सरस्वती
सरस्वति नमस्तुभ्यं
वरदे कामरूपिणि ।
विद्यारम्भं करिष्यामि
सिद्धिर्भवतु मे सदा ॥
या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना।
या ब्रह्माच्युत शंकरप्रभृतिभिर्देवैः सदा वन्दिता
सा माम् पातु सरस्वती भगवती निःशेषजाड्यापहा॥
घण्टाशूलहलानि शङ्ख मुसले चक्रं धनुः सायकं
हस्ताब्जैर्धदतीं घनान्तविलसच्छीतांशुतुल्यप्रभाम्।
गौरी-देह-समुद्भवां त्रिजगताम् आधारभूतां महा-
पूर्वाम् अत्र सरस्वती मनुभजे शुम्भादिदैत्यार्दिनीं॥
मुनिवन्दनम्
येनाक्षरसमाम्नायमधिगम्य महेश्वरात् ।
कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ।
वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिम् ।
पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् ॥
कूजन्तं राम रामेति
मधुरं मधुराक्षरम् ।
आरुह्य कविताशाखां
वन्दे वाल्मीकिकोकिलम् ॥
यः पिबन् सततं रामचरितामृतसागरम् ।
अतृप्तस्तं मुनिं वन्दे प्राचेतसमकल्मषम् ॥
व्यासाय विष्णुरूपाय, व्यासरूपाय विष्णवे।
नमो वै ब्रह्मनिधये, वासिष्ठाय नमो नमः ॥
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