ॐ नमो नारायणाय ...{Loading}...
(मन्त्रं यत्नेन गोपयेत्।)
न्यासः
- ना॒राय॑ण ऋषिः॑
- गा॒य॒त्री च्छन्दः॑
- नाराय॒णो दे॒वता॑
ॐ नमो॑ नाराय॒णाय॑।
प्रणवः
‘‘अकारेणोच्यते विष्णुः,
सर्वलोकेश्वरो हरिः ।
उद्धृता विष्णुना लक्ष्मीर्
उकारेणोच्यते तथा ॥
मकारस् तु तयोर् दास
इति प्रणव-लक्षणम्।’’
आंकार-निवेशः (द्रष्टुं नोद्यम्)
“न स्वरः प्रणवोऽङ्गानि नाप्यन्यविधयस्तथा ।
स्त्रीणान्तु शूद्राजातीनां मन्त्रमात्रोक्तिरिष्यते”(नारदीयकल्पम्)
“तत्रोत्तरायणस्यादिर्
बिन्दुमान् विष्णुर् अन्ततः ।
बीजम् अष्टाक्षरस्य
स्यात्तेनाष्टाक्षरता भवेत्”
(नारदीयम् 1-57)
वेदबाह्येभ्यः साम्प्रदायिका ॐ-कारस्य स्थानय् आंकारं ददति - न स्त्री शूद्राव् अधीयेताम् इति।
सर्वत्रांकारम् एव बीजं निगदति प्रयोग-ग्रन्थाः, न प्रणवम्।
तद् इदं नारद-वाक्यानुसारेण समर्थयन्ति -
उत्तरस्य = अयन-शब्दस्य
आदिर् विष्णुः (=अकारः)
बिन्दुमान् अन्ततः
बीजम् अष्टाक्षरस्य।
दक्षिणकलार्यास् तु स्त्री-शूद्रेभ्योऽपि प्रणवं ददति (अरयर्-रामशर्मा ऽत्र ) ।
ते केचित् तद् एव वाक्यं व्याकुर्वन्ति -
अन्ततः, उत्तरायणस्यादिः (= उकारः) बिन्दुमान्, विष्णुः (=अकारः) (च) = बीजम् अष्टाक्षरस्य।
तथा व्याकृते तु,
तद् इदं नारदीयं शास्त्रं
द्विजेतरपक्षे प्रणवं निषिध्य
पुनस् तम् एव प्रणवं विदधातीति
अहो विचित्रम्।
लोकाचार्य-कृते मुमुक्षुपडि-ग्रन्थे मनवाळमुनिव्याख्यानय् उक्तम् -
समस्तपदम् आऩ नारायण पदत्तिल्
नारबदत्तैप् पिरित्तु षडक्षरम् आक्कि,
प्रणवत्तैय् ऒऴिय अष्टाक्षरत्वम् सॊल्लुम् अवर्गळ्-उडैय पक्षम्
अवैदिकम् आगैयाले
अनादरणीयम् आगक् कडवदु।
अस्यैव न्यायस्य आंकारपक्षे ऽपि प्रसङ्ग इति वदन्ति।
एवं शैवागमेष्व् अपि व्यत्यासो दृश्यते - शूद्रेभ्यः पञ्चाक्षरी।
पुनः शब्दक्रमे ऽपि व्यत्यासः -
“नमः शिवाय” इति वेदे वर्तमानम् अभिलक्ष्य
शूद्रा “शिवाय नम” इति वदेयुर् इति।
तत्र सम्प्रदायान्तरेषु लोके तु समानां षडक्षरीं लभमानाः शूद्रा अपि दृश्यन्ते।
नारायणे स्वरः
ॐ नमो॑ नाराय॒णाय॑ … “प्रत्युत्त॑ब्ध्यै सय॒त्वाय॑ ॥” इति प्रसिद्धं तैत्तिरीयवेदवाक्यं दृष्टान्तयन्त्यभिज्ञाः।
