सहस्रनाममङ्गलम्

नारायणं नमस्-कृत्य
नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं
ततो जयम् उदीरयेत् ॥

शुक्लाम्बर-धरं विष्णुं
शशि-वर्णं चतुर्-भुजम् ।
प्रसन्न-वदनं ध्यायेत्
सर्व-विघ्नोपशान्तये ॥ १॥

यस्य द्विरद-वक्त्राद्याः
पारिषद्याः परः शतम् ।
विघ्नं निघ्नन्ति सततं
विष्वक्सेनं तम् आश्रये ॥ २॥

व्यासं वसिष्ठ-नप्तारं
शक्तेः पौत्रम् अकल्मषम् ।
पराशरात्मजं वन्दे
शुक-तातं तपो-निधिम् ॥ ३॥

व्यासाय विष्णु-रूपाय
व्यास-रूपाय विष्णवे ।
नमो वै ब्रह्म-निधये
वासिष्ठाय नमो नमः ॥ ४॥

अविकाराय शुद्धाय
नित्याय परमात्मने ।
सदैक-रूप-रूपाय
विष्णवे सर्वजिष्णवे ॥ ५॥