श्रीविष्णुसहस्रनामस्तोत्रम्
सहस्रनाममङ्गलम् ...{Loading}...
नारायणं नमस्-कृत्य
नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं
ततो जयम् उदीरयेत् ॥
शुक्लाम्बर-धरं विष्णुं
शशि-वर्णं चतुर्-भुजम् ।
प्रसन्न-वदनं ध्यायेत्
सर्व-विघ्नोपशान्तये ॥ १॥
यस्य द्विरद-वक्त्राद्याः
पारिषद्याः परः शतम् ।
विघ्नं निघ्नन्ति सततं
विष्वक्सेनं तम् आश्रये ॥ २॥
व्यासं वसिष्ठ-नप्तारं
शक्तेः पौत्रम् अकल्मषम् ।
पराशरात्मजं वन्दे
शुक-तातं तपो-निधिम् ॥ ३॥
व्यासाय विष्णु-रूपाय
व्यास-रूपाय विष्णवे ।
नमो वै ब्रह्म-निधये
वासिष्ठाय नमो नमः ॥ ४॥
अविकाराय शुद्धाय
नित्याय परमात्मने ।
सदैक-रूप-रूपाय
विष्णवे सर्वजिष्णवे ॥ ५॥
सङ्क्षेपः
पद्मपत्रविशालाक्ष पद्मनाभ सुरोत्तम ।
भक्तानाम् अनुरक्तानां त्राता भव जनार्दन ॥२३॥
यो मां नामसहस्रेण स्तोतुमिच्छति पाण्डव ।
सोह ऽमेकेन श्लोकेन स्तुत एव न संशयः ॥२४॥
स्तुत एव न संशय ॐ नम इति ।
वासनाद्वासुदेवस्य वासितं भुवनत्रयम् ।
सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते ॥२५॥
श्री-वासुदेव नमोऽस्तु त ॐ नम इति ।
केनोपायेन लघुना विष्णोर्नामसहस्रकम् ।
पठ्यते पण्डितैर् नित्यं श्रोतुमिच्छाम्यहं प्रभो ॥२६॥
{श्रीराम राम रामेति रमे रामे मनोरमे ।
सहस्रनाम तत्तुल्यं राम नाम वरानने ॥२७॥}+++(त्रिः)+++
श्रीरामनाम वरानन ॐ नम इति ।
नमोऽस्त्वनन्ताय सहस्रमूर्तये
सहस्रपादाक्षिशिरोरुबाहवे ।
सहस्र-नाम्ने पुरुषाय शाश्वते
सहस्रकोटि-युगधारिणे नमः ॥२८॥
सहस्रकोटियुगधारिणे ॐ नम इति ।
ॐ तत्सदिति श्रीमहाभारते
शतसाहस्र्यां संहितायां वैयासिक्याम्
आनुशासनिके पर्वणि
भीष्मयुधिष्ठिरसंवादे श्रीविष्णोर् दिव्यसहस्रनामस्तोत्रम् ॥
कृष्णप्रतिश्रुतिः
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥२९॥+++(५)+++
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥३०॥
परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥३१॥
आर्ता विषण्णाः शिथिलाश्च भीताः
घोरेषु च व्याधिषु वर्तमानाः ।
सङ्कीर्त्य नारायणशब्दमात्रं
विमुक्तदुःखाः सुखिनो भवन्ति+++(var भवन्तु)+++ ॥३२॥
कायेन वाचा मनसेन्द्रियैर् वा
बुद्ध्यात्मना वा प्रकृतेः स्वभावात् । var प्रकृतिस्वभावात् ।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि ॥३३॥
इति श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रं सम्पूर्णम् ।
ॐ तत् सत् ।
महाभारते अनुशासनपर्वणि
Additional Concluding Shlokas
ॐ
आपदाम् अपहर्तारं दातारं सर्वसम्पदाम् ।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥
