथैव चित्रया स्वात्या वा युक्तायां पौर्णमास्यां मासश्चैत्र इति सौरभाष्ये श्रीनृसिंहाचार्यः।

एवं च ससंक्रमस्यैव चैत्रादिसंज्ञालाभेऽसंक्रमः संज्ञावैकल्यादधिक इति। तथा चाधिको मासोऽधिमास इति निर्व्यूढम्। यद्यपि ‘मेषादिस्थे सवितरि यो यो मासः प्रपूर्यते चान्द्रः। चैत्राद्यःस ज्ञेयः’ इत्याचार्यश्रीब्रह्मगुप्तो-क्त्यार्कराशिसंबन्धम हिम्नामुष्य पूर्वमाससंज्ञत्वमवसीयते तथापि तदीयेव ‘पूर्त्तिद्वित्वे धिमासोऽन्त्यः’ इत्या-र्याशेषेण तथा-

‘षष्ट्या तु दिवसैर्मासः कथितो बादरायणैः।
पूर्वमर्धं परित्यज्य उत्तरार्धं प्रशस्यते॥’

इत्यनेन चोत्तरमाससंज्ञत्वं व्यवस्थाप्यत इति तत्त्वम्।

इत्थं च श्रुतिस्मृतिभ्यां समवधारितसत्ताकोऽधिमासः केन पक्षेण साध्य इत्यत्राषाढवादिन एवं निश्चिन्वन्ति-

‘पौलिशरोमकवासिष्ठसौरपैतामहास्तु सिद्धान्ताः।
पञ्चाभ्यो द्वावाद्यैौ व्याख्यातौ लाटदेवेन॥
पुलिशविहितः स्फुटोऽसौ तस्यासन्नस्तु रोमकप्रोक्तः।
स्पष्टतरः सावित्रः परिशेषौ दूरविभ्रष्टौ ॥

इत्याचार्यश्रीवराहमिहिरवचनेन सूर्यसिद्धान्तस्य स्पष्टतरत्वं ब्रह्मवसिष्ठसिद्धान्तयोर्विभ्रष्टत्वं चावगम्य तथा-

‘श्रीसूर्यसिद्धान्तमतोद्भवार्का-
त्साध्यौ तदा तावधिकक्षयाख्यौ।’

इत्यादिज्योतिर्विदाभरणवचनेनाधिमासक्षयमासयोर्निर्णयार्थं विशेषतः सूर्यसिद्धान्तसमादरमवधार्य शुद्धमा-र्गप्रवृत्तैः सौरपक्ष एवाश्रयणीय इति।

वस्तुतः समादरणीयं सौरतन्त्रम्। तत एव विन्ध्याद्रर्दक्षिणोत्तरभागयोरधिकांशे सूर्यसिद्धान्तोपजीविनां नि-बन्धानामाधारेण विहितानि तिथिपत्त्राण्यद्यावधि प्रवर्त्तन्त इति प्रतिव्यक्ति व्यक्तम्। एतत्पक्षीयतिथिपत्त्रा-पेक्षया ब्रह्मपक्षीयाणां तिथिपत्त्राणां मन्दप्राया प्रवृत्तिः। तत्र चिराय ब्रह्मपक्षस्य खिलीभवनप्रथापि निमित्तभू-ता। यतो ब्रह्ममतपरिष्करणबद्धपरिकरेणाचार्यश्रीब्रह्मगुप्तेनापिस्वसिद्धान्तप्रारम्भे-

‘ब्रह्मोक्तं ग्रहगणितं महता कालेन यत्खिलीभूतम्।
अभिधीयते स्फुटं तज्जिष्णुसुतब्रह्मगुप्तेन ॥’

इत्युदटङ्कि। आर्यपक्षीयप्रवृत्तिस्तु ततोऽपि तनीयसी।

एतद्ग्रन्थसाधितस्य तिथ्यादेर्व्यवहारो विशेषतो माध्वसंप्रदाये। तथा चोक्तं कृष्णामृतवाक्यार्थे-

विष्णोश्च जन्मदिवसानि हरेर्दिनं च
विष्णुव्रतानि विविधानि च विष्णुभंच।
कार्याणि चार्यभटशास्त्रत एव सर्वैः’ इत्यादि।

एवं च सूर्यपितामहव्यासवसिष्ठात्रिपराशरकश्यपनारदगर्गम रीचिमन्वङ्गिरोलोमशपुलिशच्यवनयवनभृगु-शौनकानुबन्धप्रसिद्धानामष्टादशसिद्धान्तानां मध्ये संप्रति सौरब्रह्मपक्षावेव तत्रतत्र व्यवह्रियमाणावुपलभ्येते। आर्यभटीयादिमानुषसिद्धान्तानां मध्ये तु प्राधान्येनार्यपक्ष एव यत्र कुत्रापि विरलप्रचारोऽवतिष्ठते। इतरे तूत्सन्नप्रायास्तत्रतत्र प्रत्नपण्डितकुटीरकोणमध्या सते।

अथैकदेशिनो रामविनोदसारणीगणितेनाषाढकृष्णामावास्यायां सोमे द^(१)र्शान्तादूर्ध्वं कर्कार्कप्रवेशं तिथिप-त्त्रेषु प्रकाशय

( १ ) दर्शघट्यादि ५३।२९ कर्कार्क घट्यादि ५३।५७ एवं च प्रतिपदि २८ पलेषु संक्रमणं भविष्यति। एतच्च सारणीग-णितेन दर्शितम्॥ मूलग्रन्थेनापि यथा - शास्त्राब्दपिण्डः ३११ ‘अब्दः शिवघ्नः - ’ इत्यादिना स्फुटमेषार्कसंक्रमकालिकश्च-न्द्रधुवः ९।१६।५२।३१ ‘खवेद निघ्नः-’ इत्यादिनोच्चध्रुवः ६।९।१६।२८ बीजमृणम् ०।१।४०।२ एतत्संस्कृत उच्चध्रुवः ६।७।३६।२६ ‘अब्दोनगाभ्रद्विहतः -’ इत्यादि-

न्तोऽपीनमण्डलान्तपक्षकक्षीकारेण श्रावणस्याधिकत्वं व्यवस्थापयन्ति। तत्र मलं मृग्यते-

नाब्दपतिः शुक्रः। शेषम् ६९८।३६।४५ शुद्धिः १०१।२३।१५ ‘ग्रहभुक्तिहता -’ इत्यादिना सूर्यशुद्धिः ०।०।७।३० अनया ध्रुवः ११।२७।५१।३४युतः पराहोदयिको जातः ११।२७।५९।४ चन्द्रशुद्धिः ०।१।४०।१२अनया संयुतः पूर्वसाधितश्चन्द्रधुवः ९।१८।३२।४३ उच्चशुद्धिः ०।०।०।५१ एतद्युतो ध्रुवः ६\।७।३७।१७ ‘मासाः’

क्रि।यदेः- ’ इत्यादिना दिनगणः ९३ ‘वियन्नगांशोनदिवागणः -’ इत्यादिना गणजागतिः ३।१।३९।४० ध्रुवाढ्या जातो मध्यमार्कः २।२९।३८।४४ ‘त्रिघ्नद्युपिण्ड -’ इत्यादिना गणजा गतिः४।२५।२४।३ ध्रुवाढ्या जातो मध्यमश्चन्द्रः२।१३।५६।४६ ‘नन्दैः कुतर्कैः–’ इत्यादिना गणना गतिः ०।१०।२१।३१ ध्रुवाढ्या जातं चन्द्रोच्चम् ६।१७।५८।४८ ‘स्वदेश रेखान्तरयोजनैः-’ इत्यादिना सूर्यदेशान्तरम् ०।०।३ अनेन संस्कृतः सूर्यः २\।२९\।३८\।४७ चन्द्रदेशान्तरम् ०।०।०।३८ अनेन संस्कृतश्चन्द्रः २।१३।५७\।२४ ’ रवेः फलं - ’ इत्यादिनार्कभुजान्तरमृणम् ०।०।०।४ अनेन संस्कृतः सूर्यः २\।२९\।३८\।४३ चन्द्रभुजान्तरनृणम् ०।०।१।४ एतत्संस्कृतश्चन्द्रः २।१३।५६। २० ‘जल्लालदीनाकबरक्षितीन्द्र-’ इत्यादिनाऽयनखेटः ८।१०।६।० ततश्चलांशा धनम् २१।१।४८ ‘मध्यो विवस्वान्–’ इत्यनेन सूर्योदयान्तरमृणम् ०।०।०। १७ एतत्संस्कृतोर्कः २।२९\।३८\।२६ चन्द्रोदयान्तरमृणम् ०।०।३।४६ एतत्संस्कृतश्चन्द्रः २।१३।५२।३४ चरमृणम् ०\।०\।१\।५४ अनेन संस्कृतोऽर्कः २।२९।३६।३२ चन्द्रचरम् ०।०।२५।२८ अनेन संस्कृतश्चन्द्रः २।१३।२७।६ ‘इनादिकानां -’ इत्यनेन सूर्यस्य मन्दफलमृणम् ०।०।२७।४९ एतत्संस्कृतः सूर्यः स्पष्टः २ । २९\।८\।४३ भोग्यखण्ड गुणिता -’ इत्यादिना गतिफलमृणम् २।१० अनेन संस्कृता मध्यगतिः स्पष्टा ५६।५८ चन्द्रस्य मन्दफलं धनम् ०।४।९।२४ एतत्संस्कृतश्चन्द्रः

‘दर्शाग्रतो मण्डलनाडिकान्तं
मासः स सूर्येन्दुसमागमान्तः ।
तदन्तरे चेद्रविसंक्रमः स्या-
त्तदा स शुद्धस्त्वधिकोऽन्यथासौ॥’

इति स्वोपज्ञे सिद्धान्तसुन्दरे श्रीज्ञानराजदैवज्ञा उत्प्रेक्षन्ते। तद्रहस्यख्यापिका सिद्धान्तसार्वभौमप्रतिपादिता पद्यद्वयी-

‘अर्केन्दुगत्यन्तरनाडिकाभिः
शष्टिर्घटीनां यदि तर्हि का स्यात्।
तद्बिम्बयोगार्धकलाभिरेवं
त्रैराशिकादाप्तघटीभिरन्तः॥
अमाग्रतोऽर्केन्दुयुतेः स्फुटोऽसौ्
तदन्तरात्मा शशिमास उक्तः।
शुद्धोऽर्कसंक्रान्तियुतोऽधिकस्तु
तद्वर्जितः स्यादिति सुन्दरोक्तम्॥’ इति।

अत्रेदं तत्त्वम्- तत्रतत्र प्राचामर्वाचां चोपजीव्योपजीवक भावनापन्नेष्वपि ग्रन्थेषु सूर्याचन्द्रमसोः केन्द्रसमसू-त्रैक्यरूपयो गादधिकश्चान्द्रमासो व्यवह्रियते खलु सर्वत्र। परं श्रीमद्भिर्ज्ञान

स्पष्टः २।१७।३६।३० गतिफलं धनम् ३७।३३ एतत्संस्कृता मध्भमा गतिः स्पष्टा ८२८।८ व्यर्केन्दुभागाः -’ इत्यादिना गततिथयः २९ अमाया भुक्तघट्यादि २।१० भोग्यघट्यादि ५३।५१ कर्कार्कप्रवेशकालो घट्यादिः ५४।१ एवं मकरन्दादपि प्रतिपदि संक्रमो भविष्यतीति विदां कुर्वन्तु विदांवराः॥

राजदैवज्ञैः सूर्यमण्डलपूर्वनेमिचन्द्रमण्डलप्रत्यङ्नेमिसंयोगलक्षण एव योगोऽवाधारिरूपम्। इत्थं च निर्दि-ष्टानुपातासादितनाडि काभिः केन्द्रयोगादनन्तरं तादृशसूर्येन्दुमण्डलस्पर्शरूपचान्द्रमास इति।

