श्रीहस्तिगिरीश-प्रपत्तिः

आकार त्रय संपन्नाम् अरविन्दनिवासिनीम् ।
अशेष जगतीशित्रीम् वन्दे वरदवल्लभाम् ॥ (यामुनमुनेः)
यस्य प्रसाद कलया बधिरः श्रणोति
पङ्गुः प्रधावति जवेन च वक्ति मूकः ।
अन्धः प्रपश्यति सुतं लभते च वन्ध्या
तं देवदेववरदं शरणं गतोऽस्मि ॥ (यामुनमुनेः)
लक्ष्मीकपोलतलकल्पितपत्ररेखा-
कस्तूरिकासुरभि-सस्मित-वक्त्रचन्द्र ।
श्रीहस्तिभूधरसुभूषण तावकेनौ
श्री देवराज चरणौ शरणं प्रपद्ये ॥

सर्वाभिवाञ्चित समस्तवरप्रदान-
विख्यात ! मद्वरद ! राज महः प्रदान !
सर्वाङसुन्दर ! विमृष्य समाधिकार्थ्य !
श्री देवराज चरणौ शरणं प्रपद्ये ॥

सान्देन्द्रनीलमणिचारुतनुप्रकाश –
संराजमान-परभागसुवर्णभूष ।
सौदामनी सततयोगघनोपमेय !
श्री देवराज चरणौ शरणं प्रपद्ये ॥

मूलेति मुक्तगिरिवारिगते करीन्द्रे
वेगागमप्रहततार्क्ष्यगतागतादेः ।
ग्राहक्षतिक्षरदसृक्वप्रमृजाकृतस्ते
श्री देवराज चरणौ शरणं प्रपद्ये ॥

ब्रह्म-त्रिलोचन-सहस्रविलोचनाद्यैः
अभ्यर्चितौ सुरमहीरुहपुष्पजालैः ।
नीराजतौ च नतमौलिमरीचिभिस्ते
श्री देवराज चरणौ शरणं प्रपद्ये ॥

काञ्चीपुरीश करुणाकर देवदेव
देवादिदेव गरुडोपरि देवदेव ।
दासापराधसहदेव सदा त्वदीयौ
श्री देवराज चरणौ शरणं प्रपद्ये ॥

श्रीकाञ्चीपूर्णवचनप्रतिवाक्प्रसादात्
अर्चावतार-समयव्यतिलंघिवृत्तेः ।
लक्ष्यादि-दिव्यमहिषीस्मित-कारिणस्ते
श्री देवराज चरणौ शरणं प्रपद्ये ॥

शेषस्सहस्रफणरत्नसहस्रदीपः
चक्षुः सहस्रयुगवीक्षण-पुष्पवर्षः
यत्त्वां प्रसादयति नाथ ! कलौ युगे ते
श्री देवराज चरणौ शरणं प्रपद्ये ॥

सत्तोत्तकैः सततसेव्यपदाम्बुजेन
संसारधारकवयाद्रदृगञ्चलेन ।
सोम्योपयन्त्रुमुनिना मम दर्शितौ ते
श्री देवराज चरणौ शरणं प्रपद्ये ॥

श्रीश ! श्रिया घटकया त्वदुपायभावे
प्राप्ते, त्वयीतरदुरापतया स्फुरन्त्या ।
नित्याश्रिताय निरवद्यगुणाय तुभ्यं
स्यां किङ्करः करिगिरीश न जातु मह्यम् ॥

इति श्रीहस्तिगिरीश-प्रपत्तिः