यच्चिद्धि ते

+++(हरदत्तो ऽत्र। सायणो ऽत्र, अत्र च।)+++

०१ यच्चिद्धि ते ...{Loading}...

य᳓च् चिद्+धि᳓ ते वि᳓शो यथा+++(=विश इव)+++,
प्र᳓ देव वरुण व्रत᳓म् ।
मिनीम᳓सि+++(=तर्कयामः)+++ द्य᳓वि-द्यवि+++(=दिने दिने)+++ ।

०५ यत्किं चेदं ...{Loading}...

य᳓त् किं᳓ चेदं᳓ वरुण दै᳓व्ये+++(←देव+यञ्)+++ ज᳓ने+++(देवेषु)+++,
ऽभिद्रोहं᳓ मनुष्या᳙श् च᳓रामसि।
अ᳓चित्ती य᳓त् त᳓व ध᳓र्मा युयोपिम᳓+++(विनाशयामः)+++,
मा᳓ नस् त᳓स्माद् ए᳓नसो देव रीरिषः ॥

०८ कितवासो यद्रिरिपुर्न ...{Loading}...

+++(ऋत्विजः)+++ कितवा᳓सो य᳓द् रिरिपु᳓र्+++(=लिलिपुः)+++ न᳓ दीवि᳓+++(देवकर्मणि)+++,
य᳓द् वा ऽघा सत्य᳓म् उत᳓ य᳓न् न᳓ विद्म᳓ ।
स᳓र्वा ता᳓ वि᳓ष्य+++(=विनाशय)+++ शिथिरे᳓व+++(=शिथिला +इव)+++
देवा᳓था ते स्याम वरुण प्रिया᳓सः ॥