इहैतन्मीमांस्यते- ग्रहचारप्रवृत्तिकाले लङ्कायमकोट्यन्य तरोदयक्षितिजरेखायां दृश्यमानौ स्वस्वकक्षाम-ण्डलेऽश्विन्यादौ ब्रह्मणा निवेशित किलसूर्याचन्द्रमसौ पूर्वस्यां दिशि गन्तुं प्रवृत्तौ। ततः सूर्याद् गत्यन्तरेणा-ग्रेभचक्रं कामंश्चन्द्रो यावता समयेन पुनः सूर्यमासादयति तावानेकश्चान्द्रमास इति। उदय क्षितिजरेखायां सूर्यादीनां बिम्बकेन्द्रावस्थानमाहोस्विन्नेमिभा गावस्थानं तत्क्षणमासीदिति विकल्पे प्रथमकोटिरेव4 सिद्धान्त प्रणयिनीत्युपरिष्टाद् विस्तरः।

‘अर्धास्तमनसंध्या हि घटिकात्रयसंमिता।
तथैवार्धोदयात्प्रातर्घटिकात्रयसंमिता॥’

इति महर्षिणा नारदेनाभाणि। तत्रार्धोदयार्धास्ताभ्यामुदयास्तक्षितिजे भगवतो भास्करस्य बिम्बकेन्द्रसत्त्वमेव विवक्षितम्। तथासत्येव क्षितिजरेखाया उभयतः समं वर्त्तमानस्य बिम्बदेशस्य तादृशार्धोदयास्तप्रतिपादनं युज्यते। एवमेव-

‘संध्यां प्राक् प्रातरेवं हि तिष्ठेदासूर्यदर्शनात्’

इति महर्षियाज्ञवल्क्यस्मृतिव्याख्याने परमहंसपरिव्राजकाचार्यविज्ञानेश्वरभट्टारकेण व्याकृतम्- ‘अहोरात्रयोः संधौ या क्रिया विधीयते सा संध्या। तत्र अहः संपूर्णादित्यमण्डलदर्शन योग्यः कालः। तद्विपरीता रात्रिः। य-स्मिन् काले खण्डमण्डलस्योपलब्धिः स सन्धिः।’ इति॥ अत एव सिद्धान्तसार्वभौमे-

‘तत्तुच्छं गणितं केन्द्रं स्वीकृत्योक्तं बुधैर्यतः।
अन्यथा भादिनेम्यैक्यं संक्रान्तिर्नोच्यते कथम्॥’

इतीनमण्डलान्तमाननिरासायाम्नातम्। अत्रेदमाचार्याकूतम्- प्रवर्त्तते खलु सर्वत्र खेटबिम्बकेन्द्रमूरीकृत्यैव योगादिगणितजातम्। अतश्चान्द्रमासपरिच्छेदोऽपि बिम्बकेन्द्रैक्यसंबन्धे नैवनिरूपयितुमुचितो न तावद् बि-म्बनेम्यैक्यसंबन्धेन। इतरथा बिम्बकेन्द्रराश्यादिप्रदेशसमसूत्रैक्यरूपसंक्रमणस्थलेऽपि राश्यादिप्रदेशसूर्य-बिम्बप्रत्यङ्नेमियोग एव सौरमासान्तत्वात्संक्रान्तिः किमिति नाङ्गी क्रियते। अहो एकत्र निर्णीतः शास्त्रार्थो-ऽपरत्रो पयुज्यत इति न्यायात्सौरचान्द्रमासयोरेकविधयैवाधिमासार्थं ग्रहणमुचितम्।

केचन5 पुनः-

‘षष्टिघ्नबिम्बं ग्रहभुक्तिभक्तं
संक्रान्तिनाड्योऽखिलधर्मकृत्ये।
रवेस्तु ताः पुण्यतमा ग्रहः स्व-

संक्रान्तिगो मिश्रफलं विधत्ते॥
शशितनुविकलाभ्यश्चन्द्रभुक्त्येन्दुभान्वो-
र्गतिविवरकलाभिर्भूय एताभिरेव।
पृथगथ गतियुत्या नाडिकाः संधिराप्ता
भतिथिकरणयोगानां फलं तत्र मिश्रम्॥’

इति सिद्धान्तशिरोमणिरिनमण्ढलान्तमानसाधक आस्त इति कीर्त्तयन्ति। तदविचारितरमणीयम्। स्पष्टग्र-हभुक्तिविकलाभिरहोरात्रमानरूपाः षष्टिसावनघटिकास्तदा बिम्बविकलाभिः किमित्यनुपातेन या घट्य आनीयन्ते ता राश्यन्तबिम्बकेन्द्रैक्य कालात्प्रागर्धाः पश्चादर्धाः फलार्थमुपयुज्यन्ते। तदानीं बिम्बकेन्द्रस्य भु-क्तभोक्ष्यमाणराशिसन्धिनिष्ठबिन्दुलक्षणातीन्द्रियभुज्यमानप्रदेशविशेषारूढत्वात्पूर्वापरपालिभागयोरुभयरा-शिसंबद्धत्वाच्चमिश्रफलाभिधानं युक्तिसिद्धम्। राश्यन्ते बिम्बकेन्द्रसंचरण काल एव संक्रमणपदार्थ इति-

‘भवनान्तं बिम्बमध्यं6रात्र्यर्धात्प्रागुदेति चेद्।’

इति संक्रान्तिपुण्यकालकलनापरेण ब्रह्मसिद्धान्तश्लोकेन स्पष्टम्। निरूपितनाड्यो यथायथा बिम्बकेन्द्रसं-निहितास्तथा तथा विशिष्टफलख्यापिका इत्यर्थः-

‘यायाः संनिहिता नाड्यस्तास्ताः पुण्यतमाः स्मृताः’।

इत्यनेन वसिष्ठवचनेन सुव्यक्त एव। एवं च फलातिशयबोधनार्थं बिम्बकेन्द्रपर्यन्तमेव धावनमिष्टमाचार्या-णाम्। तत एव-

‘सुस्थे नरे सुखासीने यावत्स्पन्दति लोचनम्।
तस्य त्रिंशत्तमो भागस्तत्परः परिकीर्त्तितः॥
तस्माच्छततमो भागस्त्रुटिरित्यभिधीयते।
त्रुटेः सहस्रभागो यः स कालो रविसंक्रमे॥’

इति सूक्ष्मताप्रदर्शकं देवीपुराणं संगच्छते। एतेन नक्षत्रतिथिकरणयोगसंधयोऽपि व्याख्याताः।

इनमण्डलान्तमानवादे तु रवीन्द्वोकेन्द्रयोगादनन्तरोद्भवा नाड्योऽपेक्ष्यन्ते। तत्र दर्शान्तादुपरि किञ्चिन्न्यून-घटीत्रयादूर्ध्वं चान्द्रमासान्ताङ्गीकरात्। अहो पूर्वत्र पूर्वापरपुण्यघट्यः साधिताः। परत्र केन्द्रयोगादूर्ध्वमधिमा-सार्थं मासो व्यवस्थापितः। एवं विषयभेदेऽपि बिम्बकेन्द्रोत्तरनाडिकाश्रवणमात्रेणवमण्डलान्तमा नमभ्युप-गच्छन्तः कस्य हास्यास्पदं न भवेयुः। तैरुपरागादौ मौक्षिकस्थित्यर्धनाड्योऽपीनमण्डलान्तमानसाधनार्थं क-स्मान्नोत्प्रेक्ष्यन्ते। पुण्यघटिकास्तु सर्ववादिसंमतास्तत्रतत्रोपदिश्यन्ते।

यथा सूर्यसिद्धान्ते-

‘अर्कमानकलाः षष्ट्यागुणिता भुक्तिभाजिताः।
तदर्धनाड्यः संक्रान्तेरर्वाक् पुण्यं तथा परे॥ ’ इति।

ब्रह्मसिद्धान्तेऽपि -

‘मानार्थात्षष्टिगुणाद्भुक्तिहृतान्नाडिकादिलब्धेन।
राश्यन्तात्प्रागादिः पश्चादन्तोऽर्कसंक्रान्तेः॥
संक्रान्तिपुण्यकालो यलब्धं नाडिकादि तद्द्विगुणम्।

स्नानजपहोमदानादिको धर्मो विशिष्टफलः॥’

एवमन्यत्राप्यार्षेमानुषे निबन्धे। बिम्बकेन्द्रस्य राश्यवसाने संचरणकालः संक्रमकालः। तस्य सूक्ष्मत्वेन दुर्ज्ञे-यत्वात्कोऽपि स्थूलकालोऽभ्युपेयः। स च प्राङ्नेमिसंचरण कालात्पश्चिमनेमिसंचरणकालावधिकः। तदर्धघ-ट्योव्यासार्थघटिकाः संक्रान्तिकालात्पूर्वोत्तरकाले पुण्या इति श्रीमद्रङ्गनाथदैवज्ञव्याख्यांशः।

एतेन वस्तुस्थितेरनवबोधादेव केनचित् -

‘षष्टिघ्नबिम्बमिति भास्करमण्डलान्ताः
संक्रान्तयोऽपि कथिता यदि निर्णयार्थम् ।
नैवादृता वदसि धर्मनिबन्धकारै-
स्तर्ह्यस्तु तैः क्व लिखितस्तव मण्डलान्तः ॥’

इति प्रपञ्चितम्। संक्रान्तीनां भवनान्तकेन्द्रैक्याभिप्रायेणैवाभिहितत्वात्। पुण्यकालमात्रस्य तत उभयत्र प्रतिपादितत्वात्। ‘दर्शाग्रतः संक्रमकालतः प्राक् सदैव तिष्ठत्यधिमासशेषम्’ इत्यादौ रवीन्दुबिम्बकेन्द्रयोरेकसूत्रवृत्तित्त्वत्लक्षणदर्शान्तादूर्ध्वं निरूपित तादृशसंक्रमणकालादध एवाधिशेषावस्थानस्य सर्वसंमतत्वाद् इहैव ‘रवीन्द्वोर्युतेः संयुतिर्यावदन्या विधोर्मासः’ तथा ‘गर्भसूत्रे सदा स्यातां चन्द्रार्कौ समलिप्तिकौ’ इत्यादिवाक्यानांस्वारस्याच्च।

अत्रेदं पुनराकलनीयम्- दर्शान्तात्प्राक् पश्चाच्चेषन्न्यूनघटी त्रयात्मकः संभूय किञ्चिन्न्यूनघटीषट्कात्मकः कालो दर्शितरीत्या

संधिमर्यादामाश्रयन्पूर्वोत्तरमाससंश्लिष्टफलमतिदिशति। तत्र -

‘प्रतिपद्दर्शसंधौ तु बिम्बैक्यं सूर्यचन्द्रयोः।
जवान्तराप्तं षष्टिघ्नं नाडिका अर्कमण्डलम्॥’

इति पैतामहं वाक्यं साधकम्। यदीनमण्डलान्तवादमभ्युपगम्य प्रवृत्तमेतत्तर्हि तत्र परघटीनामेवोपयोगात्पू-र्वघटीसाधनमनर्थकं स्यात्। तथा-

‘चान्द्रो मासो ह्यसंक्रान्तो मलमासः प्रकीर्त्तितः।’

इति पैतामहवाक्यमपि व्याकुप्येत। पूर्वस्य मण्डलान्तपरत्वे परस्य तन्निरपेक्षमेव मलमासप्रतिपादकत्वे पूर्वापरवचनविरोधापातात्। प्रकृतवाक्यं हि मण्डलान्तनिरपेक्षमेवाधिमासं प्रयोजयतीति ‘स्पष्टार्कसंक्रान्ति-विहीन उक्तो मासोऽधिमासः’ इति पद्यस्य पीयूषधारावगाहनेनापि स्पष्टम्। यत्पुनः-

‘स्फुटगत्या यदा चन्द्रो रविमण्डलमध्यगः।

तदूर्ध्वं7 संक्रमे भानोर्मासः स स्यान्मलिम्लुचः॥’

