नृसिंहसुप्रभातम्

अथ राजारामजशङ्करकृतन् नृसिंहसुप्रभातम् हरिहरपुर-शारदापीठाय रचितम्।

आदिमश्लोकौ

करोति रविरुन्निद्रान् उदयाद्रिदरीहरीन् ।
उत्तिष्ठ नृहरे देव द्विरेफ+++(हरिहरशब्दे रेफौ)+++नगरीपते ॥१॥

पूषा पुरुषपारीन्द्र+++(=मृगेन्द्र)+++ स्फुटाम्भोरुहचिह्नया ।
भवानिव श्रिया भाति प्रभो प्राभातिकश्रिया ॥२॥

वसन्ततिलकाः

प्राची त्वदीयविकरालसटासमूह
स्वेच्छाविसृत्वरमरीचिविचित्रितेयम् ।
प्रीतिं परां प्रथयतु प्रगुणानुरागां
श्रीदक्षतीर्थनृहरे तव सुप्रभातम् ॥३॥

गर्भाद् गभस्तिभृद् असाव् उदयाचलस्य
स्तम्भस्य कस्यचन देव भवानिव प्राक् ।
निर्गत्य दैत्यमिव हन्ति निशान्धकारं
श्रीदक्षतीर्थनृहरे तव सुप्रभातम् ॥४॥

प्राप्ताः प्रसादम् असुरेन्द्रवधोत्कटस्य
प्रह्लादवीक्षणवशादिव दृष्टयस् ते ।
कृत्स्नां प्रभो कलुषतामपहाय काष्ठाः+++(दिशः)+++
श्रीदक्षतीर्थनृहरे तव सुप्रभातम् ॥५॥

त्रेन्दुरस्तगिरिमूर्ध्नि विलम्बमानो
निस्तन्द्रसाधितनिशासमयाधिकारः ।
आप्रष्टुमिच्छति भवन्नखबन्धुवर्गं
श्रीदक्षतीर्थनृहरे तव सुप्रभातम् ॥६॥

पूर्वोत्थिता भगवती कलशाब्धि+++(=सागर)+++कन्या
दृष्टिं भवच्चरणपङ्कजयोर् निधत्ते
नीलोत्पलस्रजमिव प्रणयोपनीतां
श्रीदक्षतीर्थनृहरे तव सुप्रभातम् ॥७॥

सद्यो-विकस्वर-सरोरुह-सीधु+++(=मद्य)+++-सङ्गी
तुङ्गासमीर उपसर्पति मन्थरस्त्वाम् ।
पद्मामुखानिलसमानसुगन्धभूमा
श्रीदक्षतीर्थनृहरे तव सुप्रभातम् ॥८॥

पश्य त्वदायतन-हैम-गवाक्ष-मार्गाल्
लब्धप्रवेशम् अरुणांशुसहस्रम् अन्तः ।
पद्मं प्रबोधयति पार्श्वजुषो रमायाः
श्रीदक्षतीर्थनृहरे तव सुप्रभातम् ॥९॥

हार्याणि तस्य वृजिनानि+++(=पीडाः)+++, स रक्षणीयस्
तस्मै वरो वितरणीय इति क्षणेऽस्मिन् ।
सिंहावलोकनविधिं प्रकटीकुरुष्व
श्रीदक्षतीर्थनृहरे तव सुप्रभातम् ॥१०॥

तारास् तुषारकणिका, मृगलोचनानां
मानोद्धुरा विकृतयो - विलयं भजन्ते
चिन्ता इव त्वदनुभूतिसुखस्य जन्तोः
श्रीदक्षतीर्थनृहरे तव सुप्रभातम् ॥११॥

आसन्न-सारस-निवास-वधू-विपञ्ची-
निक्वाण-युक्ति-पुनरुक्तिकृतो निनादैः ।
पूजाप्रसूनमभितो भ्रमरा भ्रमन्ति
श्रीदक्षतीर्थनृहरे तव सुप्रभातम् ॥१२॥

शक्रश् चिराद् विनिहिताञ्जलिर् उत्तमाङ्गे
द्वाराश्रयी तमिह कालमुदीक्षते ऽसौ।
यत्र स्युरस्य फलवन्ति विलोचनानि
श्रीदक्षतीर्थनृहरे तव सुप्रभातम् ॥१३॥

रागोज्ज्वलैः प्रणवषट्चरणानुयातैस्
तत्त्वार्थसूत्रघटितैः प्रथयन्ति पूजाम्
अम्लानगानकुसुमैस् तव नारदाद्याः
श्रीदक्षतीर्थनृहरे तव सुप्रभातम् ॥ १४॥

संसारवारणविदारणदारुणस्य
तुङ्गा-तटी-विपिनसञ्चरणैक-चुञ्चोः +++(=दक्षस्य)+++।
सह्याङ्कवर्तिवर-शाङ्कर-शारदाम्बा-
पीठाह्वगह्वरहरे तव सुप्रभातम् ॥१५॥