[[ऋग्वेदवेदाङ्गज्योतिष्यम् Source: EB]]
[
लगधः ऋग्वेदवेदाङ्गज्योतिष
पञ्चसंवत्सरमयं युगाध्यक्षं प्रजापतिं ।
दिनर्त्वयनं आसाङ्गं प्रणम्य शिरसा शुचिः । । १
प्रणम्य शिरसा कालं अभिवाद्य सरस्वतीं ।
कालज्ञानं प्रवक्ष्यामि लगधस्य महात्मनः । । २
ज्योतिषां अयनं कृत्स्नं प्रवक्ष्याम्यनुपूर्वशः ।
विप्राणां सम्मतं लोके यज्ञकालार्थसिद्धये । । ३
निरेकं द्वादशार्धाब्दं द्विगुणं गतसंज्ञिकं ।
षष्ट्या षष्ट्या युतं द्वाभ्यां पर्वणां राशिरुच्यते । । ४
स्वराक्रमेते सोमार्कौ यदा साकं सवासवौ ।
स्यात्तदादि युगं माघस्तपः शुक्लोऽयनं ह्युदक् । । ५
प्रपद्येते श्रविष्ठादौ सूर्याचन्द्रमसावुदक् ।
सार्पार्धे दक्षिणार्कस्तु माघश्रावणयोः सदा । । ६
घर्मवृद्धिरपां प्रस्थः क्षपाह्रास उदग्गतौ ।
दक्षिणे तौ विपर्यासः षण्मुहूर्त्ययनेन तु । । ७
द्विगुणं सप्तमं चाहुरयनाद्यं त्रयोदशं ।
चतुर्थं दशमं च द्विर्युग्माद्यं बहुलेऽप्यृतौ । । ८
वसुस्त्वष्टा भवोऽजश्च मित्रः सर्पाश्विनौ जलं ।
धाता कश्चायनाद्याश्चार्थपञ्चमभस्त्वृतुः । । ९
भांशाः स्युरष्टकाः कार्याः पक्षद्वादशकोद्गताः ।
एकादशगुणश्चोनः शुक्लेऽर्धं चैन्दवा यदि । । १०
कार्या भांशाष्टकस्थाने कला एकान्नविंशतिः ।
ऊनस्थाने त्रिसप्ततिं उद्वपेदूनसंमिताः । । ११
त्र्यंशो भशेषो दिवसांशभागश्चतुर्दशश्चाप्यनीय भिन्नं ।
भार्धेऽधिके चापि गते परोऽंशो द्वावुत्तमैकं प्नवकैरवेद्यं । । १२
पक्षात्पञ्चदशाच्चोर्ध्वं तद्भुक्तं इति निर्दिशेत् ।
नवभिस्तूद्गतोऽंशः स्यादूनांशद्व्यधिकेन तु । । १३
जौ द्रा घः खे श्वेऽही रो षा चिन्मू ष ण्यः सू मा धा णः ।
रे मृ घ्राः स्वाऽपोऽजः कृ ष्यो ह ज्ये ष्ठा इत्तृक्षा लिङ्गैः । । १४
जावाद्यंशैः समं विद्यात्पूर्वार्धे पर्वसूत्तरे ।
भादानं स्यात्चतुर्दश्यां काष्ठानां देविना कलाः । । १५
कला दश सविंशा स्यात्द्वे मुहूर्तस्य नाडिके ।
द्युत्रिंशत्तत्कलानां तु षट्छती त्र्यधिकं भवेत् । । १६
नाडिके द्वे मुहूर्तस्तु पञ्चाशत्पलं आढकं ।
आढकात्कुम्भको द्रोणः कुटपैर्वर्धते त्रिभिः । । १७
ससप्तकं भयुक्सोमः सूर्यो द्यूनि त्रयोदश ।
नवभानि च पञ्चाह्नः काष्ठाः पञ्चाक्षराः स्मृताः । । १८
श्रविष्ठायां गणाभ्यस्तान्प्राग्विलग्नान्विनिर्दिशेत् ।
स्तर्यान्मासान्षडभ्यस्तान्विद्याच्चान्द्रमसानृतुन् । । १९
अतीतपर्वभागेभ्यः शोधयेद्द्विगुणां तिथिं ।
तेषु मण्डलभागेषु तिथिनिष्ठांगतो रविः । । २०
याः पर्वभादानकलास्तासु सप्तगुणां तिथिं ।
प्रक्षिपेत्तत्समूहस्तु विद्यादादानिकीः कलाः । । २१
यदुत्तरस्यायनतो गतं स्याच्छेषं तु यद्दक्षिणतोऽयनस्य ।
तदेकषष्ट्या द्विगुणं विभक्तं सद्वादशं स्याद्दिवसप्रमाणं । । २२
यदर्धं दिनभागानां सदा पर्वणि पर्वणि ।
ऋतुशेषं तु तद्विद्यात्संख्याय सहपर्वणां । । २३
इत्युपायसमुद्देशो भूयोऽप्यह्नः प्रकल्पयेत् ।
ज्ञेयराशिगताभ्यस्तं विभजेत्ज्ञानराशिना । । २४
अग्निः प्रजापतिः सोमो रुद्रोऽदितिर्बृहस्पतिः ।
सर्पाश्च पितरश्चैव भगश्चैवार्यमापि च । । २५
सविता त्वष्टाथ वायुश्चेन्द्राग्नी मित्र एव च ।
इन्द्रो निऋर्तिरापो वै विश्वेदेवास्तथैव च । । २६
विष्नुर्वसवो वरुणोऽज एकपात्तथैव च ।
अहिर्बुध्न्यस्तथा पूषा अश्विनौ यम एव च । । २७
नक्षत्रदेवता एता एताभिर्यज्ञकर्मणि ।
यजमानस्य शास्त्रज्ञैर्नाम नक्षत्रजं स्मृतं । । २८
इत्येवं मासवर्षाणां मुहूर्तोदयपर्वणां ।
दिनर्त्वयनं आसाङ्गं व्याख्यानं लगधोऽब्रवीत् । । २९
सोमसूर्यस्तृचरितं लोकं लोके च सम्मतिं ।
सोमसूर्यस्तृचरितं विद्वान्वेदविदश्नुते । । ३०
विषुवं तद्गुणं द्वाभ्यां रूपहीनं तु षड्गुणं ।
यल्लब्धं तानि पर्वाणि तथार्धं सा तिथिर्भवेत् । । ३१
माघशुक्लप्रवृत्तस्य पौषकृष्नसमापिनः ।
युगस्य पञ्चवर्षस्य कालज्ञानं प्रचक्षते । । ३२
तृतीयां नवमीं चैव पौर्णमासीं अथासिते ।
षष्ठीं च विषुवान्प्रोक्तो द्वादशीं च समं भवेत् । । ३३
चतुर्दशीं उपवसथस्तथा भवेद्यथोदितो दिनं उपैति चन्द्रमाः ।
माघशुक्लाह्निको युङ्क्ते श्रविष्ठायां च वार्षिकीं । । ३४
यथा शिखा मयूराणां नागानां मणयो यथा ।
तद्वद्वेदाङ्गशास्त्राणां ज्योतिषं मूर्धनि स्थितं । । ३५
]