इति पुलिशवचनं तत्र द्वितीयचरणे ज्योतिर्निबन्धे ‘नेमिगः’ इति पाठो लभ्यते। स च पैतामहादिवाक्यस्वारस्येन सौरबिम्बमध्यपरिध्यभिप्रायेण व्याकर्त्तव्यः।‘मध्यगः’ इति तु मध्यशब्दस्य ‘वृत्तस्य मध्यं किल केन्द्रमुक्तम्’ इत्याचार्योक्त्याकेन्द्रसमानार्थकत्वादुत्तानाशयः। अत्र

‘यदा शशी याति गभस्तिमण्डलं
दिवाकरः संक्रमणं करोत्यनु।

विवाहयज्ञोत्सवनाशहेतुक-
स्तदाधिमासः कथितः स्वयम्भुवा॥’

इत्याचार्यलल्लोक्तम्। इहेतरगभस्तिमण्डलग्रहणानौचित्यान्माध्यमिकगभस्तिमण्डलग्रहणे तात्पर्यम्। तत्र ‘मासान्ते रवि शशिनौ समौ भवेताम्’ इति तदीयं वचनमपि समनुग्राहकम्। वस्तुतस्तु ‘गभस्तिमद्दलम्’ इ-ति पाठेन भवितव्यम्। ततः केन्द्रे पर्यवसानं स्पष्टम्। एतदज्ञात्वैव केनचिद्-

‘यदा शशीति लल्लोक्तौ यथार्थस्य विभावनात्।
अमाविगमतः पूर्वं घटीनां त्रितयं हि यत्॥
तदूर्ध्वं संक्रमः प्रोक्तो मण्डलान्तो न कर्हिचित्।
एतस्यैवार्थभूतं हि शास्त्रीयं वचनं शृणु॥
सिनीवालीमतिक्रम्य यदा संक्रमते रविः।
भानुना लङ्घितो मासो गर्हितः सर्वकर्मसु॥
‘सा दृष्टेन्दुः सिनीवाली सा नष्टेन्दुकला कुहूः।’
इति कोशबलान्मूढः दर्शशेषं प्रतीयते॥

इति द्रविडप्राणायामः कृतः । एवम्-

‘सवितृमण्डलमेति यदा शशी
तदनु संक्रमणं कुरुते रविः।
मखमहोत्सवनाशकरस्तदा
मुनिवरैः कथितो ह्यधिमासकः॥

इत्याचार्यश्रीपतिप्रतिपादितम्। इहापि पृष्ठकेन्द्रलक्षणं सवितृमण्डलं विवक्षितम्। तत्र ‘दर्शावधिं चान्द्रमुशन्ति मासम्’

इति तदीयं वचनमप्यनुकूलम्। इयतैव सूपपत्तौ केनचिद्

‘सवितृमण्डलमित्यादिवाक्यैर्वदसि चेद्यदि।
पौरुषाणि न चार्षाणि तानि ते संमतानि चेत्॥
तेषामर्थः प्राञ्जलोऽपि मौख्यज्ज्ञातो न हि त्वया।
यदा यस्मिन् क्षणे चन्द्रो मण्डलं सवितुः स्पृशेत्॥
तदनु तत्क्षणादेव पश्चात्संक्रमते रविः।
तदाधिमासो विज्ञेय इत्यर्थस्तस्य नापरः॥’

इति निःसारं प्रपञ्चितम्॥ प्राचां रहस्यानवगमेनैव पुनः शार्ङ्गधरफलग्रन्थे-

‘चन्द्रार्कयोस्तु बिम्बैक्यं प्रतिपद्दर्शसंधिषु।
तिथ्यन्तात्तदुभयतो रसनाड्योऽर्कमण्डलम्॥
तन्मण्डलाच्छशी गच्छेत्ततः सूर्यस्य संक्रमः।
मासोऽसौ मलिनः प्रोक्तो न तद्वीनोऽधिकः स्मृतः॥’

तथा कालनिर्णये-

‘संक्रमो यदि भवेद्रवेस्ततो
मण्डलाद् बहिरनिर्गते विधौ।
उच्यते स हि ससंक्रमो बुधैः
शुद्धमास इतरो मलिम्लुचः॥’

तथा ज्योतिःप्रकाशे-

‘दर्शान्त एकैः कथितोत्र मासः
परैः प्रदिष्टो रविमण्डलान्तः।

मतद्वये चेद्रविसंक्रमः स्या-
त्स एव पूर्वस्य न चापरस्य ॥’

इति गतानुगतिकमर्यादया कथितम्। मुहूर्त्तमार्त्तण्डे पुनर्नारायणपण्डितैः ‘ब्रह्माद्यैरिनमण्डलान्त उदितश्चा-न्द्रस्त्वमान्तः परैः’ इत्यभिधाय टीकायामुक्तप्रायाणि वाक्यानि संगृह्य बहु विरुद्ध मुदीरितम्। तथा हि- “अ-मावास्यान्ते सूर्यचन्द्रमण्डलयोर्योगो भवति। परतः षड्भिर्घटिकाभिर्वियोगो भवति। तस्माद्वियोगादपरो वि-योगो यावत्तावद्रविमण्डलान्तो मासः। स ब्रह्माद्यैक्षयमासाधिमासनिर्णयविषयेऽङ्गीकृतः” इति। अमान्ताद् बिम्बविश्लेष पर्यन्तं घटीषट्कसत्त्वायोगाद्दूष्यमेतत्। “अत्र यद्यपि सूर्यग्रहणे मध्यग्रहणकालानन्तरं मोक्ष-स्थितिकालः षड्घटिकाभ्यो न्यूनो दृश्यते तथापि सूक्ष्मदर्शिभिः पूर्वाचार्यैः ‘रसनाड्योऽर्कमण्डलम्’ इत्यु-क्तम्। तत्रागम एव प्रमाणम्॥” इति समाधानमपि ‘रसं नाड्योऽर्कमण्डम्’ इत्यस्य तात्पर्यानवबोधात्प्रतार-णमात्रम्। क्षयमासलक्षणं व्याख्याय पुनस्तैरेव “अस्योदाहरणं ब्रह्ममतानुसारिणा श्री भास्कराचार्येण सिद्धा-न्तशिरोमणौ दर्शितम्-

असंक्रान्तिमासोऽधिमासः स्फुटं स्याद्
द्विसंक्रान्तिमासः क्षयाख्यः कदाचित्।
क्षयः कार्त्तिकादित्रये नान्यतः स्या-
त्तदा वर्षमध्येऽधिमासद्वयं च॥
गतोऽब्ध्यद्रिनन्दैर्मिते शाककाले

तिथीशैर्भविष्यत्यथाङ्गाक्षसूर्यैः।
गजाद्र्यग्निभूभिस्तथा प्रायशोऽयं
कुवेदेन्दुवर्षैः क्वचिद्गोकुभिश्च ॥’ इति ।

श्री भास्कराचार्येण अब्ध्यद्रिनिन्दैः ९७४ मितशाककालादुपरि तिथीशैः१११५ मितशाककालात्पूर्वंसिद्धा-न्तशिरोमणिर्विरचितः। अत एवोक्तम् ‘गतोऽब्ध्यद्रिनन्दैर्मितेशाककालेतिथी शैर्भविष्यति’ इति। तत्र गजा-द्र्यग्निभूमिः १३७८ तुल्ये शाककाले रविमण्डलान्तमासप्रमाणेन क्षयमासाधिमासौ प्रदृश्येते- आश्विनी अमा-वास्या बुधे चतुश्चत्वारिंशद्धघटिका ४४। तस्मिन्नेव दिने सप्तत्रिंशद्घटिकासु ३७ अतीतासु तुलासंक्रमणम-भूत्। आश्विन स्तुलासंक्रान्तियुक्तत्वाच्छुद्धः। कार्तिकी अमावास्या शुक्रे सप्तदशघटिका १७। तस्मिन्नेव दिने त्रिंशद्घटिकासु ३० अतीतासु वृश्चिकसंक्रान्तिरभूत्। अयमसंक्रान्तित्वादधिकः कार्तिकः। अपरो मासो वृश्चिकसंक्रान्तियुक्तः। तस्माच्छुद्धोऽयं कार्तिकः। तस्यामावास्या शनौ सप्तचत्वारिंशद्घटिका ४७। तस्मि-न्नेव दिने एकोनषष्टिघटिकासु ५९ अतीतासु धनुःसंक्रपणमभूत्। धनुःसंक्रमणं मार्गशीर्षे जातम्। तस्यामा-वास्या सोमे पादोनपञ्चदशघटिका १४। १५। तस्मिन्नेव दिने एकोनविंशतिघटिकासु १९ अतीतासु मकरसं-क्रान्तिरभूत्। इयं मकरसंक्रान्तिर्यद्यप्यमान्तमतिक्रम्य जाता। तथापि रविमण्डलान्तमासप्रमाणेन पूर्वमासे एव पतिता। तस्मात्संक्रान्तिद्वययुक्तत्वान्मार्गपौषयुगलं क्षयाह्वयं

जातम्। माघी अमा भौमे एकचत्वारिंशद्घटिका ४१। तस्मिन्नेव दिने षट्चत्वारिंशद्घटिकासु ४६ अतीतासु कुम्भसंक्रान्तिरभूत्। इयमपि संक्रान्तिर्यद्यपि मासमतिक्रम्य जाता। तथापि मण्डलान्तमासप्रमाणेन पूर्वमा-सस्यैव। तस्मान्माघः शुद्धः। मण्डलान्तमासानङ्गीकारे-

‘न क्षयो नाधिमासः स्यान्माघो वै परिकीर्त्तितः।’

इत्येतच्छास्त्रमनर्थकं स्यात्। आर्यपक्षे तु संदेहो नास्ति। यतो ब्रह्मक्षतिथित आर्यपक्षतिथिश्चतुर्घटिकाधिका ब्रह्मपक्षसंक्रान्तित आर्यपक्षसंक्रान्तिस्त्रिघटिकोना॥ तस्मादार्यपक्षे संदेहाभावः। तथा च फाल्गुनी अमा गुरौ षट्घटिका ६। तस्मिन्नेव दिने पञ्चत्रिंशद्घटिकासु ३५ अतीतासु मीनसंक्रान्तिर्जाता। तस्मादयं फाल्गुनः असंक्रान्तित्वादधिकः। ‘क्षयः कार्त्तिकादित्रये नान्यतः स्यात्तदा वर्षमध्येऽधिमासद्वयं च’ इति तस्योदाहरणं दर्शितम्” इति निरूपितम्।

तदपि निःसारम्। मार्गमान्तात् सपादघटीचतुष्टयोत्तरं ४।मकरसंक्रान्तिसत्त्वे तथा माघामान्तात् पञ्चघटि-कानन्तरं ५।कुम्भसंक्रमसत्त्वे प्राङ्माससंबन्धाभिधानायोगाद्, इनमण्डलान्त मानवादिभिः केन्द्रयोगादूर्ध्वं किंचिन्न्यूनघटीत्रयात्मककालेनैव बिम्बविप्रयोगव्यवस्थापनाद्, गणितमर्यादया तथैवोपलम्भात्, स्वातन्त्र्ये मानाभावाच्च।

यत्पुनरिनमण्डलान्तवादानभ्युपगमे ‘न क्षयो नाधिमासः

स्याद् -’ इत्यनेन माघमूलिका8 विप्रतिपत्तिरुद्भाविता। सापि -

‘अष्टानां फाल्गुनादीनां प्रायो माघस्य च क्वचित्।
नपुंसकत्वं भवतीत्येष शास्त्रविनिश्चयः ॥’

इति पितामहसिद्धान्तमूलभूतविष्णुधर्मोत्तरवचनविरोधादुपेक्ष्या। ‘दशानां फाल्गुनादीनाम्’ इति निर्णयसि-न्धुस्थः पाठः। सूर्यलक्षणपुंसंबन्धाभावान्नपुंसकत्वम्। वक्ष्यमाणप्रमाणैः सर्वेषां मासानामधिकत्वाध्यवसायेन पूर्ववाक्यस्य प्रायोभिप्रायपरतया योजनाद् वार्या वा। तथा चार्षवचनानि-

