परिचयः
ज्योतिर्-मीमांसा निलकण्ठसोमयाजिकृता। तत उद्धरणानि। pdf अत्र ।
पाठः
पञ्चसिद्धन्तास् तावत् क्वचित् काले प्रमाणम् एव +इत्य् अवगन्तव्यम् । अपि च यः सिद्धान्तः दर्शनाऽविसंवादी भवति सोऽन्वेषणीयः+++(5)+++ । दर्शन-संवादश् च तदानीन्-तनैः परीक्षकैः ग्रहणादौ विज्ञातव्यः । … गणितोन्नीतस्य चन्द्रादेः देश-विशेषान्वयस्य प्रत्यक्षेण संवादः , ततो निश्चितान्वयस्य परस्य गणितलिङ्गोपदेशः , ततस् तस्याप्तोपदेशावगतान्वयस्य +अनुमानं संवादः , परस्मै चोपदेशः इति सम्प्रदायाऽविच्छेदात् प्रामाण्यम् ।
…
ननु “तपोभिᳶ प्रसन्नो ब्रह्मा आर्यभटाय भ-गण-परिध्य्-आदिकं ग्रह-गणन-साधन-भूतं संख्या-विशेषम् उपदिदेश । तद् उपदिष्टं पुनर् आर्यभटः सर्वं यथोपदिष्टम् एव दशभिर् गीतिभिः निबबन्ध” इति केचिन्मन्यन्ते । तस्य कुतः परीक्षणम् ब्रह्मणः सर्वज्ञत्वात् राग-द्वेषाद्य्-अभावाच् च अ-वितथत्व-निश्चयात् इति चेत्+++(5)+++ -
मन्द ! मैवम् । देवता-प्रसादो मति-वैमल्य-हेतुर् एव । न च पुनर् ब्रह्मा आदित्यो वा स्वयम् एवाऽऽगत्य +उपदिशेत्।++(5)+++ एवम् एव वक्ष्यति चानन्तर-सूत्रे-
सद्-असज्-ज्ञान-समुद्रात् समुद्धृतं देवताप्रसादेन।
सज्-ज्ञानोत्तम-रत्नं मया निमग्नं स्वमतिना वा॥
इति।
न पुनर् ब्रह्मोपदिष्टं सद्-असज्-ज्ञान-समुद्र-निमग्नम् । न च तत्र सङ्कीर्णता । सद्-असज्-ज्ञानयोः असज्-ज्ञानम् अनादाय स्वमतिना वा सज्-ज्ञानस्यैव उत्तम-रत्नस्योद्धरणम् उपपद्यते । तस्माद् “ब्रह्मणोपदिष्टम्” इत्य् एतद् आर्यभटीय-वाक्येनैव विरुद्धम् ।
…
तस्मात् शिष्य-प्रशिष्य-परम्परया सर्वैर् अपि परीक्षणं कार्यम् । शिष्याणां ग्रह-गति-परोक्षासामर्थ्यापादनम् एव शास्त्र-प्रयोजनम्। करणानाम् एव हि व्यावहारिकत्वं सूक्ष्मत्वं च स्यात्।