वेङ्कटेश-स्तोत्रम्

लोकपतिस्तुतिः

कमला-कुच-चूचुक-कुङ्कमतो
नियताऽरुणिताऽतुल-नील-तनो ।
कमलाऽऽयत-लोचन लोक-पते
विजयी भव वेङ्कट शैलपते ॥

स-चतुर्मुख-षण्मुख-पञ्चमुख-
प्रमुखाऽऽखिल-दैवत-मौलि-मणे ।
शरणाऽऽगत-वत्सल सार-निधे
परि-पालय मां वृष-शैल-पते ॥

पापनाशप्रार्थना

अति-वेलतया तव दुर्-विषहैर्
अनुवेल-कृतैर् अपराध-शतैः ।
भरितं त्वरितं वृष-शैल-पते
परया कृपया परि-पाहि हरे ॥

वेङ्कटेशे प्रपत्तिः

अधि-वेङ्कट-शैलम् उदार-मतेर्
जनताऽभिमताऽधिक-दान-रतात् ।
पर-देवतया गदिता निगमैः
कमला-दयितान् न परङ् कलये ॥

कृष्णे प्रपत्तिः

कल-वेणु-रवाऽऽवश-गोप-वधू-
शत-कोटि-वृतात् स्मर-कोटि-समात् ।
प्रति-पल्लविका+++(=कामुका)+++ऽभिमतात् सुखदात्
वसु-देव-सुतान् न परङ् कलये ॥

रामे प्रपत्तिः

अभि-राम गुणाऽऽकर दाशरथे
जगदेक धनुर्-धर धीर-मते ।
रघु-नायक राम रमेश विभो
वरदो भव देव दया-जलधे ॥

अवनी-तनया-कमनीय-करं
रजनीकर-चारु-मुखाम्बु-रुहम्।
रजनी-चर-राज-तमो-मिहिरं
महनीयम् अहं रघु-रामम् अये ॥

सुमुखं सुहृदं सुलभं सुखदं
स्वनुजं च सुकायम् अमोघ-शरम् ।
अपहाय रघूद्वहम् अन्यम् अहं
न कथञ्चन कञ्चन जातु भजे ॥

वेङ्कटेशे प्रपत्तिः

विना वेङ्कटेशं न नाथो न नाथः
सदा वेङ्कटेशं स्मरामि स्मरामि ।
हरे वेङ्कटेश प्रसीद प्रसीद
प्रियं वेङ्कटेश प्रयच्छ प्रयच्छ ॥

प्रार्थना

अहं दूरतस् ते पदां भोज-युग्म-
प्रणामेच्छया ऽऽगत्य सेवां करोमि ।
सकृत् सेवया नित्य-सेवा-फलं त्वं
प्रयच्छ पयच्छ प्रभो वेङ्कटेश ॥

अज्ञानिना मया दोषान्
अशेषान् विहितान् हरे ।
क्षमस्व त्वं क्षमस्व त्वं
शेष-शैल-शिखामणे ॥