पॆरुन्देवित्-तायार्-ध्यानम्

कारुण्यामृतपूर्णलोचनरुचा सन्तर्पयन्तीं हरिं
हस्त्यद्रीशमियं मखाग्निजनितं प्रीत्याभिमुख्यं गतम् ।
पद्मालङ्कृतपाणिकामभयदां ब्रम्हादिभिस्सेवितां
काञ्चीदामपदान्वितामिहमहादेवीं भजेयं श्रियम् ॥

आकारत्रयसम्पन्नां अरविन्दनिवासिनीम
अशेषजगदीशित्रीं वन्दे वरदवल्लभाम् ॥

श्रीप्रणतार्तिहरस्तोत्रम्
वरदं वरदन्तिह्रुदातपहृ-
च्छरदं शरदंबुजनेत्रयुग्मम् ।
दर-दिव्यरथाङ्गधरं मधुरं
मधुराङ्गजधाममहः कलये ॥

प्रसीद देव प्रणतार्तिनाशन
प्रभावितोऽहं भवताव्ययात्मना ।
तदव्ययं ज्योतिरचिन्त्यमक्षरं
त्वमेव विज्ञानमयं जनार्दन ॥ (हस्तिगिरिमाहात्म्ये – ८.१३)

अणोरणीयां समनन्तमव्ययं
महान्तमव्यक्तमनीशमीश्वरम् ।
परात्परं कारणकारणं हरिं
गुणाधिकं त्वां वरदं समाश्रये ॥ (हस्तिगिरिमाहात्म्ये – ८.१४)

नमो मत्स्यकूर्मादिनानास्वरूपैः
सदा भक्तकार्योद्यतायार्तिहन्त्रे ।
सुरारातिसंहारहेतोरिहाद्रौ
गुहाग्रे निवेशादहेरुद्गताय ॥ (हस्तिगिरिमाहात्म्ये – १०.२९)

चक्राब्जहस्ताय भक्ताभयाय
संवर्तकालानलाभाननाय ।
दंष्ट्राकराळाय विद्युत्षटाय
सिंहाय तुभ्यं नतास्स्मो नतास्स्मः ॥ (हस्तिगिरिमाहात्म्ये – १०.३०)

इति श्रीप्रणतार्तिहरस्तोत्रम्