भट्टभास्करमतम्

चन्द्रः

  • कृष्णयजुर्वेदीयभट्टभास्करभाष्ये २-४-११ अनुवाकारम्भे चन्द्रविषयप्रस्तावः

नवो॑नवो भवति॒ जाय॑मा॒नोऽह्ना᳚ङ्के॒तुरु॒षसा॑मे॒त्यग्रे᳚ । भा॒गन्दे॒वेभ्यो॒ वि द॑धात्या॒यन्प्र च॒न्द्रमा᳚स्तिरति दी॒र्घमायुः॑ । अथ याज्याकाण्डं वैश्वदेवम् । ‘यः पापयक्ष्मगृहीतस्स्यात्तस्मा एतमादित्यं चरुं निर्वपेत्’ इत्यस्याः पुरोनुवाक्या - नवोनव इति त्रिष्टुप् ॥ अत्र चन्द्रगुणकीर्तनेनादित्य एव स्तूयते, तेषां चन्द्रगुणानामादित्याधीनत्वात् । तथा हि - चन्द्रो नामायं भास्वरः सलिलकटाहात्मा । यथाहुः - सूर्योग्निमयो गोळः चन्द्रोम्बुमयस्स्वभावतस्स्वच्छः । इति । तस्मादस्य दिवसकररुचिसमाश्लेषेण भास्वरत्वं भवति । यथाह्नुः - भूग्रहभानां गोलार्धानि स्वच्छायया विवर्णानि । अर्धानि यथासारं सूर्याभिमुखानि दीप्यन्ते ॥ इति । तस्माच्चन्द्रमसो बिम्बं गोळार्धं सूर्याभिमुखं सदा चकास्ति । किं सर्वदा चकास्ति? किमिति नोपलभ्यते? श्रूयताम् - अमावास्यायां चन्द्रमस उपर्यादित्यः ; तदा चन्द्रमस उपरि यद्बिम्बार्धं तदशेषमवभासयति सविता । चन्द्रस्यामावास्योपलक्षितोपरिबिम्बे केन्द्राद्यथायथा पश्चादादित्योवलम्बते तथातथा चन्द्रमसो बिम्बं केन्द्रस्य परतोवलम्बते । तत्केन्द्रवशात् चन्द्रमसो बिम्बार्धशेषं आभासयति सविता । यावदेवास्योपलक्षितबिम्बपरिध्यवधेरधोवलम्बते तावत् चन्द्रमसो बिम्बस्या[स्यार्धम]स्माभिरुपलक्ष्यते, शेषमुपरिस्थितत्वान्नोपलभ्यते सूर्याभिमुखं भास्वरमपि, भूगोळविशेषवर्तिभिरस्माभिरुपलब्धुमयोग्यत्वात् । तस्माद्यावद्यावत्सवितृकराश्लिष्टमवलम्बते तावत्तावत्तिथिभेदेन शुक्लचन्द्र उपलभ्यते । तेनामी ज्योत्स्नावितानावभासिनः चन्द्रकराः तत्तत्क्षितितलावभासिनो भवन्ति । यथा दर्पणोदरे जले वा दिवाकरकरास्सम्मूर्छितास्सन्तो गृहान्तर्गतं तमः क्षपयन्ति एवं सवितृमरीचयोम्बुमये स्वभावश्यामेपि चन्द्रबिम्बे सम्मूर्छिता नैशं ध्वान्तमपध्वंसयन्ति । तत्रायं विशेषः - यो यश्चन्द्रबिम्बप्रदेशः सवितृमार्गे ऋजुत्वेन व्यवस्थितः स एव शुक्लः उपलभ्यते ; तेन दक्षिणोत्तरयोश्शृङ्गयोः कालविशेषेणोन्नतिविशेषः । तत्र यावद्यावत्सवित्रा विश्लिष्टो भवति तावत्तावच्छुक्लप्रतिपत्प्रभृति चन्द्रमसि सविता संवर्धते । कृष्णप्रतिपत्प्रभृति असितिमा संवर्धते । एतावता जायमान आप्यायमानः क्षीयमाणः चन्द्रमा उपलभ्यते । उक्तं च निरुक्ते - ‘तस्यैको रश्मिश्चन्द्रमसं प्रति दीप्यते’ इति, श्रूयते च - ‘सुषुम्नस्शूर्यरस्मिश्चन्द्रमा गन्धर्वः’ इति । ननु कथं अस्तमिते सवितरि चन्द्रश्चकास्ति? नैष दोषः - भूमेर्दूरेण सूर्यमार्गः ; तेनोपरिमुखानां सूर्यमरीचीनां न व्यवधात्री भूतधात्री भवति । कृष्णपक्षप्रतिपदादिषु चन्द्रमसो बिम्बपूर्वभागं प्रत्यासन्नः सवितेति परमुच्छुक्लमुपपद्यते । अत्र यदुक्तं सौगतैः स्वत एव शुक्लस्य चन्द्रमसः सुर्यसन्निकर्षणाद्वैवर्ण्यं भवतीति, तदयुक्तम् । स्वभावतश्शुक्लस्य सूर्यसन्निकर्षस्स्याच्चेत्तदा शुक्लप्रतिपदादिषु चन्द्रमसो बिम्बस्यापरभागे वैवर्ण्यं स्यात्, सन्निकृष्टत्वात् तस्यापरभागस्य । ततश्चावाङ्मुखश्च[खं च]न्द्रबिम्बमुपलभ्येतेत्यलमतिप्रसङ्गेन ॥

