गोविन्दजागरणम्
कौसल्या-सुप्रजा राम
पूर्वा संध्या प्रवर्तते ।
उत्तिष्ठ नर-शार्दूल
कर्त्तव्यं दैवम् आह्निकम् ॥
उत्तिष्ठोत्तिष्ठ गोविन्द
उत्तिष्ठ गरुड-ध्वज ।
उत्तिष्ठ कमला-कान्त
त्रैलोक्यं मङ्गलं कुरु ॥
श्रीसुप्रभातम्
मातस् समस्त-जगतां मधु-कैटभाऽरेर्
वक्षो-विहारिणि मनो-हर-दिव्य-मूर्ते ।
श्री-स्वामिनि श्रित-जन-प्रिय–दान-शीले
श्रीवेङ्कटेश-दयिते तव सुप्रभातम् ॥
तव सुप्रभातम् अरविन्द-लोचने
भवतु प्रसन्न-मुख-चन्द्रमण्डले ।
विधि-शङ्करेन्द्र-वनिताभिर् अर्चिते
वृष-शैल-नाथ-दयिते दया-निधे ॥
वेङ्कटसुप्रभातम्
अत्र्यादि-सप्त-ऋषयस् समुपास्य सन्ध्याम्
आकाश-सिन्धु-कमलानि मनो-हराणि ।
आदाय पाद-युगम् अर्चयितुं प्रपन्नाः
शेषाद्रि-शेखर-विभो तव सुप्रभातम् ॥
पञ्चानन+अब्ज-भव–षण्-मुख–वासवाऽऽद्यास्
त्रैविक्रमादि-चरितं विबुधाः स्तुवन्ति ।
भाषा-पतिः पठति वासर-शुद्धिम् आराच्
छेषाद्रि-शेखर-विभो तव सुप्रभातम् ॥
ईषत्-प्रफुल्ल-सरसी-रुह-नालिकेल-
पूग-द्रुमादि-सुमनोहर-पालिकानाम्+++(=कर्णान्तानाम्)+++ ।
आवाति मन्दम् अनिलः सह दिव्य-गन्धैः
शेषाद्रि-शेखर-विभो तव सुप्रभातम् ॥
उन्मील्य नेत्र-युगम् उत्तम-पञ्जरस्थाः
पात्राऽवशिष्ट-कदली-फल-पायसानि ।
भुक्त्वा सलीलम् अथ केलि-शुकाः पठन्ति
शेषाद्रि-शेखर-विभो तव सुप्रभातम् ॥
तन्त्री-प्रकर्ष-मधुर-स्वनया विपञ्च्या+++(=पञ्चतन्तुवाद्येन)+++
गायत्य् अनन्त-चरितं तव नारदोऽपि ।
भाषा-समग्रम् असकृत् कर-चारु+++(=हस्त-लाघव)+++रम्यं
शेषाद्रि-शेखर-विभो तव सुप्रभातम् ॥
भृङ्गावली च मकरन्द-रसाऽनु-विद्ध-
-झङ्कार-गीत-निनदैः सह सेवनाय ।
निर्यात्य् उपान्त-सरसी-कमलोदरेभ्यः
शेषाद्रि-शेखर-विभो तव सुप्रभातम् ॥
योषा-गणेन वर-दध्नि विमथ्यमाने
घोषाऽलयेषु दधि-मन्थन-तीव्र-घोषाः ।
रोषात् कलिं+++(=कलहम्)+++ विदधते ककुभश्+++(=दिशः)+++ च कुम्भाः,
शेषाद्रि-शेखर-विभो तव सुप्रभातम् ॥
पद्मेश-मित्र–शतपत्र-गतालिवर्गा
+++(स्वसौन्दर्येण)+++ हर्तुं श्रियं कुवलयस्य निजाङ्ग-लक्ष्म्या ।
भेरी-निनादम् इव बिभ्रति तीव्र-नादं
शेषाद्रि-शेखर-विभो तव सुप्रभातम् ॥
श्रीमन्न् अभीष्ट-वरदाखिल-लोक-बन्धो
श्री-श्री-निवास जगदेक-दयैक-सिन्धो ।
श्री-देवता-गृह-भुजान्तर दिव्य-मूर्ते
श्री-वेङ्कटाऽचल-पते तव सुप्रभातम् ॥
श्री-स्वामि-पुष्करिणिका-ऽऽप्लव-निर्मलाङ्गाः
श्रेयोऽर्थिनो हर-विरिञ्च-सनन्दनाद्याः ।
द्वारे वसन्ति वर-वेत्र-हतोत्तमाऽऽङ्गाः
श्री-वेङ्कटाचल-पते तव सुप्रभातम् ॥
श्री-शेष-शैल-गरुडाचल-वेङ्कटाद्रि-
-नारायणाद्रि-वृषभाद्रि-वृषाद्रि-मुख्याम् ।
आख्यां त्वदीय-वसतेर् अनिशं वदन्ति
श्री-वेङ्कटाचल-पते तव सुप्रभातम् ॥
