गायत्री सावित्री सरस्वती

प्रातर्ध्यायामि गायत्रीं
रविमण्डलमध्यगाम् ।
ऋग्वेदम् उच्चारयन्तीं
रक्त-वर्णां कुमारिकाम्
अक्षमाला-करां ब्रह्म-
दैवत्यां हंस-वाहनाम् ।

मध्यन्दिने तु सावित्रीं
रविमण्डल-मध्यगाम् ।
यजुर्वेदं व्याहरन्तीं
श्वेतां शूलकरां शिवाम् ।
युवतीं रुद्रदेवत्यां
ध्यायामि वृष-वाहनाम् ।

सायं सरस्वतीं श्यामां
रविमण्डलमध्यगाम् ।
सामवेदं व्याहरन्तीं
चक्रायुध-धरां शुभाम् ।
ध्यायामि विष्णुदैवत्यां
वृद्धाङ् गरुड-वाहनाम् ।