‘सर्वेषु मासेष्वधिमासकः स्या-
त्तुलादिषट्केऽपि च शून्यमासः।
संसर्पकः सर्वभवो हि मासः
सर्वेऽपि चैते खलु निन्द्यमासाः ॥ '

‘प्रायशो न शुभः प्रोक्तो ज्येष्ठश्चाषाढ एव च।
मध्यमश्चैत्रवैशाखावधिकोऽन्यः सुभिक्षकृत्॥
प्रायः कार्त्तिकमासस्य वृद्धिर्नेष्टेह तादृशी।
आत्यन्तिकी यदा सा स्याज्जगदौत्पातिकं तदां॥
देव कार्त्तिकमासोऽयं वर्ध ते नापि हीयते।
मासानामितरेषां वै वर्धनं प्राह नारदः॥

तत्त्वविवेककारैरपि निर्णीतम्-

‘असंक्रान्तिमासो हि चान्द्रोऽधिमासो

द्विसंक्रान्तिमासः क्षयाख्यस्तदानीम्।
क्षयाख्यः कदाचित्ततः प्राक् च पश्चा
दवश्यं हि तत्राधिमासद्वयं स्यात्॥
स्फुटैर्लक्षणैर्यैरयं तानि वर्षे—
ष्वपि स्युर्मधोश्चान्द्रमासेषुकाले।
अतोऽयं क्षयः सर्वचान्द्रेष्वपीत्थं
न जानन्ति सद्वासनाज्ञानशून्याः॥
इदानीन्तनार्थं न शास्त्रं प्रवृत्तं
न सत्कार्त्तिकादित्रयोत्थं तदुक्तम्।
सुयुक्ता न मुन्युक्तिरप्यत्र शास्त्रे
भवेत्कार्यवर्यस्य यादृग्विरुद्धा॥ ’ इति।

तस्मात् -

‘अष्टाधिमासाः स्युर्नित्यं प्रोच्यन्ते फाल्गुनादयः।
सौम्यपौषौ क्षयौ नित्यं भवेतामिति निश्चितम्॥
क्षयो वाप्यधिमासो वा स्यादूर्ज इति निश्चितम्।
न क्षयो नाधिमासः स्यान्माघोवै परिकीर्तितः॥
पञ्च मासास्तु वैशाखादधिमासा व्यवस्थिताः।
भवन्ति चाष्टभिर्वर्षैर्भवैर्वाङ्कनिशाकरैः॥
तथैव फाल्गुनश्चैत्र आश्विनः कार्तिकोऽधिकः।
एते क्विन्द्रैः शराङ्गैर्वांकदाचिद्गोकुवत्सरैः॥
मार्गपौषौ क्षयौस्यातां कदाचित्कार्तिको भवेत्।

अधिमासस्तदा ज्येष्ठो भवेन्नित्यं क्षयो यदा॥
क्षयात्प्रागधिमासः स्यान्नित्यं भाद्रपदत्रये।
आश्विनोर्जौ सदा स्यातामादौ भाद्रपदः सकृत्॥’

इति पैतामहाः श्लोकाः प्रायोवादपराः।

अत्रेदं पुनरभिधातव्यम्- ‘गतोऽब्ध्यद्रिनन्दैः - ‘इति श्लोकेन तावति काले ये क्षयमासा उदाहृतास्ते न क्रा-मिकास्तत्संभूतिहायननिर्देशो न नियमाभिप्रायकश्चरमः क्षयमासो न पारमार्थिक इति सुधीभिर्भृशं विचार-णीयमिति।

चतुःसप्तत्यधिकनवशतीसंख्यं ९७४ शालिवाहनशकमारभ्य चतुश्चत्वारिंशदधिकसप्तदशशतीशकपर्यन्त-म् १७४४ अमी क्षयमासा व्यतिक्रान्ताः-

शके ९७४ मार्गशीर्षः क्षयः। तत्पूर्वापरवृत्ती आश्विनचैत्रावधिकावभूताम्। शके १०९६ कार्तिकः क्षयः। स च चैत्रश्चाधिकः। शके १११५ मार्गशीर्षः क्षयः। तत्पूर्वापरवृत्ती आश्विनचैत्राधिकौ। शके ११८० मार्गशीर्षः क्षयः। तत्पूर्वापरवृत्तिकार्तिकवैशाखावंधिकौ। शके ११९९ मार्गशीर्षः क्षयः। तत्पूर्वापरवृत्तीकार्तिकफाल्गुनावधि-कौ। शके १२३७ कार्तिकः क्षयः। स च फाल्गुनश्चाधिकः। शके १२५६ मार्गशीर्षः क्षयः। तत्पूर्वापरवृत्ती आ-श्विनफाल्गुनावधिकौ। शके १३०२ कार्तिकः क्षयः। स च वैशाखश्चाधिकः। शके १३२१ मार्गशीर्षः क्षयः। त-त्पूर्वापरवृत्ती कार्तिकचैत्रावधिकौ। शके १३९७

पौषः क्षयः। तत्पूर्वापरवृत्ती आश्विनफाल्गुनावधिकौ। शके १४४३ कार्तिकः क्षयः। स च वैशाखश्चाधिकः। शके १४६२ मार्गशीर्षः क्षयः। तत्पूर्वापरवृत्ती आश्विनचैत्रावधिकौ। शके १६०३ मार्गशीर्षः क्षयः। तत्पूर्वपर-वृत्ती आश्विनचैत्रावधिकौ।

शके १७४४ शुक्लादिमानेन भाद्रपदकृष्णे कृष्णादिमानेनाश्विष्णे चतुर्दश्यां शनौ २४। १७ कन्यासंक्रान्तिः ५६।८। कन्यार्कयुक्तत्वाच्छुद्धो भाद्रः। भाद्रकृष्णः कृष्णादिमाने प्रथमाश्विनकृष्ण इत्युच्यते। ततः शुक्लकृ-ष्णाभ्यामुपलक्षित आश्विनोऽसंक्रान्तित्वादधिकः। कृष्णादिमानेऽमुष्य शुक्लपक्षः प्रथमाश्विनशुक्ल इति कृ-ष्णपक्षो द्वितीयाश्विनकृष्ण इति चोच्यते। ततो द्वितीयाश्विनशुक्ले प्रतिपदि भौमे ६०। ० तुलासंक्रान्तिः २१। ५६ तुलार्कयुक्तत्वाच्छुद्ध आश्विनः। ततो द्वितीयाश्विनकृष्णोत्तरं मतान्तरे कार्तिककृष्णोत्तरं कार्तिकशुक्ले प्रतिपदि गुरौ ४४।१० वृश्चिकसंक्रान्तिः १४।४२। ततः शुक्लादिमानेन कार्तिककृष्णे कृष्णादिमानेन मार्ग-शीर्षकृष्णेऽमायां शुक्रे २७।३ धनुःसंक्रान्तिः ४३।१४।इयं संक्रान्तिर्दर्शमतिक्रम्य संभाव्यमानमार्गशीर्षशु-क्लप्रतिपदि व्यजायत। पुनस्तादृशे मार्गशीर्षकृष्णे मतान्तरे तादृशपौषकृष्णेऽमायां रवौ १६।२२ मकरसं-क्रान्तिः १।४४। इयं संक्रान्तिर्दर्शान्तात्प्राक् पतिता। तस्माद्दर्शान्ताद्दर्शान्तावधिर्केंएकस्मिंश्चान्द्रमासे धनुर्म-करसंक्रान्त्योः सत्त्वातदनुरोधेन मार्गशीर्षपौषलक्षणे

संज्ञाद्वितये प्राप्ते पूर्वसंज्ञां व्युदस्पोत्तरामेव व्यवहरन्ति सांप्रदायिकाः। तथा च प्राक् संज्ञाव्युदासे क्षयो मार्ग-शीर्ष इति फलितम्। तत्र शुक्लादिमानवादिनां मते मार्गशीर्षोभयपक्षयोः स्थाने पौषोभयपक्षयोर्व्यवहारः। कृष्णादिमानवादिनां मते तु मार्गंशीर्षशुक्लपक्षस्थाने पौषशुक्लस्य मार्गकृष्णस्थाने माघकृष्णस्य व्यवहारः। तथा च मार्गंशीर्षस्य शुक्लपक्षः पौषस्य कृष्णपक्षः इत्येतौ संभूयैकचान्द्रमासो नष्ट इति फलितम्। इत्थं च शुक्लादिवादे पौषकृष्णे कृष्णादिवादे माघकृष्णे मकरसंक्रान्तिरभूत्। ततो माघशुक्लोत्तरं तदीये कृष्णे म-तान्तरे फाल्गुनकृष्णेऽमायां चन्द्रे ६०।० कुम्भसंक्रान्तिः २८। ४९। कम्भार्कयुक्तत्वाच्छद्धोमाघः। ततः फा-ल्गुन शुक्लोत्तरं तत्कृष्णे मतान्तरे चैत्रकृष्णाऽमायां बुधे ४३।१ मीनसंक्रान्तिः १९।१८। मीनार्कयुक्तत्वाच्छु-द्धः फाल्गुनः। एतत्कृष्णपक्षः पूर्ववत्प्रथमचैत्रकृष्णः। ततश्चैत्रकृष्णोऽमायां शुक्रे १५।४३ मेषसंक्रान्तिः ४१।५५। दर्शान्तादूर्ध्वं संक्रान्तेश्चैत्रोऽधिकः। प्राग्वदस्य शुक्लपक्षः प्रथमचैत्रशुक्ल इति इति कृष्णपक्षो द्वितीय-चैत्रकृष्ण इति चोच्यते। द्वितीयचैत्रशुक्लपक्षस्तु शुद्धमाससंज्ञीति।

एवमेष क्षयमासोबालव्युत्पत्त्यर्थं सम्यक् प्रतिपादितः। तत्कालमारभ्यैतत्कालपर्यन्तमपरः क्षयमासो नोद-पद्यत। त्रिषष्ट्युत्तरसप्तदशशततमे १७६३ शालिवाहनशके मण्डलान्तमानेनैकःक्षयमासः पतितो यथा-

मार्गशीर्षशुक्लेप्रतिपदि चन्द्रे ५०।३५ धनुःसंक्रान्तिः ३८।३३। पुनरेतत्कुष्णेऽमायां भौमे १६।१८ मकरसं-क्रान्तिः ५६।४३। इयमुत्तरमासे शुक्लप्रतिपदि जाता। पुनरेतत्कृष्णपक्षेऽमायां गुरौ २२।३३ कुम्भसंक्रान्तिः २३।४८। यद्यपीयं9 दर्शान्तादुपरि पतिता। तथापि मण्डलान्तगणनानुसारेण प्रागूरीकृता। तस्मादेकचान्द्र-मासे संक्रमद्वयपातात्पाषस्यै क्षयत्वं सिद्धम्।

स्यादेतद्- यदि मण्डलान्तमाने दृढतरं मूलं लभ्येत- तदेव तु दुर्लभम्।ब्रह्मादिवाक्यं न प्रकृतमाननिरूप-णेऽलङ्कर्मीणमिति प्रागेव व्यवस्थापितम्। अन्धपरम्परया प्रतिपादितं शार्ङ्गधरादि पौरुषवचनं पुनरश्रद्धेय-मेव। न ह्येकेनान्यथा निबद्धं तात्पर्यं सहस्रेणाप्यनूदितं पार्थक्येन गण्यते, परमार्थतो वा गृह्यते।

एकं दृढतरं10 प्रमाणं पुनरिदं ध्येयम्- यदीनमण्डलान्तमानमार्षमेव तदैनद्गणनानुसारेण पतितं पौषमासस्य क्षयत्वं किमिति नाङ्गीकृतम्। आसंश्च तत्समयेऽपि काश्यादितीर्थे जयपुरादिरा जधान्यां भूयांसो ज्योतिःशा-स्त्रपटीयांसो गणकाः। एतैः पुनस्तिथिपत्रेषु पौषक्षयः किमभिप्रेत्य न लिखितः।

