कौसल्यासुप्रजा राम पूर्वा सन्ध्या प्रवर्तते ।
उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ॥
उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज ।
उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥
मातः प्रसन्नवरदप्रियवल्लभे त्वां
फुल्लारविन्दविलसच्चरणैकसेव्याम् ।
कल्हारहस्तकलितात्ममुखानुकारां
अग्रे वराभयकरां शरणं प्रपद्ये ॥ १
द्विरदाद्रिसीम्नि वरदाख्यदैवतं
परमं चकास्ति चरमं च वेदिनाम् ।
वहतीह देवि महति त्वया दयां
तनु सुप्रभातमनुतस्य सन्ततम् ॥ २
इह जगति मनीषा भूषणानां जनानाम्
अहमहमिकया ये हर्षदानाय वेषाः ।
तदनु गुणतनूनां तत्तदिष्टार्थसिद्ध्यै
दिशतु वरदराजो देवराट् सुप्रभातम् ॥ ३
सकल-भुवनसीमा-सार्वभौमस्स विष्णोः
हयमख-वरदीक्षा-दक्षिणे पद्मयोनौ ।
भुवन-नयन-भाग्यात् पुण्यकोट्यामुदीतौ
दिशतु वरदराजो देवराट् सुप्रभातम् ॥ ४
भगवति फणिराजे भक्तवात्सल्यसिन्धौ
पद-सरसिज-सेवा प्राप्ति प्रपन्ने ।
तदभिमतफलार्थं तत्सरस्तीरजातः
दिशतु वरदराजो देवराट् सुप्रभातम् ॥ ५
करिगिरिवरभागे कल्पितानेक-भोगे
दिशि दिशि समुदीर्नैः दिग्गजेन्द्रैरशेषैः
अहहरभिजातैः अम्बुजैरर्च्यमानः ।
दिशतु वरदराजो देवराट् सुप्रभातम् ॥ ६
अनिल-सुरप -वह्निश्रीद -भूतेशरक्षो
वरुण-महिषवाहैः वन्द्यमानाङ्घ्रिपद्मः ।
तदुचितफलदायी तत्तदैश्वर्यदायी
दिशतु वरदराजो देवराट् सुप्रभातम् ॥ ७
अखिल-सुरसमूहैः अस्मदाचार्यवर्यैः
अतिनियमविशेषैः आगमोक्तैरनेकैः ।
अनुदिनमतिमोदैः अर्चितो नित्ययोगैः
दिशतु वरदराजो देवराट् सुप्रभातम् ॥ ८
विरचितपतिभावो वेगवद्युत्तरस्याम्
सुचरितपरिपाकैः सूनृतैस्सज्जनानाम् ।
विलसदभयभावो विच्छ्रुतोदारभावो
दिशतु वरदराजो देवराट् सुप्रभातम् ॥ ९
इह जनिमुपयाता यत्पदाम्बोजसेवात्
जनित-जनन-भाग्यात् जायमान प्रभोदाः ।
परम-पुरुष-पादाभ्याशमायान्ति सोऽयं
दिशतु वरदराजो देवराट् सुप्रभातम् ॥ १०
इति विरचितमेतत् सुप्रभाताष्टकम् यः
पठति सततमादौ प्रातरुत्थाय धीरम् ।
तदभिलषितसिद्धिं दातुमेवात्मपाणौ
वहति वरदमुद्रां देवराजन्तमीडे ॥ ११
इति श्रीदेवराज–सुप्रभातं समाप्तम्