सेवा-पराः शिव-सुरेश-कृशानु-धर्म-
-रक्षोऽम्बु-नाथ–पवमान-धनादि-नाथाः ।
बद्धाञ्जलि-प्रविलसन्-निज-शीर्ष-देशाः +++(सन्ति,)+++
श्री-वेङ्कटाचल-पते तव सुप्रभातम् ॥
धाटीषु+++(=आक्रमणेषु)+++ ते विहग-राज-मृगाधिराज-
-नागाधिराज-गजराज-हयाधिराजाः।
स्व-स्वाधिकार-महिमाधिकम् अर्थयन्ते
श्रीवेङ्कटाचल-पते तव सुप्रभातम् ॥
सूर्येन्दु-भौम-बुध-वाक्पति-काव्य-सौरि+++(=शनि)+++-
-स्वर्-भानु+++(=राहु)+++–केतु-दिविषत्-परिषत्-प्रधानाः ।
त्वद्-दास-दास-चरमावधि-दास-दासाः,
श्रीवेङ्कटाचल-पते तव सुप्रभातम् ॥
त्वत्-पाद-धूलि-भरित-स्फुरितोत्तमाऽङ्गाः
स्वर्गाऽपवर्ग-निरपेक्ष-निजान्तरङ्गाः ।
+++(अग्रिम)+++कल्पाऽऽगमाऽऽकलनयाऽऽकुलतां लभन्ते +++(तदा वेङ्कटाचलो न स्यादिति)+++
श्रीवेङ्कटाचल-पते तव सुप्रभातम् ॥
त्वद्-गोपुराऽग्र-शिखराणि निरीक्ष-माणाः
स्वर्गापवर्ग-पदवीं परमां श्रयन्तः ।
मर्त्या +++(स्वर्गापवर्गौ त्यक्त्वा)+++ मनुष्य-भुवने मतिम् आश्रयन्ते
श्रीवेङ्कटाचल-पते तव सुप्रभातम् ॥
श्री-भूमि-नायक दयादि-गुणाऽमृताब्धे
देवाधि-देव जगदेक-शरण्य-मूर्ते ।
श्रीमन्न् अनन्त-गरुडादिभिर् अर्चिताङ्घ्रे
श्रीवेङ्कटाचल-पते तव सुप्रभातम् ॥
श्रीपद्मनाभ पुरुषोत्तम वासुदेव
वैकुण्ठ माधव जनार्दन चक्रपाणे ।
श्रीवत्स-चिह्न शरणागत-पारिजात
श्रीवेङ्कटाचल-पते तव सुप्रभातम् ॥
कन्दर्प-दर्प-हर सुन्दर दिव्य-मूर्ते
कान्ता-कुचा–ऽम्बु-रुह-कुड्मल–लोलदृष्टे ।
कल्याण-निर्मल-गुणाकर दिव्य-कीर्ते
श्रीवेङ्कटाचल-पते तव सुप्रभातम् ॥
मीनाकृते कमठ+++(=कूर्म)+++-कोल+++(=वराह)+++-नृसिंह-वर्णिन्
स्वामिन् परश्वध+++(=परशु)+++तपो-धन रामचन्द्र।
शेषांश-राम+++(=बलराम)+++ यदु-नन्दन कल्किरूप
श्रीवेङ्कटाचल-पते तव सुप्रभातम् ॥
एला-लवङ्ग-घन-सार-सुगन्धि-तीर्थं
दिव्यं वियत्-सरिति हेम-घटेषु पूर्णम् ।
धृत्वा ऽद्य वैदिक-शिखा-मणयः प्रहृष्टास्
तिष्ठन्ति वेङ्कट-पते तव सुप्रभातम् ॥
भास्वान् उदेति, विकचानि सरोरुहाणि,
सम्पूरयन्ति निनदैः ककुभो+++(=दिशः)+++ विहङ्गाः ।
श्रीवैष्णवाः सततम् अर्थित-मङ्गलास् ते
धामाऽऽश्रयन्ति तव वेङ्कट सुप्रभातम् ॥
ब्रह्माऽऽदयस् सुरवरास् स-महर्षयस् ते
सन्तस् सनन्दन-मुखास् तव योगि-वर्याः ।
धामान्तिके तव हि मङ्गल-वस्तु-हस्ताः
श्रीवेङ्कटाचल-पते तव सुप्रभातम् ॥
लक्ष्मी-निवास निरवद्य गुणैकसिन्धो
संसार-सागर-समुत्तरणैक-सेतो ।
वेदान्त-वेद्य निज-वैभव भक्त-भोग्य
श्रीवेङ्कटाचल-पते तव सुप्रभातम् ॥
फलम्
इत्थं वृषाचल-पतेर् इह सुप्रभातं
ये मानवाः प्रतिदिनं पठितुं प्रवृत्ताः ।
तेषां प्रभात-समये स्मृतिर् अङ्गभाजां
प्रज्ञां परार्थ-सुलभां परमां प्रसूते ॥