॥ अथ वेङ्कटेशप्रपत्ति ॥
ईशानां जगतोऽस्य वेङ्कट-पतेर् विष्णोः परां प्रेयसीं
तद्-वक्षस्-स्थल-नित्य-वास-रसिकां तत्-क्षान्ति-संवर्धिनीम् ।
पद्मालङ्कृत-पाणि-पल्लव-युगां पद्मासन-स्थां श्रियं
वात्सल्यादि-गुणोज्ज्वलां भगवतीं वन्दे जगन्-मातरम् ॥ १॥
श्रीमन् कृपा-जल-निधे कृत-सर्वलोक
सर्वज्ञ शक्त नत-वत्सल सर्व-शेषिन् ।
स्वामिन् सुशील सुलभाश्रित-पारिजात
श्री-वेङ्कटेश-चरणौ शरणं प्रपद्ये ॥ २॥
आनूपुरार्पित-सुजात-सुगन्धि-पुष्प-
सौरभ्य-सौरभ-करौ सम-सन्निवेशौ ।
सौम्यौ सदाऽनुभवनेऽपि नवानुभाव्यौ
श्री-वेङ्कटेश-चरणौ शरणं प्रपद्ये ॥ ३॥
सद्यो-विकासि-समुदित्वर-सान्द्र-राग-
सौरभ्य-निर्भर–सरो-रुह–साम्य-वार्ताम् ।
सम्यक्षु साहस-पदेषु विलेखयन्तौ
श्री-वेङ्कटेश-चरणौ शरणं प्रपद्ये ॥ ४॥
रेखामय-ध्वज-सुधा-कलश+आतप-त्र
वज्राङ्कुश+अम्बु-रुह–कल्पक-शङ्ख-चक्रैः ।
भव्यैर् अलङ्-कृत-तलौ पर-तत्व-चिह्नैः
श्री-वेङ्कटेश-चरणौ शरणं प्रपद्ये ॥ ५॥
ताम्रोदर-द्युति-पराजित-पद्म-रागौ
बाह्यैर् महोभिर् अभिभूत-महेन्द्र-नीलौ ।
उद्यन्-नखांशुभिर् उदस्त-शशाङ्क-भासौ
श्री-वेङ्कटेश-चरणौ शरणं प्रपद्ये ॥ ६॥
स-प्रेम-भीति कमलाकर-पल्लवाभ्यां
संवाहने ऽपि सपदि क्लमम् आदधानौ ।
कान्ताव् अ-वाङ्-मनस+++(←पाणिनीये निपातनं)+++–गोचर-सौकुमार्यौ
श्री-वेङ्कटेश-चरणौ शरणं प्रपद्ये ॥ ७॥
लक्ष्मी-मही–तद्-अनुरूप-निजानुभाव-
नीलादि-दिव्य-महिषी–कर-पल्लवानाम् ।
आरुण्य-सङ्क्रमणतः किल सान्द्र-रागौ
श्री-वेङ्कटेश-चरणौ शरणं प्रपद्ये ॥ ८॥
नित्यान् नमद्-विधि-शिवादि-किरीट-कोटि-
प्रत्युप्त-दीप्त-नव-रत्न-महः-प्ररोहैः ।
नीराजना-विधिम् उदारम् उपादधानौ
श्री-वेङ्कटेश-चरणौ शरणं प्रपद्ये ॥ ९॥
“विष्णोः पदे परम” इत्य् उदित-प्रशंसौ
यौ “मध्व+++(←कथम्??)+++ उत्स” इति भोग्यतया ऽप्य् उपात्तौ ।
भूयस् “तथे"ति तव पाणि-तल-प्रदिष्टौ
श्री-वेङ्कटेश-चरणौ शरणं प्रपद्ये ॥ १०॥+++(5)+++
पार्थाय तत्-सदृश-सारथिना त्वयैव
यौ दर्शितौ स्व-चरणौ “शरणं व्रजे"ति ।
भूयोऽपि मह्यम् इह तौ कर-दर्शितौ ते
श्री-वेङ्कटेश-चरणौ शरणं प्रपद्ये ॥ ११॥+++(5)+++
मन्-मूर्ध्नि, कालिय-फणे, विकटाटवीषु,
श्री-वेङ्कटाद्रि-शिखरे, शिरसि श्रुतीनाम् ।
चित्ते ऽप्य् अनन्य-मनसां, समम् आहितौ ते
श्री-वेङ्कटेश-चरणौ शरणं प्रपद्ये ॥ १२॥
अ-म्लान-हृष्यद्-अवनी-तल–कीर्ण-पुष्पौ
श्री-वेङ्कटाद्रि-शिखराभरणायमानौ ।
आनन्दिताखिल-मनो-नयनौ तवैतौ
श्री-वेङ्कटेश-चरणौ शरणं प्रपद्ये ॥ १३॥
प्रायः प्रपन्न-जनता-प्रथमावगाह्यौ
मातुस् स्तनाव् इव शिशोर् अमृतायमानौ ।
प्राप्तौ परस्पर-तुलाम् अतुलान्तरौ ते
श्री-वेङ्कटेश-चरणौ शरणं प्रपद्ये ॥ १४॥+++(5)+++
सत्त्वोत्तरैस् सतत-सेव्य-पदाम्बुजेन
संसार-तारक-दयार्द्र-दृग्-अञ्चलेन ।
सौम्योपयन्तृ-मुनिना मम दर्शितौ ते
श्री-वेङ्कटेश-चरणौ शरणं प्रपद्ये ॥ १५॥
शठकोपाक्षेपः (द्रष्टुं नोद्यम्)
तच्चरित्रे
सौम्योपयन्तृमिनेः प्राग् एव कविना तत्र कैङ्कर्यं क्रियमाणम् अवर्तत,
तेन च स्वागतीकृतोऽसौ मुनिर्
इति कथयन्ति।
तर्हि कथम् अत्र “सौम्योपयन्तृ-मुनिना मम दर्शितौ” इति?
अनेन मुनये दर्शिताव् इति स्यात्।
श्रीश श्रिया घटिकया त्वद्-उपाय-भावे,
प्राप्ये त्वयि, स्वयम् उपेयतया स्फुरन्त्या ।
नित्याश्रिताय निरवद्य-गुणाय तुभ्यं
स्यां किङ्-करो वृष-गिरीश, न जातु मह्यम् +++(किङ्करः)+++॥ १६॥
॥ इति वेङ्कटेशप्रपत्ति ॥