मासेशाः केशवादयः

देवः प्रमुखास्त्रम् चान्द्रमासः
केशवः चक्रम् मार्गशीर्ष
नारायणः शङ्खम् पौष
माधवः गदा माघ
गोविन्दः शार्ङ्गम् फाल्गुन
विष्णुः हलम् चैत्र
मधुसूदनः मुसलम् वैशाख
त्रिविक्रमः खड्गम् ज्येष्ठ
वामनः वज्रम् आषाढ
श्रीधरः पट्टः श्रावण
हृषीकेशः मुद्गरः भाद्रपद
पद्मनाभः पञ्चायुधानि आश्विन
दामोदरः पाशः कार्तिक

अवान्तरव्यूहत्वम् - वासुदेवात् केशवादित्रयम्, सङ्कर्षणाद् गोविन्दादि-त्रयम्, प्रद्युम्नात् त्रिविक्रमादित्रयाविर्भावः, अनिरुद्धात् हृषीकेशादित्रयाविर्भावः।

स्रोतांसि

  • अहिर्बुध्न्यसंहितायाम्