॥ अथ वेङ्कटेशमङ्गलाशासनम् ॥
श्रियः कान्ताय कल्याण-
निधये निधयेऽर्थिनां
श्रीवेङ्कट-निवासाय
श्रीनिवासाय मङ्गलम् ॥ १॥
लक्ष्मी-स-विभ्रमालोक-
सु-भ्रू-विभ्रम-चक्षुषे
चक्षुषे सर्वलोकानां
वेङ्कटेशाय मङ्गलम् ॥ २॥
श्री-वेङ्कटाद्रि-शृङ्गाङ्ग्र-
मङ्गलाभरणाङ्घ्रये
मङ्गलानां निवासाय
वेङ्कटेशाय मङ्गलम् ॥ ३॥
सर्वावयव-सौन्दर्य-
सम्पदा सर्वचेतसां
सदा सम्मोहनायास्तु
वेङ्कटेशाय मङ्गलम् ॥ ४॥
नित्याय निरवद्याय
सत्यानन्द-चिद्-आत्मने
सर्वान्तरात्मने श्रीमद्-
वेङ्कटेशाय मङ्गलम् ॥ ५॥
स्वतस् सर्व-विदे सर्व-
शक्तये सर्व-शेषिणे
सुलभाय सुशीलाया
वेङ्कटेशाय मङ्गलम् ॥ ६॥
परस्मै ब्रह्मणे पूर्ण-
कामाय परमात्मने
प्रयुञ्जे परतत्त्वाय
वेङ्कटेशाय मङ्गलम् ॥ ७॥
आ-काल-तत्त्वम्+++(→चिरम्)+++ अश्रान्तं
आत्मनाम् अनुपश्यतां
+++(“अलम्, अवगतम्” इत्य् अवचनेन)+++ अ-तृप्तामृत-रूपाय
वेङ्कटेशाय मङ्गलम् ॥ ८॥
प्रायस् स्व-चरणौ पुंसां
शरण्यत्वेन पाणिना
कृपया ऽऽदिशते श्रीमद्-
वेङ्कटेशाय मङ्गलम् ॥ ९॥
दयामृत-तरङ्गिण्यास्
तरङ्गैर् इव शीतलैः
अपाङ्गैः सिञ्चते विश्वं
वेङ्कटेशाय मङ्गलम् ॥ १०॥+++(5)+++
स्रग्-भूषाम्बर-हेतीनां
सुषमावह-मूर्तये
सर्वार्ति-शमनायास्तु
वेङ्कटेशाय मङ्गलम् ॥ ११॥
श्रीवैकुण्ठ-विरक्ताय
स्वामि-पुष्करिणी-तटे
रमया रममाणाय
वेङ्कटेशाय मङ्गलम् ॥ १२॥
श्रीमत्-सुन्दर-जामातृ-
मुनि-मानस-वासिने
सर्व-लोक-निवासाय
श्री-निवासाय मङ्गलम् ॥ १३॥
मङ्गलाशासन-परैर्
मद्-आचार्य पुरो-गमैः
सर्वैश् च पूर्वैर् आचार्यैः
सत्-कृतायास्तु मङ्गलम् ॥ १४॥
॥ इति वेङ्कटेशमङ्गलाशासनम् ॥