अथ राजारामजशङ्करकृतन् नृसिंहदशकम् हरिहरपुर-शारदापीठाय रचितम्।
+++(अत्र पद्येष्वादिप्रासो राजते।)+++
अरिहतकहिरण्यकशिपु-
करिहतिकण्डूल-करजशिखर विभो ।
हरिहरपुरपुरुषहरे परिहर
पुरतः स्थितस्य मे पापम् ॥१॥
कलशोदधि+++(=समुद्र)+++कन्याकुच-
कलशोपरिपरिमृदून् अनूनशिखान् ।
कलशोद्भवभावित-निष्-
कल+++(=मन्द)+++शोभान् नरहरेः स्मरामि नखान् ॥२॥
प्रणवस् तव नवगर्जितम्-
अणवस्तव चरणरेणवो लोकसृजः ।
पणवस्+++(=डमरुवाद्यविशेषः)+++ तव मुनिमानव-
गण-विहिते स्तवनकर्मणि त्रय्यन्तः+++(=वेदान्तः)+++ ॥३॥
पङ्करहिताकृते नख-
टङ्करचितवैरि-हृच्छिलाभिहते ।
शङ्करकलितनुते शङ्-
करमासख्यरस+++(??)+++ नमो भवते ॥४॥
श्रीवदनसुधापायी
नखैरुपायी स कश्चिदनपायी ।
हरिहरनगरस्थायी
जीयान् महिमा फणीन्द्रतलशायी ॥५॥
विहरसि निगमान्तरहसि
दरहसित-मुखाम्बुजो मनुष्यहरे ।
वर-दरहर-दरचक्रोद्-
धुरकर पश्यामि दक्षतीर्थे त्वाम् ॥६॥
कुरुविन्द+++(=पद्मरागरत्न)+++पाटले+++(=रक्ते)+++क्षणम्
अरविन्दनिवासया श्रितं पार्श्वे ।
गोविन्द योगिवन्दित को
विन्दति शर्म न प्रणम्य त्वाम् ॥७॥
डिम्भानुग्रहलीला-
सम्भावित-नरविमिश्रहरिमूर्तेः ।
जृम्भा निशिचरनिद्राऽऽ-
रम्भान्तकरी मुरद्विषो जीयात् ॥८॥
सन्ध्यामिव दनुजाधिप-
वधावसरदानदर्शितोपकृतिम् ।
मूर्ध्नि सटाभरकपटाद्
वहते नुतिरस्तु मनुजकेसरिणे ॥९॥
दशकमिदं मनुजहरेर्
नखदशकमिव स्मरन्ति ये प्रातः।
विगलति हृदयात् तेषां
भीतिभरो मृत्युपाशजन्मापि ॥१०॥