नृसिंहमङ्गलम्

अथ राजारामजशङ्करकृतन् नृसिंहमङ्गलम् हरिहरपुर-शारदापीठाय रचितम्।

नृसिंहस्तुतिः

तुङ्गापरिसरागार-
स्फारशृङ्गारकेलये ।
श्रीभुजाश्लेषमुग्धाय
श्रीनृसिंहाय मङ्गलम् ॥१॥

समस्तदनुजाटोप-
तमस्ततिविभेदिने ।
नखेन्दुकान्तिसन्तत्या
श्रीनृसिंहाय मङ्गलम् ॥२॥

निगमान्तगुहागर्भ-
प्रतिध्वनितगर्जित ।
स्वच्छन्दनृहरे तुभ्यं
भगवन्नस्तु मङ्गलम् ॥३॥

आडम्बरगृहीतोग्र-
गदाचक्राय भास्वते ।
नखमात्रायुधायास्तु
श्रीनृसिंहाय मङ्गलम् ॥४॥

सिन्धुकन्यासरोजिन्या-
द्विरेफायैकबन्धवे ।
नरकेसरिणे तस्मै
सदा भवतु मङ्गलम् ॥५॥

शारदास्तुतिः

तुङ्गापुलिनसञ्चार-
क्रीडाकादम्बयोषिते ।
श्रीमत्यै शारदादेव्यै
शश्वद्भवतु मङ्गलम् ॥६॥

शुकपुस्तकरुद्राक्ष-
गुणोज्ज्वलकरे परे ।
शारदे त्रिजगन्मातस्
तुभ्यं भवतु मङ्गलम् ॥७॥

शारदे शङ्कराचार्य-
सपर्यारसरञ्जिते ।
दक्षतीर्थ-जनस्तोम-
स्तुते मङ्गलमस्तु ते ॥८॥

फलस्तुतिः

सभाविद्योतिनी विद्या
प्रतिभा प्रतिभारति+++(=प्रतिवाक्)+++ ।
प्रकर्षो हृदि हर्षस्य
प्रधने+++(=युद्धे)+++ भुजयोर् जयः ॥९॥

सम्पन् निकाम+++(=अतिशय)+++-निष्कम्पा
निलिम्पाभिष्टुतं यशः ।
दारा गुणगणोदारा
नन्दनो नन्दनोज्ज्वलः ॥१०॥

प्राणप्रायाणि मित्राणि
ज्ञातयश्च नये स्थिताः ।
भक्तिर् अस्खलिता धर्मे
नास्तिक्यशमनोद्धुरे ॥११॥

इत्यादि पठतामेतन्
मङ्गलाशासनं प्रगे ।
जायन्ते शारदायाश्च
नृसिंहस्य प्रसादतः ॥१२॥