एवं यश्चन्द्रमसा जायमानः प्रादुर्भवन् शुक्लप्रतिपदादिषु आदित्यस्यार्चिषा प्रकाशमानो नवोनवो भवति पुनःपुनः अभिनव एव भवति प्रजानामाह्लादहेतुर्भवति । ‘अनुदात्तं च’ इति द्वितीयो नवशब्दः अनुदात्तः । किं च – अह्नां तिथीनां केतुः तद्वत्केतयिता ज्ञापयिता । कित ज्ञाने । तिथिविभागहेतुत्वात् । उषसां रात्रीणां अग्रे गच्छति अग्रणीः भवति, रजनीनां कर्तृत्वात् । यद्वा - अह्नां केतुः अहरवसाने शुक्लपक्षे प्रतीच्यां दृश्यते, कृष्णपक्षे तु रत्रीणामवसाने प्राच्यां दृश्यते । एवमायन्नागच्छन् अयं देवेभ्यो भागं विदधाति तिथिविशेषनिबन्धनत्वात्सर्वयागानां, आदित्यसन्निकर्षविप्रकर्षनिबन्धनत्वात्सर्वतिथीनाम् । सूर्याचन्द्रमसोर्हि परस्परसन्निकर्षोमावास्या, विप्रकर्षः पौर्णमासीति । इत्थं महाप्रभावोयं चन्द्रमाः दीर्घमायुरस्य प्रतिरति वर्धयतु ॥ यद्वा - आदित्य एव चन्द्रमा उच्यते, चन्द्रस्य माता निर्माता उत्पादक इति । ‘गतिकारकयोरपि’ इत्यसिः, डित्वाट्टिलोपः । स जायमानो दिनेदिने प्राच्यामुद्यन् नवोनवो भवति सदोद्यन्नप्यपूर्व इव भवति । अह्नां केतुः दिवसकरत्वात् । उषसां रात्रीणां अग्रे अग्रतो गच्छति रात्रय एनमनुधावन्ति । एवमायन् उद्यन् देवेभ्यो भागं विदधाति, आदित्यगत्यधीनत्वात्सर्वकर्मणाम् । एवं महानुभावश्चन्द्रमसोप्युक्तवन्निर्माता आदित्यः दीर्घमायुर्वर्धयत्विति ॥

  • १-२-५ मन्त्रटीकायां सूर्यस्फुट-चन्द्रस्पुटविचारः।

मन्त्रः

व॒र्धय॑त्यस्य॒ भ्रातृ॑व्यम् ।
यस्य॑ ह॒विर्निरु॑प्तम्पु॒रस्ता᳚च्च॒न्द्रमा॑ अ॒भ्यु॑देति॑ ।

