न्यासः
ज्वालामाली करालश् च
भीमश् चैवापराजितः ।
क्षोभणश् च तथ सृष्टिस्
स्थितिः कल्पान्त इत्य् अपि ॥ +++(८)+++
अनन्तश् च विरूपश् च
वज्रायुध-परापरौ ।
प्रध्वंसनश् च विज्ञेयो
विश्वमर्दन इत्य् अपि ॥ +++(+६)+++
उग्रो भद्रश् च मृत्युश् च
सहस्रभुज इत्य् अपि ।
विद्युज्-जिह्वो घोर-दंष्ट्रो
महाकालाग्निर् एव च ॥ +++(+७)+++
मेघनादश् च विकटस्
तथा पिङ्ग-जटोऽपि च ।
प्रदीपो विश्वरूपश् च
विद्युद्-दशन एव च ॥ +++(+६)+++
विदारो विक्रमश् चापि
प्रचण्डस् सर्वतोमुखः ।
वज्रो दिव्यश् च भोगश् च
मोक्षो लक्ष्मीर् अपि क्रमात् ॥ +++(+९)+++
विद्रावणः कालचक्रः
कृतान्तस् तप्त-हाटकः ।
भ्रामकश् च महारौद्रो
विश्वान्तक-भयङ्करौ ॥ +++(+८)+++
प्रतप्तो विजयश् चापि
सर्व-तेजो-मयस् तथ ।
ज्वाला-जटालश् च खर-
नखरो नाद-दारुणः ॥ +++(+६)+++
निर्वाण-नरसिंहश् चेत्य्
एक-पञ्चाशद् ईरितः । +++(+१)+++
कामकलाम् परितो नृसिंहानां ध्यानम्
The nR^isiMha-s are contemplated as 16 handed with lakshMI-s on their left laps. They hold in their 8 right arms: arrow, discus, mace, sword, lasso, hook, thunderbolt and claws with which they are tearing the daitya chief. In their 8 left arms they hold: bow, conch, lotus, shield, club, axe, foil-blade and claws with which they are tearing the daitya chief.
उद्यन्-मार्ताण्ड-कोट्य्-अंशु-
समारुण-तनु-प्रभाः ।
उलूकाकार-पृथुल-
नेत्र-त्रितय-भूषिताः ॥
विदारि-सृक्क+++(=ओष्ठप्रान्त)+++-निर्गच्छद्-
दंष्ट्रा-चन्द्र-कलान्विताः ।
विदीर्ण-विकरालाऽऽस्य-
निर्यज्-जिह्वा-विराजिताः ॥
विमुक्त-चामराकार-
सटा-केशर-मण्डिताः ।
आबद्ध-योग-पट्टान्ता
जानु-न्यस्त-कराम्बुजाः ॥
कोटि-कल्पान्तार्क-समा +++(छन्दोभेदः)+++
भीम-दंष्ट्राट्ट-हासिनः ।
कौस्तुभोद्-भासि-हृदयाश्
श्वेत-पद्मोपरि स्थिताः ॥
किरीट-हार-केयूर-
किङ्किण्य्-अङ्गद-शोभिताः ।
मुखैः कल्पान्त-कालाग्निं
वमन्तस् सर्वतोमुखाः ॥
कराल-भृकुटी-दृष्टि-
सन्त्रासित-जगत्-त्रयाः ।
नख-निर्भिन्न-दैत्येन्द्र-
रुधिरोक्षित-बाहवः ॥
विपाटितान्त्र-निर्गच्छद्-
वसा-लिप्ताङ्क-कुक्षयः ।
अस्त्रैर् विभूषितान् दीर्घान्
भुजान् षोडश बिभ्रतः ॥
शरं चक्रं गदां खड्गं
पाशम् अङ्कुशम् एव च ।
वज्रं विदारणं चापि
दक्षिणेन क्रमाद् अपि ॥
धनुः शङ्खं च पद्मं च
खेटकं मुशलं तथा ।
परशुं पट्टिशं चापि
विदारणम् अतः परम् ॥
वामेन धारयन्तस् ते
रत्नाकल्प-विराजिताः ।
वाम-जङ्घा-सन्निविष्ट-
लक्ष्मीकास् सिद्धि-दायिनः ॥
परिचयः
kAmakalA-kAlI khaNDa of pa~nchAshat sAhasryAM 8.69-76ab