1अयोध्या 2मथुरा 3माया 4काशी 5कांच्यप्य6वन्तिका ।
7 पुरी-द्वारवती चैव सप्तैता मोक्षदायिकाः ॥
सा कामाक्ष स च पुरहरः तस्य सैकाम्रमूर्तिः
काञ्चीक्षेत्रे करिगिरिपदं तून्मतं पुण्यकोट्या ।
यस्येवाङ्ग स्फुरति परितस्स्रोतसा वेगवत्या
क्षेत्राणां तद्दशकमथ तत्सप्तकं योगिदृश्यम् ॥
श्रीमद् द्वारवरं महद्धि बलिपीठाग्र्यं फणीन्द्रहृदं
गोपीनां रमणं वराहवपुषं श्रीभट्टनाथं तथा ।
श्रीमन्तं शठवैरिणं कलिरिपुं श्रीभक्तिसारं मुनिं
पूर्णं लक्ष्मणयोगिनं मुनीवरानाद्यानथ द्वारपौ ॥
श्रीमन्मज्जनमण्डपं सरसिजां हेतीशभोगीश्वरौ
रामं नीलमणिं महानसवरं तार्क्ष्यं नृसिंहं प्रभुम् ।
सेनान्यं करिभूधरं तदुपरि श्रीपुण्यकोटिं तथा
तन्मध्ये वरदं रमासहचरं वन्दे तदीयैर्वृतम् ॥
देवाधीशनृसिंहपाण्डवमहादूतप्रवालप्रभान्
श्रीवैकुण्ठपतिं त्रिविक्रमहरिं नीरेशमेघेश्वरौ ।
नीलव्योमविभुं महोरगहरिं ज्योत्स्नेन्दुवक्त्रं हरिं
चोरेशं कृतचिन्तभक्तहृदयावासं मुकुन्दाह्वयम् ॥
कामावासपतिं नृकेसरिवरं दीपप्रकाशप्रभुं
श्रीयुक्ताष्टभुजायुधेशमनघं श्रीमद्यथोक्तक्रियम् ।
इत्यष्टादशदिव्यमङ्गलवपुर्देवान् सरोयोगिना
साकं कूपवरेण काञ्चि नगरी नाथान् नमामस्सदा ॥