स्थानेश्वर-विचाराः

विप्राणाम् भूतावेशे

विप्राणां वेदाध्ययिनां भूतावेशो न सम्भवः। वेदः ब्रह्म एव, तत्र ब्रह्मस्वभावत्वं नाम वेदमयत्वं, वेदमयत्वं च वेदपारायणात्पृथग्भवितुं न शक्नोति।

तत्र साम्प्रदायिकानाम् आख्यायिका। विद्यारण्यस्वामी गायत्रीपुरश्चरणानन्तरं देवतासाक्षात्कारासक्तः पिशाचीं साधितवान्। परन्तु पिशाचीमपि द्रष्टुमनर्हः स्वगुरुम् अभिप्रेत्य साधना-नैरर्थक्यं निवेदितवान्। तत्र गुरुर् उवाच तं,

पिशाची त्वागच्छति, परन्तु तव गायत्री-साधना-बलेन यस् तेज उद्भूतो ऽस्ति तेन सविधाव् आगन्तुम् असमर्था +इति भोजनं प्रक्षेपयतु।

अपरस्यां निशि स विद्यारण्यः बलिद्रव्यं दूरत एव निक्षिप्तवान्, पिशाची च आकाश एव बलीं स्वीकृतवती। पुनश् च विद्यारण्यो ज्ञातवान्, स एव पिशाच्या बलीयान्, या तं द्रष्टुम् अपि निकटाव् आगन्तुं न शक्नोति।

पुनश्च, मत्-तात-चरणो भूतविद्यां करोति स्म - आयुर्वेददृष्ट्या, पिशाच-ग्रस्तानां स वेद-मन्त्रत एव उपचारं करोतिस्म। आवेश-विषये स उक्तवान्, येषां काया अशुद्धा, तत्र एव पिशाचादिनिवासः आवेशश्च।

अत वैदिकानां भूतावेशो भवति इति न शास्त्रदृष्टं, न लोक-प्रचलितम्।