इति स्वरं दर्शयन्त्य् अहोबिलमठाह्निकपुस्तके (मन्त्रे तृतीयाष्टमौ स्वरितौ, षष्ठः अनुदात्त इति साम्यम्)।
सर्वभूतस्थम् एकं नारायणम् ।
कारण-रूपम् अकार परं ब्रह्मोम् ।
इत्यत्र “सर्वभूतस्थम्” इत्यनेन बहुव्रीहिर् अप्य् उपगतः।
व्युत्पत्तयः -
नर आत्मा।
ततो जातान्य् आकाशादीनि नाराणि,
तानि कार्याणि अयते कारणात्मना व्याप्नुते नारायणः।
अस्मिन् पक्षे नारायण᳓ इति।
नराज्जातानि तत्त्वानि
नाराणीति विदुर्बुधाः ।
तान्य् एवायनं यस्य
तेन नारायणः स्मृतः॥
अस्मिन् पक्षे नारा᳓यण इति।
“नारञ् च मोक्षणं पुण्यम्,
अयनं ज्ञानम् ईप्सितम् ।
तयोर्ज्ञानं भवेद् यस्मात्
सोऽयं नारायणः स्मृतः”।
अस्मिन् पक्षे नारा᳓यण इति।
मूलम् (द्रष्टुं नोद्यम्)
ओमित्यग्रे व्याहरेत् ।
नम इति पश्चात् ।
नारायणायेत्युपरिष्टात् ।ओमित्येकाक्षरम् । नम इति द्वे अक्षरे । नारायणायेति पञ्चाक्षराणि ।
एतद्वै नारायणस्याष्टाक्षरं पदम् ।
विस्तारः (द्रष्टुं नोद्यम्) - प्रस्तावः
नमसः सखण्डार्थः - न मः (जीवस्य)।
अखण्डार्थः - दास्यम्।
अर्थ-सङ्कलनम् - नारायणः (द्रष्टुं नोद्यम्)
नारायण-शब्दस्य विष्णु-शब्दस्यापेक्षया, वासु-देव-शब्दस्यापेक्षया च
विपुलतरार्थ-प्रपञ्चवान्।
शब्दार्थाः -
-
नरः = न रिष्यते → जीवो, सर्वेश्वरो ऽपि वा (अस्मिन् पक्षे दुर्गुणास्पृष्टत्वात्)।
-
नारः = नरस्यायम्।
-
अयनः = उपायः, उपेयः, गृहम् … ।
- अय (गतौ) - “ल्युट्” (३-३-११५) इति स्थिते, निरुक्त-बलेन पुंस्त्वम् (यद् अपेक्षितं तत्पुरुषसमासान्ते ऽपि)।
-
णत्वं पाणिनिना संज्ञायां विधीयते “पूर्वपदात् संज्ञायामगः" इति।
तेन सर्वत्र विशेष्यं हि नारायणशब्दः। -
बहु-व्रीहि-घटनेन +बहिर्-व्याप्तिः (नारा गृहं यस्य सः)। बहुव्रीहिस्वरो ऽपि वेदेऽस्तीति केचित् - तन्मृग्यम्।
-
तत्-पुरुष-घटनेन +अन्ये ऽर्थाः। वेदे स्वरोऽपि तत्पुरुषपरः।
चतुर्थी (द्रष्टुं नोद्यम्)
चतुर्थी-विभक्त्यर्थः - पारार्थ्यम्।
प्रधान-वस्तु
नैय्यायिक-शाब्द-बोध-प्रकारेण प्रथमाविभक्त्यन्तस्य कर्तुः प्राधान्यम्।
अतः शब्दतो जीवस्य +मकारवाच्यस्य प्राधान्यम्।
अर्थतस् तु नारायणस्य प्राधान्यम् - शेषित्वात्।
वैय्याकरणाभिमत-व्यापार-प्राधान्ये ऽङ्गीकृते तु शेषत्व-सम्बन्ध-प्राधान्यम्।