भगवन्मानसपूजा

हृद्-अम्भोजे कृष्णः सजल-जलद-श्यामल-तनुः
सरोजाक्षः स्रग्वी मुकुट-कटकाद्य्+++(=कङ्कणाद्य्)+++-आभरणवान् ।
शरद्-राका-नाथ–प्रतिम-वदनः श्रीमुरलिकां
वहन् ध्येयो गोपी-गण-परिवृतः कुङ्कुम-चितः ॥ १॥

पयोऽम्भोधेर् द्वीपान् मम हृदयम् आयाहि भगवन्
मणि-व्रात-भ्राजत्-कनक-वर-पीठं भज हरे ।
सुचिह्नौ ते पादौ यदु-कुलज नेनेज्मि सुजलैर्
गृहाणेदं दूर्वा-फल-जल-वद्-अर्घ्यं मुर-रिपो ॥ २॥

त्वम् आचामोपेन्द्र त्रिदश-सरिद्-अम्भोऽतिशिशिरं
भजस्वेमं पञ्चामृत-रचितम् आप्लावम् अघहन् ।
द्यु-नद्याः कालिन्द्या अपि कनक-कुम्भ-स्थितम् इदं
जलं तेन स्नानं कुरु कुरु कुरुष्वाचमनकम् ॥ ३॥

तडिद्-वर्णे वस्त्रे भज विजय+++(लक्ष्मी)+++-कान्ताधि-हरण
प्रलम्बारि-भ्रातर् मृदुलम् उपवीतं कुरु गले ।
ललाटे पाटीरं+++(=चन्दनगन्धं)+++ मृग-मद-युतं धारय हरे
गृहाणेदं माल्यं शत-दल-तुलस्यादि-रचितम् ॥ ४॥

दशाङ्गं धूपं सद्-वरद चरणाग्रे ऽर्पितम् अये
मुखं दीपेनेन्दु-प्रभव-रजसा देव कलये
इमौ पाणी वाणी-पति-नुत सकर्पूर-रजसा
विशोध्याग्रे दत्तं सलिलम् इदम् आचाम नृहरे ॥ ५॥

सदा तृप्तान्नं षड्-रसवद्-अखिल-व्यञ्जन-युतं
सुवर्णाऽमत्रे+++(=पात्रे)+++ गो-घृत-चषक-युक्ते स्थितम् इदम् ।
यशोदा-सूनो तत् परम-दयया ऽशान सखिभिः
प्रसादं वाञ्छद्भिः सह तद्-अनु नीरं पिब विभो ॥ ६॥

सचूर्णं ताम्बूलं मुख-रुचिकरं भक्षय हरे
फलं स्वादु प्रीत्या परिमलवद् आस्वादय चिरम् ।
सपर्या-पर्याप्त्यै कनक-मणिजातं स्थितम् इदं
प्रदीपैर् आरात्रिं जलधि-तनयाऽऽश्लिष्ट रचये ॥ ७॥

विजातीयैः पुष्पैर् अभि-सुरभिभिर् बिल्व-तुलसी-
युतैश् चेमं पुष्पाञ्जलिम् अजित ते मूर्ध्नि निदधे
तव प्रादक्षिण्य-क्रमणम् अघ-विध्वंसि रचितं
चतुर् वारं विष्णो जनि-पथ-गतेश् चान्त-विदुषा ॥ ८॥

नमस्कारो ऽष्टाङ्गः सकल-दुरित-ध्वंसन-पटुः
कृतं नृत्यं गीतं स्तुतिर् अपि रमाकान्त त इयम् ।
तव प्रीत्यै भूयाद् अहम् अपि च दासस् तव विभो
कृतं छिद्रं पूर्णं कुरु कुरु नमस् ते ऽस्तु भगवन् ॥ ९॥

सदा सेव्यः कृष्णः सजल-घन-नीलः कर-तले
दधानो दध्यन्नं तद् अनु नवनीतं मुरलिकाम् ।
कदाचित् कान्तानां कुच-कलश-पत्रालि-रचना-
समासक्तस् स्निग्धैः सह शिशु-विहारं विरचयन् ॥ १०॥

मणि-कर्णीच्छया जातम्
इदं मानस-पूजनम् ।
यः कुर्वीतोषसि प्राज्ञस्
तस्य कृष्णः प्रसीदति ॥ ११॥

इति श्री शङ्कराचार्यविरचितं भगवन्मानसपूजनम् ॥