अहो तदानीं ज्योतिर्निबन्धस्य मुहूर्त्तमार्त्तण्डस्यान्यस्य वा यस्य कस्यचिदिनमण्डलान्तप्रतिपादकस्य ग्रन्थस्य पुस्तकं नास्ति किमु आहोस्विदिदानीन्तनैरिव तात्कालिकैर्गाणितिकैरिन मण्डलान्तस्य तात्पर्यं न बुद्धम्। मूलस्य दौर्बल्यं प्रवृत्तेर्वैकल्यं

चोपलभ्यैवम्प्राया विकल्पाः प्रादुर्भवन्ति, न पुनरस्माकं मण्डलान्तवादोपरि विद्वेषः। भवति चात्र श्लोकः-

‘मासश्चेदिनमण्डलान्तविधिना ग्रन्थान्तरे वर्त्तते
तर्ह्यास्तांननु नागनन्दभुजगक्षोणीप्रमे (१८९८) वैक्रमे।
वर्षे शास्त्रविचारशालिशरणे काशीप्रयागादिके
तन्मानापतितोऽपि किं तिथिपटे नालेखि पौषक्षयः ॥’

एवमेव प्राङ्गनिरूपितो मार्त्तण्डवल्लभोदाहृतो गजायग्निभू (१३७८) शकीयः क्षयमासोऽपि भ्रष्टः। तथान्येऽ-पि केचन सिध्यन्ति। ते विस्तरभिया न प्रदर्शिताः। अत्र लेखकाध्यापकाध्येतृदोषाद् गजाद्र्यग्विभूशकीयस्य भ्रष्टत्वमिति संभावयितुं पार्यते। कदाचिदष्टसप्ततिस्थाने सप्तनवतिसंख्या स्याद्। यतः सप्तनवेत्यधिकत्र-योदशशताब्द्यां क्षयमासः सिध्यति। तस्माद् ‘नगाङ्काग्निभूभिः (१३९७)’ इति पाठो भवेत्। ‘प्रायशोऽयं कुवे-देन्दुवर्षैः क्वचिद् गोकुभिश्च’ इति प्रायोवादो नातिप्रयोजनीय इति तात्पर्यं ‘प्रागयतश्चेत्यर्थादुक्तं स्यात्’ इति वासनाभाष्येणोत्तानमेव। इह नियमद्वये पूर्वपेक्षया परस्य भूयश्चारितार्थ्यमित्यपि वक्तुमुचितम्। एवं च ‘क्व-चिद्’ इत्युभययोगि द्रष्टव्यम्।

उदाहृतक्षयेष्वियदन्तरम् -

१०९६-९७४=१२२, १११५-१०९६=१९,

११८० - १११५=६५, ११९९-११८०=१९,

१२३७–११९९=३८, १२५६-१२३७=१९,

१३०२-१२५६=४६, १३२१-१३०२=१९,

१३९७-१३२१=७६, १४४३-१३९७=४६,

१४६२-१४४३=१९, १६०३-१४६२=१४१,

१७४४-१६०३=१४१ ॥

उपयोगित्वादासन्नमानं प्रदर्श्यते-

$\frac{१५९३३०००००}{४३२०००००००}$

$= \frac{५३११}{१४४००} = ० + \frac{१}{२} + \frac{१}{१} + \frac{१}{२} + \frac{१}{२} + \frac{१}{६} + \frac{१}{१} + \frac{१}{१} + \frac{१}{७} + \frac{१}{३} + \frac{१}{२}$

तत आसन्नमानानि-

$\frac{०}{१},\frac{१}{२},\frac{१}{३},\frac{३}{८},\frac{७}{१९},\frac{४५}{१२२},\frac{५२}{१४१},\frac{९७}{२६३},\frac{७३१}{१९८२},\frac{२२९०}{६२०९},\frac{५३११}{१४४००}$

यत्पुनर्मार्त्तण्डवल्लभायां ‘यत्तु ब्रह्मपक्षे क्षयमासाधिमासनिर्णयेऽमान्तं मासं गणयन्ति तैर्ब्रह्ममतं न विदितम्’ इति प्रतिपादितं, तदपि साहसमात्रम्। यतो ब्रह्मसिद्धान्तरहस्यस्थापनबद्धपरिकरेणाचार्य श्रीब्रह्मगुप्तेन ब्र-ह्ममतमुपादाय ब्राह्मस्फुटसिद्धान्तो व्यरचि। तत्रेनमण्डलान्तस्य लेशोऽपि नावाचि तत्रभवता।

अहो येन विना सकलं ब्रह्ममतं व्याकुली भवति तन्मौलं

रहस्यमेवाचार्येण नावेदीति वल्लभाकार इव कः प्रेक्षावान् श्रद्दध्यात्। आचार्यस्य ब्रह्ममतसंशोधकता-

‘यत्सूक्ष्मं गतिवित्तये व्यरचयं शास्त्रं ग्रहणामहं
तस्योच्छित्तिरिहास्ति विस्तरभयान्मा भूदितीवात्मभूः।
संक्षिप्तीकरणाय जिष्णुतनयव्याजेन यस्मादभू-
त्तस्मादेव च तत्त्वबोधनिपुणास्तं ब्रह्मगुप्तं जगुः॥’

इति श्लोकेन ब्रह्मसिद्धान्तभाष्ये चतुर्वेदाचार्येणापि प्रकाशिता।

एवम्प्रायप्राचीनग्रन्थरहस्यमज्ञात्वैव ज्यौतिषरायेण पुनः-

‘किं च मार्तण्डटीकायां लिखितं स्पष्टमेव हि।
ब्रह्मपक्षे विधातव्या मण्डलान्तक्रिया बुधैः॥
कल्पितो ब्रह्मगुप्तोऽस्ति एवं शास्त्रस्य डिण्डिमः।
कल्पिते कल्पना युक्ता न युक्ता देवनिर्मिते॥’

इति। तथा प्रागुक्तं ‘प्रतिपद्दर्शसंधौ तु -’ इति श्लोकं विलिख्यानन्तरम्-

‘इति ज्योतिर्निबन्धाख्ये यस्त्वदुक्तः पितामहः।
सब्रह्मगुप्त एवास्ति न तु साक्षात्पितामहः॥
निर्मूलतास्य सिद्धान्तकारैः सस्यक् प्रदर्शिता।’

इति च जल्पितमिति संक्षेपः।

किं च मण्डलान्तवादादरे- अमा सह वसतः सूर्याचन्द्रमसौ यस्यां स अमावस्या।‘अमावस्यदन्यतरस्याम्’ इति ण्यत्। दृश्यते सूर्यचन्द्रयोर्युतिरत्रेति दशः। ‘हलश्च’ इति घञ्। सूर्येन्दू संगच्छतो यत्र स सूर्येन्दुसमागमः। ‘पुंसि संज्ञायां घः प्रायेण’

इति घः। एवमादयः प्राचां योगा विलीयन्ते। न च नेमियोग सत्त्वेऽपि संगच्छन्त इति वाच्यम्। यदृच्छाविभ-क्तबिम्बीय नानाप्रदेशावच्छेदेन जायमानासु युतिषु केन्द्रयुतेरधिकावरक तया ज्यायस्त्वाद्। यद्यपि वास-नयाऽधिबिम्बं यः कोऽपि देशो मध्यत्वव्यपदेशार्हतया पृष्ठकेन्द्रपदवाच्यो भवितुमर्हति। तथापि प्रकृते भूग-र्भकेन्द्रान्नीयमानं किल सूर्यस्याद्यद्वितीयतृतीयकेन्द्राणि भिन्दद्यत्सूत्रं नभसि यायात्तद्गतयोरेव सूर्येन्द्वोर्बिम्ब-केन्द्रयोरवस्थानं युतिशब्देन परिभाष्यते। तथैव तनोति विस्तार यति वर्धमानां क्षीयमाणां वा चन्द्रकलां या सा तिथिरित्यत्रापि भूगर्भकेन्द्रान्नीयमानं सूर्यकेन्द्रं प्रति यत्सूत्रं यच्च तस्मादेव चन्द्रकेन्द्रं प्रति नीयमानं सूत्रं तयोरन्तरं यदा द्वादशभागात्मकं तदैका तिथिरितीहापि स एव प्रमेयो जागर्तितराम्।

ननु चान्द्रमासस्य सूर्यचन्द्रबिम्बकेन्द्रयोगलक्षणदर्शान्तावधित्वेन व्यवस्थापनाद्दर्शान्तविशेषसंस्कारमभ्युप-गच्छतां तथाभूताभिप्रायेणाधिमासो ग्राह्य इति फलिते तावदेतौ वैश्वरूपौ पूर्वपक्षसिद्धान्तौ-

‛एवं यदुक्तं क्षितिगर्भगाणां कुपृष्ठगानामथ संप्रवक्ष्ये।
यः साधितः पर्वविरामकालः स्फुटो भवेल्लम्बनसंस्कृतोऽत्र॥
यतः स्फुटे दर्शविरामकाले दृक्सूत्रसंस्थौ रविशीतरश्मी।
कुपृष्ठगानामथ निश्चयेन स्यातां हि तद्रोलविदो वदन्ति॥
तदप्यसन्मासनिमित्तयोगो दृग्गोचरत्वेन मतो न पूर्वैः।

भूगर्भदेशे गणितं हि सर्वं तत्पृष्ठदेशे समसूत्रतः सद्॥’ इति।

एवमनेकधा दर्शान्तावधिक एव चान्द्रमासो न तु मण्डलान्तावधिक इत्यर्थे व्यक्तः। तथापि सिद्धन्तज्ञानशू-न्यैर्बहूनि वाक्यानि मण्डलान्ताभिप्रायेण वृथैव योजितानि तत्त्वक्षोदे न तेभ्यस्तन्मानलेशोऽप्युन्नेतुं पार्यत इति दर्शितमेव। भवतश्चात्रश्लोकौ—

‘संधिकालकलनानवबोधान्मण्डलान्तविधिनाऽधिकमासः।
केनचित्पुनरवाचि ततोऽन्यैरप्यबोधि बहुधा समबन्धि॥
ईषदूनघटिकायतुल्या मण्डलान्तमितिरस्तु परं तु।
या ततोऽपि महती विहितासौ सर्वथा गणितशासनबाह्या॥’

अपि च सौरचान्द्रादिमानं हि शास्त्रे कालपरिच्छेदकमित्युच्यते। तच्च केन्द्रानुरोधेन प्रवर्तत इत्यंशे ‘लङ्कान-गर्यामुदयाच्च भानोः-’ इत्यादयो मानम्। एवं च कल्पावच्छिन्नकालस्य सौरादेश्चपरिच्छेद्यपरिच्छेदकभावे निष्पन्ने केन्द्रोद्गमादूर्ध्वंप्रवृत्तस्य मण्डलान्तमासस्येतरवत्परिच्छेदकाभावान्मानत्वानुपपत्तिरिति युक्तं प्रती-मः। तत एव मानुषमानकथनावसरे-

‘प्रथमः सावनो मासो द्वितीयश्चान्द्र उच्यते।
नाक्षत्रस्तु तृतीयः स्यात्सौरो मासश्चतुर्थकः॥’

इत्यनेन तथा-

‘सौरचान्द्रमससावनमानैः सार्क्षकैर्ग्रहगतेरवबोधः।
एभिरत्र मनुजव्यवहारो दृश्यते च पृथगेव चतुर्भिः॥’

इति श्रीपतिवचनेन मानानां चातुर्विध्यमेव निरूपितम्। तथैव-’

