विष्णुमहापञ्जरम्

नमो नमस् ते गोविन्दं
चक्रं गृह्य सुदर्शनम् ।
प्राच्यां रक्षस्व मां विष्णो
त्वाम्-अहं शरणं गतः ॥

गदां कौमोदकीं गृह्ण
पद्मनाभ नमोऽस्तु ते ।
याम्यां रक्षस्व मां विष्णो
त्वाम् अहं शरणं गतः ॥

हलम् आदाय सौनन्दे
नमस् ते पुरुषोत्तम ।
प्रतीच्यां रक्ष मां विष्णो
त्वाम् अहं शरणं गतः ॥

मुसलं शातनं गृह्य
पुण्डरीकाक्ष रक्ष माम् ।
उत्तरस्यां जगन्नाथ
भवन्तं शरणं गतः ॥

खड्गम् आदाय चर्माथ
अस्त्र-शस्त्रादिकं हरे ।
नमस् ते रक्ष रक्षोघ्न,
ऐशान्यां शरणं गतः ॥

पाञ्चजन्यं महाशङ्खम्
अनुद्बोधं च पङ्कजम्
प्रगृह्य रक्ष मां विष्णो
आग्नेय्यां रक्ष सूकर

चन्द्र-सूर्यं समागृह्य
खड्गं चान्द्रमसं तथा ।
नैरृत्यां मां च रक्षस्व
दिव्यमूर्ते नृकेसरिन्

वैजयन्तीं सम्प्रगृह्य
श्रीवत्सं कण्ठभूषणम् ।
वायव्यां रक्ष मां देव
हयग्रीव नमोऽस्तु ते ॥

वैनतेयं समारुह्य
त्व् अन्तरिक्षे जनार्दन ।
मां रक्षस्वाजित सदा
नमस् ते ऽस्त्व् अपराजित ॥

विशालाक्षं समारुह्य
रक्ष मां त्वं रसातले ।
अकूपार नमस्तुभ्यं
महामीन नमोऽस्तु ते ॥

कर-शीर्षाद्यङ्गुलीषु
सत्य! त्वं बाहुपञ्जरम् ।
कृत्वा रक्षस्व मां विष्णो
नमस् ते पुरुषोत्तम ॥

(गरुडपुराणे वर्तते। वामनपुराणे ऽन्तय् ईषत् पाठभेदः।)