आधार-शक्त्यादि-नमनम्

सङ्क्षेपः

कूर्मादीन् दिव्यलोकं तदनु मणिमयं मण्डपं तत्र शेषं
तस्मिन् धर्मादिपीठं तदुपरि कमलं चामरग्राहिणीश्च।
विष्णुं देवीं विभूषायुधगणमुरगं पादुके वैनतेयं
सेनेशन्द्वारपालान् कुमुदमुखगणान् विष्णुभक्तान् प्रपद्ये॥