+आवेशः

  • दैव-समावेश-ग्रहाधारितं किञ्चन लोकप्रियं चलच्चित्रम् प्रसारितम् “कान्तार” इति नाम्ना। SV इति स्मरणीयेषु दृश्येष्व् अन्यतमम् । स्वीया समीक्षा ऽत्र

तुळु-प्रदेशे

भूतशब्देन बहुत्र तुलुवदेशे न प्रेतपिशाचादीनां व्यपदेशः, अपि तु दैवानाम् (←शिवगणादीनाम्) एव। पञ्जुर्लि-कॊरगज्ज-गुलिगादयो नितराम् भक्त्या पूजिता दैवा “भूत”-कोल-नृत्यैस् सावेशैर् आराध्यन्ते तत्र ब्राह्मणसहितैः सर्वैः। केरलेष्व् अप्य् एवम् एव (किञ्च दैव-शब्दस्य विकृतं रूपम् - “तेय्यम्” इति प्रयुज्यते)। तेन नात्र पिशाचादिग्रहो ऽधिगन्तव्यः, अपि तु दैवसमावेशः। किञ्च साधारणतस् तेषाम् आराधनं सच्छूद्रविशेषैः तपस्विभिस् साध्यते, न ब्राह्मणैः।

प्रथमवारम् अयं “भूत-ऐताळ"शब्दश् श्रुतः। (ऐताळ इति तुळु-भाषि-ब्राह्मण-जातिः काचित्। )