चतुर्णांच मानानां सौरसावननाक्षत्रचान्द्रा-णाम्’ इति बृहत्संहितायां सांवत्सरसूत्रे। विशेषाभिधायिना भट्टोत्पलेनापि विवृतौ मासमधिकृत्य भेदो न न्य-रूपि। सौरादीनामुपयोगः -

‘वर्षाणि सौरात्प्रवदन्ति चान्द्रा-
न्मासास्तिथीः सावनतो दिनानि।
सौरैन्दवाभ्यां तु विना न तत्स्या-
नाक्षत्रमानाद् घटिकादिकालः॥
युगायनर्तुप्रभृतीनि सौरा-
न्मानाद् घुरात्र्योरपि वृद्धिहानी।
पर्वाप्तिमासोनदिनानि चान्द्रा-
तथा तिथेरर्धमपि प्रदिष्टम्॥’

इति श्रीपतिपद्याभ्यामुक्तः। इह मण्डलान्तमासमानं केनापि न स्पृष्टम्। तथा सविस्तरं मानानां मलमासस्य च निर्णयाय यतमानैर्धर्मशास्त्रनिबन्धकारैरपि क्वापि नानूदितम्। ततो देवानाम्प्रियैरुत्प्रेक्षितमेतदिति नास-मञ्जसम्।

स्मर्यते खलु तत्रतत्र दर्शान्ताभिप्रायकोऽधिमासः। तथा च भगवान् हारीतः -

‘इन्द्राग्नी यत्र हूयेते मासादिः स प्रकीर्तितः।
अग्नीषोमौस्मृतौ मध्ये समाप्तौ पितृसोमकौ॥

तमतिक्रम्य तु यदा रविर्गच्छेत्कदाचन।
आद्योमलिम्लुचो ज्ञेयो द्वितीयः प्रकृतः स्मृतः॥’

इत्याह स्म। अयमर्थः- ऐन्द्रं दधि भवत्यमावास्यायामित्युत्पत्तिवाक्येन दर्शे दघ्नोद्रव्यत्वं बोधितम्। तस्य च द्व्यहसाध्यतया दर्शः प्रतिपदि क्रियते। अत एवोक्तं- प्रतिपदि दर्शः प्रतिवर्त्तत इति। सा च शु-क्लाप्रतिपन्मासस्यादिः। एवम्- अग्नीषोमीयं प्रायच्छत पौर्णमास्यामिति श्रुतेरुक्तयुक्तेः कृष्णप्रतिपत्पौर्ण-मासकालः। सा च मासमध्यम्। एवम्- अमावास्यायामपराह्णे पिण्डपितृयज्ञेन चरन्तीति श्रुतेः पितृसोमदेव-ताकः पिण्डपितृयज्ञाङ्गभूतोऽग्नौकरणहोमः। तदामावास्या मासान्तः।तथा च शुक्लप्रतिपदादिरमावास्या-न्तः चान्द्रो मास इति। द्वितीयश्लोकस्तु स्पष्टार्यः।

तथा च भगवान् गर्गः -

‘अमावस्याद्वयं यत्र रविसंक्रान्तिवर्जितम्।
मलमासः स विज्ञेयो मासः शुद्धाख्य उत्तरः॥ "

तथा च भगवान् वसिष्ठः-

‘यस्मिन्दर्शस्यान्तादर्वागेका परा परं दर्शम्।
उल्लङ्घ्य भवति भानोः संक्रान्तिः सोऽधिमासः स्याद्॥’

इत्यनेनाधिमासमभिधाय-

‘आद्यन्तदर्शयोर्मध्ये भानोरेव तयोर्यदि।
संक्रान्तिद्वितयं स्याच्चेन्न्यूनमासः स उच्यते ॥’

इत्यनेन क्षयमासं लक्षितवान्-

तथैव भगवान् कश्यपः-

‘यस्मिन्मासेऽर्कसंक्रान्तिर्दर्शान्तात्प्राक् परा परम्।
दर्शमुल्लङ्घ्य भवति स संसर्पोऽधिमासकः॥
आरभ्य शुक्लप्रतिपत्प्रवेशात्संक्रमद्वयम्।
आगामीन्दुक्षयस्यान्तात्प्राङ् न्यूनाख्यस्त्वहर्पतिः॥ इति ।

तथा च भगवान् भृगुः -

‘एकराशिस्थिते सूर्ये यदा दर्शद्वयं भवेत्।
हव्यकव्यक्रियाबाह्यस्तदा ज्ञेयोऽधिमासकः॥’ इति।

तथा च भगवान् कठः-

‘यस्मिन्मासे न संक्रान्तिः संक्रान्तिद्वयमेव वा।
मलमासः स विज्ञेयो मासः स्यात्तु त्रयोदशः॥ ’ इति ।

सत्यव्रतश्च-

राशिद्वयं यत्रमासे संक्रमेत दिवाकरः।
नाधिमासो भवेदेष मालमासस्तु केवलम्॥’ इति।

अत्र मासपदेन दर्शान्तमास एवं बोध्यः। मण्डलान्तस्तु शशविषाणायमानो धर्मशास्त्रे। सामान्यतो विसंक्रा-न्तिद्विसंक्रान्तिमासौ मलमासत्वेन व्यपदिष्टौ। तत्र द्विसंक्रान्तिः क्षयारव्यः।

धर्मार्णवेऽपि -

‘दर्शद्वयं यदैकस्मिन्सौरे संसर्पको भवेत्।
अहर्पतिर्यदैकस्मिंश्चान्द्रे द्वौ संक्रमौ तदा॥ इति।

अनन्तभट्टहेमाद्रिकविवल्लभमाधवसिद्धान्तनिष्कर्षभूतायां तत्त्वमुक्तावल्यां धर्माधिकारिभिरप्युक्तम्-

‘चान्द्रोऽधिमासोऽसंक्रान्तः सोऽन्तर्भवति चोत्तरे।’ इति।

शुक्लप्रतिपदादिर्दर्शान्तश्चान्द्रो मास इति तद्व्याख्यातारः। ‘चान्द्रो मासः-’ इति ब्रह्मसिद्धान्तस्य ‘असंक्रान्ति-मासः’ इति सिद्धान्तशिरोमणेश्चानुमतिः प्रागेव दर्शिता। असंक्रान्तीतिश्लो कव्याख्याने मरीचौ मुनीश्वरदैव-ज्ञैर्वासनावार्त्तिके नृसिंहदैवज्ञैर्मण्डलान्तमासनिरासपुरस्सरं दर्शान्तमासः उदीरितः।

तथैव ज्योतिर्विदाभरणे -

‘मध्वादिमासेषु भवन्ति भानोः
संक्रान्तयो भेषमुखाः क्रमात्स्यात्।
मासो विसंक्रान्तिरथाधिमासो
मासो द्विसंक्रान्तिरसौ क्षयाख्यः॥ ’ इति ।

तथैव मुहूर्त्ततत्त्वे-

‘संक्रान्त्यूनोऽधिकोऽग्राह्वय इव युगलाह्वो द्विसंक्रान्तिमासः’ इति। यः संक्रान्त्यूनः संक्रान्तिरहितो मासः सो-ऽधिकः स्यात्। कथम्भूतः। अग्राह्वयः अग्रस्योत्तरस्याह्वा अभिधानं यस्य स तथा मासो दर्शावधिलक्षणश्चान्द्र एव। ‘मासास्तथा च तिथयस्तुहिनांशुमानाद्’ इत्युक्तेः। यश्चद्विसंक्रान्तिः स युगलाह्वः। द्वेसंक्रान्ती यस्मिन् सतथा। युगस्य मासद्वयस्य आह्वा अभिधानं यस्य स तथा पूर्वोत्तरमासनामा क्षयमास इति यावत्। इति श्री-मद्गणेशदैवज्ञव्याख्याभागः॥

मुहूर्त्तगणपतावपि -

‘असंक्रान्तिरमान्तो यो मासश्चेत्सोऽधिमासकः।
परमासाह्वयो ज्ञेयः प्रायश्चैत्रादिसप्तसु॥
द्विसंक्रान्तिः क्षयाख्यः स्यात्कदाचित्कार्त्तिकत्रये।
युग्माख्यः स तु तत्राब्दे ह्यधिमासद्वयं भवेत्॥’

‘असंक्रान्तिमासो हि चान्द्रः-’ इति सिद्धान्ततत्त्वविवेकीयं तथा ‘स्पष्टार्कसंक्रान्तिविहीनः-’ इति मुहूर्तचिन्ता-मणीयं तु पूर्वमुक्तमेव।

एव^(१)मादिप्रमाणवाक्येभ्यो दर्शान्तावधिक एव चान्द्रमासः

१. भगवान् पराशरोऽपि-

‘पक्षद्वयेऽपि संक्रान्तिर्यदि न स्यात्सितासिते।
तदा तन्मासविहितमुत्तरे मासि कारयेत्॥’

एवमन्येऽपि-

‘अमावास्यापरिच्छिन्नं रविसंक्रान्तिवर्जितम्।
मलमासं विजानीयाद् गर्हितं सर्वकर्मसु॥’
‘मिथुनस्थो यदा भानुरमावास्याद्वयं स्पृशेत्।
द्विराषाढः स विज्ञेयो विष्णुः स्वपिति कर्कटे॥’
‘एकराशिस्थिते सूर्य दर्शयुग्मान्त्यनाडिकाम्।
स्पृष्ट्वा चेदन्यभं याति स मासः स्यान्मलिम्लुचः॥’
‘यदा रविस्त्वमावास्यां लङ्घयेत्कालयोगतः।
मलिम्लुचस्तदा ज्ञेयः शुभकर्मविवर्जितः॥’
‘एकराशिस्थिते सूर्ये यदा दर्शदूयं भवेत्।
हव्यं देवा न गृह्णन्ति कव्यं च पितरस्तदा॥

सिध्यति, न तु मण्डलान्तावधिक इति सम्यङ् निरीक्षणीयम्। तथा च सिद्धान्तसंहिताधर्मशास्त्ररहस्यविद्भिः शुद्धमार्गप्रवृत्तैर्गण कैरेतदन्धपरम्परागतमिनमण्डलान्तमासमानं कथञ्चिदपि नादरणीयमिति पारमार्थिको विश्वजनीनः पन्थाः॥ भवति चात्र लोकः-

‘मण्डलान्तविधया मलिम्लुचो गृह्यते न हि सुरर्षिकोविदैः।
यो व्यधायि कुहचित्स संहिताधर्मशास्त्रकलनाबहिर्भवः॥’

नानाविधेषु सौरपक्षाश्रितेषु निबन्धेषु सूर्यसिद्धान्तस्यैव प्राधान्यात्तदनुसारेण गणितं यथा-

संवत् १९५८ अधिकाषाढकृष्णेमावास्यासोमे ‘अत ऊर्ध्वममी युक्ताः-’ इत्यादिना लङ्कायामार्धरात्रिकः साव-नोद्युगणः ७१४४०४१२३७४३।‘यथा स्वभगणाभ्यस्तः-’ इत्यादिना मध्यमः सूर्यः ३।०।२२।४७।मन्दोच्चम् २।१७।१७\।२८\। ‘योजनानि शतानि-’ इत्यादिना मध्यमो भूपरिधिः ५०५९। ततः स्पष्टपरिधिः ४५१०। तत्र प-लांशाः २६।५५। दिशान्तरयोजनानि ४। देशान्तरविकला धनम् ३।आभिः संस्कृतः सूर्यः ३।०।२२।५०।र-विकेन्द्रम् ११।१६।५४।३८ भुजः ।०।१३।५।२२। भुजज्या ७७८। ‘ओजयुग्मान्तर गुणा-’ इत्यादिना स्पष्टप-रिधिः १३।५५।२८।‘तद्गुणे भुजको टेज्ये-’ इत्यादिना फलम् ३०।६। अनेन संस्कृतः सूर्यः २।२९।५२।४२। ‘अर्कबाहुफलाभ्यस्ताः-’ इत्यादिना भुजान्तरं विकलाः ५। आभिः संस्कृतः सूर्यः स्पष्टः २।२९।५२।३७।

