अच्युताष्टकम्

अच्युतं केशवं रामनारायणं
कृष्ण-दामोदरं वासुदेवं हरिम् ॥
श्रीधरं माधवं गोपिका-वल्लभं
जानकी-नायकं रामचन्द्रं भजे ॥ १॥

अच्युतं केशवं सत्यभामा-धवं
माधवं श्री-धरं राधिका-राधितम् ॥
इन्दिरा-मन्दिरं चेतसा सुन्दरं
देवकी-नन्दनं नन्दनं संदधे ॥ २॥

विष्णवे जिष्णवे शङ्खिने चक्रिणे
रुक्मिणी-रागिणे जानकी-जानये ॥
वल्लवी-वल्लभायाऽऽर्चितायाऽऽत्मने
कंस-विध्वंसिने वंशिने ते नमः ॥ ३॥

कृष्ण गोविन्द हे राम नारायण
श्रीपते वासुदेवाऽजित श्रीनिधे ॥
अच्युतानन्त हे माधवाधोक्षज
द्वारका-नायक द्रौपदी-रक्षक ॥ ४॥

राक्षस-क्षोभितः सीतया शोभितो
दण्डकारण्य-भू-पुण्यता-कारणः ॥
लक्ष्मणेनान्वितो वानरैः सेवितो
ऽगस्त्य-संपूजितो राघवः पातु माम् ॥ ५॥

धेनुकाऽऽरिष्ट+++(ऽशुभ)+++को ऽनिष्टकृद् द्वेषिणां
केशिहा कंस-हृद् वंशिका-वादकः ॥
पूतना-कोपकः सूरजा+++(=यमुना)+++-खेलनो
बाल-गोपालकः पातु मां सर्वदा ॥ ६॥

विद्युद्-उद्द्योतवत्-प्रस्फुरद्-वाससं
प्रावृड्-अम्भोदवत्-प्रोल्लसद्-विग्रहम् ॥
वन्यया मालया शोभितोरःस्थलं
लोहिताङ्घ्रि-द्वयं वारिजाक्षं भजे ॥ ७॥

कुञ्चितैः कुन्तलैर् भ्राजमानाननं
रत्न-मौलिं लसत्-कुण्डलं गण्डयोः ॥
हार-केयूरकं कङ्कण-प्रोज्ज्वलं
किङ्किणी-मञ्जुलं श्यामलं तं भजे ॥ ८॥

अच्युतस्याष्टकं यः पठेद् इष्टदं
प्रेमतः प्रत्यहं पूरुषः सस्पृहम् ।
वृत्ततः सुन्दरं कर्तृ-विश्वंभरं
तस्य वश्यो हरिर् जायते सत्वरम् ॥ ९॥