मुक्तकानि

अपवित्रः पवित्रो वा
सर्वावस्थां गतोऽपि वा ।
यः स्मरेत्पुण्डरीकाक्षं
स बाह्याभ्यन्तरः शुचिः ॥

कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्यात्मना वा प्रकृतिस्वभावात् ।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि ॥

ब्रह्माण्डच्छत्रदण्डः शतधृतिभवनाम्भोरुहो नालदण्डः
क्षोणीनौकूपदण्डः क्षरदमरसरित्पट्टिकाकेतुदण्डः ।
ज्योतिश्चक्राक्षदण्डस्त्रिभुवनविजयस्तम्भदण्डोऽङ्घ्रिदण्डः
श्रेयस्त्रैविक्रमस्ते वितरतु विबुधद्वेषिणां कालदण्डः ॥

क्लीं कृष्णाय गोविन्दाय गोपी-जन-वल्लभाय स्वाहा ।

परशुरामः

अग्रतः चतुरो वेदान्
पृष्ठतः सशरं धनुः।
इदं ब्राह्मं इदं क्षात्रं
शापादपि शरादपि॥

हयग्रीवः

ॐ ह्रां हयग्रीवाय नम ॐ स्वाहा!

ज्ञानानन्दमयं देवं
निर्मलस्फटिकाकृतिम् ।
आधारं सर्वविद्यानां
हयग्रीवमुपास्महे ॥

वागीश्वराय विद्महे
हयग्रीवाय धीमहि
तन्नो हंसः प्रचोदयात् ॥