गतिफलम् २।१५। अनेन संस्कृता गतिः स्पष्टा ५६।५४। एवं मध्यमश्चन्द्रः २।२३।४९।४३।उच्चम् ६।१९।२९।५१। देशान्तरविकलाः ४२।आभिः संस्कृतश्चन्द्रः २।२३।५०।२५।केन्द्रम् ३।२५। ३९।२६। भुजः २।४।२०।३४। भुजज्या ३०९९।स्पष्टपरिधिः ३१।४१।५८। फलज्या २७२।५।फलम् ४।३२।१३। अनेन संस्कृत-श्चन्द्रः २।२८।२२।३८। भुजान्तरं कलादि १।८।अनेन संस्कृतश्चन्द्रः २।२८।२१।३०। ‘स्वमन्दभुक्तिसंशुद्धा-’ इत्यादिना गतिफलम् २८।३। (तत्र केन्द्रगतिः ७८३।५४) एतत्संस्कृता मध्यगतिः ७९०।३५। जाता स्पष्टा ८१८।३८।अर्धरात्रादमावास्याया मुक्तघट्यादि ४९।३१। भोग्यघट्यादि ७।११। कर्कार्कप्रवेशः ७।४७ अत आषाढस्याधिमासत्वं निष्प्रत्यूहमिति शुद्धसौरपक्षावलम्बिनः।

ब्रह्मसिद्धान्तावलम्बिनस्तु स्वच्छन्दं बीजदानेन ब्रह्मपक्षं संस्कुर्वाणा आषाढीयदर्शान्ततः प्राक् कर्कार्कप्रवेशं साधयन्तः श्रवणस्याधिकत्वं मन्यन्ते। तान्प्रत्याषाढवादिन एवं वदन्ति -

स्यादेतद्, यदि मतान्तरसंश्लिष्टं ब्रह्ममतं लभ्येत- तदेव तु दुर्लभम्। संश्लिष्टं पुनरनार्षतया धर्मकर्मणि ना-द्रियते मर्मवेदिभिः। यादृशाभ्यां सूर्यचन्द्राभ्यां विधीयमानं तिथ्यादि ऋषिग्रन्थेषु स्मर्यते तादृशाभ्यामेव ताभ्यां न पुनरन्यथा साधिताभ्यां दर्शान्तं संसाध्य तत ऊर्ध्वमधो जायमानायाः संक्रान्तेर

नुरोधेन यः कश्चन मलिम्लुचः स एव धर्मकमार्थमुपादीयते।

अत्रेदमपि बोध्यम्- अष्टादशसिद्धान्तेषु संख्यायमानोऽपि रोमकादिर्धर्मकर्मार्थं नाङ्गीक्रियते। उक्तं च ब्राह्म-स्फुटसिद्धान्ते

‘युगमन्वन्तरकल्पाः कालपरिच्छेदकाः स्मृतावुक्ताः।
यस्मिन्न रोमकेऽतः स्मृतिबाह्यो रोमकस्तस्मात्॥’

श्रुत्यङ्गत्वाज्ज्यौतिषस्य श्रुतौ स्मृतानामर्थानां स्मृतौ स्मरणेन स्मृतिमूलकमेव ज्यौतिषं मान्यमित्याचार्याकूतम्।

युरोपियन्गणितप्रणयिनस्त्वेवं सिद्धान्तयन्ति। ज्योतिःशास्त्रे हि द्विविधाः प्रमेयांशाः। एके प्रत्यक्षप्रतीतिका-रिणः। यथा- सूर्याचन्द्रमसोरुपरागः ताराग्रहाणामुदयास्तौ समागमो युद्धं चेति। तत्र यया गणितविधया दृ-क्संवाद आपद्येत सैव निर्विकल्पमास्तिकैर्नास्तिकैश्च प्रेक्षावद्भिः सशिरःकम्पमाद्रियताम्। परे परोक्षाः। एते-स्वरूपतः परोक्षा अपि प्रत्यक्षप्रतीतिसहकारिसंपन्नावयवत्वादव्याहत प्रसराः। यथा-तिथ्यादि। स्वस्वकक्षा-वृत्ते गत्यन्तरेण क्रामतोःसूर्याचन्द्रमसोरियद्भिरन्तरांशैरिदानीमियती प्रतिपदादितिथिरिति पञ्चाङ्गकथा न ग्रहणादिवन्निर्देष्टुं शक्या।

एवं च वेधकर्मनिपुणैर्युरोपियन्गणकधुरीणैराकर्षणविद्याबलेन ये विधयो निरूपितास्तन्मार्गेणानीतानां खेच-राणां दृग्गणितैक्यं सम्यगुपपद्यत इति सुप्रसिद्धं तावत्। अतस्तथा नीतरवीन्दुनिष्पन्नदर्शान्तात्प्रथमं कर्का-र्कसंक्रमणे श्रावण एवाधिकः। एतदपि ते न सहन्ते। तथा हि- किं सौरादितन्त्रप्रणयनकाले

ग्रहाणामन्योन्याकर्षणं नासीद्, आहोस्विद् विद्यमानमपि ऋषि भिर्नावधारितम्। नाद्यः। उपपत्त्या तत्काले-ऽप्याकर्षणोपलम्भात्। न द्वितीयः। आस्तिकनये ऋषीणां सर्वदर्शित्वव्याघातात्। वेदाङ्गत्वेन स्मर्यते खलु त-त्रतत्र ज्यौतिषम्। तदेतद् यद्रूपकं श्रौते स्मार्त्ते च कर्मण्युपयुक्तं तद्रूपकमेव ऋषिभिरुपवृंहितम्। अदृष्टसं-पादनायोगान्नेह मानुषी युक्तिरपेक्षिता। उक्तं च-

‘अतीन्द्रियार्थविज्ञानं प्रमाणं श्रुतिरेव हि।
श्रुतिर्यत्र प्रमाणं स्याद्युक्तिः का तत्र नारद॥
जिज्ञासोर्युक्तिरिष्टास्ति यदि श्रुत्यनुसारिणी।
इत्थं शाकल्प एवाह ब्रह्मोक्तस्वनिबन्धने॥’

यत्वाचार्यैः कचिद्बीजं दत्तं तद् दृष्टगणिताभियायेण। आर्षग्रन्थे तु प्रायो बीजावतारो न दृश्यते। यत्तु वसिष्ठ सिद्धान्ते-

‘इत्थं माण्डव्य संक्षेपान्मयोक्तं शास्त्रमुत्तमम्।
विस्रस्ती रविचन्द्राद्यैर्भविष्यति युगेयुगे॥’

इत्युक्तम्। तत्र तत्त्वविवेककाराः-

‘इत्थं माण्डव्य संक्षेपादिति पद्योत्तरार्धके।
विस्तृतीत्यत्र कृत्वा तु विस्रस्तीति बलान्नराः॥
नाशयन्ति वसिष्ठोक्तिम् … … …’

इति वदन्ति। तथा दृष्टादृष्टभेदेन गणितस्य द्वैविध्यं वर्णयन्ति। तथा च तद्वाक्यम्-

‘अदृष्टफलसिद्ध्यर्थं यथार्काद्युक्तितः कुरु।
गणितं यद्धि दृष्टार्थं तद्दृष्ट्युद्भवतः सदा॥
अदृष्टफलसिध्ध्यर्थं निर्बीजार्कोक्तमेव हि।
प्रमाणं श्रुतिवद् ग्राह्यं कर्मानुष्ठानतत्परैः॥ ’ इति ।

अयमाशयः-

‘स्मृतिः प्रत्यक्षमैतिह्यमनुमानं चतुष्टयम्।
एतैरादित्यमण्डलं सर्वैरेव विधास्यते॥

इति श्रुतितोऽपि ज्ञायते। यत्तु दृष्टगणितमनुरुध्य बृहत्तिथिचिन्तामणी श्रमद्गणेशदैवज्ञैः-

‘ब्रह्माचार्यवसिष्ठकश्यपमुखैर्यत्खेटकर्माेदितं
तत्तत्कालजमेव तथ्यमथ तद्भूरिक्षणेऽभूच्छ्लथम्।
प्रापातोऽथ मयासुरः कृतयुगान्तेऽर्कात्स्फुटं तोषिता-
तच्चास्ति स्म कलौतु सान्तरमथाभूच्चारु पाराशरम्॥
तज्ज्ञात्वार्यभटः खिलं बहुतिथे कालेऽकरोत्प्रस्फुटं
तत्स्रस्तं किल दुर्गसिंहमिहिराद्यैस्तन्निबद्धं स्फुटम्।
तच्चाभूच्छिथिलं तु जिष्णुतनयेनाकारि वेधात्स्फुटं
ब्रह्मोक्त्याश्रितमेतदप्यथ बहौ कालेऽभवत्सान्तरम्॥

श्रीकेशवः स्फुटतरं कृतवान् हि सौरा-
र्यासन्नमेतदपि षष्टिमिते गतेऽब्दे।
दृष्ट्वा श्लथं किमपि तत्तनयो गणेशः
स्पष्टं यथास्वकृतदृग्गगणितैक्यमत्र॥’

इति निरूपितं- तन्नातिश्रद्धेयम्। यतो बहुकालानन्तरं मिहिराचार्यः पौलिशरोमकवासिष्ठसौरपैतामहसिद्धान्तानां मतमुपादाय पञ्चसिद्धान्तिकाख्यां कृतिं कृतवान्। तत्र सर्वमतापेक्षया सौरस्यैव स्पष्टतरत्वं दृष्टवान्। एतैः पुनः षष्टिवर्षान्तर एव स्वपितृरचितस्य करणस्य स्फुटतरत्वं स्वीकृत्य श्लथत्वमवाधारि। केशवकरणस्य गणेशकरणस्य च प्रादुर्भावशकौ १४१८।१४४२ अनयोरन्तरे २४ समाः। तदेतत्सर्वं मिथो विरुद्धम्। सम्प्रति युरोपियनगणितपरिपाठ्यापि तावति काले तादृशं ग्रहगोल संख्यावैलक्ष्यण्यं न प्रतीयते। अतः किं कुर्मः। कः पुनरुपालभ्यः।

न च दृष्टगणितेनैव सकलो व्यवहारो जायतामिति सिद्धान्तो व्यवस्थापितुं पार्यते। कथञ्चिन्नूतनतिथ्यादि-स्वीकारेऽपि वासरारम्भादावदृष्टगणितमन्तरा निर्वाहायोगात्। नूतनत्वं चोपरिष्टाद् वक्ष्यामः। लङ्कार्धरात्रानु-रोधेन वासरारम्भमूरीकृत्य पश्चिमरात्रात्स्नानादिकर्मानुष्ठानमारम्भन्ते शिष्टाः। दृष्टणिताङ्गीकारे तु-

‘रात्रौ स्नानं न कुर्वीत दानं चैव विशेषतः।’

इति धर्मशास्त्रं व्याकुप्येत। ग्रहणादिप्रयुक्तं तु भवत्येव

‘नैमित्तिकं तु कुर्वीत स्नानं दानं च रात्रिषु।’

इति वाक्यशेषात्। उक्तार्थानुसंधानेनैव संहितावर्णिता देवानामहोरात्र व्यवस्था संगच्छते। तत एव राहुस-त्ताध्याये-

‘अथाप्यसौ केवलवासनायां नायाति सिद्धिं तदापि प्रियं नः।
अवासनं किं न सुरद्युरात्रमर्कायनाभ्यां भवतैव भेजे॥
सिद्धान्तपक्षस्तु परं दिनार्धान्निशा निशार्धात्परतो दिनश्रीः।
एवं पुराणे गणिते च साम्यमर्कायनाभ्यां सदसत्फलेषु॥
कर्कंगतेऽर्के हि सुरापराह्णः फलं पुरारात्रिवदाहुरस्य।
नक्रं गते चापररात्रमेषामेतत्परं वासरवत्स्मरन्ति॥’