आर्तानाम् आर्तिहन्तारं भीतानां भीतिनाशनम् ।
द्विषतां कालदण्डं तं रामचन्द्रं नमाम्यहम् ॥
नमः कोदण्डहस्ताय सन्धीकृत-शराय च ।
खण्डिताखिलदैत्याय रामायऽऽपन्निवारिणे ॥
रामाय रामभद्राय रामचन्द्राय वेधसे ।
रघुनाथाय नाथाय सीतायाः पतये नमः ॥
अग्रतः पृष्ठतश्चैव पार्श्वतश्च महाबलौ ।
आकर्णपूर्णधन्वानौ रक्षेतां रामलक्ष्मणौ ॥
सन्नद्धः कवची खड्गी चापबाणधरो युवा ।
गच्छन् ममाग्रतो नित्यं रामः पातु सलक्ष्मणः ॥
अच्युतानन्तगोविन्द नामोच्चारणभेषजात् ।
नश्यन्ति सकला रोगास् सत्यं सत्यं वदाम्यहम् ॥
सत्यं सत्यं पुनस् सत्यम् उद्धृत्य भुजम् उच्यते ।
वेदाच् छास्त्रं परं नास्ति न देवं केशवात्परम् ॥+++(५)+++
शरीरे जर्जरीभूते व्याधिग्रस्ते कलेवरे ।
औषधं जाह्नवीतोयं वैद्यो नारायणो हरिः ॥
आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः ।
इदमेकं सुनिष्पन्नं ध्येयो नारायणो हरिः ॥
यदक्षरपदभ्रष्टं मात्राहीनं तु यद्भवेत् ।
तत्सर्वं क्षम्यतां देव नारायण नमोऽस्तु ते ॥
विसर्गबिन्दुमात्राणि पदपादाक्षराणि च ।
न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तम ॥
Alternate Concluding Shlokas
नमः कमलनाभाय नमस् ते जलशायिने ।
नमस्ते केशवानन्त वासुदेव नमोऽस्तुते ॥
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ।
जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥
आकाशात्पतितं तोयं यथा गच्छति सागरम् ।
सर्वदेवनमस्कारः केशवं प्रति गच्छति ॥
एष निष्कण्टकः पन्था यत्र सम्पूज्यते हरिः ।
कुपथं तं विजानीयाद् गोविन्दरहितागमम् ॥
सर्ववेदेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम् ।
तत्फलं समवाप्नोति स्तुत्वा देवं जनार्दनम् ॥
यो नरः पठते नित्यं त्रिकालं केशवालये ।
द्विकालमेककालं वा क्रूरं सर्वं व्यपोहति ॥
दह्यन्ते रिपवस् तस्य सौम्याः सर्वे सदा ग्रहाः ।
विलीयन्ते च पापानि स्तवे ह्यस्मिन् प्रकीर्तिते ॥
येन ध्यातः श्रुतो येन येनायं पठ्यते स्तवः ।
दत्तानि सर्वदानानि सुराः सर्वे समर्चिताः ॥
इह लोके परे वापि न भयं विद्यते क्वचित् ।
नाम्नां सहस्रं योऽधीते द्वादश्यां मम सन्निधौ ॥
शनैर् दहन्ति पापानि कल्पकोटीशतानि च ।
अश्वत्थसन्निधौ पार्थ ध्यात्वा मनसि केशवम् ॥
पठेन्नामसहस्रं तु
गवां कोटिफलं लभेत् ।
शिवालये पठेन् नित्यं
तुलसीवनसंस्थितः ॥
नरो मुक्तिम् अवाप्नोति
चक्रपाणेर्वचो यथा ।
ब्रह्महत्यादिकं घोरं
सर्वपापं विनश्यति ॥
विलयं यान्ति पापानि
चान्यपापस्य का कथा ।
सर्वपापविनिर्मुक्तो
विष्णुलोकं स गच्छति ॥
॥हरिः ॐ तत्सत् ॥