शारदास्तुतिः

अथ राजारामजशङ्करकृता शारदास्तुतिः हरिहरपुर-शारदापीठाय रचिता।

+++(मालिनीवृत्तम्)+++

हरिहरपुरवासा चन्द्रिकाचारुहासा
निगमनुतविलासा निस्तुला देहभासा ।
कृतजडिमनिरासा व्यक्तविद्याविकासा
जयति जनितदासा-नुग्रहा शारदा सा ॥१॥

करपरिचितकीरा जुष्टतुङ्गाप्रतीरा
कुचरचितपटीरा सागराम्भोगभीरा ।
मकुटघटितहीरा पातु नो धीरधीरा
शशिविशदशरीरा शारदा शुभ्रचीरा ॥२॥

श्रुतिषु धृत-रिरंसा+++(रन्तुमिच्छा)+++ चन्द्रलेखावतंसा
भवबल+++(?)+++रिपुकंसारातिबद्धप्रशंसा ।
शुकशिशुलसदंसा पादसंसक्तहंसा
दिशतु जितनृशंसा शारदा मङ्गलं सा ॥३॥

अवधिरमलतायाश्चारुतारासहायाभरणभृदनपाया भञ्जिताशेषमाया । जगदनवधि पायाद्वारिजावासजाया सकलकविनिकायाराधिता देवता या ॥४॥

भवतु मम समक्षा बोधयन्ती विवक्षामखिलभुवनरक्षानर्मनिर्माणदक्षा । परिचितसितपक्षा कापि देवी बलक्षाकृतिरुपनतयक्षामर्त्यसिद्धर्षिलक्षा ॥५॥
त्वममृतरसधाराकम्बुगङ्गाम्बुतारासहचरघनसाराभ्यस्तकान्तिप्रसारा । सरसिजभवदारा भावुकानामुदारा विघटितभवभारा शोभसे निर्विकारा ॥६॥
मसृणचरणपाता मौनिवृन्दानुयाता दृशि पृथुरवदाता भासि मध्ये च शाता ।
जयतु भुवनमाता सृष्टशब्दार्थजाता यदधरमधुपाता स्तौति यामेव धाता ॥७॥
निटिलधृतललामा साधिताशेषकामा हरिहरपुरधामाधिष्ठिता कापि वामा । अवतु कमलदामालङ्कृता सा त्रियामासखशकलधरा मामल्पहासाभिरामा ॥८॥
विलसति कदने या देवसार्थानुनेया विहरति निगमे या धीमतामप्रमेया । स्फुरति कलियुगे या शङ्कराचार्यगेया प्रवणमतिरजे या पातु सा मामजेया ॥९॥
दशकमिति पठन्तः शारदामूर्तिमन्तःकरणमधि वहन्तः सन्ततं हन्त सन्तः । विदधति मतिमन्तः काव्यमानन्दयन्तः सकलजगदनन्तश्रेय उल्लासयन्तः ॥१०॥