इत्याद्युक्तमास्ते। नक्षत्रसाधने तु विशेषाकारेणादृष्टगणितं स्मर्यते। तथा च भगवान् वसिष्ठः-

‘शशिमध्यगतिर्भोगो नक्षत्रस्य च संज्ञिका।
षड्भान्यर्धार्धर्भोगानि अर्धभोगानि मानि षट्॥
उपरिष्टाद् वैश्वशेषमधस्ताच्छ्रवणस्य च।
एष भोगोऽभिजित्प्रोक्त एवं सूक्ष्मं समुच्यते॥’

अत एव सिद्धास्तशिरोमणौ-

‘स्थूलं कृतं भानयनं यदेतज्ज्योतिर्विदां संव्यवहारहेतोः।
सूक्ष्मं प्रवक्ष्येऽथमुनिप्रणीतं विवाहयात्रादिफलप्रसिद्ध्यै॥
अध्यर्धभोगानि षडत्र तज्ज्ञाः प्रोचुर्विशाखादितिभध्रुवाणि।
षडर्धभोगानि च भोगिरुद्रवातान्तकेन्द्राधिपवारुणानि॥
शेषाण्यतः पञ्चदशैकभोगान्युक्तो भभोगःशशिमध्यभुक्तिः॥
सर्वक्षेभोगोनितचक्रलिप्ता वैश्वाग्रतः स्यादभिजिद्भभोगः॥’

इत्यादिकं प्रतिपाद्य वासनाभाष्ये ‘इह यन्नक्षत्रानयनं कृतं तत्स्थूलं लोकव्यवहारार्थमात्रं कृतम्। अथ पुलिश-वसिष्ठगर्गा

दिभिर्यद्विवाहयात्रादौ सम्यक् फलसिद्धयर्थं कथितं तस्सूक्ष्ममिदानीं प्रवक्ष्ये, इत्यादि व्याख्यातम्।

एवं ‘संध्या त्रिनाडी-’ इत्यादावप्यदृष्टगणितम्। निरक्षे सममण्डलाश्रिते रविमण्डले यदा क्षितिजादधोष्टादशभागान्तरे तदवस्थानं तदा किल त्रिनाडीमिता संध्या। अवस्थानं च बिम्बकेन्द्राभिप्रायेणैव विवक्षितम्। मिथुनान्ते धनुरन्ते वा संचरति गोलयुक्त्या त्रिनाडीतोऽधिका। तथा च पूर्वत्र परमाल्पः परत्र परमाधिकः संध्याकालः। साक्षे त्वन्यथैवेति व्यक्तं सिद्धान्तरहस्यविदाम्।

इत्थं च तत्रतत्रोपपत्त्या भिन्नार्थलाभेऽपि तादृशार्थग्रहणेऽस्माकमागम एको नियामकः।

युरोपदेशे यत्तारकापत्त्रं11 विशेषतो नाविकार्थंप्रतिसंवत्सरं प्रकाश्यते तत्र माध्याह्निकं दैनन्दिनं ग्रहभुजांशादि लभ्यते स्वकार्यानुपयुक्तत्वादिह तिथ्यादि न लिख्यते। परंतु तत्पत्त्रात्तदुपजीव्यनिबन्धाद्वावगताभ्यां रवीन्दु-भ्यामस्मद्देशीयरीत्या तिथिनक्षत्रादि साधयितुं शक्यते। एतत्तिथ्यादिकमस्मदार्षग्रन्थानुरोधे नानीतातिथ्यादि-काद् भिन्नमायाति। यत आकर्षणविद्याबलेनैतैर्नूतना अपि संस्कारादीयन्त इति भेदपतनं युक्तमेव। परमे तन्नूतनं तिथ्यादि व्रतोपवासादन्यत्रोपयुक्तमिति युक्तं प्रतीमः। सांप्रतमेव तिथ्यादौ भेद इति चेद्॥ भ्रान्ति-मात्रम्॥ यदन्तरपतन

कारणमिदानीं समुपस्थितं तत्पुराप्युपपत्त्या सिध्यति। अस्मन्मते महर्षिभिरेतदन्तरं बुद्ध्वापि नादृतम्। यत-स्ते सर्वज्ञाः। परेषां मते तु तैर्न बुद्धम्। परं चैतत्क आस्तिकः श्रद्दधीत। तिथ्यादीनां तदनुष्ठेयकर्मणां चादे-ष्टारो महर्षय एव। तेषां च हानोपादाने युगपत्संभवतः। स्वेच्छया त्वर्धजरतीयाश्रयणं स्पष्टमिति सिद्धान्ति-तोऽर्थः।

भवति चात्र श्लोकः-

‘ये धर्मकर्मरसिका ऋषिवाक्यनिष्ठा-
स्तेषां कृते मम निवेदनमेतदास्ते।
येषां विचारपरिणामदशा महर्षि-
शास्त्रासादनफला हि नमोऽस्तु तेभ्यः॥’

एवं च तिथेरनुपादेयतायां तदवसानावधीकरणेन क्रियमाणं श्रावणाधिकत्वमपि कौतुकमात्रमिति वदन्ति।

केचन पुनः-

‘शाके बाणकराङ्ककैर्विरहिते नन्देन्दुभिर्भाजिते
शेषे च त्रिमधौ च माधवशिवे ज्येष्ठेऽम्बरे चाष्टके।
आषाढे नृपतौ नमस्यथ शरे भाद्रे च विश्वांशके
नेत्रे चाश्विनकेऽधिमास उदितः शेषेऽन्यके स्यान्न हि॥’

इति पद्येन श्रावणस्याधिकत्वं निश्चिन्वन्ति- तत्र केवलमेतत्पृच्छ्यते- किं युष्माभिः पञ्चचत्वारिंशदधिकैकोन-विंशतिशततमे वैक्रमाब्दे १९४५ वैशाख एवाधिकत्वेन व्यवहृतः।

यस्माद् युष्मदीयेनानेनानयनेन स एवाधिकोऽभूत्। अस्माभिस्तु चैत्रस्याधिकता साधिता व्यवहृता चेति व्य-क्तम्।

अन्येऽपि किमपि श्लथप्रमाणकं मानमासाद्य यथेच्छं जल्पन्ति- तदखिलं विचारासहत्वान्न परीक्षितम्।

यतः प्रसिद्धोयमाभाणकः -
‘मुखमस्तीति वक्तव्यं दशहस्ता हरीतकी।’ इति शिवम्॥

भवन्ति चात्र निष्कृष्टार्थश्लोकाः-

आषाढः श्रावणो वाधिक इह भवतान्नाग्रहस्तत्र किं तु
प्रायः प्रौढप्रमाणादृतमुनिवचनेष्वाग्रही सर्व एव।
इत्यास्तिक्यानुबन्धी विहिततिथिपटेष्वन्तरं बुध्यमानः
को न स्याद् धर्मकृत्येष्वहह मतभिदाभासने संदिहानः॥ १ ॥
प्रत्नैर्नूत्नैःप्रमेयैः प्रकृतविषयके सूर्यसिद्धान्तपक्षो
ज्यायान् वर्वर्त्यतस्तन्निगदितविधयाऽऽषाढ एवाधिमासः।
ब्राह्म्या वा भिन्नरीत्या मलिन इह नभा जायतां प्रौढमानं
नास्ते यस्माद् वराहप्रभृतिभिरुदिता भ्रष्टता ब्रह्मपक्षे॥ २॥
दृष्टादृष्टफलानुबन्धिगणितं द्वेधा खलु स्मर्यते
तत्रव्योमचरोदयास्तदिवसारम्भादिकश्चेक्ष्यताम्।
एवम्भूतनियामकेऽपि बहुधा वैमत्यमुत्पाद्य या
धर्मोपप्लवकारिक मलकथा विख्याप्यते सा वृथा ॥३॥
यद्दर्शान्तविलङ्घनेऽपि सवितुः संक्रान्तिसत्त्वे पुनः
प्राज्ञोपेक्षितमण्डलान्तविधया मासो व्यवस्थाप्यते।

तत्र प्रौढविचक्षणोदितविसंवादोपलब्धावपि
स्फूर्जन्ती निबिडा दुराग्रहकथा केनाधुना वार्यताम्॥ ४ ॥
ब्रह्माद्यैरिमण्डलान्त उदितो मासेति मार्तण्डक-
व्याखाने किल योगतो रसघटीकाले वियोगो भवेत्।
इत्याद्यागमकैतवेन बहु यन्नारायणेनोदितं
तद्विज्ञा ध्रुवमिन्द्रजालसदृशं सद्योजगद्वञ्चनम्॥ ५ ॥
मासश्चेदिनमण्डलान्तविधिना ग्रन्थान्तरे वर्त्तते
तर्ह्यास्तां ननु नागनन्दभुजगक्षोणीप्रमे (१८९८) वैक्रमे।
वर्षे शास्त्रविचारशालिशरणे काशीप्रयागादिके
तन्मानापतितोऽपि किं तिथिपटे नाऽमानि पौषक्षयः॥ ६॥

हा हन्त लल्लमुखनिर्मितिविद्यमान-
केन्द्राशयाकलनमन्थरशेमुषीकैः।
सिद्धान्तसुन्दरकृदादिभिरत्र लोके
विख्यापितः खलु मृषैव स मण्डलान्तः॥ ७ ॥
न ह्येकदेशिमतमत्र विवेकनीत्या
सिद्धान्तकोटिकलनामधिरोढुमीष्टे।
तस्मादुदारमतयो रविमण्डलान्त-
मासं विहाय मुनिवृन्दमतं श्रयन्तु॥ ८ ॥
अये ब्रह्मपक्षोऽन्यथात्वं प्रयातो
न मान्योऽस्त्यनार्षागमो धर्मकृत्ये।
यदि श्लाघ्यसौरागमस्याप्युपेक्षा

तदास्तां स्वतन्त्रः किमत्रार्षवाक्यैः॥ ९ ॥
सान्द्रेषु नानाविधवाक्यजालपङ्केषु देवर्षिगवीं पतन्तीम्।
उद्धर्त्तुमेषा विहिता द्विवेद(दि)दुर्गाप्रसादेन विदांवरेण॥ १० ॥
मरकतगिरेरुद्यद्भानुप्रभाजनितश्रियः
श्रियमधरयन्विभज्जाम्बूनदप्रभमृम्बरम्।
नवघनरुची रासं तन्वन्कलिन्दसुतातटे
भवतु भवतां राधाप्रेयाञ्शिवायनिरन्तरम्॥ ११ ॥

इति श्रीद्विवेदिदुर्गाप्रसादज्योतिश्शास्त्रविद्वरविरचिताधि
( क ) मासपरीक्षा समाप्ता॥

]


  1. “Hansen” ↩︎

  2. “Newcomb” ↩︎

  3. “‘अस्ति त्रयोदशो मासः स च श्रुत्या निगद्यते। असौ चान्द्रो न सौरः स्यान्नास्ति सौरश्चतुर्दशः’ ॥इति ।” ↩︎

  4. “अत्र ‘तस्मिन्सूत्रे प्रोता मणय इव चन्द्रादयो ग्रहाः सृष्ट्यादौ ब्रह्मणा निवेशिताः’ इति वासनाभाष्यफक्किकापि मानम्।” ↩︎

  5. “बासनात्राह्याः।” ↩︎

  6. “बिम्बकेन्द्रम्।” ↩︎

  7. “दर्शान्तादुपरि।” ↩︎

  8. “‘क्षयः कार्तिकादित्रये’ इत्यत्रातद्गुणसंविज्ञानबहुव्रीह्याश्रयेण प्रस्तुताशयो मरीचिकारादिभिरपि स्वीकृत्तः।” ↩︎

  9. “अत्र मार्तण्डवल्लभकारोदाहृतमण्डलान्तमाना पेक्षया समीचीनं मण्डलान्तमानम्।” ↩︎

  10. “पञ्चाङ्गमात्रविदां विश्वासार्थम्।” ↩︎

  11. “Nautical Almanac ।” ↩︎