टीका

वि वा एतमित्यादि ॥ यस्य निरुप्तुं हविरभिलक्ष्य निर्वापे कृते पुरस्तात् पूर्वस्यां दिशि चन्द्रमा उदेति एनं प्रजया पशुभिश्च व्यर्धयति । वर्धयति चास्य भ्रातृव्यं शत्रुं, तथोद्यंश्चन्द्रमाः । विनष्टचन्द्रमायां हि तिथौ कर्मैतद्दर्शाख्यं क्रियते । अनेन चेष्ट्वा प्रजावान् पशुमान् भ्रातृव्यवांश्च संपद्यते । हविरभ्युद्यंश्चायं विपरीतफलस्स्यात् । तस्मान्निर्वापयागयोर्मध्ये यथा चन्द्रमसः पुरस्तादुदयो न भवति तथा कालो ग्रह्यः ॥

अत्र ब्रूमः - अस्य चन्द्रमसो द्वादश दृश्यादृश्यकला अंशाः एतेरंशैरयं दृश्यश्चादृश्यश्च भवति । तत्र स्फुटजिज्ञासायां वखा [शून्यखा] ग्निभिः शतत्रयेण द्वादशभागान् सङ्गणय्य पूर्वस्यां दिशि उदयेऽस्तमये च विचार्यमाणे कर्मद्वयसंस्कृतेनोदयराशिना विभज्य लब्धेनांशादिना युक्तस्स्फुटोर्क उदयार्को भवति । तद्युक्तो यावान् स्फुटोर्कः तावान्यदा गणितानीतोर्को भवति तदा चन्द्रमा उदेति अथ तेनैवांशादिना रहितस्स्फुटोर्को वा अस्तमयार्को वा भवति । तावान्यदा स्फुटोर्को भवति तदा चन्द्रमा अस्तमेति । यदा पुनः प्राच्यां दिश्युदयोस्तमयो वा विचार्यते तदा पूर्ववत्संगुणितान् द्वादशभागान् चन्द्रकर्मद्वयसंस्कृतेऽस्तमयराशिना विभज्य लब्धेनांशादिना स्फुटोर्क उदययुक्त उदयार्को भवति । तद्रहितोस्तमया र्कः । तत्र चन्द्रस्य उदयार्केणास्तमयार्केण वा सह यदन्तरं तस्मिन्नन्तरे यावान् कालः तेन कालेन घटिकादिना उदितोस्तं गतो वा भवति । तत्र द्वेधा चन्द्रस्योदयास्तमयौ यथा प्रतिदिनं च भवतः गोळका प्राप्तिपरित्यागाभ्यां सूर्यस्येव । तथाऽऽदित्यस्यैव सन्निकर्षाद्विप्रकर्षाच्च अस्योदयास्तमयौ भवतः । तदपि कथ्यते - अयं चन्द्रश्शीघ्रगतित्वात् प्रत्यहमर्कसमीपमागच्छति यावत्प्राच्यामस्तं व्रजति । अस्तं गतश्च ततश्शीघ्रगतित्वात् आदित्यमनुदिनं परित्यजति यावत्प्रतीच्यामुदेति । एवमस्यादित्यसन्निकर्षात् विप्रकर्षाच्च प्राच्यामस्तमयः प्रतीच्यामुदयः । तच्चन्द्रार्कयोर्भुक्त्यन्ताः द्वादशमहाभागाः अंशाः । तेन गोळार्धभागानामशीतिशतसङ्ख्यभागे हृते लब्धं पञ्चदश प्रतिपदादयस्तिथयः । तिथिभागघटिके द्वे, दृश्यगोळार्धभागस्य त्रिंशत्घटिकात्वात् । तत्र चन्द्रार्कयोः परो विप्रकर्षः पौर्णमासी, परस्सन्निकर्षोमावास्या । तत्राभीष्टकाले स्फुटभुक्त्यन्तरं स्फुटकालांशादधिकं वा भवेत्तदन्यूनं वा ; अधिकत्वे पञ्चदश्यामपि चन्द्रो दृश्यस्स्यात् । न्यूनत्वे तु चतुर्दश्यां अपि न दृश्येत । तस्मात्तादृशः सूक्ष्मगणनाकौशलशालिना कालोन्वेष्यः ॥