सरस्वती मया दृष्टा
वीणा-पुस्तक-धारिणी ।
हंस-वाहन-संयुक्ता
विद्या-दान-करी मम ॥
प्रथमं भारती नाम
द्वितीयं च सरस्वती ।
तृतीयं शारदा-देवी
चतुर्थं हंस-वाहिनी ॥
पञ्चमं जगद्-विख्याता
षष्ठं वागीश्वरी तथा ।
कौमारी सप्तमं प्रोक्तम्
अष्टमं वरदायिनी ॥
नवमं बुद्धि-दात्री च
दशमं ब्रह्मचारिणी ।
एकादशं शुद्ध-कण्ठा
द्वादशं भुवनेश्वरी ॥
द्वादशैतानि नामानि
त्रिसन्ध्यं यः पठेन् नरः ।
तस्य वसतु जिह्वाग्रे
ब्रह्मरूपा सरस्वती ॥